३४ अतिथिसत्कारः

“स्वागतं स्वागतं तुभ्यं चिराद्दर्शनमागताः ।
अद्यास्माकं दिनं धन्यमतर्कितसुखावहम् ॥ १ ॥

[मयाद्य किं कृतं पापं तत्फलोऽयं समागमः ।
धनव्ययस्तथा कालहरणं मे भवेद्ध्रुवम्] ॥ २ ॥

अलङ्कुरुत सन्मान्या आसनानि यथासुखम् । [पर्याप्तान्यासनान्यत्र न भवेयुरिति स्पृहा]॥ ३ ॥

आनन्दोदधिमग्नोऽहं त्वद्बालाश्चागता इति । [मर्कटास्ते विनष्टं स्यात् सर्वं वस्त्वत्र खण्डितम्] ॥ ४ ॥

ददाम पेयं किं भक्ष्यं ब्रूथ वाञ्छथ निस्त्रपाः। [भक्षयिष्यन्ति पास्यन्ति सर्वं सद्यो यदर्पितम्] ॥ ५ ॥

पुत्र्या मे गायनं यूयं श्रोतुमर्हथ सुस्वरम् । [कृतार्थोऽस्मि सुतां श्रुत्वा पलायन्ते यदि द्रुतम्] ॥ ६ ॥

‘द्रष्टुं पुत्थलिकाचित्रं मे बाला आगतात्र वै ।
अस्मत्साक्षात्करं दोषपूरितं क्षम्यतां यतः’ ॥ ७ ॥

इति किं वक्षि? सुकरमिदानीमेव तद्भवेत् ।
भार्ये साक्षात्करं तेभ्यः चालयाशु विचक्षणे ॥ ८ ॥

‘अस्मत्साक्षात्करं चापि सदोषम्’ इति भाषसे? ।
अहो, मम हि दौर्भाग्यं, क्षम्यतां करवाणि किम्? ॥ ९ ॥

‘स्वस्ति वोऽस्तु गमिष्यामो प्रातिवेश्यगृहं द्रुतम्’ ।
इति किं वदथ, क्षिप्रं मिलामो भवतात् शुभम् ॥ १० ॥

[सम्पन्नं सुदिनं दिष्ट्याऽहो मे पत्न्याः प्रगल्भता ।
विद्युत्तन्तू साधनस्य निभृतं विचकर्ष या॥]” ॥ ११ ॥

[साक्षात्करः=टॆलिविशन्]