आत्मन्यप्यधिकं मयि त्वमनिशं सक्तो ददासि स्वकं
कृत्स्नं यद्यपि ते मदीयमणुकं खाद्यं स्थलं प्रेम च ।
दत्तं मे वदनं यदानवरतप्रेम्णा त्वया लिह्यते
स्वर्गानन्दविडम्बनं मम तदा धन्योऽस्मि हे कुक्कुर ॥ १ ॥
सत्यं त्वं न भवेर्मदीयमखिलं बह्वाश्रयं जीवितं
संपूर्णं न भवेत् तथापि शुनक त्वत्स्पर्शसौख्यं विना ।
प्रेत्य त्वं यदि यास्यसि प्रियसख स्वर्गेतरं सत्पदं
स्वर्गं चापि विहाय तत्पदमहं गन्तास्मि निस्संशयम् ॥ २ ॥