श्रमार्जितं त्वन्मधु मिष्टमन्ये सुखेन मर्त्याः खलु चोरयन्ति ।
कथं न खिन्नोऽसि वदेति पृष्टः खगेन कश्चिन्मधुपः कदाचित् ॥ १ ॥
मुष्णन्तु मूढा मम किं मनुष्या करोमि भूयो मधु लीलयाहम् ।
यावन्न मुष्टं मम कर्मदाक्ष्यं मुष्टं न किञ्चित् विहगेत्युवाच ॥ २ ॥
[ इंग्लिश्: अन्तर्जालम्]