४१ आर्योपवनम्

आयान्त्वार्याःस्वागतमुपवनमारादुदारमृदुहृदयाः ।

पश्यन्त्वस्मिन् तरवो भवन्ति गुल्मा श्चवल्लर्यः ॥ १ ॥

वनपालरोपितलताः कतिपय तरवो निसर्गसंवृद्धाः ।

सुरभीनि सुमान्यत्र प्रकृष्टवर्णानिचान्यत्र ॥ २ ॥

गन्धरहितानि पेशलवर्णयुतानि कुसुमानि सन्त्यस्मिन् ।

तान्यपि कदाचिदुचितागदेषु बहुशःप्रयुक्तानि ॥ ३ ॥

स्तम्बादिपादपा अपि दृश्यन्तेऽत्र बहुशो निरुद्देशाः।

जीवानामुद्देशो जीवनमेवेतिकथयन्तः ॥ ४ ॥

आरामा नैके कुत अधुनायमपर इहेति मा पृच्छेः ।

वनपस्तुष्टिं विन्दति रोपणकर्मणि न संशीतिः ॥ ५ ॥

शाद्वल न त्वं भविता गुरुर्न कुसुमं फलं न ददासि भोः ।

कथमपि कुत्रापि त्वं जीवन् चिरं क्षपयसि कालम् ॥ ६ ॥

रुग्ण कुतस्त्वं धावसि वैद्यस्यगृहं गृहोपवनमेहि ।

गुल्मा लताश्च तरवो ददते भेषजममोघं ते ॥ ॥ ७ ॥

यानस्थाने कृषकः प्रतीक्षते खलु समाप्य कार्याणि ।

यानेन स्वग्रामं गन्तुं सायं परिश्रान्तः ॥ ८ ॥

नाविक तारयसि त्वं पथिकं सरितं यमद्य करुणालुः ।

विद्याः स एव तीर्त्वा भवितोपपतिस्तव गृहिण्याः ॥ ९ ॥

पिबसि क्षीरं क्षुधितो निमीलिताक्षो बिडाल निश्चिन्तः ।

सर्वे पश्यति दृष्टो नाहमिति दृढं मनुषे कथम्? ॥ १० ॥

पथिके वदति तपति ममभालं किमुपशमनं वदेत्यार्ते ।

कृपणस्तैली तैलं न ददानो भणति कष्टं भोः ॥ ११ ॥

नम्रो लतादशायां नाभूद्भवति कथमद्य यो वृक्षः ।

गच्छान्यत्र स्यात्स्निग्धोमसृणःश्रमेणालम् ॥ १२ ॥

मुसलः पेषणकर्मणि जरितः स भवति कदापि न हि भोक्ता ।

सन्त्यन्ये भोक्तारो पिष्टस्य तदेवविधिलिखितम् ॥ १३॥

पश्य धनिकोऽभवमहो इति दृप्तो धरति कालयामिन्याम् ।

श्वेतातपत्रमूर्ध्वमुपहसितं न गणयन्मूर्खः ॥ १४ ॥

नालर्को भषति दशति न श्वा यो भषणशील इत्युक्तिः ।

ज्ञाता वानेन शुना धावनमेव वरमिति मन्वे ॥ १५ ॥

पुरजनभरिते याने पुरुषो तिष्ठन् प्रयातिबहुदूरम् ।

गम्यस्थानाभ्याशे लभते पीठं स किमुपविशेत्? ॥ १६ ॥

भवति हि मयैव सर्वं निर्मलमिति मा कदापि दृप्तो भूः ।

फेनक भवितासि त्वं मलिनो नरस्तदा निर्मलं कर्ता ॥ १७ ॥

विप्रः स्वीकृतवस्त्रं दाने माति हि रहः सुनिर्लज्जः।

किञ्चिल्लब्धं भूयान्मम भाग्यमिति भवति न तुष्टः ॥ १८ ॥

आस्तां मैत्री शृणु मां सदा करीषवणिजा सह स्नेहात् ।

गन्धोपजीविना सह नियत द्वन्द्वकलहो हि वरम् ॥ १९ ॥

सम्स्पृश्योष्णं नीरं तप्ताङ्गुलिरर्भकोपि दधि शीतम् ।

स्पृशति हि विना प्रमादं फूत्कृत्यान्यत्रभयभीतः ॥ २० ॥

गलितरदस्य प्राप्ती राशिःभृष्टचणकस्य किं कार्यम् ।

वज्ररदः क्षुधित अहो लभते न हि चणकमप्येकम् ॥ २१ ॥

सूदस्य सुतः पृष्टो वर्णय चन्द्रस्य वृद्धिमसिते पक्षे ।

पाककलायां सिक्तो भक्ष्यासक्तो वदति मन्दम् ॥ २२ ॥

तेङ्कोलुशकलतुल्यो फुल्लति वै मधुरकोलकट्टैवत् ।

वासितदोसाकान्तिं मुष्णात्यन्ते विधुरिड्लीवत् ॥ २३ ॥

रजकस्य रासभमसौ ददाति खलु नर्तकाय दानार्थम् ।

अपि गच्छति नाकं वा कारागारं न जानीमः ॥ २४ ॥

पुष्प! कदापि त्वं मा दर्शय दुर्मदमनित्यमस्ति यशः ।

त्वत्परिमलवर्णौ श्वो सायं यास्यत अवकराब्धिम् ॥ २५ ॥

साक्षात्कर! नवरसद!त्वममितहर्षं ददासि सर्वेषाम् ।

तन्व्या कयापि यन्त्रितचर्यः सा तवकलत्रं किम् ॥ २६ ॥

दीर्घवपुस्त्वं विद्युद्दीप ज्वलितो प्रकाशमानोऽसि ।

ज्वलने कुतो विलम्बस्त्वय्यादिष्टे प्रकाशार्थम् ॥ २७ ॥

बधिरः पचति हि पक्वं मूको भुङ्क्ते दिने दिने तूष्णीम् ।

अन्नं सुसाधितं वा न वा भगवतापि न ज्ञातम् ॥ २८ ॥

प्रमदाभिसरणशीला जारगृहं गन्तुमादृता रात्रौ ।

पत्ये दधि कर्तुम् सातञ्चनकर्म प्रयतते किम् ॥ २९ ॥

घटकारः कष्टेन हि कुरुते घटमेकमुत्सुकः प्रीत्या ।

दण्डेन कोऽपि बालः शकलीकुरुते सलीलं तम् ॥ ३० ॥

देवो प्रणताय यथावरं सलीलं ददीत करुणालुः ।

ममताजुष्टो पूजकवर्यो न तथार्थिने दद्यात् ॥ ३१ ॥

आम्रस्यान्तः कठिनं न स्वाद्यं बहिरसाम्यमाधुर्यम् ।

कण्टकितं खलु पनसं बहिरन्तस्तु मधुजुष्टं स्यात् ॥ ३२ ॥

द्राक्षाफले च सेबे सर्वं स्वाद्यंतदेववैविध्यम् ।

प्रकृतौ रसिकः स्वाद्यं यत्तदनुभवेत्त्यजेदन्यम् ॥ ३३ ॥

मा पिबयात्रिकतालद्रुमतलमाश्रित्य गोरसमदुष्टम् ।

मन्वत इतरे मद्यं पिबत्ययं मत्त इति पान्थाः ॥ ३४ ॥

धेनुरियं साधुवराकमपि न बाधतइति स्तुवन्त्यन्ये ।

गोपालमेव दोहनसमयेऽसौ बाधते बहुधा ॥ ३५ ॥

अधिपोपि सहस्राणां तुरगानां भवति हि गृहिणीदासः ।

धावत्याहूतोऽयं पत्न्या वद किमुत सामान्याः ॥ ३६ ॥

वीजन! दृष्ट्वा शिखिनं नृत्यन्तमिमं वृथानुकुरुषे त्वम् ।

क्व मयूरनृत्यलीला क्व ते स्खलितपदकुसञ्चारः ॥ ३७ ॥

काञ्चनसूच्या विध्यसि निपुणं यद्यात्मनः शरीरं त्वम्

बाधां नानुभवसि किं सूच्याः शितता हि निजधर्मः ॥ ३८ ॥

वप पूगद्रुमबीजं रोहेद्यदि ते भविष्यति समृद्धिः ।

नो चेच्चिन्तां मा कुरु बीजं मात्रं त्वया नष्टम् ॥ ३९ ॥

यदि भक्षयेद्धनाढ्योऽखाद्यं मनुते जनो भिषग्दत्तम् ।

यद्यत्ति निर्धनो तत्तदा वदति हन्त दारिद्र्यम् ॥ ४० ॥

बोधयितुं शक्यं किल सुप्तं तारस्वरेण सर्वेषाम् ।

सुप्तमिव निश्चलं त्वं जागरयसि केनमार्गेण ॥ ४१ ॥

जलमपि सिन्धौ मुञ्चतियदि मित्वा किल विमुञ्चति प्राज्ञः ।

मानं विना न कुर्याद्दानं किञ्चन तथादानम् ॥ ४२ ॥

भर्तुरतृप्तस्य भवति दध्यपि शुद्धं शिलाशकलजुष्टम् ।

प्रायेणातृप्तिः खलु पश्यति दोषं विना हेतुम् ॥ ४३ ॥

त्वमुलूखलेवुपविशसि यदि मुसलाघातरोधनं स्यात्किम्?

अन्यत्र गच्छ मूढ प्राणान्संरक्ष शरणार्थिन् ॥ ४४ ॥

प्रतिवेशिनः सुतं यो प्रणुदति वाप्यां गभीरतां मातुम् ।

तस्य प्रतिवेशी कोऽपि न भविता खलु विना मूढम् ॥ ४५ ॥

मृत्कुम्भं श्वश्रूर्यदि खण्डयति तदा न किञ्चिदपि नष्टम् ।

गलितो भग्नःकुम्भः करात्स्नुषायास्तुबहुमूल्यः ॥ ४६ ॥

कण्डूयसि क्षतं यदि वारं वारं पुरातनं मूढे ।

भविता नवं नवं त न्नकदापि विरोपितं शमितम् ॥ ४७ ॥

कतमेन वर्त्मना त्वं गच्छसि बहुधाऽत्र भिद्यते मार्गः ।

कतमोऽपि वृतो शक्यं भविता न निवर्तनं विद्धि ॥ ४८ ॥

पक्वा दोसा रन्ध्रैः पूर्णा भवति हि गृहेषु सर्वेषाम् ।

अस्मद्गृहे तु भर्जनमेव सरन्ध्रं भवति हन्त ॥ ४९ ॥

श्रुत्वा सूते वृष इति भृत्यस्योक्तिं जगाद गोपस्त्री।

सेवक शीघ्रं बन्धय गामित एवागमिष्यामः ॥ ५० ॥

पादपशाखाजनितः सरुः कुठारस्य हन्त बहुशीघ्रम् ।

स्वकुलस्यैव भविष्यति कठोरमृत्युर्वद किमित्थम् ॥ ५१ ॥

पुच्छं शुनकस्य यथा सरलीकरोषि तथैव वक्रःसः ।

व्यर्थस्तवप्रयत्नः जहाति स कदापिन स्वगुणम् ॥ ५२ ॥

काचगृहो वसतिस्तव तथापि हिंससि शिलाभिरन्यान्स्त्वम् ।

वेत्सि न कथं तव गृहो नष्टःस्यादश्मनैकेन ॥ ५३ ॥

वृक्षोऽयं तु पिपतिषति कस्मात्पातयितुमिच्छसि परशुना ।

भवति हि वृथा श्रमस्ते सद्यः श्वो वापतत्येव॥ ५४ ॥

परशुर्भनक्ति काष्ठं खनति खनित्रं गभीरविवरं द्राक् ।

शत्रुं हन्ति शितासिः करणंत्ववलम्बते कार्यम् ॥ ५५ ॥

मलदूषितान्तरीयान् कथमित्थं परिहसत्स्वन्येषु त्वम् ।

मार्जयसि बहिरनुचितं शीघ्रंत्वं गच्छ निलयान्तः ॥ ५६ ॥

बालः कश्चन चषकेऽन्या कापि नयति बृहत्कलशयुगले ।

गङ्गाया जलममलं पिपीलिकापि स्ववदनान्तः ॥ ५७ ॥

नद्याः पूरे वहति प्रसभं क्रोष्ट्रीं विनष्टं भुवनमहो |

इति सा क्रन्दति गतवति जीवे सर्वं खलु गतं भोः || ५८ ||

चिररुग्णो नववैद्यादधिकतरं रोगलक्षणमवैति ।

बहुशो ऽवैत्यगदगुणानपि भिषजोऽप्यधिकतरमेव ॥ ५९ ॥

मेषे गर्ते निपतत्येकैकस्तं प्रताडयति मर्त्यः |

निष्कारणमश्मभिः पतितस्य जगति गतिश्चिन्त्या || ६० ||

पीत्वा भेषजमधुना सपदीच्छसि किं निरामयत्वं रुग्ण? |

कालेनैवह्यगदः परिणमति सहस्व शान्तमनाः || ६१ ||

कुल्यालङ्घनकर्मणि साधितमूनं मनागपि भवेच्चेत् ।

लङ्घनकर्तुः पतनं कुल्यायां साधितं विद्धि ॥ ६२ ॥

गृहदीप इति ज्वालां स्पृशसि यदि न दहति किं तव करं सा ।

निलये विपिने वा सा मुञ्चति न कदापि निजधर्मम् ॥ ६३ ||

गम्यस्थाने दृष्टिं दूरान्न्यस्य निकटे पदे पान्थ ।

स्खलसि यदि पतेः गर्तेऽगाधे चर सावधानं भोः ॥ ६४ ॥

यावद्दूरं काम्ये गृध्नुरवतरस्युपत्यकां मूर्ख ।

तावद्दुस्साध्यस्ते भविष्यति खलु पुनरारोहः ॥ ६५ ॥

शैलारोहणनिरतस्तुङ्गस्थाने चरेदवहितो वै।

नो चेत् स्खलनाच्छीघ्रं व्रणितो भग्नो भजति नैच्यम् ॥ ६६ ॥

तिन्तिड जरठः कृशितः श्वो वान्येद्युः पतिष्यसि गतायुः ।

कृशितं तथापि न कुतो ऽम्लत्वं दृष्टं तव फलानाम् ॥ ६७ ॥

क्षुधितेन शुना पूतिकमन्नं लब्धं समुचितसंव्यूहः ।

अन्यल्लभेत किं श्वा खादेत्कोऽन्यो वद कदन्नम् ॥ ६८ ॥

नृत्ये विफला काचित् पश्यति दोषं नटी नटनरङ्गे ।

को विश्वसिति हि तस्यां विहाय तस्याः प्रियाभिजनान् ॥ ६९ ॥

पदकम्दुकखेलायां बहुशो पटुनापि लक्ष्यपालेन ।

लक्ष्यं न रक्ष्यते खलु तथापि स भवति न निरवश्यः ॥ ७० ॥

लक्ष्यस्य भेदकोऽयं तस्य सहाया भवन्ति खेलायाम् ।

अस्यैव यशो वित्तं लोको जानाति न तदितरान् ॥७१ ॥

“गुरुवपुषस्तव भारं वहसि त्वं गज कथं विनायासम्?” ।

इति पृष्टोऽवददाखुं वहसि यथा त्वं तथैवाहम् ।। ७२ ॥

परिणय ललनां कामपि विनाविलंबमिति विप्रमवदत्स्त्री ।

प्रत्यवदत्तां विप्रः सिद्धोऽहं मां वृणीष्व त्वम् ॥ ७३॥

वसतिर्धनिकस्य गृहे मांससमृद्धमशनं त्रिवारं ते ।

वीथीसरमां समलामनुधावसि शुनक निर्लज्जः ॥ ७४ ॥

ब्रह्मास्त्रेण दशमुखं युद्धे रामो जघान तेजस्वी ।

तस्याप्यभवदवश्यं सारथिना स्मारणममोघम् ॥ ७५ ॥

तरुमूले दृष्टोऽयं सर्पो व्रणितो जहाति न प्राणान् ।

तस्य लगुडेन ताडनमारान्न जहाति पोगण्डः ॥ ७६ ॥

जङ्घां दीर्घीकुरुषे शय्याविस्तृतिमतीत्य यदि पान्थ ।

निद्राभंगः शीतौ पादौ भीतिर्भुजङ्गेभ्यः ॥ ७७ ॥

वीणावादनचतुरो जनयति मधुरध्वनिं स्ववीणायाः ।

अनभिज्ञैरितरैः किं बालैः शक्यं तथाकर्तुम् ॥ ७८ ॥

यदि वादयसि मनोज्ञं वेणुं पुरतस्तवादृतमहिष्याः ।

सा शृणुयात् किं लभते गानश्रवणजरसास्वादम् ॥ ७९ ॥

निम्नं गच्छति सलिलं ससुखं तुङ्गस्थलादनिर्बद्धम् ।

शक्तिरवश्या भूरि प्रवणविरुद्धं जलं नेतुम् ॥ ८० ॥

शुनको भषतु प्रोच्चैरुन्नमितमुखो यथेच्छममितगर्वः ।

नष्टा किमिन्द्रनगरी निपतति गगनं किमुद्वेगात् ॥ ८१ ॥

यात्रिक कुशलं प्रीत्या पृच्छस्यन्यान्सखेव याने त्वम्।

कस्त्वं के ते गम्यस्थाने प्राप्तेऽवतरसि द्राक् ॥ ८२ ॥

लब्धा लभ्या सागरमथने लब्धं च नेप्सितं गरलम् ।

नापास्यद्यदि रुद्रस्तद्वद वृत्तं किमभविष्यत् ॥ ८३ ॥

पूर्विकरोपितवृक्षच्छाया वसतिः फलान्यशनमस्य ।

नवतरुरोपणमस्य न कार्यं कत्थति तरुरयं मे ॥ ८४ ॥

दीपं झञ्झावातेऽपि नय रजन्यां भवेत्स पथदर्शी ।

वाते निर्वाप्यत इति कदापि जह्यान्न करदीपम् ॥ ८५ ॥

सस्यात् गुणवन्मरिचं दूषितमप्येवमस्ति लोकोक्तिः ।

दूषितसस्यमपि भवेन्न यदा मरिचस्य का वार्ता ॥ ८६ ॥

प्लवनं शिक्षितुमिच्छसि किं त्वं ग्रन्थपठनेन विद्यार्थिन् ।

प्लवनाभ्यासं कुर्यादुदके नान्यो विकल्पस्स्यात् ॥ ८७ ॥

सायं प्रातः सलिलस्रोतः प्रवहति निरन्तरं नद्याम् ।

गाधजले जलजानां वृद्धिः ह्रासो मृतिश्चान्ते ॥ ८८ ॥

भार्ये वर्षारम्भो गुरोरुपस्थितिरिहागतो बन्धुः ।

एकत्राद्य सुसमयोऽयमाचर महः पच सुभक्ष्यम् ॥ ८९ ॥

ज्वलनकणस्य क्षमताऽपारा स दहति वनानि च पुराणि ।

दीपयति तैलदीपानेकैकं च प्रकाशार्थम् ॥ ९० ॥

मृत्कलशे रन्ध्रयुते जलमानेतुं यदि प्रयतसे भोः ।

भवति श्रमस्तव वृथा मित्रैश्चोपहसितो भवसि ॥ ९१ ॥

क्षोभयसि जलं निश्चलमन्तःकर्दममकारणं यदि चेत् ।

सलिलमपेयं सरसश्चिराय भवति त्यजन्ति जनाः ॥ ९२ ॥

उद्घाटय तव निलये तावद्वातायनानि वात्वनिलः ।

सर्वाशाभिर्यावन्न त्वां स न पातयति चण्डः ॥ ९३ ॥

“किं नष्टमभूत्ते वद” “कुण्डलम्” “इह किं” “न, तत्र तरुमूले” ।

“मृगयसि कुत इह ललने” “तत्र तमो भवति दीपोऽत्र“॥ ९४ ॥

शकटीयुगबद्धवृषभयुगलस्यैकस्तु जिगमिषति सिन्धुम् ।

अन्यो जिगमिषति गृहं वृषलः क्षेत्रं प्रयाति कथम्? ॥ ९५ ॥

तोलयसि सुवर्णं यदि काष्ठतुलायां प्रशंसति न कोऽपि ।

अवलंबते तुलाया वरणं हि पदार्थसान्द्रत्वम् ॥ ९६ ॥

घनवस्तु द्रवरूपं तनुते भजति द्रवस्त्वनिलरूपम् ।

तापात् बन्धाः शिथिलीभवन्ति नियमः स अनिवार्यः ॥ ९७ ॥

यावन्न भवति वृत्ताकारस्तावत्पदे पदे बालः ।

वृत्तस्यासमखण्डान् घटयति विघटयति च न खिन्नः ॥ ९८ ॥

आर्येऽचिरपरिचितजनमीदृशममितसुखभाजनं कुरुषे ।

का त्वं कोऽहं कथमयममूल्यरमणीयसंसर्गः ॥ ९९ ॥

निर्गमनिरते मृदुपदशिञ्जितपुलकितरसज्ञजनवन्द्ये ।

आर्ये वर्णालङ्कृतचरणे भवतात्पुनर्मिलनम् ॥ १०० ॥

——– पद्यसूची