३६ मुक्तकाः

इयं हि प्रार्थना भूयात् प्रत्यहं मे कृपानिधे ।
यादृशं सुखमस्त्यद्य श्वोऽस्तु मे तादृशं प्रभो ॥ १ ॥

कृतं तत् गतं तत् न कार्यं न गम्यं ममात्रास्ति किञ्चित् ।
हर त्वं द्रुतं मां त्वदीयं परिष्वङगमेव प्रतीक्षे ॥ २ ॥

पुत्रे शालां प्रयाते गतवति पितरि क्रेतुमगदम्
याच्ञामादृत्य भर्तुः निधुवनसुखमिच्छोः प्रियतमा ।
भुक्ता श्रान्ता सुतृप्ता स्वपिति रमणमाश्लिष्य सुचिरम्
स्वेदक्लिन्नापराह्णे विगलितपरिधानाऽमितरतिः ॥ ३ ॥

[म्रौभ्नौ पश्चात् यनौगुः मुनियतिसहिता रम्यचरणा । अस्मिन् रम्यचरणानाम्नि नववृत्ते मगणरगणौ तदनु भगणनगणौ पश्चात् यगणनगणौ अन्ते
गुरुश्च भवन्ति । मुनियतिसहिता सप्ताक्षरान्ते यतिश्च संभवति ।]
दयितेक्षणगुणबद्धः स्वोद्योगाय तरुणो जिगमिषुः किम् ।
स्वगृहाद्बहिर्गतो वा न हि देहल्येव जानीते ॥ ४ ॥

तस्या मुखेन्दोः स्मितचन्द्रिका सा विनाशयन्ती स्वमरीचिजालैः।
चिन्तातमः प्रेक्षकमानसाब्धौ आनन्दवीचीर्जनयाञ्चकार ॥ ५ ॥

सम्मार्जनीं स्वरसनां खलु मन्यमानाः
केचित् स्वचित्तशुचितां पुरुषा यतन्ते ।
कुर्वन्त एव कलुषं परमानसं ते
दूष्य़ा भवन्ति परिमार्जनधूलिदिग्धाः ॥ ६ ॥

गतं शोकप्रदं चैव भयप्रदमनागतम् ।
न चिन्तयन् स्मेरवक्त्रो जीवेद्धीरः क्षणात् क्षणम् ॥ ७ ॥

यदि श्रद्धालुस्त्वं परिणमति नूत्नं प्रतिदिनम्
भवेत्स्वप्नः सत्यं भवति घटना विस्मयकरी |
स्वसामर्थ्ये धैर्ये भजसि दृढतां तोषजननीं
प्रभग्नास्वाशासु प्रभवसि पुनः प्रयतितुम् ॥ ८ ॥

[इंग्लिश्; अन्तर्जालम्]
हर्षस्फीते बन्धुजने रुदन्नहमवातरम् ।
रोदिष्यति प्रियजने मृतिर्मेऽस्तु हसिष्यतः ॥ ९ ॥

[उर्दू]
कुतो मत्तः जुगुप्सन्ते त्वयि स्निह्यन्ति मानवाः ।
इति पृष्टं कृतान्तेन जीवनं प्रत्यभाषत ।
त्वं यतो दुःखदं सत्यं मिथ्याहं सुमनोहरम् ॥ १० ॥

[इंग्लिश्: अन्तर्जालम्]
पुरुषस्य त्रयो स्वप्नाः मातृभावितचारुता ।
जायाभावितजारिण्यः पुत्रभावितवैभवम् ॥ ११ ॥

[इंग्लिश्: अन्तर्जालम्]
कोऽपि न हि पाठयत्युद्गिरणमग्न्यगम्
न च कूलनाशनं वारिधितरङ्गम् ।
न तु वृक्षभञ्जनं वात्यां युवानम्
गेहिनीवरणं च सहजापदस्तानि ॥ १२ ॥

[इंग्लिश्: अन्तर्जालम्] \
प्रखररविमयूखैः फुल्लतां याति पुष्पं
परिणमति विशुद्धं स्वर्णमग्नौ प्रतप्तम् ।
प्रभवति नवनीतं मन्थनात् तक्रपात्रे
प्रबलबुधविवादात् जायते विश्वतत्त्वम् ॥ १३ ॥

न त्वं सोऽहं मन्यसे यं त्वमेव
न त्वं सोऽसौ मन्यते यः परैश्च ।
ज्ञातोऽस्मीत्थं वै परैरित्यवैषि
नासि त्वं भोः केवलंश्रीशवेद्यः ॥ १४ ॥

वित्तस्यूते जनकजननीचित्रमादौ निधाय
पश्चात्पत्न्याः तरुणवयसि न्यस्तमह्नाय चित्रम् ।
प्राप्ते मध्ये वयसि तदनु स्थापितं पुत्रिकायाः
वार्धक्ये वै अहह निहितं बालगोपालमूर्तेः ॥ १५ ॥

बधिरस्य जगन्मूकमन्धस्य च तमोमयम् ।
तथा किंकर्तव्यतामौढ्यं विवेकरहितस्य वै ॥ १६ ॥

धनेन तोषो न कदाचनेति गाथास्ति सत्यं शृणु मां परंतु ।
हरे कुरु त्वं धनिनं तथा तद्यथार्थतामात्मनि साधयेयम् ॥ १७ ॥

द्युतिः शब्दात् प्रवहति द्रुतं तस्माद्धि केचन ।
भ्राजमाना हि दृश्यन्ते यावत् संशृणुमः न तान् ॥ १८ ॥

विवेकहीनैर्मनुजैर्मदाविलैः कृतं विलोक्य प्रकृतेः प्रदूषणम् ।
प्रवाहभूकम्पपयोधिवीचिभिःजनान् जघानाशु जनार्दनो रुषा ॥ १९ ॥