१४ निद्रे!

संख्याता नितरां मयाऽविनिवहे सर्वे शनैरेकशः
दृष्टं नीलनभः मनस्यविरतं ज्योत्स्नानुलिप्तं वनम् ।
ओघस्य स्वनितं सहस्रकणिकोद्भूतं समाकर्णितम् ।
निद्रे त्वं न तथापि मामुपगता को वापराधो मम ॥ १ ॥

पूर्वस्यां दिशि पर्वतादरुणिताभाऽऽगन्तुमेवेहते
आद्यः शालिवने विहंगमरवो दूराद् हि संश्रूयते ।
देवि त्वद्विरहात्प्रतप्तमधुना सङ्गम्य पाहि द्रुतं
निद्रे देहि ममाखिलकटुक्लेशघ्नमालिङ्गनम् ॥ २ ॥

विश्रान्तिं प्रददासि कायहृदयव्यापारखिन्नाय वै
इत्याहुः सकलामयार्तिशमने श्रेष्ठा सहाया सखी ।
अद्य त्वं किमुपेक्षसे जनमिमं त्वत्सङ्गमाकाङ्क्षिणं
तूर्णं मीलितलोचनं सुनिभृतं मां चुम्ब खेदापहे ॥ ३ ॥

[इंग्लिश्; वर्ड्‍स्‍वर्त्; स्लीप्]