१७ मूढतिम्मुजल्पनम्-२

[मूलम्:कन्नड; डीवीजी; मन्कुतिम्मन कग्ग] [इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया अर्कनाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रा गणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो ते चतुर्मात्रो ततः
चरमे त्रयो गुरुश्चार्काभिधे ॥]
ताराः सहस्राणि सन्ति चेन्नभसि किं
करदीप एव पान्थस्य निशि शरणम् ।
दूरे स्थितं दैवमस्तु खलु मानुषो
मित्रमिच्छति कमपि मूढतिम्मो ॥ २ ॥

[मूले पद्य संख्या ४२४]
बन्धनं न हि भवति जन्तुषु मिथो प्रेम
आंशिकस्त्वेकलो युगलं सुपूर्णम् ।
द्विगुणयति सौख्यं च दुःखं विभक्तं च
बन्धुता हरिकृपा मूढतिम्मो ॥ ३ ॥

[प सं ४२९]
प्रेक्ष्य किञ्चित्तमसि शुनकस्तु शङ्कया
कुत्रापि कोऽपि सुहृदस्तीति मनुते ।
तत उन्मुखो भषति तद्वदेवेति किं
भक्तिर्मनुष्यस्य मूढतिम्मो ॥ ४ ॥

[प सं ४८४ ]
इष्टका जानाति किं सौधकल्पनां
सा विगलिता तर्हि भित्तिरन्ध्रं स्यात् ।
इष्टकामात्रमसि सृष्टिसौधेऽस्मिन्हि
वक्रासि चेत् पतसि मूढतिम्मो ॥ ५ ॥

[प सं ५३२ ] अनुभवक्षीरे विचारमन्थनकर्म
जनयति ज्ञाननवनीतं हि सुखदम् ।
शुकजल्पितं ग्रन्थपठनमनुभव एव
तव धर्मदीपोऽस्ति मूढतिम्मो ॥ ६ ॥

[प सं: ५४४]
वनकुसुमपरिमलघ्रायकः कस्तत्र
वर्णरञ्जितशलभसौन्दर्यभोक्ता ।
अनपेक्ष्य संस्तुतिं प्रकृतिः प्रवृत्तास्ति
आत्मतुष्ट्यै एव मूढतिम्मो ॥ ७ ॥

[प सं: ५६६]
ज्ञात्वा स्वबलमितिंज्ञात्वा स्व गुणगणं
बाह्यस्थितिं चैव सूक्ष्मं विलोक्य ।
आचरेत्कार्यस्यपरिधिमनतिक्रम्य
यः स धीरो भवति मूढतिम्मो ॥ ८ ॥

[प सं: ५७६]
अस्ति किं पथचित्रमुत्पतद्विहगस्य \
पथविधिर्मत्स्यस्य सलिले किमस्ति । \
किमपि प्रचोदयति किमपि कर्षत्यत्र \
पटपत्रमेवासि मूढतिम्मो ॥ ९ ॥

[प सं: ६४१]
क्षणतोऽपरक्षणं दिनतोऽपरं दिनं
जीवन् स्वकालस्य यापनं कुरु भोः ।
मनसि लघुता कापि सञ्चरतु शुनकवत्
स हि योगविधिरेव मूढतिम्मो ॥ १० ॥

[प सं ७६७] बाह्ये जनासक्तिरन्तर्विरक्तिस्तु
बाह्ये तु कर्मरतिरन्तर्निरीहा ।
अन्तरवधीरणा संस्कृतिभरो बहिः
योगमार्गः स खलु मूढतिम्मो ॥ ११ ॥

[प सं: ७७३]
प्रातरुप्तं बीजमेति किं फलदशां
सायमस्त्यत्र खलु कालस्य पात्रम् ।
ओदनं भवति किं तण्डुलं सत्वरम्
तितिक्षा साम्प्रतं मूढतिम्मो ॥ १२ ॥

[प सं: ७८१]
कुरु किञ्चिदपि कर्म हस्तागतं तत्र
मास्त्वहं तृणमात्रमिति कृपणचिन्ता ।
भुवनदेवालये नास्ति हीनं कर्म
स्थानमत्रास्ति तव मूढतिम्मो ॥ १३ ॥

[प सं: ७९०]
श्रान्तं धरायां हि ससुखं स्वपन्तं त्व-
मुत्तिष्ठ विचिनु शय्यामिति वदसि किम्? ।
तृप्तिं न नाशयेदुपकृतिभ्रान्त्या तु
दुष्करं ह्युपकृतिर्मूढतिम्मो ॥ १४ ॥

[प सं ८७३ ]
जगदिदं प्राक्तनं नितरां पुरातनं
रूढं सहस्राणि साराणि पीत्वा ।
असुकरं खलु तत्स्वभावपरिवर्तनं
तत्र त्वरा मास्तु मूढतिम्मो ॥ १५ ॥

[प सं: ८७५]