१९ विश्वसांयात्रिकः

[वायेजर्‍नाम अन्तरिक्षयानमुद्दिश्य]
षट्त्रिंशद्वर्षदेशीयं नभोमण्डलभेदिनम् ।
विश्वसांयात्रिकं यन्त्रं प्रशंसामो भुविस्थिताः ॥ १ ॥

“यदा त्वं भुवि सञ्जातः गुरुशुक्रग्रहेक्षणे ।
विनियुक्तोऽभवः पश्चात् वीक्ष्य त्वत्कार्यदक्षताम् ॥ २ ॥

युरेनसं च नेप्च्यूनमीक्षितुं त्वां नियुञ्जते ।
विज्ञाः त्वदीयजनकाः कृता सम्यक् च तत्कृतिः ॥ ३ ॥

एकाकी त्वमिदानीं भोः अतीत्य रविमण्डलम् ।
कुत्र गच्छसि किं ज्ञातुं मानवानां समृद्धये ॥ ४ ॥

मनुजानां मनीषायाः प्रतिरूपं ह्यसंशयम् ।
त्रयस्त्रिंशत्सहस्राणां मैलानि क्राम्यसि द्रुतम् ॥ ५ ॥

घटिकायां तथा त्वत्तः पृथिवीं प्रेषिता द्युतिः ।
घटिकानां सप्तदशात् पश्चादायाति मेदिनीम् ॥ ६ ॥

शतात् द्वादशकोटीनां मैलदूरात् किमुच्यते ।
त्वयास्माकं धरास्थानां त्वत्कर्तॄणां हितं वद” ॥ ७ ॥

“निस्संशयं भोः भवतां मनीषाप्रगल्भतायाः शिशुरस्म्यमोघः ।
तथापि किञ्चिद्वचनं ममैतद्दत्तावधानाः शृणुत प्रशान्त्यै ॥ ८ ॥

स्वप्रातिवेश्यस्य मनोव्यथायां प्रस्पन्दमानं हृदयं विनैव ।
भवद्भिरेवं रविमण्डलान्तात् श्रुतोऽस्मि दूराद्यदि चेत् ततः किम्” ॥ ९ ॥