०५ दीपोत्सवः

१ प्रावृट् प्रयाता शिशिरो न चागतो वृक्षा हरित्पर्णमयाः पुरे वने ।
रोमाञ्चितोर्वी नवशाद्वलावृता प्रतीक्षते द्राक् शरदः समागमम् ॥ १ ॥

नद्यो भृशं पङ्किलवालुकायुता चलन्ति पद्यासु दृढं कृषीवलाः ।
श्यामप्रभाशोभितकाननाञ्चला दीपोत्सवोऽयं धरणीं समागतः ॥ २ ॥

दृष्ट्वाम्बुपूर्णां सरसीं कृषीवलो क्षेत्रे मुदा नृत्यति फुल्लनेत्रवान् ।
तटाकवीचीषु विधाय मन्दिरान् मनोहरान् दैवदयां प्रशंसति ॥ ३ ॥

मन्दानिलप्रेङ्खितसस्यमञ्जरीः संवीक्ष्य बालार्कमयूखदीपिताः ।
कृषीवलस्तुष्यति धान्यसम्पदं विभावयन्** **हस्तगतां मृदं स्पृशन् ॥ ४ ॥


संखाद्य शादं गृहमागतायाः संश्रुत्य गोः कण्ठरवं स्वमातुः ।
वत्सो द्रुतं कृन्तति रज्जुबन्धं सानन्दमम्बां त्वरयाभ्युपैति ॥ ५ ॥

तं स्फीतनेत्रं प्रसभं निरोद्धुं मूढा मुधा धावति यष्टिहस्ता ।
व्यर्थप्रयत्ना खलु घोषकन्या स स्तन्यपाने नितरां प्रवृत्तः ॥ ६ ॥

आस्फोटयन् स्फोटकरान् सलीलं सशब्दधूमाग्निषु मोदमानाः |
पोगण्डवृन्दा जनयन्ति भीतिं वृद्धेषु बालासु तथार्भकेषु ॥ ७ ॥

कन्या रताः सुन्दररङ्गवल्लीनिरूपणे दैवतमन्दिरेषु ।
रथ्यासु गेहेषु चतुष्पथेषु प्रदर्शयन्त्यः स्वकलासु दाक्ष्यम् ॥ ८ ॥

पुरातनाः पांसुलदीपवृक्षा गृहे प्रमृष्टा नवतां भजन्ति ।
गृहाग्रदेशे नवदीपपङ्क्तिः नक्षत्रवीथीव विभाति रात्रौ ॥ ९ ॥

प्रसादयन् स्वां रमणीं नवोढामुपायनैराभरणैर्दुकूलैः ।
युवा रतेच्छां मदनेषुविद्धः दृष्ट्यैव तस्यै प्रकटीकरोति ॥ १० ॥

लक्ष्मीं समस्तद्रविणप्रदात्रीं तस्याः कटाक्षं हृदि याचमानाः ।
भजन्ति भक्त्यापणिका विपण्यां श्रेयस्करी सैव सदा जनानाम् ॥ ११ ॥

नव्यं दुकूलं च विभूषणं च भर्त्रा प्रदत्तं परिधाय साध्वी ।
स्वाद्यानि भक्ष्याणि विधातुकामा महानसे कार्यरताऽऽप्रदोषम् ॥ १२ ॥

विद्युत्प्रदीपावलिदीप्तसौधाः मुष्णन्ति कान्तिं खलु देवपुर्याः ।
सर्वत्र लोको मुदितः प्रहृष्टः दीपावलीपर्वणि संप्रवृत्ते ॥ १३ ॥