२२ सिकन्दरस्य चरमयात्रा

विजित्य नानाक्षितिपान् सलीलं सिकन्दरः शौर्यवतां वरिष्ठः । रक्तप्रवाहार्जितवित्तराशीनादाय दृप्तः स्वपुरीं प्रतस्थे ॥ १ ॥

मार्गे गदग्रस्तमिमं नरेशं निष्णातवैद्या उपचेरुरार्तम् ।
तथापि कालेन विधेर्विपाकान्नृपः क्रमेण क्षयतां प्रपेदे ॥ २ ॥

तल्पे शयानः मरणावसन्नः चिन्ताग्निना भूरि विदह्यमानः ।
आनाय्य सेनाधिपतीन् बलिष्ठान् शनैरवोचत् स मृदुस्वरेण ॥ ३ ॥

भो मे प्रियाः पश्यत मां शयानं महौजसं क्ष्मापतिसार्वभौमम् ।
अशक्तमल्पायुषमल्पवीर्यं चर्मास्थिशेषं शिशुवद् हि पाल्यम् ॥ ४ ॥

दूरेस्थितां मातरमुत्सुकेन द्रष्टुं मयाऽशक्यमधन्यतायाः ।
यूयं त्विदानीं कुरुत प्रपूर्णान् त्रयोऽभिलाषान् मम साभियोगम् ॥५ ॥

वैद्या वहेयुर्मम मृत्युपेटीं नान्ये श्मशानं प्रथमाभिलाषः ।
श्मशानमार्गे रजतं सुवर्णं विकीर्यतां सम्यगिति द्वितीयः ॥ ६ ॥

हस्तौ मदीयौ शवपेटिकायाः विलम्ब्यमानौ भवतां तृतीयः ।
त्यजेत् प्रभुत्वं मरणावसन्नं प्रायेण राजानमिति ब्रुवन्ति ॥ ७ ॥

तां यूयमार्या वितथां कुरुध्वं भूयात् शुभं वोऽद्य दिवं व्रजामि ।
श्रुत्वा गिरः दुःखकरीः इमास्ते सप्रश्रयं भूपमिदं ह्यपृच्छन् ॥ ८ ॥

कर्तव्यमस्माभिरवश्यमेव ह्यभीष्टमस्मद्दयितप्रभोस्ते ।
प्रष्टव्यमत्रास्ति तथापि राजन् एतेषु कृत्येषु तवास्ति कोऽर्थः ॥ ९ ॥

कृछ्रेण राजा स्मयमान ईषत् शनैरवोचत् शृणुतेममर्थम् ।
विनेश्वरेच्छामगदैर्न रुग्णं स्वस्थं कदाप्यत्र करोति वैद्यः ॥ १० ॥

सुवर्णरूप्यादिधनेषु साकं मृतेन नैतीषदपीह लोके ।
शिशुर्यथागच्छति रिक्तहस्तस्तथैव निर्गच्छति वै मृतोऽपि ॥ ११ ॥

इति वदति महीशे दण्डपालान् महाढ्यान्
अविरलमवसन्नास्तेऽपि बाष्पानमुञ्चन् ।
गतवति धरणीशे स्वर्गमुत्सृज्य सर्वं
जलधिमभिससारेवातिखिन्ना दिनश्रीः॥ १२ ॥