अज्ञानान्मे जननमभवत् पोषिता दुर्नयेन
नैराश्यं मे दयिततनुजः सोदरः कालनाशः ।
शत्रुर्वृद्धेरलघुकरणं पीडने च प्रजानाम्
साहं भीतिर्हृदयवसतिः कण्टकं लोकमार्गे ॥ १ ॥
नैकान् वर्णान् खलु सरटवद्धारयन्ती सलीलम्
प्रख्यातास्मीत्यवहितमतिः कुत्रचित् गाढशङ्का ।
आशाभङ्क्त्री खलु युवजने ध्वंसिनी सुस्पृहायाः
लक्ष्यच्छेत्री सरलमनुजानन्वहं क्लेशयामि ॥ २ ॥
एकः स्वामी यमहमनिशं संस्मरन्ती प्रवेपे
येनाज्ञप्ता मनुजमनसः सत्वरं प्रद्रवामि ।
ख्यातो लोके कुशलमतिभिर्विश्वजेता विवेकः
तं हे मर्त्या व्रजत शरणं शून्यतां यामि शीघ्रम् ॥ ३ ॥
[इंग्लिश्: अन्तर्जालम्]