यो जज्ञेऽसितवर्णभूपतिकुलेऽवाङाफ्रिकाभूस्थले
येन श्वेतजनप्रशासनविरोधार्थं कृतो विग्रहः ।
यो श्वेतैः बहुवत्सरावधि तनुद्वीपे निबद्धो ऽभवत्
यो पश्चात् सकलैः सितासितजनैर्देशेषु सम्भावितः ॥ १ ॥
राष्टाध्यक्षपदं मुदा सविनयं धीरेण येनार्जितम्
नोबेल्भारतरत्नपदवीभाग्यो महान् निःस्पृहः ।
गान्धीमार्गचरः सदा स्मितमुखो लोकप्रियः सज्जनः
मण्डेलाख्यमहोदयाय भवते श्रद्धाञ्जलिं दद्महे ॥ २ ॥