तरोरधश्चेद्यदि मुष्टिमानमन्नं सुरायाश्चषकं च काव्यम् ।
त्वं गानलोला मम पार्श्वतोऽसि स्वर्गायते काननमेव कान्ते ॥ १ ॥
कुरु प्रपूर्णं मधुपानपात्रं प्रयाति कालः प्रसभं प्रिये त्वम् ।
श्वो न प्रसूतं च विचेतनं ह्यो यद्यद्य मिष्टं वद किन्नु ताभ्याम् ॥ २ ॥
[इंग्लिश्: ऎड्वर्ड् फ़िथ्स् जॆराल्ड्: रुबयत् आफ़् उमर् खयाम्]
पद्भ्यां हि गच्छन् यदि कुक्कुरः सखे
जनप्रशंसां लभते कदाचन ।
सा केवलं तस्य गतेः सुशक्यतां
न चारुतां सूचयतीति निश्चितम् ॥
[इंग्लिश्: सामुयल् जान्सन्]
बहवः पुरुषा लोके मूढा एव भवन्ति वै ।
योऽभिप्रायः बहूनां सः मौढ्यजन्यो भवेदतः ॥
[इंग्लिश्: बर्ट्रॆन्ड् रसॆल्]
यन्मयाऽपरिवर्त्यं तद्यथा स्वीकरवाण्यहम् ।
देहि मे मनसः शान्तिं देहि धैर्यं तथा प्रभो ॥
यन्मया परिवर्त्यं च कुर्यां तत्परिवर्तनम् ।
यथा ते त्वभिजानामि विवेकं देहि मे तथा ॥
[इंग्लिश्; रैन्होल्ड् नीबूर्]
मदुत्कटेच्छा विहगस्य कूजितैः प्रशान्तिमाप्नोत्यहमप्यमेयम् ।
प्रहर्षमाप्नोमि विहंगवन्मन्-मुखेन गायेः किमपीश्वर त्वम् ॥
मम चेतस्तव प्रेम्णा शरीराद्गगनं गतम्
त्वयाहमुद्धृतो द्वाभ्यां जगद्भ्यामभवं प्रभो ।
समागते तवादित्ये द्रुतं मद्वर्षसीकरैः ।
उन्नयेद्वारिधरवत् मच्चेतस्तव तिग्मता ॥
[पर्सियन्/इंग्लिश्; जलालुद्दीन् रूमि]
न बुध्यन्ते मम गिरो न भोत्स्यन्ते कदापि ते ।
देहि तेभ्यः हृदन्यं वा जिह्वामन्यां महेश मे ॥
[उर्दू;मिर्ज़ा गालिब्]
जगद् हि रङ्गः पुरुषास्तु नर्तकाः
स्त्रियोऽभिनेत्र्यो प्रभवन्ति पश्यत ।
निर्यान्ति केचित् प्रविशन्ति केचिद-
त्रैको विधत्ते किल नैकपात्रताम् ॥
[इंग्लिश्; विलियम् शेक्स्पीयर्]
धनिकेभ्यो धनं लब्ध्वा निर्धनेभ्यो मतानि च ।
नायकः प्रतिजानीतेऽन्योन्यभीतिनिवारणम् ॥
[इंग्लिश्; मार्क् ट्वेन्]
यदि नरकभयात्त्वां प्राप्नुयां हे प्रभो मां
प्रहिणु नरकमेव स्वर्गकामो व्रजेयम् ।
भवतु मम निषिद्धः स्वर्गमार्गो यदि त्वां
अनुभवितुमहमिच्छुः स्वीकुरु त्वं द्रुतं माम् ॥
[अराबिक्/इंग्लिश्; राबिय बस्रि]
अर्थोऽयमेव प्रजातन्त्रतायाः ।
भृत्यो भवेयं न तस्मान्न भर्ता ॥
[अब्रहाम् लिन्कन्]
तवाग्रदृष्टिर्यदि वर्षसीमिता
निधेहि शालिं दशवर्षसीमिता
निधेहि वृक्षान् यदि सा शतं समाः
सखेत्वमध्यापय बालकान् ध्रुवम् ॥
[चैनीस्; कन्फ़्यूसियस्]