अविरलघनतां ये लोहवत् प्राप्तवन्तो
स्वकृतिजलविमग्नाः कर्मदक्षा भवन्ति।
सुविरलघनतां ये काष्ठवत् प्राप्तवन्तः
स्वकृतिषु न विमग्नास्तेऽपवाह्या भवन्ति॥१॥
अन्योन्यसङ्कर्षणचोदितौ यथा न्यूटन्-विधिं पालयतो धराविधू ।
आचार्यशिष्यौ चरतस्तथादृतौ परस्पराकर्षणबद्धमानसौ ॥ २ ॥
जीवन्मुक्तो बाष्पनिभः सर्वं व्याप्नोति लीलया ।
क्वथ्यमानाम्बुसङ्काशो मुक्तिमार्गानुगो मुनिः ॥ ३ ॥
मृत्कुम्भे निहितं वारि यथा ग्रीष्मेऽपि शीतलम् ।
भवतापेऽपि शान्तं स्यात् तथैव वशिनो मनः ॥ ४ ॥
अवक्रयष्टिरुदकेऽलम्बं तिष्ठति चेत्तदा
वक्रीभूत इवाभाति पश्यताम् पयसस्तले ॥
न यष्टिर्वक्रतां याति साधुनी पश्यतोऽक्षिणी
विज्ञानदृष्ट्या पश्येश्चेत् भ्रमाभासो निरस्यते ॥ ५-६ ॥
अल्पेन चन्द्रेण तिरोहितो भवेत्
सूर्यः प्रचण्डः पृथुगात्रवानपि ।
लोके तथा सत्त्ववतां समर्थता
भृशं निवार्येत जनेन केनचित् ॥ ७ ॥