४२ मां ताडयत्युत्सुका

चायं सुस्मितफेनभासरुचिरं सुप्तप्रबुद्धाय मे

स्वौष्ठस्पर्शमधु प्रपूर्णचषके दत्ते किलामोदवत्।

कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया

शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका ॥ १ ॥

दूरादागतमाननाङ्कितमुदा द्वार्येव संपृच्छति

क्लान्तः किम् सफलः श्रमः पिबसि किंचात्सीति मन्दस्मिता।

कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया

शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका ॥ २ ॥

व्याघातैर्बहुभिर्युते सफलतां कार्येऽहमाप्नोमि चेत्

मुञ्चत्याकुलतां प्रसह्य विजहत्यानन्दबाष्पं प्रिया ।

कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया

शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका ॥ ३ ॥

मातुर्गेहमहं व्रजामि कतिचिद्रात्रीरिति प्रस्थिता

आगत्यैव परेद्यवि त्वदशने चिन्तेति मां भाषते।

कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया

शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका ॥ ४ ॥