०८ शिशुदृष्टिः

मातः कथयसि लिखति ग्रन्थान् बहुरुचिरान् तव पितेति बहुशो मे ।
तेषु किमपि नावगतं भवति कथय किमिदमित्थं स्यात् ॥ १ ॥

कथयति तुभ्यं सायं यत्तदवगतस्त्वया भवति वद किम् ।
कथयसि मे चित्रकथाः एवं न रचयति पिता कुतः ॥ २ ॥

कच्चित्तस्याम्बायाः कथाः श्रुताः स्मृतिपथादमुष्य गताः ।
किन्नरपिशाचगुह्यकजनपानां रुचिरवृत्तान्ताः ॥ ३ ॥

यदि विस्मरति स्नानं तदा त्वमाह्वयसि तं पुनः श्लक्ष्णम् ।
सोष्माहारार्थं च स तथापि तिष्ठति लिखन्नेव ॥ ४ ॥

प्रविशामि यदि तदीयां कक्षां केल्यै विगर्हसे मां त्वम्।
स्तोकरवमपि न सहसे वदसि पिता कार्यमग्न इति ॥ ५ ॥

विन्दति विलिख्य किं, किं यदि कखगान् लिखामि तर्जसि माम् ।
लिखति पिता यदि तदा नु किमपि न वदसि कथय कुतो त्वम् ॥ ६ ॥

यद्येकस्मिन्पत्रे रचयाम्युडुपं विगर्हसे मां त्वम्।
जनके पत्रेषु लिखति तिष्ठसि तूष्णीं तु कथय कुतः ॥ ७ ॥

[बॆङ्गाली/इंग्लिश्: रबीन्द्रनाथ ठाकुर्]