सम्पश्यन्तौ धूम्रमेघान् मनोज्ञान्नीलाकाशे चञ्चलास्पष्टरूपान् ।
चूतान् नीपान् पुष्पितानत्र मार्गे यातं गावौ यातमध्वा सुदीर्घः ॥ १ ॥
संजिघ्रन्तौ गन्धवत्पुष्पवृन्दान्वन्यान् रथ्यापार्श्वभागप्ररूढान् ।
मन्ये शीघ्रं गच्छथो ज्ञातमार्गे यातं गावौ यातमध्वा सुदीर्घः ॥ २ ॥
शृण्वन्तौ मद्गायनं हृत्समुत्थं कांस्यग्रीवाकिङ्किणीनादतालम् ।
मार्गे नृत्यत्भृङ्गगुञ्जासमेतं यातं गावौ यातमध्वा सुदीर्घः ॥ ३ ॥
वारं वारं स्पृश्यमाणौ कराभ्याम् ईशास्तित्वस्मारणार्थं मयैवम् ।
नो चेन्मन्दं पादरंहो भवेद्वै यातं गावौ यातमध्वा सुदीर्घः ॥ ४ ॥
घोषे बालाः स्वागतं व्याहरन्ति शादं क्षेत्रादाहृतं नव्यमार्द्रम् ।
अस्मद्गेहे संभ्रमादत्स्यथो द्राक् यातं गावौ यातमध्वा सुदीर्घः ॥ ५ ॥
तोत्रेणाहं नैव वां ताडयामि तोत्रंह्येतत् भीषणार्थं कदाचित् ।
स्तोत्रप्रीताः प्राणिनोऽपीति गाथा यातं गावौ यातमध्वा सुदीर्घः ॥ ६ ॥
शम्भोर्यानं तूक्षजातिप्रधानः सर्वे पूर्वं मन्दिरे शङ्करस्य ।
सेवन्ते यं तत्परं वै गिरीशं यातं गावौ यातमध्वा सुदीर्घः ॥ ७ ॥
श्रेष्ठाः पुंसः पुङ्गवत्वं भजन्ते युष्मद्भाग्यं जन्मना साधितं तत् ।
विध्यन्तौ वां रम्यशृङ्गैः सिताभ्रं यातं गावौ यातमध्वा सुदीर्घः ॥ ८ ॥
गेहे पत्नी प्रेक्षमाणा सकामं श्रुत्वा युष्मद्किङ्किणीनादमारात् ।
द्वार्यानेता मार्जनायाम्बुकुम्भं यातं गावौ यातमध्वा सुगम्यः ॥ ९ ॥
ग्रामं गत्वा स्नापयाम्यापगायां स्वच्छे नीरे क्षालयित्वा शरीरे ।
अध्वक्लेशं मुञ्चतं शीघ्रमेव यातं गावौ यातमध्वा सुगम्यः ॥ १० ॥
शीतं शुभ्रं गोरसं पाययामि गत्वा गेहं मीलिताक्षौ चिराय ।
गोशालायां निर्वृतौ पास्यथो यं यातं गावौ यातमध्वा सुगम्यः ॥ ११ ॥
उत्तुङ्गाभ्यां सुन्दराभ्यां ककुब्भ्यां जित्वा सर्वानुक्षजातिप्रधानान् ।
युष्मद्वीर्यं स्थापितं ग्रामवर्गे यातं गावौ यातमध्वा सुगम्यः ॥ १२ ॥
वृत्ते जन्मन्याप्तकर्मानुबन्धैः अस्मिन्जन्मन्याप्तवन्तौ वृषत्वम् ।
सत्कार्यैर्भोः प्रेत्य मर्त्यौ भवेतां यातं गावौ यातमध्वान्तमागात् ॥ १३ ॥
मत्भार्याहं चैव युग्यौ भवाव संसाराख्ये वाहने दैवदत्ते ।
कादाचित्कौ शॊकहर्षौ भजन्तौ यातं गावौ यातमध्वान्तमागात् ॥ १४ ॥
सन्ध्याकाले पक्षिणस्त्वात्मनीडान् आगच्छन्ति क्लान्तदेहा रटन्तः ।
गच्छामोऽस्मद्वासभूमिं जवेन यातं गावौ यातमध्वान्तमागात् ॥ १५ ॥
सायं गावः क्षेत्रभूम्या निवृत्ताः तृप्ता शादं जग्धवत्यश्चिराय ।
गोष्ठं यान्ति स्वार्भकान् द्रष्टुकामाः यातं गावौ यातमध्वा सुखान्त्यः ॥ १६ ॥