०३ पतिपत्नीसंलापः

कच्चित् प्रिये स्मरसि तानि दिनानि वीथ्यां
वर्षागमेऽविगणय्य वचो गुरूणाम् ।
स्थित्वा गृहाद्बहिरनर्गलवृष्टिपाते
आवामभूव सुतरामुदकार्द्रवस्त्रौ ॥ १ ॥

कच्चित्प्रिय स्मरसि यद्भवता तदानीं
त्वत्पांसुपङ्किलकरेण समन्दहासम् ।
मुद्राङ्किता सुविशदा खलु मे कपोले
बाष्पाम्बुरुद्धनयनाभवमस्मये च ॥ २ ॥

कच्चित्प्रिये स्मरसि ते प्रणयाज्जनन्या
यत्स्वादुभक्ष्यमशनाय तव प्रदत्तम् ।
विद्यालयेऽहनि मया सह तत्त्वमादः
बाल्योचितप्रहसनप्रकरोपदंशम् ॥ ३ ॥

कच्चित्प्रिय स्मरसि यद्भवदीयमात्रा
संप्रेषिते चणकजीरकभक्तभक्ष्ये ।
संदश्य रक्तमरिचं त्वयि बद्धदृष्टिः
बाष्पप्रवाहपरिरुद्धविलोकनासम् ॥ ४ ॥

कच्चित् प्रिये स्मरसि मे गुरुणा परीक्षा-
काले त्वया सह वृथालपने निषिद्धे । \
आगत्य मद्गृहमपूर्वसुमप्रदान-
व्याजेन ते स्मितरुचा नितरामलिम्पः ॥ ५ ॥

कच्चित् प्रिय स्मरसि रोषपरीतचित्ता
वक्तुं त्वया सह नैच्छमहानि सेर्ष्यम् ।
अङ्कार्जने परिणतं प्रतिभान्वितं त्वाम्
अन्याश्च यान्ति ललना इति शिक्षणाय ॥ ६ ॥

कच्चित् प्रिये स्मरसि ते जननी न्यगादीत्
मां हर्षदुःखतटबद्धनदीनिभोक्तीः।
अद्यप्रभृत्यभिमतं न ममात्मजायाः
क्रीडाप्रमोदचरितं भवता सहेति ॥ ७ ॥

कच्चित् प्रिय स्मरसि मत्सदनस्य पृष्ठे
मन्नामपत्रसहितं कुसुमं गुलाबिम् ।
पीतं सुगन्धि सुभगं निभृतं गवाक्षे
विन्यस्य सत्वरमगा विनिवृत्तदृष्टिः ॥ ८ ॥

कच्चित्प्रिये स्मरसि देवनिकेतनान्तः
संत्यज्य भक्तजनयोग्यमतिं सलीलम् ।
आवां कदाचिदभिजातजनैरुपेतौ
अन्योन्यदृष्टिमिलनैरवदाव नाल्पम् ॥ ९ ॥

कच्चित्प्रिय स्मरसि मामुपवीणयन्तीं
श्रुत्वा मदालयसमीपमुपेयिवान् त्वम् ।
त्वामाह्वयन्ममपिता विनयाद्यदैव
गीतं ह्रिया स्खलनपूर्णमभूत्तदैव ॥ १० ॥

कच्चित्प्रिये स्मरसि ते जननीं मदीया
मातावदत् तव ततावयवेषु पुत्र्याः |
काचित्स्फुरत्यतुलयौवनरूपदीप्तिः
भद्रं भवेत् तदनुरूपवरो वृतः किम् ॥ ११ ॥

कच्चित्प्रिय स्मरसि मद्भ्रुकुटीं विलोक्य
मातावदन्नगरतो वरयन्ति नैके ।
विद्यार्जनं हि ममलक्ष्यमिति प्रवक्ति
पुत्रीत्यपूर्णवचना त्वयि सन्निकृष्टे ॥ १२ ॥

कच्चित्प्रिये स्मरसि शिक्षणसत्रचर्चा-
स्पर्धोत्सवे ननु मयाग्रपदेऽर्जिते त्वम् ।
उच्चैः प्रशस्य करवादनरूपनुत्या
व्रीडाजिता पदयुगे न्यविशः स्वदृष्टिम् ॥ १३ ॥

कच्चित्प्रिय स्मरसि मां वटवृक्षमूले
गन्तुं पुरीं व्यवसिते त्वयि शिक्षणार्थम् ।
त्वां द्रष्टुमागतवतीं जनकात्प्रभीतां
वृष्ट्यातपावृतधरामिव सस्मितास्राम् ॥ १४ ॥

कच्चित्प्रिये स्मरसि चैत्रविरामकाले
पुर्या निवृत्य तव गोप्यसखीगृहे त्वाम् । \
संदृश्य जातपुलको न किमप्यवोचं
शक्तिंह्यदास्तव कटाक्षसुधानुपानैः ॥ १५ ॥

कच्चित्प्रिय स्मरसि बाष्पनिरुद्धदृष्ट्या
मां पत्तनं मम पितोन्नतशिक्षणाय ।
संप्रेषितुं मतिमतीं न ददावनुज्ञाम्
इत्युक्त एव हि मया त्वमसान्त्वयो माम् ॥ १६ ॥

कच्चित्प्रिये स्मरसि तत्र मया यदुक्तं
भावीपतिस्तव करिष्यति पण्डितां त्वाम् ।
पाणिं मनागुदनयो मम दण्डनार्थं
रुष्टेव हन्त न तु मे करपातभाग्यम् ॥ १७ ॥

कच्चित्प्रिय स्मरसि पुस्तकपृष्टमध्ये
प्रच्छाद्य पत्रमनुरागरसाप्लुतं ते ।
स्वस्रा सह प्रणिहितं मम वाचनार्थं
दैवादवेन्नजनको मम तं प्रसङ्गम् ॥ १८ ॥

कच्चित्प्रिये स्मरसि ते प्रथमं प्रयत्नं
पत्रं विलिख्य विरचय्य च पुष्पमेकम् ।
वक्रीकृताक्षरविभाव्यकराग्रकम्पं
संप्रेषितं यदभवन्मदुपोपधानम् ॥ १९ ॥

कच्चित्प्रिय स्मरसि ते पदवीधरत्वं
संश्रुत्य हर्षपुलकैर्विनिगूह्य लज्जाम् ।
त्वद्दर्शनोत्सुकतया त्वरयाऽऽगतां मां
द्वार्येव सुस्मितकरैरबलामबध्नाः ॥ २० ॥

कच्चित्प्रिये स्मरसि मज्जनके त्वदीयं
गेहं मया सह गते पितरं मदर्थम् ।
त्वां याचितुं तव पिता तरसाह्वयत्त्वां
स्तम्भाकृतिव्यवहिता स्मितवागभूस्त्वम् ॥ २१ ॥

कच्चित्प्रिय स्मरसि बन्धुपुरोहिताद्यैः
सम्प्रेक्षितः परिणयोत्सववेदिकायाम् ।
उच्चैर्ध्वनत्यविरतं शुभवेदघोषे
कर्णान्तिकं त्वमजपो ह्यनुरागमन्त्रम् ॥ २२ ॥

कच्चित्प्रिये स्मरसि सप्तपदीविधौ त्वं
वेदीं हुताशनवतीं परितः चरन्ती ।
त्वत्पाणिना मृदुतमेन मदीयपाणिं
गाढं निपीड्य किमपि व्यलिखो नखाभ्याम् ॥ २३ ॥

कच्चित्प्रिय स्मरसि कामवशं गतस्त्वं
दाम्पत्यजीवनसुखप्रथमप्रभाते
क्लान्तां विमुच्य शयनं गमनोद्यतां माम्
उद्यम्य बाहुमबलां सबलं न्यरुन्द्धाः ॥ २४ ॥

कच्चित्प्रिये स्मरसि मां तदनु न्यगादीः
ग्रामात्पुरं जिगमिषुं विभवार्जनाय ।
मा गा हृदीश न भवेयमहं विना त्वाम्
इत्यन्वगाश्च झटिति प्रणयार्दितं माम् ॥ २५ ॥

कच्चित्प्रिय स्मरसि दौहृदलक्षणस्थां
विद्यार्जने शिथिलिताध्यनप्रवृत्तिम् ।
संचोदयन् बहुमुखैः प्रविलोभनैर्मां
भूयो प्रशिक्षणविधावकरोः प्रवृत्ताम् ॥ २६ ॥

कच्चित्प्रिये स्मरसि मां प्रति सूतिगेहे
सूतिव्यथाजनितरूक्षवचांसि तानि ।
संश्रुत्य ते प्रलपितानि नियम्य हासं
शुश्रूषिका सकरुणं समसान्त्वयत्त्वाम् ॥ २७ ॥

कच्चित्प्रिय स्मरसि मोहकमर्भकं मे
पार्श्वे प्रसुप्तमवलोक्य मुहुर्मुहुस्त्वम् ।
हर्षापगारयनिमज्जनधौतचित्तां
मां प्रेमपूरितदृशा नितरामचूषः ॥ २८ ॥

कच्चित्प्रिये स्मरसि ता युगदीर्घरात्रीः
यासु त्वया सह सुतां ज्वरपीडिताङ्गीम् ।
अङ्के निवेश्य हिमशीतलपट्ट्बन्धैः
शीर्षस्य तापशमने बहुशोऽयते‍ऽहम् ॥ २९ ॥

कच्चित्प्रिय स्मरसि सोत्सवसंभ्रमान् तान्
पादौ परिक्षिपति च स्मयतेऽधुनेति ।
अद्यात्मनैव विचलत्युरसेति पुत्री
पद्भ्यां स्वयं चरति संप्रति जल्पतीति ॥ ३० ॥

कच्चित्प्रिये स्मरसि रोषपरीतनेत्रां
केनापि कारणलवेन मयि प्ररुष्टाम् ।
त्वां निन्दनैर्बहुविधैः खलु मां तुदन्तीं
पुत्री स्वमुग्धवचनैरकरोत् हसन्तीम् ॥ ३१ ॥

कच्चित्प्रिय स्मरसि नागरपाठशालां
यावद्गता तव सुता खलु तावदेव ।
मां पाककर्मणि रतां प्रसभं बलाढ्यः
शय्यागृहं ह्यगमयस्त्वमदम्यकामः ॥ ३२ ॥

कच्चित्प्रिये स्मरसि नृत्यदभूतकान्तिः
पुत्रोत्सवेऽभ्युपगते सुतमात्ममूर्तिम् ।
अङ्के निवेश्य तव मानसराजहंसं
बालानवाप्यवचनैस्समभाषथास्त्वम् ॥३३ ॥

कच्चित् प्रिय स्मरसि तानि मनोहराणि
वर्षाण्यपत्ययुगलालनशिक्षणेषु ।
प्रत्यूहकण्टकशतैरवरुद्धमार्गे
काष्ठार्धवद्द्रुतगतेन हि यापितानि ॥ ३४ ॥

कच्चित् प्रिये स्मरसि तावकदुःखधारां
पुत्र्यां नवोढललनोचितदीप्तिमूर्त्याम् ।
भर्त्रा सह श्वशुरगेहमभि प्रयान्त्यां
हर्षावगुण्ठनतिरोहितनैजरूपाम् ॥ ३५ ॥

कच्चित् प्रिय स्मरसि दारपरिग्रहार्थं
पुत्रस्य बन्धुसुहृदाप्तजने विचिन्वन् ।
पुत्रे त्वदुद्धृतवधूषु न जातमोहे
पुत्रानुरक्तललनां स्व्यकरोः स्नुषात्वे ॥ ३६ ॥

कच्चित् प्रिये स्मरसि मातृधरां विहाय
पत्न्या सह स्वनवसौख्यसुधावसिक्तः ।
पुत्रो विमानगमनोत्सुकतापरीतः
मात्रा त्वया सह न किञ्चिदपि न्यगादीत् ॥ ३७ ॥

कच्चित् प्रिय स्मरसि हर्षमदप्रणुन्नः
पौत्रोत्सवेऽभ्युपगते भगवत्प्रसादात् ।
उच्चैर्वदन् श्रुणुत पौत्रपितामहोऽस्मी-
त्यास्वाद्यभक्ष्यनिकरान्व्यतरः परेषु ॥ ३८ ॥

कच्चित्प्रिये स्मरसि मामवदः सखेदं
दौहित्रपौत्रगणजातसुखानुबद्ध- ॥

चित्तस्य मे स्वभवनानि गतेषु तेषु
तै रिक्तमालयमहो नरकं हि मन्वे ॥ ३९ ॥

कच्चित्प्रिय स्मरसि सान्त्वनमाददास्त्वं
पक्षी पतत्रयुगमाप्य जहाति मातुः ।
नीडं यथा खलु तथापि जहात्यपत्यं
मातुर्गृहं स्वगृहनिर्मितिमग्नचित्तम् ॥ ४० ॥

कच्चित् प्रिये स्मरसि ते भिषजा प्रदत्ते
जानुव्यथाप्रशमके गुटिकेऽशितव्ये ।
हन्ताधुना स्वतनुपालनकार्य एव
स्वाधीनता यदि हि सिद्ध्यति सा प्रशस्या ॥ ४४ ॥

कच्चित् प्रिय स्मरसि मामकसुप्तिमोहः
पूर्वं त्वयोपहसित: बहुशोऽधुना वै ।
निद्राऽऽगता यदि तदा शिथिलं शनैर्माम्
आलिङ्गति त्वमिव शान्तमनोजवह्निः ॥ ४५ ॥

कच्चित् प्रिये स्मरसि नौ स्मरचापविद्धौ
संश्लेषचुन्बनरतौ तरुणौ इदानीम् ।
प्रेमानिलप्रशमितो मदनङ्गवह्निः
प्रेम त्वहो त्वयि विवर्धत एव नित्यम् ॥ ४६ ॥

कच्चित् प्रिय स्मरसि मां नवयौवनस्थां
मिष्टान्नभोजनसुखेष्वमिताभिलाषाम् ।
अद्यत्वहं मधुरभक्ष्यसुखान्निवृत्ता
तृप्ता तवातिमधुरैः स्मितपूर्ववाग्भिः ॥ ४७ ॥

कच्चित् प्रिये स्मरसि मे लवणे स्पृहां तां
व्यज्ञापयः खलु हिताय न सेति पूर्वम् ।
संप्रत्यहो मदशने लवणं निषिद्धं
लावण्यमेव तव देवि भवेदलं मे ॥ ४८ ॥

कच्चित् प्रिय स्मरसि सानुनयं त्ववादीः
संवाहयामि तव पादयुगं दिनान्ते ।
क्लान्तास्म्यवश्यगृहकर्मभरेण नाथ
तां संविदं सफलय प्रसभं गुणाढ्य ॥ ४९ ॥

कच्चित् प्रिये स्मरसि केशवपादयुग्मं
सर्वामयप्रशमकं शरणागतानाम् ।
संस्मृत्य यत् प्रणतधीः ममतां विहाय
निद्रां भजस्व विमले ससुखं शयीथाः ॥ ५० ॥