०२ नगरोपवनम्

खगकूजितजृम्भणैः शनैः तनुजाड्यं जहतीव तन्द्रिलाः ।
नगरोपवनस्थपादपाः प्रथमार्कारुणरश्मिचुम्बिताः ॥ १ ॥

ललनागणरोचकं वपुर्द्युतिमल्लब्धुममेयलालसाः ।
तरुणाः श्वसितैर्विवर्धितैः पथि धावन्ति ककुद्मवृन्दवत् ॥ २ ॥

मृदुशीतलमारुतो लताः परिरभ्यानतपुष्परञ्जिताः ।
अमलानिलसेवने रतान् पथि संतोषयते विहारिणः ॥ ३ ॥

हिमसीकरमौक्तिकाचितैः हरितार्द्रैर्मृदुनव्यशाद्वलैः ।
धरणी कमनीयतां प्रगे भजते कञ्चुकितेव सुन्दरी ॥ ४ ॥

मृगमत्स्यविहङ्गरूपतां भजमानाः वनपालशिक्षया ।
नरकौशलशक्तिसूचका तरुगुल्मा रमयन्ति बालकान् ॥ ५ ॥

प्रतिमा नरपस्य कस्यचित्गतकालेष्वनुभूय मान्यताम् ।
अथ कालविपर्ययादहो मलनीरैरभिषिच्यते द्विजैः ॥ ६ ॥

रजनीं विजने महापथे क्षपयित्वा भषणे निरर्गले ।
तरुणातपवाञ्छयाधुना स्वपिति श्वा तुहिनार्द्रशाद्वले ॥ ७ ॥

क्वचिदायतपुष्पदर्शनं क्वचिदामीलितसूनसौरभम् ।
क्वचिदूर्जितभृङ्गझेंकृती रमते पुष्पकुथासु मानसम् ॥ ८ ॥

सरसीजलमध्यसंस्थितोत्क्षिपणीवक्त्रशताद्विनिःसृता ।
जलबिन्दुपरम्परा ध्रुवं भजते कृत्रिमवर्षवैभवम् ॥ ९ ॥

नवयौवनरूपशालिनी विचरन्ती स्मयमानवीक्षणैः ।
तरुणानभितो विकर्षति प्रमदा काचिदनूह्यलीलया ॥ १० ॥

उपविश्य शिलासने प्रिया पतिसंश्लेषसुखेन निर्वृता ।
रमणश्रवणान्तिके मिथो मधुरं वक्ति मुधा निरन्तरम् ॥ ११ ॥

अभिधावनदण्डताडन- प्रणतोल्लङ्घनखेलनैर्भृशम् ।
तृषिता हिमशीतपायसं मुदिता बालगणाः प्रभुञ्जते ॥ १२ ॥

नमनोचितवृद्धदम्पती दरनृत्यत्स्मितशोभिताननौ ।
वनकान्तिदिदृक्षया शनैश्चरतोऽन्योन्यकरावलम्बिनौ ॥ १३ ॥

फलविक्रयणोद्यतो युवा शकटीं स्वां परिचाल्य सश्रमम् ।
ततघर्मजलार्द्रविग्रहस्तरुमूलं भजते सुखावहम् ॥ १४ ॥

जलवायुधराप्रदूषणव्यथिताः स्वास्थ्यहितार्थमागताः ।
विहरन्ति वने दिनात्यये दिवसोद्योगविमर्दयन्त्रिताः ॥ १५ ॥

रतिरूपफलप्रसाधनैः स्फुरदालम्बितलोलकुण्डलैः ।
गतिरोधकचञ्चलेक्षणैः नवविन्यासनिबद्धकुन्तलैः ॥ १६ ॥

मदसाधकगन्धलेपनैर्दरविस्रंसितवस्त्रविभ्रमैः ।
प्रमदा जनयन्ति मानसेऽस्थिरतां हन्त विवेकिनामपि ॥ १७ ॥

लसदुज्ज्वलदीपपङ्क्तिभिर्ललितालापविनोदगायनैः ।
भजते नवनन्दनश्रियं जनसान्द्रोपवनं क्षपामुखे ॥ १८ ॥

तरुषु खगगणे स्वानाशयान् सन्निवृत्ते
स्फुरति नभसि नीले दिव्यनक्षत्रवृन्दे ।
गतवति जनसङ्घे स्वालयान् तुष्टचित्ते
स्वपिति नगरवक्षस्यात्तशान्तिर्वनश्रीः ॥ १९ ॥