कीलाभावान्नोपयुक्तं खुरत्रं तस्याभावान्नोपयुक्तस्तुरङ्गः ।
अश्वाभावात् प्राचलन्नैव सादी युद्धे हानिः प्राभवत् साद्यभावात् ॥ १ ॥
युद्धे घातात् राज्यमेव प्रणष्टं कीलाभावादेव राज्यस्य नाशः ।
स्वल्पाभावात् संभवेत् सर्वनाशः हन्तानूह्या हेतुकार्यप्रणाली ॥ २ ॥
[इंग्लिश्;नर्सरि रैम् ]