उत्तुङ्गवृक्षे ससुखं निषण्णं गृध्रं क्रियाहीनमवेक्ष्य कञ्चित् ।
धरानिविष्टः शशकस्तमूचे साध्या नु किं निष्क्रियता मयापि ॥ १ ॥
किं संशयं मित्र, सुखेन तिष्ठेत्युक्तो स भूमौ निषसाद तूष्णीम् ।
हन्त क्षुधार्तेन स जम्बुकेन व्यापादितो भक्षित एव तूर्णम् ॥२ ॥
उच्चैः स्थितस्यैव हि जीवयात्रा सिद्ध्येन्न कुर्वन्नपि कर्म किञ्चित् ।
अन्योऽनुवृत्तिं यदि कर्तुंमिच्छेत् ध्रुवं विनश्येत् शशवत् स शीघ्रम् ॥ ३ ॥
[ इंग्लिश्:अन्तर्जालम्]