लसत्स्मितं पश्य शिशोर्मुखेऽङ्के सुप्तस्य मातुः सुचिरं प्रशान्तम् ।
वदास्ति हे तत्सदृशं किमन्यत्समस्तलोके शिशिरं मनोज्ञम् ॥ १ ॥
सोमाच्च सौम्यं मधुनश्च मिष्टं सुगन्धि तत् केतकपुष्पगन्धात् ।
वीणानिनादात् खलु मञ्जुलं तत् कौशेयवस्त्रान्मृदु सर्वकाले ॥ २ ॥