रूपं न मे पूर्वमधः सरस्याः कस्याश्चिदासं किल पङ्कपिण्डम् ।
चन्द्रं न सूर्यं न कदाप्यजानां रावो हि सर्वत्र जलेचराणाम् ॥ १ ॥
पद्मिन्यथैका मयि लग्नमूला व्याजेन मन्मार्दवघोषणस्य ।
पीत्वा रसं मे बहिरागता च प्रसह्य सूर्यं खलु पर्यणैषीत् ॥ २ ॥
सूर्यांशुसंस्पर्शनलभ्यबोधश्चिराय नासीन्मम मन्दभाग्यात् ।
अव्यक्तहेतोः सलिलं सरस्याः क्रमेण नष्टं जलजा हताश्च ॥ ३ ॥
रवेरपश्यं खलु तीक्ष्णरश्मीन् क्षुद्रत्वमुर्व्याश्च तदैककाले ।
चूर्णोऽभवं मार्दवभावहीनः श्रुता मया निष्ठुरवाग्जनानाम् ॥ ४ ॥
कश्चिन्नरो मां किल मर्दयित्वा पद्भ्यां अवादीन्नरमन्यमुच्चैः ।
अत्रैव पद्मं कमनीयमासीत् तन्नाद्य खल्वित्यह मामुपेक्ष्य ॥ ५ ॥
दीर्घं विनिश्वस्य वचो निशम्य सूर्यस्य रश्मीन् हि विगर्हमानः ।
अयापयं नैकदिनानि दीनः सम्मर्दितो मर्त्यगणैश्च पद्भिः ॥ ६ ॥
वरं जलं जीवनधारणाय वाय्वोः प्रभो मेऽस्तु जले हि वासः ।
इतीश्वरं प्रार्थयमानमेत्य कृषीवलो मामनयत् तटान्तम् ॥ ७ ॥
दिनेषु गच्छत्सु ववर्ष पाशी दिष्ट्या तटाकाः नववारिपूर्णाः ।
जले मिमङ्क्षुः प्रसभं ह्यवाञ्छं जलप्रवृत्तिं मृदुतामवाप्तः ॥ ८ ॥
अहं तटान्ते सलिलं त्वधस्तात् क्रूरो विधिः किं करवाण्यशोचम् ।
मां पिण्डितं कश्चन कुम्भकारो निनाय हन्त स्वगृहं सलीलम् ॥ ९ ॥
घटाश्च केचित् घटिकाश्च काश्चित् प्राप्तं मया दीपकरूपमत्र ।
क्लेशो गतः कापि मनोज्ञतासीत् तप्तोऽप्यभूवं किल नष्टतापः ॥ १० ॥
स्नेहार्द्रवर्त्या प्रससार दीप्तिर्लब्धो मया भासुरभास्करांशः ।
जानन्तु दीप्तिं न तु मां कदाचित् जना इतीर्षा मयि खल्वभासीत् ॥ ११ ॥
भूयात्तमो नाशयितुं समर्था मद्दीप्तिवीच्युत्सवदीपपङ्क्तौ ।
द्युतिस्तु दृश्येत न मत्स्वरूपम् ह्रिया विनम्रं च भवेददृश्यम् ॥ १२ ॥