३२ छिद्रान्वेषी

“कृतकशुकोऽयं व्यथयति मां सुभृशं केन निर्मितो वद मे ।
कर्ता कर्मण्यपटुः संशीतिर्मम न तत्रास्ति ॥ १ ॥

कृतका खगा मया कति सुभगा विहिता क्व चारुता तेषाम् ।
क्वेदं वैरूप्यं भोः अपसारयतेममधुनैव ॥ २ ॥

किमिदं शुकस्य तुण्डं, को निगदति कंठ इति शुकस्येमम् ।
शुकपक्षौ किमिमौ वद? पादौ वक्रौ नखा निम्नाः ॥ ३ ॥

इत्थं जल्पति सुचिरं कृतकविहगकृतिविचक्षणे सहसा ।
तमभिभवन्निव कीरः तरसोदपतद्गवाक्षाद्वै ॥ ४ ॥