३३ कोऽसौ विकारः?

कार्याय कोष्ठं प्रविशामि पश्चादहं कुतोऽत्रेति विचिन्तयामि ।
कुत्रापि गोप्यं तु निवेश्य पश्चात् तद्वस्तु कुत्रेति गृहे ह्यटामि ॥ १ ॥

वृद्धेन मित्रेण चिरं प्रभाषे किं नाम तस्येति च तर्कयामि ।
करोमि किं वैद्य वदेति पृष्टोऽगदद्धनं देहि ततो वदामि ॥ २ ॥