ईसब्नीतिकथाः (द्वितीयोभागः)

[[ईसब्नीतिकथाः (द्वितीयोभागः) Source: EB]]

[

[TABLE]

Sri Gargeshwar Digital Foundation

अथ

ईसब्नीतिकथाः।
——————————

कथैकषष्टी (६१)।

श्येनपिकयोः।

कश्चिद्गा1तुरेकदोत्सेधवन्तं तमालशाखिनमधिष्ठाय सुखरं जगौ। तद्गानेन साटवी निबद्धप्रतिशब्दा बभूव। ततस्तत्स्वनाकृष्टो नातिदूरे परिभ्रमन्बुभुक्षापीडितः कश्चिच्छशादनः सरभसं तमाक्रम्य खरनखरैश्चकर्ष। यावच्च तं जिघत्सति तावत्स तमभिधत्ते– “भोः, मयि दयख। नेदमुचितं ते निष्ठुरं कर्म। पश्य नाहमागस्कृत्। भक्षितेन मया ते ग्रासोऽपि न भविता। कमप्यन्यं तर्हि महाकायं विहंगमं जहि। एवं कृते यश आप्नोषि, उदरपूर्तिश्च ते भविष्यति। मुञ्च मां तावदनाथम्।” पत्री तं प्रति ब्रवीति– “आँ, ज्ञायते। अवितथमाह भवान्। कण्ठशोषं भाषस्वत्वम्। परमहं प्रभातमारभ्य निरशनेन म्रिये। त्वं च दिष्या मम हस्ते पतितः स त्वमात्थ ‘उत्सृज माम्, अन्यं स्थूलविग्रहमण्डजं तृण्ढिइति। ब्रूहि त्वमेव, एवमनुष्ठिते मूढशब्दभाक्को भवेत्।”

तात्पर्यम्।

व्यवसायिनो नरो लाभस्याल्पत्वमहत्त्वे न गणयन्ति। अपि तु प्राप्तंप्राप्तमङ्गीकुर्वन्ति। गहनस्तावत्कालमहिमा।

सहस्रधा च विघ्ना अभिभवन्ति। बुद्धिरपि नश्चश्चला, भङ्गुरं चेदं जीवितम्। ईदृशानन्तरायानालोच्य तात्कालिकं लाभ विहायायतिकं लाभमालम्बमानो मन्दधीरन्तेऽनुशेते।

–––––––––––––––––––––

कथा द्वाषष्टी (६२)।

छिन्नलाङ्गूलस्य सृगालस्य।

काचिच्छिवोन्माथे पुच्छे धृता सती तच्छित्वोच्चलिता। एतावता हृष्यति चिन्तयति च सा– “यत्र जीवितसंशयोऽभूत्तत्र लाङ्गूलच्छेदेन मुक्तिरभवत्” इति। स च भूरिमाय आत्मीयान्प्रति जिगमिषति यदा, तदा पुच्छराहित्यविषये महान्तं विषादमनुबुभूषुरुपाशु मन्त्रयते—“अहो, वरं प्राणैर्वियोगो न पुनरीदृशी मानहानिः। आस्तां तावत्। गतं न शोचामि। कथमस्य खानुकूल्येन पर्यवस्थापनं विधेयम्” इति।एवं बहुविधं चिन्तयता तेनैको मृदुरुपायश्चिन्तितः। सं ब्रवीति–“अहं गोमायुसमजस्याग्रे चक्षे—भोः, पश्यत बाल-हस्तं छित्वापूर्वोऽयं भूषाप्रकारो मयोपन्यस्तः। यतश्चायमादरणीयः, तस्मात्स्वीकारमर्हति।” एवं संप्रधार्य स मृगधूर्तकानां यूथमाहूय तस्मिन्समुदये तस्यापूर्वभूषाप्रकारस्य चर्चामनेकधाकार्षीत्। सोऽभिदधे–“निष्प्रयोजनान्यस्माकं लूमानि। तत्रापीमे शृगालबालधयस्तु केवलं भारात्मकाः। एकतस्तावद्धसितपुच्छत्वं भूषणम्, द्वितीयस्तावत्पलायनप्रसङ्के द्रुततरगमनशक्तिमत्त्वमनेन संभवतीति पूर्वं मनसि कृत्वा पश्चात्तदनुष्ठितं मया। तावता सत्यप्रतीतिरूपस्यानुभवस्य भाजनमभूवम्। बालधिच्छेदनात्प्रभृति च सुख्यमभवम्।

एतावदुवत्वा विरम्य कियन्तो मामनुव्रजन्तीति सर्वेषां मुखेषु बद्धदृष्टिरभूत्। अत्रान्तरे तन्मध्यात्कश्चित्प्रवयाश्चौरकर्मशौण्डो वञ्चक उत्थाय तस्य वचसां छलं बोधित्वा सग्रीवाभङ्गमुवाद–“भो लब्धवर्ण, कृतं तवोक्तिपाटवेन। लाङ्गूलच्छेदेनासंशयं भवन्तः कृतिनोऽभूवन्। परं यदा जीवितसंदेहदोलां वयमधिरोक्ष्यामस्तदा वयमपि तत्त्यक्ष्यामः।”

तात्पर्यम्।

यदि सर्वेऽप्रमत्ता अभविष्यंस्तर्हि व्यर्थमन्यप्रयोजितानभिनवान्भूषाप्रकारान्कोऽपि नाग्रहीष्यत्। पुंसु प्रायः सर्वे भूषाप्रकाराः स्वस्वमानितां प्रकटयितुं किमपि छिद्रं गोपयितुं वा प्रयुज्यन्ते।

———————————

कथा त्रिषष्टी (६३)

जीनान्तकयोः।

कश्चिन्निष्कलो विश्लथसर्वगात्रः स्थविर इन्धनान्यानेतुं चनं गत आसीत्। तत्र दारुखण्डानि संचित्यैकत्र बद्धैकपिण्डीकृतं तं काष्ठभारं शिरसि कृत्वायासेन पदानि मन्दं मन्दं निक्षिपन्गृहं प्रतिनिवर्तमानोऽध्वनो विप्रकृष्टत्वादिध्मानामतिगुरुत्वाच्च स शश्राम। अतः काष्ठभारं मूर्ध्नोऽवतार्य स भूमौ निषसाद। तस्मिन्नवसरे स शमनमाह—“रे चेतनमात्रस्य विश्रामक, एहि। मामेभ्योऽखिलेभ्यो दुःखेभ्यो मोचय” इति। एतच्छ्रुतवान्वैवखतस्तस्य जीर्णस्य पुर आविरासीत्तमपृच्छच्च–“तात, किमित्यहं स्मृतस्त्वया।” स जरन्नावैद्यत्परेतराङ्नेनेदीयानस्तीति। स वृद्धस्तस्योमं रूपं

विलोक्यैव नष्टसंज्ञोऽजनि। ततः कतिपयैः पलैर्लब्धसंज्ञो वेपमानगात्रयष्टिः प्रतिवचनं ददाति— “भो धर्मराज, अशक्तोऽहम्। मम शीर्षस्थितोऽयं दारुखण्डभारः सहसा भूमिमापेदे। तमुद्धृत्य पुनरुत्तमाङ्गस्थितं करिष्यसीति स्मृतो मया भवान्। नन्वियदेव कार्यम्। अनेन खलु यद्यवज्ञातोऽस्मीति जातामर्षोऽत्रभवान्प्रणिपतामि ते पादयोः। क्षमस्वमाम्। कृपालुर्भूत्वा यथागतः प्रतिनिवर्तस्व।”

तात्पर्यम्।

लोकसरणिरेवेदृशी संजाता यत्ते पितृपतेः परिहासं कुर्वन्ति। क्षुद्रेष्वपि व्यसनेषु ते व्याहरन्ति वरं निधनमस्मादिति। परंतु यावद्दूरतो मृत्युस्तावदेवैषा वल्गना। अभ्युपपन्ने तस्मिंस्तमेव संसारभारं पुनर्ग्रहीतुं त एव सिद्धा भवन्ति। कियतोऽपि दिनाञ्जीवेमेत्याशासते। कङ्कालतां नीते शरीरे सहस्रविपदभिभूतेष्वपि जरत्सु जीविताशा पदं करोति किं चित्रं तर्हि यदि वयःस्था जीवितुमुशन्ति। समासतः"जातस्य हि ध्रुवो मृत्युः” इति विज्ञायागते तस्मिन्यस्तस्मान्न बिभेति तं चानुसरति स एव विचक्षण इत्यवगन्तव्यम्।

————————————

कथा चतुःषष्टी(६४)।

कामिनो हर्यक्षस्य।

कस्यचिदरण्यैौकसः पुत्र्यतीव रूपवती बभूव। कदाचिद्दर्शनपथं गतायां तस्यां कश्चित्पञ्चास्यस्तां चकमे। एवं मन्मथेनोदमथ्यत यत् “प्राप्तायां तस्यामहमसून्धारयामि,”

नो चेदनङ्गो नामसान्वयं मां करिष्यति” इति तस्मै प्रतिबभौ। ततोऽविलम्बितं नष्टाशङ्कः स तस्याः पित्रे निवेदयामास, समुदजहार च—“मां ते जामातरं कुरु” इति। तत्तस्यासंगतं वचः श्रुत्वा तत्पिता मनसीत्थमकरोत्—“यद्यहं प्रत्याचक्षे, अयमधुनैव मां विदार्य पारणामविहतां कुर्यात्। तर्हि तथेति प्रतिपाद्य उपधिनासौ विप्रलोभ्यः।” ततः स हरिमाख्यत्–“भो मृगराज, बाढमहं तुभ्यं दुहितरं ददे, परंतु किमपि ते मन्त्रयितव्यमस्ति। मे दुहितातीव पेशलावयवा, तव रदना नखाश्चातीव खराः। तेभ्यस्तस्या बाधा जायेत। कात्र प्रतिपत्तिरिति। भवान्वदिष्यति तद्विषयेऽहमवहितो भविष्यामीति तत्रापि शृणु। अप्रमत्तेऽपि भवति सा विगतभीर्नैव भवेत्। ससाध्वसायां तस्यां तव केलय उभयोरपि न सुखमावक्ष्यन्ति। निरूपयत्वेतदार्यः। तर्ह्येतावती मेऽभ्यर्थना तव रदपातने नखरकर्तने चानुज्ञातुमर्हसि। एवं कृते दुहितरं तेऽर्पयामि।” पुण्डरीकः कामान्धः प्रत्युवाच—“को दोषः, एवं क्रियताम्" इति। वनौकाः सद्यस्तस्य दशनान्निपात्य नखानि कर्तितवान्। अनन्तरमेकं स्थूलं मुद्गरमादाय तस्य मृगदृष्टेर्गोधिदेशे प्रजहार। तेन प्रहारेण स तस्मिन्नेव क्षणे गतासुरभवत्।

तात्पर्यम्।

ये कामाधीनमानसास्ते शूरा अपि विक्रान्ता अपि बलवन्तोऽपि नश्यन्ति। तथा ये सपत्नानां पीयूषतुल्यैर्वचोभिमहित्वा महाधनं प्रियं च स्ववस्तु तेषां हस्ते प्रापयन्ति ते लुप्तसर्वस्वभवन्ति।

————————————

कथा पञ्चषष्टी (६५) ।

सिंह क्रोष्ट्रयोः।

कदाचित्सिंही सृगाली च संजग्माते। तदा कथाप्रसङ्गेन तिर्यक्षु का जातिर्बहुप्रसवेति वस्तूपन्यस्तमभूत्। तस्मिन्नवसरे जम्बुकी सिंहीम श्रावयत्—“प्रसवविषये कान्या जातिः शक्नोति शृगाल्याः षोडशीमपि कलां स्प्रष्टुम्।” साह—प्रतिसंवत्सरं यद्यपि नो अधिकवारं तथाप्येकवारं वयं सूमहे। प्रतिप्रसवकाले च नैकान्पृथुकान्सूयामहे। परंच काश्चन जातय ईदृश्यः सन्ति, यत्ताः प्रसव एकमेव शिशुं सुवते तदपि जातु जन्मनि सकृदेव। एवं सत्यपि को नाम तेषामवलेपः। एतेनापि घोणामुन्नमय्यान्यान्विगणयन्ति। फेरवी मामधिकृत्य सोपालम्भं ब्रवीतीति चित्रकायात्मनि भावयामास। ततः सा तामाह– “अये, अपि शृणोषि। यूयं परेठुका इति वस्तुगत्यावितथम्। परं किंनामकास्ते शावकाः फेरव एव, वयं तु सकृत्सवामः, परमवेहि तं शिशुं सर्वतिरवां राजानं वदन्ति।”

तात्पर्यम्।

यस्यात्मनः प्रभवो जायते तस्य मूल्यं न संख्यानुरोधेन करणीयम्, अपि तु जातिमनुरुध्यैव। यद्यपि वयमल्पान्परिश्रमान्कुर्मस्तथापित एव प्रशस्याः, यदि त आधुनिकानां तेषां पुत्रपौत्रादिसंततेश्चातीवोपयुक्ताः। नो चेदेवं शृगालशुनां प्रभूतसंख्यप्रसूतिरिव ते जनपदोपप्लवकारिणो भवन्ति। अन्यदपि कथाया अस्या बीजं संभवति। कियन्तः सूरयोऽनेकग्रन्थप्रणयनेन गौरवं मन्यन्ते तदसत्। शतं विगुणान्ग्रन्थान्प्रणीय किं पठनेन लोका आयासयितव्याः। अस्मादद्वितीयस्य सर्वसंमतस्य ग्रन्थस्यैकस्यापि संविधानेऽस्ति गुणोत्कर्षः।

———————————

कथा षट्षष्टी (६६)।

शम्बरतद्वत्सयोः।

कस्मिंश्चिच्छम्बरे कैशोरं प्रपन्ने सोऽन्यशम्बरान्दुदाव। स भूमिं पादप्रहारैरती तडत्, विषाणे असकृदधावीत्, तारस्वरेण तथारावीद्यथा तच्छब्देन सर्वे बद्धभियश्चकम्पिरे। अन्येद्युस्तस्य शावस्तमभ्येत्य पृच्छति—“अये, यस्त्वं बलिष्ठोऽहं दुर्जेयोऽहमिति महान्तमाटोपं दर्शयसि, स त्वं विश्वकद्रुरवे श्रुतमात्रे भीत्या प्राणपरीप्सया प्रपलायसे। अपि ब्रूषेऽस्य हेतुम्।” शम्बरोऽब्रवीत्—“जात, ऋतमब्रवीस्त्वम्, परं कथं तद्भवतीत्यमपि न बोधामि। अहं खलु खजात्यां तेजखी ऊर्जखलश्चास्मि। मुहुरहमात्मनि निश्चयमापादयामि। नाहमितः परं कस्मादपि भियमुपेत्योद्विजिष्य इति। परं किं कुर्वे शुनकभषण आकर्णितेऽहं लुप्तप्रतिपत्तिर्भूत्वा यथाशक्ति सत्वरं धावाम्येव।”

तात्पर्यम्।

दम्भिनः कलहप्रियाश्च पुरुषा अवसाने क्षीणबला भवन्ति। तेषां डम्बरः सहचरेष्वेव द्रष्टव्यः। शूराणामग्रे न ते स्थातुं प्रभवन्ति। यस्यास्यं नक्तंदिवं शौर्यस्य च विक्रमस्य च कथा उद्गिरति तस्मिन्कश्चिद्वीरोऽक्षिणी विस्फार्य सभ्रूभङ्गं दृष्टिं पातयतु। एतावतैव स निस्तेजस्को भवतीति प्रतीतिः। ईदृशस्य मृषाप्रगल्भस्यापमाने साक्षित्वमपूर्वम्। यतस्तस्मिन्काले स भयत्रपासाधारणे रोषेऽवस्थितः संभ्रान्त इव लक्ष्यते। यदि स धृतिमालम्ब्य मनाग्विक्रामेत्तर्हि चारित्रगुप्तिं विधास्यति। परमगतिकः स किं कुर्यात्। सति प्रसङ्गे धृतिस्तं जहाति। अतो मिथ्याटोपं कोऽपि दर्शयतु नाम, सहजस्वभावः प्रकटो भवितैव।

———————————

कथा सप्तपष्टी (६७)।

युवग्रीष्मपक्षिणोः।

अस्ति कश्चिद्युवा भूरिव्ययशीलः। तस्य पिता तस्मै बहुरायं रिक्थत्वेन दत्त्वा यमनगरातिथिर्बभूव। आत्तऋक्थः स उन्मादकद्रव्यसेवनैर्द्यूतेन वेशवाटे च तद्विधानां तुन्दपरिमृजानां दुर्वृत्तानां समाजे कार्त्स्न्येन तद्व्ययित्वा प्रक्षीणद्रव्योऽभवत्। एकदा स नदीरोधसि दीन इव बभ्राम।तदा सहस्यमासोऽभूत्, परं पुष्णश्चण्डोत्रैग्रर्ष्मिागम आबभासे। तत्रोद्भान्तमेकं यदृच्छयागतं ग्रीष्मविष्किरं पाथसि तरन्तमैक्षिष्ट। ततो व्यसनप्रतिपादितोन्मादाय तस्मा अभात् “तपः सम्यक्प्रादुर्बभूवेति न मे संप्रति वाससा प्रयोजनम्” इति विचिन्त्योद्गमनीयमादधौ। आधित्वेन परिहितप्रावारस्य न्यासं कृत्वा तद्विनिमयेनार्थं गृहीत्वा भूयोऽपि द्यूतकृद्भिःखसखिभिर्देवितुमत्राजीत्। जितश्चासावक्षवत्याम्। ततो विगतवाससं तं हिममर्दयामास। विलक्षो नाम भूत्वा कूलंकषायास्तटे वव्राज। यावच्च तत्र पश्यति तावच्छीतातिरेकाच्छीनं जलमपश्यत्, तं चोष्मकविहायसमवश्यायसंहतगात्रं परेतं तीरदेशेऽधिजगाम। सर्वमेतदवगम्य स संज्ञां प्राप्य तं नगौकसं निनिन्द, उवाद च— रे पतत्रे, मूर्खोऽहं त्वां व्यश्वसिषम्। त्वमात्मानं प्रतार्य मामपि विप्रलेभिषे।”

तात्पर्यम्।

ये मादकद्रव्याणि सेवन्ते, द्यूतसभां वाश्रियन्ते, दुश्चरित्रसजुषो वा भवन्ति, परदाराभिमर्शिभिर्वा संगच्छन्ते, न तैर्विस्मेतव्यं कथमञ्जसा नो विभवः संक्षयमुपागात्कथं च वयमेवमह्नाय शिथिलवसवः समजायामहि। ईदृशव्यसनपरायणा ये जायन्ते तेषां व्यसनातिप्रसक्त्याखिलविषयेष्वान्ध्यमुत्पद्यते। ये रात्रंदिवं व्ययासक्ताः संचितं व्ययीकुर्वन्ति, तस्मिन्व्ययिते व्ययार्थमधिक संगृह्णन्ति, अन्ते ऋणं कृत्वापि व्ययितव्यमिति येषां दृढा मतिस्तेषां निर्धनत्वमल्पो दण्डः। अन्य इव ते न पर्यालोचयन्ति। व्यसनग्रहाधिष्ठितास्तेऽखिलभावान्याथातथ्येन न पश्यन्ति यथा कामलारुजा ग्रस्तः कश्चिद्यत्र यत्र दृष्टिं पातयति तत्र तत्र सर्वं हरिद्राभं पश्यति। उपरितनप्रस्तावे निरूपितो युवेदृगनीदृग्विचारमीषदपि यद्यकरिष्यत्तर्हि निदाघः प्राप्त इति कृतधीरवशिष्टवसनानि नात्यक्ष्यत्। व्यसनासक्तस्त्वशुचावप्युष्णमपश्यद्धेमन्तोऽग्रे नागन्तेति निर्णीय परिधानांशुके अपि व्यक्रीणात्। विक्रयोऽपि किंहेतुकः? देवनेन तल्लब्धद्रव्यव्ययकारणायैवासौ। ततो द्रविणं नष्टमाच्छादने अपि हारिते इत्युदीक्ष्य तस्याक्षिणी उन्मिषिते। परं किंफलोऽयमनुबोधः?

———————————

कथाष्टषष्टी (६८)।

कैवर्तानिमिषयोः।

कश्चिद्धीवरो नद्यम्भसि पृथुरोमग्रहणार्थं बडिशमक्षैप्सीत्। तद्गृहीतमेकं झषमुद्धृत्य तस्मिन्खमत्स्याधान्यामस्यति

सति स वैसारिणस्तं प्रार्थयते स्म—“भोः पुण्यश्लोक, दयालर्भूत्वा पुनर्मांधन्यां क्षिप”। कैवर्तस्तमपृच्छत्— “कस्य हेतोस्त्वामित्थमुपकरोमि? ब्रूष्व तावत्।” विसारस्तं प्रतिब्रनीति—“अर्मकोऽहम्, अतस्ते वृद्धस्य मम यावानुपयोगो भवेन्न तावानद्य।” दाशः प्रतिवदति—“ऋतमात्थ त्वम्। परं प्राप्तं विहायाप्राप्तबद्धाशो नाहमसमञ्जसः। "

तात्पर्यम्।

भाविलाभावलम्बी यो हस्तगतं वस्तु विजहाति स उभे अपि हारयति। अप्राप्तवस्तुबद्धस्पृहत्वं न दोषः परं तल्लाभमवलम्ब्य करगतस्य त्यागो निर्वेदाय प्रायेण भवति।

———————————

कथा नवषष्टी (६९)।

मृगेन्द्रबालेयकृतपापर्देः।

“कस्मिंश्चित्काले कोऽपि कण्ठीरवो मतिं व्यधत्त—“खरंसहायं कृत्वाखेटे व्याप्रियेय” इति। स चक्रीवन्तं निर्दिदेश—“भो रासभ, त्वं विटपिगुल्मान्तरितगात्रस्तिष्ठ, अमुकस्मिन्काले च भीत्युत्पादकं चीत्कारं कुरु। तस्मादारम्भाच्च मा विरंसीः। एवं त्वयानुष्ठिते सर्वे पशवो भियाक्रान्ताः पलायितुं प्रवर्तेरन्। अहं तु निर्गमपथं रोत्स्यामि। तेन मार्गेण गच्छतः सर्वान्रेषितास्मि।” ततः खरेण यथानिर्देशं कृते द्रुतगतीन्धावतः पशून्निर्गममार्गस्थितः सिंहोऽश्रमेणैकैकमतृणे। यदेमानि पशुशवानि ममोदरपूर्तये पर्याप्तानीति सिहो मेने तदा स गर्दभमाकार्याभ्यधात्—“भो चक्रीवन्, साधु साधु। साधु कृतं सखे, अलमधुना ते चीत्कारेण। विरम तावत्। इत एहि” इति। तमाह्वानमनु खरश्चित्रकायं प्रतिनिवृत्य “स्वनियोगः सुष्ठुशून्यः कृतः” इति मत्वा तं सलीलं पृच्छति—“भो मृगाधिप, यदहं कृतवांस्त तुभ्यमरोचत न वा। “हर्यक्ष आह—“मतं तव कृत्यमिति किं कथयामि। अतीवाभिनन्दामि तत्। त्वमेवं व्यधा यत्त्वत्स्वरूपं नाहमज्ञास्यं यदि, तर्हि ते चीत्कारं श्रुत्वाहमप्यभेष्यम्।”

तात्पर्यम्।

केचिदयं गर्दभ इवानल्पं जल्पन्ति, प्रगल्भं विकत्थन्ते, अज्ञांश्च भाययन्ति। परंतु ये तत्खरूपं विजानन्ति तेषां त उच्चावचप्रलापाः केवलं कौतुकमावहन्ति। ईदृशः पुमांसो यत्र लभ्यन्ते तत्र तद्विषये स्निग्धं चर्चा कार्या। चर्चायां कृतायां न ते भयस्थानानीति व्यक्तिर्भवेदेव।

———————————

कथा सप्तती(७०)।

निपुणमतेश्चक्रीवतः।

कस्मिंश्चित्स्थविरे स्वरासभं चारयति तस्य परिपन्थी तमभिययौ। अतः स गर्दभं त्वरयामास। तस्मिन्काले चक्रीवांस्तं पप्रच्छ–“स्वामिन्, स तेऽरातिर्मे पृष्ठे भारं करिष्यति न वा?” प्रवया अवादीत्—“भारं त्वया वाहयिष्यत्येव, नात्र विसंवादः।” खरः पुनरभिदधौ—“प्रभो, त्वं मया भारवा-हनं कारयिष्यसि वा न वा?” वृद्धोऽवदत्—“किमहं न कारयिष्यामि? भारोद्वहनं ते कर्मैव।” बालेय आह—“यद्येवं तर्ह्यहमङ्गुलमात्रमपि न प्रचलिष्यामि। यदि भारोद्वहनकर्मणोऽहं न मुञ्चे, कोऽपि मे स्वामी भवतु। किं मे हर्षपदं शोकस्थानं वा?”

तात्पर्यम्।

रंका राज्यपरिवर्तनाभ्युपायेषु मतिं न कुर्युः। यदि ते व्याप्रियन्ते महद्व्यसनं तानुपैति। राजपरिवर्तनाद्राजनामभेदान्नान्यो लाभस्तेषाम्। न तेऽनेन निर्धनतराः संपद्यन्ते, न वाधिकं कर्माणि कार्यन्ते। एवं विद्यमाने केचित्स्वार्थसंपादकाः पुरुषास्तेषु मानमुत्पाद्य तान्कपटप्रयोगैः प्रजाक्षोभं निर्माय राजयुद्धेऽनुबध्नन्ति। तस्मिन्कलहे सिद्धे न ते किंचिदपि लभन्ते, परमसिद्धे वध्या भवन्ति।

———————————

कथैकसप्तती (७१)।

कत्थनशीलस्याध्वन्यस्य।

कश्चित्पुरुषश्चिरभ्रान्तभूवलयः स्वंपुरं न्यवर्तत। स देशान्तरेषु यानि कौतुकानि ददर्श तानि तानि संस्तुतजनेभ्योऽयथातथं वर्णयामास। कथाप्रसङ्गेनानर्थभाषी सः ‘अलकापुरीं गतोऽस्मि। तत्रत्याः पञ्चदशहस्तानुत्पतन्ति, परंतु यदा मया सह ते पणं चक्रुस्तदाहमिव न कोऽप्युदपप्तत् ‘इति जजल्प। संनिधस्था जनास्तु नेदं परमार्थेन जगृहुः। तद्दृष्ट्वा स तान्प्रत्याययितुं बहूशपथानकरोत्, सत्यवाक्यानि च दृढीकरणार्थं युयोज। अत्रान्तरे तेषामेको वदति—“आर्य; किमिति कृच्छ्र आत्मानं पातयसिः प्रकोष्ठे धृतस्य पारिहार्यस्य ज्ञाने किमादर्शस्य प्रयोजनम्ः किमित्यस्मभ्यमधुना प्रत्यक्षं न निदर्शयसि? अलकापूःस्थितमात्मानं भावय। यथा च तत्रोदपप्तस्तथा भूयोऽप्यत्र किं नोत्पतसि? “विकत्थनपराय तन्नारुचत्। ततः स विलक्षो भूत्वा तूष्णीं बभूव।

तात्पर्यम्।

ये देशान्तरप्रवासिनो ये वादृष्टदेशान्तरास्ते सर्वे खीयो गुणो यस्मिन्प्रख्याप्यते तां वार्तां खमुखेन न वदेयुः, स्वयं प्रख्यापितमात्मनः स्तुत्यर्हमपि गुणं लोका न श्रद्दधति। उक्तं च—“इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः।” ततो यथा यथा वयं शपथान्सत्यंकारान्वा प्रयुङ्कुमः, तथा तथा तेऽधिकं संशेरते। तत्त्वकथनेऽप्येवं भवति, किं पुनः खगुणप्रख्यापनायायथार्थकथने भवतीति वक्तव्यम्? ये समाजेषु देशान्तरसंबन्धिनीरयथार्थाः कथाः कुर्वन्ति, तेऽनृतवादिन इति सपदि ज्ञायते लोकैः। कदाचित्तस्यां संसदि तद्देशद्रष्टा कोऽपि भवेद्यः सद्योऽवितथभाषणदोषं भावयेत्।

———————————

कथा द्वासप्तती(७२)।

भ्रात्रोः।

कस्यापि पुंसो द्वावल्पवयस्कौ माणवकावास्ताम्। तयोरेकः पुत्रोऽन्या च कन्या। सूनुराकारसंपदा कन्यामतिशिश्ये, या नातिसुभगासीत्। कस्मिंश्चिदहनि मुकुरं निकषा क्रिडतोस्तयोः पुत्रः खसारमाह—“अये, पश्यावास्मिन्दर्पणे कतर आवयोः सुन्दरतरो दृश्यते” इति। अनेन सा कन्या दुर्मनायिता। सा “मामघिक्षेप्तुमयमिदमब्रूत,’ इत्यज्ञासीत्। अथ सा पितरं गत्वा भ्रातृकृतामाक्षारणां तस्मायवेदयत्। साब्रवीत्—“पितः, आदर्शे स्वं रूपं दृष्ट्वा मनःसमाधानं स्त्रीणां कर्म। अस्मिन्कमणि पुमान्मतिं विधातुं नार्हति”। पितोभावप्यश्लिक्षत्तौ समादधौ। आह च—“बालौ, मा कलहं कृषाथाम्। अद्यप्रभत्युभावप्यजस्रं मुकुरे पश्यतम्। पुत्रक, ईदृशमभिरामं ते लपनं दुर्गुणैर्मलीमसं भवति चेत्त्वं ज्ञास्यसि। वासु,2 तव रूपे या न्यूनता सा गुणैः पूर्णा न वेति च त्वं ज्ञास्यसि” इति। .

तात्पर्यम्।

नास्त्येतादृग्वस्त्वस्मिञ्जगति यस्मिन्निपुणं विचार्यापि न किमपि वैगुण्यं दृश्यम्। अत एव बुद्धिमादर्शतां नीत्वा तत्रानवरतं गुणानवगुणांश्च परीक्षमाणस्य हितमेव भवति। इदं न केवलं बालैर्वृद्धैरपि कर्तव्यम्। यो दम्भी सोऽवयवसौष्ठवमादर्शे पश्यतु, परंतु स निध्यायेत् यथाहं बाह्यतो निर्दो-षस्तथापि नामाहमन्तरङ्गे? माराभिरामोऽपि पुरुषोऽन्तरङ्गगुणहीनो यदि, जनानामप्रियो भवति, स एव यदि मधुरभाषी सुशीलोऽन्यैश्च गुणैरन्वितो भवेल्लोकप्रियो भवति। यः सुरूपः स गुणैर्विहीनः सन्निष्प्रयोजनः। किंतु यो गुणी स रूपेण कथमपि भवतु, तस्य रूपे जना अनादराः। दीप्तिमानपि प्रस्तरो रत्नस्य षोडशीमपि कलां किमर्हति। यद्यपि बाह्यतो दुर्दर्शनस्तथाप्याभ्यन्तरमूल्यवान्मणिरेवासौ। तथैव योऽन्तः साधुः यस्य शेमुषी प्रसन्ना, क्रियायां यस्य वैशद्यम्, मनस आर्जवम्, धियाः प्रभावश्च स रूपं नापेक्षते।

———————————

कथा त्रिसप्तती (७३)।

निर्णेजकाङ्गारविक्रेत्रोः।

कश्चिदङ्गारविक्रेता कस्यांचित्पुरि व्यवहारनिमित्तेनावात्सीत्। तत्रं तङ्ग्रामवासिना केनचिद्रजकेन समापेदे। तावन्योन्यं कुशलं पृष्ट्वा वसतिस्थाने पप्रच्छतुः। अथाङ्गारविक्रयिको निर्णेजकमाह– “न यथोचिता ते निवासभूमिः, अतो वासमङ्गीकृत्य सनाथीक्रियतां ममावासः।” रजकस्तमाह—“सखे, कथमस्य संभवः? त्वत्संनिधाने वासे रचिते मया, यद्वासः प्रातरहं निर्णेनेज्मि तदजातस्पष्टायां संध्यायामेव तवाङ्गाररजोऽसितवर्णं कुर्यात्।”

तात्पर्यम्।

इह कस्यापि साहचर्ये कर्तव्ये स्निग्धं निध्यायताकर्तव्यम्। गुणिनामपि नो गुणान्गुणहीनसंगतिर्मज्जयति। अतो यो विवेकी यश्चात्मनः श्रेय इच्छेत्स दुर्जनान्परिहरेत्। तस्य सङ्गो हि समूलं नाशयति। तेन संगता वयं तस्य दोषैरलिप्ता अपि यदि भवेम, न जना एवं ज्ञास्यन्ति। तस्य सङ्गेन तस्य मन्तव आत्मनो गुणाश्चैवं संकीर्येरन्, यथा को दोषभाक्कोऽनवद्य इति परिच्छेत्तुं जना न श्राम्येयुः। समज्ञाच्छनिर्झरोपमास्ति यथा प्रसन्नमपि जलं ग्रामोपान्तवर्तिभिः पङ्किलस्रोतोभिः संगतं चेदाविलं भवति, तथा दुर्जन सह-वासेन यशः कालुष्यमुपयाति।

———————————

कथा चतुःसप्तती(७४)।

क्रोष्ट्रपमुखयोः।

कस्यांचिच्छर्वर्यांकोऽपि क्रोष्टा कस्यचित्कृत्रिममुखविक्रेतुः पण्यशालामविक्षत्। छद्ममुखप्रचुरायां तस्यामेकतमे छद्मास्ये पदं निधायैकतानतया निरूपयन्निदमूचे—“सुन्दरमिदं शिरः, परं मस्तिष्करहितम्, अतो विनोदमात्रोपयोगि।”

तात्पर्यम्।

नास्ति यस्य प्रज्ञा तस्य चारुता निरर्था।

———————————

कथा पञ्चसप्तती (७५)।

वर्षाभ्वोः।

कस्मिंश्चिदत्युष्णे ग्रीष्मसमये पङ्कशेषाणि सरांसि समजायन्त, तथा च निर्निष्यन्दाः प्रहयोऽन्ये जलाशयाश्च शुष्कतोयाः संजज्ञिरे। तस्मिन्काले कौचिद्वर्षाभ्वावपोऽन्विष्यन्तौ कांचिदगाधां वापीमासेदतुः। तटदेशभाजौ तौ मिथो मन्त्रयांचक्राते—“किमावामवप्लवावहै न वा।” एको वदति— “अवतरावास्याम्, यतोऽगाधेऽस्मिन्कूपे बहुभिरुत्सैर्भाव्यम्, न किमपि परिहास्यतेऽत्र।” अपरस्तं वदति— “रे, यत्त्वं वक्षि तदृतं स्यात्तथापि साहसमिदम्, अतस्त्वद्वचो नानुमन्वे। कुत इति चेत्, यद्यस्य कूपस्य मध्यगता आपः शुष्येयुस्तर्हि कथय कथं निर्गच्छावास्मात्।”

तात्पर्यम्।

संशयारोहणात्प्रागसिद्धे तत्कार्येऽमुकेनोपायेन स्वरक्षा भवेदिति विमृशेत्।

———————————

कथा षट्सप्तती (७६)।

कदर्यस्य।

कश्चिन्मितंपचो बहुधनं संचित्य वप्रे निचखान। स तमुद्देशमेकवारं द्विवारं वा दिनेऽश्रान्तमियाय निखातद्रव्यां तां गर्ती दृष्ट्वा जह्नादे। तत्तस्य कृत्यं तस्य दासेरो विलोक्य शशङ्के यदयं मत्स्वामिमं देशमागत्याविरतं पश्यति, तस्मात्कोऽपि विशेषोऽत्र विद्येतेति। अथ स क्षणदायां तत्र गत्वा खनित्वापश्यत्। तदानीं निधिमधिगम्य तं गृहीत्वापाक्रमीत्। उत्तरेद्युः स किंपचानो नित्यक्रमेणागम्य पश्यन्निधेरदर्शनमुपलब्धवान्। उपलब्धे निधिनाशे रजोरूषितमूर्धजः स सोरस्ताडम् “कष्टम्, हा हन्त” इति मुक्तकण्ठमाचक्रन्द। गृहान्न निववृते। अन्ते तस्य प्रातिवेश्यस्तमुपेत्य तं शोकहेतुं पप्रच्छ। क्षुद्रस्तस्मै प्रवृत्तिमाचख्यौ। तच्छ्रुत्वा प्रतिवेशी तं व्याहार्षीत्—“भद्र, न ते किमपि नष्टमित्यवगच्छामि। मे द्रव्यनाशः समुत्पन्न इति चित्ते मा कुरु। यथापूर्व चैनमवटमनिशं प्रेक्षख एवमनुष्ठिते सिद्धं ते समीहितम्।”

तात्पर्यम्।

ये कृपणास्ते सत्यपि रायि दरिद्रा एव। ते संचितद्रव्यमनुपभुज्य वर्धनेच्छयामरणादाभीलान्यनुभूय नानाविधानि पापान्याचरन्ति। अन्ततस्तेषां विभवमैकागारिकादयो हरन्ति। ते जीवन्तो दुःखशोकयोर्भाजनम्। मरणोत्तरं चाक्षय्यो निरयवासस्तेषाम्।

———————————

कथा सप्तसप्तती(७७)।

गरुडीवराह्याखुभुजाम्।

काचिद्गरुडी कस्यांचिदुच्छ्रायिनि पलाशिनि शिखरशाखायां नीडं निरमास्त। तस्यैव विटपिनो मध्यवर्तिनि कोटरे काचिद्वृषदंशकोवास। कापि वनसूकरी च तस्यैव शाखिनो बुध्नते कुहरे डिम्भैः सहावसत्। यदि ते उभे पिशुनायास्तस्या बिडाल्याः परिवादं नाश्रोष्यतां तर्हि सुखं चिररात्रायान्योन्यस्य सामन्तेऽवत्स्यताम्। एकदा सौतुः प्रथमं गरुत्मतीमुदगच्छत्, तां प्रति चोवाच– “प्रतिवासिनि, किं कथये? महाननर्थो नः समापतितः। एषा पापाशया वराही नक्तंदिनं महीरुहमूलस्याधस्तादविरतं खनति। सैवं मन्यते यद्ययं कुटः पतिष्यति, अमुयोः शिशव आयासानकृत्वात्मसाद्भविष्यन्तीति। अहं यत्प्राप्तकालं तत्कुर्वे। त्वमपि यत्ते पथ्यं तत्कुरुष्व।” एवं गरुड्या हृदि भयं जनयित्वा तस्या अगोचरेण निभृतं सा मार्जारी कोलीमपागच्छत्। विवर्णास्या च तां प्रति ब्रूते—“कच्चिद्भवती बहिर्यास्यत्यद्य? “पोत्रिण्याह—“किमितीयं पृच्छा? “आखुभुग्जगाद—“नहि किमपि। अबुद्धिपूर्वोऽयमनुयोगः। यथाकामं कुरु तावत्परमहं गरुडीं स्वपृथुकांश्चक्षाणामशृणवं घोणिन्यां बहिर्गतायां तस्याश्च मार्जार्याश्च यथावसरं पोताभ्यवहारेण युष्मांस्तर्पयेयमिति सहसाहमेतदाकर्णयम्। साधयामि तर्हि। मे पाका एकाकिनः शेरते निष्कुहे। तेषां त्राणमवश्यं कार्यं मया।” एतावदुक्त्वा सोदपप्तत्स्वार्भकानुपयाय तानत्रायत। एवं साचिरेणाकरोद्दोषा बहिर्गूढं यात्वा खाद्यमानयत्। दिवा च शावकत्राणपरा नाम भूत्वा उपर्यधश्च साशङ्कं मुहुरवाललोकत्। इदं तस्याश्चरितं दृष्ट्वा गरुडीक्रोड्योर्मनसी निविष्टान्योन्यद्वेषे अभूताम्। ततस्ते इतरेतरस्य भीत्या स्वस्वस्थलान्न निर्जग्मतुः। अस्यायमुदर्कः समपादि यत्ते शिशुभिः सत्रा जग्ध्यभावेन कालधर्ममापेदाते। तत्कुणपैस्तस्या आखुभुजोऽन्नसमृद्धिरभूत्।

तात्पर्यम्।

पिशुनैरिह महान्तोऽनर्था अकृषत। ते कतिषु साधुकुलेप्वा निधनमसंजातसंधानां वैरबुद्धिं जनयामासुः। कतिपयानां मनःसु चिरादप्यनुमृष्टान्विकल्पानुत्पादयामासुः। अनेकांस्तथा परिक्षीणसंपदोऽकार्षुर्यथा न पुनस्तैरासादितं धनम्। यः पूरुषः प्रतिवेशिकधर्मेण वर्तितुमिच्छति स कस्यापि वचनमात्रं प्रत्येत्य न सामन्ताय दुह्येत्। जनश्रुतिमनुरुध्य वितर्केभ्योऽवसरं दत्त्वा खमतं नैव प्रकाशयेत्। यतो यत्पुरतो मतप्रकाशं कुर्मः स खलश्चेद्वाक्प्रपञ्चेनाल्पायामप्यस्मदुक्त्यां बहुभाषित्वमध्यारोपयति। यः सज्जनस्तस्मै कोऽपि कस्यापि किमपि कथयतु, सोऽखिलं हृदये करोति, एकस्यान्यस्मै नाचष्टे। तस्य सांदृष्टिकमिदमेव स उभयोरपि प्रियो भवति। जात्वमित्राण्यपि तद्द्वारा मित्राणि भवन्ति। तद्विधस्य पुंसश्वेतोऽनेन किमुत हृष्येत्?

———————————

कथाष्टसप्तती(७८)।

अजसिंहयोः।

कश्चित्केसरी कंचन शुभमद्रेर्नितम्बदेशे चरन्तमपश्यत्। तत्र नास्ति मे गतिरिति ज्ञात्वा हरिस्तं ललाप—“रे, त्वमीदृशि विषमे स्थाने सर्वाद्धं चरित्वा किं सुखं लभसे। उत्प्लुत्योत्प्लुत्य कदाचिद्यदि पतिष्यसि प्राणांस्त्यक्ष्यसि। वरं तर्हि ते नीचैरागमनम्। शाद्वलगतानिमान्कोमलशादान्मधुराणि चेमानि गुल्मिनीच्छदनान्यद्धि। “छागोऽवदत्—“तवोक्तिः सर्वथानवद्या। परं त्वं मे बुभुक्षित इव भासि, अतस्त्वयाधिष्ठितस्थलमागत्य नास्मि जीवितं संशयितं करोमि।”

तात्पर्यम्।

ये स्वार्थपरा जिह्माश्च तैः कथितं सत्यत्वेनाप्यवभासमानं हितं न विश्वस्यात्। तत्र दम्भमवश्यं जानीयात्।

———————————

कथा नवसप्तती(७९)।

भेकहर्योः।

कश्चित्पञ्चास्यः किमपि सर उदन्यापोहनाय प्राप्नोत्। तत्र वर्तमानस्य कस्यचिद्वर्षाभ्वो रटनं श्रुत्वा बिभाय। परितो विलोक्य स्वगतं गदति–“किमिदम्। न कोऽप्यत्र हग्गोचरः, रावश्चाभीक्ष्णं श्रूयते। “ततो भयेन विवेपे। परं धैर्यमवलम्ब्यानपद्रुत्य स्थित एव ध्यायति तस्मिन्सरसो निष्क्रम्य स एव वर्षाभूरुच्चै रटन्नुत्पपात। दृष्टे च तस्मिन्वर्षाम्वि कण्ठीरवश्चुक्रोध–“ईदृशोऽल्पकायो जन्युर्भूत्वा मद्विथमुदवेजयत्” इति। ततः द्राक्तं वर्षाभ्वमुपगम्य पादप्रहारेणामृद्गात्।

तात्पर्यम्।

प्रायोऽस्थाने भीरस्मानुपेति। येऽविवेकिनो मूढाश्च तानेव भयानि दुन्वन्ति। यश्च विवेकी धीरश्च स तेषां कारणमन्विष्यति। ततः स जानाति भिया मूलं मन एवेति।

———————————

कथाशीती(८०)।

शाल कण्टक गुल्मयोः।

कस्मिंश्चिद्वनमध्ये समरेखः कश्चिच्छालो महोच्छ्रयमवर्धत। सोऽनारतमात्मोत्सेधावलिप्तो नीचै रोहतो वृक्षकान्धिक्चकार। तद्वृक्षकमध्यगतः कश्चित्कण्टकस्तम्बस्तन्न मर्षित्वेतरेद्युस्तं सालं पृष्टवान्–“किं भोः, महान्तं गर्वं वहसि? ब्रूहि तावत्।” स उत्तरयति—“सर्वपादपेषु श्रेष्ठोऽहम्, ललितश्च मे शिखरो नभो विलङ्घयति। मे स्कन्धशाखाः सततं हरितायन्ते। यूयं त्वतीव नीचाः यो य आगच्छति स स वश्चरणैरवताडयति। मम पलाशस्थितार्णःपृषतामासारैरेव यूयं मज्जथ।” गोक्षुर आह—“अस्त्वेतत् परं परमार्थेन गृह्यतां मे वचः। यदा कश्चिदाटविकस्तेऽङ्कौ प्रहर्तुमायास्यति तदास्माकं मध्याद्योऽपकृष्टो द्रुस्तेन साकं महता तोषेण महत्त्वविनिमयं कर्तुमेषितासि।”

तात्पर्यम्।

महान्तो नैकैरुपाधिभिः परित्रियन्ते। न तावतः क्षुद्रापरिवृण्वन्ति। अतः पृथग्जनानां महतां च सुखदुःखयोस्तुलनयां कृतायां महत्त्वमेव वरमिति वक्तुं दुष्करम्। एवंस्थिते उपपदैर्जनुषा वा ये महान्तो भूतास्तैरवलेपेन परामृष्टैः सद्भिर्विवर्णानां न्यक्करणं कियान्मोहः?

———————————

कथैकाशीती(८१)।

बस्तोक्ष्णोः।

सिंहानुयातः कश्चिदुक्षा प्राणपरीप्सया धावन्कांचिद्गुहां विविक्षुस्तद्गतेनैकेन च्छ्गलकेन न्यवार्यत। स प्राह स्म—“मामकमिदं निशान्तमन्तः प्रवेक्ष्यसि यदि तर्ह्यहं प्रहरिष्यामि त्वा।”गौर्बद्धाञ्जलिरनुनिनाय—“भो अज, सिंहः पश्चान्मे वर्तते। शरणागतस्य समाश्रय एव ते गृहमेधिन उचितो धर्मः।” छागस्तन्नावदधे। विषाणे संमुखीकृत्य प्रार्थयते स्म तम्। तदासौ सौरभेयस्तं वदति—“नाहं त्वत्तस्त्वच्छृङ्गाभ्यां वा बिभेमि। परं किं करवाणि? यदि सिंहो मम पश्चान्नावर्त्स्यत्, तर्हि भद्रशुभयोः कियदन्तरमिति मधु तेऽदर्शयिष्यम्।”

तात्पर्यम्।

व्यसनस्थस्यासाहाय्यं न मानुषयोग्यम्। तत्साहाय्यमकृत्वा तस्य न्यक्कारस्तस्य पीडनं वा तस्य दुःखस्य नवीकरणं वा क्रियते। किमन्यदनार्याचरितम्?

———————————

कथा द्व्ययशीती(८२)।

विष्किरशाकुनिकयोः।

पक्षिबन्धनार्थं वीतंसं निर्मित्सुं शाकुनिकं निकटस्थानो-कहगतः कश्चिद्विरपृच्छत्—“आर्य, किमिदं निर्मिमीषे?” शाकुनिक आह–“नभसङ्गमानां वः कृते पत्तनं निर्मिमे। ये पतत्रयोऽत्रागत्य वत्स्यन्ति, त आहारविहारेषु न किंचिदपि क्लिश्यन्ति। अत्र तृणमस्ति, आपः सन्ति, वस्तुं नानाविधाः शालाः सन्ति, संवेशार्थं मृदून्युष्णानि च शयनीयान्यत्र विद्यन्ते, वरस्त्रियश्चापि वर्तन्तेऽत्र।” स विष्किरः सर्वमेतत्सत्यत्वेनाग्रहीत्। ततो वीतंसं निर्माय गते तस्मिञ्जीवान्तके स तद्विवेश। संयतः सन्नक्लिश्नात्। ततः स तत्रायातान्वाजिनोऽचकथत्—“भोः, मा प्रमाद्यत। पाशोऽयम्। कैतवेनास्मि धृतः। स दग्धजीवन्तिको वो भ्रमयेत्। तं मा विश्वसित। अखिलांश्च गरुत्मत इममुदन्तमुद्धोषयत।”

त्रिभिश्चतुर्भिर्वा मुहूर्तेर्लुब्धकस्तत्राजगाम। तं स नीडोद्भव आह–“रे शठ, मां तु त्वं वञ्चयामासिथ परंतु दृढमवेहि। अस्मिंस्ते रम्यस्थले न कोऽपि पक्षीतः परमायाता।

तात्पर्यम्।

ये धूर्तास्ते यावत्तेषां खरूपमज्ञातं तावल्लोकान्विप्रलभन्ते। सकृत्तेषां खरूपे साकल्येन ज्ञाते जनास्तान्दूरतः परिहरन्ति।

———————————

कथा त्र्यशीती(८३)।

राजपण्डितयोः।

कश्चिद्राजा नवमाक्रीडं निर्ममे। स कास्मंश्चिदुत्सवदिने तत्र विहर्तुमिष्टाप्तसुहृद्भिरनुजीविभिश्चान्वितो जगाम। तत्र भक्ष्यभोज्यलेह्यचोष्यपेयानि परमान्नान्याखाद्याखाद्य तौर्यत्रिकादिरागपूरितमानसश्चिरमतिष्ठत्। एवमानन्दपूरनिमग्नेषु सर्वेषु स दिवसोऽविदितगतयामो व्यरंसीत्। ततो राजा प्रीतः सन्रसेन सर्वानूचे—“भो इष्टाप्तसुहृज्जनाः, यस्तरुर्यस्मै रोचते स तेन मदीयोऽयं भवत्विति निःशङ्कं वाच्यम्।” तद्राज्ञो वचोऽभिनन्द्य कश्चिदाह—“कुमारी मदीयास्तु।” अपरः कश्चिदाह—“अतिमुक्तो मम भवतु।” अन्यः कश्चिदाह—“नवमालिका मे रोचते।” कश्चनापरः “पाटलाप्रियोऽहम्” इत्युवाच। कश्चिदन्यः “चाम्पेयो मे प्रियः” इति एवमवकेशिनः कुटाः सर्वेभ्योऽरोचिषतेति दृष्ट्रा राज्ञोऽभ्यासे वर्तमानः पण्डितो विस्मितमात्मानं दर्शयञ्जगाद—“यथारुचि भवन्तो वदन्तु, नारीकेलो ममास्तु यः फलैर्देवताः प्रीणाति यश्च सर्वोपयोगी।” निशम्यादो राजा सशिरः कम्पं ब्रूते—“साधु विद्वन्, साधु। अत एव जना आर्यमिश्रान्विपश्चितः सभारत्नानीति वदन्ति। सत्यमेव तद्यदुपयोगं विना व्यर्थ। दम्भार्थं कस्यचिदङ्गीकारोऽप्रज्ञत्वम्।”

तात्पर्यम्।

यत्कार्यं तत्केवलं दम्भार्थं न कुर्वीत। यं वयमाश्रितं कुर्मः कस्तस्योपयोगो भवेदिति चिन्तनीयम्। केवलमाकारपक्षपातिभिर्न भाव्यम्।

———————————

कथा चतुरशीती(८४)।

श्वभीरुकण्टकतर्वोः।

कश्चित्क्रश्चा मृगदंशकेभ्यः संतत्रसे, द्रुतगत्या विचचाल च। कांचिद्वृतिमुल्लङ्घयंस्तद्गतमेकं कण्टकिनं तरुं जग्राह। संमुखीनपादयोः पूर्वकाये च तद्गतैः कण्टकैः क्षतो रुद्धगतिरासीत्। तदा कण्टकिनि शाखिनि वाक्पारुष्यं विधास्यन्नाह–“रे पामर, असांप्रतमिदं यत्त्वां शिश्रयिषौ त्वत्सकाशमुपगते मयि शाठ्यमाचरसि।” कण्टकी द्रुमस्तं प्रतिवदति” किं भोः, अहमेनं प्रमामि नानेन किमपि भाषितव्यम्। यदहं करोमि तत्सर्वमनेन विषह्यमिति ते मनसि किम्? निबोध तर्हि, अद्यप्रभृति प्रसभग्रहोऽस्माकमधिकारः। अतोऽतःपरं कण्टकिनः पादपान्सर्वथा वर्जयेः, मा तान्स्प्राक्षीः’

तात्पर्यम्।

दुर्जना अन्यान्दोतुं प्रक्रमन्ते। परं ते तेभ्यो बलवत्तरा भवेयुर्यदि तर्हि तानेव विपदि पातयन्ति। ततस्ते खलास्तानुपालभन्ते, ब्रुवन्ति च—“किमेभिरस्माखनया वृत्त्या वर्तितव्यम्? युक्तं किमेषाम्?” परं ते चित्ते न कुर्वन्ति। अनागसो बाधमानानस्मान्न जनस्तृणेढीति तेषां महानुपकार एवेति।

———————————

कथा पञ्चाशीती(८५)।

ओत्वाख्वोः।

किमपि निकेतनमदभ्राघोगन्तृभिरुपसृष्टं बभूव। तत्र कंश्चिन्मार्जारोऽभ्यागात्। स बहूनुन्दुरानवधीत्। अन्येद्युर्विरलीकृतसंख्यैर्हतशिष्टैर्वृकैः समेत्य निरचायि, न कोऽप्यवतरेदिति। ततःप्रभृति बिडालो मूषकान्नालब्ध। ततोऽलब्धजग्धिः स मार्जारो मुमूर्षुः प्रायोपवेशनकृतमतिः कस्यामपि विहङ्गिकायां पूर्वपश्चिमपादानासज्य मृतवदात्मानं संदर्शयामास। तद्वीक्ष्य कश्चिज्जरठः पुंध्वजस्तं ब्रवीति—“सौम्य, भारयष्टिमालम्ब्य सुखं तिष्ठ। किमनेन? विदारितं त उदरं तृणैः पूरितमिति दृष्टेऽपि वयं त्वां न विश्वसिमः।”

तात्पर्यम्।

घातुकानां च धूर्तानां च चाटानां च चाटूक्तीरजिह्मवदवभासमानानि कर्माणि वा जना याथार्थ्येन गृह्णन्ति, अत एव वञ्चयन्ते। यदा तेषां खरूपमेकवारं ज्ञायते, ते वञ्चका इति च दृढनिश्चयो यैः क्रियते, तेषां वञ्चने कियती मात्रा तेषाम्?

कथा षडशीती(८६)।

किखिग्राम्ययोः।

कश्चित्क्रोष्टा व्याधैरनुसृतो द्रुतं धावशश्राम। अत्रान्तरे पथि स्थितं कंचिद्रामीणं दृष्ट्रा तं प्रार्थयामास—“तव कुटीरे वासं देहि” इति। ग्राम्योऽब्रवीत–“परमम्” इति। ततः स क्रोष्टा तत्कुटीरैककोणे जुगूहात्मानम्। व्याधास्तस्यानुपदमेवाजग्मुः। तैर्ग्राम्योऽप्रच्छि–“कच्चिदितो यान्तं क्रोष्टारं ददर्शिथ।” ग्राम्य उवाच—“न हि दृष्टो मया। एवं वाङ्मात्रेण नेति भावयामास, परं तस्य निह्नवस्थानं वारंवारमङ्गुल्या निरदिक्षत्। अपरिज्ञातहस्तसंज्ञा मृगयवो निर्जग्मुः। अथ सा शिवा निभृतं गन्तुं प्रचक्रमे। एतस्मिन्नन्तरे ग्राम्यस्तां पृच्छति—“अये, किमेषा रीतिः? येन तेऽभयं दत्तं तमनापृच्छ्चैव गम्यते किम्?” क्रोष्ट्रा सर्वास्तस्य चेष्टाः सूक्ष्मच्छेदतोऽदर्शिषत। ता मनसि निधाय स ब्रवीति—“रे, वचनानुकारि यदि ते कर्माभविष्यत्तर्हि तवोपलतेरानृण्यं नूनमगमिष्यम्।

तात्पर्यम्।

केचिदेवंविधा अधमाः सन्ति, यत्ते प्रत्यक्षे वचनैराप्तत्वमुपन्यस्यन्ति। परोक्षे कार्य विहन्तुं यतन्ते। प्रकाशसपत्नो वरम्। परं मित्रोपदेशेन यो द्विषः कर्माचरति स हितशत्रुरसत्यसंधोऽतीव नीचः। तस्य मुखं नावलोकनीयम्।

———————————

कथा सप्ताशीती(८७)।

शुना दष्टस्य पुंसः।

कंचन पुमांसं कोऽपि श्वादाङ्गीत्। काचिन्महत्तरी तस्मा उपचारमकथयत्–“अपूपखण्डं गृहीत्वा स्पृष्टक्षतं तं श्वानमाशय” इति। एवं कृते विषबाधा नंष्टा। यथोक्तमनुतिठन्तं तं कश्चिद्दुधोऽयनेन तेन गच्छन्दृष्ट्वा पप्रच्छ—“रे किमिदमारब्धं त्वया? क्षतो यथावदाचख्यौ। श्रुत्वा तत्स विद्वांस्तं वदति—“रे, यद्येवं तर्हि प्रार्थयेऽहं रह एतत्कुरु। इमां प्रवृत्तिं यदि पत्तननिवासिनः श्वानः श्रोष्यन्ति, तर्ह्यस्यां पुर्वी कमप्यक्षतं नावशेक्ष्यन्ति।”

तात्पर्यम्।

एनखिनो दण्डमेवार्हन्ति तदकृत्वा ये तेभ्यो बिभ्यति तांश्च मधुरवचोभिः सान्त्वयन्ति तैस्तत्सभाजनं रहस्येव कर्त-व्यम्। नोचेत्साधूनां मानहानिर्दुरात्मनामुत्कर्षश्च भवेत्।

———————————

कथाष्टाशीती(८८)।

शिशुनियत्योः।

कश्चिद्वालः कस्याश्चिद्दीर्घिकायास्तटे संविवेश। निद्रानिमीलितचक्षुषं तं विलोक्य विधिस्तं प्राबोधयत्, अवोचच्च—“रे, यदि पतिष्यसि तर्हितवापराध इति जना न वदिप्यन्ति। मामेव निन्दिष्यन्ति।”

तात्पर्यम्।

जनानां रीतिरेवेदृशी। यदि काचित्क्रिया शुभोदर्का भवेत्तर्हि वदन्ति मया कृतेति। व्यत्यये तु दैवमुपालभन्ते, न च स्वकर्म दूषयन्ति।

कथा नवाशीती(८९)।

अश्वतरस्य।

कश्चिदश्वतरः खाशितो नातिपरिश्रमश्चासीत्। अतः सोऽल्पीयसानेहसा हृष्टपुष्टाङ्गोऽभवत्, खैरमुदपतच्च। कश्चित्तं चख्ये–“रे, अश्वसंततिस्त्वम्। सोऽपि कीदृशो वाहः, न सामान्यः, अपि त्वाजानेयोऽश्वचर्यासु जिष्णुश्च।” तद्धृदि निधाय स वेशरो निरचैषीत्—“प्रसङ्गवशान्महान्तमध्वानं लङ्घयेयम्” इति। व्यतीतेषु केषुचिद्दिनेषु तस्य खामी तमारुह्यैकदा कुत्रचिद्गुरुकार्यसंपादनाय गच्छंस्तेन जवेन धावितव्यमिति तं कशया बलवदभिजघान। तदा सोऽश्वतरो वर्त्मातिक्रमणपरोऽश्रमत्। तत आत्मन्यवज्ञां चकार—“रे, क्वेदानीं तेऽश्ववीर्यम्? व्यक्तमस्मान्न ते जनयिता वाजी,अपि तु रासभ एव।”

तात्पर्यम्।

ये पित्रोरात्मनि महत्त्वमापादयन्ति तेषां खराणां च नो विशेषः। यः किल श्रेष्ठः स खार्जितयशः संपदैव विश्रुतो भवति। यश्च खयमविक्रान्तः स एव पितृयशसा श्रेष्ठो भवितुमीहते। तत्करणे वितथप्रयत्नो भूत्वा लघुतां याति।

———————————

कथा नवती(९०)।

कीशजम्बुकयोः।

पुरा सर्वे पशवः शाखामृगं श्वापदराज्येऽभिषिषिचुः। प्राप्ते तु पश्चाधिराज्ये स कार्यविचक्षणोऽहं नीतिकुशलोऽहमिति मुधा दर्शयांबभूव। तत्पशूनामसमञ्जसं कृतमवलोक्य क्रोष्टुर्मनो विव्यथे। स कृतसंकल्पोऽभूत्—“कदापीमं वलीमुखं प्रतार्य पशून्ह्रेपयामि” इति। गतेषु केषुचिद्वासरेषु कास्मंश्चिदवटे केनापि निहितं सामिषं कूटयन्त्रं दृष्ट्वा क्रोष्ट्रा प्लवङ्गोऽभिहितः–“प्रभो, कस्मिंश्चित्स्थलेऽहं निधिमासदम्। न कोऽपि तस्य स्वामी लभ्यते। अतो देवपादानामेव तत्र खाम्यमिति तर्कये। परस्तान्महाराजः प्रमाणम्” इति। अविज्ञातव्याजः स कपिर्निधिं ग्रहीतुं त्वरते स्म। स्पृष्टमात्रे पललपिण्डे कूटयन्त्रे धृतः। तदा स मर्कटो जिहाय, क्रोष्ट्रे चातिमात्रं चुकोप। सोऽवदत्तम्—“नृशंसः पापी राजद्रोही चासि। न किमप्यत्याहितम्। निर्भरं त्वां दण्डयिष्यामि” इति। श्रुत्वैतत्क्रोष्टोच्चैरहसीत्। प्रस्थिते च तस्मिन्स परावृत्य विलोक्य सग्रीवाभङ्गं वनौकसमाह—“किंरे राजाहमिति न किं प्रकटयसि? कथमुन्मार्थं नाज्ञासीः?”

तात्पर्यम्।

नाल्पबुद्धी राज्यधुरं वहेत्। राज्यधुरि तेनोढायां स स्वार्थं जनहितमपि विहन्ति। ईदृगुच्चपदारोहणे स एव नायोग्यो यो नीतिचचुर्दक्षिणः सत्यसंघश्च। योऽमायो दुर्घर्षश्च भुजच्छायाश्रितप्रजासमयज्ञश्च। यो व्यवसायशीलः, शूरोऽप्यक्रोधनः, साधुरपि मार्दवरहितः, प्रियस्तुतिरपि वास्तवगुणानामेव यः स्तुतिमभिनन्दति, य आत्मश्लाघाद्वेषी कृत्याकृत्यपरिच्छेदकोऽदम्भी च। एवमादिभिर्गुणैर्हीींना अपि ये भूमेर्धुरमाससञ्जुस्तेषां कीदृशः परिणामोऽभूदिति पुराणेतिहासेषु सुव्यक्तं भवति। तेभ्यः प्रकृतिपीडाः समजनिषत। ये धूर्तास्तैस्तत्स्वभावं ज्ञातवद्भिश्छन्दानुवृत्त्या ते वश्यतामनेषत। लोकोपकारिकृत्येभ्यश्च तान्निवर्त्य विषयोपभोगेषु यथा ते मनो दृढं भन्त्स्यन्ति तथाकार्षुस्ते। स्वार्थं च साधयामासुः।

कथैकनवती(९१)।

शृगालवन्यवराहयोः।

कश्चिद्वन्यघृष्टिः कस्यापि महीरुहस्य प्रकाण्डाद्रौ दंष्ट्रां. निश्यन्नास्ते। तत्र यदृच्छयागतः कोऽपि फेरुस्तं पृच्छति—“रे परितो दृष्टे कश्चिदमित्रस्त्वामभियातीति न दृश्यते। किमिति व्यर्थं दंष्ट्रां निश्यसि? कोऽत्र हेतुः?” किरिस्तं प्रोवाच—“भद्र, सत्यमब्रवीस्त्वम्। परमप्यवैषि क्षण आयुधानि मृज्यात्। यतो व्यसनकालेऽवश्यमवसरो लभ्य इति को निर्णयः?”

तात्पर्यम्।

संदीप्ते भवने कूपखननं प्रत्युद्यमकारी जडमतिः। यावद्वाल्ये स्मः, यावच्च वयं पितृभ्यां चिन्त्यामहे, यावच्चासंक्रान्तसंसारभाराः तावद्विद्याभ्यसनं कर्तव्यं सर्वैरस्माभिः, येन यौवने सुखं वसेम। तथा हि। कैशोरे प्राप्तविद्याफलमुपभुयाम, अक्षगणं दमयेम, दुश्चरितेभ्य आत्मानं त्रायेमहि, रायं च संचिनुयाम, येन वृद्धाः सुखं वसेम। य आदित एवं संविधानं करोति स एवाप्रमत्तः, स एव पण्डितः, स एव पुमान्, स एव बुद्धेः प्रकामप्रागल्भ्यफलमाप्तबानिति ज्ञातव्यम्।

———————————

कथा दानवती(९२)।

लुब्धककलविङ्कयोः।

कश्चिल्लुब्धकः पक्षिग्रहणार्थं जालं प्रसारितवान्। तस्मिन्काचिच्चटका संयता। सा बहुविधं विलप्याह—“किमिदं महत्संकटं म उपस्थितम्? किं मयापराद्धम्? नाहं कस्यापि स्वर्णममुष्णाम्, नापि दुर्वर्णम्। तण्डुलकणिकार्थे किं मे वधदण्डः?”

तात्पर्यम्।

अस्मिञ्जगति न्यायप्रवृत्तिरेवेदृशी। यदि कश्चिद्वराकः किमपि लघुपातकमाचरति, स महता दण्डेन योज्यते। ये चेभ्याः प्रतिष्ठिताश्च वयमिति दम्भं दर्शयन्ति त इतरेषां कोटिसंख्यं धनं साहसपूर्वमपहृत्यापि माध्यस्थेनोत्कोचेन चादण्डिताः सन्तो महादोषेभ्योऽप्यश्रमेण मुच्यन्ते।

———————————

कथा त्रयोनवती(९३)।

शलभोलूकयोः।

कश्चिज्जरया परीतः पेचकः कस्याप्यगमस्य निष्कुहे स्वपिति। तस्यैव सालस्याङ्गौ कश्चित्पतंगोऽगायत्। घूकस्तस्मिन्क्षणे तं द्विस्त्रिर्वा प्रार्थयांबभूव—“भद्र, अपेहीतः। मायासय माम्। तव कर्णकटुखरैर्मे निद्राया भङ्गो भवति।” एतावता स शलभस्तं भर्त्सयित्वान्ते चाचुक्रोश। स आह—“गर्ह्यचरितश्चौरोऽसि त्वम्, दुःषमं वर्तसे। निशाटनस्त्वं चौरिकयोदरं बिभर्षि, दिवा च वृक्षकोटरे प्रच्छन्नः शेषे।” च्छन्नः शेषे कौशिकस्तमवदत्–“रे वाचाट, नियन्त्रय खजिह्वाम्। नो चेत्पश्चात्खिद्यसे।” तथापि स शलभ आक्रोशान्न व्यरमत्। स परिवादानन्तरं भूयोऽपि गातुमारेभे। ततो वायसारातिश्छद्मना तमस्तौत्। स आह—“आर्यचरित, क्षमख सापराधं माम्। अहमेतर्हि दृढं जाने धन्योऽसौ यस्ते गानं शृण्वञ्जागर्ति। ते मधुरखरैरधरीकृता वितन्न्रीखराः। श्रुत्व ते गानं परभृतोऽपि जिह्वीयात्। सुष्ठु विरूढस्मृतिरस्मि। मन्निकटे सुधापूर्णमेकं काचभाजनमस्ति। तस्मादेकं कंसं तेऽपेक्षास्ति चेद्दास्यामि। गायतस्ते कण्ठः शुष्क इति तर्कयामि।” शलभ उदन्याव्याकुलीकृतो दिवाभीतसकाशात्त-त्पीयूषं पिबेयमिति महत्याशया कलितस्तमभिससार। आगत एव तस्मिन्नुलूकेनोत्क्षिप्य स न्यगीर्यत।

तात्पर्यम्।

भिन्नरुचिर्हि लोकः। यदेकस्मै रोचते तदन्यस्य नेष्टम्। अतोऽनिच्छता केनचित्सकृद्विवारं प्रार्थनायां कृतायामपि तस्यार्दनमसांप्रतम्। तमुपद्रुत्य तेन सह कलहस्तु केवलं दुर्वृत्तत्वम्। एवं स्थिते य एवमाचरन्ति तेषु पीडितैर्दण्डितेषु न विस्मेतव्यम्।

———————————

कथा चतुर्नवती(९४)।

एकाक्षिविकलस्यैणस्य।

कश्चिदेकाक्षिविकलो मृगो नित्यमब्धितटे चरन्नास्ते। स मेने चरतो मम काणमक्षि जलाभिमुखं दत्तं चेद विकलमक्षि च स्थलमभितो दत्तं चेद्धातयिता संनिहितः सञ्ज्ञास्यते। एवमरिष्टनिवारणोपायं संविधायात्मानमकुतोभयमजीगणत्। कश्चिन्मृगवधाजीवश्चिरं तब्दद्धलक्ष्यस्तं नासादयत्। ततः स नावमारुह्य सुगुप्तं जलतोऽभ्युपेत्य तं गुलिकाप्रक्षेपेण जघान। प्राणोत्क्रमणवेलायां स मृग आह—“भो विधे! अनधिगम्यं ते विलसितम्। यत्राहमितो मे भयमित्यजानां तस्मान्नाहं विद्धः अपि तु यत्र नो भयमित्यहमबोधं तयैव दिशा मे निधनं जातम्।”

तात्पर्यम्।

मध्यमलोकेऽस्मिन्स्थितिर्नानाविधभयाकीर्णा। न तैरुपस्थातव्यमित्यरिष्टनिवारणोपायेषु कृतेष्वपि निर्भीकैरस्माभिर्नो भाव्यम्। प्रपञ्चेऽस्मिन्नागमनस्य मार्ग एक एव। निर्गममार्गास्त्वसंख्याः। तत्रास्माकं विमृश्यकारित्वं कियदुपकरणीभवेत्। यान्विघ्नान्वयं बोधामः, ये वा गोचराः भवन्ति, तेभ्यस्त्राणं विदध्याम। परं येऽगोचरा यांश्च वयं नावबुध्यामहे, ते शतशोऽस्मान्संवृण्वन्ति तेभ्यः कथं मुञ्चामहे? अनया दिशैवं बोद्धव्यम्। विशङ्का वयमिति न मन्तव्यम्। सभया इति मत्वा वा निर्भयत्वसंपादने नात्यर्थ व्यवस्येत्। यन्निर्भयत्वं नास्माखधीनं तदहर्दिवं भयस्य चिन्ता मौर्यम्। नेदमुचितं विवेकशीलस्य नृजातेः।

———————————

कथा पञ्चनवती(९५)।

नदीमत्स्यसागरमत्स्ययोः।

कश्चिन्नदीमत्स्यः पूरस्य प्रबलरंहसा नदीमुखेनाकूपारमविशत्। नूलप्रदेशमवतीर्णः स तत्स्थलनिवासिनः शकुलिनस्तृणायामंस्त। स तानाहः—“मम देशो मम वंशोऽभिजनश्च युष्मभ्यं प्रशस्यतरोऽस्ति। अतः सर्वे यूयमुच्चपदं ग्राहयित्वा मां संमानयितुमर्हथ। ततो नातिदूरे ‘हलवा’ इति ख्यातो मत्स्यविशेषस्तमुवाच—“रे मा मैवं वद। कदाचिदेकस्मिन्नानाये त्वमहं च यदि बद्धौ स्याव, तर्हि कः श्रेष्ठपदाधिकारीति ज्ञास्यसि? श्रीमन्तो बहुमूल्यदानेनापि मां भक्षणार्थं क्रेष्यन्ति। त्वं त्वत्पपण्येन दरिद्रेभ्यो विक्रेप्यसे। अर्धव्यतिरेकेणापि वा दास्यसे।”

तात्पर्यम्।

विदेशं गत्वा यस्तत्स्थलं निन्दति खनीवृतं वा प्रशंसति सोविमृश्यकारी। सर्वस्य खखदेशे सहजः प्रेमा, यदि वयं परदेशं धिक्कुर्मः, खदेशं च स्तुमः, तर्हि तद्देशीया अस्मान्निषिध्य खदेशं प्रशंसिष्यन्ति। वस्तुतो देशश्रेष्ठत्वं नास्मानुच्चत्वमावहत्यन्तरङ्गगुणा एवावश्यकाः। यस्मिन्कस्मिन्नपि देशे पुमान्निवसतु, यो विद्वान्गुणी च स सर्वत्र पूज्यते।

———————————

कथा षण्णवती(९६)।

विदुषोः।

अर्हन्तीचणं कमपि विद्वांसं क्रीडन्तं विलोक्यान्यः कश्चिद्धीमांस्तं परिजहास। तस्य स्मयं दूरीकर्तुं प्रथमो धनुरेकमानाययत्। अपनीतज्यं समरेखं च तत्कृत्वा भूमौ विचिक्षेप। ततः सोऽन्यं कृष्टिमाह—“यदि त्वमिमं कूटप्रश्नं विवृणोषि यथार्थनामा विचक्षणस्त्वम्। “स दूरदर्श्यपि व्याख्यातुं नाशकत्। ततः स प्रथमं प्राह—“नाहं जानामि, व्याख्याहि त्वमेव।” प्रथमोऽवदत्–“न त्वंजानासि? कथयेऽहम्। शृणु। यदीदं धनुर्नित्यं नमितमाशु भङ्मयति, यदि पुनः सति प्रयोजने नामितं चिरं स्थास्यति, अधिकं च कर्म कारयिष्यते।”

तात्पर्यम्।

पुंसो मनो धनुःसदृक्षम्। अदः सदा कर्मणि व्यापृतं चेन्निःसारं भूत्वानुपयुक्तं स्यात्। अतः क्रीडनविहाराश्चित्तमपगतक्लमं कुर्वन्ति। शेमुष्यै तैक्ष्ण्यं च ददति। यद्यमी दोषरहिताः, तर्हि प्रसङ्गवशान्महद्भिरपि सुखमाचरितव्याः।

———————————

कथा सप्तनवती(९७)।

काकोलकलरवाणाम्।

कस्यांचित्कपोतपालिकायां पारावता न्यवसन्। तेषां वृन्दं कश्चिद्रोणकाको बर्हाणि श्वेतीकृत्य विवेश। मौनमास्थितं तं पारावता न लक्षयामासुः। अनेन क्रमेण बहवो घस्रा व्यतीयुः। ततः कस्मिंश्चिद्दिने स काकोलः किं रूपमङ्गीकृतं मयेति विस्मृत्य रवितुमारभत। ततस्ते कपोताः संजातजातिप्रत्यभिज्ञास्तं प्रहृत्य विवासयामासुः। स पुनर्ज्ञातिवृन्दं निववृते। तस्य किर्मीराणि पिच्छानि दृष्ट्वा नायमस्मदीय इति तज्ज्ञातयोऽपि तं निःसारयामासुः। एवमविद्यमानां योग्यतामात्मन्यारोपयितुं यतिष्णुः स काकोलो विद्यमानामपि हारयित्वाऽकाकोलोऽकपोतश्चाजायत।

तात्पर्यम्।

ये छद्मवेषं धारयन्ति ते लोकान्न चिरं वञ्चयितुं प्रभवन्तीति हर्षस्थानम्। तेषां छद्मवेषधारिणां वचस्याचारे तद्वेषस्याननुगुणं किमपि न्यूनाधिक्यं दृग्गोचरं भवति, येन तेषां कैतवं दोषज्ञाः सद्यो जानन्ति।

———————————

कथाष्टनवती(९८)।

वराहीसरमयोः।

यदृच्छासंगते वराहीशुन्यौ काशुप्रसवेति व्यवदेताम्। ततः शुन्याह—“प्रतिप्रसवमहमुरूनर्मकान्सुवे। सूतिकालश्च न दीर्घः। “सूकर्याह—“हला, सत्यमेतत्। परं प्रसवे प्रसवे प्रसूतिं प्रत्युत्का भवसि। अतस्तेऽर्भका जननकाले दृष्टिहीनाः। नाहं तथा।”

तात्पर्यम्।

संभ्रमकृतकर्मणो वैकल्यमस्त्येव।

———————————

कथा नवनवती(९९)।

चटकाशशकयोः।

कश्चिद्गरुडः शशमेकं कृकाटिका ग्रहणेन रुरोध। तत्र तदभ्यासवर्तिनि कस्मिंचिदनोकहे समासीना काचिच्चटका तमाह—“रे, त्वमतीव विचारमूढः। धिक्ते जीवितम्। रे, त्वं निष्क्रियः सन्किमात्मानं व्यर्थ घातयसि? उत्तिष्ठ। धाव च। यदि यतसे, तर्हि चपलजातिस्त्वमरेर्हस्तान्मोक्ष्यस इति मे भाति।” इत्थं सनिकारं तस्यां वदन्त्यामेव कश्चिच्छशादनोऽवपत्य तां नखैरुदनयत्। तस्मिन्क्षणे सातिमात्रं विललाप। परं तस्मिन्नदत्तावधानः श्येनस्तां गृहीत्वाचालीत्। दृष्ट्वा तच्छशो मृतिकाले समाहितचित्तस्तामवदत्—“अये, आत्मानं सुस्थां मन्यमाना भवती मामधिचिक्षेप। सा त्वं तेनैव भयहेतुनाक्रान्ता पश्यामि कथमेतर्हि वर्तसे?”

तात्पर्यम्।

ये परोपदेशे पण्डिताः, येषां च समापतिते व्यसने बुद्धिर्भ्रश्यति, त उपहस्यन्ते।

———————————

कथा शती(१००)।

नृपदासेरयोः।

ग्रीष्मर्तावेकदा कश्चिद्राजोपशल्येऽटित्वा निवर्तमानः पथि स्थितं खोद्यानं विवेश। नानाविधवृक्षशबले तदुद्याने तत्तद्रुमाणां रुचं विलोकयतीतस्ततो भ्रमति तस्मिन्नभ्यर्ण वर्तमानः कश्चिद्दासः परिहितसुचैलो हस्ते मालिकस्य सेचनघटं गृहीत्वा यत्र राजास्थात्तस्मिन्नुद्देशे सेकमकरोत्। स मनुते स्म—“विक्रीतो दासोऽस्याहम्। जातु राजा म आस्थायुक्तां शुश्रूषामवलोक्य प्रसीदेत्, प्रेष्यभावाच्च मां विमोचयेत्।”ततो यत्र यत्र राजागच्छत्तत्र तत्रापथिभिर्गत्वा सेचनं व्यधात्। तदनधिकारचर्ची राजा ज्ञात्वा तमाजुहाव। आह्वानसमकालमेव द्रुतमागत्य स आशाबद्धो राज्ञः पुरतस्तस्थौ। तदा राजा तं वदति—“रे, उचितं कर्म विहायैतावन्तं कालं किमात्मा व्यर्थमायासितस्त्वया? नासीत्किमपि प्रयोजनमस्य व्यापारस्य। अस्य कालस्य क्षेपः साधीयसि कर्मणि युक्ततरः व्यपोहामि तर्हि ते शङ्काम्, मत्तो न त्वं सफलाशो भविष्यसि।”

तात्पर्यम्।

किमपि कार्यमनुरुध्यमाना अत्युपचारवन्तोऽन्येषां चित्तं य आराधयन्ति ते यथा यथान्यं प्रसादयितुं यतन्ते तथा तथा सुज्ञास्तान्द्विषंति। न ते स्वार्थं साध्नुवन्ति। प्रतीपं तेषामुद्यमश्च निष्फलो भवति।

———————————

कथैकोत्तरशती(१०१)।

मेषादस्य कृतघ्नस्य शुनः।

कश्चिदजाजीवः खश्वानमतीव विश्वसिति। यदा स बहिर्गच्छति तदौरभ्रकं तदधीनं कृत्वा गच्छति तं विश्वासैकभूमिं कृत्वा विगतचिन्तस्तिष्ठति च। तेन शुना सोत्साह सेवितव्यमिति तेन नवनीतमसृणां पौलिकामादयत्, तेन सार्धं चाटूक्तिभिश्च कथा अकार्षांत्। एवंस्थितेऽपि खामिनः परोक्षे स मेढ्रं हत्वा खादति। दिनेषु गच्छत्सु विदितमेतत्खामिना। ततो वध्यस्य तस्य वधे प्रायुङ्क्त। तदा श्वा तं भणति–“भोः खामिन्, मां घातयितुं नार्हसि। पश्याहं ते दीनश्चिरंतनो भुजिष्यः। अजानता मयैकं द्वे वागसी कृते। तेन निस्त्रिंशो भूत्वा मे वधे तव प्रवर्तनमनुचितम्। वृकः सदा बद्धवैरस्त्वया। तस्मिन्किं न वैरं निर्यातयसि?” जाबालः प्रत्युवाच–“रे शठ, वृकाच्छतगुणं दण्डं त्वमर्हसि। यतोऽहं दृढमवैमि वृको मामपकरिष्यतीति। अतस्तद्विषयेऽहं सावधानो भवामि। परं त्वं मम विश्वास्यो गोप्यकः। त्वद्विश्रम्भादहं प्रमत्तोऽस्मि। त्वां परमान्नैः पुष्णामि। स त्वमपकरोषि चेत्सुदुःसहमदः। तव कृतघ्नत्वं क्षन्तुमनर्हम्।”

तात्पर्यम्।

यं वयमुपकुर्मः, यं च वयं विश्वसिमः, येन सह मित्र

त्वेन प्रवर्तामहे, तेन दत्तं विकारं न सहामहे, तं च न क्षमामहे। तस्य शाठ्याद्यद्दुः खं भवति तस्य शतांशेनापि दुर्हृदकृतादपकारान्न। अत ईदृशस्यापराधिनो दण्डसमये न्याय्योऽयमन्याय्यो वेति न वयं विचारयामः। परं चात्मनो व्यथानुरूपं दण्डं विदध्मः।

———————————

कथा ब्युत्तरशती(१०२)।

चौरशुनोः।

संधिं छेत्तुं कस्यचिदिभ्यस्य निशान्तं कश्चित्कुम्भीलक. आजगाम। तमागतं वीक्ष्य द्वाःस्थः श्वा बुबुक्क। ततः स पाटच्चरोऽभ्यूषशकलं तमुद्दिश्यास्यत्। तमगृहीत्वा स तमुवाद–“रे, प्रथममहं समशयि यद्विगाढायां रजन्यां त्वमत्रागतः, तत्त्वं कोऽपि दुर्जनो भवसीति। त्वं चापक्कमुपप्रददिथ। तेन ते खलत्वमिदानीं निश्चितम्। अहं मम खामिनो द्वारि स्थित्वा तस्य पस्त्यं रक्षामि। अतो यावत्त्वमस्य संनिधौ स्थास्यसि तावदहं भषिष्यामि। मात्र संदिग्धि। यथागतो गच्छ तावत्।”

तात्पर्यम्।

ये कार्यसाधकास्ते मूर्खान्खार्थप्रवणान्वोपप्रदानैर्वशीकर्तुं प्रभवन्ति। परंतु ये धीराः खामिभक्ताः सच्चरिताश्च त उपदाभिर्न वशीक्रियन्ते।

———————————

कथा त्र्युत्तरशती(१०३)।

परिवादिनीवादकस्य

कश्चित्परिवादिनीवादको गङ्गायां गानवादनाभ्यां मद्यपानरञ्जयामास। तेषां प्रशंसावादाञ्श्रुत्वा सोऽचिन्तयत्—“एकदा संगीतगृहं गत्वात्मनो गुणं प्रदर्श्य धनकीर्ती सममेवानुयाम्” इति। तस्यैौत्सुक्यं दृष्ट्वा रङ्गाजीवाः संगीतशालां तं निन्युः। तत्र स्थलगौरवाज्जनसंमर्दाच्च तस्य कण्ठोत्थितः खरस्तन्रीखरश्च लुप्तो नाश्रूयत। येऽभ्यासवर्तिनस्ते शुश्रुवः। परं श्रुतगायकवादकाचार्यगीतवादनानां तेषां तस्य गानवादने विखरे ग्राम्ये च बभतुः। ततस्तैररुच्यां दर्शितायां सर्वे धिग्नमिति वदन्तस्तमवाधीरयन्त, शालाया निरवासयंश्च।

तात्पर्यम्।

ये प्रशंसकानामज्ञानां वा प्रशंसावचनैरात्मनि गौरवमा-पादयन्ति ते लोक उपहास्यतां यान्ति। कश्चिन्नर्मसचिवोऽज्ञानल्पसमाजे रञ्जयितुं प्रभवति। स किमभिरूपभूयिष्ठां परिषदं वचनैराह्लादयेत्? अतो रञ्जनविधावनादरः सन्नात्मनो योग्यतां श्रोतॄणां च योग्यतां येन गुणेन रञ्जयितुमि च्छामस्तस्मिन्खस्य चाञ्चवं सर्वमेतन्निपुणं परीक्षणीयम्। नो चेत्कृतं सर्वं निष्फलं भवति। अन्यच्च लोका उपहसन्ति।

———————————

कथा चतुरुत्तरशती(१०४)।

कुलीरयोः।

कर्कटाः स्वभावतस्तिर्यग्यानाः। एकदा काचित्कर्कटी खदुहितरं संतर्ज्योवाच—“कुत इयं लोकविद्विष्टा गतिरादृता त्वया? मुञ्चेमाम्” इति। दुहिता वदति—“मातर्, बुद्धिसामर्थ्यमनतिक्रम्य यत्साध्विति मे भाति तदहमनुतिष्ठामि।

यद्येतत्ते न रोचते तर्हि कथं मया गन्तव्यमिति त्वं मे दर्शय। तदन्वहमपि तथा गच्छामि।”

तात्पर्यम्।

यस्मिन्कस्मिन्नपि विषये परं दूषयामस्तदेव च खयमाचरामः। किं चित्रमस्मात्? परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्। परं यस्योपदेशानुरूपं स्वीयमनुष्ठानं स एव पण्डितः। न तु स यः केवलमुपदेशचतुरः।

———————————

कथा पश्चोत्तरशती(१०५)।

बालदस्वोः।

कश्चिद्वालस्तस्करमेकं निशाम्य वापीतटे परिदिदेव। मोषकस्तं पप्रच्छ—“बाल, किं रोदिषि?” ततो बालः सफूत्कारं दीर्घमुष्णं च निश्वस्याब्रवीत्—“मम रूप्यामत्रं रजत्रोटनेन वाप्यां पपात। किमहं करोमि? पितरौ मां दण्डयिप्यतः।” श्रुते तद्वचसि तस्मिन्नेव क्षणे स पाटच्चरः खलोप्वं परिहितवाससी चावतार्य वापीतटे न्यक्षैप्सीत्। वापीमन्तरवतीर्यानल्पं कालं पात्रमन्वियेष। ततोऽलब्धभाजनो निराशीभूतो निष्क्राम्य यावत्पश्यति तावत्स सभाण्डकपरिहितवासा बालकोऽदर्शनतामयासीत्। सर्वे तदादाय बालः पलायांचक्रे I

तात्पर्यम्।

येऽन्यान्वञ्चयित्वा स्वार्थं साधयन्ति, तेऽपि कदापि प्रतार्यन्ते, विद्यमानं हार्यन्ते च।

कथा षडुत्तरशती(१०६) ।

आरण्यकप्रचेतसोः ।

कस्यचिद्वनवर्तिनो नदीरोधोवर्तिनमनोकहं लुनतो हस्तात्सहसा निःसृतः कुठारो जलमभजत् । ततः स शुशोच । मुक्तकण्ठं चारोदीत् । तस्य विलापं श्रुत्वा वरुण आविरासीत् । तं वनस्थः शोककारणमचकथत् । तदा पाशी जलान्तः प्रविश्य शातकौम्भं खधितिं हस्तेनादायोदमज्जत् । तं वनवासिने दर्शयित्वा पृच्छति—“रे, किमयं ते परशुः” स उवाच—“नायं मदीयः” इति । ततो भूयोऽपि निमज्ज्य राजतं व्रश्चनमुदधरत् । तं दृष्ट्वा “नायमपि मम” इत्यरण्यसदुवाच । तृतीयोन्मज्जने विपिनचारिणो नष्टां वृक्षादनीं गृहीत्वोदगच्छत् । तां स मुदा खीचकाराप्पतिमुपकारिणममंस्त । तदा वनचरस्याजिह्मव्यवहारदर्शनेन संतुष्टो यादसांपतिस्तपनीयराजते द्वे अपि कुठारे तस्मै पारितोषिकत्वेन ददौ । उदन्तमेनं तस्य सः श्रुत्वा सरितं गत्वा हस्तस्थितं कुठारं बुद्धिपूर्व कबन्धेऽपातयत् । कुठारनाशं सत्यीकृत्य च परिदेवितुं प्राक्रमिष्ट । तच्छ्रुत्वा यथापूर्वं प्रचेता अधितष्ठौ । स निमज्योन्मज्य सौवर्णं परश्वधमानयत्तं वनौकसमन्वयुङ्क्त च–“किमयमेव ते कुठारः?” अष्टापदनिर्मितं तं दृष्ट्वा तस्य बुद्धिभ्रंशो जातः । स प्रचेतसमाह—“बाढमयमेव मम कुठारः।” एवमुक्त्वा लोभेन पाशिनो हस्तात्तमादातुं प्रवृत्तः । अत्रान्तरे स तं संतर्ज्य सौवर्णकुठारमदत्त्वा तस्य कुठारमपि तस्मै न ददौ ।

तात्पर्यम् ।

प्रायोऽनीत्याचरणप्रवणानि मनांसि जनानाम् । जगत्य

स्मिन्धौर्त्स्न्येन वर्तितव्यमिति बहून्हेतूनेके कथयन्ति। ब्रुवन्तु ते किमपि। परं वस्तुत आर्जवतुल्यो नास्ति प्रधानो गुणः। पश्येह दक्षिणे जन एव सर्वकार्याणि निक्षिपामः। तमेव महाजनं मन्यामहे। परलोकप्राप्तिहेतुत्वेन केषामपि शास्त्रेषु सत्यशीलता न प्रशस्यति इति न। अत एव मायाहीन इहामुत्र च पूज्यो भवति।

———————————

कथा सप्तोत्तरशती(१०७)।

विरुवतो रथाङ्गस्य।

कस्मिंश्चिद्यन्तरि रथं वाहयति तस्य स्यन्दनस्यैकं चक्रं व्यरौत्। आकर्ण्य तच्छब्दं स व्यस्मेष्ट। तच्चक्रं पृच्छति च–“रे, अन्यानि चक्राणि न विरुवन्ति त्वमेव किमिति विरौषि?” तदुवाच—“अतीवाहं क्लिश्ये। अविषह्यं तद्दुः-?” खमतो रोदिमि।”

तात्पर्यम्।

दुःखावेगं निगृह्य यो लोकेभ्यो दैन्यं न विवृणोति तं धीरं मत्वा लोकास्तस्मिन्निह्यन्ति। यः पुनः “हा कष्टम्,धिक् कष्टम्” इत्युदीर्य दैन्यं प्रकाशयति, स लोकेभ्यः साहाय्यमप्राप्य खलघुतामेव प्रकटयति।

कथाष्टोत्तरशती(१०८)।

वृकवर्करयोः।

कश्चिद्वर्करस्तृणौकःपटलमारूढोऽधस्तात्तिष्ठन्तं वृकमैक्षिष्ट। अथ तं समाचुक्रोश च। ईहामृगस्तमभिदधे–“रे नीच, इमानि वचांसि मे मनो दुन्वन्तीति मा मन्यख। अहं जानामि न त्वममूनि दुष्टवचांस्युदीरयसि। परं तवाश्रयभूतमिदं कुटीरमिदं वक्ति।”

तात्पर्यम्।

अभिशापयुक्तं निःषमं यो वदति स आत्मनो लघिमानमेव प्रकटयति। आश्रयवशात्कर्हिचिदभद्रभाषी कोऽपि न साक्षाद्दण्ड्यते। अनेन दण्डाभावेनाहं महानिति न स गणयेत्। यद्यपि शारीरो दण्डस्तेन नानुभूतस्तथापि मानहानिजतेति न किं दण्डः? अतो य ईदृशात्पामरादवमानं प्राप्तः, स न संज्वरेत्। स चिन्तयेत्—“नेदमवमन्तुः सामर्थ्यम्, अपि त्वाश्रयस्य। तथा यः कोपि परोक्षेऽस्मान्निन्दति तस्य कुत्सां श्रुत्वा न संतापः कार्यः। मन्तव्यं स विवर्णः प्रत्यक्षे वक्तुं बिभेति ततः परोक्षवादी” इति।

————————————

कथा नवोत्तरशती(१०९)।

सदसद्दर्शिनः केसरिणः।

कश्चन सिंहः श्वापदमेकमतहत्। तस्मिज्जिघत्सति च तेनैवाध्वना गच्छन्नेकः प्रतिरोधिः पुर आगत्य तं जगाद—“हरे, तवार्धं मम चैतस्य।” केसर्याह—“रे धृष्ट, असति संबन्धे निर्लज्जो नामांशं याचितुमागतोऽसि। तूष्णीं तर्हि वर्त्मना गच्छ, नो चेद्धन्यसे।” ततः स परिस्कन्दिस्त्रपावनतमुखोऽपि ससार। अत्रान्तरे तयैव पद्यया गच्छन्कश्चित्साधुः सिंहं दृष्ट्वा भीतस्तं पन्थानं वर्जयित्वा परतोऽन्यथा वर्त्मन्या गन्तुं प्रववृते। तदा सिंहस्तं सादरमाहूय भणति—“रे, मा बिभीहि। त्वं साधुसमाचारोऽस्यांशमर्हसि। आयाहि तर्हि। एनं सत्त्वं विभज्य खादाव।” एवमुक्त्वा सिंहस्तत्सत्त्वं द्विधा विभज्यैकं भागं तस्मै साधवे समवशेषयत्, अन्यं च भक्षयित्वा वनमगाहत।

तात्पर्यम्।

उचितमेव विपश्चितां यत्ते साधून्विनयशालिनो गुणिनचाद्रियन्ते। ये धृष्टाः प्रियवादिनः पिशुना वाचाला दुर्विनीताश्च तेषां वासो न देयः। यश्चाधिकारे स्थितः स तु गुणिनां संग्रहे त।

———————————

कथा दशाधिकशती(११०)।

वृकच्छगलकपोतयोः।

काचिच्छागी तर्णितुं बहिर्जिगमिषन्ती पोतं व्याहार्षीत्—“रे, द्वारमर्गलेन पिधेहि। यावदहं दिनान्ते प्रत्यागच्छामि, तावन्मापावृणु कस्यापि कृते।” ततोऽदूरवर्ती कश्चिद्वृकः श्रुतसंदेशोऽजायां यातायां मुहूर्तेन द्वारमभिजगाम। तस्याः स्वरसंवादं विडम्बयन् “जात, उद्घाटय द्वारम्” इत्यलपत्। अजाशिशुर्मात्राज्ञानुरोधेन वातायनगतो यदा ददर्श, तदा कपटमलक्षयत्। ततः स वृकं व्याहरत्—“रे, अपेहि। अजेव शब्दायसे खलु, परमाकारस्ते वृकत्वं संभावयति। नाहमतो द्वारमुद्घाटयामि ते।”

तात्पर्यम्।

ये बाला मातापित्रोर्निदेशान्हृदि संस्थाप्य ताननुरुध्यन्ते ते व्यसनैर्नाभिभूयन्ते। ज्यायसो विश्वस्यादित्यस्यायमेव हेतुर्यत्ते खापत्यानामशुभचिन्तका न भवन्ति। किमिति। यद्वालानामशुभं तत्तेषामप्यशुभम्। अन्यच्च वयोधिकास्ते कृत्याकृत्यं हिताहितमधिजानन्ति। एवंभूतौ मातरपितरौ येनानुरुध्यन्ते, ते शर्मभाजो नैव भविष्यन्ति।

———————————

कथैकादशाधिकशती(१११)।

वृकशृगालवलीमुखानाम्।

कमपि शाखामृगं मध्यस्थं कृत्वा तस्याग्रतो वृकः शृगालं स्तेयेनाभियुयोज। कुतूहलिनोऽन्ये पशवोऽपि न्यायसभां समीयुः। ततो वृकस्य प्रतिज्ञाक्रियानन्तरं शृगाल एकेनैवोत्तरेण प्रतिसमादधौ। स आह—“नाहं वृकस्य वस्त्वमोषिषम्।” अथ प्रतिज्ञोत्तरक्रियाः सम्यग्विविच्य कीशः संक्षेपेणाख्यत्। स वृकमुद्दिश्याह–“रे, त्वत्स्वामिकं वस्तु किमपि न नष्टम्। शृगालमधिकृत्याहास्य निक्षेपमपजहर्थ त्वम्। नात्राहं संशये।” एवमुभावपि कूटकृताविति निश्चित्य सभा विसृष्टा।

तात्पर्यम्।

य एकदा कुहक इति विश्रूयते तं न कोऽपि प्रत्येति। वृकः परद्रव्यापहारकः शृगालश्चात्यन्तप्रतारक इति सुप्रसिद्धम्, अत एव व्यवहारनिर्णयस्तथाक्रियत।

———————————

कथा द्वादशाधिकशती(११२)।

देवरासभयोः।

कस्यचिन्मालाकारस्य चक्रीवानतिभारं वाहंवाहं श्रान्तः। स नारायणं गत्वा विज्ञापयामास—“भोः कारुण्यनिधे, दत्खान्यं खामिनम्” इति। भगवांस्तं कुम्भकाराधीनमकुरुत। स तेनेष्टकाभारानवीवहत्। खरोऽनेनाप्यसंतुष्टहृदयो भूयोऽपिगत्वा भगवन्तं व्यजिज्ञपत्—“दीनबन्धो, कुलालात्साधुतरं प्रभुं देहि” इति। ततोऽच्युतस्तं पादूकृते ददौ। तन्निलये वसन्स निर्भरमन्वशयिष्ट, आत्मन्यचिन्तयच्च–“पश्यत मे मौर्व्यम्। अयं चर्मकारो द्वाभ्यामपि क्षोदीयान्। यतोऽसौ जीवन्तं मां कर्म कारयित्वा संस्थिते मयि मम चर्मापि ग्रहीष्यति।”

तात्पर्यम्।

विद्यमानावस्थायां खिन्नो नाम भूत्वा नव्यायां स्थित्यां सुखतरं वत्स्याम इति मन्यमाना देवानां प्रियाः। सर्वाखचस्थासु सुखदुःखमस्त्येव। तस्मात्पुंसा वर्तमानावस्थायां संतुष्टेन भवितव्यम्। यतः प्रत्यग्रायां सुखमेव लप्स्यामह इति को निश्चिनुयात्? कदाचिदधिकं दुःखमपि संपत्स्यते।

———————————

कथा त्रयोदशोत्तरशती(११३)।

मातापुत्रयोः।

कश्चित्कुमारोऽध्ययननिमित्तेन कामपि पाठशालां जगाम। स एकदा सहाध्येतुः किमपि वस्तु मुमोष। तच्च खमात्रे गृहमानीय ददौ। सा बालं दण्डयेत् परं तदकृत्वा तत्कृत्यं प्रशशंस। तस्मै बहुबीजं फलं भक्षणार्थं ददे। अनेन स यथा यथा ववृधे, तथा तथा महार्हद्रव्यस्तेये व्यापृतोऽभूत्। स एकस्मिन्काले चोरयन्रूपाभिग्राहितोऽबध्यत। उद्बन्धनेन घातयितुं राज्ञो रक्षापुरुषैर्वधस्तम्भं निन्ये। तत्कौतुकदर्शनाकृष्टो महानासीज्जनसंमर्दः। तत्र तस्य माताप्यागत्य दीर्घा यतं च निश्वस्य शुशोचैनम्। दृष्टायां तस्यां स राजपुरुषानभ्यर्थयत–“भो दयालवः पुरुषाः, अस्मिन्काल एकवारं मातरं द्रष्टुं मामनुजानीत।” निशम्य तत्ते दयार्द्रीकृतास्तां तदुपकण्ठमाजुहुवुः। तदा स महतावेशेन सामर्षं तस्याः कर्ण दर्दश। ततो जनानामुच्चावचाः प्रलापा अभवन्–“अहो कथमयं जाल्मः। पश्यत पश्यत, वधकाल आसन्नेऽपि महत्पातकमिदमाचरितममुना।” स प्रत्याह—“सज्जनाः, शृणुत मेऽभ्यर्थनाम्। यदीमां मे मातरमहनिष्यं संप्रति, नाहं दोषेणालेप्स्ये। कुत इति पृच्छन्ति चेद्भवन्तः शृणुत। पूर्वे वयसि विद्यमाने मयि पाठशालातः सहाध्यायिनः कस्यापि वस्तु मोषित्वागतं मां तदैव यदीयमदण्डयिष्यद्बहुबीजं च नादास्यत्, किमाप्स्यमीदृशीं दशाम्?”

तात्पर्यम्।

माणवका जडा दुश्चेष्टिताश्च भवन्ति। तस्य हेतुः प्रायशः प्रसूजनयित्रोर्लालनमस्ति। आर्द्रमृद्घटस्य कर्णो यथा नाम्यते तथा नमति। तथा पूर्वे वयसि बालस्य मतिर्यस्मिन्पथि प्रवर्त्यते तं पन्थानं न सा मुञ्चति। अतएव जनयित्री वा पिता वा ये वा गुरुजनास्ते तस्य शिष्टानुदर्शिते पथि प्रवर्तनेऽनलसा भवेयुः। इदमप्रौढवयस्येव कर्तव्यम्। यतः प्रौढवयस्के तस्मिन्दुर्गुणो लक्षव्ययेनापि न नाश्यते। ततो यद्यत्पापं स आचरिष्यति, तस्य दोषोऽमुत्र गुरुजनेष्वेवारोपयिष्यते।

———————————

कथा चतुर्दशाधिकशती(११४)।

वृकरुग्णगर्दभ्योः।

काचिद्रासभ्यस्वस्थशरीराभवत्। साविलम्बितं मरिष्यतीति प्रसृतां वार्तां श्रुत्वा द्विचतुराः कोकास्तां कुशलं प्रष्टुमायन्। ते निकाय्यप्रतीहारभूमौ स्थित्वा प्रच्छन्नाः सूक्ष्मं निरीक्ष`माणा मवपृच्छन्–“किमस्ति तत्रभवत्या विशेषः?” तच्छ्रुत्वा तस्याः पुत्रो बहिरागत्यावोचत्—“यादृशीमवस्थामार्याया भवन्त इच्छन्ति तादृशी नाद्यापि जाता।”

तात्पर्यम्।

रोगार्तं प्रति दिदृक्षवो ये समायान्ति तेषु प्रीतियुक्तचेतसागच्छन्तो विरलाः। स्वार्थापेक्षापरा बहवः।

———————————

कथा पञ्चदशोत्तरशती(११५)।

शलभपिपीलिकयोः।

एकदा निदाघे वामलूरस्य हिरुग्धान्यं समाहरन्तीषु तदातपे तापयन्तीषु पिपीलिकासु क्षुधितः क्षामक्षामः कश्चिच्छ—लभस्तमुद्देशमवाप। स दैन्यपरीतमुखोऽयाचत–“आर्याः,एकमपि तण्डुलकणं दत्त्वा मे प्राणान्संधारयत। महत्पुण्यं संचिनुयात्।” तदा काचित्पुत्तिका तमवदत्–“अयि दुर्मते, धान्यसमुच्चययोग्ये काले यथा वयं धान्यं समचिनुम, तथा किमिति न त्वं समचिनोः?” सोऽब्रूत—“भक्षणपाननृत्यविनोदेषु कालो मे व्यत्यैत्। उत्तरकालचिन्ता नैव मे हृदि लेभेऽवकाशम्।” तच्छ्रुत्वा सा प्राह—“तात, यद्येवं तर्हि कात्र गतिः? ये न दूरदर्शिनः खादनपीतिविनोदैः कालं नयन्ति तेऽन्तेऽशनाभावेन म्रियन्ते।”

तात्पर्यम्।

यौवनेऽप्रमत्तो भूत्वा यो वित्तं संगृह्णाति स वार्द्धक्ये विषादेन नाक्रम्यत इति समक्षं पश्यन्तोऽपि केचिद्यौवनोपार्जितानि वित्तानि व्ययीकुर्वन्ति। किं तेषां मनसि? अपि ते चिन्तयन्ति, विकलेषु गात्रेष्विष्टवस्तूनि व्योम्नः पतिष्यन्तीति? यद्यपि पुत्रा बन्धव आप्ता वा पश्चिमे वयस्यस्मान्पुष्णन्ति, प्रसादेन वयं जीवामः। अपि च, पुत्रादय आत्मानमविभज्य वत्स्यन्ति, गुरव इति भक्तिप्रह्नाः सन्तोऽस्मान्सेविष्यन्त इति को निर्णयः? अतो द्रव्यं संगृहीतं चेज्जरस्युपकरिष्यति। तस्माद्वितीये वयस्येव तत्संगृह्णीयात्।

———————————

कथा षोडशोत्तरशती(११६)।

खरसिंहकुक्कुटानाम्।

एकत्र चरतोः खरताम्रचूडयोः कश्चित्सिंहः समापेदे। संमुखायान्तं तं दृष्ट्वा कुक्कुट उच्चै रुराव। सिंहः कृकवाकुरावाद्विभेति, अतः कर्णपथं प्राप्ते तद्रवे सत्वरं हरिः परावर्तत। दृष्द्वैतद्गर्दभश्चिन्तयामास—“मत्तो भीतिमुपेत्य सोऽपाद्रवत्” इति। ततः सरभसं स केसरिणमन्वियाय। कुक्कुटरुतान्तरमतिक्रम्य गते तस्मिन्मृगेन्द्रः परावृत्य रासभं कण्ठे चकर्ष। तत्क्षणे खर आत्मन्यचिन्तयत्—“हा हा, धिङ्मां मन्दधियम्। खदौर्बल्यं जानन्नप्यहं मिथ्याप्रतापमात्मन्यापाद्य मृत्युमुखेऽपतम्। नो चेदेतावता कालेन कुटुम्बे सुखमवत्स्यम्।”

वास्तवसारेण विना मिथ्याधीरत्वं यो दर्शयितुं यतते, स कष्टां दशामनुभवति। आश्रयस्य सहायस्य वा बलेन यदि कर्हिचिदात्मनो बिभेति कश्चित् स आत्मनस्त्रसत इति निश्चित्य नैकाकी तमभिपतेत्, तस्यात्मनश्च बलाबलं निरूप्य वर्तेत।

———————————

कथा सप्तदशाधिकशती(११७)।

कपिशृगालयोः।

कश्चन मर्कटः शृगालं संप्रार्थ्याह—“यदि दीर्घस्य लोमशस्य ते लाङ्गूलस्याल्पं भित्तं मे वितरिष्यसि, पायुदेशमूर्णौमि। अनेन हिमवातौ न मां बाधिष्येते। ते लूममाकाङ्क्षितप्रयोजनानि संपाद्याप्यधिकं विद्यते, तच्च त्वं पांसौ मलिनयसि। अतस्तस्माद्दलमेकं दत्त्वापि त उपरोधमन्तरेण मेऽर्थः सिध्यति।” शृगालोऽवोचत्–“लाङ्गूलं मेऽतिदीर्घमिति वक्षि। भवतु नाम तत्। किमपि नाहमवगच्छामि। तत्परं ब्रवीमि ते, यावज्जीवं लाङ्गूलमेवं धूल्लयां मलिनयेयम्, न पुनस्तुभ्यं तद्गतमेकं लोमापि दास्यामि।”

तात्पर्यम्।

केषांचित्पुंसां वृत्त्युचिताद्धनाद्भूयानर्थो भवति। एवं स्थितेऽपि ते मन्यन्तेऽधिकं लभ्यते चेद्वरमिति। एवं चिन्ताकुले मनसि काणवराटकस्यापीष्टापूर्तादिषु व्ययो भवत्विति कुतस्तेषां मतिः प्रवर्तेत?

———————————

कथाष्टादशोत्तरशती(११८)।

रासभशुनकयोः।

कश्चिद्गर्दभ एकदाचिचिन्तत्—“मे खामी लघुशुनि त्रिचतितराम्। स इव यद्यहं नृत्यामि, प्रक्रीडामि, लाङ्गूलं चालयामि, अङ्कमारुह्य च निषीदामि, प्रियो भविष्यामि” इति। एवं ध्यायति तस्मिन्वप्रं जग्मिवांस्तत्खामी निलयमागात्, अजिरदेशे वेदिकायां निषसाद च। तावता खरः प्रत्युद्गच्छन्नादौ ननर्त। इतस्ततस्ततो दीर्घखरेण चीचकार। तद्दृष्ट्वा कुतुकी खाम्युच्चैर्जहास। त्रिचतुरैः पलैस्तदेव कुतुकं तस्य जीवितसंशयस्य कारणमभूत्। यतः स गर्दभः पश्चिमचरणावस्थितः पूर्वाङ्गी महता प्रेम्णा खाम्युरसि न्यधात्। ततोऽङ्क उपविविक्षति तस्मिन्खाम्युच्चुक्रोश। तदाक्रोशमाकर्ण्य कश्चित्परिचारको गृहाभ्यन्तराल्लगुडहस्त एवागत्य लघुगुरुप्रहारैस्तं चक्रीवन्तं जर्जरीकृत्य, तं ज्ञापयामास प्रभुसंमताः सर्वे भवितुं नार्हन्तीति।

तात्पर्यम्।

केऽपि पुमांसोऽल्पश्वेव चेष्टाभिः खामिनं रञ्जयन्ति। ये तद्विधास्त एव तत्कर्तुमलम्। यद्यन्यस्तत्कर्तुं यतते स भग्नाशो भवति। यतः प्रकृतिवैचित्र्यं जनेषु दृश्यते। तदनुसारेण रञ्जनविषयाणामपि नैकविधत्वम्। अतः खखभावमनुरुध्य वर्तनमेव भूषणम्।

———————————

कथा नवदशोत्तरशती(११९)।

पशुपक्षिवातप्रम्याम् \।

कस्मिंश्चित्समये पशुपक्षिणां तुमुले जन्ये प्रवर्तमाने वातप्रमीरध्यायत्। मम वर्ष्मणो व्यूहनादहं पक्षी पशुर्वेति जना यत्संशेरते तदद्य मे पथ्यम्। अवसरेऽस्मिंस्तर्हि माध्यस्थ्यमवलम्ब्य खन्तो दुरन्तो वायं कलह इति प्रतीक्षेय। तत एकतरः पक्षो यथाभिलषितमङ्गीकरिष्यते। ततः समरभूमावविज्ञातेतरेतरभटयोरुभयोरपि पृतने अन्योन्यं विहतविध्वस्तमकुरुताम्। परस्परविशसनं विलोक्य पक्षिणो जेष्यन्तीति वातमृगो मत्वा तानुपययौ। दूरादवेक्षांचक्रे—“न्यूनाधिकदर्शने तदनुगुणं वर्तिष्ये” इति। ततोऽल्पेन कालेन पशवो जयिन इति तस्य प्रत्यभात्। तदा स तान्गत्वाश्वासयत्–“मन्मुखोन्दुरमुखयोः सादृश्यं वर्तते, अतो नाहं पक्षी। पशुरहमिति युष्माकं सङ्घे गृह्णीत माम्। वो हितमनवरतमिच्छेयम्। युष्मन्नोपजपामि।” पशवस्तदन्वमंसत। अन्ते वैनतेयः पशून्विक्रम्य व्यद्रावयज्जिगाय च। तदा वातप्रमीरसुरक्षणार्थं ज्ञातिहस्ताद्भाविनमपमानं च निवारयितुं ततः पलायांचक्रे। तदाप्रभृति वृक्षकोटरेषु गिरिकन्दरासु च लीनः। सोऽद्यापि स्पष्टायां शर्वर्यी सर्वपक्षिष्वावासवृक्षस्थितेषु सुप्तेषु च सत्सु निजावासं जहाति।

तात्पर्यम्।

पक्षद्वयादेकतरस्यादृढाङ्गीकार उभयपक्षसाधारणदर्शनं पक्षावलम्बत्यागौ च नीचकर्म। केवलं खार्थमपेक्ष्य य उभयालम्बं कुर्वते ते नश्यन्ति। य उभावपि वञ्चयन्ति ते तेषां धौर्त्य प्रकटिते हन्यन्त एव। यदि जीवन्ति तर्हि विस्तीर्णायामपीलायां कुत्रचिदपि न ते मुखं दर्शयितुं प्रभवन्ति, यत्र यत्र ते पापा यान्ति तत्र तत्र लोकास्तान्द्विषन्ति।

———————————

कथा विंशत्यधिकशती(१२०)।

भल्लूकमधुकाशयोः।

कश्चिदच्छभल्लो वृतिमुल्लङ्घयान्तरगच्छत्। तत्रावलम्बमानान्मधुकोशान्भङ्क्त्वा क्षौद्रमाखादितुं प्रचक्रमे। ततो युगपदेव प्रत्यपकारबुद्धयः सर्वाः सरघास्तमभिदुद्रुवुः। परं तस्य त्वचः स्थूलत्वात्तनूरुहाणां निरन्तरत्वाच्च स निर्चाध एवासीत्। ततस्तास्तस्य नासाकर्ण ददंशुः। तद्वेदन संरब्धः स खैरेव कररुहैःश्रुतिनासिकयोश्चर्मादृणोत्। एवं खापराधं स्वयमेवादण्डयत्।

तात्पर्यम्।

परपीडको येन केन प्रकारेण दण्ड्यत एव।

———————————

कथैकविंशत्यधिकशती(१२१)।

क्रोष्टुकृकवाक्कोः।

कश्चित्ताम्रचूडः कस्यचिदुच्छ्रिततरोः स्कन्धशाखामारुह्य तारखरेण तथा रुराव यथा तत्प्रतिखनेनापूर्यताखिलं तद्गहनम्। कश्चन जम्बुको भक्ष्यमन्विष्यन्ननतिदूरे बभ्राम। तं रावं च श्रुत्वा तमुद्देशमुपययौ। यावद्विलोकयति तावदुच्चप्रदेशभाजं तं ददर्श। दुर्ग्रहोऽयमिति मत्वा छलेन तमघोदेशमाक्रष्टुमनास्तं प्रलोभयितुमुपतरु गत्वा भणति—“भ्रातर, आसेचनकं त्वां विलोक्य समाहितोऽहम्। परं त्वदधिष्ठितस्थानमुपेत्य नाहं गाढं त्वामुपगूहितुं प्रभुः। तर्ह्यहं जानामि, त्वमञ्जसाधस्तादागमिष्यसि मां संश्लेक्ष्यसि च, न किम्?” कुक्कुटोऽभाषत–“मातुल, भूतार्थं कथयामि ते। अधःपातो न मे हितः। रे, त्वं तु मे मित्रम्। त्वदहं न शके। परमन्यकरगतोऽहं कष्टां दशां प्राप्स्यामि। “शृगालस्तं बभाषे–“प्रियसुहृत्, श्वापदगरुत्मतामर्वाक्समो ज्ञे। तत्रैवं निर्णीतम्, ‘न कोऽपि कस्मा इतः परं द्रुह्येत्, न कमपि बाधेत, सर्वैश्च स्नेहेन वर्तनीयम्। य एनं समयमुल्लङ्घयिष्यति स दण्ड्यो भवेत्,इत्युद्घोषितम्। कथमयमुदन्तो न ते श्रवणपथं गतोऽद्यापि। विस्मयेऽहम्।” एवं वदतस्तस्योक्तिमवहितान्तःकरणेन शृण्वन्नपि स चरणायुधः शिरोधरामुन्नमय्य सुदूरमीक्षांचक्रे। स क्रोष्टुनाप्रच्छि—“भाव, किं सादरं वीक्षसे? अपि निवेदयसि?” कुक्कुट आह—“सखे, विप्रकृष्टान्तरे पञ्चषान्मृगदंशकानागच्छतस्तर्कये।” गोमायुराह–“यद्येवं तर्हि नमस्ते। तात, साधयामि।” कृकवाकुरुवाच—“भ्रातः, हंहो मागमः। नीचैरागतमेव ममावगच्छ। प्रतिपालय मां तावत्। सर्वत्र समयधर्मेण वर्तनमद्येति श्वभ्यो न भेतव्यम्।” शृगालः प्रत्यूचे—“नहि नहि। यद्यपि समय उद्घोषितः तथापि श्वानो विदितसमया न वेति न जाने।”

तात्पर्यम्।

वञ्चका धूर्तेर्धूर्तिताश्चेन्मनो ह्रादते। धूर्तस्य गदितं चन्दन इव शीतलमस्ति। परं तस्य हृदि कर्तरीमेव विजानीयात्। अतोऽकारणं यत्रातिममत्वयुक्तं भाषितं श्रूयते तत्र विशेषतोऽप्रमत्तो भवेत्। यः कोऽपि खबुद्धिप्रभावेणेदृक्षाणां शठानां मायाप्रपञ्चं सद्यो ज्ञात्वा तेभ्य आत्मानं मोचयित्वा तानेव व्यसने पातयति तमेव दक्षं विद्यात्।

———————————

कथा द्वाविंशत्युत्तरशती(१२२)।

बिडालकुक्कुटयोः।

एकदा ‘कुक्कुटं व्यापाद्य पारणां कुर्याम्’ इति बिडाल इयेष। ततः सावधानो भूत्वैकस्मिन्नहनि प्रगेऽकस्मादवस्क

न्यैकं जीवग्राहमग्रहीत्। तदा कुक्कुटस्तमुवाद—“रे रे, मावधीर्माम्।” मार्जारोऽपृच्छत्—“किमिति?” स आ—“अतीवोपयुक्तोऽहं जनानाम्। अहमहर्मुखे रौमि। अनेन सर्वे जाग्रत्युचितकरणीयेषु च व्याप्रियन्ते।” ओतुराह—“अत एव त्वां तृणेह्नि। यस्त्वं कर्कशं रौषि, नित्यं नृणां निद्रां भनक्षि, स त्वं वध्यः। अपरं च मातृभगिनीरभिरमयन्नपि न जिह्रेषि।” कुक्कुटो वदति—“भोः, अस्माकं खभाव एवायम्। अन्यच्च मत्तो मत्खामी शावकान्यण्डानि चापेक्षते। अतोऽहमदो दुष्कर्म कुर्वे।” तदा वृषदंशकः सामर्षमाह–“रे दुष्ट, अलं वाचां वैचित्र्यं दर्शयित्वा। निगृहाण जिह्वाम्। त्वत्समो दुष्कर्मप्रवृत्तः प्राणितुं नार्हति।” एवमुक्त्वा स तं तपखिनं प्राणैर्वियुयोज।

तात्पर्यम्।

दुष्टोऽधिकारस्थितश्चेत्समीहितमवश्यं सात्स्यति। तस्याग्रतो गुणवत्त्वमनागस्त्वं वास्मान्रक्षितुं नालम्। ईदृशः पुमान्पापभीतिदर्शनेऽपि न व्यथते। अतस्तद्दर्शनं मुधा। यतस्तस्य मनोऽजस्रपापाचरणैः कठिनं भवति। स पापान्न विभेति। अतो यदि शक्यं तर्हि तस्मात्पदात्तं च्यावयितुं यतेत।

———————————

कथा त्रयोविंशत्यधिकशती(१२३)।

शुष्कतृणचयस्थितस्य सारमेयस्य।

कश्चित्सारमेयस्तृणराशिमधितष्ठौ। तत्र क्षुधापरिगतः कोऽपि गौस्तृणमाखादितुमाययौ। ततः स सारमेयः सेय तमुद्दिश्याभषत्। सौरभेयस्तं धिक्कृत्याह—“रे मत्सरिन्, इदं तृणं त्वं न खादसि, अन्यमपि खादितुं न ददासि। ईशस्य खलस्य विपदः सन्तु ते शश्वत्।”

तात्पर्यम्।

नास्ति मत्सरसमो दुष्टोऽन्यो विकारः। ये कामक्रोधादय इतरे विकारास्ते कियता कालेन शमं यान्ति। परमयमशान्तो नित्यं वर्धते। यथा यथा च वर्धते तथा तथाधिकं दुनोति। यतो मत्सरी परस्य विद्याधनप्रतिष्ठाभ्यः स्पृहयति,एतैः स हीनो भवेदिति काङ्क्षति। कथमिमा वासनाः फलिष्यन्ति? कथं च पराभ्यसूयकः कृती भविष्यति? अतो यो मत्सरी स सदाऽनिर्वृतः।

———————————

कथा चतुर्विंशत्यधिकशती(१२४)।

श्वोरभ्रयोः।

कश्चिच्छोरभ्रमृणविषयेऽभियुयोज। व्यवहारं निर्णेतुं वृकगृधौ मध्यस्थावभूताम्। साक्षिलेख्यादिप्रमाणमगृहीत्वा तौ शुना क्रियया भावितोऽपि वृष्णिहनवादीति निरचैष्टाम्। ततो जयपत्रे लब्धेश्वोरणं जघान। तस्य पललं ततो दुष्टमध्यस्थाभ्यां समं विभज्यादत्।

तात्पर्यम्।

चाटतस्करवञ्चकेभ्यः पीडां प्राप्य लोका नृपाधिकृतान्व्यवहारद्रष्टृन्प्राड्विवाकादीनुपयन्ति। आदौ तेऽप्युत्कोच लिप्सया वादिनो रागाद्वा तं विघ्नन्ति। नास्मात्पापीयः किमपि कर्म। यो दुष्टो न्यायासनमास्थितः सन्पीडिताभिशापपात्रं भवति, स समृद्धिं न गच्छति। य उपदामादायान्यं विहन्ति सन धनं गृह्णाति, अपि तु गरलमादत्ते। तत्कुलं क्षपयिष्यति।

यस्मिन्राज्ये एतादृशा न दण्ड्यन्ते तन्निष्कण्टकमप्याशु लयमेष्यति। नीतौ जगत्प्रतिष्ठितम्। यस्तां विहन्तुमिच्छति स मूढ आत्मानमेव प्रहरतीति बोध्यम्।

———————————

कथा पञ्चविंशत्यधिकशती(१२५)।

आताषिकृषीवलयोः।

कश्चिदातापी पारावतमेकमभिधावंस्तित्तिरग्रहणार्थं केनचित्क्षेत्रिणा प्रसारिते जालेऽवरुद्धः। गरुतौ सवेगं स्फालयति, मोक्षणाय यतमाने तस्मिन्, अदूरे किमपि कर्म कुर्वाणः कर्षकोऽभ्येत्य तं धृत्वा हन्तुमुद्यतः। तदा सकरुणं स तं प्रार्थयांचक्रे—“भोः, असुदानं कुरु मे। पश्य। नाहमपराध्यम्। अहं कपोतमन्वायम्।” कृषक आह—“भद्र कपोतः कथमपरराध?” इति वदन्नेव स तस्य शिरः कबन्धाच्चिच्छेद \।

तात्पर्यम्।

दोषाय परपीडनम्। सा पीडाधिकं बाधतामूनं वा। आतङ्क उभयोः समान एव। ऊनं यद्यपि बाधेमहि मन्तुभाजो भवेमैव।

———————————

कथा षड्विंशत्यधिकशती(१२६)।

कपोतपिपीलिकयोः।

तर्षिता काचित्पिपीलिकोदन्याशान्तये कमपि प्रस्रवणं गता जलमाददानाप्सु मग्ना स्रोतसानीयत। कश्चित्पराचतस्तदवलोक्य दयार्द्रचित्तः स्वत्रोट्या कस्यचिच्छाखिनश्छदं चकर्त, पयसि चाक्षैप्सीत्। तदालम्भात्पिपीलिकापि तीरभूमिं प्रपेदे। एकदा तस्मिन्नेव पारावते कुत्रचिन्निषीदति तदगोचरेण कश्चिलुब्धको जालं तत्रैव प्रसारयितुमारब्ध। ज्ञानवृत्ता सा पिपीलिका ततो व्याधं गत्वा तस्य चरणमदशत्। दंशवेदनया स सहसा पाणिपादं प्रचालयामास। तेन स कलरवो गृहीतार्थ उड्डड्ये।

तात्पर्यम्।

प्रत्युपकारो नरस्य धर्मः! तस्मिन्नाचरिते प्रशस्योऽहमिति कोऽपि मन्येत चेत्पितरं स नाहन्प्रातिवेश्यनिकाय्यं वा न वह्निसात्कृतवानित्यपि प्रशंसितुं योग्यो भवेत्। प्रत्युपकारे कृते नो विशेषः। यः पुनः प्रत्युपकारं न कृत्वान्यस्योपकृतिमपि न स्मरति, तं चापकर्तुं व्यवस्यति, तस्य नीचत्वं किं वर्ण्यते? अस्यां कथायां विशेषेणेयं नीतिः सूचिता। का सा? प्रत्युपकारमनपेक्ष्यैव पारावत इवोपकर्तव्यं नरेण। एवंविधोपकारा यस्याभिमताः स एव धर्मशील इति वाच्यम्। उक्तं च, अन्यस्माग्रहणं मानुषप्रकृतेर्लक्षणम्। फलमनपेक्ष्यान्यस्मै वितरणं दैवीं प्रकृतिं सूचयति।

———————————

कथा सप्तविंशत्यधिकशती(१२७)।

ध्वाङ्गगरुडयोः।

कस्यचिन्महीभ्रस्योपत्यकासु कमपि वृष्णियूथं चरति स्म। तस्यैव शिखरिणः सानुनि निषेदिवान्कश्चिद्गरुडस्तदाक्रम्य कस्याप्यवेः पृष्ठे पादमर्पयित्वा तं वक्रीकृतनखरैर्धृत्वोदपत्, अन्तरिक्षं च भेजे। तत्तस्य चेष्टितं विलोक्य कदम्बवृक्षस्थितः कश्चिद्वायसोऽपि तथा कर्तुं येते। तदैडकस्योर्णायामुद्रथितपादः स व्यरौत्। तस्य वनं श्रुत्वा संनिहितो वृष्णिपालो धावित्वा जग्राह तम्, तस्य पदयो रज्जुं बवा क्रीडनार्थं बालेभ्योऽदित।

तात्पर्यम्।

अन्यविडम्बने कर्तव्ये प्राक्खशक्तिस्थिती परीक्ष्ये। नो चेत्तदेव दुःखाय भवति।

———————————

कथाष्टाविंशत्यधिकशती(१२८)।

गृध्नुमत्सरिणोः।

एकदा युगपच्छिवमन्दिरे तपस्यतोर्लोभिमत्सरिणोर्भगवानन्धकरिपुः प्रससाद, आह च—“भोः, वरं वृणीतम्। यद्याचिष्येथे तद्दास्यामि। परं य आदौ यावद्याचिष्यते स तावल्लभेतैव। अन्यस्तु तदेव द्विगुणं लप्स्येत।” तच्छ्रुत्वा लोभी चिन्तयति—‘नाहमादौ प्रार्थयिष्ये। यतो यथाहं लोभाविष्टस्तथायमपि। तस्मादसौ पुष्कलं धनं याचेत ततोऽवश्यं मया द्विगुणमनायासेन लभ्यम्।” एवं निश्चित्य स तूष्णीमास्त। तज्ज्ञात्वा मत्सरी शिवं प्रार्थयांचक्रे—“भोः पुराराते यदि प्रसन्नो भवान्, एकं मे नयनमुत्पाटय।” “तथास्तु” इति शूलिनोक्ते मत्सर्येकाक्षोऽभवत्। लोभिनस्तु द्वे अप्यक्षिणी स्फुटिते।

तात्पर्यम्।

दुर्गुणेषु लोममस्सरयोरतिनीचत्वं व्यक्तं भवत्यस्याः कथायाः। अधिकद्रव्यलोभेन लोभी समीहितं देवताया अवाप्य न सुखी बभूव। मत्सरी च नापरः सुखी भवेदित्यात्मनो नयनं स्फोटयित्वा विग्रहवैकल्यमजीजनत्।

———————————

कथा नवविंशत्यधिकशती(१२९)।

सिंहशृगालयोः।

कश्चिच्छृगालः प्रथममेव सिंहं ददर्श। तदा भीतः सन्प्रण्यपतद्दीन इव बभाषे। द्वितीयदर्शने धैर्यमास्थाय तस्य। मुखे निहितदृष्टिरभाषत। तृतीये तु तस्य पार्श्वे गत्वा चिरसंस्तुत इवादरशून्यमवदत्।

तात्पर्यम्।

यथा शृगालस्य वर्तने रीतिभेदोऽदृश्यत तथा गरीयःसु वर्तनस्य भिन्नरीती न स्याताम्। प्रथमा हि भीतिप्रदर्शनं दैन्यप्रकटनं च। द्वितीया तु मर्यादां हित्वा समत्वेन व्यवहारः। तर्हि भीतिपारिप्लवत्वे विहाय वैयात्येन यत्समत्वदर्शनं तदपि वर्जयित्वा मानरक्षां कुर्यात्, वरयोभिश्च शालीनतया वर्तेत।

———————————

कथा त्रिंशदधिकशती(१३०)।

हंसबकयोः।

कमपि क्षेत्र हंसबका नित्यं बबाधिरे। एकदा क्षेत्रखामी सावधानो भूत्वा भृत्यैः सह सहसा तानभ्यद्रवत्। तदा पीनसंहननाः स्थूलाश्च बहवो हंसाः समगृह्यन्त। लघूत्थानाः कह्वास्त्वाशूदुडयन्त।

तात्पर्यम्।

पृष्ठतो लग्भेऽभिघातिनि निर्धनेभ्यो धनिनोऽधिकं दुःखमनुभवन्ति। यथा सेनासंभारो निवेशस्थान एवं सुखदायकोऽन्यत्र पुनः पीडाकरस्तथा धनं स्वास्थ्य एव तोषकरम्। विषमे काले तु तद्र्क्षणमतिकठिनम्।

———————————

कथै कत्रिंशधिकशती(१३१)।

वाजिगर्दभयोः।

कस्यचिदश्वारोहस्य वाहः पृष्ठे सुवर्णरूप्यतन्तुस्यूतपटनिर्मितं पर्याणं कृत्वा कविकां परिदशन्हेषमाणो मार्गेण गच्छन्नास्ते। तस्मिन्नेव वर्त्मनि सोऽतिभाराक्रान्तं शनैः शनैः पादान्यस्यन्तं गर्दभं ददर्श। ततस्तं रासभं तर्जयन्नाह—“रे, अहि। नापैष्यसि यदि तर्हि चरणैरवताडयिष्यामि।” वराकः स दुर्बलः खरः कलहो निष्प्रयोजन इत्यवधार्य ससंभ्रममपासरत्। कतिपयैर्दिवसैः स एव हयः सङ्ग्रामे गुलिकाविद्धः सन्ननुपयुक्तो बभूव। तदा स सादी तं कस्मैचिद्भाण्डवाहकाय व्यक्रीणात्। ततः स भारानुवाह \। एकदा पृष्ठसमारोपितप्रसेवः स मार्गे तेनैव चक्रीवता दृष्टः। स तमाहूयावदत्—“आर्य, नमस्ते। यो मां तदा पादाघातैरवमर्दितुमुद्यतः, स त्वमेव न किम्? अहं तदैवोदपश्यं कदापि भग्नदर्पो भविष्यसि” इति।

तात्पर्यम्।

यो मिथ्याभिमानी श्रेष्ठत्वमापादयितुं यतते स यावद्वलिनो महतो वाश्रयति, तावल्लोकास्तं मृषा प्रणमन्ति। परं क्षुब्धान्तरास्तं वस्तुतो द्विषन्ति। यदि नाम दैवगत्या स एव निर्बलो भवति, तर्हि तस्मिन्दयां न कुर्वन्ति, अपि च तमवधीरयन्ति अतो नायं पन्था महत्त्वार्जनस्य। अयं सः स्वयमुत्कर्षं द्विष्यात्। ये कामं महत्त्वं नापेक्षन्ते तानेवोत्कर्षो वृणुते। ये च तदपेक्षास्तान्परिहरति सः। यो मानं याचते स तं न लभते। यो नुतिमाकाङ्क्षति स जुगुप्स्यते। यो नम्रः स्मयरहितश्च स एव महत्पदमारोप्यते।

———————————

कथा द्वात्रिंशदधिकशती(१३२)।

कृषीवलतत्पुत्राणाम्।

कश्चित्कृषीवल आसन्नमृतिसमयोऽचिन्तयत्, यथाद्ययावन्मया व्यवहृतं तथा दिवं याते मयि मत्सूनवोऽपि सदा व्यवहरेयुरिति। स इममभ्युपायं प्रयुयोज। स सर्वान्खट्टोपान्त आहूयाचष्ट–“पुत्राः, अयुष्मदीयं हि नैव किंचिन्मत्संबद्धम्। अस्य कैदार्यस्यासां वाटिकानां च यूयमेव सर्वे प्रभवः। एतन्मुक्त्वा यन्मम संचितं धनं तत्कुत्रचित्क्षेत्रेषु हस्तादधो निखातं विद्यते। अत इदं कैदारिकं न कस्यापि हस्ते प्रापयितव्यम्।” तच्छ्रुत्वा सर्वे निश्चिक्युः—“वृद्धेन किमपि द्रव्यं क्षेत्रेषु न्यखन्यत” इति। तत उपरते तस्मिंस्ते कर्षणमिषेण तत्क्षेत्रं हस्तदघ्नमुच्चख्नुः। तत्र निधिं तु न प्राप्नुवन् परं सुकृष्टा भूमिरुप्तबीजं दशगुणमुत्ससर्ज। पुष्कलं धनमापुस्ते। तेषु पुत्रेषु कश्चिद्धीमान्बभूव। स सर्वानाचचक्षे–“भो भ्रातरः, अयमेव स निधिर्यः क्षेत्रे निखात इति पित्रा निगदितम्।”

तात्पर्यम्।

सहजकौशलोद्यमयोर्लक्ष्मीः फलमानुषङ्गिकम्। उद्यमेषु कृषिरद्वितीया। ये स्वयं कृषिकर्माचरन्ति ते व्यायामं लभ

न्ते। अस्मान्निरामयत्वमेको लाभः। अन्यच संसृतौ यानि वस्तून्य वश्यानि तेषां न्यूनताभावोऽनेन लभ्यते। अतः सुज्ञाः क्षेत्रवाटिकादिकर्षणं रसेन कुर्युः। तत्र कृतः श्रमो न मोघत्वं याति। असंशयितलाभोऽयमेक एव व्यवसायो दृश्यते। आचरितकृषेर्नरस्य सर्वस्वं लुण्ठितुं स्तेना न शक्नुवन्ति।

———————————

कथा त्रयस्त्रिंशदधिकशती(१३३)।

सिंहघोटकयोः।

कमपि सुललितगात्रं तुरगं दृष्ट्वा कश्चिसिंहो बद्धाशोऽभूत्। स आह—“धन्योऽहम्, यद्यमुष्य गन्धर्वस्य मांसखण्डमेकं लभेय।” तत्प्राप्तयेऽनन्तरं सिंहो भिषजो वेशमहीत्, सर्वपशूनुद्धोष्याज्ञापयच्च—“भ्रान्तार्णवनेमिः सुपरीक्षितौषधिवनस्पतिधर्मोऽहम्। न कश्चित्पशूनां व्याधिः, यस्य चिकित्सने नास्मि शक्तः” इति। हयस्तस्य छद्मप्रयोगमाकलय्य मनसि चकार–“कपटप्रबन्धेनैवायं वञ्चयितव्यः"इति। ततः स सैन्धवो ऋजुतां संदर्श्य विकलगतिः सिंहमुपेयिवान्। आह् च—“भो अगदंकार, मे पश्चिमचरणः शङ्कना क्षतः, रुजापरीतस्य मे कृपया रुक्प्रतीकारं कुरु।” सिंह आह—“पुत्रक, एहि पार्श्वे। पादं ते पश्यानि।” एवमुक्तः सप्तिः सिंहमुपेत्य पाददर्शनच्छलेन पश्चिमपादतलेन तं प्रजहार। तेन प्रहारेण भिन्नास्यः स आर्तनादं मुमोच। पीतिस्तु प्लुतगत्याचलत्। “यो मां वञ्चयितुमियेष तमहमवञ्चयम्” इति जह्लाद च।

तात्पर्यम्।

कपटिनं प्रतार्य मनो ह्रादते। प्रतारणं कुहकं वा यद्यपि सर्वथैव नीचं महतोऽनुचितं च, तथापि यो विप्रलब्धुमायाति तस्यान्तरायकरणं मनोरथभङ्गश्च नीतिरेव।

———————————

कथा चतुस्त्रिंदशधिकशती(१३४)।

सिंहव्याघ्रक्रोष्टूनाम्।

कस्यांचित्काननावनौ कश्चित्सिंहो द्वीपी चोभयतो धावन्तौ युगपन्मृगशवं प्रापतुः। तदा विवदमानौ तौ चिरमयुध्येताम्, उभावपि विद्धकायौ श्रान्तौ भूमावशयाताम्। अत्रान्तरेऽकस्मात्कोऽपि जम्बुकस्तेन वर्त्मना यंस्तौ तदवस्थौ दृष्ट्वा धीरं तयोरन्तरागच्छन्मृगकुणपं चकर्ष। द्वावपि योद्धारौ परं तटस्थौ सन्तौ ददृशतुः। शक्तिक्षयान्न प्रत्यबध्नीताम्। ततो द्वावपि विवेकं प्राप्य वदतः स्म—“अहो, पश्यतमावयोः कलहस्य फलम्। अयं चौर आवयोर्भक्ष्यमस्मत्समक्षं कर्षति। आवां च परस्परमेवमहतां यथा तस्य हस्तातदाक्रष्टुमपि शुष्मावयोर्न शिष्टम्।”

तात्पर्यम्।

यदुक्तम्, द्वयोः कलहे समुपस्थिते तृतीयस्य लाभो भवति। कस्यचिद्वस्तुनः कृते द्वौ कलिमुत्पादयतः। इदं मदीयमहमेवेदं ग्रहीष्यामीत्यतिनिर्बन्धं कुरुतः। लब्धावसरः कश्चिदितरो द्वावपि निहत्य समृद्धो भवति। अतो विचक्षणाः पुरुषाः कलहे न मनो बध्नीयुः। अपि तु संदध्युः। एतदेव श्रेयः। एवं कृत इष्टलाभे किंचिदूनं भवेत्। भवतु। परं तन्महान्तं नाशं व्यावर्तयति। यत उच्यते, ‘सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः।’

———————————

कथा पञ्चत्रिंशधिकशती(१३५)।

शृगालरोगार्तसिंहयोः।

एकदा सिंहो मिथ्यापप्रथत्—“अहमामयवान्, अस्मिन्समये ये पशवो मां द्रष्टुमेष्यन्ति, तान्मे सुहृदो गणयिष्यामि” इति। तदनुरोधेन जम्बुकवर्जं सर्वे सिंहस्य गुहां समासेदुः। तद्वृदि निधाय सिंहो वृकं तद्गवेषणाय निभृतं प्राहिणोत्। स गत्वा शृगालमाह—“भ्रातः, कथं त्वं निष्ठुरः? रे, सर्वे देवपादान्द्रष्टुं जग्मुः। कथमिति त्वं नागतोऽसि?” शृगाल आह– “माम, तत्रभवन्तं मृगाधिराजं गत्वाचक्ष्व— ‘देव, साष्टाङ्गं प्रणिपत्य शृगालो मन्मुखेन विज्ञापयति, यथापूर्वं मम देवं प्रति प्रेम, नात्र लेशमपि संदिग्धि, सांप्रतमप्यहं साक्षात्प्रणामेनात्मानं पवितुमायास्यम्, परं किं करोमि? देवगुहायां दृष्टायां वेपते मे हृदयम्, यतोऽत्र निवेशनप्रविष्टानां पशूनां पदपङ्क्तिर्दृश्यते, न पुनः प्रत्यागतानाम्।

तात्पर्यम्।

यद्यत्कार्यं समुपतिष्ठति तत्तदपरीक्ष्याङ्गीकृतं चेद्धानिर्भवति। भूयाञ्जनो येन गतः स पन्था इति मत्वा कस्मिन्नपि कार्ये यदि व्याप्रियेमहि तर्हि प्रायशो जनाः परप्रत्ययनेयबुद्धयो भवन्ति। तेषु स्वार्थसाधक एको द्वौ वा भवतः। स यथा तान्नयति तथा ते व्रजन्ति। अतो बहवः किंचित्कुर्वन्तीति तथैव कार्यमिति चेन्न। वयमपि सारासारं बलाबलं परीक्षेमहि।

___________

]


  1. “कोकिलः” ↩︎

  2. “बाले” ↩︎