[इदं नूतनं वृत्तं सुलयचरणानाम यस्य लक्षणमित्थं भवति ।
सुलयचरणायां गणा प्राक्त्रिमात्रो तत्परम् ।
चतुर्मात्रौ इतरथा पञ्चमात्रस्त्वन्तिमे ॥
(३### ४५/४)]
पश्य पार्वतबालिका किमपि मधुरं गायति ।
असौ तत्रैकाकिनी क्षेत्रलवने व्यापृता ॥ १ ॥
गच्छ वा विरमस्व बध्नाति लूनान् लीलया ।
स्वनति सैका शोकदां मधुरगीतिं कामपि ॥ २ ॥
गायनेनाप्लाविताकर्णय त्वमुपत्यका ।
कोऽप्यकूजत् स्वागतं कोकिलो न कदाचन ॥ ३ ॥
क्लान्तपान्थगणाय सुश्राव्यगीतिमियत्प्रियाम् ।
पुष्पकाले सान्द्रवननिःशब्दतां खलु चूर्णयन् ॥ ४ ॥
कोऽपि कच्चिन्मां वदेत् सा नु किं वा गायति? ।
किमपि करुणं प्राक्तनं समरचरितं कथयति? ॥ ५ ॥
किमुत काञ्चिल्लौकिकीं शोकघटनामभिनवाम्? ।
किमपि गानं तद्भवेत् गायतीव निरन्तरम् ॥ ६ ॥
लवननिरता बालिका नमितवदना भाति मे ।
गीतमस्या मे चिरं स्मरणपटले विलसति ॥ ७ ॥
[इंग्लिश्; वर्ड्स्वर्त्; सालिटरि रीपर्]