०१
वणिग्वरः कश्चिदुवास वित्तवान् हरेः कृपापात्रगतो स्वकर्मणा ।
प्रियासमेतो नगरे महापुरे स्वधर्ममाश्रित्य सुनन्दनाभिधः ॥ १ ॥
सुनन्दनस्याप्रतिमा वधूः क्षमा स्वभर्तुरिष्टा गुणरूपसम्पदा ।
परस्परश्रीप्रथनेन बन्धुरौ निशामृगाङ्काविव तौ बभूवतुः ॥ २ ॥
तयोर्द्वयोर्धर्म्यसुखेषु सक्तयोरजायतापूर्वसुखप्रदा सुता ।
प्रमोदयन्ती पितरौ स्वलीलया शरीरबद्धार्जितसत्कृतिर्यथा ॥ ३ ॥
सुतप्तजाम्बूनदवर्णभास्वरा शिरीषपुष्पादपि कोमलाकृतिः ।
विलोकनेनैव महार्घहर्षदा यथार्थनाम्नी खलु चन्द्रिकाभिधा ॥ ४ ॥
शिशुर्जनन्याः स्तनपानवाञ्छया यदा रजन्यामरुदत् पिता द्रुतम् ।
प्रियात्मजाप्रेमतुलानवस्थितो प्रसुप्तपत्नीं कथमप्यबोधयत् ॥ ५ ॥
यदार्भकः सर्तुमथ प्रवर्तते पुरः प्रयासेन शनैः स्ववक्षसा ।
त्रिविक्रमक्रान्तिनिभस्तयोस्तदा हिमालयारोहणवन्महोत्सवः ॥ ६ ॥
तडित्प्रभावत्स्फुरदुज्ज्वलस्मितं प्रदर्शयन्तीं तनयां यदृच्छया ।
क्षमा निजाङ्के विनिवेश्य निर्वृता मुहुर्मुहुश्चुम्बति नैव तृप्यति ॥ ७ ॥
वचोभिरप्यर्थविवर्जितैः शिशोः पिता त्वभिप्रायचयान् हि बुध्यते ।
यथाम्बरे मेघपरम्पराकृताववैति बालो मृगरूपशृङ्खलाम् ॥ ८ ॥
स्वकायमुद्धृत्य करौ धरातले निवेश्य जानुद्वयमप्यसौ सुता ।
यदा परिक्रामति वीक्षितुं जगन्निमज्जतस्तौ खलु हर्षसागरे ॥ ९ ॥
विनाश्रयं तिष्ठति चन्द्रिकाद्य वै अहो परिक्रामति भित्तिमाश्रिता ।
विनावलम्बं चलितुं प्रवर्तते पुरः स्वशक्त्येत्यभवन्समुत्सवाः ॥ १० ॥
कुतूहलप्रेरितचेष्टनोद्यता सुता यदा भ्राम्यति वेश्मनि द्रुतम् ।
तया कृतो नूपुरशिञ्जितस्वनः कुटुम्बसङ्गीतलयः प्रतीयते ॥ ११ ॥
मनोज्ञमस्पष्टमुदीरितं तया क्षमा यदाम्बेति पदं प्रशुश्रुवे ।
विवेद सौख्यं परमं तथा मुनिर्महेशसालोक्यपदे यथा भजेत् ॥ १२ ॥
यदा सुता प्रश्नसुमैः शतैः क्षमामवाकिरद्रम्यपदैर्निरन्तरम् ।
तदुत्तरप्राप्तिमुपेक्ष्य चुम्बिता मुखेऽम्बया वाक्प्रतिबन्धनाशया ॥ १३ ॥
पुराणरामायणभारतोद्धृताः कथाः पिता श्रावयति स्म चन्द्रिकाम् ।
प्रदोषकाले नलिनैः सहात्मजाविलोचने मीलत इत्यपेक्षया ॥ १४ ॥
०२
याते काले चन्द्रिकाभूत्कुमारी शालां यान्ती हृद्यमित्रैः समेता ।
पित्रोस्तस्या इङ्गितेष्टार्थसिद्धौ प्रेम्णा सर्वं कुर्वतोरात्मतृप्त्यै ॥ १५ ॥
पुत्र्यां शुभ्रैः हासकल्लोलफेनैरानन्दाब्धौ मज्जयन्त्यामुभौ तौ ।
व्याधिग्राहः प्राहरत् द्राक्क्षमां तामीर्ष्याग्रस्तं किं भवेद्दैवमेवम् ॥ १६ ॥
व्याधेर्बाधां दुस्सहां सा कथञ्चित् सोढुं येते चन्द्रिकाक्षोभभीत्या ।
आप्तानां वै शोभनाकांक्षया यत् कुर्वन्त्याशाबाधनं सम्भवेत्तत् ॥ १७ ॥
व्याधिव्याधो वागुरां ग्लानिरूपां प्रक्षिप्यास्याः कोमले श्लक्ष्णदेहे
भामिन्येणीं रोदयामास यावत् वैद्यान् भर्तानाययत्तावदेव ॥ १८ ॥
वैद्या रुग्णां नैकरीत्या परीक्ष्य काम्यादन्यं निर्णयं प्राप्तवन्तः ।
रोगस्तस्या भेषजातीतवृत्तिं प्राप्तस्तस्माद्दुर्गमः स्वास्थ्यमार्गः ॥ १९ ॥
वैद्या ऊचुर्नैगमं ते प्रियाया भैषज्यार्थं कुर्महे सर्वयत्नान् ।
दैवायत्तं स्वास्थ्यमस्या इदानीं नोपेक्ष्यः स्यादादितो व्याधिवह्निः ॥ २० ॥
काले काले सेव्यमाना स्वभर्त्रा मृत्योर्भीताऽभक्षयत् श्रद्दधाना ।
सर्वान् जायून्वैद्यदत्तान् तथापि ग्रीष्मे कुल्येवाभजत्कार्श्यमाशु ॥ २१ ॥
आर्ता तन्वी म्लानपुष्पोपमा सा स्वास्थ्यप्राप्तिं काङ्क्षमाणा कथञ्चित् ।
द्रष्टुं याता तापसं सुप्रसिद्धं दीनानां वै ज्ञानिनो विष्णुकल्पाः ॥ २२ ॥
पूज्य ज्ञानिन्नाश्रितानां शरण्यं दीना चाहं प्रश्रिता त्वां प्रपद्ये ।
व्याधित्रस्तामेकपुत्रीं च साध्वीं कारुण्याब्धे पाहि मामित्यवोचत्॥ २३ ॥
सिद्धो वृद्धो तां दयापूर्णदृष्ट्याऽपश्यत् पश्चात् मीलिताक्षो बभूव ।
पश्यन्ती सा तं मुनिं ध्यानमग्नं भ्रान्ते चित्ते कामपि प्राप शान्तिम् ॥ २४ ॥
शूलं व्याधेस्तत्क्षणादेव नष्टं दीप्ते दीपे ध्वान्तवत् गेहकक्षे ।
विस्मृत्याधिं शान्तचित्ता ययाचे साधौ पश्यत्यञ्जसोन्मील्य नेत्रे ॥ २५ ॥
आश्चर्यं मे ग्लानिरन्तर्दधाति त्वत्प्रेमौघप्लाविता वल्लरीव ।
स्वार्थं किञ्चित् कामये नापि भूयात् पुत्र्याः स्वामिन् जीवने सद्विभूतिः ॥ २६ ॥
ज्ञानी तस्याः प्रार्थनां स्मेरवक्त्रः शृण्वन् तां स्वप्रेमदृष्ट्याभ्यषिञ्चत् ।
वत्से माभीरित्यवोचत्तथैव प्रादात् पुत्र्यै गुह्यमन्त्रोपदेशम् ॥ २७ ॥
मन्त्रं तावत् त्वं प्रयुङ्क्ष्व त्रिरेव बाले नो चेत् निष्फलत्वं स गच्छेत्
तस्मात् भूयात् दत्तमन्त्रप्रयोगः कृच्छ्रेष्वेव स्वल्पकार्ये न वत्से ॥ २८ ॥
इत्थं सिद्धश्चन्द्रिकां बोधयित्वा हर्षोत्सिक्तां तां क्षमामित्यवोचत् ।
ब्रह्माण्डेऽस्मिन् शाश्वतं नास्ति किञ्चिन्निश्चिन्ताभूर्न्यस्य भारं रमेशे ॥ २९ ॥
साधुप्रोक्तां वाचमास्वादयन्ती पुत्र्या साकं सा क्षमा शान्तचित्ता ।
प्रत्यावृत्ता स्वालयं नष्टभीतिः सन्तः पोष्यश्रेयसे सिद्धहस्ताः ॥ ३० ॥
चित्तं तस्या शारदाकाशतुल्यं स्वच्छं शान्तं सर्वदाभूत्तथापि ।
प्राप्तिस्तस्याः संसृतौ सीमितासीत् रोगार्तागादूर्ध्वलोकं जवेन ॥ ३१ ॥
तस्याः पुत्र्याः शोकसंप्लावितायाः को वा लोके सान्त्वनं हन्त कुर्यात् ।
मातृप्राया का भवेदर्भकस्य मातानन्या देहिनां सर्ववन्द्या ॥ ३२॥
मातू रूपं दृश्यते सर्वतोऽस्याः वाण्यस्पष्टं श्रूयते सर्वकाले ।
स्पर्शः स्निग्धो भासते स्वप्नमध्ये वात्सल्यार्द्राह्वानशैली न लब्धा ॥ ३३ ॥
बाष्पार्द्राक्षीमात्मजां सान्त्वयित्वा कोपाक्रान्तां स्मेरवक्त्रां चकार ।
क्षुद्बाधां स्वां लीलया नावलोक्य प्रादादन्नं पीडयन्त्यै सुतायै ॥ ३४ ॥
सोढ्वा पुत्र्या दुर्नयं बाल्यजातं तस्यै वृत्तिं सज्जनानां शशास ।
स्वच्छायायामाश्रितां वृक्षवत् सा पुत्रीं सम्यक् सर्वकाले ररक्ष ॥ ३५ ॥
सर्वं कालात् क्षीणतां गच्छतीति प्राज्ञानां सद्भाषितस्यानुरोधात् ।
शान्ता भूत्वा चन्द्रिका जन्मदस्य सेवां कर्तुं गूढबाधा प्रयेते ॥ ३६ ॥
तातस्सोऽपि स्वात्मजाप्रीणनार्थं पत्नीप्रेम्णा वञ्चितोऽपि स्वदुःखम् ।
गूहन्तस्याः शिक्षणारोग्यवृद्ध्यै पुत्रीवक्त्रस्मेरबिम्बैर्ननन्द ॥ ३७ ॥
काले याते नैगमो कामविद्धो भार्यामन्यां लब्धुमिच्छामवाप ।
चित्रं नैतज्जीविनां स्त्रीसुखेच्छा सर्वेच्छासु प्रायशो दुर्निवार्या ॥ ३८ ॥
०३
चन्द्रिकापि युवतिप्रभां दधौ फुल्लदुच्चकुचकुड्मलश्रिया ।
प्रापतुश्च जघने विशालतां कापि मोहकरुचिर्मुखे बभौ ॥ ३९ ॥
लोलमुग्धपरिधावकेक्षणैर्वायुनुन्नतनुनीलकुन्तलैः ।
भीरुताक्तमृदुहासविभ्रमैर्नूपुरध्वनितमन्दसङ्क्रमैः॥४०॥
आचकर्ष वनिता अपि क्षणाच्चन्द्रिका ससुखमायतेक्षणा ।
किं पुनर्युवजनान् महापुरे यौवनज्वरसुतप्तदेहिनः ॥ ४१ ॥
चन्द्रिकामहमपश्यमापणे नेत्रमेलनकृतौ तया सह ।
प्राप्तसौख्यमतुलंत्वितीरितं स्निग्धयूनि तरुणेन केनचित् ॥ ४२ ॥
मद्गृहस्य पुरतः प्रयाति सा प्रत्यहं मम हि भाग्यदेवता ।
इत्यवोचदपरः कृती युवा यौवनस्य विविधा गतिर्ध्रुवम् ॥ ४३ ॥
एकदाथ नगरस्य वाटिकां कामदिग्धमनसा सुनन्दनः ।
सञ्चचार निभृतं यदृच्छया कांश्चन स्त्रियमपश्यदागताम् ॥ ४४ ॥
सापि तं मुहुरवेक्ष्य नैगमं क्षौमवस्त्रवररत्नभूषितम् ।
स्वेङ्गितप्रकटने ह्यशक्ततां प्राप्य पादपतलं गता ह्रिया ॥ ४५ ॥
ऐक्षत प्रकटसंगमेच्छया नैगमः पृथुनितम्बशालिनीम्।
मध्यमे वयसि संस्थितां स्त्रियं भामिनीमतनुसंहतस्तनीम् ॥ ४६ ॥
चूष्यवस्त्विव हि योषितो वपुर्निर्निमेषनयनेन पीयते ।
तस्य वीक्षणविधानलज्जिता दृष्टिपातमवनौ करोति सा ॥ ४७ ॥
आससाद मदनाभिपीडितो तां स्त्रियं विटपिमूलवर्तिनीम् ।
कासि देवि वद जन्म कुत्र ते श्रावयेति वनितां जगाद सः ॥ ४८ ॥
मत्पिता दिवमगात् पुरैव मामात्मजासहितनष्टभर्तृकाम् ।
विद्ध्यनाथवनितां कलाभिधामित्युवाच ललनामणिः ह्रिया ॥ ४९ ॥
मामवेहि वणिजं सुनन्दनं प्राप्तवित्तबलवैभवं जनम् ।
गेहिनी मम गता दिवं रुजा मां विहाय तनयां च दुःखिताम् ॥ ५० ॥
भामिनि त्वदनुरागयाचकं मां वृणीष्व ससुखं सह त्वया
मद्गृहे तवसुता च वत्स्यतीत्यब्रवीत्स ललनां सुनन्दनः ॥ ५१ ॥
तस्य रूपविभवैश्च मोहिता पञ्चबाणविशिखाभिपीडिता ।
कामवह्निशमनार्थमादृता स्वीचकार वचनं रतार्थिनः ॥ ५२ ॥
आलिलिङ्ग सुदृढं स कामिनीं तं चुचुम्ब वदनेऽनपत्रपा ।
तत्क्षणादभवतां परस्परं कामतर्पणविधौ सहायकौ ॥ ५३ ॥
०४
अपूर्णकामः स समानकामां गान्धर्वमार्गप्रगृहीतपाणिः ।
द्वितीयभार्यां तनुजाद्वितीयां सुनन्दनः स्वालयमानिनाय ॥ ५४ ॥
दाम्पत्यसौख्ये निरतौ प्रकामं तौ दम्पती यापयतः स्म कालम् ।
सखीं स्वसारं सुमुखीमुमाख्यां लब्ध्वाऽतुषद्विस्मितचन्द्रिकापि ॥ ५५ ॥
अन्योन्यसङ्गात्प्रथमानहर्षे सख्यौ सदा द्वेऽचरतां नगर्याम् ।
तयोर्विहाराध्ययनानि चापि परस्परोपस्थितिमाश्रितानि ॥ ५६ ॥
दिनेषु गच्छत्सु धनार्जनार्थं वणिग्जगामान्यपुरीं कदाचित् ।
लुण्टाकवर्गैरभिहन्यमानस्तत्रार्दितो जीवितमुत्ससर्ज ॥ ५७ ॥
सौदामनीघातनिभं कठोरं वृत्तान्तमाकर्ण्य मृतेः स्वभर्तुः |
पपात सद्यो भुवि मन्दभाग्या चक्रन्द चोच्चैः शिशुवत् कला सा ॥ ५८ ॥
द्वितीयवैधव्यमवाप्य योषित्स्वभागधेयानि भृशं जगर्हे ।
मां प्राप्य दैवोपहतामधन्यां हा नाथ मृत्योर्वशमाप्तवान् त्वम् ॥ ५९ ॥
गाथास्ति पापी यदि याति सिन्धुं तत्रापि गुल्फौ न जलेन सिक्तौ ।
त्वां सद्गुणाढ्यं परिणीय यन्मे वैधव्यदुःखं पुनरप्यवाप्तम् ॥ ६० ॥
लब्ध्वा तरोराश्रयमार्तवल्ली ननन्द धृत्वा स्मितकुड्मलानि ।
तस्याः सुखं तत् क्षणिकं बभूव बभञ्ज वृक्षं सहसा गजेन्द्रः ॥ ६१ ॥
उत्तुङ्गसौधान् विरचय्य चित्ते तत्रावसं वैभवदर्पयुक्ता ।
अहंत्विदानीं विभवैर्विहीना कथं करिष्यामि कुटुम्बरक्षाम् ॥ ६२ ॥
इत्थं प्रलप्य प्रणता चिरेण पुत्र्यौ निरीक्ष्याश्रुमुखी कुमार्यौ ।
तयोर्भविष्यच्छुभकामनार्थं कृच्छ्रेण सा तत्र समाहिताभूत् ॥ ६३ ॥
पुत्री पुरैवाभिहता नियत्या मातुर्वियोगादधुना पितुश्च ।
मृतिं दुरन्तां सहसा निशम्य दुःखाम्बुधौ गाढतरं ममज्ज ॥ ६४ ॥
मात्रा विहीना कृपणा सुतप्ता कथं सहिष्ये जनकस्य मृत्युम् ।
दैवं हतं हन्ति पुनः सदेति तथ्यं वचो हन्त मयानुभूतम् ॥ ६५ ॥
वृक्षान्निपत्य व्रणितं शयानं बुभुक्षितो द्रागवधीन्मृगेन्द्रः ।
दारिद्र्यकूपे पतितं क्षुधार्तं ददंश घोरः क्षयरोगसर्पः ॥ ६६ ॥
पितः कथं मामबलां विहाय गन्तासि कृत्वा तनयामनाथाम् ।
वात्सल्यपूर्णामृततुल्यवाग्भिः को प्रीणयेन्मां सततं त्वदन्यः । ६७ ॥
एवं प्रकामं रुदती कुमारी स्वबाष्पधारार्द्रमुखी त्रियामाः।
निनाय नैकाः प्रततान्धकारे निरस्तनिद्रा हृदि चन्द्रिका सा ॥ ६८ ॥
शरीरयात्रा पुरतो हि गच्छेत् दुःखं सुखं चाविगणय्य लोके ।
कलापि कौटुम्बधुरं वहन्ती वाणिज्यवृत्तौ निरता बभूव ॥ ६९ ॥
कदापि पूर्वं न नियुक्तचित्ता वाणिज्यकार्ये गृहिणी कला सा ।
एकाकिनी पण्यकलानभिज्ञा भर्तुः पदे कर्तुमियेष वृत्तिम् ॥ ७० ॥
आवर्तपूर्णां सरितं गभीरां कथं तरेत् संप्लवनासमर्थः।
भर्तृक्रियाकौशलसंश्रिता श्रीः काले गते क्षीणतरा बभूव ॥ ७१ ॥
दासाश्च दास्यः भृतिमात्रतुष्टा भृतिं विना तत्यजुराप्तसेवाम् ।
अन्याश्रयं भक्तुमनन्यमार्गा मृगा इवारण्यमवग्रहार्तम् ॥ ७२ ॥
कर्माण्यनेकानि गृहोचितानि भूमार्जनादिश्रमसाधितानि ।
भृत्यैर्विनासन्नकृतानि गेहे यदा कलागात् कुपथं तदैव ॥ ७३ ॥
सुखोचितां भर्तृसुतां विमाता न्ययोजयत् कर्मणि दासयोग्ये ।
सम्पद्यमानासु विपत्सु नॄणां मनांसि नूनं कलुषीभवन्ति ॥ ७४ ॥
क्व गार्हकार्यं क्व च पेलवाङ्गी किं मार्जनाय प्रभवेत् शिरीषम् ।
मयूरपिच्छं खननाय वा किं चन्द्रातपस्तण्डुलशोषणाय ॥ ७५ ॥
सा चन्द्रिका पाककलानभिज्ञा नियोजिता पाकगृहे विमात्रा ।
सर्वाणि दैनंदिनखादनानि पक्तुं सकाले खलु निस्सहाया ॥ ७६ ॥
प्रक्षालनं वेश्मतलस्य पात्रसम्मार्जनं चांशुकधावनं च।
सर्वाणि कार्याणि हि चन्द्रिकाया भारा अभूवन् विधिदुर्विपाकात् ॥ ७७ ॥
०५
यस्या हस्तौ कन्दुकक्रीडयास्तां रक्तावद्यप्रापतुः कृष्णवर्णम् ।
स्थालीवेश्मक्षालनाच्चन्द्रिकायाः काले हन्त श्लक्ष्णतां त्यक्तवन्तौ ॥ ७८ ॥
या लेखन्या पत्रपृष्ठे व्यलेखीत् सा शोधन्या मार्जने न्यस्तचित्ता ।
या विद्यार्थं पाठशालां प्रपेदे साद्य क्रेतुं पण्यशालामुपैति ॥ ७९ ॥
यस्या वक्त्रं सर्वदासीत्स्मिताक्तं म्लानं त्वद्य त्रासपूर्णं विवर्णम् ।
यासीत् कन्या प्रस्फुरच्चञ्चलाक्षी साभूद्दीना व्याघ्रभीता मृगीव ॥ ८० ॥
रत्नस्यूतानर्घवासांसि यस्याः शर्वर्यां च प्रास्फुरन्नभ्रदीप्त्या ।
अद्याप्रातः पाककर्माविलानि म्लानिं प्रापुः पात्रनिर्णेककार्यात् ॥ ८१ ॥
आपूर्वाह्नं याऽस्वपीत्त्यक्तचिन्ता सा जागर्ति द्राक् हि सूर्योदयात् प्राक् ।
कष्टं नो चेत् दण्डनं सा सहेत निःसन्देहं तर्जनां वा विमातुः ॥ ८२ ॥
बाहुं वामं चन्द्रिका स्वोपधानं कृत्वा श्रान्ता वल्लरीकोमलाङ्गी ।
आर्तास्वप्सीत्कर्कशे दारुतल्पे या शेते स्म प्रस्तरे पिच्छपूर्णे ॥ ८३ ॥
योमासीत्प्राक्चन्द्रिकायाः सखीव सा मेने तामात्मकर्मार्थदासीम् ।
तस्या भूषावेशरूपक्रियासु दासीवत्तां चन्द्रिका सेवते स्म ॥ ८४ ॥
इत्थं दासीकर्मसु न्यस्तचित्ता श्रान्ता कार्यात् सज्वराभूत्कदाचित् ।
मान्द्यं तस्या वीक्षमाणा विमाता भूयो भूयो दण्डयामास तन्वीम् ॥ ८५ ॥
कोपाविष्टान्यानि कार्याणि चैव कर्तुं तामाज्ञापयत् निर्घृणा सा ।
यस्या आसीन्नित्यकार्यंह्यशक्यं तस्या साध्यं किं भवेद्भिन्नकार्यम् ॥ ८६ ॥
एकत्रासन् श्यामलाः पात्रपुञ्जा अन्यत्रासन् कश्मला वस्त्रमालाः ।
किं कर्तव्यं चिन्तयन्तीत्यकस्मात् सस्मारार्ता पूर्ववाक्यानि साधोः ॥ ८७ ॥
एकान्ते सा साधुवर्योपदिष्टं मन्त्रं भक्त्या कौतुकाक्रान्तचित्ता ।
नेत्रे रक्ते मीलयन्ती जजाप तापग्रस्ता बद्धपद्मासनार्ता ॥ ८८ ॥
मन्त्रं सञ्जप्यादरेणाञ्जलिं च बद्ध्वा चक्षुष्यायताक्ष्युन्मिमील ।
यावत्तावत्काचनाप्राकृता स्त्री प्रत्यक्षाभूत्बिभ्रती दिव्यदीप्तिम् ॥ ८९ ॥
ज्योत्स्नाशुभ्रस्मेरवक्त्रा बभासे देवी काष्ठा दीपयन्ती स्वकान्त्या ।
दृग्भ्यां सान्द्रां प्रेमपीयूषधारां सिञ्चन्त्यार्तक्लेशसन्तापहन्त्रीम् ॥ ९० ॥
मन्द्रस्पष्टश्लक्ष्णवर्णाभिरामैर्वात्सल्याक्तप्रेमपूर्णैर्वचोभिः ।
वीणानादान्मञ्जुलैः सान्त्वयन्ती भीतां कन्यां दिव्ययोषिद्बभाषे ॥ ९१ ॥
मा भीर्वत्से विद्धि मां त्वत्सहायां मातृप्रायां त्वत्सुखोदर्ककर्त्रीम् ।
प्रोक्तैर्मन्त्रैः सत्वरावाहितास्मि किं ते कार्यं किं च कृच्छ्रं वदास्ति ॥ ९२ ॥
तस्या देव्याः स्नेहलिप्तैर्वचोभिर्नष्टे तापे भीरुतां द्राग्विहाय ।
देवीं भक्त्या चन्द्रिका सम्प्रणम्य मन्दं मन्दं प्रश्रिता प्रत्युवाच ॥ ९३ ॥
देवि त्वं मे प्रार्थनां पूरयस्व कृत्स्नं मह्यं कार्यजातं विमात्रा ।
दत्तं क्षिप्रं त्वत्प्रसादात्समाप्तिं यान्तु प्रीता मद्विमाता भवेच्च ॥ ९४ ॥
वत्से कार्यस्थानमादेशयेति प्रोक्ता यावत् पाकशालां निनाय ।
गच्छ्न्त्यग्रे चन्द्रिका तावदेवापश्यत् भ्रान्ता कल्पनातीतदृश्यम् ॥ ९५ ॥
पात्राण्यासन् प्रस्फुरद्वज्रशोभीन्यग्रेऽपूर्वस्वच्छवासांस्यभूवन् ।
स्वच्छो धौतः पाकशालातलश्च सन्निर्वृत्तं दुष्करं कार्यजातम् ॥ ९६ ॥
कार्यं सर्वं तत्परावृत्तदृष्ट्यां देव्यै तस्यां दर्शयन्त्यां क्षणेन ।
अन्तर्धानं दिव्यरूपागमत्सा संवृष्याभ्रं व्योम वै द्राक् जहाति ॥ ९७ ॥
तृप्ता दृष्ट्वा कार्यजातं समाप्तं देवी याता दृक्पथादित्यतुष्टा ।
द्वन्द्वेनेत्थं बाधिता चन्द्रिका सा मन्त्रं व्यर्थं क्षुद्रकार्ये शुशोच ॥ ९८ ॥
मन्त्रः पूतो द्विर्विवेकात्प्रयोज्यो यस्मात्यावज्जीवमानन्दलाभः ।
भूयादित्थं चिन्तयामास तन्वी बध्नन्त्यज्ञा मक्षिकाः स्थूलरज्ज्वा ॥ ९९ ॥
सर्वं कार्यं चित्तवेगात् समाप्तं पश्यन्त्या वै श्लाघिता सा विमात्रा ।
दिष्ट्या देव्या दिव्यसान्निध्यलाभात् वृत्तं कार्यं हीति नावेत् कला सा ॥ १०० ॥
०६
मन्त्रहूतविबुधस्त्रियमाप्तां संकटाग्निशमनेऽतिसमर्थाम् ।
मातरं स्वबलदां गणयन्ती चन्द्रिकाथ दिनकर्मसु मग्ना ॥ १०१ ॥
चित्ततृप्तिरभजत् कृतकृत्यां शान्तता भुवमिवाशु दिनान्ते ।
चन्द्रिकां स्मितमुखीं सुकुमारीं सर्वतो निजरुचिं प्रकिरन्तीम् ॥ १०२ ॥
दास्यवृत्त्युचितवस्त्रवसानाप्यार्यभोग्यरुचिरूपगुणाढ्या ।
पश्यतां सपदि गण्यजनानां मानसं मृदुमतिः प्रममन्थ ॥ १०३ ॥
दास्यभावमनुसृत्य विमातुः पुत्रिकामनुचरत्यतिदृप्ताम् ।
चन्द्रिका पथि जवेन यदा तामापिबन्ति तरुणाः शितदृग्भ्याम् ॥१०४ ॥
कुन्तलालकतरङ्गविलासं पश्यतो युवजनस्य तरुण्याः ।
मानसेऽपि जनयत्यनिवार्यं वीचिजालमभिलाषमनोज्ञम् ॥ १०५ ॥
मन्थरालसगतिर्वनितायाः सुप्तकाममनयत्तरुणानाम् ।
जागरस्थितिमनूह्यविधायां मन्मथस्य तरुणेषु हि दृष्टिः ॥ १०६ ॥
मण्डितापि वसनैर्बहुमूल्यैरात्मजा तु शुशुभे न कलायाः ।
मत्सराविलमतिर्विजगर्हे चन्द्रिकां युवजने निरतेति ॥ १०७ ॥
चन्द्रिकां स्वनिलयेत्वसहायां मित्रभावमधिगम्य ययाचे ।
कोऽपि सुन्दरतनुस्तनुरूपः स्वेच्छयाश्रयमुपेत्य बिडालः ॥ १०८ ॥
मोहकध्वनिमदम्यविलासं स्निग्धशुभ्रमृदुरोमविशिष्टम् ।
चन्द्रिका निजमित्रमवेदीत् तुल्यशीलविषयेषु सुसख्यम् ॥ १०९ ॥
चन्द्रिकामनुसरन्गृहकार्ये व्यापृतां मृदुपदैरनिशं सः ।
मावमाविति वदन् दरभीतः पृच्छतीव न ददासि पयः किम्? ॥ ११० ॥
चन्द्रिका यदि ददाति न दुग्धं सत्वरं पदतले वनितायाः ।
प्रश्रितं विलुठति स्म बुभुक्षुः प्रेमचोदकदृशः परिषिञ्चन् ॥ १११ ॥
दीयते यदि पयो निजपात्रे सत्वरं पिबति मीलितनेत्रः ।
चिन्तयन्निव धरा लयमीयात्तेन किं मम पयो यदि लब्धम् ॥ ११२ ॥
चन्द्रिकाङ्कमधिरुह्य दिनान्ते कन्दुकाकृतिमवाप्य स शेते ।
मूकजन्तुरनुरागनिबद्धः स्निह्यति ह्यतिशयेन मनुष्ये ॥ ११३ ॥
मूषकान् निशि हिनस्ति सखेलं पाककोष्ठविघसादनदक्षान् ।
प्रीणयन् स्वकलया निजगोप्त्रीं चन्द्रिकां सपदि मूषकभीताम् ॥ ११४ ॥
इत्थमीप्सितपरस्परबन्धौ तौ दिनान्क्षपयतः कृतकृत्यौ ।
कोऽवगच्छति हरेरभिलाषं मित्रताह्यसहजापि सुखान्ता ॥ ११५ ॥
०७
तत्रासीत्कथितमहापुरे नृपालः
सद्वृत्तः प्रथितयशा गुणाभिरामः ।
चन्द्राख्यः स्वविषयपालने धुरीणः
सन्तुष्यन् प्रियहितकर्मभिः स्वपौरान् ॥ ११६ ॥
तस्यासीन्मदननिभो युवा तनूजो
विद्यावान् विनयखनिस्त्रिविक्रमाख्यः ।
यं दृष्ट्वा पुरललनागणः प्रदध्यौ
सासूयं वरयति कामयं सुधन्याम् ॥ ११७ ॥
चन्द्रस्तं तनुजमपूर्वरूपभाजं
तारुण्ये निरुपमशोभया ज्वलन्तम् ।
द्रष्टुं द्राक् समुचितकन्यया समेतं
दाम्पत्ये समरसशालिनं व्यकाङ्क्षीत् ॥ ११८ ॥
पुत्रं सोऽगदतनुरागपूर्णवाचा
विद्यायाः समधिगतोऽसि वत्स पारम् ।
तस्मात्त्वं परिणययोग्य इत्यवैमि
तन्वीं त्वं सदृशगुणां वधूं वृणीष्व ॥ ११९ ॥
उक्तिं तामतिसुखदां निशम्य पुत्रो
मानार्थं सपदि नियन्त्रितानुभावः ।
स्वोद्वाहं निरुपमकन्ययानुमेने
तारुण्ये परिणयवाक् सुखावहा वै ॥ १२० ॥
सद्वंश्यास्तनय चिनोम्यहं त्वदर्थं
सद्वृत्ताः रुचिरमुखीश्च राजपुत्रीः ।
तासु त्वं वरय यदृच्छया मनोज्ञां
कन्यां या तव भविता हि धर्मपत्नी ॥ १२१ ॥
इत्युक्तः सविनयमब्रवीन्नरेशं
भूगर्भे न भवति किं प्रशस्तवज्रः ।
अब्धौ किं वदतु लभामहे न मुक्ता
ओषध्यो गहनवनान्तरे न किं स्युः ॥ १२२ ॥
व्यासस्य प्रथितमुनेः किमाभिजात्यं
बालघ्नः सगरसुतो न किं कुलीनः ।
विश्वासो मितचयने न मेऽस्ति पुर्या-
मस्यां ते तृणकुटजेऽपि मे प्रिया स्यात् ॥ १२३ ॥
श्लाघित्वा स्वसुतविवक्षितं नृपालः
सम्मन्त्र्य स्वहितजनैर्विवाहकार्ये ।
पुत्रार्थे परिणयघोषणामसाध्नो-
देवं तन्नगरभटैः प्रगे विधेयैः ॥ १२४ ॥
भोः पौराः श्रुणुत नृपस्य घोषणां भो
उद्वाहो नृपतनयस्य निश्चितोऽस्ति ।
आयान्तु त्वरितपदेन पौर्णमास्यां
प्रासादं निशि समलङ्कृताः कुमार्यः ॥ १२५ ॥
आयान्तु त्वरितपदेन पौरकन्या
युष्मासु प्रभुतनयो मनोज्ञकन्याम् ।
संपन्नामुचितगुणैश्च रूपलक्ष्म्या
ज्योत्स्नायां वरयति पौरनृत्यरङ्गे ॥ १२६ ॥
इत्येवं नरपतिघोषणां निशम्य
कन्यायाः किल जननी प्ररूढमोहा ।
एकैका मधुमथनं रहः ययाचे
पुत्री मे भवतु नरेशपुत्रपत्नी ॥ १२७ ॥
श्रुत्वैतत्सपदि कलाप्युमां स्वपुत्रीं
भूषाभिर्नृपसदनोचितैश्च वस्त्रैः ।
औत्सुक्यादलमकरोद्वृथाभिलाषा
मातॄणां निजतनयाः सदा मनोज्ञाः ॥ १२८ ॥
संश्रुत्य श्रवणसुखामपूर्ववार्ता-
मुत्कण्ठां ह्यलभत चन्द्रिकाप्यवर्ण्याम् ।
किं राज्ञः प्रियतनयस्य कम्रपाणेः
संस्पर्शात्ततपुलका न मामकीनाः ॥ १२९ ॥
उद्युक्तां जनपसुतस्य नृत्यगोष्ठी-
मौत्सुक्यादपरिमिताज्जवेन गन्तुम् ।
वैमात्रीं प्रणतमुखी मिथो ययाचे
गच्छेयं नृपसदनं त्वया सहाहम् ॥ १३० ॥
मात्सर्यं कथमपि गूहितुं प्रवृत्ता
व्याचष्टे स्म मधुरसावहासवाग्भिः ।
हञ्जे त्वां नृपसुत एव नाययेद्वै
मृग्यन्ते तव सदृशाः कुलीननार्यः॥ १३१ ॥
श्रुत्वा तामभिभवकारिणीं दुरुक्तिं
दासीव व्यथितमतिर्विनम्रमौलिः ।
नोवाच प्रतिवचनं प्रसह्य कोष्ठं
तत्याज प्रणतजनस्य को विकल्पः ॥ १३२ ॥
आयाता पुरललनासु पौर्णमासी
प्रत्याशाकुवलयिनीर्विकासयन्ती ।
ऐश्वर्याप्लुतसदनेषु संस्थितासु
दारिद्र्योपहततृणावृतोटजेषु ॥ १३३ ॥
संसिक्ता हिमसलिलेन राजरथ्या
आमोदा मलयजचन्दनप्रसूताः ।
प्रासादा युवजनहर्षघोषजुष्टाः
पौराणां मुदमवदन्निवापुरान्तम् ॥ १३४ ॥
औत्सुक्यं निरवधिकं गृहे कलायाः
सम्भ्रान्ते खलु विदधे कलामुमां च ।
स्मर्तव्यं बहु नरपस्य सन्निधाने
वाग्दोषा दुरभिरुचिश्च गूहितव्याः ॥ १३५ ॥
नासाग्रे स्फुरदमलो मनोज्ञवज्रः
कण्ठे चाप्रतिमरुचिः प्रलम्बमाला ।
नाभ्यन्ते कनकमयी महार्घकाञ्ची
नैराश्यं किमु कथयन्त्यहो ह्युमायाः ॥ १३६ ॥
गच्छन्त्यां तुरगरथेन सज्जितेन
वैमात्र्यां नरपगृहं सह स्वमात्रा ।
दिङ्मूढा चिरमरुदत्स्वमन्दभाग्ये
मार्जालं हृदि परिरभ्य चन्द्रिकार्ता ॥ १३७ ॥
मार्जालः परिपतति स्म सान्त्वनार्थं
मा शोचीरिति वदतीव तामुपेत्य ।
तिर्यञ्चः स्वहितजनस्य सर्वभावान्
जानन्ति प्रकृतिगतेङ्गितावबोधात् ॥ १३८ ॥
पश्यन्ती दरचकिता बिडाललीलां
सस्माराभयवचनं मुनेः पुरोक्तम् ।
प्रागेव प्रकटितसार्थकप्रयोगं
संस्मृत्यामितसुषमामवाप तन्वी ॥ १३९ ॥
चित्ते तं समुचितसूचकं बिडालं
वन्दित्वा प्रशमितधीर्दृढप्रतिज्ञा ।
आसीना स्थिरकमलासनेऽजपत्सा
साधूक्तं प्रणतवपुः क्रमेण मन्त्रम् ॥१४०॥
०८
प्रसह्य देवी स्फुरदुज्ज्वलप्रभा या प्रादुरासीत् जपकर्षिता पुरा ।
प्रत्यक्षतां प्राप्य जगाद चन्द्रिकां वत्से प्रियं किं करवाणि तद्वद ॥ १४१ ॥
चन्द्रप्रभायामधुना नृपात्मजो वृणोति पत्नीं नृपपालिते वने ।
यास्याम्यहं तत्र यथा विभूषिता मातः कुरु त्वं करुणानिधे तथा ॥ १४२ ॥
इति ब्रुवाणां परिरभ्य चन्द्रिकामाघ्राय मूर्ध्नि प्रजगाद देवता।
कूष्माण्डमेकं गृहवाटिकाज्जवादुपानयापक्वमपेतमार्दवम् ॥ १४३ ॥
मार्जालमप्यादिशतार्द्रलोचनं षण्मूषकानानय जीविनो द्रुतम् ।
वनात् बिलाद्वाथ महानसाद्वा त्वत्स्वामिनीभाव्यसुखप्रदास्ते ॥ १४४ ॥
श्रुत्वा निदेशं स दधाव निष्कुटं कुतूहलोत्साहभयप्रचोदितः ।
वक्त्रे गृहीत्वा पृथुलान् बिलेशयान् क्षणात्प्रतीयाय कृतार्थतोद्धतः ॥ १४५ ॥
अत्रान्तरे सम्भ्रमनुत्तसाध्वसा प्रत्यागता गेहवनात् गृहान्तरम् ।
प्रगृह्य कूष्माण्डमखण्डवर्तुलं चन्द्रोपमं मन्दजवेन चन्द्रिका ॥ १४६ ॥
ततक्ष कूष्माण्डमपूर्वकौशलान्निरूपयामास रथाकृतिं दृढाम् |
निमेषमात्रेण रथं नृपोचितं देवी महान्तं ससृजे स्फुरद्ध्वजम् ॥ १४७ ॥
आदर्शवत् श्लक्ष्णमपूर्वसुन्दरं सुवर्णलिप्तप्रतिमाभिशोभितम् ।
महेन्द्रयानोपममैक्षतोत्सुका तं निर्निमेषा रथमेव चन्द्रिका ॥ १४८ ॥
सुराङ्गना द्राक् चतुरस्तुरङ्गमान् संस्पृश्य मार्जालधृतान् बिलेशयान् ।
व्यकल्पयत् पुष्टबलिष्ठबन्धुरान् प्रकाशयन्ती निजहस्तलाघवम् ॥ १४९ ॥
विधाय सूतं सिततोत्रशोभितं तथाखुनैकेन दृढेन लीलया ।
अन्येन योधं शितखड्गधारिणं रथाभिपालं तरुणं विनिर्ममे ॥ १५० ॥
निमेषमात्रेण चकार चन्द्रिकां विभूषणैः पार्थिवकन्यकोचितैः ।
महार्घरत्नैः खचितैर्विभूषितां स्फुरत्प्रभामुष्टभवृन्ददीप्तिभिः ॥ १५१ ॥
सुवर्णसूत्रोतदुकूलनिर्मितस्वरङ्गनारोचककञ्चुकावृता ।
बभूव सद्यो लसदुज्ज्वलप्रभा देवीकृपाधारबलेन चन्द्रिका ॥ १५२ ॥
सामोदपुष्पैः सुविविक्तवर्णकैः शिरोरुहा दक्षतयैव मण्डिताः ।
नेत्रे सुपक्ष्मेऽभजतां मनोज्ञतां तस्याः सुनीलाञ्जनसूक्ष्मरेखया ॥ १५३ ॥
रक्तौष्ठलेपेन जपासुमत्विषं सुखेन नारङ्गदलोपमाधरौ ।
अवापतुश्चन्द्रिकयाप्यलक्षितौ प्रसारयन्तौ तरुणार्कवद्द्युतिम् ॥ १५४ ॥
अलञ्चकारारुणवर्णचर्चिते तस्याः पदे स्फाटिकपादुकाद्वयम् ।
रम्यं घनीभूतशशिप्रभानिभं कामप्यनूह्यश्रियमावहन्निजाम् ॥ १५५ ॥
अयं दिवास्वप्न इति भ्रमे स्थितां जगाद देवी स्मितपूर्वमादरात् ।
वत्से रथेन व्रज राजमन्दिरं सुसज्जितेन प्रसभं सुनिर्भया ॥ १५६ ॥
परं तु मा विस्मर यामदुन्दुभिर्निशीथमाख्याति न यावदञ्जसा ।
तावन्निवर्तस्व गृहं नृपालयान्नो चेत्विनश्येत्सकलं च कल्पितम् ॥ १५७ ॥
भूयाच्छुभं ते गमने मतिं कुरु प्रसन्नवक्त्रा स्मितदीप्तपद्धतिः ।
इति ब्रुवाणा दिवमुत्पपात ह प्रसह्य देवी चपलेव भास्वरा ॥ १५८ ॥
मार्जालमापृच्छ्य सखायमुत्सुका रथान्तरे रत्नकुथास्तृते तले ।
निविश्य सूतं विनयेन चन्द्रिका दिदेश गन्तुं नृपसौधमञ्जसा ॥ १५९ ॥
रथ्यासु पौरा ललनां रथस्थितामवेक्ष्य तारापथतः समागताम् ।
चन्द्रांशुमूर्तिं निशि विस्मयाकुलास्तां निष्कलङ्कां नियतं हि मेनिरे ॥ १६० ॥
दृष्टिप्रसूनैरनुरागसौरभैस्तामर्चमर्चं प्रथमानयौवनाः ।
स्थिता ध्वजालङ्कृतराजपद्धतौ न लेभिरे तृप्तिमनङ्गचोदिताः ॥ १६१ ॥
कन्याः कुलीना गुणरूपशोभिताः समानकामा नृपपुत्रलोभने ।
म्लानत्वमापुः प्रसमीक्ष्य चन्द्रिकां कुशेशयानीव दिनात्यये भृशम् ॥ १६२ ॥
कस्यात्मजेयं नरपस्य सुन्दरी कुतो रथोऽयं सुरयानसन्निभः ।
यदीक्षते राजसुतो मनागिमां भवेदनङ्गज्वरबाधितो ध्रुवम् ॥ १६३ ॥
वृथास्मदीयं सकलं प्रसाधनं विनापि तेनेयमुषेव दीपयेत् ।
इति ब्रुवाणा ललना हतेप्सिता न गूहितुं शेकुरवार्यमत्सरम् ॥ १६४ ॥
रथे नृपावाससमीपमागते बद्धाञ्जलिः प्रत्युदगात्ससम्भ्रमम् ।
वहन् रथस्थां वनितां स्वदृष्टिभिः राजप्रतीहारगणः सुशिक्षितः ॥ १६५ ॥
सौभाग्यवान्नूनमिमां मनोहरां नृपस्य पुत्रो वरयेत् हरीच्छया ।
प्रजल्पतीत्थं बहुशो मिथो जने रथात्प्रसन्नावततार चन्द्रिका ॥ १६६ ॥
यदा शनैः साचलदायतेक्षणा नितम्बिनी मन्दगतिर्नृपालयम् ।
तस्या अभिख्यामृतपानकाङ्क्षिणः समागता राजपथस्य पार्श्वयोः ॥ १६७ ॥
तस्यां चरन्त्यां नृपपालिते वने छायास्तरूणां सहसा तिरोहिताः ।
तस्या रुचा सज्जनसन्निधेः खलु प्रायेण धावन्ति भयार्तदुर्जनाः ॥ १६८ ॥
०९
नृपपालितपुष्पवाटिकामगमन् पौरसुता निशामुखे ।
अमरालयरोहणे रता इव लक्ष्योन्नतिसंप्रचोदिताः ॥ १६९ ॥
यदि मां वरयेन्नृपात्मजो मम पूर्वार्जितपुण्यसञ्चयः ।
भविता यदि नो तथापि मे रुचिरोद्यानवनाभिवीक्षणम् ॥ १७० ॥
इति मानसतर्कबोधिताः परिणामे विगतस्पृहा मुदा ।
व्यचरन्सविलासमङ्गना नरपालोपवने सुविस्मिताः ॥ १७१ ॥
नरपोपवने कलामुमा भवती पश्यति चन्द्रिकानिभाम् ।
किमु कामपि सुष्ठु भूषितां विचरन्तीमिति विस्मिताब्रवीत् ॥ १७२ ॥
क्व भवेदिह दीनसेविका दिनकार्येषु रता गृहे भवेत् ।
त्यज मोहमियं सुमध्यमा नरपालस्य सुता हि कस्यचित् ॥ १७३ ॥
इति मातुरुदीरितेन सा मनसि प्राप्तशमा कथञ्चन ।
स्वविधावभजत्स्पृहामुमा युवतीनां सुपतिर्वरेप्सितम् ॥ १७४ ॥
अथ राजसुते सुभूषिते स्ववयस्यैः सह नन्दनोपमम् ।
कुसुमोपवनं समागते जनघोषो गगनान्तमस्पृशत् ॥ १७५ ॥
विटपाश्रितरम्यबर्हिणान् क्वचिदुन्मत्तनदच्छिलीमुखान् |
क्वचिदायतशीतशाद्वलान् क्वचिदामोदवहान् सुमोद्गमान् ॥ १७६ ॥
क्वचिदुल्लसदातवीरुधः फलभारानततुङ्गपादपान् ।
विविधाकृतिवर्णमोहकैः कुसुमैरावृतगुल्मसञ्चयान् ॥ १७७ ॥
अवलोकयतोऽभितो मुदा नृपपुत्रस्य हृदालयं द्रुतम् ।
मदनः प्रविवेश लीलया निभृतं योषिदपाङ्घवर्त्मना ॥ १७८ ॥
नवयौवनशोभिनीः स्त्रियो मणिरत्नाभरणैर्विभूषिताः ।
विचरन्तीः सविलासमुत्सुका नृपपुत्रः प्रददर्श सर्वतः ॥ १७९ ॥
चपलामिव योषितां गणे स्फुरदाह्लादकरूपशालिनीम् ।
दरहासविलासमोहिनीं कमनीयां स ददर्श चन्द्रिकाम् ॥ १८० ॥
स्मरसायकलक्ष्यतां गतः स शनैरायतलोचनोऽभ्यगात् ।
स्मयमानमुखः प्रसन्नधीरबलां वेपथुमूर्तमानिनीम् ॥ १८१ ॥
भयकारणमस्ति नात्र ते ललने त्वत्सुहृदित्यवेहि माम् ।
मम मानसराज्ञि देहि मे तव पाणिग्रहणे कृतार्थताम् ॥ १८२ ॥
मम हस्तपरिग्रहक्रियामनुजानासि यदि प्रभावति ।
प्रणयार्णववीचिसंप्लवे परिषिक्तं कुरुषे चिराय माम् ॥ १८३ ॥
इति राजकुमारभाषितं श्रवणानन्दकरं निशम्य सा ।
कुरुते न मतिं करार्पणे न निराकर्तुमनर्घयाचनाम् ॥ १८४ ॥
कदलीव मरुज्जवाहता प्रचकम्पे सुभृशं कृशोदरी ।
अवलम्बनहेतुनेव तत्करमाशु प्रणयी समग्रहीत् ॥ १८५ ॥
तरुणस्य कराग्रसङ्गमात् पुलकस्वेदयुगेन बाधिता ।
तनुसंहननश्रिया प्रिया भजते कामपि नव्यभोग्यताम् ॥ १८६ ॥
प्रसभं विचकर्ष किं बलादथवा तामवहद्भुजान्तरे ।
स्वयमेव गतानुसृत्य तं क्षणमुग्धा न किमप्यवेत्तदा ॥ १८७ ॥
रजनीचररश्मिरञ्जिते वरनृत्योचितभव्यकुट्टिमे
मुदितेन ननर्त चन्द्रिका नृपपुत्रेण सहोत्सवप्रिया ॥ १८८ ॥
नृपपुत्रसुहृद्गणैः सह प्रणनर्तुः प्रमदाः समुत्सुकाः ।
न हि कापि भवत्यतर्पिता तरुणोत्साहमयं नृपाङ्गणम् ॥ १८९ ॥
किमुवाच मिथस्त्रिविक्रमः किमभूतात्महृदुत्थमुत्तरम् ।
सुतरां न हि वेत्ति चन्द्रिका क्षणिके स्वर्गसुखे परिप्लुता ॥ १९० ॥
न च वेत्ति हि कालधावनं न च सा क्लाम्यति नर्तने रता ।
नववर्षजलार्द्रबर्हिणाननुकृत्य प्रचचाल लीलया ॥ १९१ ॥
अथ नर्तनहर्षसागरे प्लवमाना सहसा ससाध्वसम् ।
घनगर्जितवत्भयावहं व्यशृणोत्घोरनिशीथदुन्दुभिम् ॥ १९१ ॥
हरिणीव मृगेन्द्रगर्जनश्रवणार्ता झटिति प्रमुच्य सा ।
नृपपुत्रकरं भयद्रुता तमनापृच्छ्य दधाव मण्डपात् ॥ १९२ ॥
अवितर्कितनिर्गमात् स्त्रियाः मतिशून्ये भवति त्रिविक्रमे ।
स्मृतवत्यथ देवतावचः स्वरथं प्राद्रवदार्तभामिनी ॥ १९३ ॥
अगमद्वनिता यदा द्रुतं व्यगलत् स्फाटिकवामपादुका ।
त्वरयाकुलमानसाबला न वराकी तदवेद्रथोन्मुखा ॥ १९४ ॥
गृहमेत्य रथादवातरद्वनिता यावदहो तिरोऽभवत् ।
सकलो रथवाजिसारथिप्रकरस्तावदतर्क्यमायया ॥ १९५ ॥
वसनं च दुकूलनिर्मितं सहसा दासजनोचितं क्षणात् ।
अभवन्मणिरत्नभूषणान्यगमन्मन्त्रहतान्यदृश्यताम् ॥ १९६ ॥
सुतया सह नर्तनाङ्गणात् गृहमेत्य स्वनियोगतत्पराम् ।
अवलोक्य जहर्ष चन्द्रिकां गतशङ्का स्वसुखोद्यता कला ॥ १९७ ॥
१०
नृपसुते स्मरमार्गणदारिते विलपति प्रिययैव विनाकृते ।
नृपभटास्त्वरया हि समानयन्नुपवनाधिगतां मणिपादुकाम् ॥ १९८ ॥
व्यलपतित्थमवेक्ष्य स पादुकां कथमसि त्वमिहाद्य निशामुखे ।
सुमपदां स्खलितां च विसृज्य तामुपवने पदपांसुभिरावृता ॥ १९९ ॥
कथय कुत्र गता मम हृत्प्रिया कथय नाम कुलं च मम स्त्रियाः ।
कथमहो मम मानसनायिकां पथि विहाय वने न विलज्जसे ॥ २०० ॥
इतरथा न भवेत्तव दर्शनं मम गतिर्हि भवेदतिदुस्सहा ।
नियतिरेव गतस्य तु कारणं लघयसि त्वमिमां मम वेदनाम् ॥ २०१ ॥
प्रियसुतं विलपन्तमथाब्रवीत् सपदि सान्त्वयितुं धरणीपतिः
तनुज कातरतां त्यज मा शुचः प्रियतमामचिरात्परिणेष्यसे ॥ २०२ ॥
प्रियतमाधृतराजतुपानहा तदनुरूपपदा खलु मृग्यते ।
मम भटैर्निपुणैः प्रतिमन्दिरं द्रुतमुपेत्य पुरेऽद्य सुनिश्चयम् ॥ २०३ ॥
नृपनिदेशधरैर्हि तथैव सा प्रकटिता नगरे मणिपादुका ।
युवतयोह्ययतन्त समुत्सुका बृहदभूत्पदमानमुपानहः ॥ २०४ ॥
श्रुतवती नरपस्य सुनिश्चयं नृपभटान् स्वगृहं समुपाहरत् ।
निजपदेन कला मणिपादुकां समधिरोढुमुमां समचूचुदत् ॥ २०५ ॥
रमयितुं जननीमिव निश्चिता अयतताप्तुमशक्यमुमा वृथा ।
क्व तनुगात्रवती मणिपादुका क्व पृथुलश्चरणो जडयोषितः ॥ २०६ ॥
तदनु मन्दमभाषत चन्द्रिका हतदशां विनयेन भिया कलाम् ।
अभिलषे नितरामनुमन्यताम् अनुपमामधिरोढुमुपानहम्॥२०७ ॥
अयि कथं कृपणा मणिपादुकां समधिरोढुमिमां खलु वाञ्छसि ।
प्रथितसत्कुलजोचितभाजनं भजति भृत्यजनस्य न लभ्यताम् ॥ २०८ ॥
इति वचो भणितं कलया यदा नृपभटैः प्रसभं समुदीरितम् ।
भवति नात्र मनागपि भिन्नता भृतकवर्गजनोऽप्यनुमुद्यते ॥ २०९ ॥
स्मितमुखी दृढनिश्चयचोदिता सपदि तां स्फुरदुज्ज्वलपादुकाम् । \
अधिरुरोह सलीलमलज्जिता नृपभटोत्थमुदा सह चन्द्रिका ॥ २१० ॥
११
अथ राजभटाः प्रफुल्लवक्त्रा विनयोपेतगिरा समाह्वयन्स्ताम् ।
शृणु देवि पुरेशपुत्रपत्नी भवितासि त्वममोघभाग्यशक्त्या ॥ २११ ॥
परिधानमनाविलं वसाना दृढमच्छिद्रमितो नृपालयं त्वम् ।
व्रज शीघ्रमुदेति भाग्यसूर्यो नृपपुत्रास्यमिषेण तावकीनः ॥ २१२ ॥
शृणुत क्षितिपालयं व्रजामि प्रसभं कामदुघां समर्च्य देवीम् ।
समयः प्रतिपाल्यतां भवद्भिः कृपयेति प्रणतावदद्विनम्रा ॥ २१३ ॥
प्रमदाऽतुलभक्तिभावपूर्णा मुनिदत्तं प्रबलं जजाप मन्त्रम् ।
स्वतनुं प्रणिधाय नैजकक्षे रहसि स्वस्थमना निमील्य नेत्रे ॥ २१४ ॥
सपदि स्मिततोयसिक्तवक्त्रा विबुधस्त्री शुभमूर्तिराविरासीत् ।
तनये वद किं मयाद्य कार्यं करुणा मे त्वयि सर्वदेत्यवादीत् ॥ २१५ ॥
कुरु राजसभार्हभूषणैर्मा जननीं मे भगिनीं च भूषितास्त्वम् ।
सृज देवि तथा रथं ससूतं शृणु याच्ञामिति चन्द्रिका ययाचे ॥ २१६ ॥
सुकरः खलु पुत्रि ते नियोगः कृतमित्येव मयात्र विद्धि भक्ते ।
इति यावदुवाच देवता स्त्री सकलं सृष्टमभूत् हि तावदेव ॥ २१७ ॥
लसदुज्ज्वलभूषणैर्विविक्तैर्विमलक्षौमपरिच्छदैश्च रामाः।
सुरयोषिदमोघमाययैव क्षणमात्रेण विभूषिता बभूवुः ॥ २१८ ॥
पुरुहूतनियन्तृतुल्यसूतो दृढपुष्टाकृतयस्सितास्तुरङ्गाः ।
कनकोदकलिप्तशृङ्गयुक्तो लघुघण्टासहितो रथश्च सिद्धाः ॥ २१९ ॥
तनये तव वाञ्छितं प्रपूर्णं सकलं स्थास्यति सृष्टमत्र तावत् ।
नववस्त्रविभूषणानि राजा सुखितो दास्यति वो शुभाय यावत् ॥ २२० ॥
इति यावदुवाच दिव्ययोषित् क्षणदेव प्रसभंह्यभूददृश्या ।
अनिरीक्ष्यगतेन तावदेव प्रजहत्याशु कृतिस्थलं कृतार्थाः ॥ २२१ ॥
उमया सह लज्जिता विमाता प्रसमीक्ष्याचरणं हि चन्द्रिकायाः ।
अपकारकृतां कृतोपकारो बहुशो वर्धयते सतां प्रवृत्तिम् ॥ २२२ ॥
निजमित्रमनुद्धतं बिडालं रथमारुह्य सहर्षमाह्वयन्ती ।
सह तेन जगामचाङ्गनाभ्यां वृतबाला जनपालयं जवेन ॥ २२३ ॥
रुरुधे रथमाशु चन्द्रिकायाः प्रतिहारः नृपमन्दिरस्य मार्गे ।
अवदत् प्रतिषिध्यतेऽस्य जन्तोर्नृपसौधे नरपाज्ञया प्रवेशः ॥ २२४ ॥
यदि चेत् शृणु मे प्रियो बिडालः प्रतिषिद्धोऽस्ति मया सह प्रवेष्टुम् ।
जनपः कृपया त्वया निवेद्यो न भवेत् सौधवरे मम प्रवेशः ॥ २२५ ॥
दरविस्मयरोषरञ्जितास्यो दृढमेतद्वचनं निशम्य तन्व्याः ।
त्वरया नृपनिश्चयोपलब्ध्यै प्रतिहारो नृपसन्निधिं जगाम ॥ २२६ ॥
अवगम्य समाकुलेन राजा प्रतिहारेण यथावदुक्तमर्थम् ।
स्मितपूर्वमभाषत प्रहृष्टो घनगम्भीररवेण सान्त्वयन् तम् ॥ २२७ ॥
प्रतिहार न तत्र कापि चिन्ता नियमो मे न हि युज्यतेऽबलायाम् ।
भविता खलु सा मम स्नुषा भो अनुयान्तु प्रमदां शतं बिडालाः ॥ २२८ ॥
यदि मूकमृगेषु वृत्तिरस्या इयती प्रेममयी भवेत्तदानीम् ।
भविता नियतं प्रसन्नदृष्टिः करुणार्द्रा नगरप्रजास्वमुष्याः ॥ २२९ ॥
स्थिरता हृदयस्य वै प्रशस्या ललनायाः स्वबिडालपालनार्थम् ।
नृपपुत्रकरावलम्बनाशा स्थगिताहो कुरुते हि कापि नान्या ॥ २३० ॥
नियमः परिपालितस्त्वयाहं बहु मन्ये तव गाढकर्मनिष्ठाम् ।
व्रज नायय सादरं सुभाग्यां मम पुत्रस्य समक्षमाशु तन्वीम् ॥ २३१॥
नृपवाक्यचमत्कृतिप्रहृष्टः प्रतिहारः पुलकावृतार्द्रगात्रः ।
समवाप्तुमुदीरितां नृपाज्ञां प्रणतो बद्धकराञ्जलिश्चचाल ॥ २३२ ॥
१२
अथ नृपतनयः स्मरेण विद्धो निजदयितागमनस्य रम्यवार्ताम् ।
स्वसहचरजनैर्निशम्य हृष्टो दिनकरतप्तमहीव वर्षपाते ॥ २३३ ॥
अनुपमदयितां निनीषमाणो जनपसुतः प्रययौ सुहृत्समेतः ।
निजभवनमुखे स्थितां सुकन्यां वदनरुचैव दिशो प्रदीपयन्तीम् ॥ २३४ ॥
अतिशयभयसिक्तवामपाणिं स्वकरतले परिगृह्य चन्द्रिकायाः ।
स्वपितृभवनमेव लज्जितां तां पितृनमनाय निनाय राजपुत्रः ॥ २३५ ॥
अविरतमनुयाति तां बिडाले अनयदुभे ललना कलामुमां च ।
नरपतिनिलयं न कैः प्रशस्या स्वजनवदन्यजनेषु वृत्तिरस्याः ॥ २३६ ॥
दयितनिजसुतं प्रियासमेतं प्रणतममोघशुभाशिषां वचोभिः ।
नरपतिरमितोत्सवोऽभ्यषिञ्चत् किमिह सुखं जनकस्य पुत्रभूतेः ॥ २३७ ॥
सुतपरिणयमङ्गलार्थसिद्ध्यै निजसचिवं च समादिदेश राजा ।
भवतु सकलवैधकार्यजातं नगरजनस्य सुखार्थमित्यवोचत् ॥ २३८ ॥
समुचितसुजने विमातृपुत्रीं घटयितुमैच्छतुमां च चन्द्रिका सा ।
सविनयमवदत्स्वरागपात्रं यदि भवितेदमहं ध्रुवं सुहृष्टा ॥ २३९ ॥
स्वसुतपरिणये निविष्टचित्तश्चतुरमतिस्सचिवस्तदा बभाषे ।
निरवधिकगुणो युवा सुरूपी मम सुत एव भवेदुमोपयन्ता ॥ २४० ॥
अभजत हृदयं सुखं कलाया निजतनुजोपयमप्रकल्पनोत्थम् ।
विकचसुमरुचिं बभाज तन्व्या मुखमनिरीक्षितमङ्गलादुमायाः ॥ २४१ ॥
तदनु सपदि मन्दहासमूर्तिः सचिवसुतो गिरिशाभिधो बभाषे ।
प्रियतमपदवीं दधीत रम्या यदि मयि मत्सुखमेत्यपूर्वकाष्ठाम् ॥ २४२ ॥
विकसितकुसुमे पपात भृङ्गो नवमकरन्दपिपासितो हि दिष्ट्या।
रुचिकरमभवत्भिषक्प्रदत्तं शिवदयया हितमातुरस्य पथ्यम् ॥ २४३ ॥
न किमपि ललना शशाक वक्तुं विलसदपाङ्गदृशो भृशं किलोचुः ।
स्मितसहितपरस्परेक्षणैस्तत् तरुणयुगं निजसम्मतिं बभाषे ॥ २४४ ॥
१३
पौरान्न्यमज्जयतलौकिकहर्षसिन्धौ
पृथ्वीशपुत्रसुखदामलचन्द्रिकाभा ।
संश्रुत्य ते नृपपथेषु विवाहयुग्म-
वार्तां मिथो शुभकरीं बहुधा शशंसुः ॥ २४५ ॥
उद्वाहसंभ्रमविधिं पथि घुष्यमाणां
श्रुत्वा भटैर्निजसुखाय यदृच्छयैव ।
कर्माणि वृत्तिसहजानि विहाय पौराः
रथ्यास्वलङ्करणकर्मणि संप्रवृत्ताः ॥ २४६ ॥
कैश्चित्स्वसौधशिखरेषु च चत्वरेषु
संस्थापिता गगनचुम्बिलसत्पताकाः ।
कुड्यानि सद्मनिकरस्य सुधावलेपैः
नूत्नश्रियंह्युदवहन् पुरि राजमार्गे ॥ २४७ ॥
रथ्याः सुगन्धिहिमशीतलवारिसेकैः
अम्लानपुष्पनिचयग्रथितार्द्रहारैः ।
कन्दर्पचित्रफलकैर्निशि दीपवृक्षैः
कामप्यपूर्वसुषमामतुलामवापुः ॥ २४८ ॥
पौराः प्रभोर्वरनिमन्त्रणमाददानाः
स्वस्थानयोग्यमणिमौक्तिकभूषिताङ्गाः ।
स्वच्छप्रशस्तवसनाः शतशो समेताः
देवेशसद्मनिभराजतराजसौधे ॥ २४९ ॥
राज्ञ्यासह स्वप्रकृतीः स्वयमेव राजा
सप्रश्रयं ह्यससभाजत राजसौधे ।
चन्द्रो नभस्युडुगणान् दयितान् ससन्ध्यः
सुस्वागतं न किमसौ वदति प्रदोषे ॥ २५० ॥
कन्याद्वयी परिणये धनिकैश्च दीनैः
औद्वाहिकैर्बहुविधैरभिवर्षिताभूत् ।
आशीर्भिरीप्सितफलप्रदवेदवाक्यैः
नोपायनं खलु सुखाय यथा सदाशीः ॥ २५१ ॥
सन्तर्पयन्ति सकलान् स्म नरेशसूदाः
स्वाद्वोदनैश्च घृतभर्जितभक्ष्यभोज्यैः ।
द्राक्षाम्रदाडिमरसोद्धृतचोष्यपेयैः
ताम्बूलपूगमधुसंस्कृतचर्व्यलेह्यैः ॥ २५२ ॥
नात्राभवत् परिणतो न युवा न बालः
योऽन्नप्रदानमनुभूय न तृप्तिमाप |
नैवाभवच्च युवतिः स्थविरा कुमारी
योपायनं न परिगृह्य विवेद तुष्टिम् ॥ २५३ ॥
राजस्नुषाभिमतमेतदिति ब्रुवाणैः
तत्तत्पशूचितनवीनसुसिद्धखाद्यैः ।
सम्प्रीणिता नगरगोव्रजपक्षिवृन्दाः
मार्जालकुक्करगणा धरणीशभृत्यैः ॥ २५४ ॥
बध्वौ स्वभर्तृसहितेऽमितभोगभाग्ये
पादार्चनाय जननीमभिजग्मतुस्ते ।
दुःखं सुखं च युगपत् ह्यनुभूय माता
वर्षातपाहतधरेव बभौ विमूढा ॥ २५५ ॥
सप्रश्रयं स्वजननीं प्रणिपत्य पुत्र्यौ
बाष्पावरुद्धवचसागदतां विनम्रे ।
अद्यप्रभृत्यपगतं तव कृच्छ्रजातं
मातस्त्वमास्व ससुखं भवनेऽस्मदीये ॥ २५६ ॥
माता विहस्य जनसंसदि सानुतापं
लज्जानुलिप्तवचसा न्यगदत्स्वपुत्र्यौ ।
तुष्टास्मि भोः सपदि चन्द्रिकयोपदिष्टा
नास्तीह कार्यमधुना मम जागृताहम् ॥ २५७ ॥
वाराणसीं जिगमिषामि ममात्मशान्त्यै
पायात् हरिः पुरजनान् सकलांश्च युष्मान् ।
यस्यांघ्रियुग्ममनिशं मनुजाः स्मरन्तः
विन्दन्ति शाश्वतसुखं तमहं श्रयामि ॥ २५८ ॥
एकाकिनी नु कथमेषि विहाय पुत्र्यौ
मा गा इह क्षपय कालमिति ब्रुवाणाम्।
पुत्रीमुमामवददीप्सितनिर्णयां मां
रुन्धे न कोऽपि शमथं भज मा शुचस्त्वम् ॥ २५९ ॥
मातुः श्रुत्वा गिरिवदचलं निश्चयं तं बिडालः
तस्याः क्रोडं प्रति यतमनाः पुप्लुवे चन्द्रिकाङ्कात् ।
एकाकिन्यै सहचरसुखं रक्षणं च प्रदातुं
तिर्यग्जन्तुः स्वऋजुचरितैर्दर्शयेत्तथ्यमार्गम् ॥ २६० ॥
मार्जारेणान्वहमनुसृतागात् कला पुण्यकाशीं
भर्त्राश्वस्ता प्रियसहचरी चन्द्रिका दीपयन्ती ।
राज्ञः सौधं पुरजनपदान् स्मेरवक्त्रा बभासे
भुञ्जानेष्टान् युवसमुचितान् धर्म्यकामान् समृद्धान् ॥ २६१ ॥