स्रोतांसि नद्या सह संगतानि नदी समेता खलु सागरेण ।
श्लिष्यन्ति वाता गगने मिथस्ते चिराय युक्ता कमनीयरागैः ॥ १ ॥
एकाकिनो केऽत्र भवन्ति लोके प्रायेण सर्वेऽपि मिथो मिलन्ति ।
सैवेश्वरेच्छा यदि सत्यमेतत् त्वया सहाहं न कथं मिलेयम् ॥ २ ॥
चुम्बन्ति शैला गगनं तरङ्गा अन्योन्यमालिङ्ग्य जले भ्रमन्ति ।
पुष्पं न किञ्चित् सहते ह्यवज्ञां यद्यन्यपुष्पेण तिरस्कृतं चेत् ॥ ३ ॥
श्लिष्टा धरा सूर्यकरैः सुगाढं पाथोनिधिं चुम्बति चन्द्ररश्मिः ।
व्यर्थानि तान्यत्र हि चुम्बनानि न चुम्बसि त्वं यदि मामिदानीम् ॥ ४ ॥
[इम्ग्लिष्; पि बि षॆल्ली; फ़िलासफ़ि आफ़् लव्]