कृषीवलः पालयति स्म कश्चित् बस्तं हयं चैव गृहे स्वकीये ।
यदा हयस्त्वामयपीडितोऽभूत् स वाजिवैद्यं त्वरयानिनाय । १ ॥
परीक्ष्य वैद्यः प्रसभं तुरङ्गमयच्छदस्मै अगदं महार्घम् ।
बभाण भोः खादय जायुनेममश्वं सयत्नं दिवसत्रयं त्वम् । २॥
भवेत् तुरंगः सबलो निरीतिः भवेः सहर्षस्त्वमपि प्रसन्नः ।
यद्यन्यथा चेत् प्रसभं तुरङ्गं हन्या न यावत् प्रसरेत् विकारः । ३॥
विषक्रिमिग्रस्तहयात् यथान्यजीवी लभेन्नामयदोषमाशु ।
तथाप्रमत्तस्त्वमिमं तुरंगं दिनत्रयं पालय सानुकम्पम् ॥ ४ ॥
आदेशमेनं श्रुतवान् समीपे स्थितः स बस्तोऽवहितस्तदानीम् ।
कृषीवलस्त्वश्वमखादयत्तम् दिनेऽगदेन प्रथमे यथोक्तम् ॥ ५ ॥
उवाच बस्तो विनयान्वितोऽश्वं भो मित्र शीघ्रं सबलो भव त्वम् ।
यद्यन्यथा त्वां कृषकस्तु हन्यादुत्तिष्ठ यत्नेन जिजीविषुश्चेत् ॥ ६ ॥
उत्थातुमश्वस्तु मनाक् न येते तथैव चाभूदहनि द्वितीये ।
बस्तस्तृतीयेऽहनि भूय एव हयं कृपालुः समुपाजगाम ॥ ७ ॥
उवाच कष्टं शृणु मां श्व एव निस्संशयं त्वं यमसद्म गन्ता ।
यदि त्वमुत्तिष्ठसि चेन्न मित्र यतस्व तस्मादधुनैव शीघ्रम् ॥ ८ ॥
श्रुत्वा गिरस्तस्य हयस्तदानीं शनैः शनैः भीरुतयोदतिष्ठत् ।
बस्तः सहर्षं व्यनदत्सुदीर्घं श्रुत्वागमत् भीतकृषीवलोऽत्र ॥ ९ ॥
पादैः स्थितं तं तुरगं विलोक्य सानन्दमुच्चैरवदत् स्वभृत्यान् ।
अयं ममाश्वोऽद्य गदाद्विमुक्तः भूयान्महो मे निलयेऽद्य एव ॥ १० ॥
हनाम बस्तं तरसा सुपुष्टं पिबाम खादाम च बस्तसूपम् ।
प्रायेण सत्कार्यपरो हि जन्तुः सुकर्मणा स्वेन लभेत नाशम् ॥ ११ ॥
[ इंग्लिश्-अन्तर्जालम्]