हास्य-शीकर-शतकम्

हास्यशीकरशतकम्

सङ्कलनकर्ता : जि एस् श्रीनिवासमूर्तिः

भूमिका

आधुनिककाले आंग्लभाषायां हास्यरसोद्दीपकः यः मितवाक्यग्रथितः प्रबन्धः “जोक्” इति कथ्यते, तस्य परिचयः संस्कृतभाषायां अस्यां पुस्तिकायां क्रियते । शतं हास्यशीकराः अस्यां पुस्तिकायां प्रकाश्यन्ते ।

नवरसेषु हास्यरसः परिगणितोऽपि संस्कृतसाहित्ये शिष्टजनास्वादनयोग्यहास्यरसजनकाः रचनाः विरला एव । नाटकाङ्गभूतविदूषकपात्रमुखेन तथा रूपकाङ्गभूतप्रहसनेषु च यत् हास्यमिति प्रयुज्यते तत् बहुशः अश्लीलतासीमानं ग्राम्यतां च प्राप्नोति । पद्य-गद्य-चम्पूकृतिषु हास्यरसः न दृश्यते एव इति कथयामः यदि तत् सत्यदूरं न भवति ।

वैद्या अपि हास्यशीलता आयुर्वृद्धये स्वास्थ्यक्षेमाय च इत्यामनन्ति । किञ्च, संस्कृतकृतिरचयितारः संस्कृतयोगक्षेमाय नूतनविधाः अन्यभाषासाहित्यशाखाप्रचोदिताः कृतीः रचयेयुः इति सर्वे संस्कृतविद्वांसः संस्कृतप्रेमिणः अभिलषन्ति । तदभिलाषपूरणे हास्यशीलतावृद्धये च इयं रचना किञ्चित्करी चेत् अयं लेखकः कृतार्थः नूनम् ।

इमे शिष्टजनपठनयोग्याः हास्यशीकराः आंग्लभाषायाम् अन्यभाषासु च बहुशः प्रचलिता, “ब्लाग्”रूपेण संस्कृते http://simplesanskrit.blogspot.com/ जालपुटे अनूद्य लेखकेन प्रकाशिताः एव । अतः केषाञ्चित् पाठकानामत्र नव्यता न द्योतयेत । तथापि संस्कृतसमृद्ध्यर्थं कृताम् इमां कृतिं सर्वे पठन्तु, पठित्वा हसन्तु, मोदन्तामिति सप्रश्रयमाशास्ते लेखकः ।

इति शम्,

जि.एस्.श्रीनिवासमूर्तिः

बेङ्गलूरु-७८

हास्यशीकरशतकम्

००१ बालचेष्टा-१

रजन्यां कार्यनिरता माता बालं सुतमवदत्,“वत्स, गृहपृष्ठे संमार्जनी कोणे वर्तते तामानय” इति। बालः प्रत्यवदत्, " अहं न गच्छामि । बहिः गाढः अन्धकारः" इति। माता प्रत्यवदत्, “मा भैषीः, ईश्वरः सर्वदा सर्वत्र तव रक्षकः भवति । भयं परित्यज्य गच्छ " इति । भीतः बालः पुनरवदत्, “अम्ब, ईश्वरः अधुना गृहपृष्ठेऽपि वर्तते किम् ।” माता अवदत् “निस्संशयं वत्स” इति । बालः, “बाढं गच्छामि” इति वदन् गृहपृष्ठद्वारपर्यन्तमगच्छत् । तत्र स्थित्वा कवाटमीषदुद्घाट्य अवदत्, “ईश्वर, कृपया कोणे स्थितां संमार्जनीं मह्यं देहि” इति।


००२ श्वश्रूः-स्नुषा-१

सायं यदा पुरुषः कार्यालयात् गृहमागतः तदा तस्य भार्या अश्रुपूर्णनयना आसीत् । पुरुषः चकितः खिन्नश्च तामपृच्छत्, “किमिदम्? किं प्रवृत्तम्?” । भार्या अवदत्, " अद्य तव जनन्या परिभूताऽस्मि” । सः अवदत्, “कथमिव वा भवेत्? सा अन्यनगरे वर्तते खलु?” । सा प्रत्यवदत्, “प्रातः तस्याः सकाशात् तुभ्यं पत्रमेकं समागतम् । तत् कुतूहलाविष्टा पिधानमपावृत्य अपठम् । तत्र अन्ते तया लिखितम् ,“प्रिये स्नुषे, कृपया एतत् पत्रं मम पुत्राय देहि” इति ।


००३ मद्यपानम्-१

पानलोलः पिता तरुणं पुत्रमात्मना सह पानागारमनयत् । पुत्रस्य इदमेव प्रथमपानमासीत् । उभौ पातुं प्रारभेताम् । पुत्रः प्रारंभ एव पितरमवदत्, “तात, कथय कदा अहं पानात् विरमै ।” कतिपयचषकानापीय पिता पुत्रं स्खलितवाचावदत्, “पुत्र, पश्य तत्र द्वौ दीपौ दृश्येते । यदा चत्वारः दृश्यन्ते तदा पानात् विरमस्व ।” पुत्रः चकितः प्रत्यवदत्, “तात, तत्र एक एव दीपः दृश्यते खलु” ।


००४ मतिविभ्रमः-१

मनोवैद्यालये कश्चन रुग्णः पार्श्वपर्यङ्के निषीदन्तमन्यं रुग्णमब्रवीत्,”भोः, वयस्य, ईश्वरेण अहं जगतः सार्वभौमः नियुक्तोऽस्मि” । “यद्वदसि तत् मृषा खलु । मया त्वं न नियुक्तोऽसि” इति प्रत्यवददन्यः ।


००५ मौढ्यम्-१

देवदत्तः एकदा जटकाख्यतुरगशकटिकायां गच्छति स्म । मार्गे देवदत्तः शकटिकाचालकं पप्रच्छ, “भोः, नगर्यां का वार्ता?” । किञ्चिच्चकितः चालकः अवदत्, “आर्य, न काचिदपि वार्ता श्रुता मया । परं तु मम वयस्यः कूटमेकं ददौ । तदित्थं, “मम पितुः पुत्रः वर्तते यः मम अग्रजोऽपि न अनुजोऽपि न भवति । सः कः? आर्यः कथयितुमर्हति ।“ देवदत्तः चिरमचिन्तयत् तथापि उत्तरं दातुं न शशाक । पराभूतः अवदत्, “न जाने । सः कः? कथय” इति । उच्चैर्विहस्य चालकः अवदत्, “आर्य, अहमेव” । देवदत्तोऽपि उच्चैर्जहास, “रुचिरं खलु तव कूटम् । तव नाम किम्?” चालकः अवदत्, “मम नाम मोहम्मद् उस्मान्” । “बाढं, त्वं कुत्र वससि?” । “ मुस्लिम् मोहल्लायाः प्रथम वीथ्याम्” । देवदत्तः कृच्छ्रेण चालकस्य नामधामविशेषान् कंठस्थमकरोत् ।

अथ कदाचित् सः तस्य वयस्येन नरदत्तेन सममिलत् । कुशलप्रश्नानन्तरं नरदत्तं पप्रच्छ, “मित्र, अहं कूटमेकं वदामि । उत्तरं कथयसि किम्?” इति ।

नरदत्तः प्रत्यवदत्, “ अथ किम्, उत्तरं दातुं यते । कथय ।“ देवदत्तः अकथयत्, “ मम पितुः पुत्रः एकः वर्तते । सः मम अग्रजोऽपि न, मम अनुजोऽपि न । सः कः ?“ नरदत्तः चिरं विचिन्त्य अवदत्, “क्षमस्व, उत्तरं न मे भाति “ इति । देवदत्तः उच्चैः विहस्य अवदत्, “सरलं खलु कूटम् । सः मोहम्मद् उस्मान् यः मुस्लिम् मोहल्लायाः प्रथमवीथ्यां वसति” इति । नरदत्तश्च उच्चैर्जहास उस्मान् वर्यस्य नामधामविशेषान् कण्ठस्थं चकार च ।


००६ दाम्पत्यम्-१

देवदत्तः चिराय अकृतोद्वाहः आसीत् । तस्य सर्वे वयस्याः विवाहिता बभूवुः । बहवः देवदत्तमपृच्छन् , “कुतस्त्वमकृतोद्वाहः वर्तसे? किम् कारणम् ?” इति । देवदत्तस्य इदमेव उत्तरमासीत्, “अहं किं करवाणि? याः कन्याः मह्यं रोचन्ते ताः मम मात्रे न रोचन्ते”। कश्चन वयस्यः नरदत्तनामा देवदत्तमसूचयत्, “वयस्य काञ्चन त्वन्मातृसदृशीं कन्यां निश्चिनु । तदा सा तव मात्रे रोचते” । देवदत्ताय नरदत्तस्य सूचना अरोचत अवदच्च, “बाढम्, तथैव करिष्यामि” इति ।

दिनेषु गच्छत्सु एकदा नरदत्तः देवदत्तेन सह सममिलत् । देवदत्तमपृच्छत्, “ मित्र, त्वं किं विवाहितोऽसि । “ नैव, मित्र” । “कुतः? त्वं मम सूचनां नाङ्गीकृतवान् किम्?” । “मित्र, तव सूचनामनुसृत्य एव कृच्छ्रेण मन्मातृसदृशीं कन्यामेकां अवरयम् । सा मम मात्रे भृशमरोचत । परं तु किं कथयानि?” नरदत्तः अवदत्, “कुतः परं तु? कथय” । देवदत्तः अवदत्, “कन्या मम पित्रे न अरोचत खलु ”।


००७ दाम्पत्यम्-२

अक्बरमहाराजः अमात्यं बीरबलमवदत्, “सखे, महाराजोऽप्यहं भार्याधीनः एव भवामि । अतः मम मनः दूयते । किं करवाणि?” इति । बीरबलः प्रत्यवदत्, “प्रभो, अत्र विचित्रं किम्? चिन्तनीयं किम्?” इति । अक्बरः अपृच्छत्, “किम् त्वमपि तव भार्याधीनः?” इति । बीरबलः अब्रवीत्, “निस्संशयं प्रभो अहं भार्याधीन एव । सर्वे गृहस्थाः भार्याधीना एव” इति । “कथमित्थं ब्रवीषि? अहं भवेयम्, त्वं भवेः, तत्कारणात् सर्वे गृहस्थाः भार्याधीना इति न सिद्ध्यति” इति । बीरबलः अगदत्, “आज्ञापयतु महाराजः, राजसभामामन्त्रयाव । सभ्यान् सर्वान् अस्मिन् विषये प्रष्टुमर्हति महाराजः ।“ अक्बरेन बीरबलस्य सूचना अङ्गीकृता राजसभा च आमन्त्रिता ।

अक्बरः कुशलप्रश्नानन्तरं सभ्यान् अवदत्, “भोः सभ्याः इदानीं राजमंत्रणाय इयं सभा न आहूता । बीरबलः वदति, “सर्वे गृहस्थाः भार्याधीना एव” इति । अस्मिन् विषये मम संशयः अस्ति । अत एव यूयमत्र आहूताः । ये सभ्याः बीरबलस्य वाक्यमनुमोदन्ते ते मम वामपार्श्वे आगत्य निषीदन्तु । ये नानुमोदन्ते ते मम दक्षिणपार्श्वे आगत्य निषीदन्तु “ इति । बहवः राज्ञः वामपार्श्वे एकैकशः आगत्य न्यषीदन् । एक एव राज्ञः वामपार्श्वं न जगाम । अन्ततः सः शनैः चलन् राज्ञः दक्षिणपार्श्वमागत्य न्यषीदत् । विस्मितः राजा तमपृच्छत्, “सखे, किमिदम्? त्वमेक एव बीरबलमतं नानुमोदसे?” । सः मन्दं मन्दमुत्तरमब्रवीत्, “प्रभो, एतद्विषये किमपि वक्तुं न समर्थोऽस्मि । मयि निर्गच्छति गृहात् मम भार्या मामवोचत्, “ कदापि जनवृन्दं मा प्रविश” इति । अत एव अहं वामपार्श्वं नागच्छम्” इति।


००८ दाम्पत्यम्-३

पतिपत्न्योः वाग्वादः अभवत् । कुपितः पतिः अवदत्, “ त्वयि विधाता इयत्सौन्दर्यं इयन्मौढ्यं च कुतः अयुजत् ?“ इति । पत्नी अवदत्, “शृणु, विधाता तथा मामियतीं सुन्दरीमकरोत् यथा त्वं मां वृणुयाः । तथा मामियतीं मूढामकरोत् यथाहं त्वां वृणुयाम् “ इति ।


००९ स्खलिताभिज्ञानम्-१

कदाचन देवदत्तः रात्र्यां बेङ्गलूरुनगरात् जालार्पेट्टैपुरं गन्तुं बेङ्गलूरु-चेन्नै रेल्-यानमारुरोह । रेल्-यानः जालार्पेट्टैपुरं रात्रौ एकवादनसमये उपागच्छति खलु । अतः सः रेल्-शयनकोष्ठ-निर्वाहकं प्रार्थयत्, “अहं कुम्भकर्णवत् स्वपिमि । कृपया भवान् मां बलात् प्रबोध्य जालार्पेट्टैपुरे मम रेल्-यानात् अवरोहणे साहाय्यं करोतु ” इति । निर्वाहकः देवदत्तस्य प्रार्थनामन्वमन्यत, “तथैव करोमि” इत्यवदच्च ।

यदा परेद्युः प्रातः रेल्-यानः चेन्नैनगरीमागतः, तदा भ्रुकुटिं कृत्वा दन्तान् कटकटाय्य च इतस्ततः चलन्तं “यदि मम दृष्टिपथं गतो भवति तं निर्वाहकं हनिष्यामि” इति वदन्तं देवदत्तमितरे अपश्यन् । अन्यतमः अन्यमवदत्, “ असौ कुतः भ्रान्तचित्त इव इत्थमुच्चैर्जल्पन् अटति?” इति । सः प्रत्यवदत्, “ अस्य विचित्रचेष्टितं न किञ्चित् खलु । प्रायेण त्वं जालार्पेट्टैपुरॆ निर्वाहकेन बलात् प्राबोधितं रेल्-यानात् निष्कासितं इतोऽप्यधिकमपभाषमाणं नरं नापश्यः” इति ।


०१० विनोदप्रियता-१

नरसिंहः वयस्यैः सह न्यूयार्क् नगर्यां कस्मिन्श्चित् बहुभूमिसौधे पञ्चाशत्तम भूमौ निवसति स्म। कदाचित् ते यदा उद्योगात्स्वनिवासं प्रतिनिवर्तितुं प्रवृत्ताः तदा विद्युत्-भंगः अभवत् । अतः निवासं प्राप्तुं सौधस्य सोपानश्रेणिं पद्भ्यामेव आरुह्य गमनं तेषामनिवार्यमभवत् । सोपानश्रेणिमारोढुं प्रवृत्ताश्च । आरोहणायासपरिहरणाय एकैकः काञ्चन कथां श्रावयेत् इति तैः स्वीकृतः । नरसिंहं विहाय सर्वे यथाशक्ति कथाः श्रावयामासुः । नरसिंहस्तु अवदत्, “अहं मम कथाम् आरोहणान्ते एव कथयामि । सा कथा भयावहा वर्तते ” इति । इतरे सममन्यन्त च । ते यदा आरोहणस्य अन्तिमदशां प्राप्ताः तदा नरसिंहमितरे अवदन्, “मित्र, इदानीं तावत् तव कथां श्रावयसि कच्चित्?” इति । नरसिंहः कथयति, “भो वयस्याः, इयमेव मम कथा । द्वारतालकस्य(door-lock) उद्घाटकः(key) मम उद्योगस्थाने एव वर्तते । अहं तं मया सह आनेतुं विस्मृतवान्” इति।


०११ मौढ्यम्-२

ताम्रकेशिन्यः ललनाः रूपवत्यः अपि मन्दबुद्धयः इति सर्वे आमनन्ति खलु । कदाचित् काश्चन ताम्रकेशिन्यः समेत्य कस्याञ्चित् प्रागल्भ्यस्पर्धायाम् भागमगृह्णन् । प्राश्निकः अन्यतमामपृच्छत्, “ १४ गुण्यः, ०७ गुणकः, फलं किम्?” । सा अवदत्, “१४७” । इतराः ताम्रकेशिन्यः एकस्वरे उच्चैरवदन्, “प्राश्निकः अन्यं प्रश्नं पृच्छतु”

इति । तासां प्रार्थनां सम्मान्य प्राश्निकः तामपृच्छत्, “ द्विपञ्चाङ्कयोः संयोजनात् फलितम् किम्?” । सा झटिति प्रत्युत्तरमदात्, “पञ्चविंशतिः” । पुनरपि सर्वा ताम्रकेशिन्यः उच्चैरभाषन्त, “ अन्यं प्रश्नं पृच्छतु” । प्राश्निकः अपृच्छत्, “ एकस्य एकं संयोजय” । सा विचिन्त्य अवदत्, “द्वे” । इतराः प्रसभं तारस्वरेण अवदन्, “कृपया प्राश्निकः अन्यं प्रश्नं पृच्छतु” ।


०१२ स्खलिताभिज्ञानम्-२

काचन वृद्धा पलितकेशिनी दन्तहीना नमिताकृतिः दण्डावलम्बिनी वीथ्यां शनैर्गच्छति स्म । कश्चन युवा तां दृष्ट्वा तस्याः वयोगौरवात् तां प्रणनाम । सा सुदीर्घं तं विलोक्य सहर्षमवदत्, “ रे, बहूनि वर्षाणि गतानि खलु त्वां वीक्ष्य! तदा कृशः अद्य स्थूलः, तदा उपनेत्रं नासीत् अद्य त्वं उपनेत्रधारी, तदा श्मश्रुहीनः इदानीं तु वदने प्रभूतं श्मश्रु, गच्छता कालेन महान् खलु विकारः । इदानीमेव तव नाम स्मरामि । तव नाम रामसामि इति ” ।

  • युवा किञ्चिद्विहस्य अवदत्, “आर्ये, मम नाम रामसामि इति न, मम नाम कृष्णमूर्तिः” ।

  • वृद्धा झटित्युवाच, “तव नामन्यपि विकारः किम्? कालस्य गतिः कियती कुटिला!” ।


०१३ कॄपणता-१

ब्रह्मदत्तः नगर्यां प्रथितः धनिकः न्यायवादी(lawyer) आसीत् | तथापि कृपणः सः कस्मैचिदपि दीनाय कदापि धनं न ददौ । दीनसहायः देवदत्तनामा तमागत्य अपृच्छत्, “आर्य, भवान् प्रथितः न्यायवादी प्रभूतं धनमर्जितवान् च । कथमिदं यत् भवान् कदापि दीनेभ्यः साहाय्यं धनरूपेण न कृतवान्” इति ।

ब्रह्मदत्तः गंभीरस्वरेण अवदत् , “ भोः, भवता विदितं किं मम मात्रा अर्बुदरोगग्रस्तया रुग्णालयसेवार्थं प्रत्यहं दशसहस्रं रूप्यकाणि व्ययितानि इति?” । किञ्चित्संभ्रान्तः देवदत्तः अवदत्, “न विदितम्” इति । ब्रह्मदत्तः पुनरुवाच, “ भवता विदितं किं यन्मम कलत्रयुतः भ्राता युद्धे व्रणितः भूत्वा उद्योगासमर्थः चक्रयुतासने सञ्चरन् कालं क्षपयति?”। देवदत्तः कुण्ठितवचनः नम्रः बभूव । पुनरवदत् ब्रह्मदत्तः, “ भवता विदितं किं यन्मम अनुजायाः भर्ता मार्गापघाते अम्रियत । मम अनुजायाः त्रीण्यपत्यानि इति?” ।

यावत् देवदत्तः “भवतः क्षमां याचे । नितरां दुःखितोऽस्मि” इति विवदिषुरासीत् तावदेव ब्रह्मदत्तः उवाच, “ यद्यहं तेभ्यः किञ्चिदपि साहाय्यं न दत्तवान् इतरेभ्यः किं प्रयच्छेयम्?” ।


०१४ मद्यपानम्-१

कश्चन ब्रह्मदत्तनामा शुण्डापाने आत्मनः चषकस्य पुरतः उपविष्टः पानमपिबन्नेव चिन्तामग्नः आसीत् । अन्यः कश्चन विश्वदत्तनामा धूर्तः तं दृष्ट्वा सपदि तं पानमपिबत् । ब्रह्मदत्तः रोदितुं प्रारभत । विश्वदत्तः तं सान्त्वयितुमवदत्, “ भ्रातः, कुतः रोदिषि? अहं अन्यमेकं पानं तुभ्यं क्रीणामि । विनोदायैव खलु अहं तव पानमपिबम् “ इति ।

ब्रह्मदत्तः रुदन्नेव प्रत्यवदत्, “भ्रातः, किं ब्रवीमि? आप्रातः अद्य मम महती दुर्दशा । प्रातः चिराय सुप्तः उद्योगालयं वेलामतिक्रम्य गतः । मम अधीक्षकः कुपितः उद्योगात् मां निष्कासितवान् । गृहं प्रतिनिवर्तितुमुद्यतः अहं याननिःस्थानमगच्छं यत्र मम यानः केनापि चोरेण मुषितः आसीत् । भाटकयानमेकमारुह्य गृहमगच्छम् । भाटकयाने एव अहं मम धनस्यूतमनवधानेन त्यक्तवान् । गृहं गतः विटपुरुषॆण सह रममाणां मम भार्यामपश्यम् । विषण्णः किंकर्तव्यतामूढः शुण्डापानमागत्य प्राणत्यागार्थं विषपूर्णं चषकं पिपासामि । तदपि त्वं पिबसि । अहो धिङ्मां दुर्भाग्यम् ।“


०१५ विनोदप्रियता-२

अहं साक्षात्करं (television) विलोकयन् आसम् । दूरवाण्याः घण्टा व्यनदत् । दूरवाण्यां ललना काचिदपृच्छत्, “ सुन्दरेण सह संलपितुमिच्छामि” ।

अहमेकाकी वसामि, मम नाम सुन्दरो न । दूरवाणीसंख्यास्खलनं व्यक्तमभवत् । तथापि विनोदाय तामहमवदम्, “सुन्दरः अधुना अत्र नास्ति । सुन्दराय अपि कश्चित्संदेशः?”

सा अवदत्, “सुन्दरः कदा पुनरागमिष्यति?”

“प्रायेण दशवादनसमये आगमिष्यति”

“भवान् श्यामः किम्?”

मम नाम श्यामः न । तथाप्यहमवदम्, “बाढम्, अपि कश्चित् सन्देशः सुन्दराय?” ईषद्प्रक्षुब्धवाण्या सा अवदत्,“ सः मामवादीत्,”अद्य रात्र्यां गृहे एव तिष्ठामि । मया सह दूरवाण्यां संलप” इति ।“.

अहमवदम्, “सः एकहोरायाः प्राक् रेखया सह विहर्तुमगच्छत्”

भूयोऽपि क्रुद्धा सा अवदत्, “रेखा का?”

“सा तस्याः प्रियवयस्या।“

“तदवगतम् । परंतु सा का?”

”अहं न जाने । अपि कश्चित् संदेशः सुन्दराय? “

“कृपया तं वक्तुमर्हसि, “गृहमागतः सः मया सह दूरवाण्यां संलपतु” इति”

“अपि भवती श्यामा?” अहमपृच्छम् ।

”श्यामा का?” तस्याः कोपः परां काष्ठां प्राप ।

“सः श्यामया सह दशवादनात् पश्चात् विहर्तुं गमिष्यति । क्षमां याचे । भवती श्यामा इत्यचिन्तयम् ।“

“सुन्दरः क्षमां याचेत न भवान् । भवान् कृपया सुन्दरं वक्तुमर्हति, “शीला दूरवाण्यां अवादीत् यत् त्वं तया सह संल्लपितुमर्हसि इति” । सपदि तया संपर्कः त्रुटितः ।

ईश्वरः निर्दोषं सुन्दरं रक्षतु मां क्षमतां च ।


०१६ दाम्पत्यम्-४

न्यायाधीशः: कच्चित् स्वीकुरुषे यत् त्वम् चतुर्वारं परिधानविपण्याः चोरयितुं अन्तरगच्छः?

अभियुक्तः: बाढम्,प्रभो ।

न्यायाधीशः: त्वं किमचोरयः?

अभियुक्तः: परिधानमेकम्, प्रभो ।

न्यायाधीशः: चतुर्वारं त्वं भित्तिं भङ्क्त्वा विपण्याः अन्तरगच्छः, कथमेकं परिधानमेव अचोरयः ।

अभियुक्तः: किं करवाणि? त्रिवारं मुषितपरिधानवर्णः मम पत्न्यै नारोचत ।


०१७ वाक्चातुर्यम्-१

प्रथितभौतशास्त्रज्ञः ऐन्श्टैनः सापेक्षतावादमधिकृत्य वारं वारं नैकविद्यालयेषु सभाङ्गणेषु भाषते स्म । सभायां ऐन्श्टैने भाषमाणे तस्य कार्-यानस्य सारथिः सभाङ्गणस्य कस्मिंश्चन पीठे एव उपविशति स्म । गच्छत्सु दिनेषु ऐन्श्टैनस्य भाषणवाक्स्रोतः सारथेः कण्ठगतमभवत् ।

कार्-यानेन कदाचन तयोः सभाङ्गणं गच्छतोः, सारथिः ऐन्श्टैनमवदत्, “आर्य, यदा भवान् क्लान्तः तदा अहमेव भवतः भाषणं कर्तुं यते ।” ऐन्श्टैनः अवदत्, “तथास्तु, अद्य एव मम स्थाने मम परिधानं परिधाय त्वमेव भाषस्व । अहं तव परिधानं परिधाय सभायां उपविशामि।“ तौ तथैव अकुरुताम् । सारथिः मनागपि स्खलनम् विना बभाषे ।

भाषणानन्तरं कश्चन सभ्यः कठिनं प्रश्नमेकमपृच्छत् । सारथिः असंभ्रान्तः तत्क्षणमेव “आर्य, तव प्रश्नः अतीव सरलः । मम सारथिरपि उत्तरं दातुं समर्थः,“ इति वदन् ऐन्श्टैनं अङ्गुल्या निरदिशत् ।


०१८ दाम्पत्यम्-५

वृद्धौ बयस्यौ परस्परम् संलपन्तौ आस्ताम् ।

’देवदत्त, अहो कालस्य महिमा, अस्मद्वयस्येषु बहवो दिवं गताः । परंत्वहं अस्मद्वयस्यस्य ब्रह्मदत्तस्य मरणं भूयो भूयो शोचामि ।’

’कुत इत्थं, वयस्य ?’

’ब्रह्मदत्ते उपरते अहं तस्य विधवां पर्यणयं खलु ।’


०१९ वाक्चातुर्यम्-२

चन्द्रदत्तसूर्यदत्तौ वयस्यौ पादकन्दुकक्रीडासक्तौ परस्परं संलपन्तौ आस्ताम् ।

चन्द्रदत्तः: वयस्य, अपि स्वर्गे पादकन्दुकक्रीडा प्रचलति ?

सूर्यदत्तः: न जाने, परंतु यद्यहं त्वत्तः पूर्वं स्वर्गं गच्छेयं तदा तत्र सा क्रीडा प्रचलति न वा इत्युदन्तं तुभ्यम् आगत्य निवेदयामि ।

चन्द्रदत्तः: बाढम्, यद्यहं त्वत्तः पूर्वं स्वर्गं गच्छेयं अहमपि तथैव करोमि ।

विधिवशात् सूर्यदत्तः चन्द्रदत्तात् पूर्वं दिवमगात् । कतिपयदिवसानन्तरं सूर्यदत्तः चन्द्रदत्तस्य प्रत्यक्षमभवत् ।

चन्द्रदत्तः : वयस्य, स्वर्गादागतः किम्?

सूर्यदत्तः :बाढम्

चन्द्रदत्तः: स्वर्गे का वार्ता? तत्र पादकन्दुकक्रीडा प्रचलति किम्?

सूर्यदत्तः: वयस्य, तुभ्यं वार्ताद्वयमानयामि । एका शुभा अन्या अशुभा ।

चन्द्रदत्तः: स्वर्गे पादकन्दुकक्रीडा प्रचलतीति शुभा वार्ता ।

सूर्यदत्तः : तुष्टोऽस्मि । का भवेदशुभा वार्ता ?

चन्द्रदत्तः : आगामिनि रविवासरे तत्र त्वं क्रीडिष्यसि ।


०२० मद्यपानम्-२

रत्नदत्तः शुण्डापानं गत्वा पानमेकमक्रीणात् । चषकात् किञ्चित् पानं पीत्वा शेषं पानं पानहरस्य मुखे प्राक्षिपत् । यावत् पानहरः चकितः संभ्रान्तश्च वक्तुमुद्यतः तावदेव रत्नदत्तः रोदितुं प्रारभत पानहरमवदच्च, “सखे, तव क्षमां याचे । किं करवाणि ? एतत् दुष्कर्म महता यत्नेनापि रोद्धुमशक्तोऽहम् । पाने पाने एवमेव करोमि । परां व्रीडामनुभवामि रोदिमि च । जनाः कथयन्ति एषः मानसिकव्याधिः इति ।“ पानहरः स्नेहशीलः अनुभवी च तमवदत्, “ आर्य, मा शुचः । मनोवैद्यमेकमहं जानामि । तेन संगम्य तस्य उपदेशं प्राप्नुहि । शुभं भूयात्” इति । रत्नदत्तः वैद्यस्य नामधामविशेषान् पानहरात् लब्ध्वा तस्य उपकृतिं प्रशस्य शुण्डापानात् निरगच्छत् ।

गतेषु कतिपयमासेषु यदा रत्नदत्तः पुनरपि तदेव शुण्डापानमागतः तदा तं पानहरः अभ्यजानात् तमवदच्च, “आर्य, अपि त्वं तं मनोवैद्यमगच्छः?“ रत्नदत्तः जगाद, “बाढं सखे । त्वयाहं भूर्युपकृतोऽस्मि । मम व्याधिः निरस्तः” इति । पानहरः प्रीतोऽभूत् ।

रत्नदत्तः यथापूर्वं पानं क्रीत्वा पातुं प्रारभत । किञ्चित् पीत्वा चषके अवशिष्टं पानं यथापूर्वं पानहरस्य मुखे प्राक्षिपत् । पानहरः दिग्भ्रान्तः रुष्टश्च अभाषत, “आर्य किमिदम्? पुनरपि मम मुखे पानं प्रक्षिपसि? व्याधिः निरस्तः इति च वदसि?“ । रत्नदत्तः शान्त एव अवदत्, “अथ किम् । इदानीं तु यथापूर्वं कुर्वन्नपि अहं व्रीडितो न भवामि न रोदिमि च ।”


०२१ मौढ्यम्-३

अमरसिंहः वयस्येन सह कदाचन देवालयं गतः । सर्वे पादुके अवतार्य देवालयं प्रविशन्ति खलु । पादस्यूतपादुकाधारी अमरसिंहस्तु पद्भ्यां पादस्यूतौ (socks) च अवतार्य देवालयं प्रविष्टः । पादस्यूतयोः एकः कृष्णवर्णः अपरः रक्तवर्णश्च आस्ताम् । वयस्यः तौ दृष्ट्वा अमरसिंहमपृच्छत्, “मित्र, किमिदम्? एकः पादस्यूतः कृष्णवर्णः अन्यः रक्तवर्णश्च भवतः ?” अमरसिंहः उत्तरमदात्, “ सखे, न जाने कथमित्थमभूदिति । मम गृहेऽपि सदृशौ पादस्यूतौ स्तः ययोः एकः रक्तः अन्यः कृष्णश्च” ।


०२२ बालचेष्टा-२

कश्चन सज्जनः मुहुर्मुहुः उत्प्लवन्तं द्वारघण्ठासंघट्टने सततं प्रयतन्तम् कमपि वामनं बालकं कस्यचिद्गृहस्य पुरतः अपश्यत् । बालकस्य साहाय्यार्थं सः सज्जनः तत्समीपं गत्वा द्वारघण्ठां समघट्टयत्, आत्मनः सुकृत्या नितरां प्रीतश्च तमवदत्, “तव ईप्सितं प्राप्तं खलु । अद्य किं करवाव?” इति । किशोरः “ किं करवाव? आवां द्रुतं धावाव” इत्युच्चैर्वदन् सपद्येव अधावत् ।


०२३ दाम्पत्यम्-६

कश्चन पुरुषः तस्य वैद्यमवदत्, “मम भार्यायाः श्रवणसूक्ष्मता क्षयं जिगमिषतीव भाति । किं करणीयम्?” वैद्यः प्रत्यवदत्, “भवान् प्रथमतः इमां परीक्षां करोतु । महानसे किमपि कार्यं कुर्वत्याः तस्याः पश्चात् विंशतिहस्तदूरे स्थितः भवान् तां प्रश्नमेकं पृच्छतु । सा यदि प्रत्युत्तरं न ददाति तदा दशहस्तदूरे स्थितः तमेव प्रश्नं पृच्छतु । तदापि सा प्रत्युत्तरं न ददाति चेत् तदा पञ्चहस्तदूरे स्थितः तमॆव प्रश्नं पृच्छतु । यावत् सा प्रत्युत्तरं न ददाति तावत् इत्थं तस्याः समीपं गच्छन् प्रश्नमावर्तयतु । तदा तस्याः श्रवणसूक्ष्मता कियतीत्यवगता भवति ।“

पुरुषः गृहं गत्वा महानसे अन्नं पचन्त्याः भार्यायाः पश्चादेत्य विंशतिहस्तदूरे स्थितः अपृच्छत्, “ प्रिये, अद्यावयोःअशनाय किम् “ इति । यदा सा न प्रत्यवदत् सः पञ्चदशहस्तदूरे स्थितः तमेव प्रश्नमपृच्छत् । सा तदापि न प्रत्यवदत् । दशहस्तदूरे स्थितः प्रश्नमपृच्छत् । पञ्चहस्तदूरे स्थितः प्रश्नमपृच्छत् । यदा द्विहस्तदूरे स्थितः प्रश्नमपृच्छत् तदा तस्याः उत्तरमशृणोत्, “ त्रिवारमहमकथयम्, “अद्य कदलीशाकसमन्वितंसूपम् दध्यन्नं च इति” । तव श्रवणसूक्ष्मता शोचनीया खलु"।


०२४ वाक्चातुर्यम्-३

एकदा केचन जनाः विमाने प्रयान्ति स्म । मध्येमार्गं विमानस्य यानयन्त्रे दोषः समपद्यत । पतनभीतिः प्रादुरभूत् । आपत्काले विमानकंचुकी सर्वेषां प्राणरक्षककंचुकान् वितरति खलु । तथैव विमानकंचुकी यथाविधि वितरणार्थं कंचुकान् संख्याय सर्वान् इत्थमवदत्, “भोः, निवेदितुं दुःखितोऽस्मि यत् विमानपतनभीतिरस्ति । अत्र कश्चित् धर्मनिष्ठः अस्ति किं यः ईश्वरं भक्त्या प्रार्थयितुं शक्तः?” सज्जन एकः अवदत्, “अहं धर्मनिष्ठः दैवभक्तश्च । अहं सर्वेषां क्षेमाय ईश्वरं प्रार्थयामि” इति । विमानकंचुकी तं सज्जनमवदत्, “आर्य, कृतज्ञोऽस्मि । अत्र वयं एकविंशतिः स्मः । परंतु प्राणरक्षककंचुकास्तु विंशतिरेव सन्ति । कृपया भवान् आत्मनः क्षेमाय ईश्वरं प्रार्थयतु । अन्येभ्यः अहं कंचुकान् वितरामि” इति ।

०२५ श्वश्रूः-स्नुषा-२

स्नुषाः श्वश्रुवः परस्परं बहुमानेन न अवलोकयन्ति इति प्रथा अस्ति खलु । तां प्रथां प्रत्याख्यातुं काश्चन स्नुषाः श्वश्रुवः योजनामेकामरचयन् । योजना सर्वाः दूरस्थितं देवालयमेकं संदृश्य तत्र श्वश्रूणां स्नुषाणां परस्परं प्रीतिपूर्वकवृत्त्यर्थम् ईश्वरं प्रार्थयिष्यन्ति इत्येषा आसीत् । परंतु श्वश्रुवः एकेन बस्-यानेन देवालयं गता स्नुषाः अन्येन बस्-यानेन गताः । विधिवशात् श्वश्रूणां यानं दुर्घटनाग्रस्तमभवत् सर्वाः बस्-यानस्थितश्वश्रुवः मृताश्च । स्नुषाः दुःखदां वार्तामशृण्वन् अश्रूण्यमुञ्चन् च । परंतु एका स्नुषा प्रभूतं रोदितुं प्रारभत । अन्याभिः सान्त्वनं निष्फलमभवत् । “कुतः इयतीं यातनामनुभवसि इति पृष्टा सा प्रत्यवदत्, “मम श्वश्रूः तद्याने न प्रातिष्ठत गृहे एव तिष्ठति” इति ।


०२६ दाम्पत्यम्-७

दम्पती कलहमकुरुताम्। पश्चात् परस्परं मौनमाचरताम् । अपरेद्युः पतेः सूर्योदयात् प्रागेव उद्योगाय गमनं समपद्यत । अतः तस्य प्रातःप्राबोधनार्थं पत्नीं प्रति प्रार्थना आवश्यकी अभवत् । तथापि तां प्रति मौनं भङ्क्तुं नैच्छत् । अतः रात्रौ तस्यै पत्रकमेकमलिखत्, “ मां प्रातः पञ्चवादनसमये प्राबोधय” इति । तं पत्रकं तस्याः उपधानस्य उपरि न्यवेशयत् ।

अपरेद्युः यदा पतिः जागृतः तदा अष्टवादनसमयः आसीत् । यावत् क्रुद्धः पत्नीं पिप्रच्छिषुरासीत् तावदेव आत्मनः उपधानस्य निकटे पत्रकमेकमपश्यत् । तस्मिन् पत्न्या लिखितमासीत्, “ इदानीं पञ्चवादनसमयः जागृहि” इति ।


०२७ वाक्चातुर्यम्-४

कदाचित् आङ्ग्ललोकसभायां कश्चन सभ्यः भाषणं कुर्वतीं सभ्यामुद्दिश्य इत्थमवदत्, “ यद्यहं भवत्याः पतिरभविष्यम् तदा भवत्यै विषमदास्यम्” । सा सभ्या सपद्येव प्रत्यवदत्, “ महोदय, अथ किम्, यदि भवान् मम पतिरभविष्यत् निस्संशयमहं सहर्षं तद्विषमपास्यम्” इति ।


०२८ बालचेष्टा-३

कश्चित् पोगण्डः तस्य अनुजेन अर्भकेन सह गृहाद्बहिः खेलति स्म । सहसा अर्भकः उच्चैः रोदितुं प्रारभत । तयोः पितामहः गृहाद्बहिरागत्य तं पोगण्डमवदत्, “ अर्भकं किमर्थं रोदयसि? सः यद्वाञ्छति तद्देहि” इति । पोगण्डः प्रत्यवदत्, “अर्भकः आतपे शोषणार्थं निवेशितं रक्तं मरिचं वाञ्छितवान् । तस्मै तमहं दत्तवान् । सः मरिचं वदने निक्षिप्य इदानीं रोदिति” इति ।


०२९ वाक्चातुर्यम्-५

कदाचन कानिचन मित्राणि सपणमदीव्यन् । तेषु ब्रह्मदत्तो नाम देवने पराजितः पञ्चसहस्ररूप्यकमितं धनहानिमवाप्तवान् हृदयाघातेन तत्रैव मृतिमगाच्च। इतराणि मित्राणि शोकसूचनार्थमुत्थाय पुनः देवने निरताण्यभवन् । देवनान्ते एकः अवदत्, “ अस्मासु कः ब्रह्मदत्तस्य पत्न्यै दुखवार्तां निवेदयति? “ इति । अन्यः देवदत्त नामा अवदत्, “अहं समीक्ष्य कौशलेन यथा सा भृशं न क्लिश्यते तथा स्तोकं निवेदयामि” इति । सः ब्रह्मदत्तस्य गृहं गत्वा ब्रह्मदत्तस्य भार्यामवदत्, “ भवति, भवत्याः भर्ता अद्य देवने रूप्यकानां पञ्चसहस्रात् च्युतः” इति । सा भ्रुमुटिं कृत्वा झटित्यवदत्, “वद तं मृतिं यातु “ इति । देवदत्तः प्रसह्य “भवति तथैव निवेदयामि “ इति वदन् तस्याः गृहात् निष्क्रान्तः ।


०३० शितबुद्धिः-१

बालकेन सह पुरुष एकः श्मश्रुवर्धकविपणिं प्रविष्टः । पुरुषः श्मश्रुसंस्कारपीठमारुरोह । श्मश्रुवर्धकः तस्मै यथाविधि श्मश्रुसंस्कारं कृतवान् च । तदनन्तरं पुरुष अवदत्, “भोः, इदानीं अस्मै बालकाय श्मश्रुसंस्कारं भवान् करोतु । अत्रान्तरे कार्यमन्यं कृत्वा पुनरागच्छामि ।“ पुरुषः निर्गतश्च । श्मश्रुवर्धकः पुरुषस्य वचः संमान्य बालकस्य श्मश्रुसंस्कारं कृत्वा बालकमवदत्, “बाल, अत्रैव तव पित्रे प्रतीक्षस्व । शीघ्रमेव आगमिष्यति” इति । बालकः अवदत्, “सः मम पिता न भवति । मार्गे मां दृष्ट्वा अवदत्, “तव श्मश्रुसंस्कारं कारयामि। मया सह आगच्छ” इति । अतः तेन सह अहमागतः” इति । वञ्चितः श्मश्रुवर्धकः पुरुषस्य बालकस्य च श्मश्रुसंस्कारं मूल्यं विनैव अकरोत् खलु ।


०३१ वाक्चातुर्यम्-६

प्रसिद्धलेखकः जार्ज् बर्नार्ड् षावर्यः कदाचित् प्रसिद्धराजनयप्रसक्ताय विन्स्टन् चर्चिलाय आत्मनः नाटकस्य प्रथमप्रदर्शनं द्रष्टुं प्रवेशपत्रं प्राहिणोत् । चर्चिलः षावर्याय उत्तरपत्रमलिखत् , “ अनुगृहीतोऽस्मि । परंतु अनवधानात् प्रथमप्रदर्शनं द्रष्टुं न शक्नोमि । भवतः नाटकस्य द्वितीयप्रदर्शनं भवेद्यदि अहं तद्द्रष्टुमिच्छुः अस्मि ।“ अभिभूतः षावर्यः द्वितीयप्रदर्शनार्थं चर्चिलाय द्वे प्रवेशपत्रे प्राहिणोत् इत्थमलिखच्च, “ महोदय, द्वे प्रवेशपत्रे प्रेषिते । यदि भवतः कोऽपि सुहृत् भवेत् तमपि आनयतु” इति ।


०३२ दाम्पत्यम्-८

केचन स्त्रियौ समलपताम्:

एका : अहं नितरां क्लान्ता । सदैव मम भर्त्रा सह कलहः संभवति । अतः मम भारः दशकिलोमितः न्यूनतरः जातः ।

अन्या : दुःखिताऽस्मि । कुतस्त्वं विवाहविच्छेदं न कुर्याः?

एका : अधुनैव न । मम भारः अद्यापि समुचितभारात् दशकिलोमितः अधिकतर एव वर्तते ।


०३३ दाम्पत्यम्-९

येन चोरेण स्वगृहे भित्तिचौर्यं कृतं सः आरक्षकैः बद्धः वर्तते इति वार्तां श्रुत्वा कश्चन पुरुषः आरक्षकालयं गत्वा आरक्षकमवदत्, “भोः, अहं चोरेण सह संलपितुमिच्छामि “ इति । आरक्षकेन किमर्थमिति पृष्टः सः प्रत्यवदत्, “ चोरं प्रष्टुमिच्छामि, “ मम भार्यां प्रबोधयन् विना रात्रिमध्यं कथं त्वं गृहं प्रवेष्टवान् । अहं चिरकालात् तथा कर्तुमशक्तोऽस्मि “ इति ।


०३४ वाक्चातुर्यम्-७

कश्चित् दीनः याचकः पथि देवसिंहं यत्किञ्चिद्धनमयाचत ।

देवसिंहः : यदि द्वे रूप्यके तुभ्यं ददामि तदा त्वं पानशुण्डां गत्वा मद्यं क्रीणासि किम्?

याचकः : न कदाचित्, प्रभो ।

देवसिंहः : देवनगृहे धनस्य पणसे किम्?

याचकः : न कदाचित्, प्रभो ।

देवसिंहः : कृपया मया सह मद्गृहमागच्छ । मद्येन विना देवनेन विना नरस्य का अवस्था भवतीति मम भार्या पश्यतु ।


०३५ दाम्पत्यम्-१०

भार्या महानसे इतस्ततः परिभ्रमन्तं मक्षिकाहनने उद्यतम् भर्तारमपश्यत् ।

भार्या: किं कुरुषे?

भर्ता: मक्षिकाहनने उद्यतोऽहम् ।

भार्या: सफलः अभूः कच्चित् ?

भर्ता: निस्संशयम् । पञ्चमक्षिकाः अवधिषम् । तासु तिस्रः मक्षिकावधूः ।

भार्या: स्त्रीपुरुषविवेकः कथमभूत्?

भर्ता: सः स्पष्ट एव । तिस्रः दूरभाषायन्त्रस्य उपरि स्थिताः द्वौ मद्यचषकस्योपरि स्थितौ ।


०३६ वाक्चातुर्यम्-८

काचन ललना विपणिवीथ्यां गच्छन् विपण्यां पञ्जरस्थं शुकमेकमपश्यत् । शुकस्य सौन्दर्यमनुभवन् तत्रैव क्षणमात्रं तस्थौ । शुकः तामवदत्, “भवति, कुरूपासु प्रथमा खलु भवती” इति । अतिकुपिता सा भ्रुकुटिं कृत्वा द्रुतं स्वोद्योगाय निर्जगाम । यदा सा सायमुद्योगात् प्रतिन्यवर्तत तदापि तं शुकमपश्यत् । तदापि शुकः तामवदत्, “भवति, कुरूपासु प्रथमा खलु भवती” इति । परेद्युः यदा सा स्वोद्योगाय गच्छन् तं शुकमपश्यत्, स शुकः पुनरुवाच, “भवति, कुरूपासु प्रथमा खलु भवती” इति । अतीव कुपिता सा तद्विपणिं प्रविश्य आपणिकमवदत्, “अयि, भोः, तव शुकः दुर्वचांसि वदति । यदि सः पुनरपि यदि तथैव कथयति अहं राजभटे अभियोगं दास्यामि” इति । आपणिकः तस्याः क्षमामयाचत अवदच्च, “भवति, अद्यप्रभृति सः शुकः दुर्वचांसि यथा त्वां न भणति तथा करोमि” इति। सायमुद्योगात् प्रतिनिवर्तनसमये सा सकुतूहलं तं शुकमपश्यत् । तदा शुकः अवदत्, “आर्ये” इति । सा भ्रुकुटिं कृत्वा प्रत्यवदत्,”ततः किम्” । सः शुकः सगर्वमभणत्, “मम कथनेन किम्? भवती वेत्ति खलु” इति ।


०३७ वैद्यः-१

वृद्धौ स्ववैद्ययोः विषये संलपतः स्म । प्रथमः अवदत्, “भोः, तव वैद्यः विश्वासानर्हः । कस्मैचिद्रुग्णाय सः मूत्रपिण्डव्याधिनिवारणार्थं औषधानि प्रायच्छत् । स रुग्णः पित्थकोशव्याधिना मृतः खलु” इति। द्वितीयः अवदत्, “तव वैद्यस्य विषये किं भणसि?” इति । प्रथमः प्रत्यवदत्, “ यदि मम वैद्यः तुभ्यं मूत्रपिण्डव्याधिनिवारणाय औषधानि प्रदास्यति, तदा त्वं निस्संशयं मूत्रपिण्डव्याधिना एव मरिष्यसि” इति ।


०३८ दाम्पत्यम्-११

अमेरिकादागतौ दम्पती अरब्-देशे प्रयातः स्म । तत्र कश्चन अरब्-देशस्थः तौ दृष्ट्वा भर्तारमवदत्, “भोः, उष्ट्राणां शतं तुभ्यं दास्यामि । त्वं तव स्त्रियं मह्यं देहि” इति । चिरेण विचिन्त्य भर्ता तमवदत् , “ मम स्त्रियं न दास्यामि । सा विक्रयाय न भवति” इति । कुपिता भार्या भर्तारमवदत्, “ कुतस्त्वं तद्वक्तुं चिरेण विचिन्तयसि?” इति । भर्ता प्रत्यवदत्, “ इतः अमेरिकामुष्ट्राणां शतं कथं नेष्यामि इत्यचिन्तयम्” इति ।


०३९ विनोदप्रियता-१

मद्यपानजनितदुष्परिणामानां विषये कश्चन प्राज्ञः सभायां भाषते स्म । सः सर्वेषां बोधयितुं प्रयोगमेकमकरोत् । चषकं मद्येन पूरयित्वा चञ्चलं कृमिमेकं तस्मिन् न्यक्षिपत् । कृमिः तूर्णमम्रियत । तदा सभामुद्दिश्य अभाषत । “आर्याः, कथयत, अस्मात् प्रयोगात् किमवगतम्?” । धर्मदत्तः झटित्युत्थाय अवदत्, “भोः, इदं सुस्पष्टम् । मद्यपानं कृमिरोगं रुणद्धि“ इति ।


०४० शितबुद्धिः-२

कृषीवलः कृच्छ्रेण गोडुम्बानवर्धयत् परंतु चोराः पक्वानि गोडुम्बानि (water melons) चोरयन्ति स्म । चोरान् निरोद्धुं सः दारुफलके “ सावधाना भवेत, अत्र गोडुम्बनिवहे किञ्चनगोडुम्बं विषपूरितं वर्तते” इति लिखित्वा दारुफलकं क्षेत्रस्य पुरतः अस्थापयत् । न कोऽपि पक्वानि फलान्यचोरयत् कृषीवलः कृतार्थः प्रीतः अभवच्च । परंतु कतिपयदिनेषु गतेषु यदा कृषीवलः क्षेत्रमगच्छत् तदा तत्र फलके, “ सावधाना भवेत । इदानीमस्मिन् क्षेत्रे द्वे फले विषपूरिते स्तः” इति लिखितं दृष्ट्वा दिङ्मूढः अभवत् ।


०४१ दाम्पत्यम्-१२

तस्मिन् दिवसे वृद्धदंपत्योः विवाहादनन्तरं पञ्चाशद्वर्षाः गताः आसन् । दंपती औत्सुक्येन सम्भ्रमेण च तदवसरमुत्सवरूपेण आचरतः स्म । सायमीश्वरं प्रार्थयितुं देवालयं गतौ । प्रीतः ईश्वरः प्रत्यक्षो भूत्वा ताववदत्, “भोः, युवयोः अन्योन्यप्रेम्णा प्रीतोऽस्मि । युवां पृथक् पृथक् वरमेकं याचेथाम् ।“ पत्नी प्रथमं वरमयाचत, “प्रभो, अहं मम पत्या सह जगत्पर्यटनं कर्तुमिच्छामि” इति । ईश्वरः प्रत्यवदत्, “तथास्तु, पत्युराशा तु का” इति । झटिति चपलचित्तः पतिरवदत्, “प्रभो, वयसि मत्तः त्रिंशत्वर्षैः न्यूनां भार्यां वाञ्छामि” इति । “तथास्तु । श्वः प्रभाते युवयोः वाञ्छे फलिष्यतः” इति वदन् ईश्वरः अन्तर्दधे । पत्नी नितरां दुःखिता अभवत्, पतिः नितरां हृष्टोऽभवत् । पृथक् पृथक् पर्यङ्के सुप्तवन्तौ कथमपि रात्रिमनयताम् । शर्वर्यां प्रभातायां कोऽपि दूतः जगत्पर्यटनाय ताभ्यां विमानानुमतिपत्रमानयत् । पत्नी एव उत्थाय यानानुमतिपत्रं जग्राह । वृद्धः पतिः पर्यङ्कादुत्थातुं न शशाक । हन्त, सः पत्न्याः वयसि त्रिंशद्वर्षैः ज्यायान् समभवत् खलु ।


०४२ देवनम्-१

देवसिंहः देवनशूरः इति प्रथितः आसीत् । कार्यालयेऽपि सर्वैः सह पणबन्धं कृत्वा दीव्यति स्म । कार्यालयस्य कार्ये अनासक्तः कार्यमग्नानन्यान्श्च बाधते स्म । कार्यालयस्य अधीक्षकः तस्य देवनमोहजातहानिमसहमानः तं स्वकोष्ठमागन्तुमादिदेश । देवसिंहः कोष्ठं यथानिर्दिष्टं प्रविवेश च ।

“देवसिंह, कार्यालये देवनं न कार्यमिति त्वया विदितमेव । तथापि देवने सक्तः अन्यान्श्च बाधसे । अद्यप्रभृति देवनात् विरमेः । देवनात् विरमसि न चेत् त्वामुद्योगात् निस्कासयिष्यामि“। देवसिंहः, “यथाज्ञापयत्यार्यः” इति वदन् शनैः कोष्ठात् निष्क्रान्तः । कतिपयक्षणेषु देवसिंहः अधीक्षकस्य कोष्ठं तस्य अनुमतिमादाय पुनः प्रविवेश अवदच्च, “आर्य, कार्यालये अद्यैव मम अन्तिमदेवनं भवति खलु । अतः अधुना भवता सह देवितुमिच्छामि । अनुमन्यतामार्यः” । अधीक्षकः विहस्य अवदत्, “मया सह किं देवनम्? कः पणः?” । देवसिंहः झटित्यवदत्, “आर्य भवतः उरोपृष्ठदेशे बृहत्श्यामचिह्नमस्ति । भवान् वेत्ति किम्?” । चकितः अधीक्षकः अवदत्, “किम् वदसि? न कदापि । निस्संशयं मम उरोपृष्ठदेशे किमपि चिह्नं नास्ति“ । देवसिंहः प्रत्यवदत्, “ आर्य, चिह्नं न भवति चेत् सहस्ररूप्यकानि भवते दास्यामि । परंतु इदानीमेव परीक्षा भवेत् ।“ अधीक्षकः मनस्येव अचिन्तयत्, “मूढोऽसौ विना कारणं मह्यं सहस्रं रूप्यकानि दातुं सिद्धोऽस्ति । बाढम्, तस्मै समुचितं पाठमुपदिशामि। ममापि सहस्रं रूप्यकानां लाभो भवति” । “देवसिंह, वृथा पराजितो भवसि । मूर्खस्त्वम् । पश्य किमस्ति?” इति वदन् कञ्चुकं शरीरादपानयत् विवस्त्रमुरोपृष्ठम् देवसिम्हाय अदर्शयच्च । तूर्णं देवसिंहः कोष्ठात् बहिः स्थितं सहोद्योगिनं हरदत्तनामानमाह्वयत्, “ हरदत्त, आगच्छ, पश्य, अधीक्षकस्य विवस्त्रमुरोपृष्ठम् । यथाप्रतिज्ञातं मह्यं द्विसहस्रं रूप्यकानि देहि” इति ।


०४३ हास्यकृच्छ्रः-१

शस्त्रचिकित्सार्थं रुग्णालयं प्रवेशितस्य ब्रह्मदत्तस्य तदानीं शस्त्रचिकित्सा करणीया आसीत् । तदा काचन शुश्रूषिका सचक्रासन्द्याम् उपविष्टं तथापि सोद्वेगं स्वहस्ताभ्यां द्रुतं सचक्रासन्द्याः चक्रे चालयन्तं वैद्यशालायाः प्राङ्गणे भ्रमन्तं तमपश्यत् । तया सोद्वेगभ्रमणस्य कारणं पृष्टः ब्रह्मदत्तः प्रत्यवदत्, “भोः, शस्त्रचिकित्सागारे स्थिता शुश्रूषिका अवादीत्, “ मा भैषीः, शस्त्रचिकित्सा निर्विघ्नं सुखान्त्यं भविष्यति” इति। शुश्रूषिका प्रत्यवदत्, “भोः, यदि सा त्वाम् इत्थमवादीत् त्वं निर्भयो भवेः खलु?” इति । ब्रह्मदत्तः प्रत्यवदत्, “भोः, सा मां नावादीत्, सा शस्त्रचिकित्सकमवादीत् खलु!” इति ।


०४४ वाक्चातुर्यम्-९

कस्मिन्श्चिद्ग्रामे “प्रह्लादचरित्रम्”नाम नाटकं नाट्यते स्म । तत्र ब्रह्मदत्तदेवदत्तौ हिरण्यकशिपुप्रह्लादपात्रधारिणौ आस्ताम् । केनापि कारणेन नाटकप्रयोजकेन हिरण्यकशिपुपात्रधारिणे ब्रह्मदत्ताय देयं मासिकवेतनं न दत्तम् । अतः ब्रह्मदत्तः कुपितः आसीत् । सायं नाटके नाट्यमाने विष्णोः प्रत्यक्षीकरणाङ्कः प्रचलन्नासीत् । ब्रह्मदत्तेन, “बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत्, सः अस्मिन् स्तम्भेऽप्यस्ति किम्?” इति रङ्गस्य वामस्तम्भं दर्शयन् भणितव्यमासीत् । प्रह्लादपात्रधारिणा देवदत्तेन, “निस्संशयम्, तात” इति भणितव्यमासीत् । तदा झटिति वामस्तम्भान्तर्हितविष्णोः प्रादुर्भावः भाव्यः आसीत् । कुपितः ब्रह्मदत्तस्तु वामस्तम्भस्थले दक्षिणस्तम्भं दर्शयन्, “ बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत् सः अस्मिन् स्तम्भेऽप्यस्ति किम्”” इत्यपृच्छत् । दिग्भ्रान्तोऽपि प्रह्लादपात्रधारी देवदत्तः प्रत्युत्पन्नमतिः अवदत्, “तात, विष्णुः तस्मिन् स्तम्भे नास्ति । अस्मिन् स्तम्भे अस्ति” इति वदन् वामस्तम्भमदर्शयत् ।


०४५ वाक्चातुर्यम-१०

सुन्दरी कन्या काचन वस्त्रापणं प्रविश्य किञ्चन वस्त्रमवृणोत् युवानं विक्रेतारमपृच्छत्, “ दशमीटर्-मितवस्त्राय कति रूप्यकाणि?”. युवा स्मितवदनः अवदत्, “सुन्दरि, एकेन चुम्बनेन प्रति-मीटर्-वस्त्रं क्रीणीयात् “ इति । कन्या ईषदपि न प्रक्षुब्धा अवादीत्, “बाढम्, दशमीटर्मितं वस्त्रं देहि” इति । युवा सोत्साहं वस्त्रं ममौ साशंसः तस्याः हस्ते न्यक्षिपच्च । तदा सा कञ्चन वृद्धं तस्याः निकटे स्थितं दर्शयन्नवदत्, “अयं मम पितामहः तुभ्यं वस्त्रमूल्यं ददाति” इति ।


०४६ दाम्पत्यम्-१३

मातुलः : “वत्स, अद्य त्वमभिनन्दनीयः खलु । अद्यैव तव आनन्ददायकदिवसेषु महत्तमः दिवसः “।

स्वस्रीयः : “आर्य, मम उद्वाहः अद्य न भवति । श्वः खलु भविता “

मातुलः :“जानामि, वत्स, अत एव ब्रवीमि, “अद्यैव तव आनन्ददायकदिवसेषु महत्तमः” इति ।“


०४७ हास्यकृच्छ्रः-२

विमानानि उड्डयनात् प्राक् उड्डयनावश्यवेगं प्राप्तुं तदर्थरचितमार्गे कतिचननिमिषपर्यन्तं प्रद्रवन्ति खलु । एकदा विमानमित्थं प्रद्राव्य एकघण्ठावेलामतिक्रम्य भूतले एव स्थगितः अभवत् । तदनन्तरं विमानमुदडयत । विमानस्थः यात्रिकः गगनसखीमपृच्छत् , “कुतः विमानमित्थं स्थगितमभवदिति । गगबसखी प्रत्युवाच, “उड्डयनपूर्वधावने विमानचालकः विमानयन्त्रे असामान्यशब्दमश्रौषीत् । अपरं विमानचालकमानेतुं विलम्बः अभवत्” इति ।


०४८ वाक्चातुर्यम्-११

काचन स्त्री श्यामानाम्नी उदरवेदनया बाधिता अन्यामपृच्छत्, “वैद्यं द्रष्टुमिच्छामि । तव परिचितः वैद्यः कोऽप्यस्ति किम्?“ । “ अहं कञ्चन प्रथितं वैद्यं वेद्मि । परंतु तस्य दर्शनशुल्कमधिकं वर्तते । प्रथमदर्शने रूप्यकाणां त्रिशतं देयम् । उत्तरदर्शनेषु रूप्यकाणाम् शतं देयम्,“ इत्यवदत् । श्यामा तद्वैद्यस्य वैद्यागारमगात् , मितव्ययं काङ्क्षमाणा स्वप्रगल्भतां प्रयुयुजे, वैद्यमित्थमवदच्च, “आर्य, अहं पुनरागतास्मि । उदरवेदना अद्यापि बाधते,“ इति । वैद्यः प्रगल्भतरः अवदत्, “भवति, भवती गतदर्शने दत्तं भेषजमेव पुनः त्रिवासरपर्यन्तं सेवताम्” इति ।


०४९ दाम्पत्यम्-१५

काचन कन्या वृत्तपत्रिकायां विज्ञापनामेकां प्रकाशितवती : “पतिमेकं वाञ्छामि” इति । अपरेद्युः शतानि पत्राणि तया स्वीकृतानि । सर्वेषु पत्रेषु इदमेव निवेदितम्, “मम पतिं स्वीकुरु” ।


०५० शितबुद्धिः-३

कदाचन कृपणः वणिक् ब्रह्मगुप्तः तस्य मित्राय धनिकाय देववर्मणे रक्तं प्रदाय मरणोन्मुखाय तस्मै जीवदानमकरोत् । कृतज्ञः देववर्मा अमूल्यं मर्सिडीस्-कार्-यानम् उपायनरूपेण ब्रह्मगुप्ताय ददौ । ब्रह्मगुप्तः नितरां तुष्टः अभवत् । पुनः देववर्मा रुग्णः अभवत् । तस्मै रक्तदानमवश्यमभवत् । पुनरपि ब्रह्मगुप्तः सहर्षं मित्राय देववर्मणे रक्तं ददौ । इदानीं तु देववर्मा मित्राय ब्रह्मगुप्ताय किमपि उपायनं न ददौ । अतुष्टः ब्रह्मगुप्तः देववर्माणमवदत्, “ कथमिदम् ? तदानीम् तु कार्-यानमुपायनं अददः । इदानीं तु किमपि न ददासि?” । देववर्मा प्रत्यवदत्, “क्षमस्व माम् । इदानीं तु मम देहे प्रभूतं तव रक्तं प्रवहति खलु” ।


०५१ वाक्चातुर्यम्-११

भार्या: यद्यहं दिनपत्रिका अभविष्यम् तदा सदा तव हस्तयोः अस्थास्यम् ।

भर्ता : निस्संशयम् प्रिये, यदि मम भार्या दिनपत्रिका अभविष्यत् तदा प्रत्यहं सा नवा अभविष्यत् ।


०५२ वार्धक्यम्-१

काचन वृद्धा बेंगलूरु नगरस्य रेल्-निःस्थानस्य वेदिकायां स्थिता निकटे स्थितं कञ्चन पुरुषमपृच्छत्.

वृद्धा: “भोः, मैसूरुनगरं प्रति रैल्-यानं निष्क्रान्तं किम्?”

पुरुषः: “बाढम्”।

वृद्धा: “शिमोग्गानगरात् रैल्-यानमागतं किम्?”

पुरुषः:”बाढम्”।

वृद्धा: “चेन्नै नगरं प्रति रैल्-यानं निष्क्रान्तं किम्?

पुरुषः “मातः, अहं न जाने । त्वया कुत्र गन्तव्यम्?”

वृद्धा: “पुत्र, लोहपथं तर्तुं वाञ्छामि ।“


०५३ दाम्पत्यम्-१६

काचन स्त्री वैद्यालयं गत्वा वैद्यं पृच्छति, “भोः, किमिदं कृतं भवता? यदा भवता मम भर्तरि शस्त्रचिकित्सा कृता तदा प्रभृति सः मयि औदासीन्यं दर्शयति, विरक्त इव भाति । विषण्णोऽहं भृशम्” इति । वैद्यः प्रतिवदति, “देवि, मया किंचिदपि दुष्कर्म न कृतम् । सः क्षीणदृष्टिरासीत् । तस्य दृष्टिः यथा सामान्या भवति तथा तस्य नयनयोः शस्त्रचिकित्सा कृता खलु “ इति ।


०५४ हास्यकृच्छ्रः-३

द्वौ नरौ स्वर्गद्वारे सममिलताम् तथा मिथः समभाषेताम् ।

प्रथमः अवदत्, “ तव मरणं कथमभूत् ?”

द्वितीयः: “ शैत्यसाधने (refrigerator) मृतः अभूवम्। कथमभूत् तव मरणम्?”

प्रथमः : “ मम पत्नी केनापि परपुरुषेणसह रमते इति सन्दिह्य अपराह्ने तस्यै पूर्वसूचनं न ददन् अहम् उद्योगालयात् गृहं प्रतिनिवृत्तः । सा शय्यागारे एकाकिनी प्रसाधने निरता मया दृष्टा । प्रबलशङ्काबाधितेन मया मम सौधे आ प्रथमतलात् आचतुर्थतलं प्रसभं सोपानमारुह्य सर्वासु कक्ष्यासु मार्गणं कृतम् । कुत्रापि न कोऽपि मम दृष्टिपथं गतः । नितरां क्लान्तः पञ्चमतलमारोढुं सोपाने पदं न्यविशम् । झटिति हृदयवेदनया मृतोऽभूवम् “ ।

द्वितीयः: “हन्त भोः! यदि भवान् प्रथमतले एव निवेशिते शैत्यसाधने अमृगयिष्यत तदा आवां द्वावपि जीवितौ अभविष्याव ।“


०५५ दाम्पत्यम्-१७

कस्यचित् नरस्य भार्या मृता । मृतायाः शवं शवपेटिकायां विनिवेश्य शववाहकाः शवपेटिकां शवागारमानयन् । शवागारे शवपेटिका अकस्मात् शवागारस्य भित्त्या विघट्टिता । तदा पेटिकायाः क्षीणकण्ठेन व्याह्रियमाणं किमपि क्रन्दितं श्रुतम् । यदा शववाहकैः पेटिकायाः पिधानमपावृतम् तदा सा स्त्री सजीवा इत्यवगतम् । तस्याः भर्ता विस्मितः किञ्चिद्भीतश्च तामुपचर्य गृहमानाययत् । सा ततः दशवर्षाणि जीवित्वा कालधर्ममगात् । पुनः मृतां तां शवपेटिकायां विनिवेश्य शववाहकाः शवागारमानयन् । तदा मृतायाः पतिः शववाहकानवदत्, “भोः, शवागारस्य अन्तः सावधानं चलत । पेटिका भित्त्या विघट्टेत“ इति ।


०५६ वार्धक्यम्-२

कश्चन वृद्धः कश्चन युवा च विपण्यां परस्परमकस्मात् समघट्टयेताम् । वृद्धः अवदत्, “क्षम्यताम् । भवन्तमहं नादर्शम् । मम पत्नी अस्मिन् जनौघे मम दृष्टिपथात् लुप्ता । तां मृगयामि ।“ इति । युवा प्रत्यवदत्, “ किञ्चित्करमेतत् । अहमपि मम भार्यां मृगयामि। सा चिराय मम दृष्टिपथात् लुप्ता ।“ वृद्धः अवदत्, “किंरूपा सा ? तस्याः मार्गणे अहं तव सहायः भवेयम्” इति । युवा सगर्वं सदुःखं च अवदत्, “सा वरारोहा कुम्भस्तनी पृथुश्रोणी करतलोदरी खलु । भवतः भार्या किंरूपा?” इति । वृद्धः प्रत्यवदत्, “ मम भार्यायाः वार्ता तावदस्तु, भवतः भार्यामेव विचिनवाव” इति ।


०५७ हास्यकृच्छ्रः-४

कश्चित् पुरुषः तमनुसृत्य भषतः शुनकात् भीतः धावति । शुनकस्तु भषन् तमभिधावति ।

अन्य एकः तं पुरुषं वदति, “रे, कुतः भषतः शुनकात् भीतः धावसि? न जानासि किम् यत् भषनशीलः शुनकः न दशति, दशनशीलः शुनकः न भषतीति?” इति ।

पुरुषः प्रत्यवदत् “अहं ध्रुवं जानामि । परं तु अयं शुनकः तमाभाणकं जानाति वा न वा इति संशयग्रस्तः धावामि” इति ।


०५८ दाम्पत्यम्-१८

पृच्छकः कोट्यधीश्वरं पृच्छति, “आर्य, तव कोट्यधीश्वरत्वस्य किम् कारणम्?”

कोट्यधीश्वरः, “ मम धर्मपत्नी एव कारणम्”

पृच्छकः: “ तव धर्मपत्नी वनितामणिः खलु । तव विवाहात् पूर्वं त्वं किमभवः?”

कोट्यधीश्वरः, “अहं दशकोट्यधीश्वरः अभवम्” ।


०५९ शितबुद्धिः-४

क्रैस्तप्रार्थनामन्दिरे रविवासरे प्रार्थनानन्तरं मन्दिरस्य धारणार्थं धनसंग्रहणं कुर्वन्ति । तदा विपर्यस्तशिरस्त्राणमेकं एकस्य हस्तात् अन्यस्य हस्तं प्रतिपादयन्ति । सर्वे यथाशक्ति धनं शिरस्त्राणे निवेशयन्ति ।

एकस्मिन् प्रार्थनामन्दिरे प्रार्थनानन्तरमर्चकः शिरस्त्राणं धनसंग्रहणाय भक्तवृन्दे निहितवान् । त्रयः कृपणाः वयस्याः धनदाने अनिच्छवः एकत्र तत्र आसन् । यदा शिरस्त्राणमपश्यन्, तदा तेष्वेकः मूर्छितवत् सहसा ध्ररायामपतत्, अन्यौ द्वौ पतितं तं वहन्तौ द्रुतं मन्दिरात् बहिः अगच्छताम् ।


०६० दाम्पत्यम्-१९

भार्या: कुतस्त्वं सर्वदा तव हस्तस्यूते मम चित्रं निवेश्य उद्योगालयं गच्छसि?

भर्ता: प्रिये, यदा उद्योगस्थले कृच्छ्राणि सम्भवन्ति तदा त्वदीयचित्रावलोकनेन तानि सुगमानि भासन्ते ।

भार्या: अहो मम अद्भुतशक्तिः ।

भर्ता: (नीचस्वरेण) बाढम्, तव चित्रं पश्यन् चिन्तयामि, “ अस्याः कठिनतरा बाधा कास्ति?” इति ।


०६१ दाम्पत्यम्-२०

परस्थलवासी कश्चन उपाहारालयं गत्वा परिचारिकामाहूय तां वदति, “ भोः,शृणु, मह्यं कवोष्णां काफ़ीं, अर्धपक्वमपूपद्वयं च कृपया आनय” इति ।

परिचारिका मनाक् चकिताऽपि ग्राहकसमीप्सितमाज्ञां मन्यमाना तथैव कवोष्णां काफ़ीमर्धपक्वमपूपद्वयं च आनयति, भोजनफलकस्योपरि निवेशयति च ।

तदा सः ग्राहकः तां वदति, “ बहुनि दिनान्यतीतानि मद्गृहं गत्वा । गृहोत्कण्ठा मां बाधते । अत्र आसने उपविश्य मां यथामति मद्गृहिणीवत् गर्हस्व“ इति ।


०६२ शितबुद्धिः-५

कृपण एकः सततम् अर्जितधने स्तोकं धनं व्यययित्वा, किञ्चिद्धनं भार्यायै प्रदाय शेषं धनं एकस्यां पेटिकायां निक्षिपति स्म । अवसानकाले सन्निहिते भार्यामवदत्, “प्रिये, मम धनप्रियता तव ज्ञाता एव । मयि उपरते मम सधनां धनपेटिकां मया सह निवेश्य भूगतां कुरु ।“ भार्या अवदत्, “प्रिय, निस्संशयं तथैव करोमि, अलं चिन्तया” इति ।

कृपणः असूनत्यजत् । विधेया अपि तु स्वार्थपरा भार्या तस्य धनपेटिकात् धनमादाय बैंके (bank) स्वसंख्याने (account) न्यस्य तद्धनसमानमौल्यं चैकं (cheque) भर्तृनाम्नि विलिख्य तत् धनपेटिकायां न्यक्षिपत् भर्तुः शवेन साकं भूगतमकरोच्च ।


०६३ वार्धक्यम्-४

वृद्धदम्पती अन्यदम्पत्योः गृहे भोजनं स्वीकृतवन्तौ । भोजनानन्तरं पत्नी महानसं गते, पती तु भोजनगृहे एव संलपन्तौ आस्ताम् ।

वृद्धः इतरमवदत्, “ह्यः आवां कांश्चन भोजनशालां गतौ यत्र भोजनं रसवत्तरमासीत् ।“

इतरः अपृच्छत्, “तद्भोजनालयस्य नाम किम्?”

वृद्धः चिरमचिन्तयत्, परंतु तन्नाम स्मृतिपथं नागच्छत् । तदा वृद्धः इतरमपृच्छत्, “भोः, तत्पुष्पस्य नाम किं यत् श्वेतवर्णं मनोहरगन्धि निदाघकाले भूरि प्रभवति च?“

इतरः अपृच्छत्, “मल्लिका इति नाम किम्?” इति ।

वृद्धः प्रत्यवदत्, “आम्, तदेव, उपकृतोऽस्मि” इति ।

वृद्धः तदा महानसदिशि पश्यन् उच्चैरवदत्, “मल्लिके, मल्लिके, तद्भोजनशालायाः नाम किम्, यत्र आवां ह्यः भोजनमकुरुताम्?” इति ।


०६४ उद्योगिनः-१

द्वौ सिह्मौ मृगालये आस्ताम् । एकः मृगालये जातः अपरः वने जातः । एकदा तौ मृगालयात् पलायितौ । मृगालयपालास्तु वनं गतं वन्यसिह्मं कतिपयदिवसेष्वेव पुनरपि निर्बध्य मृगालयमानयन् । मृगालये जातं नागरसिह्मं नगरं गतमन्विष्य त्रिमासादूर्ध्वं मृगालयमानीतवन्तः । द्वौ सिह्मौ परस्परमभाषेताम् ।

वन्यसिह्मः : भोः वयस्य! त्वमेतावत्कालं कुत्र गतः । वने परिभ्रमन्तं मां लीलया न्यगृह्णन् ।

नागरसिह्मः : किं वदामि? अहं नगरे कस्मिंश्चित्सर्वकारकार्यालये दिवसानि लेख्यपत्रवृन्देष्वन्तरितः लीलया अयापयम् ।

वन्यसिह्मः : उदरपोषणं तु कथमभवत्?

नागरसिह्मः : प्रत्यहं कार्यालयोद्योगिनमेकमखादम् । उद्योगिनः सह्स्रशः सन्ति खलु । एकः न्यूनः अभवत् यदि तत्र कोऽपि न जानाति ।

वन्यसिह्मः : कथमिदानीं बद्धः अभूः ?

नागरसिह्मः : मया प्रमादः आचरितः खलु । ह्यः काफ़ीपरिवेष्टारं बालमखादम् । सपद्येव तस्य अनुपस्थितिः सर्वैः लक्षिता । सर्वे तस्य मार्गणे प्रवृत्ताः अभवन् । तदा लेखपत्रवृन्देष्वन्तर्हितं मां दृष्ट्वा भयात् पलायितवन्तः । मृगालयपालाः आगत्य मां पञ्जरे बबन्धुः ।


०६५ दाम्पत्यम्-२१

चिरकालानन्तरं द्वे वृद्धे सख्यौ अमिलताम् । परस्परकुशलानन्तरं एका अन्यामपृच्छत् ।

एका: “कच्चित् कुशली तव भर्ता?”

अन्या: “मम दौर्भाग्यात् सः दैवाधीनः अभवत् ।“

एका: “ सुभृशं खिन्नास्मि । किमभवत् ?”

अन्या:” एकस्मिन् दिवसे तं शाकाय वृन्ताकमानेतुं विपणिं प्रेषितवती । मध्येमार्गं सः हृदयाघातात् मृतः।“

एका: “पश्चात् त्वं किमकरोः ?”

अन्या: “ किं करवाणि? शाकाय गृहस्य शाकवाटिकायामारोपितं कूष्माण्डमेव अपचम् ।“


०६६ हास्यकृच्छ्रः-५

ब्रह्मदत्तः मरणशय्यायां शयानः आसीत् । तस्य आप्तवयस्यः शम्भुः तं द्रष्टुं तत्र आगतः । शम्भुः ब्रह्मदत्तस्य शय्यायाः निकटे स्थित्वा ब्रह्मदत्तमपश्यत् । ब्रह्मदत्तः वक्तुमशक्तः सखेदं शम्भुं हस्तसंज्ञाभिः पत्रं लेखनीं च दातुं प्रार्थयत् । शम्भुः तथैव अकरोत् । यावत् ब्रह्मदत्तः पत्रे किमपि अलिखत् तावदेव सः असूनत्यजत् । खिन्नः शम्भुः तत्समये तत्पत्रपठनं नोचितमिति मत्वा कञ्चुकस्यूते निक्षिप्य गृहं गतः । गृहे पत्रं व्यस्मरत् अतः नापठच्च । अन्येद्युः ब्रह्मदत्तस्मरणसभा आयोजिता यत्र शम्भुः ब्रह्मदत्तस्य विषये किमपि भाषितुं सर्वैः प्रार्थितः । यावत् भाषितुं प्रारब्धवान् तावदेव सः ब्रह्मदत्तलिखितं पत्रं सस्मार यत् दिष्ट्या तस्य कञ्चुकस्यूते एव पिहितमासीत् । सः उच्चैरवदत्, “ अयि भोः, मरणशय्यायां शयानस्य ब्रह्मदत्तस्य अन्तिमसन्देशः अधुनैव मम कञ्चुकस्यूते वर्तते । तं सन्देशं सर्वे शृण्वन्तु ।“ इति । पत्रमपावृत्य प्रथमं तत्र लिखितं स्वगतमपठत्, “रे मूर्ख ! मम श्वासाधारस्य आम्लजनकनालस्योपरि स्थितोऽसि” ।


०६७ वाक्चातुर्यम्-१३

परिव्राजकवेषधरः कश्चन भिक्षार्थं ग्रामे अटति स्म । कोऽपि तस्मै भिक्षां न ददौ । अन्ततः कस्याश्चित् गृहिण्याः गृहस्य पुरतः गत्वा भिक्षां ययाचे । गृहिणीमकथयच्च, “भवति! भिक्षां ददातु । यदि भवती भिक्षां न ददाति तदा यथाहं अन्यस्मिन् ग्रामे समाचरं तथैव अत्रापि समाचरामि ।“ तापसः तपोबलेन मां शपेदिति चिन्तयन्ती गृहिणी भीता तस्मै भिक्षां ददौ । भिक्षां दत्त्वा तं परिव्राजकमपृच्छत्, “ भगवन्! अन्यस्मिन् ग्रामे भवता किमाचरितम्?” । भिक्षाम् कवलयन् परिव्राजकः अवदत्, “अयि भोः! निरशनव्रतं समाचरम्” इति ।


०६८ वाक्चातुर्यम्-१४

क्रैस्तालयपूजकः अम्रियत, स्वर्गद्वारे अन्यैः मृतैः साकं स्वर्गप्रवेशानुमत्यै प्रतीक्षते स्म च। तस्य पुरतः आतपोपनेत्रे वर्णरञ्जितवस्त्रे च धारयमाणः कश्चन आर्यः अपि प्रतीक्षते स्म । स्वर्गद्वारपालकः तमार्यमवदत्, “भोः, कस्त्वम्? कथय । तव स्वर्गप्रवेशयोग्यता अस्ति किमिति परीक्षे “ इति । स आर्यः अवदत्, “ अहं विमानचालकः आसम् । कतिपयवर्षेभ्यः पूर्वम् उद्योगात् निवृत्तः अभवम् “ इति । स्वर्गद्वारपालकः स्मयमानः तमवदत्, “स्वागतं भोः, इमे कौशेयवस्त्रे, इमं सौवर्णदण्डं च गृहाण, स्वर्गे सुखमास्व,“ इति ।

अथ द्वारपालकः क्रैस्तालयपूजकं तथैव अपृच्छत् । क्रैस्तालयपूजकः गम्भीरस्वरेण अवदत्, “भोः, अहं त्रयस्त्रिंशत् वर्षात् लंडन्-नगरे जेम्स्-क्रैस्तालयस्य पूजकः आसम्” इति । द्वारपालकः तमवदत्, “ बाढम्, इमे कार्पासवस्त्रे इमं दारुदण्डं च गृहाण । स्वर्गे सुखमास्व “ इति । ईषत्कुपितः क्रैस्तालयपूजकः द्वारपालकमपृच्छत्, “अहो, कथमित्थम्? अस्मै विमानचालकाय सौवर्णदण्डं कौशेयवस्त्रे च दत्तानि, मह्यं पूजकाय दारुदण्डं कार्पासवस्त्रे च दत्तानि । इदं न्याय्यं किम्?” । स्मयमानः द्वारपालकः अवोचत्, “ यदा त्वया क्रैस्तालये धर्मोपदेशः कृतः तदा सभ्याः सर्वे अस्वपन्, यदा सः विमानमचालयत् तदा विमानयात्रिकाः सर्वे ईश्वरं प्रार्थयन्त । अत एव सः स्वर्गसुखाय योग्यतरः,” इति ।


०६९ शितबुद्धिः-६

कुतूहली बालः मातरमपृच्छत्, “अम्ब, कुतस्तव कतिचनशिरोरुहाः पलिताः?” इति । माता अस्मिन् समये बालाय सद्वर्तनबोधनं कर्तुं शक्यमिति मन्यमाना तमवदत्, “वत्स, तव एकैकं दुर्वर्तनं मम एकैकं शिरोरुहं पलितं करोति” इति । मुग्धः बालः सपदि प्रत्यवदत्, “अम्ब, इदानीमेव जानामि ’मातामह्याः सर्वे शिरोरुहाः कुतः पलिता” इति” इति ।


०७० मौढ्यम्-४

कश्चन पुरुषः आरक्षकमुपेत्य अध्यक्षिपत्, “आर्य, कष्टमापतितम् । मम गृहात् चोराः साक्षात्करम् (T.V.) एकं विहाय सर्वाणि वस्तून्यादाय पलायितवन्तः “ इति ।

आरक्षकः अपृच्छत्, “ आश्चर्यम् खलु ! कुतः साक्षात्करम् आदाय न गताः?” ।

पुरुषः प्रत्यवदत्, “ अहं साक्षात्करे चलचित्रं प्रेक्षमाणः आसम् खलु “ इति ।


०७१ हास्यकृच्छ्रः-६

शर्वर्यां गाढान्धकारे पर्जन्यः तडित्स्तनितसहितधारासम्पातैः वर्षति स्म । ब्रह्मदत्तः एकाकी विजने राजपथे चलति स्म । “किञ्चित् कार्-यानमागच्छेत् यदि चालकं प्रार्थयित्वा कार्-याने गच्छेयम्” इति चिन्तयन् जलसिक्तः तमसि तडित्ज्वलितराजपथे न्यस्तदृष्टिः शनैः प्राचलत् । तदा किमपि यानं शिरोदीपं विना शनैः आगच्छदिव दृष्टम् । कार्-यानस्य द्वारमपावृतमासीत् । झटिति कार्-यानमारुह्य पृष्ठपीठे उपाविशत् । यदा सिक्तोत्तरीयं परित्यज्य सावधानं परितः तमस्येव दृष्टिमचालयत् तदा तस्मै अवगतमभवत् यत् चार्-चालकस्थानम् रिक्तमासीत्, कार्-याने अन्यः कोऽपि नासीत्, परन्तु कार्-यानं चलन्नेव आसीत् । दिग्भ्रान्तः भयभीतश्च अभवत् । पर्जन्ये निरन्तरं वर्षति सति सः कुत्र वा गच्छेत् । पीठे एव नमितसंकुचिताङ्गः ईश्वरं प्रार्थयन् तस्थौ । सपदि कार्-यानस्य वेगः वर्धन्निव अभात् । राजपथे दृष्टिं न्यदधात् । कस्यापि हस्तः यानस्य मार्गनियन्त्रणचक्रं भ्रामयन्निव बभौ । पूर्वमेव भीतस्य ब्रह्मदत्तस्य भयं सीमातीतमभवत् । दैववशात् राजपथपार्श्वे ज्वलन् दीपः दृष्टः । झटिति कार्-यानादवातरत् । दीपः अनतिदूरे स्थितस्य कस्यचन उपाहारगृहस्य आसीत् । तं गृहं प्रति द्रुतं प्राचलत् । अचिरेणैव उपाहारगृहमवाप च ।

उपाहारगृहे परिधानशोषणं कृत्वा उपाहारं भक्षयितुं प्रारभत । तदा द्वौ बृहत्कायौ सिक्तवस्त्रौ पुरुषौ तत्र आगतौ । तयोः एकः ब्रह्मदत्तं क्रूरदृष्ट्या पश्यन् अन्यमवदत्, “रे, अयमेव धूर्तः यः यदा आवां अस्मत्-कार्-यानस्य पृष्ठे यानं हस्ताभ्यां बलात् प्रणुदन्तौ आस्व तदा झटिति कार्-याने समुपाविशत्” इति ।


०७२ बालचेष्टा-४

“कुतः रोदसि, वत्स?” माता अपृच्छत् । बालकः प्रत्यवदत्, “अम्ब! पिता भित्तौ चित्रम् आलम्बयितुम् मुद्गरेण कीलकं प्रहरति स्म । तदा तस्य अङ्गुली व्रणिता । अत एव," इति रोदननिरुद्धकण्ठः सगद्गदमवदत् । माता बालकमाश्वासयन्ती प्रत्यवदत्,“ किञ्चित्करं खलु तत् । मा रुदः । त्वया हसितव्यम् आसीत् ,“ इति । बालकः उच्चैः रुदन् अवदत्, “अम्ब! मया हसितमेव,” इति ।


०७३ वाक्चातुर्यम्-१५

कश्चन पूजकः राजपथे चरन् अन्योन्यं वाग्युद्धं कुर्वतः कांश्चन बालकानपश्यत् । बालकान् वाग्युद्धात् वारयितुम् तानभिससार पप्रच्छ च, “बालकाः, यूयं कुतः इत्थं कलहं कुर्वन्तः स्थ ? किं कारणम्?” इति । तेषु एकः प्रत्यवदत्, “ अयं सुन्दरः ग्रामशुनकः सर्वत्र अटति । वयं सर्वे तम् आबद्ध्य गृहं नेतुं वाञ्छामः । अस्मासु एकेन एव तं नेतुं शक्यं खलु । अतः यः मृषावादे अन्यान् जयति स एव शुनकं गृहं नयेत् इति अस्माभिः निर्णीतम् । इदानीमस्मासु एकैकः अन्यान् मृषावादे जेतुं यतते” इति । पूजकः गंभीरध्वनिना अवदत्, “बालकाः! मा एवम् । अनृतं कदापि न ब्रूयात् । यदा अहं बालः आसं तदा कदापि मया अनृतं नोक्तम्” इति । गतेषु केषुचित् क्षणेषु, बालकेषु यविष्ठः कश्चन तदा अवदत्, “ एष पूजक एव शुनकं नेतुं योग्यः इति भाति । स एव शुनकं नयतु” इति ।


०७४ वाक्चातुर्यम्-१६

कदाचन काचित् स्त्री नद्याः तटे भर्तुः जीर्णकञ्चुकस्य नवीकरणे निरता आसीत् । तदा अकस्मात् तस्याः हस्तात् सूची नद्याः जले न्यपतत् । तदा सा उच्चैः रोदितुमारब्धा, “मम भर्ता मां ताडयति यद्यहं तस्य कञ्चुकं न नवीकृत्य गृहं गच्छामि चेत्” इति । ईश्वरः तस्याः रोदनं शृण्वन् तत्र आगत्य तस्यै जलात् एकां सुवर्णसूचीं उद्धृत्य ददौ । सा रुदन्ती एव अवदत्, “ सा सूची मम न भवति” इति ।तदा ईश्वरः तस्यै जलात् एकां रजतसूचीं उद्धृत्य ददौ । तदापि सा अवदत्, “सा सूची मम न भवति” इति । तदा ईश्वरः जलात् आयससूचीम् उद्धृत्य तस्यै ददौ । सा हृष्टा अवदत्, “ सा सूची एव मम” इति । तदा तुष्टः ईश्वरः तिस्रः अपि सूचीः तस्यै सत्यवचनायै ददौ । तदा संतुष्टा सा ईश्वरं संस्तुत्य गृहं गता ।

अन्येद्युः सा भर्त्रा साकं नदीतटे गच्छति स्म । तस्याः भर्ता पदस्खलनात् नद्याः जले न्यपतत् । सा ईश्वरं प्रार्थयामास, “परमेश्वर, मम पतिं देहि” इति । ईश्वरः तत्र आगत्य तस्यै विक्रमादित्यं जलादुधृत्य “किमयं तव भर्ता” इत्यपृच्छत् । सा अवदत्, “बाढं स एव मम भर्ता” इति। तदा कुपितः ईश्वरः तामपृच्छत्, “कथमिदानीम् असत्यं वदसि?” इति । “प्रभो! श्रुणुश्व, यद्यहं, “अयं मम पतिर्नभवति” इत्यवदिष्यं तदा त्वं भोजराजं मम भर्तारं च मह्यम् अदास्यः । इदानीं मम स्वास्थ्यं समुचितं न भवति । पतित्रयप्रीणने अशक्ता खलु । मां क्षमस्व “ इति । कृपालुः ईश्वरः तस्याः अङ्के विक्रमादित्यमेव न्यवेशयत् ।


०७५ वाक्चातुर्यम्-१७

कश्चन युवा कार्यालये विवर्णवदनः चिन्तामग्नः आसीत् । तस्य मित्रं तमपृच्छत्, “भोः, चिन्ताक्रान्तः असि इति मे भाति। किमापन्नम्?” इति ।

” किं वदानि ? श्वः मम श्वश्रुवः जन्मदिनम् । तदवसरे मया तस्यै किञ्चिदुपायनम् देयम् । उचितमुपायनं किमिति चिन्तयामि “ ।

मित्रं प्रत्यवदत्, “ भण, परुत् त्वया किं दत्तम्?”

“ मया तस्यै बहुमूल्यं श्मशानस्थलं क्रीतम् “

मित्रम् उच्चैः हसति वदति च ,“त्वया महार्घम् उपायनमेव दत्तम् । ऐषमः त्वया तस्यै किमपि न देयं खलु।”

” कथमित्थं वदसि?”

“श्रुणु, श्वः यदा त्वं तया सह मिलसि, सा त्वां पृच्छेत् , “जामातः, ऐषमः मह्यं किमुपायनं प्रयच्छसि ” इति । तदा त्वं स्मितवदनः इत्थं वदेः, “ मातः, मया परुत् दत्त्तमुपायनं त्वया

अद्यापि न उपयुक्तं खलु । अतः ऐषमः किञ्चिदपि न ददामि” इति”।


०७६ बालचेष्टा-५

पिता पुत्रं बालं स्वापयितुं यतमानः अस्ति । बालं स्वकोष्ठे तल्पे शाययित्वा द्वारं पिधाय बहिरागच्छति । कतिपय क्षणादनन्तरमेव बालः उच्चैः क्रोशति, “तात, अहं जलं पिपासामि । मह्यं जलपूर्णं चषकमानय “ इति । पिता उच्चैः प्रतिवदति, “वत्स, इदानीं त्वया जलं न पेयम् । तूष्णीं स्वपिहि” इति । कतिपयक्षणादनन्तरं पुनः बालः उच्चैः वदति, “तात, मह्यं पिपासा बाधते । द्रुतं जलमानय “ इति । क्रुद्धः पिता उच्चैः प्रतिवदति, “ पश्य, अहं जलं न आनयामि, यदि पुनः जलार्थं क्रोशसि, तदा त्वां दण्डयामि “ इति । पुनः कतिपयनिमेषादनन्तरं बालः उच्चैः वदति, “तात, यदा त्वं मां दण्डयितुं ममकोष्टम् आगमिष्यसि तदा मह्यं जलमानयेः” इति ।


०७७ हास्यकृच्छ्रः-७

कश्चन पण्डितः वाग्मी कदाचित् ग्राममेकमगच्छत् । यदा ग्रामवासिनः तस्य पाण्डित्यं वाग्मितां च अवगच्छन्, ते तमवदन्, “ पण्डितवर्य! अस्मानुद्दिश्य प्रवचनं भवान् करोतु” इति । पण्डितः अनुमेने निर्दिष्ट दिवसे विर्दिष्टवेलायां प्रवचनमारभत च। प्रवचन विषयः, “भारवेः अर्थगौरवम्” इत्यासीत् । पण्डितस्य निरर्गलवाग्धाराभिः ग्रामीणाः सुसिक्ताः अभवन् । परं तु प्रवचने ते किमपि नावगच्छन् । गतेषु कतिचननिमिषेषु कश्चन सभ्यः निश्शब्दं सभाभवनात् बहिरगच्छत् । तं निर्गच्छन्तं दृष्ट्वा कतिचन अन्येऽपि सभामत्यजन् । इत्थं अर्धमुहूर्ते गते, पण्डितं विहाय सभायामेक एव ग्रामीणः आसीनः आसीत् । परिभूतः पण्डितः तमवदत्, “प्रिय, त्वम् एक एव प्रवचने आसक्तः इति भाति” इति । सः ग्रामीणः अवदत्, “आर्य, यस्यां कुथायां भवान् आसीनः सा मम भवति । प्रवचनान्ते सा मया गृहं नीयते । प्रवचनान्तं प्रतीक्षमाणः स्थितोऽस्मि” इति ।


०७८ वाक्चातुर्यम्-१८

मृगराजस्य विवाहे मूषिक आगत्याभ्यनन्दतित्थम् ।

“केसरि! तव विवाहेन तुष्येऽहं सुदिवसः प्राप्तः” ॥

आखोर्धार्ष्ट्यं दृष्ट्वा मृगराजानुजोऽभर्त्सयत कुपितः ।

“रे रे मूषिक! कथय क्व त्वं क्व मृगराजो भ्राता ॥“

मूषिक अवदत् सभयं , “क्षमस्व बन्धो मम धार्ष्ट्यं कृपया ।

अहमप्यभवं सिंहः त्वदग्रजवदुपयमात् पूर्वम् “॥


०७९ उद्योगिनः-१

त्रयः बालकाः परस्परं आत्मनः पितॄणां धावनरयविषये सगर्वं कत्थन्ते स्म ।

प्रथमः : अये, शृणुतं, मम पिता धनुर्धारी । तेन क्षिप्तः शरः यावत् लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।

द्वितीयः : तद्यत्किञ्चित् खलु । शृणुतं, मम पिता गुलिकास्त्रधारी । यावत् तेन क्षिप्ता गुलिका लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।

तृतीयः : युवां कुतः कत्थेथे? शृणुतम् । मम पिता सर्वकाराधिकारी खलु । तस्य रयः अमेयः। तस्य उद्योगालयस्य पिधानवेला सायं पञ्चवादनसमयः । तथापि उद्योगालयं रयात् निष्क्रामन् अस्मद्गृहं सार्धचतुर्वादनसमय एव उपैति।


०८० शितबुद्धिः-७

मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम् । पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेटभिधानि मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते न्यवेशयत् । विपणी तच्चौर्यं नापश्यत् । ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्, “पश्य, मम साहसम् । विपणिना अदृष्ट एव सुकरमहमचूचुरम्” इति । देवदत्तः तं “ तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम्? । आगच्छ, विपणिं पुनः प्रविशाव” इत्यब्रवीत् । तौ विपणिं प्रविष्टौ । देवदत्तः विपणिनमवदत्, “आर्य, अनुमन्यसे चेत् तुभ्यं मायामेकां दर्शयितुमिच्छामि” इति । विपणी अनुमेने । देवदत्तः विपणिनमवदत्, “मह्यं त्रीणि चाकोलेट्-मिष्टानि देहि” इति । विपणी तथैव अकरोत् । देवदत्तः तानि प्रसभमखादत् । क्रुद्धः विपणी देवदत्तमपृच्छत्, “तत्र का माया?” । देवदत्तः अवदत्, “इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि भवन्ति” इति ।


०८१ मौढ्यम्-५

कश्चन युवा भारतीयप्रशासनिकसेवापरीक्षायाः वाचिकपक्षे भागं वहति स्म ।सः कदा भारतं स्वातन्त्र्यमलभत इति पृष्टः उत्तरमदात्, “कतिपयवर्षेभ्यः प्राक् प्रारब्धःसततः प्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । अस्मद्स्वतन्त्रतायाः कारणभूतः कः इति पृष्टः सः प्रत्यवदत्, “ बहवः कारणभूताः । यद्यहं तेष्वेकतमं आख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । तदा कच्चिदुत्कोचग्रहणं देशे उल्बणतमं सङ्कटमिति पृष्टः सः प्रत्युवाच, “ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति । तुष्टाः प्राश्निकाः तमवदन्, “भोः, अस्मद्प्रश्नाः गोप्याः । अन्येभ्यः न वक्तव्याः । गम्यताम्” इति ।

कोष्ठात्बहिः यदा स युवा आगतः तदा अन्ये अर्थिनः तमपृच्छन्, “भोः, ब्रूहि, किं पृष्टम्?” । सः अवदत्, “प्रश्नाः गोप्याः । वक्तुं न शक्नोमि” इति । तेषुकश्चन धर्मसिंहनामा तमवदत्, “प्रश्नाः गोप्याः भवेयुः । उत्तराणि गोप्यानि न भवन्ति । तानि मे निभृतं ब्रूहि” इति । तदा स युवा आत्मना दत्तानि उत्तराणि तस्मै समार्पयत्। प्रगल्भः धर्मसिंहः तान्युत्तराणि कंठगतान्यकरोत् ।

यदा धर्मसिंहः वाचिकपरीक्षार्थम् आहूतः तदा आदौ प्राश्निकेन सः पृष्टः, “ तव जन्म कदा अभवत्?” इति । सः प्रत्यवदत्, “कतिपयवर्षेभ्यः प्राक् प्रारब्धः सततःप्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । उत्तरेण विस्मितः तमपृच्छत्, “ तव पितुर्नाम किम्?” इति । सः प्रत्यवदत्, ““ बहवः कारणभूताः । यद्यहं तेष्वेकतममाख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । रुष्टः प्राश्निकः अपृच्छत्, “ भ्रान्तः असि किम्?” इति । सः विनीतः प्रत्युवाच

“ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति ।


०८२ शितबुद्धिः-८

कदाचित् न्यायवादी वृद्धश्च विमानयाने परस्परपार्श्वपीठयोः उपविष्टौ आस्ताम् । अध्वा दीर्घ आसीत् । कालयापनाय परस्परं समभाषेताम् ।सर्वज्ञंमन्यः न्यायवादी वृद्धं जडमतिममनुत तमवदच्च, “भोः, कच्चित् कालयापनाय क्रीडितुमिच्छसि ?” इति । वृद्धः अवदत्, “का क्रीडा?”

न्यायवादी : प्रश्नमेकं प्रक्ष्यामि । यदि सदुत्तरं न दास्यसि तदा मह्यं पञ्चाशत्‍रूप्यकाणि दास्यसि । ततः त्वं मां प्रश्नमेकं प्रक्ष्यसि । यद्यहम् सदुत्तरं न दास्यामि तदा अहं तुभ्यं पञ्चशतं रूप्यकाणि दास्यामि । अवगच्छसि किम्? क्रीडितुम् अनुमनुषे किम्?”

वृद्धः सुषुप्सुरासीत् तथापि क्रीडितुमनुमेने । न्यायवादी वृद्धमपृच्छत्, “ चन्द्रः भूम्याः कियद्दूरे अस्ति?”। वृद्धः ,”न जाने” इति वदन् तस्मै पञ्चाशत्‍रूप्यकाणि ददौ । वृद्धः न्यायवादिनमपृच्छत्, “ आरोहणे द्विपाद् अवरोहणे तु त्रिपाद् कोऽयम्?” । न्यायवादी बहुकालमचिन्तयत् तथापि तस्मै उत्तरं नाभात् तदा पराजितः वृद्धाय पंचशतं रूप्यकाणि ददौ । वृद्धः धनं स्वीकृत्य स्वप्तुमारभत । न्यायवादी पराभूतः तं वृद्धं पुनः अपृच्छत्, “तव प्रश्नस्य उत्तरं किम्?” । वृद्धः, “न जाने” इति वदन् न्यायवादिने पञ्चाशत्‍रूप्यकाणि दत्त्वा सुखं सुष्वाप ।


०८३ हास्यकृच्छ्रः-८

त्रयः पुरुषाः कस्मिंश्चित् निर्जने द्वीपे नौकाघातात् क्षिप्ता अभवन् । किंकर्तव्यतामूढाः ते ईश्वरं प्रार्थयामासुः । काले गते कश्चन दिव्यरूपधारी पुरुषः प्रत्यक्षः अभूत् । सः तानवदत्,” भोः, ईश्वरेण प्रेषितोऽहम् । प्रीतोऽस्मि, एकैकः एकं वरं वृणीताम् “इति । प्रथमः अवदत्, “देव, मां मद्गृहं प्रहिणोतु” इति । तथैव अभवत् । द्वितीयोऽपि तथैव स्वगृहमगच्छत् । देवेन पृष्टः तृतीयः स्मितवदनः अवदत्, “देव, अहमेकाकी अस्मि । अत्र मम मित्रयोः पुनरागमनं वाञ्छामि” इति । हन्त! ते मित्रे पुनरागते ।


०८४ दाम्पत्यम्-२२

स्त्री पत्या सह कलहमकरोत् । तदनु स्वमातरं दूरवाण्या अवदत्, “अम्ब, पुनः मम भर्ता मया सह कलहमकरोत् । तेन सह जीवनं दुष्करम् । तव गृहमागमिष्यामि” इति । माता अवदत्,”वत्से, त्वमत्र आगमिष्यसि चेत् सः सुखी एव भविष्यति । तस्य अपराध: दण्डनीयः । अहमेव तत्र आगमिष्यामि । मम उपस्थित्या एव तं दण्डयिष्यसि”

इति ।


०८५ वाक्चातुर्यम्-१९

क्रिस्तदेवालयस्य अर्चकः साप्ताहिकप्रवचनाय देवालये जनान् समीक्षते स्म । चिराय एक एव कर्षकः आगतः। अर्चकः तमपृच्छत्, “भोः अद्य मम प्रवचनाय एक एव आगतोऽसि । किमहं प्रभाषै उत न?” इति । कर्षकः सप्रश्रयं प्रत्यवदत्, “ भगवन्, भवान् किमित्थं पृच्छति ? कुक्कुटपरिवेषणसमये यदि एक एव कुक्कुटः आगच्छति तदा तस्मै खाद्यं न देयं किम्?” इति । कर्षकप्रत्युत्तरेण विस्मितः अर्चकः तमवदत्, “भोः, तव विवक्षितमवगतम् । अवहितः शृणु” इत्युक्त्वा निरर्गलं सार्धघटिकापर्यन्तं बभाषे । अन्ते अर्चकः कर्षकमपृच्छत्, “भोः, कच्चिन्मम प्रवचनं समीचीनम्?” इति । तदा कर्षकः प्रत्यवदत्, “भगवन्, खादनसमये यदि एक एव कुक्कुटः समागतः तदा सर्वं द्रोणप्रमाणं खाद्यं तस्मै न समर्पयामि खलु “इति ।


०८६ हास्यकृच्छ्रः-९

भार्या: “प्रिय! मम कार्-यानस्य वाय्विन्धनमिश्रके (carburetor) जलं प्रविष्टम् इति भाति”।

भर्ता: प्रिये! कथमिदं स्यात्? तव कार्-यानम् इदानीं कुत्रास्ति?

भार्या: (सगद्गदम्) अस्मत्-प्लवन-कासारे (swimming pool)


०८७ हास्यकृच्छ्रः-१०

एकदा सुहृदौ अमरसिंहधर्मसिंहौ मृगयार्थं गुलिकास्त्रधारिणौ वनमगच्छताम् । मृगयाप्रसङ्गे धर्मसिंहः भल्लूकेन भृशं व्रणितः विगतासुरिव ज्ञानशून्यः अभवत् । अमरसिंहः ससाध्वसं चलदूरभाषकेन नगरस्थितनगरभटालयस्य सम्पर्कमकरोत् अवदच्च, “भोः! मयि मम सुहृदि च मृगयार्थं वने विचरतोः मम सुहृद् भल्लूकेन व्रणितः शेते । सः न प्रतिभाषते, न जाने यदि मृतः भवेत् । भवान् कृपया निर्दिशतु मया किं करणीयमिति “। नगरभटः प्रत्युवाच, “भोः! प्रथमं तावत् त्वया दृढं ज्ञातव्यम् यदि तव सुहृत् सजीवः मृतो वा इति” । अमरसिंहः प्रत्यवदत्, “ भोः! कतिपय क्षणान् तावत् निरीक्षताम् । वदामि” इति । कतिपयक्षणानन्तरं नगरभटः दूरवाण्यां गुलिकास्त्रप्रयोगजनितशब्दमशृणोत् । सपदि एव अमरसिंहः दूरवाण्यामवदत्, “भोः! इदानीं मम सुहृत् निस्संशयं मृतः” इति ।


०८८ मद्यपानम्-३

धर्मसिंहः कोल्कतानगरे कस्मिन्श्चित्शुण्डापाने मदिरां पातुं प्रतिसायमागच्छति । मदिरायाः काचकूपी(bottle)त्रयं क्रीणाति एकैकं पिबति च । एकदा कुतूहलात् शौण्डिकः तमपृच्छत्, “आर्य! कुतः एककाले एव काचकूपीत्रयं क्रीणासि? इतरे तु एकां काचकूपीं पीत्वा एव अन्यां क्रीणन्ति” इति । धर्मसिंहः स्मितवदनः व्यवृणोत्, “भोः! मम भ्रातरौ स्तः । एकः दिल्लीनगरे वसति, अन्यः मुम्बयी नगरे। अस्मिन्नेव काले सायं द्वावपि तन्नगरस्थशुण्डापाने काचकूपीत्रयमितां मदिरां क्रीणीतः । प्रथमा काचकूपी आत्मनः पानार्थम् । द्वितीया तृतीया तु भ्रात्रोः पानार्थम् । एकदेशे मिलितुमशक्ताः एवं संज्ञामकरवाम । यदा मदिरां पिबामः एकस्थले एव मदिरां पिबन्तः इव भावं विन्दामः “ इति । धर्मसिंहस्य उत्तरात् तृप्तः शौण्डिकः स्वस्थानं प्रति न्यवर्तत । एवमेव प्रत्यहं धर्मसिंहः सायमागच्छति काचकूपीत्रयं क्रीणाति, पिबति च । एकस्मिन् दिवसे धर्मसिंहः काचकूपीद्वयमेव अक्रीणात् । शौण्डिकः मनसि अशङ्कत, “ अस्य भ्रात्रोः अन्यतरस्य दुरवस्था आपतिता भवेत्” इति । अपरेद्युः यदा धर्मसिंहः आगत्य काचकूपीद्वयमक्रीणात्, तदा शौण्डिकः सविनयं तमपृच्छत्, “ अपि तव भ्रातरौ कुशलौ?” इति । धर्मसिंहः स्मयमानः अवदत्, “निस्संशयं, सखे!” इति । “ कथं काचकूपीद्वयमेव क्रीणासि?” इति । धर्मसिंहः गम्भीरस्वरेण अवदत्, “सखे! इदानीमहं मद्यपानात् विरतः । काचकूपीद्वयं तु मम भ्रात्रोः एव” इति ।


०८९ वाक्चातुर्यम्-२०

काचन मान्या स्त्री औषधापणिं गता । सा आपणिकमपृच्छत्, “भोः! मया सियनैड् विषः क्रयणीयः । अत्र लभ्यते किम्?” इति । चकितः आपणिकः तामपृच्छत्, “आर्ये, किमर्थं विषं क्रीणासि?” इति । सा गम्भीरस्वरेण तं प्रत्यवदत्, “ अहं मम भर्त्रे विषं दातुमिच्छामि” इति । दिग्भ्रान्तः आपणिकः अवदत्, “आर्ये! किं वदसि? यदि तदर्थं तुभ्यं विषं विक्रीणै मां त्वां च आरक्षकाः कारागारं नयेयुः । इतः कृपया अपसर “ इति । तदा सा आत्मनः वित्तस्यूतात् छायाचित्रमेकमुद्धृत्य तस्मै अदर्शयत् यस्मिन् छायाचित्रे आपणिकस्य पत्न्या सह तस्याः पतिः रतिक्रीडायां निरतः आसीत् । निर्वर्णः उद्विग्नश्च आपणिकः अवदत्, “असंशयं तुभ्यं सियनैड् विक्रीणे । त्वया प्रथममेव वक्तव्यमासीत् यत् वैद्यनिर्देशात् विषं क्रीणामि” इति ।


०९० न्यायवादी-२

न्यायालये न्यायवादी साक्षिस्थानस्थितं वैद्यं परीक्षते ।

न्यायवादी: वैद्यवर्य! यदा त्वया कुणपपरीक्षणार्थं कर्तनं कृतं तदा कर्तनात् प्राक् त्वया नाडीपरीक्षणं कृतं किम्?

साक्षी: न कृतम् ।

न्यायवादी: कच्चित् त्वया तस्य रक्तसंमर्दः परीक्षितः?

साक्षी: न परीक्षितः ।

न्यायवादी: तस्य श्वसनं परीक्षितं किम्?

साक्षी: सर्वथा न ।

न्यायवादी: अतः, कच्चित् मन्यसे भाव्यं यत् सः तव परीक्षणात् पूर्वं जीवितः आसीत्?

साक्षी: न हि ।

न्यायवादी: कथं त्वं निस्संशयं मन्यसे?

साक्षी: यतः परीक्षणात् पूर्वमेव तस्य मस्तिष्कं मम लेखनतले (table) स्थापितमासीत् ।

न्यायवादी: तथापि भाव्यं खलु सः जीवित एव आसीत्?

साक्षी: (विमृश्य) यदि तत् भाव्यं सः कुत्रापि न्यायवादी एव भवति ।


०९१ हास्यकृच्छ्रः-११

पत्रदूतः (postman) कस्यचित् जनस्य गृहं प्रति पत्रवितरणाय गच्छति यदा सः बृहत्सारमेयेन सह स्थितं कञ्चन बालकं पश्यति । सः सारमेयात् भीतः तं बालकं पृच्छति, “बाल! कच्चित् तव सारमेयः दशति?” इति । बालकः प्रतिवदति, “मम सारमेयः कदापि कमपि न दशति” इति । यावत् भयमुक्तः पत्रदूतः पुरतः गच्छति तावदेव स सारमेयः तं दशति । दंशबाधितः पत्रदूतः रुष्टः बालं पृच्छति, “रे! कुतः अनृतं वदसि । त्वां ताडयामि” इति । बालकः प्रतिवदति, “अहमनृतं न वदामि । अयं सारमेयः मम न भवति खलु,“ इति ।


०९२ हास्यकृच्छ्रः-१२

हरिदत्तः धर्मदत्तः सन्जयदत्तश्च वयस्याः आसन् । त्रयोऽपि एककाले एव स्वर्गमगच्छन् । तत्र चित्रगुप्तः तानवदत्, “भोः! शृणुत, पृष्टप्रश्नस्य सत्यमेव उत्तरं प्रदेयम् । यदि कोऽपि असत्यं वदेत् तर्हि सः स्वर्गात् बहिष्क्रियते “ इति । अथ सः हरिदत्तमपृच्छत्, “कच्चित् भूलोके परदाररतः अभवः?” “कदापि न प्रभो” इत्यवदत् हरिदत्तः । “बाढम्, इमानि कौशेयवस्त्राणि परिधाय स्वर्गसुखमनुभव” इति । हरिदत्तः तुष्टः कौशेयवस्त्राणि परिजग्राह । चित्रगुप्तः धर्मदत्तमपि तथैव अपृच्छत् । “ कदा कदा परदाररक्तः अभवम् ।परंतु पश्चात् तप्तः स्वदारास्वेव रतः अभवम्”इति । चित्रदत्तः तस्मै कार्पासवस्त्राणि ददौ । चित्रगुप्तेन तथैव पृष्टः सन्जयदत्तः उत्तरमदात्, “क्षमस्व माम् । अहं सदा परदारास्वेव रतः अभवम्” इति । तस्मै चित्रगुप्तः वल्कलानि ददौ । काले गते एकदा सन्जयदत्तः हरिदत्तेन सह सममिलत् । तदा दुःखसागरे निमग्नं हरिदत्तं सन्जयदत्तः अपृच्छत्, “मित्र! किमिदम्? कुतः दुःखमग्नः असि?” इति । “ह्यः वल्कलवस्त्रधारिणीं मम भार्यामत्र अपश्यम् ” इति निर्विण्णः हरिदत्तः अवदत्।

०९३ दाम्पत्यम्-२२

पतिः पत्नीं वदति, “प्रिये! अहं मममित्रमेकम् अद्यरात्रौ भोजनाय आह्वयम्” इति ।

पत्नी वदति, “अरे, किमिदम्? मत्तोऽसि किम्? गृहमव्यवस्थितं वर्तते । वस्त्राणि क्रेतुमापणं जिगमिषामि । अद्य भक्ष्यभोज्ययुतभोजनपाके मम आस्था नास्ति ।“

पतिः, “अहं सर्वं जानामि” ।

पत्नी , “अथ कुतः मित्रम् आह्वयः?”

पतिः, “ मुग्धः सः परिणेतुं वाञ्छति” ।


०९४ वाक्चातुर्यम्-२१

भर्ता: प्रिये, यदि मह्यं प्रभूतं स्वं मम पिता न अदास्यत् त्वं मां अवरिष्यः किम्?

भार्या: प्रिय, यदि न केवलं तव पिता अन्यः कोऽपि तुभ्यं प्रभूतं स्वम् अदास्यत्, तदापि अहं त्वाम् अवरिष्यम्।


०९५ न्यायवादी-२

न्यायवादी: इदानीं वयमभियोगे जितवन्तः खलु । कच्चिद्वदसि यदि त्वया चौर्यं कृतम्?

अभियुक्तः: ह्यः न्यायालये भवतः वादसरणीं श्रुत्वा शङ्कितोऽहं यदि मया चौर्यं कृतं वा न वा ।


०९६ शितबुद्धिः-९

काचन कार्-यानचालिका राजपथे आरक्षकेण अवरुद्धा । अवरोधकारणं पृष्टः आरक्षकः प्रत्यवदत्, “आर्ये! अनुज्ञातवेगमतिक्रम्य वाहनं त्वया चालितम् । कृपया दर्शय तव चालनानुज्ञापत्रम् । स्त्री प्रत्यवदत्, “आर्य! मम अनुज्ञापत्रं नास्ति । त्रिवारं मदिरापानमत्ता कार्-यानचालनमकरवमिति कारणात् आरक्षकैः तत् स्वायत्तीकृतम्”। चकितः आरक्षकः अपृच्छत्,”आर्ये! कृपया वाहनस्य पञ्जीसंख्यापत्रं दर्शय” इति । स्त्री प्रत्यवदत्, “तन्नास्ति, अहं इमं कारयानमपाहरम् “।

आरक्षकः,”अपाहरः?”

स्त्री, “बाढम्, न केवलं कार्-यानमपाहरं, तस्य स्वामिनं हत्वा तस्य कायं खण्डशः निकर्त्य कार्-यानस्य सामग्रीकोष्ठे न्यवेशयम्”

आरक्षकः नितरां भ्रान्तः स्वनियामकेन सह दूरवाण्या समलपत् साहाय्यं प्रार्थयच्च । क्षणात् नियामकः कतिचन आरक्षकैः सह तत्र वाहने आगच्छत् । तां स्त्रियं स्वगुलिकास्त्रस्य लक्ष्यं कृत्वा अवदत्,”कृपया यानादवातर”।स्त्री अवातरत् अपृच्छच्च,”आर्य, किमापतितम्?” नियामकः,” आर्ये! मम आरक्षकः वदति,”त्वं, कार्-यानमपहृत्य तस्य स्वामिनमहन्” इति । दिग्भ्रान्ता इव स्त्री अवदत्, “किं?किं? अहमहनम्? “ इति। नियामकः अवदत्, “कार्-यानस्य सामग्रीकोष्ठम् अपावृणु” इति । स्त्री सामग्री-कोष्ठम् अपावृणोत् । सामग्री कोष्ठे न किञ्चिदपि वस्तु अवर्तत ।

नियामकः, “कच्चिदिदं तव यानम्?”

स्त्री, “आर्य! निःसंशयम्” ।

“तर्हि तव यानस्य पञ्जीसंख्यापत्रं दर्शय” ।

“पश्य, इदं पत्रम्” इति वदन्ती पञ्जीसंख्यापत्रमदर्शयत्।

“तव चालनानुज्ञापत्रं दर्शय।“

हस्तस्यूतात् अनुज्ञापत्रमुद्धृत्य स्त्री अदर्शयत् ।

नियामकः उद्भ्रान्तः तामवदत्, “आर्ये! क्षमस्व माम् । आरक्षकः मामवादीत् त्वं कारयानमपहृत्य, कार्-यानस्वामिनं हत्वा, तस्य कलेवरं निकर्त्य यानस्य सामग्री-कोष्ठे न्यवेशयः । त्वया साकं न कार्-यानपञ्जीसंख्यापत्रं न च तव चालनानुज्ञापत्रं वर्तेते इति ।“

स्त्री, “अहो! अनृतस्य पराकाष्ठा खलु । स च प्रायेण अवादीत् यदहं अनुज्ञातवेगमतिक्रम्य कार्-यानचालनमकार्षं च?”


०९७ वाक्चातुर्यम्-२२

वैद्यः चिकित्सां लब्धवता केनचन सह दूरवाण्यां समलपत्, “भोः, त्वया दत्तं वित्तकोषपत्रं(cheque) पुनरागतम् खलु” इति ।

चिकित्सितः प्रत्यवदत्,”क्षम्यतां, मम जानुवेदना च पुनरायाता” इति ।


०९८ वाक्चातुर्यम्-२३

कार्-याने उद्योगालयं गच्छन् नर एकः स्वोद्योगालयस्य निकटे कार्-यानसंस्थापनाय स्थलम् मार्गयति स्म । कुत्रापि अवकाशः न दृष्टः । स्वकार्याय त्वरितं गन्तुकामः ईश्वरं यावत् प्रार्थयत्, “प्रभो! त्वत्कृपया यदि कार्-संस्थापनाय अवकाशः लभ्यते चेत् अद्य प्रभृति धूमपानं न करिष्यामि” इति तावदेव अवकाशः दृष्टः । झटिति ईश्वरमवदत्, “विस्मर यदुक्तम् प्रभो । इदानीमेव अवकाशः लब्धः” इति ।


०९९ दाम्पत्यम्-२३

परिचारिका वेतनवृद्धिम् अवाञ्छत् । सा तस्याः स्वामिनीं प्रार्थयत,“भवति, अहं मम मासिकवेतने वृद्धिं काङ्क्षामि” ।

स्वामिनी सगर्वमपृच्छत्, “वृद्धिः कुतः?” ।

परिचारिका प्रत्यवदत्, “भवति, त्रीणि कारणानि भवन्ति । अहं वस्त्रधावने भवत्याः चतुरतरा” ।

स्वामिनी रुष्टा अपृच्छत्, “को वदति त्वं चतुरतरा इति?” ।

परिचारिका: “भवत्याः भर्ता । किञ्च अहं पाककलायामपि भवत्याः चतुरतरा”।

स्वामिनी: “मृषा खलु। को वदति इत्थम्?”

परिचारिका: “भवति! भवत्याः भर्ता एव । अपि च अहं भवत्याः कामकलायामपि चतुरतरा ।“

स्वामिनी (सरोषम्) “ हञ्जे! पुनः मम भर्ता अवदत् किम्?”

परिचारिका: “नहि, नहि, भवत्याः निष्कुटपालकः अवदत्”

स्वामिनी चकिता निर्वाक्या अभवत् । सावधानं परिचारिकाम् अपृच्छत्, “भगिनि! कियतीं वेतनवृद्धिमपेक्षसे?”


१०० शितबुद्धिः-१०

सहोदरी सहोदरं पृच्छति: भ्रातः, पितामह्यै तस्याः जन्मदिने किम् उपायनं दातुम् इच्छसि?

सहोदरः: अहं तस्यै पादकन्दुकं दास्यामि ।

सहोदरी: व्यर्थः खलु । सा पादकन्दुकेन किं वा करिष्यति?

सहोदरः: यतः, सा मम जन्मदिने मह्यं भगवद्गीताम् अदात् खलु ।


-इति शम्-