कियती रुचिरा गीतिस्तव हे सद्गुणसम्पन्न! केवलमहं ते ।
विस्मित अवाग्भवन्नेवाकर्णयामि रुचिरगीतिम् ॥ १ ॥
स्वरभाभिर्भू व्याप्ता प्रसृता गगने स्वरप्राणाः ।
स्वरगङ्गा भिन्दन्ती शिलाः प्रवहति द्रुतमोजसा ॥ २ ॥
अहमपि गायानीति हि ममाभिलाषस्त्वया सह सुतीव्रः ।
परिणमति न मे कण्ठस्तव स्वरे खलु न सञ्चरति ॥ ३ ॥
मम परितः स्वरजालं तव त्वयैव प्रसारितं तस्मिन् ।
विनिबद्धोऽहं विस्मितचित्तः शृणोमि सुगुणशालिन् ॥ ४ ॥
[बॆङ्गाली/इंग्लिश्: रबीन्द्रनाथ ठाकुरः: गीताञ्जलि]