विज्ञानभूतं जगतः सुकाब्यं व्यनाशयन्नीरससत्यशोधे ।
हृदो महत्त्वं खलु नष्टमास्ते जिज्ञासयेति त्यज गाढशङ्काम् ॥ १ ॥
कवेऽवगच्छ द्विगुणीकृता वै हृदो प्रतिष्ठा भुवि तेन सम्यक् ।
ब्रह्माण्डकोष्ठे ह्युडुवृन्दपुञ्जा भवन्त्यनेके बृहतश्च तेषु ॥ २ ॥
आकाशगङ्गा त्वणुरेव तस्मात् परं त्वणीयान् खलु सौरवृन्दः ।
तत्रास्ति पृथ्वीत्वणुका च तस्यामणिष्ठभूतः खलु मर्त्यजन्तुः ॥ ३ ॥
विज्ञानमेतन्मनुजस्य गाढं पराक्रमद्योतकमेव विद्धि ।
स्वाणिष्ठभावे प्रतताभिमानः हृदो महत्त्वस्य जयध्वजश्च ॥ ४ ॥