[पञ्चमात्राग्रथितगणचतुष्टयमत्र
तादृशाः पञ्चपादाः षष्ठपादे तु
अधिकगुरुरन्तेऽस्ति षट्पदीत्यभिधीयते]
कुत इदं कथमिदं किमिदं कदा कुत्र
सम्पद्यते इति प्रविचार्य सर्वतः
कृत्वा प्रयोगांश्च मेयानि मित्वा च
मतिमूलतर्कविधिनैव संशोध्य खलु
परिशीलनं विना न श्रद्धधानाश्च
विज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १ ॥
किं ववौ मारुतो मन्थरं मृदुलं च
किं रवेरातपः प्रखरतां नाभजत्
किं पुष्पवृष्टिरभवन्नभोमण्डलात्
गलिलियो गलिलै यदा जनिमवाप्तवान्
यस्माद् हि विज्ञानसंस्कृतिः प्रारभत
तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ २ ॥
प्रक्रियामुपयुज्य गणितस्य समुचिते
प्रतिरूपसर्जने सरलतामवलम्ब्य
दृष्टतथ्यानां निरूपणे सक्षमाः
नूत्नतथ्याविष्करणनिपुणकल्पनाः
विरचयन् विज्ञानसंस्कृतिर्विजयते
तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ ३ ॥
भूजीवविज्ञानवलयेषु नास्ति चेत्
शक्यं प्रयोगनिर्माणमवलोकनैः
साक्ष्यानि संपाद्य कल्पनां संसाध्य
साक्ष्येतरे नूत्नकल्पनासफलता
भवति चेत् तां घोषयेदितरधीमतां
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ४ ॥
विश्वस्य तत्त्वमतिसरलं च सुन्दरं
मन्यमानास्तस्य मार्गणे शेमुषीं
सततं प्रयुज्य ते सत्यसंशोधकाः
विज्ञानगतिपथे प्राचलन् रंहसा
नाशयन्तो मौढ्यजालानि सर्वथा
तत्संस्कृतेरेव ताडयत जयडिंडिमम् ॥ ५ ॥
योहान्न केप्लरः ब्राहेउपाह्वस्य
टैखोऽभिधेयस्य दीर्घकालात्तबहु
-मूल्यावलोकनानाधृत्य सुन्दरं
नियमत्रयं कथितवानहो भास्वरो
ग्रहाणामिनपरिक्रमणगतिमुद्दिश्य
विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ६ ॥
दूरदर्शकयन्त्रमवलोकयत तत्र
दृश्यते विश्वेऽस्मदल्पता सुविशदं
सूक्ष्मदर्शकयन्त्रमस्मच्छरीरस्य
पृथुतां प्रदर्शयति शंसाम कुशलतां
एकाग्रचित्ततामेवंविधानि यैः
सृष्टानि तेषां च ताडयत जयडिंडिमम् ॥ ७ ॥
को न जानाति तं मतिमतामग्रणीं
न्यूटनं येन खलु चलननियमत्रयं
सार्वलौकिकतत्त्वरूपेण वर्णितं
येन सर्वद्रव्यगुणसमाकर्षणशक्ति-
रन्योन्यमुत्पद्यते नियतमित्युक्त-
मथ तस्य संस्कृतेस्ताडयत जयडिंडिमम् ॥ ८ ॥
हार्वे उपाह्वं विलियमं चिकित्सकम्
यो प्रयोगान् बहून् मनुजेषु निर्वर्त्य
रक्तचलनक्रियां हृदयस्य पात्रमपि
सम्यङ्न्यरूपयत् वैद्यशास्त्रप्रथन-
मूलकारणमभूत् तं कृतज्ञाः स्मरत
तस्येष्टसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ९ ॥
जेम्स् वाट इति नाम यस्य प्रथितमस्ति
यो प्रयोगान् बहून् सूक्ष्मान्श्च निर्वर्त्य
तप्तबाष्पच्छन्नशक्तिचालितयन्त्र-
माविश्चकार यत् प्रोद्योगरङ्गस्य
परिवर्तने श्रेष्ठपात्राणि निरवहत्
तस्य वरसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १० ॥
लव्वासियेर्वर्यमाधुनिकरसशास्त्र-
जनक इति विख्यातमाम्लजनको येन
सम्पादितो स्वप्रयोगालये दीप्त-
जलजनकतो जलं भवतीति दर्शितं
स्मरन्तो तं च तद्विज्ञानकर्माणि
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ११ ॥
एड्वर्डजेन्नरःजनपदप्रत्ययं
ह्यवलम्ब्य मारकमसूरिकावारणे
भूतले प्रथमतो सफलतां प्राप्य खलु
आविष्चकार भीषणरोगयन्त्रणं
रोगरोधकवेधनीतन्त्रमार्गेण
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १२ ॥
डाल्टनमहाशयं यो मूलवस्तूनि
समगुणैः परमाणुभिः कृतानीत्युचित-
भिन्नपरमाणुसंयोगात् हि संयुक्त-
वस्तूनि सिध्यन्ति चेत्याह संस्मृत्य
रसशास्त्रवर्धनाग्रेसरं ज्ञानिनम्
तद्ज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १३ ॥
मैकेलफारडे इति नाम यस्य यो
चलदयस्कान्तस्य निकटे स्थिते लोह-
सूत्रेऽनुभूयते तडिच्छक्तिरिति तं
प्रोद्योगपरिवर्तकं तत्त्वमकथयत्
तं लोहकारस्य तनयं प्रशस्य भोः
तज्ज्ञानसम्स्कृतेस्ताडयत जयडिंडिमम् ॥१४ ॥
प्राकृतिकचयनाद् हि जीववैविध्यमिति
विज्ञानपरिवर्तकं तत्त्वमकथयत्
संगृह्य जन्तून्स्तदस्थ्यादिशेषान्श्च
पाषाणभूतान्श्च विज्ञानशेखरः
तं डार्विनं चार्लसाभिधं संस्मृत्य
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १५ ॥
करसहस्राद् यन्त्रमेकं समर्थं हि
तैलखनिजाङ्गारबाष्पचालितमहो
द्रुतगतौ प्रचलन्ति यानानि खे जले
भूमौ च यैर्निर्मितानि नैपुण्येन
तान् कर्मयोगिनो संस्मृत्य सविनयं
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १६ ॥
सूक्ष्मविषकृमिभिर्ह्यनेकरोगोद्भवो
भवतीति साधितं सूक्ष्मप्रयोगैश्च
निःशक्तकृमिमूलभेषजान्युपयुज्य
नैकरोगा येन वारिता प्रथमतो
तं लूयिपेस्चरं संस्मृत्य सादरं
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १७ ॥
योहान्नमेन्डलःक्रैस्तधर्मार्चकः
सस्यरोपणविधौ यन्त्रितपरीक्षणान्
निर्वाह्य वंशानुगतगुणानां विधीन्
सम्यङ्न्यरूपयत् हन्त स्वजीविते
ख्यातिं न लब्धवान् तद्गुणान् संस्मृत्य
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १८ ॥
मेण्डलीफ्नामरसशास्त्रवित् पाणिनेः
वर्णमालाक्रमात्स्फुरितधीर्व्यरचयत्
मूलवस्त्वणुभारमनुसृत्य समुचितं
क्रमबद्धगुणगणाधृतफलकमद्भुतं
येन नवमूलवस्त्वस्तित्वमवगतं
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १९ ॥
कान्तीयवैद्युतक्षेत्रयोर्वीचय-
स्त्वाकाशमाध्यमे ज्योतिषो वेगेन
विसरन्ति दीप्तिरपि तदभिन्नवीचिर्हि
इति महासिद्धान्तमावृणोत् निशितधीः
जेम्स् क्लर्क माक्स्वलो संस्मृत्य तं मुदा
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २० ॥
माक्स्-प्लान्कवर्यो निरदिशत् स्वमेधसा
शक्तिप्रसारणं खण्डशो भवतीति
मूलतत्त्वं येन भौतविज्ञानस्य
नूत्नमार्गोऽभवत् खण्डवादस्य वै
बीजवापनमभूत् स्मरन्तो तां कृतिम्
विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २१ ॥
दास्यभावव्यथितदेशेऽस्मदीये हि
सम्भूतवान् कोऽपि महनीयमानवः
तन्तुं विनाकाशमाध्यमे प्रसरणं
विद्युत्तरङ्गस्य साध्यमिति निरदिशत्
जगदीशचन्द्रबसुमुज्ज्वलं स्मरन्तो
विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २२ ॥
मरीक्यूरीत्यभिहितां निशितधीमतीम्
या स्वभर्त्रा साकमाविरकरोन्नूत्न-
मूलवस्त्वनुपमं रेडियंनामकं
नोबेलुपायनं यस्यै प्रदत्तं द्वि-
रद्वितीयां स्त्रियं स्मरन्तो सादरं
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २३ ॥
ऐन्श्टैनमाल्बर्टुपाह्वममितप्रभं
यो दीप्तिवेगस्य नित्यतामाधृत्य
दिक्कालमिथुनस्य सापेक्षतां तथा
द्रव्यशक्तिद्वयस्यान्योन्यसमतां च
संस्थापयामास संस्मृत्य तं गुरुं
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २४ ॥
श्रोडिङ्गरं नमत भौतशास्त्राग्रणीं
यो खण्डवादस्य जनक इति विश्रुतो
द्रव्यं कदाचिदप्यणुरूपतां भजेत्
अन्यदा वीचिवत् व्यवहरेदिति महा-
गणितमयवरसमीकरणेन साधितं
येन तत्संस्कृतेस्ताडयत जयडिंडिमम् ॥२५ ॥
चन्द्रशेखरवेङ्कटरमणाभिधोऽयं
रामन्प्रभाव इति विदितामवेक्षणां
द्रव्याणुभिर्दीप्तिविकिरणप्रकरणे
साग्रहं सन्दर्श्यनोबेलुपायनं
वरभारतरत्नोपाधिमलभत महान्
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २६ ॥
अलेक्सांडर् फ़्लमिन्ग् वर्येण वैद्येन
सूक्ष्मगदजनकजन्तून्मूलने जयः
प्राप्तो नु पेनिसिलिनेत्याह्वभेषजात्
नोबेलुपायनं प्राप्तं च कोटिशः
रुग्णा निरामया अभवन् तदगदेन
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २७ ॥
वाट्सनं क्रिक्वर्यम् अतुलप्रभाविनौ
जीवशास्त्राङ्गणे यौ सर्वजीविनां
मूलेष्टकाभूतसत्त्वप्रकाशने
सफलतां प्राप्य खलु जगति कीर्तिं चापि
लब्धवन्तौ नमत सत्यसंशोधकौ
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २८ ॥
सङ्गणकयन्त्रस्य जनक इति विश्रुतं
ट्यूरिङ्गनामानम् आङ्ग्लदेशस्थितं
विश्वसमरे चाङ्ग्लदेशजयकारणं
सार्वत्रिकं गणकयन्त्रमाविष्कृत्य
शाश्वतयशोभाजनं गण्यमादृत्य
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २९ ॥
ट्रान्सिस्टरिति लोकविदितोपकरणाद्धि
नवविविधसौकर्यगणजन्मसाध्यता
तत्सम्भवे मुख्यकारणजनत्रयान्
षाक्लीमहोदयं ब्रट्टेनबार्डीन
वर्यौ च तत्साधितं चैव संस्मृत्य
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३० ॥
प्रथमकृतकोपग्रहं स्पुट्निकं स्मरत
शश्युपग्रहतले प्रथमतो न्यस्तांघ्रि-
मप्रतिमसाहसं तं मानवं नमत
तत्कार्यसाधकानगणितान् च स्मरत
व्योमयानज्ञानसफलतां च स्मरत
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३१ ॥
गणकयन्त्राधारदूरवाक्केन्द्राणि
कृत्रिमग्रहवाह्यसंवहनकेन्द्राणि
काचतन्तुस्तोमवाहिनीजालं च
संज्ञाप्रचारणे सौदामनीरयं
प्राकल्पयन्कन्दुकीकृतधरण्यां हि
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३२ ॥
व्योमशास्त्रज्ञेषु निष्णातमप्रतिम-
धीशालिनं चन्द्रशेखरं नक्षत्र-
-गणगात्रसीमानमधिकृत्य साधितः
चन्द्रमर्यादेति विख्यातवरविधिः
येन नोबेल्पदकजयिनं समादृत्य
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३३ ॥
स्वातन्त्र्यपूर्वभारतदेशसञ्जात-
विदितहरगोविन्दखोराननामान-
मद्भुतपरीक्षकं येन प्रदर्शितो
जीवसूत्रग्रथनमार्गः प्रयोगैश्च
स्मरन्तो नोबेलुपायनोपार्जकं
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३४ ॥
चलदूरवाण्यैव कर्षका वणिजश्च
कर्मकाराः स्वकार्यार्थमविरतमहो
सर्वत्र लीलया संलापमग्ना हि
वैद्युतान्तर्जालतन्त्रेण जगदिदं
करतलामलकवत् ज्ञानगोचरमभूत्
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३५ ॥
कृतकधीयन्त्राणि गगने पतङ्गवत्
डयने समर्थाणि शत्रुजननाशे च
चतुरङ्गखेलने वृद्धजनसेवने
गृहकार्यनिर्वहणतन्त्रे च मतिमतो
तद्यन्त्रसर्जने कारणान् संस्मृत्य
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३६ ॥
वैद्यशास्त्रे प्रगतिरवितर्क्यसफलतां
प्राप्ता नु नूत्नसफलागदाः मानवं
स्वस्थं प्रकुर्वन्ति शल्यतन्त्रज्ञास्तु
लीलया युञ्जते ह्यन्यदेहाङ्गानि
रोबोटयन्त्राणि शस्त्रवैद्यास्त्वहो
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३७ ॥
विज्ञानयाने तु वेगेन सञ्चलति
भूगतोर्जाव्ययात् उष्णतात्वेधते
हिमानी प्रवहति च जलसंप्लवो भवति
वर्धते सागरः सीमानमुल्लङ्घ्य
कृच्छ्रस्य वारको विज्ञानमेवास्ति
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३८ ॥
जलवायुभूमिप्रदूषणमनियमितं
प्राणिनामन्तकः सद्यो भवेदिति हि
कथयन्ति विज्ञानिनो शृणुत तान् जनाः
सर्वथा प्रकृतिप्रदूषणस्तम्भनं
कार्यमित्यवगम्य तत्कर्म साधयत
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ३९ ॥
विज्ञानमुत्कृष्टसाधनं केवलं
मनुजो विविच्य तज्जनहितं साधयेत्
उपयुज्य सादरं नो चेद्विनाशो हि
सकलजगतोऽस्माद् हि कारणात् ज्ञानेषु
मानवविवेचनज्ञानमतिरिच्यते
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ४० ॥