देवालये करोनाया वैद्य एवार्चको भवेत् ।
सेनिटैसर् हि तीर्थः स्यात् क्लोरोक्वीन् हि निवेदनम् ॥ १ ॥
सर्वधर्मान् परित्यज्य विज्ञानं शरणं व्रज ।
तदेव कोविदात् कृच्छ्रात् मोक्षयिष्यति मा शुचः ॥ २ ॥
कोविड्गदनिरोधार्थं विस्मृत्य प्रथितं वचः ।
मुखप्रक्षालनात्पूर्बं हस्तप्रक्षालनं कुरु ॥ ३ ॥
काव्याज्जगत्कोविदभूतशस्तं तप्तं ज्वरान्निःश्वसनेऽपि रुद्धम् ।
देवी सुवस्त्रावृतवक्त्रनासा बाहुद्वयादेव विलोकयन्ती ॥ ४ ॥
तदाभूत् पूर्वाह्ने जननिबिडपार्श्वो नृपपथः
चतुष्चक्रैर्व्याप्तः सततघनघंटारवकरैः ।
इदानीं सुप्तः किं नहि भयजमूर्छाप्रतिहतः
करोनाभीतोऽसौ गतरवनिशीथभ्रमकरः ॥ ५ ॥
यावदेति न भुवोऽयमासुरोऽपूर्वभीकरगदोऽथ कोविदः ।
तावदुल्बणमनोजबाधितां प्रार्थये नतशिराः न मां स्पृश ॥ ६ ॥
इत्थमश्रुपतनैस्तिरोहिते भाषिते मदनपीडिते प्रिये ।
किं किमापतितमित्यथाऽनयोः काव्यकोविदगिरामगोचरम् ॥ ७ ॥