१० शिशवः

शिशुं परिष्वज्य जगाद माता “शिशून् समुद्दिश्य वद प्रभो माम्” ।
“तवार्भकास्ते न भवन्ति मात आत्मस्पृहालोः खलु जीवितस्य ॥ १ ॥

भवन्ति बालाश्च बहिः प्रयान्ति द्वारेण ते त्वन्न भवेयुरत्र ।
त्वत्स्वं न ते यद्यपि ते वसन्ति साकं त्वया मानिनि कांश्चनाब्दान् ॥ २ ॥

वात्सल्यदात्री न तु चिन्तनानां दात्री भवेस्ते स्वमनोऽधिराजाः ।
तेषां शरीराणि हि वासयेस्त्वं परं न चेतांसि कदापि तेषाम् ॥ ३ ॥

श्वोभाविलोके खलु ते वसन्ति स्वप्नेऽप्यगम्यं भुवनं त्वया तत् ।
यतस्व मा त्वत्सदृशांश्च कर्तुम् तत्साम्यमाप्तुं यदि चेत् यतेथाः ॥ २ ॥

कालः स्थितो नैव सदाग्रगामी कदापि न ह्यस्तनमार्गवर्ती ।
त्वं कार्मुकं त्वच्छिशवस्तु बाणाः धन्वीश्वरो लक्ष्यमनन्तमार्गे ॥ ३ ॥

पश्यन् स्वशक्त्या धनुरानमय्य तान् लीलया मुञ्चति दूरलक्ष्ये ।
तुष्टा भवेस्त्वं नमिता महेशः प्रेम्णा शिशून् त्वां च सदैव पश्येत्” ॥ ४ ॥

[इंग्लिश्: खलील् जिब्रान्: द चिल्ड्रन्]