कान्ते जागृहि जागृहि त्वमधुना गीतं मम श्रावय
प्राची दिक् प्रतिभाति धौतवसना रक्ताञ्चलाडम्बरा ।
गातुं वाञ्छति सप्तवर्णसहितं सङ्गीतमाकर्णय
स्वापं मुञ्च मुदा कुरुष्व तरसा त्वन्नादसम्मेलनम् ॥ १ ॥
कान्ते जागृहि भास्करस्य मधुरं काव्यं नवीनं शृणु
प्रस्तौति प्रथमानुरागकथनं वध्वा उषाया रविः ।
आस्वादस्व मयि प्रचोदय कवेर्नैपुण्यमप्राकृतं
सत्काव्यंह्यनुवर्त्यते खलु बुधैः साहित्यसंसेवकैः ॥ २ ॥
कान्ते जागृहि भास्करो मृदुकरैर्निर्माति चित्रं शुभं
देव्या आगमनं दिशां प्रकटयन्त्याः स्वानुरागं रवौ ।
शीघ्रं लोकय चित्रभानुरचितं सद्वर्णसंयोजनं
पत्रं चानय तूलिकां प्रतिकृतिं कर्तुं यते वल्लभे ॥ ३ ॥
कान्ते जागृहि भद्रमस्तु जगति प्रोत्सार्य सर्वं तमः
ज्योतिर्भातु सदामृतः प्रसरतु ध्वस्तश्च मृत्युर्भवेत् ।
आवाभ्यामनुभूयतां सखि मनस्यानन्दसूर्योदयः
सत्यं शाश्वतमाप्नवाव सुचिरं निष्कास्य सत्येतरम् ॥ ४ ॥