[[शुकसप्ततिः Source: EB]]
[
** ॥श्रीः॥
शुकसप्ततिः॥**
`विनोदिनी’ संस्कृत-हिन्दी-व्याख्योपेता॥
प्रणम्य शारदां देवीं दिव्यविज्ञानशालिनीम्।
वच्मि चेतोविनादार्थमुद्धारं कीरसम्मतेः॥ 1 ॥
अस्ति चन्द्रपुरं नाम नगरम्। तत्र विक्रमसेनो नाम राजा बभूव। तस्मिन्नगरे हरिदत्तो नाम श्रेष्ठी तस्य भार्या शृङ्गरसुन्दरीनाम्नी। तत्पुत्रो मदनाविनोदनामा बभूव। तस्य पत्नी प्रभावती। सा सोमदत्तश्रेष्ठिनः कन्या।
मदनविनोदस्तु अतीवविषयासक्तः कुपुत्रः पितुः शिक्षां न शृणोति। तस्य द्यूतमृगयावेश्यामद्यादिषु अतीव आसक्तिः। कुमार्गचारिणं तं कुपुत्रं दृष्ट्वा तत्पिता हरिदत्तः सपत्नीकः अतीव दुःखितः सञ्जातः। तं हरिदत्तं कुपुत्रदुःखेन पीडितं दृष्ट्वा तस्य सखा त्रिविक्रमनामा द्विजः स्वगृहतो नीतिनिपुणं शुकं सारिकां च गृहीत्वा तद्गृहे गत्वा प्राह-`सखे हरिदत्त! एनं शुकं सपत्नीकं पुत्रवत्त्वं परिपालय। एतत्संरक्षणेन तव दुःखं दूरीभविष्यति।’
हरिदत्तस्तु तं शुकं गृहीत्वा पुत्राय समर्पयामास। मदनविनोदेन शयनमन्दिरे स्वर्णपञ्जरस्थः स्थापितः परिपोषितश्च।
अथैकदा रहसि शुको मदनं प्राह-हे सखे!
पित्रोस्ते दुःखिनोर्दुःखात्पतत्यश्रुचयो भुवि।
तेन पापेन ते वत्स पतनं देवशर्मवत्॥ 2 ॥
स प्राह-`कथमेतत्?’
शुक आह-अस्ति पञ्चपुरं नाम नगरम्। तत्र सत्यशर्मा ब्राह्मणः। तद्भार्या धर्मशीलानाम्नी पुत्रस्तु देवशर्मा। स च अधीतविद्यः पितृप्रच्छन्नवृत्त्या देशान्तरं गत्वा भागीरथीतीरे तपः कृतवान्।
एकदा स तपस्वी गङ्गातीरे जपार्थमुपविष्टः। तस्मिन्काले कयाचित् बलाकया उड्डीयमानया तदङ्गोपरि पुरीषोत्सर्गः कृतः। स च तपस्वी क्रोधाकुलितनेत्रः यावदूर्ध्वं पश्यति तावत्तत्क्रोधाग्निना भस्मीभूतां बलाकां भूमौ पतितां दृष्ट्वा [बलाकां दग्ध्वा] नारायणद्विजगृहे भिक्षार्थं ययौ। स्वभर्तृशुश्रूषापरया तत्पत्न्या कोपाभिविष्टो निर्भर्त्सितः सत्पक्षिहायमुक्तश्च-
`नाहं बलाकेव त्वत्कोपस्थानम्।’
स च प्रच्छन्नपातकज्ञानाद्भीतो विस्मितश्च, प्रेषितश्च तया धर्मव्याधपार्श्व वारणसीं नगरीं ययौ। तत्र रक्ताक्तहस्तं यमप्रतिभं मांसविक्रयं विदधानं तं दृष्ट्वा दृशामन्तःस्थितः। व्याधेन स्वागतप्रश्नपूर्वकं स्वगृहं नीत्वा निजपितरौ सभक्तिकं भोजयित्वा पश्चात्तस्य भोजनं दत्तम्। तदनन्तरं स च व्याधं ज्ञानकारणं पप्रच्छ-`कथं सती ज्ञानवती, कथं च त्वं ज्ञानवान्।’
तेन व्याधेनोक्तम्-
निजान्वयप्रणीतं यः सम्यग्धर्मं निषेवते।
उत्तमाधममध्येषु विकारेषु पराङ्मुखः॥ 3 ॥
स गृही स मुनिः साधुः स च योगी स धार्मिकः।
पितृशुश्रूषको नित्यं जन्तुः साधारणश्च यः॥ 4 ॥
अहं सापि च एवं ज्ञानिनौ त्वं च निजपितरौ परित्यज्य भ्रमन्मादृशां न सम्भाषणार्हः। परमतिथिं मत्वा जल्पितः।
एवमुक्तः स ब्राह्मणो विनयपरं व्याधं पप्रच्छ। तेनोक्तम्-
न पूजयन्ति ये पूज्यान्मान्यान्न मानयन्ति ये।
जीवन्ति निन्द्यमानास्ते मृताः स्वर्गं न यान्ति च॥ 5 ॥
व्याधेन बोधितस्तेन स ययौ गृहमात्मनः।
अभवत्कीर्तिमाल्ँलोके परतः कीर्तिभाजनम्॥ 6 ॥
तस्माद्वणिग्धर्मं स्वकुलोद्भवं स्मर पित्रोश्च विनयपरो भव।’
एवमुक्तः स मदनः पितरौ नमस्कृत्य तदनुज्ञातो भार्याञ्चापृच्छ्यप्रवहणमधिरूढंवान् गतो देशान्तरम्। पश्चात्तत्पत्नी कतिचिद्दिनानि शोकयुक्ता निर्वाह्य स्वैरिणीभिः सखीभिः प्रतिबोधिता पुरुषान्तराभिलाषुकाभवत्। यतस्ताभिरेवमुक्तम्-
तावत्पिता तथा बन्धुर्यावज्जीवति मानवः।
मृतो मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते॥ 7 ॥
अतस्त्वं स्वपतिमप्राप्यमाणा निजशरीरस्य कतिचिद्दिनस्थायियौवनस्य पुरुषान्तररमणाद् गृहाण फलम्।
ततस्तासां वचनेन पुरुषान्तरस्य गुणचन्द्रसंज्ञस्य रमणाय शृङ्गारं विधाय यावत्प्रचलिता तावत्सारिकया मा गच्छेत्यादिवचनैर्निर्भर्त्सिता। ततो यावत्सा तां सारिकां गलमोटनपूर्वं विनाशयति तावदुड्डीय ययौ। ततः क्षणं स्थित्वा स्वेष्टदेवतां हृदि स्मृत्वा ताम्बूलं प्रगृह्य यावच्चलिता तावत् शुकः प्राह-`सिद्धिरस्तु। क्व गन्तव्यम्’, इत्यादिवाक्यैः पृष्टा।
सा च शुकवचनं शकुनमिति कृत्वा प्रहस्य तमाह-`हे शुकराज! नरान्तरास्वादं विज्ञातुं प्रचलितास्मि।’
शुक उवाच-`युक्तमिदं कर्त्तव्यमेव परं दुष्करं निन्दितं च कुलस्त्रीणाम्। किञ्च, तदा गम्यता यदि विपरीते समायाते सति तव बुद्धिरस्ति। यदि नास्ति तदा पराभवपदं भविष्यसि। यतः-
कौतुकान्वेषिणो नित्यं दुर्जना व्यसनागमे।
मासोपवासिनी यद्वद्वणिक्पुत्रकचग्रहे॥ 8 ॥
पप्रच्छ सा तदा सार्धं पुंश्चलीभिः कृतादरा।
ससम्भ्रमा जगादेदं किमिदं भाषितं शुकः॥ 9 ॥
यदि ते कौतुकं सुभ्रु परार्थं गच्छ सुन्दरि।
स्थिरीभूय त्वया पश्चात् श्राव्येयं महती कथा॥ 10 ॥
एवं शुकोक्तं श्रुत्वा यदा सा कौतुकाकुलचेतसा निजगृह आसीनास्ति तदा शुकः कथां प्राह-
अस्ति चन्द्रावती पुरो। तस्यां भीमनामा नृपः। तत्र सुधनो नाम मोहनश्रेष्ठिसुतः तन्नगरवासिनो हरिदत्तस्य कलत्रं लक्ष्मीं रन्तुमीहते। तद्वत्सा न मन्यते। ततो मासोपवासिनीं पूर्णाभिधानां गत्वा पूर्णधनावर्जितां कृत्वा हरिदत्ते नगराद्बहिर्गते तद्गृहे दूतीत्वेन प्रेषयामास। सापि चाटूक्तिभिर्लक्ष्मीं प्रसादयामास। प्रसन्नया च तयेत्युक्तम्-“यत्त्वं याचसे तत्करोमि।” पूर्णयोक्तम्-“तर्हि मन्मतं नरं भज।”
तयोक्तम्-`कुलस्त्रीणां नैतद्युज्यते परं यत्तवाग्रे प्रतिपन्नं तत्करोमि।'
उक्तञ्च-
छिज्जउ सीसं अह होउ बन्धणं चअउ सव्वहा लच्छी।
पडिवण्णपालणे सुपुरिसाणं जं होउ तं होउ॥ 11 ॥
[ शीर्ष छिद्यताम् अथ भवतु बन्धनं चलतु सवथा लक्ष्मीः।
प्रतिपन्नपालने सुपुरुषाणां यद् भवतु तद् भवतु॥ ]
तथाच
दिढलोहसिंखलाणं अस्साण विविहपासबन्धाणं।
ताणं चिअ अहिअरअरो वाआबन्धो सुपुरिसस्स॥ 12 ॥
[ दृढलोहशृङ्खलानां भवतु विवधपाशबन्धनम्।
ताभ्यामपि अधिकतरो वाचाबन्धः सुपुरुषस्य॥ ]
अद्यापि नोज्झति हरः किल कालकूटं, कूर्मो बिभर्ति धरणीं खलु चात्मपृष्ठे।
अम्भोनिधिर्वहति दुःसहवाडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति॥ 13 ॥
तच्छ्रुत्वा हृष्टा पूर्णा। `एवमेवैतत्।’
ततस्तां लक्ष्मीं प्रतिविधाय गुणमोहनार्थे प्रदोषे स्वगृहे निनाय। ततः स मोहनः कथितवेलोपरि नागतः किञ्चित्कार्यादिवैयग्र्येण। ततो लक्ष्म्या सकामयोक्तम्-`यत्कमपि नरं समानय।’
ततः पूर्णया मूढया तत्पतिरेव समानीतः। स्वभर्तरि समायाते सा कथं भवत्विति कथं गृहं यात्विति त्वं सख्यस्तव वा कथयन्तु।
ता आहुः-`न जानीमः। त्वमेव कथय।’
शुक आह-`यदि न यासि तदा कथयामि।’
तयोक्तम्–`न यास्यामि।’
शुकः-सा आगच्छन्नेव स्वपतिरिति ज्ञात्वा तं कचग्रहं प्रगृह्यैवमुवाच-हे शठ! सर्वदा त्वमिति ममाग्रे जल्पसि यन्मे त्वां विना नान्या वल्लभा अस्ति। अधुना तु मया परीक्षितो ज्ञातश्चेति कोपं चक्रे।’
स च तां कष्टेन सुकोमलवचनैरनुनीय स्वगृहं निन्ये।
कथां श्रुत्वा शुकेनोक्तां भयविस्मयकारिणीम्।
पुंश्चलीवृन्दसंयुक्ता सुप्ता रात्रौ वणिक्प्रिया॥ 14 ॥
॥ इति शुकसप्ततौ प्रथमा कथा ॥
कथा-2
सा तथैव समं ताभिर्द्वितीयोऽह्नि निशामुखे।
शुकमापृच्छ्य चलिता शुकस्तामिदमब्रवीत्॥ 15 ॥
यथेष्टं गच्छ सुश्रोणि यदि जानासि दुःकृते।
प्रत्युत्तरं समायाते यशोदेवीव सङ्कटे॥ 16 ॥
ततः प्रभावतो पृच्छति-`का यशोदेवी। कदा कस्मिन्सङ्कटे तया क उपायः कृत’ इति।
शुकः-`यदा कथयामि तदा मयि सुरतविघातेन तव कोपः प्राणनिषूदनः स्यात्।’
सा आह-`सुहृदां साध्वसाध्वपि श्रोतव्यमेव’ इत्यनुज्ञातः शुकः आह-
अस्ति नन्दनं नाम नगरम्। तत्र नन्दनो नाम राजा। तत्पुत्रो राजशेखरः। तद्वधूः शशिप्रभा। तां धनसेनसुतो वीरनामा दृष्ट्वा सकामः सन् ज्वरपीडितोऽभूत्। भोजनादि न विधत्ते। स च मात्रा यशोदेव्या पृष्टः सन्सगद्गदं कारणमाह-`सा च राजकन्या दुर्लभा। स कथं जीवतु’ इति प्रश्नः। तयोक्तम्-`त्वमेव कथय’।
शुकः-यदि प्रभावति! अद्य न यासि तदा कथयामि, इत्युक्ते सा आह-`कथयेति’।
अथ शुकः-सा यशोदेवी एकां शुनीं भोजनाद्यैरावर्जयित्वा आभरणानि परिधायात्मना सार्धं गृहीत्वा शशिप्रभापार्श्वे गत्वा तां विजने सगद्गदा जगाद-अहं च त्वं च इयं च पूर्वभवे भगिन्योऽभूवन्। मया निःशङ्कया त्वया तु सशङ्कया परनराभिलाषः पूरितः। अनया तु नैव। अतोऽस्याः शीलप्रभावात्केवलं जातिस्मरणमेव न भोगाः शुनिका च सञ्जाता। सम्भोगविघ्नाज्जातिस्मरणं च न ते वर्तते। मम पुनर्भोगान्निर्विघ्नान्निर्विघ्नजातिस्मरणं च। अतोऽहमनुकम्पया इमां शुनकीं त्वां च दृष्ट्वा कथयितुमागता। अतस्त्वयार्थिनां काङ्क्षितं दातव्यमेव। यो दानं कुर्यात्स भवेत्सर्वसम्पदां स्थानम्। उक्तञ्च–
कथयन्ति न याचन्ते भिक्षाहारा गृहे गृहे।
अर्थिभ्यो दीयतां नित्यमदातुः फलमीदृशम्॥ 17 ॥
ततः शशिप्रभा सकण्ठग्राहं रुदित्वा प्राह–`मामपि कल्याणि! पुरुषान्तरेण योजय।’
ततो यशोदेवी तां स्वस्थीकृत्य भर्तृविदितां स्वगृहं नीत्वा स्वपुत्रेण योजयामास। स च राजशेखरो द्रव्यादिदानतोषितः सखीयमिति कृत्वा न निवारयामास।
राजपुत्रं राजपुत्रीं प्रतार्यैवं च भामिनि।
यशोदेव्या महद्बुद्ध्य निजकार्यमनुष्ठितम्॥ 18 ॥
बुद्धिरस्ति यदैषा ते व्रज सुभ्रु परान्तिकम्।
भज निद्रां विशालाक्षि मान्यथा स्वं विडम्बय॥ 19 ॥
इति शुककथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ द्वितीया कथा ॥
कथा-3
अथान्यदिने प्रभावती शुकं पृच्छति।
शुकः-
गच्छ देव किमाश्चर्यं यत्र ते रमते मनः।
नृपवद्यदि जानासि परित्राणं त्वमात्मनः॥ 20 ॥
प्रभावती पृच्छति-कथमेतत्।
शुकः कथयति-अस्ति विशाला नगरी। तत्र सुदर्शनो राजा। तत्र च विमलो नाम वणिक्। तस्य च पत्नीद्वयं सुभगं रूपसम्पन्नं दृष्ट्वा कुटिलनामा धूर्तस्तद्भार्याद्वयग्रहणेच्छया अम्बिकां देवीमाराध्य विमलरूपं ययाचे। लब्ध्वा च तत्प्रकृतिं विमले बहिर्गते तद्गृहं गत्वा प्रभुत्वं चकार। प्रसादधनदानैर्वशीकृतोऽखिलोऽपि परिजनवर्गः। तद्भार्याद्वयं बहुमानदानादिना सन्तोष्य स्वेच्छया भुङ्क्ते। विमलोऽयं धनाद्यनित्यतां श्रुत्वा दाता बभूवेति परिजनोऽनवरतं चिन्तयति।
अथ सत्यविमलोऽपि द्वारमागतः कुटिलाज्ञया द्वारपालेन निषिद्धः। ततो बहिःस्थः फुत्करोति `वञ्चितोऽहं धूर्तराजेन’।
तस्य चैवं क्रन्दतो गोत्रजा जनाः कौतुकाच्च मिलिताः। तत्क्षणात् हट्टानि मुक्त्वा वणिक्सार्थो मिलित्वा आरक्षिकमन्त्रिमुख्यानां पुरतः फूच्चक्रे। `राजन्वञ्चितोऽस्मि धूर्तराजेन’।
ततो राज्ञा तदवलोकनाय प्रहिताः पुरुषाः। तेनापि ते द्रव्यादिदानेन सानुकूलाः कृताः। तं धनदायकं गृहे दृष्ट्वा जनो वदति-`स्वामिन्विमलो गृहे विद्यते। अयं च धूर्तराट् द्वारस्थः।’
ततो नृपेण द्वावप्येकत्र कृतौ। ततो द्वयोर्मध्यान्न कोऽपि धूर्तेतरयोर्व्यक्तिं जानाति। जातः कोलाहलोऽखिललोकव्यवहारनाशकरो राज्ञश्चपवादः। यतो राज्ञां दुष्टनिग्रहः शिष्टपालनं च स्वर्गाय।
उक्तञ्च-
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते॥ 21 ॥
ततो राजा एकान्ते तयोर्निर्णयमचिन्तयत्। तत्कथय कथं निश्चयः स्यादिति प्रश्नः।
शुकः-स राजा लब्धोपायस्तद्विमलभार्याद्वयं पृथक्पृथक्संस्थाप्य पृष्टवान्-`किं युवयोः पाणिग्रहणे भर्त्रा विभूषणं प्रदत्तं धनं च। पश्चात्किं जल्पितं प्रथमसङ्गेन च का वार्त्ता भर्त्रा सहाभूत्। का माता कश्च पिता। किं कुलम्। का जातिः।’
इत्येवं पृष्टाभ्यां यथालब्धं यथावृत्तं यथाप्रोक्तं यथासुप्तं सर्वं ताभ्यां कथितम्। पश्चातु तौ पुरुषौ पृष्टौ परस्परं विसंवदन्तौ। ततो भार्याद्वयस्य रुक्मिणीसुन्दरीनामधेयस्य यः संवादं वदति स सत्यः। इतरस्तु धूर्तो राज्ञा निर्वासितः। सत्यस्तु राज्ञा सभार्यः सस्कृतः स्वगृहं गतः। इति महाराजबुद्धिः।
इति कथां श्रुत्वा प्रभावती सुप्ता॥
॥ इति शुकसप्ततौ तृतीया कथा ॥
कथा-4
अथान्यदा प्रभावती शुकं पृच्छति।
शुकः-`मां कृतावज्ञं कृत्वा मा गच्छ। यतो बालकादपि हितं वाक्यं ग्राह्यम्।
कृतावज्ञः पुरा देवि वृद्धवाक्यपराङ्मुखः।
पतितो ब्राह्मणोऽनर्थे विषकन्याविवाहने॥ 22 ॥
प्रभावती पृच्छति-“कथमेतत्।”
शुकः-अस्ति सोमप्रभं नाम द्विजस्थानम्। तत्र विद्वान्धार्मिकः सोमशर्मा नाम विप्रः। तत्पुत्री रूपौदार्यगुणोपेता विषकन्येति विज्ञाताभूत्। तेन तां भयेन कोऽपि न विवाहयति। ततः सोमशर्मा वरार्थं भुवं पर्यटन् सम्प्राप्तो द्विजस्थानं जनस्थान नाम। तत्र गोविन्दनामा ब्राह्मणो जडो निर्धनश्च। तस्मै कन्या प्रदत्ता। तेन सुहृदां निवारयतामपि कृतावज्ञेनोढा सर्वरूपलावण्यगुणोपेता मोहिनी विषकन्या। सा विदग्धा गोविन्दस्तु मूर्खः लघुवयाश्च। ततश्च सा आत्मनो रूपलावण्ययौवनं शुशोच।
अविदग्धः पतिः स्त्रीणां, प्रौढानां नायकोऽगुणी।
गुणिनां त्यागिनां स्तोको विभवश्चेति दुःखकृत्॥ 23 ॥
पाउससमअपवासो जोव्वणदिअहे तहा अ दालिद्दं।
पढमसिणेहविओओ तिणि वि गरुआइदुक्खाइं॥ 24 ॥
[ प्रवृट्समयप्रवासो यौवनदिवसे तथा च दारिद्र्यम्।
प्रथमस्नेहवियोगस्त्रीण्यपि गुरुकाणि दुःखानि॥ ]
अप्पत्थावे पढिअं कण्ठविहूणं च गाइअं गीअं।
मा मा भणन्ति सुरअं तिणि वि गरुआइ दुक्खाइं॥ 25 ॥
[ अप्रस्तावे पठितं कण्ठविहीनं च गायनं गीतम्।
मा मा भणन्त्यां सुरतं त्रीण्यपि गुरुकाणि दुःखानि॥ ]
सान्यदा गोविन्दं पतिमित्यब्रवीत्-`मम पितुर्गेहात्समागताया बहूनि दिनानि सञ्जातानि। ततोऽहं त्वयैव सह गमिष्ये नान्यथा।’
ततः शकटं मार्गयित्वा सभार्यकः स चलितः। यावत्प्रयाति तावत्पथि एको युवा वाग्ग्मी सुरूपः शूरश्च विष्णुनामा ब्राह्मणो मिलितः। तस्य ब्राह्मणस्य तस्याश्चान्योन्मनुरागः सञ्जातः। उक्तञ्च-
प्रीतिः स्याद्दर्शनाद्यैः प्रथममथ मनःसङ्गसङ्कल्पभावो,
निद्राछेदस्तनुत्वं वपुषि कलुषता चेन्द्रियाणां निवृत्तिः।
ह्रीनाशोन्मादमूर्च्छामरणमिति जगद्यात्यवस्था देशैताः,
लग्नैर्यत्पुष्पबाणैः स जयति मदनः सन्निरस्तान्यधन्वी॥ 26 ॥
स पथिको दम्पत्योः पूगपत्रोच्चयं ददाति। इत्येवं ग्राम्यब्राह्मणोरोहविष्णोर्विश्वस्तः आत्मनो निरोधसङ्गभयादुत्तीर्य त गन्त्रीवाहमारोहयति। विष्णुना च पत्यौ वृक्षान्तरगते सा मोहिनो भुक्ता आत्मवशीकृता। तया चात्मीयं नाम गोत्रं कुलक्रमं चाज्ञापितः। पत्युश्च समागतस्य `त्वं चोरोऽसीति’ गन्त्र्यारोहणं कुवतो निषेधः कृतः। विष्णुरपि तां कृहीत्वा गोविन्दं धर्षितवान्। ततस्तयोः केशाकेशि संवृत्तम्। गोविन्दस्तु विष्णुना विषकन्याप्रभावेण निर्जितः। ततस्तां गृहीत्वा विष्णुः स्वगृहं प्रतिचलितः।
गोविन्दः पृष्ठस्थो मार्गासन्ने ग्रामे गत्वा फूत्कृतवान्-`यदनेन चौरेण मम भार्या गृहीता। त्रायतां ताम्। मम शरणं भो जनाः।’
अथ ग्रामाधिपेन विष्णुर्मोहिनीयुतो धृतः। पृष्टेनोत्तरं दत्तं विष्णुना यथेयं मया परिणीता। मदीयां च भार्यामेष पथिको मार्गे दृष्ट्वा ग्रहिलो बभूव। गोविन्देनापि पृष्टेन इदमेवोत्तरितम्। ततो मन्त्री तयोरेकमेवोत्तरं श्रत्वा जात्यादिकं पृष्टवान्। त्रयमपि तु संवदति ततः कथं निश्चयः।" इति शुकप्रश्नः।
ततस्तया पृष्टः शुक आह-मन्त्रिणोक्तम्, “कियन्ति दिनानि सङ्गमस्य युष्माकं प्रयाणे।”
तैरुक्तम्-`कल्ये भोजनान्तरं संवृत्तः समागमः।’ ततो मन्त्रिणा ब्राह्मणौ पृथक्पृथक्पृष्टौ-`किमनया कल्ये भोजनवेलायां भुक्तम्।’
यच्च तया भुक्तं तद्गोविन्दो जानाति इतरस्तु न। ततः स विडम्बितः सचिवेन। गोनिन्दः शिक्षितः। धिगिमां ब्राह्मणीं परत्रेह च दुःखदां मुञ्च शीघ्रम्। उक्तञ्च-
वैद्यं पानरतं नटं कुपठितं मूर्खं परिव्राजकं योधं कापुरुषं विटं विवयसं स्वाध्यायहीनं द्विजम्।
राज्यं बालनरेन्द्रमन्त्रिरहितं मित्रं छलान्वेषि च भार्यां यौवनगर्वितां पररतां मुञ्चन्ति ये पण्डिताः॥ 27 ॥
तथापि कामिनीलुब्धो धिक्कृतः साधुभिस्तदा।
तामेवादाय चलितस्तत्कृते निहतः पथि॥ 28 ॥
तद्देवि यः करोत्येवमवज्ञां वृद्धशिक्षितः।
स पराभवमाप्नोति गोविन्दो ब्राह्मणो यथा॥ 29 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता॥
॥ इति शुकसप्ततौ चतुर्थो कथा ॥
कथा-5
पुनरन्यदिने सा गमनाय शुकं पृच्छति।
शुकः-
गच्छ देवि विजानासि यदि कर्तुं त्वमुत्तरम्।
सभायां नृपतेर्यद्वद्विषमे बालपण्डिता॥ 30 ॥
प्रभावतीपृष्टः शुकः कथां प्राह-अस्ति उज्जयिनी नाम नगरी। तत्र विक्रमादित्यो राजा। तस्य राज्ञो कामलीला नाम उत्तमकुले जाता। सा च राज्ञोऽतीव वल्लभा। एकदा नृपस्तया सार्धं भोजनं कुर्वन्भृष्टमत्स्याँस्तस्यै दापयामास। सा आह-स्वामिन्! नाहमेतान्पुरुषानवलोकयितुमपि समर्था किं पुनः स्पर्शनम्। इति शृत्वा मत्स्या अट्टहासेन तथा जहसुर्यथा नागरिकलोके श्रुतम्। राजा च तन्मत्स्यहास्यकारणं मन्त्रिज्योतिर्विच्छाकुनिककोविदान्पृचछति। यदा न कोऽपि जानाति तदा सर्वद्विजाग्रेसरं पुरोहितं प्राह-यथा त्वयैव मत्स्यहास्यकारणं कथनीयमन्यथात्वं देशान्निर्वासं प्राप्नोषि।
पुरोधा अप्येतद्वचः श्रुत्वा दिनपञ्चकं व्यवधाने याचयित्वा सविषादो गृहमगमत्।
स पुरोहितः तदुत्तरमजानन्पुरस्ताद्राज्ञा निर्वास्यते। स कथं भवत्विति प्रश्नः।
उत्तरमप्याह शुकः-स ब्राह्मणो विषादापन्नः पुत्र्या बालपण्डितया बभाषे, तात! कथमुद्विग्नचित्त इव लक्ष्यसे। कथय विषादस्य कारणम्। विद्वद्भिर्विपद्यप्युच्चैः स्थातव्यम्। उक्तञ्च-
सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम्।
तं भुवनत्रयतिलकं जननी जनयति सुतं विरलम्॥ 31 ॥
ततो ब्राह्मणोऽविरलं वृत्तान्तमाचष्टे अनेन कारणेन राजा मां नागरान्निर्वासयति। यतः-
न सौहृदं न विश्वासो न स्नेहो न च बन्धुता।
केनापि सह संसारे कुतो राज्ञा छलार्थिना॥ 32 ॥
उक्तञ्च-
काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः।
क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा॥ 33 ॥
किञ्च-
नदीनां नखिनाञ्चैव शृङ्गिणां शस्त्रपाणिनाम्।
विश्वासो नैव कर्तव्यः श्त्रीषु राजकुलेषु च॥ 34 ॥
भोगिनः कञ्चुकासक्ताः क्रूराः कुटिलगमिनः।
दुःखोपसर्पणीयाश्च राजानो भुजगा इव॥ 35 ॥
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः।
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः॥ 36 ॥
एष राजा आ बाल्यात्सेवितोऽपि मयि विपरीतो बभूव। तस्मान्मया जीवितुमिच्छता द्विजैः सह परदेशं गन्तव्यम्। उक्तञ्च-
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥ 37 ॥
ततः सा बालिका तातवचनं श्रुत्वा प्राह-तात! त्वया युक्तमुक्तम्। परं स्वामिरहितानां न क्वापि पूजा। यत उक्तम्-
अप्रधानः प्रधानः स्याद्यदि सेवेत पार्थिवम्।
प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः॥ 38 ॥
आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा।
प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो भवति तं परिवेष्टयन्ति॥ 39 ॥
आरोहन्ति शनैर्मृत्या धुन्वन्तमपि पार्थिवम्।
कोपप्रसादवस्तूनां विचिन्वन्ति समीपगाः॥ 40 ॥
तथा च-
विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम्।
सेवावृत्तिविदाञ्चैव नाश्रयः पार्थिवं विना॥ 41 ॥
ये जात्यादिमहोत्साहा नोपगच्छन्ति पार्थिवम्।
तेषामामरणं भिक्षा प्रायाश्चित्तं विनिर्मितम्॥ 42 ॥
रोगैर्ग्रहैर्नृपर्ग्रैस्तो यो न वेत्ति जडक्रियः।
मध्यमन्त्रमुपायं च सोऽवश्यं तात न स्थिरः॥ 43 ॥
उक्तञ्च-
सर्पान्व्याघ्रान् गजान्सिंहान्दृष्ट्वोपायैर्वशीकृतान्।
राजेति कियती मात्रा धीमतामप्रमादिनाम्॥ 44 ॥
तथा च-
राजानमेव संश्रित्य विद्वान्याति परोन्नतिम्।
विना मलयमन्यत्र चन्दनं न विवर्धते॥ 45 ॥
धवलान्यातपत्राणि वाजिनश्च मनोरमाः।
सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ॥ 46 ॥
तस्मात्तात्, त्वं राज्ञा मान्यः प्रसादपात्रञ्च। ततः सन्देहेऽस्मिन्मा विषादीभव। यतः-
राजग्रहे समायाते विषमे कार्यसंशये।
सन्दिग्धमनसां राज्ञां प्रधानाः संशयच्छिदः॥ 47 ॥
ततो हे तात! स्थिरीभव। मत्स्यहसनोत्तरं राज्ञः पुरतो मयाभिधेयमिति। स्नाहि भुङ्क्ष्व।
ततः स एवं कृत्वा राज्ञोऽग्रतो गत्वा सर्वं निवेदयामास। नृपोऽपि तुष्टस्तामाजुहाव। सा आशीर्वादं दत्त्वा राजानमब्रवीत्-राजन्मा मुधा विप्रान्विडम्बय। किं त्वया एवंविधं मत्स्यानां हास्यं दृष्टं श्रुतं वा। कथं मामबलाजन पृच्छन्न विलज्जसे। यतः-
इतरोऽपि न सामान्यो नृपतिर्दिव्यरूपभृत्।
त्वं पुनर्विक्रमादित्यो यथार्थोऽसि परन्तप॥ 48 ॥
उक्तञ्च-
इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधं यमाद्वैश्रवणाच्च वित्तम्।
सत्त्वस्थिते रामजनार्दनाभ्यामादाय राज्ञः क्रियते शरीरम्॥ 49 ॥
तथा च भारते-
मा वृकोदर पादेन एकादशचमूपतिम्।
पञ्चनामपि यो भर्त्ता नासाप्रकृतिमानवी<1> <1.`मानिना’ इति पाo>॥ 50 ॥
स्वामिन्कथं न त्वं स्वयमेव विचारयसि। यतस्त्वमेव सर्वसंशयच्छेत्ता। अथान्येभ्यश्चेत् श्रोतुं कौतुकं तर्हि शृणु।
इयं राज्ञी न स्पृशति ह्यस्मान्मत्स्यान्महासती।
पुरुषाख्यानतो राजन् हसिताः शफरा ध्रुवम्॥ 51 ॥
परिभाव्यस्त्वया राजन् श्लोकार्थोऽयं सदा हृदि।
मूढधीरन्यथा देव यदि पृच्छसि मां पुनः॥ 52 ॥
राजन्राजपत्न्याः सूर्यमपश्यन्त्यास्तत्कथमसतीत्वशङ्का स्यात्।
श्लोकार्थे प्रस्तुतार्थे च मत्स्यानां हसनं बुधाः।
सनृपा न विजानन्ति अपि सर्वार्थकोविदाः॥ 53 ॥
ततः सदो मूढं दृष्ट्वा बालपण्डिता उत्थाय ययौ।
शुकोऽप्याह-अहं प्रातः कथयिष्ये।
इति कीरोक्तिं श्रुत्वा प्रभावती सुप्ता॥
॥ इति शुकसप्ततौ पञ्चमी कथा ॥
कथा-6
अथापरस्मिन्दिवसे प्रभावती शुकं प्राह-शुक! स मत्स्यहास्यव्यतिकरो राज्ञा ज्ञातो न वेति।
शुक आह-नृपः श्लोकार्थमजानन्न निद्रां लेभे। उक्तञ्च-
निद्रा भद्रे कुतस्तेषां ये ऋणव्याधिपीडिताः।
अविधेयकलत्राश्च ये चान्ये कृतवैरिणः॥ 54 ॥
राजा निद्राभावे कष्टेन निशां नीत्वा प्रातर्बालपण्डितामाकार्य प्राह-बालिके! श्लोकार्थो न ज्ञातो मया। तस्मान्मत्स्यहास्यकारणे निवेदय।
सा आह-राजन्मां मा पृच्छ। यतः-
पश्चात्तापोऽत्र भविता भार्याया वणिजो यथा।
आग्रहेण कृतः पत्यौ मण्डकागमनं प्रति॥ 55 ॥
राजा-कथमेतत्।
शुकः-अस्त्यत्र जयन्ती नाम नगरी। तत्र वणिकसुतः सुमतिर्नाम तस्य प्रिया पद्मिनी नाम। तस्य च वणिजः पुण्यक्षयाद्धनं क्षीणम्। स च जनैः परित्यक्तः। यतो जनो धनमित्रः। उक्तञ्च-
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमाल्ँलोके यस्यार्थाः स च पण्डितः॥ 56 ॥
तथा च भारते-
जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारत।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः॥ 57 ॥
तथा च-
इह लोके हि धनिनां परोऽपि स्वजनायते।
स्वजनोऽपि द्ररिद्राणां तत्क्षणाद्दुर्जनायते॥ 58 ॥
सोऽपि च तृणकाष्ठादिकमानीय पुरीमध्ये विक्रीणाति। अन्यदा अनेन तृणकाष्ठादिकं किमपि वने न प्राप्तम्। दृढकाष्ठमयोऽपि विघ्नविनायकः प्राप्तः। ततश्चिन्तितम्-किमसौ मम विधास्यति?
उक्तञ्च-
बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति।
प्राणार्थमेते हि समाचरन्ति मतं सतां यन्न मतं तदेषाम्॥ 59 ॥
यावत्स तस्य विनायकस्य पाटनायोत्तिष्ठति तावत्तुष्टः सन् जगाद-अहं तव प्रतिदिनं पञ्च पञ्च मण्डकान्दास्ये खण्डघृतयुतान्। ममालये प्रातर्यायाः। परं कस्यापि इदं रहस्यं न कथनीयम्। कथिते तु मद्वचो वितथं भविष्यति।
सोऽपि च `तथे’ति प्रतिपाद्य नित्यं मण्डकपञ्चकं भार्याया अर्पयति। तद्दैवं मण्डकपञ्चकं घृतखण्डयुक्तमादाय तद्भार्या निजकुटुम्बं तृप्तीकरोति। नित्यं च तान्मण्डकान् गोत्रिणां गृहे वाहयामास। निजसख्या मन्दोदर्यास्तृप्त्यर्थं नित्यं प्राहिणोत्। अन्यदा सा सखी तां पप्रच्छ। पद्मिन्यपि मण्डकागमनमिदं न जानाति। ततस्तस्याः पुरा सा सखी कपटाद्ब्रूते-सखि! यदि त्वं मम पुरतो गुह्यं न कथयसि तत्कः स्नेहः।
उक्तञ्च-
ददाति प्रतिगृह्णानि गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्॥ 60 ॥
ततः पद्मिन्याह-मदीयः पतिरिदं गुह्यं ममाग्रे कथमपि न ब्रते मया शतशः पृष्टोऽपि।
तयोक्तम्-तर्हि त्वदीयं जीवितं रूपं यौवनं सवमपि निरर्थकमेव यदिदं नाज्ञायि।
ततः पद्मिनी पतिं पृच्छति-कथं मण्डकप्राप्तिः?
पतिराह-विधेः प्रसादात्। उक्तञ्च-
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखोभूतः॥ 61 ॥
किञ्च-
क्षुत्क्षामस्य करण्डपिण्डिततनोर्म्लान्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये कारणम्॥ 62 ॥
यदा न कथयति तदानशनं चक्रे।
पतिराह-अस्मिन्कथिते महती हानिः पश्चात्तापश्च भविष्यति। एवं बोधिताऽपि सा यावन्नाग्रहं मुञ्चति तदा तेन दैवोपहतचित्तेन कथितम्।
उक्तञ्च-
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्।
बुद्धिं तस्यापकर्षन्ति न स वेत्यात्मनो हितम्॥ 63 ॥
तेन च राजन्विक्रमार्कबुद्धिमुक्तेन गुह्यं कीर्तितम्। यतो हीनपुण्यो बुद्ध्या मुच्यते। उक्तञ्च-
रामो हेममृगं न वेत्ति नहुषो याने युनक्ति द्विजान् विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने।
द्यूते भ्रातृचतुष्टयं च महिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषोऽप्यनर्थसमये बुद्ध्या परित्यज्यते॥ 64 ॥
सा च पतिमुखात् श्रुत्वा सखीपुरी जगाद। तया चात्मपतिः कुठारहस्तः प्रेषितो विनायकपार्श्वे। सोऽपि पद्मिनीपतिश्च प्रातस्तत्र जगाम।
विनायकोऽपि द्वावपि मयूरबन्धैर्बन्धयामास। सोऽपि च पद्मिनीपतिरुक्तः रे त्वदीय एवायमनर्थः। ततस्त्वय्येव दण्डो युज्यते।
ततः सखीपतिर्ययाचे। तान्पञ्च मण्डकान्तस्मै स प्रददौ। तौ द्वावपि स्वं स्वं गृहं जग्मतुः। ततः पत्या दापिताः। पश्चात्तापं च कुरुते।
ततस्त्वमपि राजेन्द्र! मां मा पृच्छ। तव पश्चात्तापो भविष्यति। इदं श्लोकं स्वयमेव विचिन्तय। इति कथयित्वा बालपण्डिता उत्थाय स्वगृहं गता।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ षष्ठी कथा ॥
कथा-7
अन्यस्मिन्दिने प्रभावती शुकं पप्रच्छ-कीर! पुनस्तन्मत्स्यहास्यकारणं राज्ञा ज्ञातं शृतं न वा।
शुकः प्राह-प्रातः पुनर्बालपण्डितामाकारयित्वा राजा प्राह-कि तन्मत्स्यहास्यकारणम्? ब्रूहि शीघ्रं बालिके!
सा चाह-
देवाग्रहो न कर्तव्यः पश्चात्तापो भविष्यति।
स्थगिकासक्तचित्तस्य विप्रस्याभूत्पुरा यथा॥ 65 ॥
अस्ति धरणीतले वत्सोननाम पट्टनम्। तत्र वीराख्यो राजा तत्र च केशवो नाम ब्राह्मणः। तेन कदाचिदिति चिन्तितं यदहं पितृधनं न भोक्ष्ये।
उक्तञ्च-
उत्तमाः स्वगुणैः ख्याता मध्यमाश्च पितुर्गुणैः।
अधमा मातुलैः ख्याता श्वशुरैश्चाधमाधमाः॥ 66 ॥
किञ्च-
पिअर विढत्तइ दव्व्डइ चड्डिरि को ण करेइ।
सइँ बिढवइ सइँ भोजअइ विरला जणणि जणेइ॥ 67 ॥
[ पित्रर्जितं द्रव्यं भोगिनं कं न करोति।
स्वयमर्जयति स्वयं भुङ्क्ते विरला जननी जनयति॥ ]
इत्यवधार्य स मेदिन्यां बभ्राम देवतीर्थश्मशाननगरेषु धनार्थम्। अन्यदा स निर्जने प्रदेशे प्रसिद्धे शिवचत्वरे करालायाः श्मशाने च परिभ्रम्य परिश्रान्तः कपिलकमठमपश्यत्। तत्र च पर्यङ्कसनस्थं तापसं ददर्श स च विप्रस्तस्याग्रे कृताञ्जलिपुटस्तस्थौ। तापसो ध्यानं शनैर्मुक्त्वा एवमुक्तवान्-
किं कस्मै दीयते लोके त्रायते को भवार्णवात्।
असाध्यं साध्यते कस्य कालेऽस्मिन्नतिथेरहो॥ 68 ॥
ततः स ब्राह्मण ऊर्ध्वबाहुर्जगाद-तवाहमतिथिर्धनार्थी।
तापसोऽपि तं विप्रमल्पयाचक दृष्ट्वा मनसि दुःखीबभूव।
उक्तञ्च-
स्तोकार्थप्रार्थनान्दीनान्दृष्ट्वोदारान्हि याचकान्।
खिद्यन्तेऽतीव मनसि अपि प्राणप्रदायिनः॥ 69 ॥
किञ्च-
अहिहूओ वि अ विवआ करेइ सुअणो परस्स उपआरं।
ओणेइ अण्णदाधं चन्दणतरुओ सखण्डो वि॥ 70 ॥
[ अभिभूतोऽपि विपदा करोति सुजनः परस्य उपकारम्।
अपनयत्यन्यतापं चन्दनतरुकः सहस्रकण्डोऽपि॥ ]
ततो योगीन्द्रो `यदा त्वमेतत्स्पर्शनं करिष्यसि तदा हेम्नः पञ्चशतानि नित्यं दास्यती’त्युक्त्वा विप्राय पर्यङ्कीकृतं सिन्दूरमर्पयामास। उक्तश्च-`एतत्त्वयान्यस्मै न दातव्यं न कथनीयञ्च। अन्यथा मम समीपे व्यावृत्य समेष्यति।
तदर्पितं यदा स द्विजः प्रातः स्पृशति तदा सुवर्णशतपञ्चकं ददाति। स च रत्नावतीं पुरीं गतः। तत्र स्थगिकां नाम वेश्यां नित्यं कामयते। सा च तद्द्रव्यागमनं न जानाति।
कुट्टिनी पृच्छति-हले! एष विप्रः किमपि व्यवसायादिकं न विधत्ते। परं द्रव्यं कुतोऽस्माकं वितरति कस्माद्विलसतीति।
ततो वेश्या तं पृच्छति। स विप्रः सर्वथा न कथयति। ततो वेश्यया स्वकलया भक्त्या चाराधितः। ततः पृष्टः सन्कथयामास यत्सिन्दूराद्द्रव्यागमः। तया च सुप्तस्य सिन्दूरं गृहीतम्। ततो द्रव्याभावे कुट्टिन्या गृहान्निष्कासितः।
उक्तञ्च-
विश्वासप्रतिपन्नानां वञ्चने का विदग्धता।
अङ्कमारुह्य सुप्तं हि हन्तुं किं नाम पौरुषम्॥ 71 ॥
स विप्रस्तत्सिन्दूरमपश्यन्फूत्कुर्वन्राजद्वारं ययौ, मुषितोऽहमिति वदन्। ततो विवादः सञ्जातः।
कुट्टिन्याह-
धूर्तोऽसौ मत्सुतालुब्धो धनहीनो भवत्यसौ।
मनोभवग्रहग्रस्तो असमञ्जसमीदृशम्॥ 72 ॥
जनैर्गुणैरसम्भाव्यं राज्ञा कथं सम्भाव्यते।
परं सत्यमिदं जातं सिन्दूरं धनदं यतः॥ 73 ॥
स च जनैर्वैदेशिकोऽयमिति ज्ञात्वा निर्वासितः। तच्च सिन्दूरं योगीन्द्रमेव ययौ। ततो राजन्विक्रमादित्य! स्थगिकाप्रीतिनिबन्धनात्तेनाख्याते च सिन्दूरे स्थगिका नैव विप्रस्य बभूव न च सिन्दूरम्। एवं तवापि राजन्! रतिः प्रीतिश्च न भविष्यति।
एवमुक्त्वा बालपण्डिता गृहं जगाम। इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ सप्तमी कथा ॥
कथा-8
अथापरेद्युः प्रभावती शुकं पृच्छति।
शुक उत्तरं ददौ-देवि! बालपण्डिता द्वितीयेऽह्नि संयाते राजानं प्राह-देव! नाग्रहः कर्तुं युज्यते।
यतः-
राज्ञा नैवाग्रहः कार्यः शुभे वाशुभकर्मणि।
तदङ्गानि हि भूतानि राज्ञां हि महती तनुः॥ 74 ॥
आख्याते च तव मया विणिक्पुत्र्या यथाभवत्।
न बहिर्न गृहं राजँस्तथा तेऽपि भविष्यति॥ 75 ॥
राजा पृच्छति-कथमेतत्?
बालपण्डिता प्राह-अस्ति पृथ्वीतले त्रिपुरं नाम स्थानम्। तस्मिन्त्रिविक्रमो नाम राज। तत्र सुन्दराभिधानो वणिक्। तद्भार्या सुभगा नामातीव कुलटा। सा च भर्त्रा गृहान्निर्यान्ती प्रयत्नेन नियन्त्रिता। ताञ्च नियन्त्रणात्पूर्वमेको वणिग्यक्षगृहे स्थितः सकामामभजत्। यदा च बहिर्निर्गच्छन्तो पतिना निवारिता तदा सखीं प्राह-सखि! अद्य त्वया स मानवो यक्षायतन आकारणीयः यथाहं तत्र गत्वा तं रमे। त्वया च मयि गतायां पश्चादस्मद्गृहं ज्वालनीयं यथा गृहकार्यासक्तो जनो मां गातं न जानाति। अत्रान्तरेऽहं तं स्वेच्छया भुक्त्वा समुपागच्छामि।
ततः सखीवचनात्स पुमाँस्तत्रायातः। साप्यागता। तदा च गतायां तस्यां सा सखी तद्गृहं प्रज्वालितवती। स पुमान्प्रज्वलने कुतूहली यक्षायतनं मुक्त्वा तत्रावलोकनाय गतः। सा च तत्र स्थिताऽसमाप्तात्मप्रयोजना यावता गृहमागता तावता गृहं दग्धम्।
न गृहं न बहिर्भूप वणिग्वध्वा यथाभवत्।
तथा तव महाराज भविष्यति सुनिश्चयम्॥ 76 ॥
अथ चेत् ज्ञातेन श्लोकार्थेन प्रयोजनं तदा कल्ये स्वयमेव ज्ञापयिष्यामि। इत्युक्त्वा सा गृहं ययौ।
इति कथां श्रुत्वा प्रभावती सुप्ता॥
॥ इति शुकसप्ततौ अष्टमी कथा ॥
कथा-9
अथापरेद्युः सविस्मया प्रभावती शुकं पृच्छति स्म-शुक! किं विज्ञातं विक्रमार्केण मत्स्यहसनकारणम्?
शुकः प्राह-देवि! न किमपि राज्ञा स्वयं ज्ञातम्। ततो राजा प्रातर्द्विजसुतामाहुय बालपण्डितां प्राह-त्वया इत्युक्तं यत्त्वं स्वयमेव ज्ञास्यसि। मया तु किमपि न ज्ञातम्।
बालपण्डिता प्राह-यदि राजन्नेवमपि मया कथ्यमानं न वेत्सि, ततः शृणु। पुष्पहासो नाम मन्त्री सर्वमन्त्रिणामग्रणीर्निर्दोषो गुप्तः। किमिति नियन्त्रितोऽस्ति।
राजा प्राह-अन्वर्थोऽयं पुष्पहासः। यतः यदासो मदीयायां संसदि हसति तदास्यास्यात्पुष्पप्रकरो निपतति। इयञ्च कथापरराज्यमण्डलेषु ख्याताभूत्। ततस्तैः प्रेषिताः स्वीयपुमांसः कुतूहलान्वेषणाय। तेषु समायातेषु तेन न हसितं पुष्पप्रकरोऽपि नाभूत्। इति कारणात्गुप्तिबन्धः।
बालपण्डिता प्राह-केनापि कारणेन मन्त्रिणा न हसितम्, राजन्!
तत्कारणं त्वया ज्ञातं न वा?
राजा प्राह-मया किमपि न ज्ञातम्।
बालपण्डिता प्राह-तर्हि कथमिदं दण्डं कुर्वन्पापभाक् न भवसि?
उक्तञ्च-
धर्मेण राष्ट्रं विन्देन धर्मेणैवानुपालयेत्।
धर्माच्छरण्यतां याति राजा सर्वभयापहः॥ 77 ॥
यथा आग्रहान्मां मत्स्यहास्यकारणं पृच्छसि तथा तमपि पृच्छ हास्यकारणम्। स एवात्मीयहास्यस्य मत्स्यहास्यस्य च कारणं वक्ता।
राजापि तद्वचनात्पुष्पहासं मन्त्रिणं वस्त्रदानपूर्वं मन्त्रिपदे प्रतिष्ठाप्य मत्स्यहास्यकारणं पप्रच्छ।
मन्त्र्याह-यद्यपि गृहदुश्चरितमकथ्यम्। यतः-
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्॥ 78 ॥
तथापि तु राजाज्ञा महती। यतः-
प्रभुः प्रीतिस्निग्धां दृशमपि न पापेषु विसृजेत् कुतः श्लाघ्यामाज्ञां प्रणयरससान्द्रेण मनसा।
अतीत्यादित्याग्निप्रभृति भुवि धर्मेन्द्रियमयं नृपाख्यं हि ज्योतिः प्रसभमिदमैन्द्रं विजयते॥ 79 ॥
ततो राजन्! मे कलत्रं नरान्तररतं जातं तच्च मया ज्ञातम्, तेन च दुःखेन न हसितम्।
राजापीदमाकर्ण्य पुष्पहस्तकै राज्ञीमाहृत्य सम्मुखमवलोकयामास। सा च तेन प्रहारेण कपटमूर्च्छां नाटयति स्म। पुष्पहासोऽपि तामवलोक्य सहासो बभूव पुष्पोत्करश्च समजनि। राजापि तामाश्वास्य कृतकोपो द्विजात्मजास्यं विलोक्य मन्त्रिणमवादीत् कथमस्मद्दुःखे सहासोऽसि?
मन्त्र्यपि सभयमञ्जलिं बद्ध्वाभाषत-राजन्! पोटकजनैस्त्वदीया राज्ञी रात्रौ नाडिकाभिराहतापि न मूर्च्छिता, अधुना मूर्च्छितेति हास्यकारणम्।
राजापि सकोपो `मन्त्रिन्निदं त्वया दृष्टं श्रुतं वे’ति पप्रच्छ।
मन्त्र्याह-स्वामिन्दृष्टमेवेदम्। यदि स्वामी न प्रत्येति तदा कञ्चुकमुत्तार्यावलोकयतु।
एवं कृते राजा सर्वमज्ञासीत्। मन्त्रिणो द्विजसुतायाश्च मुखमवलोक्य किमिदमित्यवादीत्।
मन्त्र्याह-स्वामिन्! यदिदं द्विजपुत्र्या गूढार्थं मत्स्यहास्यकारणं निवेदितं तन्मया प्रकटीकृतम्।
इत्येवमुक्तो राजा आस्थानं व्यसर्जयत्। अथ द्विजसुतापुष्पहासावपि भीतहृष्टौ स्वं स्वं गृहं जग्मतुः। तेन च राज्ञा तस्या मञ्जूषास्थितो नरो दृष्टो विनाशितः। सा च निजवासाद्विसर्जिता।
शुकः प्रभावतीमाह-
तथा त्वमपि कल्याणि मा कुरुष्व वृथाग्रहम्।
यदाग्रहपरो लोके विलक्षो विक्रमार्कवत्॥ 80 ॥
इति कथा श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ नवमी कथा ॥
कथा-10
अन्यदा सशृङ्गारा प्रभावती शुकमाह-
किं कर्तव्यं मया कीर त्वं वदाद्य प्रियम्वद।
यदि तेऽस्ति सखी याहि शृङ्गारीव सहायिनी॥ 81 ॥
प्रभावत्याह-कथमेतत्?
शुक आह-अस्ति राजपुरं नाम स्थानम्। तत्र देवसाख्यः कौटुम्बिकः, तत्कलत्रे शृङ्गारवती सुभगा च।
परस्परपरित्राणकृतबन्धपरायणे।
परपुरुषलम्पटे प्रसिद्धे रतकर्मणि॥ 82 ॥
अन्यदा यावत्सुभगा उपपतिना सह गृहान्तर्विद्येत तावद्बहिः स्थानात् पतिर्झिण्टहस्तो गृहद्वारि समाययौ। तदा सा कथं भवत्विति प्रश्नः?
उत्तरमाह शुकः-ततः शृङ्गारदेव्या सा नग्नीकृत्य गृहाद्बहिर्निष्कासिता। पतिरपि `किमिदमि’ति ब्रुवाणोऽत्यादरात् शृङ्गारदेव्या उक्तः-यत्त्वया एतानि झिण्टानि देव्या उपवनादानीतानि तत इयं ग्रहिला सञ्जाता। ततो यथास्थानं गत्वा मुञ्च यथा प्रगुणा स्यात्।
ततः स मूढो यावदेवं कर्तुं बहिर्जगाम तावत्तया गृहादुपपतिर्निष्कासितः।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ दशमी कथा ॥
कथा-11
प्रदोषसमयेऽन्यस्मिन्कामिनी काममोहिता।
विनयेन शुकं प्राह गच्छामि यदि मन्यसे॥ 83 ॥
शुकः प्राह-
अवश्यमेव गन्तव्यं त्वयेत्थं मम निश्चयः।
मनोऽभीष्टे पयो निम्ने गच्छत्कः प्रतिवारयेत्॥ 84 ॥
गतयापि त्वया तत्र कर्तव्यं किञ्चिदद्भुतम्।
यथा रम्भिकया पूर्वं ब्राह्मणार्थेऽद्भुतं कृतम्॥ 85 ॥
प्रभावत्याह-कथमेतत्?
शुक आह-अस्ति दाभिलाख्यो ग्रामः। तत्र विलोचनो ग्रामणीः। तद्भार्या रम्भिकाभिधा परनप्रिया। तां च तद्भर्तृभयान्न कोऽपि कामयते। ततः सा जलव्याजात् घटमादाय वापीं ययौ। दृष्ट्वा च तत्र सुरूपं पथिकं भट्टपुत्रं क्रीडार्थं दृष्टिसंज्ञया बभाण। सोऽपि कामिनीदृष्टिसञ्चारचतुरो विवेद तदाकूतम्।
उक्तञ्च-
उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति नोदिताः।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः॥ 86 ॥
किञ्च
णअब्भन्तरघोलन्तीए हअरमणराअदिट्ठीए।
पुणरुत्तपेच्छिरीए बालअ किं किं ण भणिओ सि॥ 87 ॥
[ नाभ्यन्तरं घूर्णयन्त्या हृदयमनोराम दृष्ट्या।
पुनुरुत्प्रेक्षमाणया बालक किं किं न भणितोऽसि॥ ]
अच्छीहिं चिअ भणिअं हिअअत्त्थं जो जणो ण लक्खेइ।
तेण पडिबोहिएण ए किं कीरइ ण क्खु अल्लेण॥ 88 ॥
[ अक्षिभ्यां चिरभणितं हृदयस्थं यो जनो न लक्षयति।
तेन प्रतिबोधितेन च किं क्रियते नु खलु अज्ञेन॥ ]
ततः स तदन्तिकमागत्य जगाद-भद्रे किं विधेयम्?
साह-त्वया मम पृष्ठलग्नेन अस्मद्गृहं समागन्तव्यं मम पत्युश्च नमस्कारो विधेयः। सर्वमन्यदहं करिष्ये। त्वया तथैवेति वाच्यम्।
एवमुक्त्वा सा गृहं प्रविष्टा। सोऽपि गृहं प्रविष्टस्तत्पत्यरग्रे तस्थौ। पतिरपि विस्मितः। ततः सा कुम्भं मुक्त्वा पत्युः सकाशमागत्याव्रवीत्-
नाथ! उपलक्षस्व एनम्।
स आह-ने वेद्मीति।
ततः सा प्राह-अयं मातृम्वसुः सुतो यो मया शिशुत्वे मुक्तः। स धवलो नाम मम मिलनार्थं समागमत्। ततो मया आलिङ्ग्य सर्वापि स्वजनवार्ता पृष्टा।
स च ब्राह्मण `एवमिति’ जल्पति। ततः पतिना सानुज्ञाता तं महानसं नीत्वा भोजनाच्छादनसंस्कारैस्तोषयामास। पतिरपि तुष्टः प्राह-भद्र! त्वया निजबान्धवस्य महती भक्तिः कार्येत्युक्त्वा सुप्तः।
तदा च रम्भिका ब्राह्मणखट्टवायामुपावशत्। ततस्तेनोक्तम्-त्वया पत्युग्रे इत्युक्तं यन्मदीयो भ्राता समागतः। तत्त्वं मे प्रतिपन्ना भगिनी प्रतिपन्नं च निर्वाह्यते। उक्तञच-
छिज्जउ सीसुं अह होउ बन्धणं चअउ सव्वहा लच्छी।
पडिवण्णपालणे सुपुरिसाण जं होउ तं होउ॥ 89 ॥
[ छिद्यतां शीर्षमथ भवतु बन्धनं चलतु सर्वथा लक्ष्मीः।
प्रतिपन्नपालने सुपुरुषाणां यद् भवतु तद् भवतु॥ ]
लज्जिज्जइ जेण मणो मइलिज्जइ णिअकुलक्कमो जेण।
कण्ठट्ठिए वि जीए मा सुन्दरि तं कुणिज्जासु॥ 90 ॥
[ लज्जते येन मनो मलिनयति निजकुलक्रमो येन।
कण्ठस्थितेऽपि जीवे मा सुन्दरि तं करिष्यसि॥ ]
रम्भिका प्राह-मा एवं वद।
यतोऽतिदुर्लभा रामा पितृमातृपरायणा।
पितृमातृमयैर्भूत्वा भोक्तव्या कामिनी रैः॥ 91 ॥
उक्तञ्च-
कामार्तां स्वयमायातां यो न भुङ्क्ते नितम्बिनीम्।
सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः॥ 92 ॥
सो किं व माणइ पर महिल जो णवि जंपि एम्व।
* …. …. …. ॥ 93 ॥
[ स किमिवि मन्यते परमहिलां यो विपरीतं जल्पत्येवम्।
… … … … … … … … ॥ ]
जो णवि माणइ… सो किं व माणइ थी अवराइ।
* … … … मा करि णेह अम्हहं भङ्गु॥ 94 ॥
[ यो विपरीतं मन्यते…स किमिव मन्यते स्त्रियमपराम्।
……………मा कुरु स्नेहमस्माकं भग्नम्॥ ]
श्रूयते रुक्मिणी पूर्वं कृष्णेव मदनातुरा।
गृहीता भ्रातृजायापि कः काममतिलङ्घयेत्॥ 95 ॥
विरञ्चिरपि कामार्तं स्वसुतामभिलाषुकः।
दृश्यतेऽद्यापि वियति हारिणीं तनुमाश्रितः॥ 96 ॥
विवाहे पार्वती दृष्ट्वा हरस्य हरवल्लभाम्।
चस्कन्द रेतस्तस्यापि बालखिल्यास्तदुद्भवाः॥ 97 ॥
तयैवं बोधितो मूर्खः स यावद्रमते न ताम्।
फूत्कृतं मुषितास्मीति त्रायतां त्रायतामहो॥ 98 ॥
तया च फूत्कृते किमिदमिति कुर्वाणो बान्धवैः सह धावितो भर्ता। स च कथं मुच्यते? इति प्रश्नः।
उत्तरम्-एवं च स ब्राह्मणः सभयः सन्नतः पादयोः पतितो जगाद-स्वामिनि! प्राणान् रक्ष। तवेहितं करिष्यामि।
एवं स्थिते सा दुग्धसहितं भक्तमढंढोलयत् अन्तिके ज्वलिनमज्वालयत्। आगतं च पतिं जगाद-अस्य विषूचिका उपपन्ना। ततो मया फूत्कृतम्।
एवमुक्त्वा दुग्धभक्तं प्रदशितम्। पतिरपि मूर्खो दृष्ट्वा ययौ। ततः सा पत्यौ सुप्ते यदृच्छया सुरतं चकार। सोऽपि च मान्द्यव्याजान्मासमेकं स्थितः पश्चाज्जगाम।
इति श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकादशी कथा ॥
कथा-12
अथान्यदा सा चलिता। शुकः प्राह-
विपरीते समायाते यदि वेत्सि त्वमुतरम्।
यथा शोभिकया प्रोक्तं वव्वूले चरिते सति॥ 99 ॥
अस्त्यत्र नलउडाग्रामे कुलालो महाधनः। तस्य भार्या शोभिका नाम परं कुलटा नरलम्पटा च। सा पत्यौ बहिर्गते उपपतिसहिता गृहान्तः क्रीडति। तस्याश्चैवं स्थिताया भर्ता गृहं समागमत्। तदनन्तरं सा कथं भवत्विति प्रश्नः॥
शुकः प्राह-यदा च तया स आगच्छन् ज्ञानस्तदा उपपतिरुक्तः-`चट त्वं वव्वूलवृक्षम्।’
एवं च स तयो प्रोक्तस्तथा चकार। तस्य च वृक्षे चटतः परिधानवस्त्रं विलग्नं नग्नोऽपि वृक्षमारूढः। तस्मिंश्च वृक्षमारूढे पतिः प्राह-कमिदमिति।
सा आह-अयं शत्रुभिरभिभूतोऽदोवस्त्रमपि त्यक्त्वा वव्वूलमधिरूढः।
ततः समागत्य तस्याः पतिना वृक्षान्मन्दं मन्दमुत्तार्य स स्वगृहं प्रेषितः। तया धूर्तया च सहहस्ततालं हसितम्।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ द्वादशोकथा॥
कथा-13
अथान्येद्युः प्रभावती शुकं पृच्छति।
शुक आह-
व्रज देवि सुखं भुङ्क्ष्व अर्धभुक्ते पतौ यथा।
कृतं राजिकया चित्तमुत्तरं धूलिसंयुतम्॥ 100 ॥
अस्ति नागपुरं नाम स्थानम्। यत्रैको वणिक। तत्पत्नी राजिकानाम्नी सुरूपा परं दुश्चारिणो। वणिक्सुतश्च तां नरान्तरासक्तां न जानाति। ततश्च एकदा स भोजनाय यदोपविष्टस्तदा उपपतिः कृतसंकेतो मार्गे गच्छन् तया दृष्टः। तं त दृष्ट्वा गृहेऽद्य धृतं नास्ति इत्युक्त्वा द्रव्यं तत्सकाशादादाय घृतानयनदम्भेन वेश्मतो निर्गत्य च सा बहिर्जारेण सह चिरं स्थिता। पतिस्तु गृहे क्षुधार्तः क्रुद्धश्च। ततः सा कथं गृहं गन्तुमर्हति-इति प्रश्नः।
उत्तरम्-ततः सा हस्तौ पादौ मुखं च धूलिधूसरं विधाय सद्रम्मा धूलिं गृहीत्वा गृहमागता। पतिः क्रुद्धो रक्तेक्षणः किमिदमित्याह।
सा च सनिःश्वासं रुदती धूलिपुञ्जं दर्शयित्वा इदमुवाच-यत्कृते त्वं क्रुद्धः स ते द्रव्योऽत्र धूल्यां पतितः। एनामुत्क्षिप्य गृहाण त्वम्।
एवमुक्तः स विलक्षः तदङ्गानि वस्त्राञ्चलेन सम्मार्ज्य सान्त्वयामास विविधलालनैः। इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ त्रयोदशी कथा ॥
कथा-14
सा नितम्बिनि अन्येद्युश्चलिता।
शुकेनोक्तम्-
युक्तमेव विशालाक्षि परं रन्तुं यदृच्छया।
यद्यायाते पतौ वेत्सि धनश्रीरिव भाषितुम्॥ 101 ॥
प्रभावत्याह-किमेतत्।
शुकः प्राह-अस्ति पद्मावती पुरी। तत्र धनवालो नाम वणिक्। तस्य भार्या प्राणेभ्योऽपि प्रिया धनश्रोर्नाम। तच्च मिथुनं परस्परं स्नेहनिर्भरं क्रीडति। अन्यदा तु वणिग्द्रव्यसारमादाय तामापृच्छ्य देशान्तरं जगाम। सा च तस्मिन्गते संस्थितेव गृहस्थिता।
न स्नाति न च सा भुङ्क्ते न जल्पति सखीसमम्।
निरस्ताशेषसंस्कारा स्वदेहेऽपि पराङ्मुखी॥ 102 ॥
मलयानिलमारूढः कोकिलालापडिण्डिमः।
मल्लिकामोददूतश्च मधुपारवमङ्गलः॥ 103 ॥
अन्यदा तु समायातो वसन्तः कालराट् क्षितौ।
मनोऽपि विक्रियां यस्मिन्याति संयमिनां किल॥ 104 ॥
तस्मिन्वसन्तोत्सवे गृहोपरि स्थिता नगरीरामणीयकमालोक्य यौवनं रूपं च निनिन्द। सखी च तदिङ्गितज्ञा जगाद-भामिनि! रूपं वयश्च मा व्यर्थं विधेहि। यतः-
वाद्यते शृणु रम्भोरु कोकिलारावडिण्डिमः।
मदनस्य नृपस्येव वसन्तेन धरातले॥ 105 ॥
मुञ्चन्तु मानिनः सर्वे मानं सेवन्तु वल्लभाः।
गत्वरं यौवनं लोके जीवितं च तथा चलम्॥ 106 ॥
ततस्त्वमपि कुरु वयःसाफल्यमित्युक्ते धनश्रीर्जगाद-नाहं विलम्बितुं सहामि। यत्त्वया भवति तत् शीघ्रं विधेहि। ततस्तया सा नरान्तरेण योजिता। यदा च सा तेनात्मासक्ता ज्ञाता तदा तदीयशिरोवेणी छिन्ना। तत्काले च पतिर्देशान्तरादाजगाम। तदा सा कथं भवत्विति प्रश्नः। शुकः प्राह-यदा च पतिर्गृहद्वारमाययौ तदा तयोत्तरं विचिन्त्योक्म्-नाथ! त्वया तादवद्गृहद्वारि स्थीयतां यावत्सर्वं सज्जं विधीयते।
तेन चैवं प्रतिपन्ने सा मध्ये गत्वा भट्टारिकां पूजयित्वा पुरतो वेणीं स्थापयामास। एवं कृत्वा बहिर्निर्गत्य चरणमण्डकैः पतिं गृहन्तर्देवीपुरतो नीत्वा जगाद-नाथ! पूजय गृहाधिदेवताम्।
तेन पूजयता वेणीं दृष्ट्वा उक्तम्-किमिदमिति। तयोक्तम्-मयोपयाचितमासीत्। यदा मे पतिः समेष्यति तदा स्वामिन्यहं तवाग्रे वेणीं छेत्स्यामि। तदधुना मया कृतम्।
स च मुग्धो देवीं नमस्कृत्य तां बहु मानयामास। इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ चतुर्दशी कथा ॥
कथा-15
अन्यदा सा चलिता।
हसन्नाह शुको याहि यदि कर्तुं त्वमुत्तरम्।
वेत्सि यथा श्रियादेव्या नूपुरेऽपहृते कृतम्॥ 107 ॥
अस्ति शालिपुरं नाम नगरम्। तत्र शालिगो वणिक्। तत्पत्नी जयिका। तयोः सुतो गुणाकरो नामाभूत्। तद्भार्या श्रियादेवी। सा चापरेण सुबुद्धिनाम्ना वणिजा सह रमते। ततो लोकापवादेऽपि संजातेऽनुरक्तस्तदीयः पतिर्न किमपि कर्णे करोति।
उक्तञ्च-
रत्ता पिच्छन्ति गुणा दोसा पिच्छन्ति जे विरत्तत्ति।
मज्झत्था उण पुरिसा दोसा वि गुणा वि पिच्छन्ति॥ 108 ॥
[ रक्ताः पृच्छन्ति गुणान् दोषान् पृच्छन्ति ये विरक्ताः।
मध्यस्थाः पुनः पुरुषा दोषानपि गुणानपि पृच्छन्ति॥ ]
किञ्च-
महिलारत्ता पुरिसा छेआ वि ण संभरन्ति अप्पाणं।
इअरे उण तरुणीणं पुरिसा सलिलं व हत्थगअं॥ 109 ॥
[महिलारक्ताः पुरुषाश्छेका अपि न सम्भरन्ति आत्मनाम्।
इतरे पुनस्तरुणीनां पुरुषाः सलिलमेव हस्तगतम्॥ ]
अन्यदा सा श्वशुरेण नरान्तरसहिता सुप्ता दृष्टा। ततश्चरणान्नूपुरं श्वशुरेण चोत्तारितं तया च ज्ञातम्। ततः सा तं जारं प्रस्थाप्य भर्तारं तत्रानीय तेन सह सुप्ता। निद्रान्तरे च पतिरुत्थापितः कथितञ्च-त्वदोयेन पित्रा नूपुरमस्मत्पादादवर्ताय गृहीतम्। एवंविधं च पातकं क्वापि न दृष्टं यद्वधूपादात् श्वशुरो नूपुरं गृह्णाति।
तेनोक्तम्-प्रातः पितुः सकाशात्स्वयमर्पयिष्यामि।
तेन च गुणाकरेण पितर निर्भर्त्स्य तत्सकाशान्नूपुरं याचितम्।
पित्रा चोक्तम्-यदियं परपुरुषेण सह सुप्ता दृष्टा अतो मया नूपुरं गृहीतम्।
तयोक्तम्-त्वत्पुत्रेण सह सुप्ताहमासम्। इत्यर्थे दिव्यं करोमि। अत्रैव ग्रामे उत्तरस्यां दिशि यक्षोऽस्ति। तस्य जंघान्तरान्निर्गमिष्यामि। यः कश्चित्सत्यो भवति स जंघयोरन्तरान्निष्क्राम्यतीति प्रसिद्धम्।
एवं श्वशुरेण चाङ्गीकृते सा कुलटा सति दिने जारस्य गृहे गत्वा तमुवाच-भो कान्त! प्रातरहं दिव्यार्थं यक्षस्य जंघान्तरान्निर्गमिष्यामि। त्वया तत्र समागत्य वातूलत्वमाश्रित्य मम कण्ठग्रहो विधेयः।
तेन च तथोक्ते सा स्वगृहमाजगाम। अथ प्रापः समस्तमहाजनं मलयित्वा पुष्पाक्षतादिकमादय यक्षायतने गत्वा समीपसरसि स्नानं कृत्वा यक्षपूजार्थं समागच्छन्त्यास्तस्याः पूर्वसङ्केतितो जारो ग्रहिलीभूतस्तत्कण्ठे निजबाहुद्वयं योजयामास।
तत आः किमेतदित्यभिधाय सा पुनः स्नानार्थं ययौ। सोऽपि ग्रहिलो लोकैः कण्ठे गृहीत्वा तस्मात्प्रदेशाद्दूरीकृतः। सापि स्नानं कृत्वा यक्षसमीपमागत्य पुष्पगन्धाद्यैरभ्यर्च्य सर्वलोकानां शृण्वतामुवाच-भो भगवन्यक्ष! निजभर्तारमेनं च ग्रहिलं विना यद्यन्यपुरुषः स्पृशति कदाचन मां तदा तव जघाभ्यां सकाशान्मम निष्क्रमणं मा भवत्वित्यभिधाय सर्वलोकसमक्षमेव जंघयोर्मध्ये प्रविश्य निष्क्रान्ता। यक्षोऽपि तद्बुद्धि मनसि श्लाघमान एव स्थितः। सापि सतीति समस्तलोकैः पूजिता स्वभवनं जगाम। एवं चेत् श्रियादेवीवत्कर्तुं जानासि तदा व्रज। इति श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ पञ्चदशी कता ॥
कथा-16
अन्यदा सा चलिता शुकं प्राह-शुकाहं नरान्तरं गमिष्यामि। शुकः प्राह-
सत्यमेव त्वयाभाणि कर्तव्यं यन्मनोऽनुगम्।
मनस्तु मुग्धिका यद्वदशक्यान्खेदयत्यलम्॥ 110 ॥
तच्ध्रुत्वा प्रभावत्याह-कथमेतत्।
सोऽब्रवीत्-अस्ति विदिशा नाम पुरी। तस्यां जनवल्लभो नाम वणिक्। तस्य भार्या मुग्धिका नाम चपला स्वैरिणी। यदा च तयातिशयेन विदूषितोऽयं तदा बन्धूनां कथयामास यदियं बहिःशायिनी।
यदा च तैरेवमुक्ता तदा तयाप्युक्तम्-अयमेव बहिःशायी सदैव। मां मुधापवादयति।
ततस्तैर्मिलित्वा निर्बन्धः कृतः “यः कोऽपि अद्यप्रभृति बहिःशायी सोऽपराधो।” एवं निर्बन्धे कृतेऽपि सा सुप्तं पतिं विहाय बहिर्गता। तस्यां च बहिर्गतायां स पतिर्द्वारं दत्वा सुप्तः। यदा चबहिः क्रीडां कृत्वा समागतायाः स पतिर्द्वारं नोद्घाटयति तदा सा कूपे दृषदं क्षिप्त्वा द्वारदेश एव स्थिता। पतिरपि कूपे पतिता भविष्यतीति ज्ञात्वा द्वारमुद्घाट्यबहिर्निर्गतः। तदा सा द्वारं पिधाय मध्ये स्थिता। सोऽपि च बहिः स्थितो `हा प्रिये’ एवं वदन्महता शब्देन गोदितुमारब्धः। सापि विगोपकभयाद्बहिर्निर्गत्य पतिं मध्ये निनाय। ततस्तन्मिथुन परस्परं निर्बन्धं चकार। यदद्यप्रभृति मया त्वया विसंवादो न विधेयः। इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ षोडशी कथा ॥
कथा-17
अन्यदा सा हसन्ती नरान्तरगमनाय शुकं पृच्छति।
शुक आह-यदेव मनसोऽभीष्टं तदेव कार्यम्।
उक्तञ्च-
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत्॥ 111 ॥
मनोऽनुकूलं कुर्वन्तु तन्वि ते दुःखमागतम्।
सोढुं शक्तास्तथा वक्तुं गुणाढ्यो ब्राह्मणो यथा॥ 112 ॥
प्रभावती पृच्छति-कथमेतत्।
शुकः कथयति-अस्ति विशाला पुरी। तत्र यायजूको ब्राह्मणः। तस्य पत्नी पाहिनी नाम सुरूपा अतिवल्लभा। तत्पुत्रः पित्रा सर्वामपि क्रमाद्विद्यां ग्राहितः। अन्यदा स पितरौ मुक्त्वा देशान्तरं गतः। गुणाढ्य इति विश्रुतो बभूव। जयन्त्यां च नगर्यां बुद्धिजीवनं व्यचिन्तयत्। ततः षण्डं यवकाशादिभिः पुपोष।
सोऽपि षण्डस्तमनु परिभ्रमति। अन्यदा सबन्धनं षण्डं विधाय वणिजारकवेषधारी मदनाया वेश्यायाः क्टुटिनीं जगाद-अस्मदीया बलीवर्दाः सवस्तुका प्रातरेष्यन्ति। अद्याहं तृणानयनार्थमागतः। तद्यत्र अस्मदीयस्य बलीवर्दस्य स्थानं भवति तत्राहं स्वपिमि।
इत्युक्ते सा कुट्टिनी बलीवदधनैषिणी तं स्थापयामास। सोऽपि तं षण्डं बद्ध्वा विलासिनीपार्श्वे ययौ। तया च स्नापितो भोजितश्च गुणाढ्यो रजन्यां शृङ्गारितः तत्सकाशे स्थितः। सोऽपि च प्रभातायां निशि प्रथममेवोत्थाय स्वर्णशृङ्खला गृहीत्वा जगाम।
गते च तस्मिन्नेका चेटी उत्थिता षण्डमदृष्ट्वा कुट्टिनीं प्रत्याह `आउए किमिदम्’।
ततस्तं विलासिनीपार्श्वाद्गतं ज्ञात्वा मौनं विधाय स्थिता। उक्तञ्च-
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्॥ 113 ॥
अन्यदा गुणाढ्यो द्यूतनिर्जितः खटिकाहस्तो वेश्यया धृतः।
तेनोपायश्चिन्नितः-शम्बलो शम्बलीति जगाद।
ततस्तया राजभयान्मुक्तः। ततस्तस्यां चलितायां पृष्ठलग्न एव शम्बलीति वदन् गच्छति। ततस्तया विजने नीत्वा हस्तात्प्रसाद्य स्वर्णाभरणं दत्तम्।
सोढुं त्यक्तुं च यः शक्तो मनसा कृतमन्यथा।
मनोऽनुकूलतां कुर्वन्न स निन्द्यः सदा सताम्॥ 114 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ सप्तदशी कथा ॥
कथा-18
अन्यदा सा चलिता शुकेनोक्ता।
गच्छ देवि न ते देषो गच्छन्त्याः परवेश्मनि।
यदि काचिच्छरीरे ते बुद्धिः सर्षपचौरवत्॥ 115 ॥
अस्ति शुभस्थानं नाम नगरम्। तत्र दरिद्रो नाम वणिक्। तस्य गृहे चौरः प्रविष्टः। सोऽपि च तत्रान्यत्किमप्यलभमानः सर्षपान् गृहीत्वा निर्गतो राजपुरुषैः प्राप्तः। सर्षपान् गले बद्ध्वा भ्रामितो राजकुलात्स कथं मुच्यते।
उत्तरम्-यो यः पृच्छति तस्य तस्याग्रे वदति-अहो सर्षपाणां मध्ये न किंचित्।
ततो राज्ञा सभायामाकार्य पृष्टः-तव वचोऽभिप्रायं न जाने।
प्राह-
बलेर्वर्षदिने लोकः सर्षपान्पञ्चरक्षकान्।
हस्ते बध्नाति तन्नूनमप्रमाणमतः परम्॥ 116 ॥
यतोऽहमेतावद्भिरपि गले बद्धैर्बद्धः राजाऽपि तदाकर्ण्य हसँस्तं मुमोच।
इति श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ अष्टादशी कथा ॥
कथा-19
अन्यदा प्रभावती चलिता।
शुकः प्राह-
कुरु यद्रोचते भीरु यदि कर्तुं त्वमीश्वरा।
यथा सन्तिकया भर्ता स्वच्छन्दा च विमोचिता॥ 117 ॥
अस्ति करहडाभिधं पुरम्। तत्र राजा गुणप्रियो नाम यथार्थः। तत्र च सोढोको नाम श्रेष्ठिः। तद्भार्या सन्तिका नाम पतिव्रता। तत्रैव चान्यो वणिक्। तद्भार्या स्वच्छन्दा नाम पुंश्चली। सा च सोढाकं नित्यमिच्छति परं सोऽभिवाञ्छां न विधत्ते। अन्यदा च मनोरथाभिधं यक्षं नमस्कर्तुं जगाम सः। ततः स्वच्छन्दा पृष्ठलग्ना तत्र प्रविष्टा। स च हावभावाद्यैरनुकूलितो भुक्तः।
युक्तमुक्तञ्च-
सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव।
भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति॥ 118 ॥
तच्च मिथुनं दृष्ट्वा राजपुरुषः तद्बन्धनाय यक्षगृहं वेष्टितम्। सन्तिका च शुद्धिं ज्ञात्वा रात्रौ महता तूर्यशब्देन यक्षगृहं गता। तेषामारक्षकाणां पुरत उक्तम्-अहमद्यदिनव्रता यक्षं दृष्ट्वा भोजनं विजने विधास्ये। मां च किंचिद्धनं गृहीत्वा मध्ये प्रवेशयतु।
तैरपि तथैव कृतम्। ततस्तया स्वच्छन्दा स्ववेषां कारयित्वा बहिर्निष्कासिता। स्वयं मध्ये स्थिता। तं च प्रातर्निजकान्तासहितं दृष्ट्वा आरक्षका विलक्षीबभूवुः।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकोनविंशतितमी कथा ॥
कथा-20
अन्यदा प्रभावती शुकं पप्रच्छ।
शुकः प्राह-
गच्छ देवि मनो यत्र रमते ते नरान्तरे।
केलिकावद्यदा वेत्सि पतिवञ्चनमद्भुतम्॥ 119 ॥
अस्ति साभ्रमत्या नद्यास्तटे शङ्खपुरं नाम स्थानम्। तत्र च कर्षुकः सूराख्यो धनी। तस्य केलिका भार्या परं कुटिला कुलटा च। साऽन्यस्मिन्नदीतीरे सिद्धेश्वरपुरस्थं ब्राह्मणं कामयते। तदासक्ता च रात्रौ प्रातिवेशिकादूतिकासाहाय्यान्नदीं तीर्त्वा तदन्तिकं प्राप्नोति। अन्यदा भर्त्रा ज्ञातम्। स च तत्र गतस्तच्चरित्रगवेषणाय। यावत्सा नदीतीरे तत्र समागता तया च तावद्दृष्टः।
ततस्तरणघटं पानीयभृतं विधाय प्रातिवेश्मिकागृहमध्ये भट्टारिकां मण्डयित्वा तेन पयसा स्नापयित्वा प्रत्युवाच प्रथमसंकेतितां दूतिकामुद्दिश्य-`स्वामिनि! पुरा त्वया उक्तं यदि त्वं सिद्धेश्वरीं न स्नापयसि ततः पञ्चानां दिनानां मध्ये त्वद्भर्तृभरणं भविष्यति ततो यदि त्वद्वचनप्रमाणं तदा मम पतिश्चिरं जीवतु।
प्रातिवेश्मिकयोक्तम् एवमस्त्विति श्रुत्वा पतिस्तुष्टो भूत्वाऽलक्षित एव जगाम।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ विंशतितमी कथा ॥
कथा-21
अन्यस्मिन्दिने प्रभावत्या पुष्टः शुकः प्राह-
व्रज देवि न दोषोऽस्ति व्रजतां सर्वकर्मसु।
बुद्धिरस्ति यदा येषां मन्दोदर्याः सहायिनी॥ 118 ॥
प्रभावत्याह-कथमेतत्।
शुक्रः-अस्ति प्रतिष्ठानं नाम नगरम्। तत्र हेमप्रभो नाम राजा। श्रुतशीलो मन्त्री। श्रेष्ठी यशोधरः। मोहिनी भार्या। तयोस्तनया मन्दोदरी। स श्रीवत्साय वणिजे कान्तिपुरीसमागताय दत्ता। तन्मिथुनमतीव स्नेहलम्पटम्। सा च प्रातिवेश्मिकया पितृभार्यया कुट्टिन्या दंष्ट्राकरालया योजितमन्यं राजपुत्रमुपभुङ्के। साऽऽपन्नसत्त्वा भूता गर्भसंभवात्संजाते दोहदे राजवल्लभं मयूरं मारयित्वा भक्षितवती। राजा तु तस्मिन्मयूरे समागते भुंक्ते इति स्थितिः। तस्मिन्दिवसे तु भोजनवेलायां न लब्धः। डिण्डिमघोषणे कृते कुट्टिन्या पटहः स्पृष्टः। तया च ज्ञातं यत्कयाचिदापन्नसत्त्वया मयूरो दोहदाद्भक्षितः। ततः सा गर्भवती पृष्टा तया कुट्टिनो गृहमागता सम्मानिता।
उक्तञ्च-
माधुर्यं प्रमदाजने सुललितं दाक्षिण्यमार्ये जने, शौर्यं शत्रुषु मार्दवं गुरुजने धर्मिष्ठता साधुषु।
मर्मज्ञेष्वनुवर्तनं बहुविधं मानं जने गर्विते, शाठ्यं पापजने नरस्य कथिताः पर्यन्तमष्टौ गुणाः॥ 119 ॥
तया च सर्वोऽपि मयूरवृत्तान्तो निवेदितः। सा चकुट्टिनी विश्वासघातिका।
उक्तञ्च-
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्।
विश्वासाद् भयमुत्पन्नं मूलादपि निकृन्तति॥ 120 ॥
दारेषु गोप्यं पुरुषस्य किञ्चिद्गोप्यं वयस्येषु सुतेषु किञ्चित्।
युक्तं न युक्तं मनसा विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात्॥ 121 ॥
किञ्च-
सोपचाराणि वाक्यानि शत्रूणामिह लक्षयेत्।
अविचारितगीतार्थां मृगा यान्ति पराभवम्॥ 122 ॥
किरातेऽप्युक्तम्-
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।
प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिताइवेषवः॥ 123 ॥
कुट्टिन्या तत्सर्वं ज्ञात्वा मन्त्रिणे निवेदितम्। मन्त्रिणाऽपि राज्ञे। राजा प्राह-
मा होहि सुहग्गाहि मा पत्तिहि जं ण दिट्ठपच्चक्खं।
पच्चक्खम्मि वि दिट्ठे जुत्ताजुत्तं विउतणाहि॥ 124 ॥
[ मा भव सुखग्राही मा प्रत्येहि यन्न दृष्टं प्रत्यक्षम्।
प्रत्यक्षेऽपि दृष्टे युक्तायुक्तं विजानीहि॥ 124 ॥ ]
तद्वणिजो नगरप्रधानस्य वध्वा नैतन्निष्पद्यते। यावदात्मना न दृष्टं तावदसौ न विडम्ब्यः।
तच्च कुट्टिन्या अग्रे मन्त्रिणा निवेदितम्। कुट्टिनी च मन्त्रिणं पेटायां निक्षिप्य तद्गृहे न्यासव्याजेन मुमोच। स्वयं च तत्र गत्वा तामभाषत-
मुग्धे! यन्मयूरभक्षणं कृतं तत्त्वं मे श्लाघ्या।
उक्तञ्च-
एणः कुरङ्गो हरिमस्तित्तिरिर्लाव एव च।
मयूरचर्मिकूर्माश्च श्रेष्ठा मांसगणेष्वपि॥ 125 ॥
पुनरपि समग्रो वृत्तान्तः पुष्टः। कथ्यमानश्च पेटाहननकृतसंज्ञेन मन्त्रिणा श्रुतः। तत्कथं सा श्रेष्ठिवधूस्तत्पिता श्वशुरश्च मुच्यन्ताम्।
उक्तञ्च-
न नीचजनसंसर्गान्नरो भद्राणि पश्यति।
दर्शयत्येव विकृर्तिं सुप्रियेऽपि खलो यतः॥ 126 ॥
नाशयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम्।
पाटयितुमेव शक्तिर्नखोरुद्धर्तुमन्नपिटम्॥ 127 ॥
दुज्जणजणणं सग्गे काअच्चाओ वि होइ विबुहाणं।
पेच्छह तिलेहि पत्तं खलसंगे पीडणं जत्तो॥ 128 ॥
[ दुर्जनजनानां संगे कायत्यागोऽपि भवति विबुधानाम्।
प्रेक्षस्व तिलानामपि खलसङ्गे पीडनं यतः॥ 128 ॥ ]
यावत्सा कुट्टिनी पेटां हस्तेन हन्ति तावत्सा वणिक्पुत्री सवितर्कमवादीत्-
विभाता रजनी तावद्यावदेवं कृतं मया।
प्रबुद्धं च तदा मातर्नाग्रे किंचिद्विदृश्यते॥ 129 ॥
मार्तमया एवंविधः स्वप्नो दृष्ट। यः कश्चिदर्थप्रमाणो मे भवति स कथ्यताम्।
एवं श्रुत्वा मन्त्री द्वारमाहत्य बहिर्निर्गतः। ततः सम्मानिता वणिग्वधूः सा तु कुट्टिनीति निर्वासिता।
इति कथां श्रुत्वा प्रभावती सुप्ता॥
॥ इति शुकसप्ततौ एकविंशतीतमी कथा ॥
कथा-22
पुनः प्रभावत्या पृष्टः शुकः प्राह-
याहि देवि पुनर्याहि मदीयं मतमीदृशम्।
यदि वेत्स्युत्तरं किचिद्यथा माढुकया कृतम्॥ 130 ॥
तच्छ्रुत्वा प्रभावत्याह-कथमेतत्।
शुकः प्राह-दाम्भिलाग्रामे सोढाको नाम कर्षुकः। तद्भार्या माढुक नाम। तां च भक्तहारिणीं पथि गच्छन्तीम् एको बहिः सूरपालाख्यो नरो भुंक्ते। सा कदाचिन्मार्गे भक्तं मुक्त्वा तेन सह स्थिता। ततो मूलेदवेन धूर्तेन तस्मिन्भक्ते उष्ट्रिका कृता। तया च एवं जातं भक्तमनुत्पाटयित्वा नीनम्। यावच्च भर्त्रा उष्टिका दृष्टा तावत्किमिदिति सा पृष्टा। ततस्तया तत्कालोत्तरं कृत्वोक्तम्-नाथ! अद्य रात्रौ स्वप्ने उष्ट्रिकया भक्षितो दृष्टस्त्वम्। ततो मया विघ्नापहाराय विपरीतमिदं कृतम्। विश्रब्धं भक्षय यथा विघ्नो नश्यति।
इति श्रुत्वा रतात्मना तेनोष्ट्रिकाऽपि भक्षिता।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ द्वाविंशतितमी कथा॥
कथा-23
अन्यदा सख्यस्तां पुरुषान्तराभिसरणायैवमूचुः-
यत्र स्वेदलवैरलं विलुलितैर्व्यालुप्यते चन्दनं
सच्छेदैर्मणितैश्च यत्र रणितं न श्रूयते नूपुरम्।
यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेकाग्रतः
सख्यस्तत्सुरतं भणामि रतये शेषा च लोकस्थितिः॥ 131 ॥
तथा च-
संसअतुलण जहिं चडइ तस्सुण जीविउ धणु।
आइ परा जहि लहिज्जइ तं जि भणिज्जिइ पेम्मु॥ 132 ॥
[ संशयतुलायां न यः आरोहति तस्य न जीवितं धन्यम्।
आगते परा या लभ्यते तदेव भण्यते प्रेम॥ ]
आरोग्यं परमानन्दः सुखमुत्साह एव च।
ऐश्वर्यं प्रियसम्भोगं विना सर्वं निरर्थकम्॥ 133 ॥
उक्तञ्च-
आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी।
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः॥ 134 ॥
शुकः प्राह-
सुलभाः पुरुषा राजन्सततं प्रियवादिनः।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः॥ 135 ॥
ततः किं बहुनोक्तेन त्वं चैताः कृत्यकोविदाः।
कुट्टिनीचरितं श्रुत्वा तद्विचार्यं त्वरान्विताः॥ 136 ॥
प्रभावत्याह-कथमेतत्।
शुकोऽब्रवीत्-अस्ति पद्मावती पुरी। यत्र
मणिकुट्टिममार्गेषु शोभते रविविस्तरः।
शेषफणमणिरागो वसुधामिवोपागतः॥ 137 ॥
तत्र शुदर्शनो नाम राजा।
शशिना हरिणा चैव बलिना कुशभूभुजा।
कुशशक्तिच्छलत्यागसम्पद्यस्य न खण्ड्यते॥ 138 ॥
किं तस्य वर्ण्यते राज्ञः प्रजापालनशलिनः।
यस्मिल्ँलोके न दृष्टा हि दोषा रविकरैरिव॥ 139 ॥
तस्य शृंगारसुन्दरी नाम भार्या। तस्य नृपतेस्तया सह क्रीडतो ग्रोष्मकालोऽवातरत्।
यत्र सूरः खरो घस्रो यत्र दीर्घोऽतिदुःसहः।
खरश्च पवनो भीरु ग्रीष्मे सर्वमिदं खरम्॥ 140 ॥
चन्दनं शुचिवस्त्रं च पानीयं शुचि शीतलम्।
सेव्यमानोऽपि मधुरः शुचिर्जयति नान्यथा॥ 141 ॥
मध्याह्ने चन्दनं येषां सायं मज्जनसेवनम्।
रात्रौ व्यजनवातश्च तेषां ग्रीष्मोऽपि किंकरः॥ 142 ॥
एवंविधे ग्रीष्मे च चन्द्रनामा वणिक् प्रभावतीभार्यासमेतो गृहोपरिभूमिकायामारुढः। करैर्युक्तोऽपि निरालम्बः आदित्यः पश्चिमाभ्योनिधितटं गतः।
उक्तञ्च-
प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहु साधनता।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि॥ 143 ॥
तत्रस्थः स तथा भानू रागशेषो गतांशुकः।
भातीव विद्रुमघटः स्रस्तः संध्यावधूकरात्॥ 144 ॥
अत्रान्तरे विशालाक्षि चन्द्रो हन्तुं तमोरिपुम्।
उदयाद्रिशिरः स्थातुमुद्यतोंऽशुभटैर्वृतः॥ 145 ॥
प्राचीमुखे विभातीन्दुरुदयाद्रिशिरःस्थितः।
दीपस्त्रिभुवनस्येव प्रच्छन्नस्य तमिस्रया॥ 146 ॥
उदयाचलमारुढो भाति चन्द्रो निशामुखे।
यामिनीवनितोत्सङ्ग शुल्कः कृष्णशिरःस्थितः॥ 147 ॥
एवंविधे निशामुखे स वणिक् विक्रीडितया तया सार्धं क्रीडितः। अस्य रामनामा सुतः संजातः। तस्मै पित्रा विद्याश्चाशेषा ग्राहिताः। तस्य माताऽन्यदा चन्द्रं प्राह-मम एक एव पुत्रः। ततोऽहमतिशयेन दुःखार्ता।
चन्द्रः प्राह-एकोऽपि त्वदीयः सुतः श्लाघ्यः।
उक्तञ्च-
चतुरो मधुरस्त्यागी गम्भीरश्च कलालयः।
गुणग्राही तथा चैवं एकोऽपीदृग्वरः सुतः॥ 148 ॥
तथा च-
किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः।
वरमेकः कुलालम्बी यत्र विश्रूयते कुलम्॥ 149 ॥
इत्युक्त्वा धूर्तमायां कुट्टिनीमाकार्येदमब्रवीत्–तव कनकसहस्रं दास्ये। मम पुत्रं स्त्रीमायावञ्चनदक्षं कुरु।
तथेति तया प्रतिज्ञाते पुत्रं समाक्षिकं तस्यै दत्त्वा यद्यस्मत्पुत्रः क्वापि वेश्यायाः कपटेन जितो भवति तदाहं द्विगुणं कनकं ग्रहीष्ये। तयोक्तम् एवमस्त्विति।
लेखयित्वा पुत्रं तद्गृहे प्रेषयामास। स च तत्रस्थो वेश्याजनोद्भवान्विकारान् गृह्णाति।
तद्यथा–
वैशिकीं कृत्रिमां वाणीं व्यलीकान् शपथांस्तथा।
कौटिल्यं कृत्रिमं भावं कृत्रिमं रुदितं तथा॥ 150 ॥
हास्यं च कृत्रिमं दुःखं सुखं चैवमपार्थकम्।
याचनं विनयोपेतं स्नेहभावो निरीहता॥ 151 ॥
समत्वं सुखदुःखेषु धर्माधर्मसमक्रिया।
भुजंगपुरतश्चैव कौटिल्यक्रमदर्शनम्॥ 152 ॥
तथा च-
अहरं करं कवोलं थणजुअलं णाहिमण्डलं रमणं।
इत्थिअजणसामण्णं हिअअं जं जस्स तं तस्स॥ 153 ॥
[ अधरः करः कपोलः स्तनयुगलं नाभिमण्डलं रमणम्।
स्त्रीजनसामान्यं हृदयं यद् यस्या तत् तस्याः॥ ]
इत्येवमादि समग्रं वेश्यानुगं चरितं शिक्षितम्। ततः स पुत्रः प्रतिज्ञापूर्वं वणिजे समर्पितः। पितुर्वाक्येन च सुवर्णद्वीपे वाणिज्याय प्रेषितः। तत्र च कलावती वेश्या। तया सह वर्षमेकं स्थितः। तां वैशिकानि कुर्वन्तीं स प्राह-विशेषं वद। एव ममानुजाऽपि वदति।
ततो बहुभिरपि वैशिकैर्न तत्सर्वस्वं गृहीतुं शक्नोति। ततस्तया सर्वमपि मातुर्निवेदितम्।
माताऽपि प्राह-निश्चितमेष वेश्यासुतः। नेदृशैर्गृह्यते। प्रपञ्चेनैव ग्राह्यः। ततो यदाऽयं स्वदेशं गन्तुकामस्त्वामुत्कलापयति तदा त्वया वाच्यम्–`अहमपि तत्र यास्यामि। यदि न नयसि तदा मरिष्यामीत्युक्त्वा कूपे झम्पा देया। ततोऽसौ प्रीतस्त्वां प्रति सर्वं दास्यति।’
तयोक्तम्–मातर्मां विना तद्द्रव्येण किम्।
ऊक्तञ्च–
अतिक्लेशेन ये ह्यर्था धर्मस्यातिक्रमेण च।
शत्रूणां प्रणिपातेन मा स्म तेषु मनः कृथाः॥ 154 ॥
माता आह-भीरु! मा मैवं वद। मृत्युदोऽर्थः प्राणदश्च।
उक्तञ्च-
नासाहसं समालम्ब्य नरो भद्राणि पश्यति।
साहसी सर्वकार्येषु लक्ष्मीभाजनमुत्तमम्॥ 155 ॥
नाभित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम्।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्॥ 156 ॥
कालः समविषमकरः परिभवसन्मानकारकः कालः।
कालः करोति पुरुषं दातारं याचितारञ्च॥ 157 ॥
अहं च तत्राधो जालं विरचयिष्ये।
इति कुट्टिनीवचनमाकण्यं तया तथा कृतत्। तथा च कृते तेन सर्वस्व दत्तम्। कोटिसंख्यं च द्रव्यं गृहीत्वा मानरहितो निष्कासितः। उक्तञ्च-
वेसा वि रमन्ति जणं पिअं पि वञ्चन्ति अत्थलोहेण।
ताण णमो वेसाणं अप्पा वि ण वल्लहो जाण॥ 158 ॥
[ वेश्या अपि रमन्ते जनं प्रियमपि वञ्चयन्ति अर्थलोभेन।
ताभ्यो नमो वेश्याभ्यः आत्माऽपि न वल्लभो यासाम्॥ ]
स च तथा धनमानपरिभवं प्रापितः परपोतमारुह्य स्वगृहमागमत्। एकाकिनं सुतं धनपरिजनवर्जितं दृष्ट्वा पिता सबाष्पं धनक्षयकारणं पृच्छति। सोऽपि स्वयं लज्जन् गृहमन्त्रिमुखेन निवेदितवान्।
पित्रोक्तम्-वत्स मा विषादं विधेहि। विपदः सम्पदोऽपि पुंसः सम्पद्यन्ते।
उक्तञ्च-
चिन्तामिमां वहसि किं गजयूथनाथ यूथाद्वियोगविनिमीलितनेत्रयुग्म्।
पिण्डं गृहाण पिष वारि यथोपनीतं दैवाद्भवन्ति विपदः किल सम्पदो वा॥ 159 ॥
किमनेन धनेनापि सत्वरेण मनस्विनाम्।
गतेन जायते खेदो दर्षश्चैवागतेन च॥ 160 ॥
एवं सुतं समाश्वास्य धूर्तमायामाकार्य इदमब्रवीत्–शृणु यदत्र कौतुकं संवृत्तम्। त्वय्यध्युषितोऽपि सुतो गतसर्वस्वः समाययौ।
साऽऽह–स्त्रीभिः को न खण्डितः।
उक्तञ्च-
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः। स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः।
कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान्॥ 161 ॥
रमणसिहिणन्तराले बहलअरे रोमराइतरुगहणे।
हरिहरणरगोबिन्दा बिडम्बिआ मअणचोरेण॥ 162 ॥
[ रमणशिखिनोऽन्तराले बहुलतरे रोलराजितरुगहने।
हरिहरनरगोविन्दाः विडम्बिता मदनचोरेण॥ ]
तत्त्वं पुनः पोतं भृतं कृत्वा मां पुत्रान्वितां तत्र प्रेषय।
उक्तञ्च-
कृते प्रतिकृतं कुर्या हिंसिते प्रतिहिंसितम्।
त्वया लुञ्चापिताः पक्षा मया लुञ्चापितं शिरः॥ 163 ॥
मयाऽप्युक्तम्-यदि त्वदीयपुत्रः क्वापि स्त्रिया वञ्च्यते तदा मम दूषणम्।
उक्तञ्च-
दिग्गजकूर्मकुलाचलफणिपतिविधृताऽपि चलति वसुधेयम्।
प्रतिपन्नममलमनसां न चलति पुंसां युगान्तेऽपि॥ 164 ॥
तथा च-
अचला चलन्ति पलए मज्जाअं साअरा विलंघन्ति।
करुआ वि तह विकाले पडिवण्ण साध सिढिलेन्ति॥ 165 ॥
[ अचलाश्चलन्ति प्रलये मर्यादां सागरा विलङ्घन्ते।
गुरुका अपि तथा विकाले प्रतिपन्नसाधनं न शिथिलयन्ति॥ ]
धीरा जाण पमाणं जिमिअव्वे तह वि जंपिअव्वे अ।
अइ जिमिअजंपिआइं पच्छा वच्छे अपच्छाइं॥ 166 ॥
[ धीरा जानन्ति प्रमाणं जेमनस्य तथाऽपि कथनस्य च।
अपि भुक्तं जल्पितं पश्चाद् वत्से न तप्यन्ति॥ ]
ततः श्रेष्ठी तं पुत्रं प्रेषयामासाशु तया समं सुवर्णद्वीपे। ततस्तस्मिन्सर्वोऽपि पौरजनः प्रीतो बभूव। सा च कलावती सानुकूला तं विनयेनाजुहाव। तथा च स तयावर्जितो यथाऽसौ आत्मायत्तः कृतः। द्रव्यं च सर्वं गृहीतम्। ततः सा धूर्तमाया कुट्टिनी किं करोतु-इति प्रश्नः।
सा प्राह-शुक! न जाने। त्वं वद।
शुकः-यद्यद्य न यासि तदा कथयामि।
सा आह-न यास्यामि।
शुकः-यदा तस्य सर्वं गृहीतम् तस्मिन्समये कैश्चिद्दिनैश्चाग्रेऽपि चाण्डालरूपधारिणी धूर्तमाया नित्यं नित्यं गवेषमाणैव किञ्चित्। अन्यदा स कलावत्या सहितः खट्वायामुपविष्टस्तया दृष्टः। ता द्वारि दृष्ट्वा सहसोत्थाय नाशयितुमुद्यतः पूर्वमेव संकेतितम्। तमुत्तिष्ठन्तमनु कलावत्यप्युत्थिता। उक्तञ्च-किमिदमिति।
रामस्तामुवाच-भद्रे! इयं मम जननी। अहं च हृतार्थको बहुदिनेभ्यो न तया दृष्टः। धूर्तमायाऽपि तं संकेतस्थं द्वारस्थैव सशङ्का हस्तसंज्ञया आजुहाव।
जागदेति चिराल्लब्धो वेश्यागृहगतो भवान्।
म्लेच्छीभूता इयं वेश्या सर्वस्वं मे त्वया हृतम्॥ 167 ॥
यावदेवं गृहाङ्गणगता शपति तावत्स वणिक् चाण्डालरूपी समागत्य तत्पादयोः पतितः। एतच्च दृष्ट्वा कलावती कुट्टिनीसहिता ताम् गृहमध्ये नीत्वा पृच्छति स्म–अम्ब! कोऽयम्? किं जातीयः? त्वं का?
तयोक्तम्–पद्मावतीपुरीनाथस्य राज्ञः सुदर्शनस्य मातङ्गी गायिनी अहम्। अयं च मदीयं द्रव्यं हृत्वा इहागतः। तच्च त्वयाऽऽप्तम्। तन्मया ज्ञातम् परमधुना स समागच्छतु।
ततः कुट्टिनी कलावतासहिता तत्पदायोर्लग्ना उवाच–गृहाणेदं द्रव्यम्।
धूर्तमाया प्राह–नाहं गृहकोणे ग्रहीष्ये। राजविदितं ग्रहीष्यामि।
ततो वेश्यामाताऽपि अतिशयेन भीता मातङ्गीं प्रतिजगाद-इमां मत्सुतां रक्ष रक्ष। पारम्पर्यागतं द्रव्यं गृहाण सर्वस्वम्, परं मां मैवं विडम्बय।
धूर्तमाया प्राह-ग्रहीष्ये।
ततः सा वेश्यया कुट्टिन्या सह हस्तपादौ गृहीत्वा सम्मानिता। धूर्तमायाऽपि निजं तदीयं द्रव्यं सर्वस्वं च गृहीत्वा रामेण सह पोतमारुह्य स्वगृहमागत्य भहोत्सवमकारयत्।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ तत्रयोविंशतितमी कथा ॥
कथा-24
अथान्यस्मिन्दिने प्रभावती शुकं पप्रच्छ। शुकोऽप्याह–
याहि देवि विजानासि यदि जारसमन्विता।
सज्जनीव पुरा वक्तुं भर्तुरग्रे कचग्रहे॥ 168 ॥
प्रभावत्याह-किमेतत्।
कीरोऽब्रवीत्-अस्ति चन्द्रपुरं नाम नगरम्। तत्राभूद्वर्धकिः सूरपालाख्यः श्रीमान्। तस्य सज्जनी नाम भार्या अत्यन्तं परपुरुषलम्पटा। तां च तद्गृहस्थां देवको नाम रमते। इति लोकादेतदाकर्ण्य वर्धकिः कपटेन गृहान्निर्गत्य प्रातःसन्ध्यायामाच्छन्नः समागत्य तल्पस्याधोभागे स्थितः। सा च जारेण सह तत्रारूढा पत्या केशेषु गृहीता कथं मुच्यते।
उत्तरम्-सा पत्या धृता सती द्वितीयपतिमुखमालोक्य प्राह-मया तव कथितं यद्रथकारो मम पतिर्गृहेन विद्यते। स चागतस्तव तदैव औचित्यं विधास्यति। यद्यपि पूर्वं पत्या त्वदीयं द्रव्यमपहृतं तथाऽपि क्षन्तव्यम्। रथकृति समागते तव गृहं गमिष्यामि युवयोः संगतिं वा करिष्ये। नात्र संशयः।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ चतुर्विशतितमी कथा ॥
कथा-25
अन्यदा प्रभावती शुकं गमनाय पृच्छति।
शुकः प्राह-
कुरु यद्रोचते कर्तुं यदि वेत्सि प्रतीङ्गितम्।
श्वेताम्बरेण रुद्धेन यथा पूर्वं कृतं तथा॥ 169 ॥
अस्ति चन्द्रपुरी नाम नगरी। तत्र सिद्धसेनो नाम क्षपणको जनपूजितः। तस्मिन्नेव नगरेऽन्यः सितपटो गुणिनां मुख्यः समागतः। तेन च गुणिना सर्वोऽपि जन आवर्जितः श्रावका अप्यात्मायत्ताः कृताः। स क्षपणकोऽपि तस्य पूजां क्रियमाणामसहमानः स्वयं तदीयोपाश्रये वेश्यां प्रेषयित्वा असौ वेश्यालुब्धो न सुशील इति श्वेताम्बरस्य लोकप्रवादमकरोत्। तद्दर्शनाय जनमाकारयामास। ब्रूते च–क्षपणका एव ब्रह्मचारिणः श्वेताम्बरास्तु विप्लुताः। सोऽपि श्वेताम्बरो दीपाग्निना उपाधिं प्रज्वाल्य प्रभातप्राप्तायां रजन्यां नग्नोभूय वेश्याया दत्तहस्तो निर्गतः। ततो लोकापवादः संवृत्तः। यदसौ क्षपणको न सितवस्त्रः।
इति श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ पञ्चविंशतितमी कथा ॥
कथा-26
अन्यदा सा चलिता।
शुकः प्राह–
याहि देवि न ते दोषो यदि जानासि भाषितुम्।
रत्नादेवीव पत्या तु प्राप्ता जारद्वयान्विता॥ 170 ॥
अस्ति जलउदाभिधानो ग्रामः। तत्र राजपुत्रः क्षेमराजः शूरः। रत्नादेवी तस्य भार्या। तत्रैव ग्रामणीर्देवसाख्यः। तस्य सुतो धवलो नाम। तौ द्वावपि रमेते रत्नादेवीं परस्परमज्ञातौ। अन्यदा पितृपुत्रौ तद्गृहस्थौ यदा तदा राजपुत्रः समागतः। तदा किमुत्तरम्?
शुक आह-ततस्तया कृतसंज्ञो गृहादङ्गुल्या तर्जयन्नयात्। तस्मिंश्चैव गच्छति भयात्पतिः किमिदमित्याह।
ततः सा हसन्ती प्राह-अस्य पुत्रस्त्वद्गृहे शरणागतः। मया च नार्पितः। यतः-
स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः।
वहन्द्वयीमप्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम्॥ 171 ॥
अतो रुष्टो व्रजति। गच्छ त्वं समर्पय सुतम्। तेन च तथा कृतम्।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ षड्विंशतितमी कथा ॥
कथा-27
अन्यदा प्रभावती गमनाय शुकं पृच्छति स्म।
शुकः प्राह-
रम्भोरु गच्छ कामिनां को विघ्नं कर्तुमर्हति।
मोहिनीव समर्था चेद्विचारीकर्तुमीश्वरि॥ 172 ॥
अस्ति शङ्खपुरं नाम नगरम्। तत्रार्यो वणिगभूत्। तस्य मोहिनी नाम भार्या। ताञ्चबहिर्गतां कुमुखो नाम धूर्तो रमते। तत्पतिना चाभिज्ञायि। तत्पतिश्चातिशयेन भीरुः। ततोऽसौ तां बहिर्यान्तीं निवार्य पार्श्वस्थित एव तिष्ठति। तथाऽपि तया धूर्तस्य कथितम्-मां रात्रौ भर्तृखट्वास्थितामर्वाक्सुप्तां भज त्वम्।
तेन तथा कृतम्। तच्च कुर्वन्भर्त्राऽसौ पुंश्चिह्ने धृतः कथं गच्छतु?
उत्तरम्-धृत्वा च पतिः प्राह-प्रदोपमानय मया चोरो धृतोऽस्ति।
तयोक्तम्-बहिर्यान्ती बिभेम्यहम्। एनं ग्रहीष्ये त्वं दीपमानय।
तेन च तथा कृतम्। सा च जारं मुक्त्वा गृहान्तर्बद्धस्य पट्टकस्य जिह्वां गृहीत्वा तथैव सुप्ता यावत्पतिर्लकुटहस्तो दीपं गृहीत्वा समायातः पृच्छति-किमियं पट्टकस्य जिह्वा कथमत्र?
तयोक्तम्-क्षुधार्तोऽयम्। अनेन मुक्ता लालाकृशा स्थिता।
उक्तिप्रत्युक्तिवादेन निर्जितः। उक्तश्च-हतक! अनेन पौरुषेण क्षयं व्रजसि।
इति निर्भर्त्सितो लज्जितश्च सुप्तः।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ सप्तविंशतितमी कथा ॥
कथा-28
अन्यदा प्रभावती गमनाय शुकं पप्रच्छ।
शुकः प्राह–
कृशोदरि व्रजाद्य त्वं यदि जानासि भाषितुम्।
जारसंयुक्तया पूर्वं यथा देविकया कृतम्॥ 173 ॥
अस्ति कुहाडाख्यो महाग्रामः तत्र जरसाख्यो कौटुम्बिको महामूर्खः। तद्भार्या देविका पुंश्चली। तां च प्रभाकरो ब्राह्मणः क्षेत्रमध्ये विभीतकवृक्षसमीपे गुप्तस्थाने मुदा रमते। ईदृशं व्यतिकरं जनाच्छ्रत्वा तत्पतिस्तत्रावलोकनाय स्वयं गतः। तेन च वृक्षारूढेन तत्तथैव दृष्टम्। दृष्ट्वा तत्रस्थेनापि जल्पितम्, धूर्तिके! बहुदिनेभ्योऽद्य सम्प्राप्ता-इत्युक्ता कथमियं भर्तारं प्रत्याययतु।
तयोक्तम्–नाहं जाने त्वमेव कथय।
`यदि न यासि तदा कथयामि’।
तया तथेति प्रतिपन्ने शुकः प्राह–सा च तद्वचः श्रुत्वा तं जारं प्रेषयामास पत्या चावतीर्य समागतेन उपालब्धा।
साऽऽह–हे प्रभो! ईदृश एव वृक्षः, अत्रारूढैर्मिथुनं दृश्यते।
तेन पतिना उक्तम्–त्वमारुह्य अवलोकय।
तया तथा कृतम्। वृक्षारूढया च तया प्रोक्तं कपटेन।
“वहुदिवसेभ्योऽन्यां नारीमभिगमन् दृष्टोऽसि।”
तेन मूर्खेण ज्ञातम्–सत्यमिदम्। स च तां शान्तयित्वा गृहं निनाय।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ अष्टाविंशतितमो कथा ॥
कथा-29
अन्येद्युः प्रभावती गमनाय शुकं पृच्छति स्म।
सोऽप्याह–
व्रज देवि विचारं चेत्कर्तुं जानासि भामिनि।
समं जारेण सम्प्राप्ता सुन्दरीव यथा गृहे॥ 174 ॥
`कथमेतत्’?
सोऽब्रवीत्–अस्ति सीहूलो नाम ग्रामः। तत्र महाधनो वणिक्। तद्भार्या सुन्दरी। तां च मोहनो नाम उपपतिर्नित्यं गृहमागत्य भुङ्क्ते। अन्यदा यावत्सा तथा तिष्ठति तावत्तत्पतिः समागतः। सा कथं भवतु।
उत्तरम्–सा पतिमागच्छन्तं दृष्ट्वा जारं विवस्त्रं शिक्ये कृत्वा मुक्तकेशा गृहान्निर्गत्य दूरस्था पतिमाह-अस्मद्गृहमध्ये नग्नभूतं शिक्यारूढं विद्यते। मान्त्रिकानाकारयितुं गच्छेत्युक्ते स मूर्खस्तदर्थं जगाम। तदा च तदन्तरे तया उल्मुकं हस्ते कृत्वा उपपतिर्निष्कासितः। पत्यौ च आगते सा जगाद-यदुल्मुकेनापि भूतं नष्टम्।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकोनत्रिंशत्तमी कथा ॥
कथा-30
अन्येद्युः प्रभावत्या पृष्टः शुकः प्राह।
गच्छ देवि विरुद्धं ते गमनं न मतं मम।
विषमे यदि वेत्सि त्वमुत्तरं मूलदेववत्॥ 175 ॥
अस्तीह पृथिव्यां भूतवासं नाम श्मशानम्। तत्र द्वौ पिशाचौ करा लोत्तालनामानौ। भार्ये च धूमप्रभामेघप्रभाख्ये, तयोश्च भार्यारामणीय कत्वे विवादः संवृत्तः। अन्यदा च ताभ्यां भार्यासहिताभ्यां मूलेदवोदृष्टो बाहुभ्यां विधृत्य पृष्टः-का अनयोर्मध्याद्रमणीया, अनृतं वदन्तंव्यापादयिष्यावः। तत्कलत्रे विरूपे भीषणे वृद्धे पिशाचिन्यौ। स च यथार्थवादी भक्षितः स्यात् किमुत्तरं कुर्यादिति।
उत्तरम्–तेनोक्तम्-
या सय् वल्लभा लोके रम्या सा तस्य नापरा।
गदिते धूर्तराजेन ताभ्यां मुक्तश्च तत्क्षणात्॥ 176 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ त्रिंशत्तमी कथा ॥
कथा-31
अन्यदा च प्रभावत्या पृष्टः शुकः प्रोवाच-
यथेष्टं व्रज कल्याणि केलिं कर्त्तुं कृशोदरि।
शशकस्येव ते बुद्धिरस्ति चेत्सुसहायिनी॥ 177 ॥
मधुराख्ये वने पिङ्गलनामा सिंहः। स सत्त्वानि बहूनि हनन्सर्वैः पशुभिर्विचार्य प्रतिदिनमेकैकसत्त्वपरिकल्पनव्यवस्थया निवारितः। अन्यदा शशकस्यैकस्य वारकः सञ्जातः। स च न याति श्वापदैर्भणितोऽपि-`गच्छ त्वमन्यथा पूर्ववत्सर्वाणि भूतानि स भक्षयिष्यति। स चाद्यप्रभृति तदन्तिके सत्त्वानि न यास्यन्ति’-इत्युक्त्वा बहुकालक्षेपं चकार। मध्याह्नसमये एव च मन्दं मन्दं सिंहस्याग्रे गन्तुं व्यसितः। तेनापि सहसाक्रान्तः कथं मुच्यते?
उत्तरम्-शशकः सिंहिं प्राह-स्वमिन्नहं शशकचतुष्टयेन सह आगच्छन्मार्गे तव शत्रुणा धृतोऽतो वेलातिक्रमो बभूव।
तेनोक्तम्-स शत्रुं क्वास्ते?
ततः स शशकेन धूर्तेन वाटीं नीत्वा तस्यैव प्रतिबिम्बः कूपे दर्शितः। सिंहोऽपि मूर्खस्तं जले दृष्ट्वा कुपितो झम्पादान्मृतश्च।
बुद्धिर्बलवती भीरु सत्त्वानां न पराक्रमः।
शशकेनाल्पसत्त्वेन हतः सिंहः पराक्रमी॥ 178 ॥
उक्तञ्च-
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता।
सरार्ष्ट सप्रजं हन्ति राजानं मन्त्रिनिश्चयः॥ 179 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकत्रिंशत्तमी कथा ॥
कथा-32
अथान्येद्युः प्रभावती चलिता शुकं पप्रच्छ गमनाय।
शुकः-
यादि देवि मनो यत्र गन्तुं ते कमलानने।
राजिनीव विजानासि वक्तुं धूलिविपर्यये॥ 180 ॥
अस्ति शान्तिपुरं नाम नगरम्। तत्र माधवः श्रेष्ठी। तस्य मोहिनी भार्या। तयोस्तनयः सोहडाभिधः। तस्य भार्या राजिनीनाम्नी रूपसम्पन्ना चतुरा पुंश्चली। सान्यदा द्रम्मर्पयित्वा श्वश्र्वज्ञप्ता `गोधूमान् हट्टे गृहीत्वा गच्छ’।
सा च हट्टे गता। क्रीणत्या चोपपतिर्दृष्टः संज्ञितश्च समीपमाययौ। गोधूमान्मोटायां बद्ध्वा हट्टे मुक्त्वा तेन सार्धं सा ययौ। वणिजापि गोधूमानुत्सार्य मोटायां धूलिर्बद्धा। सापि तेन सह चिरं स्थित्वा आगत्याकुला मोटामनुत्पाटयित्वा गृहं ययौ। तां छोटयित्वा यावत् श्वश्रूः पश्यति कोदृशा गोधूमा इति तावद्धूलिं पश्यति। अत्र किमुत्तरम्।
शुकः-किमिदमिति यदा श्वश्र्वा पृष्टा तदा तयोक्तम्-`मातर्मम हस्ताद् द्रम्मः हट्टाग्रे भूमौ पतितः। ततो मया धूलिराहृता।
ततः सा श्वश्रूर्द्रम्ममनवलोकमाना विकलीभूता।
इति कथां श्रुत्वा प्रभावती सुप्ता
॥ इति शुकसप्ततौ द्वात्रिंशत्तमी कथा ॥
कथा-33
अथान्येद्युः प्रभावती गमनायोत्सुका शुकं पप्रच्छ।
शुकः प्राह-
को दोषो गम्यतां देवि यदि कर्तुं त्वमीश्वरा।
विषमे मालिनी यद्वद्रम्भिका पतिसन्निधौ॥ 181 ॥
प्रभावती-`कथमेतत्’?
शुकोऽब्रवीत्-अस्ति शङ्खपुरं नाम नगरम्। तत्र शङ्करो नाम मालिकः समृद्धिमान्। तस्य रम्भिका नाम भार्या बहुरतिप्रिया सुभगा सुरूपा बहुभर्तृका च। अन्यदा शङ्करगृहे पितृकार्यमागतम् तस्मिन्दिने तयोपपतयश्चत्वारो निमन्त्रिताः पुष्पाणां विक्रयाय गतया चतुष्पथे ग्रामणीर्वणिक्सूनुस्तलारश्च बलाधिपश्च प्रत्येकं ते ते पृथक्पृथक् आकारिताः परस्परमजानन्तः-मदीयं भवनं प्रति प्रागेव समागन्तव्यमिति।
द्वितीयेऽह्नि मालिके वाटिकां गते वणिक्सूनुः स्नात्वा भुक्त्वा च तया सह रन्तुं समाययौ। वणिजि अर्धस्नाते ग्रामकूटो गृहद्वारं समापतन्दृष्टः ततः स्नानं कुर्वन्वणिक्तथाभूतो वंशमये कोष्ठे खलियुक्ते क्षिप्तो भययुक्तश्च। ग्रामकूटेऽप्यर्धस्नाते बहिस्तलारः समायातः। तं दृष्ट्वा सोऽपि तस्मिन्नेव कोष्ठे क्षिप्त उक्तश्च-यदधः सर्पिणी प्रसूतास्ति।
ततोऽप्यनतराल एवं स्थातव्यमिति तलारोऽप्यर्धस्नातो बलाधिपं दृष्ट्वा भाण्डसमूहे क्षिप्तः। बलाधिपोऽप्यर्धस्नातो मालिकं दृष्ट्वा तत्रैव क्षिप्तः। ततो मालिको लोकश्च तस्मिन् पितृकार्ये यदृच्छया भिजिताः। एवं कृत्वा ते षां चतुर्णामपि परस्परमलक्षितानां पृथक्पृथक् भोजनं परमान्नामृतं समर्पितम्। वणिजा तु भुञ्जानेन बहु फूत्कृतम्। तदोपरिस्थितेन च सर्पिणीं शङ्कमानेन मूत्रितम्। वणिजा तु घृतामिति ज्ञात्वा भाजनमुत्क्षिप्तम्। उपरिस्थितस्य मुखे लग्नम्। ततः स शंकितः। सोऽपि च लग्नं लग्नमिति वदन्दत्तझम्पो निर्ययौ। अन्येऽपि लग्नाक्षरभयाकुला यावन्निर्गताः शङ्करेण जनैश्च दृष्टाः सविस्मयं खलिखरडिताः।
ततः सा कथं भवतु?
उत्तम्-यदा सा पत्या पृष्टा किमिदमिति तदा तयोक्तम्-
श्रद्धाहीनं कृतं श्राद्धमिदं नूनं त्वया प्रिय।
अतोऽभुक्त्वा क्षुधाक्रान्ताः पितरस्ते विनिर्गताः॥ 182 ॥
ततः स पुनः श्राद्धं चकार। रम्भिकावचनात्तेन निर्गताः।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ त्रयस्त्रिंशत्तमी कथा ॥
कथा-34
अथान्यस्मिन्दिने गमनार्थं प्रभावती शुकं पप्रच्छ।
शुकः प्राह-
याहि देवि गता वेत्सि भङ्गुरं यदि भाषितुम्।
कुमार्यै पारडी दत्त्वा यथोक्तं शम्भुना पुरा॥ 183 ॥
प्रभावत्याह-कथमेतत्।
शुकः प्राह–पुरा कस्मिंश्चिन्नगरे शम्भुनामा विप्रोऽभूत् द्यूतकृन्नानादेशपरिभ्रमणशीलो मार्गे गच्छन् क्षेत्ररक्षिकां सुरूपां बालिकां दृष्ट्वा ताम्बूलं दत्वा सान्त्वयन्निदमुवाच यन्मत्सम्भोगकरणे इमां मदीयां पारडीं गृहाण मया सह रतं कुरु।
सुखाश्रयं तया तथा विहितम्। स च सिद्धे कार्ये तां याचते। कथं लभते?
उत्तरम्-यावत्तेन याचिता तावत्सा चलिता गृहं प्रति। सोऽपि च पञ्च कणिशानि गृहीत्वा पृष्ठे लग्नः। तेन च ग्रामगतेन फूत्कृतम्-अहो ग्राममुख्याः! पश्यत। ग्रामेऽस्मिन्महदद्भुतम्। पञ्चकणिशकारणेनानया मदीयं वस्त्रमपहृतम्।
ग्राम्यैस्तत्समर्पितम्। तया च न किंचिदुक्तं लज्जया।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ चतुस्त्रिंशत्तमी कथा ॥
कथा-35
अपरेऽह्नि सा शृङ्गारान्विता शुकं पप्रच्छ।
शुकः प्राह-
गच्छ देवि न ते दोषो यदि तत्र गता सती।
स्वार्थं कर्तुं विजानासि तिलक्रयकरो यथा॥ 184 ॥
`कथमेतत्?
शुकः प्राह-पुरा कस्मिंश्चिद् ग्रामे शम्बकनामा वणिक्तिलग्राहकः। स च सरग्रामं यथौ। तत्रस्थस्य भाण्डशालिकस्य गृहे गतः। स गृहे नास्ति। तस्य भार्यास्ति परं कुलटा। नेत्रसंज्ञया परस्परं प्रीतिरुत्पन्ना। तत्रैव सा भुक्ता अङ्गुलीयकं दत्त्वा। सम्बन्धादनन्तरं स तदंगुलीयकं जिघृक्षति। अनेन विधिना दत्तमङ्गुलीयकं स कथं गृह्णात्विति प्रश्नः।
शुकः प्राह-तिलग्राहकस्तदलभमानो विपणिस्थं भाण्डशालिकमाह-`देहि मे तिलप्रस्थशतं यत्सत्यंकारितं मया।’
एवमुक्तः स आह-`के तिलाः कश्च वक्ता त्वं सत्यंकारश्च कीदृशः?
तेनोक्तम्-प्रस्थं प्रति द्विकप्रवृद्ध्या त्वद्भार्यया सत्यंकारेऽङ्गुलीयकं गृहीतम्।
ततो रुष्टेन वणिजा भार्यापारश्वे निजं सुतं प्रेषयित्वा इति कथयामास-त्वदीयेनेदृशेन व्यवहारेणास्मद्गृहं वृद्धिमाप्स्यति।
पुत्रोऽप्यङ्गुलीयकमादाय तिलग्राहकस्यार्पयामास। सोऽपि यथागतं तथा ययौ। ततो यदि प्रभावि तवाप्येवं बुद्धिरस्ति तदा गम्यतां नान्यथा। इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ पञ्चत्रिंशत्तमी कथा ॥
कथा-36
निशामुखेऽन्येद्युः प्रभावती शुकं पुनराह-हे कीर! गमिष्यामि चिरकाङ्क्षितं सुखं भोक्तुम्।
शुक आह-
सुखमेवानुभोक्तव्यं संसारे सुन्दरि! ध्रुवम्।
नायिनीव विजानासि यदि वक्तुं त्वमुत्तरम्॥ 185 ॥
प्रभावत्याह-कथमेतत्।
का कीर नायिनी कुत्र तया किं कृतमुत्तरम्।
कथां कथय कल्याणीं कौतुकं मे कथाक्रमे॥ 186 ॥
शुक आह-अस्ति सरडाख्ये ग्रामे ग्रामणीः शूरपालः। तस्य भार्या नायिनी। सा आत्मपतिं नित्यं पट्टसूत्रकञ्चुकं याचते।
स आह-वयं कर्षुकाः कार्पासचीवराः। अस्मद्गृहे पट्टसूत्रवार्त्तामपि कोऽपि न जानाति।
अन्यदा सा तं ग्रामसंसदिस्थं जगाद-गृहमेहि गृहाधिप! रावडी भुङ्क्ष्व।
स च तद्वचनं श्रुत्वा भार्यामाह गृहागतः-भद्रे! त्वया निन्दितं वचो लज्जाकारकं ममाप्रियं संसदि किमित्थमुक्तम्?
तयोक्तम्–त्वया मम प्रियं कथं न कृतम्?
ग्रामणीराह–दास्यामि कञ्चुकं तेऽद्य। निजं वाक्यं वृथा कुरु।
तयोक्तम्–कञ्चुके दत्ते उत्तारयिष्ये।
दत्तः कञ्चुकस्तेन।
तद्वचः कथं वृथा भवत्विति प्रश्नः।
शुकः प्राह-अन्यदा नायिनी जगाद-यदाद्य त्वां संसदिस्थं पूर्ववदाकारयामि तदा त्वया संसदा सह गृहमागन्तव्यम्।
तेन च एवमेव कृतम्। तया च गृहागतायाः संसदो भव्यरोत्या भोजनं दत्तम्। ततो ग्रामजनो वदति-शूरपालः समृद्धः। परं तद्भार्या औद्धत्यपरिहारेण एवं वदति। इति वचनमुत्तारितम्।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ षट्त्रिंशत्तमी कथा ॥
कथा-37
अथापरेऽह्नि प्रभावती गमनाय शुकं पृच्छति स्म।
शुकोऽप्याह-
यथेष्टं व्रज कल्याणि न ते दोषोऽस्ति कश्चन।
लाङ्गलीव विजानासि यदि कर्तुं त्वमुत्तरम्॥ 189 ॥
प्रभावत्याह-कथमेतत्।
शुकोऽप्याहृ-सङ्गमाख्ये ग्रामे शूरः कौटुम्बिकः। तस्यास्ति पूर्णपालस्तु हालिकः। सर्वत्र च तस्य शूरपतेर्वेश्मनि क्षेत्रे खले प्रमाणम्। तस्य च हालिकस्य क्षेत्रस्थस्य शूरपतिसुता सुभगा नाम नित्यं भुक्तिं नयति। स तां कामयते क्षेत्रगह्वरे शूरपालान्निःशङ्कितः। तं च वृत्तान्तमसमञ्जसमिति कृत्वा प्रतिवेश्महालिकास्तस्य कथयामासुः।
अन्यदाऽसौ शूरस्तयोर्हालिकसुतयोः सम्बन्धं प्रत्यक्षीकर्तुं क्षेत्रं गत्वा गह्वरस्यादूरसमन्तेऽलक्षितस्तस्थौ। तन्मिथुनं रतस्थं दृष्टं कथं भवतु? उत्तरञ्च किमिति प्रश्नः।
शुकः प्राह-यावत्स हालिकस्तां भुक्त्वोत्थितः तावत् शूरपतिं ददर्श। तदा स निःश्वसन्नाह-धिङ्मे कर्मार्जनां च यन्मया हलखेटनं विधेयम्, इयं च ग्रन्थिरोगिणी। अतो द्वयोरपि जीवितं रसातलं यातु। मया तु नित्यं हलेखेटनं ग्रन्थेराकर्षणं च द्वयमपि विधेयम्। तदहं किमर्थमस्य शूरपालस्य हालिको भवामि। इत्थमेवाहं क्षयं यास्यामि।
इति हालिकवचनं श्रुत्वा निर्दोषोऽयमिति लोकस्य वचनं वितथीकृत्य शूरपतिर्लज्जितो गृहं ययौ।
सा च प्रभावती शुकोक्तां कथां श्रुत्वा सुप्ता।
॥ इति शुकसप्ततौ सप्तत्रिंशत्तमो कथा ॥
कथा-38
अपरेद्युर्यामिनीसमये प्रभावती गमनाय शुकं पप्रच्छ।
शुकः-
वाञ्छितं कर्तुकामानां नान्तरायं कृशोदरि।
यदि कर्तुं विजानासि यथा विप्रः प्रियंवदः॥ 188 ॥
प्रभावती पप्रच्छ-कथमेतत्?
शुकः-पुराभूद् देवि? प्रियंवदो नाम विप्रः पथिकः। एकदा मार्गे गच्छन्सुदर्शनग्रामे कस्यचिद्वणिजो गृहं ययौ। तत्पत्नी च पुँश्चली। स च ब्राह्मणस्तां दृष्ट्वा आत्मानं सुस्थानकृतवासकं मेने। स च रात्रौ सकामस्तां प्रार्थयामास। अङ्गुलीयकदानेन च हट्टमार्गं वणिक्सुते गते रेमे तया समम्। प्रातः सोऽङ्गुलीयकं याचते। सा नार्पयति। अनेन विधिना दत्तमंगुलीयकं स कथं गृह्णातु-इति प्रश्नः।
उत्तरम्-यदा तु याचिता न ददाति तदा स ब्राह्मणः खट्वाचरणं गृहीत्वा वणिजः सन्निधिं ययौ। खट्वाचरणं दर्शयित्वा फूत्कृतम्। वणिक् प्राह-भो द्विजः! किमेतत्?
स आह-भग्नेऽस्मिन्त्वदीयभार्यया मदीयमगुलीयकं जगृहे। स च वणिक् तद्वचनं श्रुत्वा कुपितो भार्यामाह-अनेन प्रमादेन अस्मद्गृहे कोऽपि पथिको न समेष्यति।
इत्युक्त्वा निष्ठुरं वचस्तत्कुण्डादुत्तीर्य अंगुलीयकं पथिकाय समर्पितम्। स च यथागतं ययौ।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ अष्टत्रिंशत्तमी कथा ॥
कथा-39
अपरेऽह्नि सन्ध्यासमये पुरुषान्तरगमनाय प्रभावती शुकं पृच्छति स्म-हे शुक! अहं गमिष्यामि।
शुकः प्राह-
व्रज देवि! वरं यानं त्वं भोक्तुं सुभगं नरम्।
वक्तुं चेद्विषमे वेत्सि तुलाग्राहीव भामिनि॥ 189 ॥
प्रभावती प्राह-“कथमेतत्?
कस्तुलाग्राहकः कीर! गृहीता च तुला कुतः।
विषमं च किमायातं कथां कथय शोभनाम्॥ 190 ॥
अस्त्यत्र कुण्डिनं नाम नगरम्। तत्र भूधरो नाम वणिक्पुण्यक्षयात्क्षीणधनो जनैस्त्यक्तः।
उक्तञ्च-
विद्वान्धनी धनी दाता धनी साधुर्गुणाग्रणीः।
सर्वबन्धुर्धनी पुज्यो धनहीनो गतप्रभः॥ 191 ॥
यदा तु स तुलामात्रधनोऽभवत्तदान्यवणिग्गृहे तुलां मुक्त्वा देशान्तरं गतः। तत्र धनमर्जयित्वा निजनगरमागत्य तं वणिजं तुलां ययाचे। वणिक्पार्श्वात्तुला न लब्धा। तुलायां तु लुब्धो वणिक्मूर्ख उत्तरं चक्रे यत्त्वदीया तुला मूषिकैर्भक्षितेति श्रुत्वा भूधरस्तूष्णीं स्थितः। स च एकदा तस्य वेश्मनि भोजनाय गतः क्रीडन्तं बालकं दृष्ट्वा प्रच्छन्नं गृहीत्वा निजगृहं ययौ। बालकपिता च दुःखपूरिताङ्गो रुरोद सकुटुम्बः। तञ्च रुदन्तं दृष्ट्वा प्रतिवेश्मिको जगाद-रे त्वदीयः सुतो भूधरेण गृहीतः।
ततोऽसौ तद्गृहं गत्वा भूधरात्सुतं याचितवान्।
भूधरेणोक्तम्-मित्र! त्वत्पुत्रो मत्संगे स्नानार्थे नदीतीरे गतस्तत्र श्येनेनापहृतः।
इति श्रुत्वा तेन वणिजा राजकुले गत्वा पुत्रहरणवृत्तान्तो निवेदितः। भूधरोऽपि राजकुलं ययौ। तत्कथय स बालहर्ता कथं मुच्यतामिति-प्रश्नः।
शुकः यदा भूधरो राजसमक्षं मन्त्रिणा पृष्टस्तदा एवं जगाद-
तुलां लोहमयीं यत्र खादन्ते देव! मूषकाः।
गजं तत्र हरेत् श्येनो दारके कोऽत्र विस्मयः॥ 192 ॥
श्रुत्वैतद्वचनं मन्त्रिणोक्तम्-यदायं धूर्तस्तव तुलां समर्पयति तदा दारकोऽपि दातव्यो नान्यथा।
तेन दारकः समर्पितः। तुलाग्राही दण्डितः सन् तुलां समर्पयामास।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकोनचत्वारिंशत्तमी कथा ॥
कथा-40
अन्येद्युः सा प्रभावती गमनाय शुकं पृच्छति स्म।
शुकः-
गच्छ त्वं गन्तुकामानां गमनं च शुभं भुवि।
सुबिद्धिरिव चेद्वक्तुं विजानासि कृताकृताम्॥ 193 ॥
प्रभावत्याह-कथमेतत्?
शुकः-नगराभिघे पत्तने सुबुद्धि- कुबुद्धिश्चेति मित्रद्वयं जने प्रसिद्धम्। अन्यदा सुबुद्धिर्देशान्तरं ययौ। कुबुद्धिस्तु मित्रस्त्रियं ययौ। सुबुद्धिश्च धनमर्जयित्वा देशान्तरात्समागतः। ततः कुबुद्धिः सुबुद्धेः कपटस्नेहं दर्शयति। सुबुद्धिनापि सम्मानितः।
कुबुद्धिस्तं प्रत्याह-भवता क्वापि किंचित्कौतुकं दृष्टम्?
तेनोक्तम्-सरस्वतीनदीतीरे कूपमध्ये तरमाणमकालजमाम्रफलं दृष्टं मनोरमनामिनि ग्रामे।
कुबुद्धिराह-मिथ्येदम्।
सुबुद्धिराह-सत्यमेतत्।
तेनोक्तम्-यदि सत्यं भवति तदा यदस्मद्गृहे द्वाभ्यां हस्ताभ्यां ग्रहीतुं शक्यते तत्त्वया ग्राह्यम्। अलीके त्वदीयगृहादहं गृह्णामि।
इति पण्बन्धं कृत्वा कुबुद्धी रात्रौ कूपात्तत्फलं जग्राह। फलाभावे तु सुबुद्धिना हरितम्। अथ स तद्भार्यां ग्रहीतुकामः पणबन्धं याचते। तदत्र सुबुद्धिर्निजभार्यारक्षणे कमुपायं करोत्विति प्रश्नः।
उत्तरं शुक आह-सुबुद्धिस्तं दुष्टाशयं ज्ञात्वा निजगृहवस्तुजातं निजकलत्रं च प्रासादोपरि क्षिप्त्वा। आरोहणिकां पातयामास। कुबुद्धिः समायातः।
सुबुद्धिराह-एवं यद्रोचते तदस्मद्गृहाद् गृह्यताम्।
स च कलत्राहरणाय निःश्रेणिकां द्वाभ्यां हस्ताभ्यां जग्राह। तदा सुबुद्धिनोक्तम्-मयैवं पूर्वं गदितञ्च यद् द्वाभ्यां हस्ताभ्यां ग्रहीष्यसे तव तदवे नान्यत्।
ततः कुबुद्धिर्विलक्षो भूत्वा बहिर्ययौ। जनैश्च निन्दितः।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ चत्वारिंशत्तमी कथा ॥
कथा-41
अन्यदा वणिग्वधूः प्राह-कीर! यदि त्वं मन्यसे तदा गच्छामि।
शुकः प्राह–
युक्तं ते गमनं देवि यदि तत्र गता सती।
सङ्कटे खलु वेत्सि त्वं किञ्चिद्वक्तुं द्विजो यथा॥ 194 ॥
प्रभावती प्राह-`कथमेतत्’?
शुकः-अस्ति पञ्चपुरं नाम नगरम्। तत्र शत्रुमर्दनो नाम राजा। तत्सुताया मदनरेखाया गले ग्रन्थिर्बभूव। वैद्यैरसाध्येत्युक्त्वा परित्यक्ता ततो राज्ञा डिण्डिमाघोषणं कारितं यथा यः कोऽपि मत्सुतां गतरोगां करोति तमहं दारिद्र्यरहित करोमीति श्रुत्वा परग्रामादागतया कयाचिद्द्विजभार्यया डिण्डिमः स्पृष्टः। तस्मिन्पृष्टे तयोक्तम्-यन्मम पतिर्मान्त्रिकः। स राजसुता प्रगुणां विधास्यति। ततो राजपुरुषैः समानीतः। तस्य च नीयमानस्य भार्या जगाद-“नाथ! गच्छ नगरम्। राजसुतायां प्रगुणीकृतायां तव बहु फलं भावि।
स च मण्डलोपविष्टो मन्त्रादिकमजानम् कथं भवत्विति प्रश्नः।
शुक उत्तरं प्राह-स मान्त्रिक आचार्यविस्तारं कृत्वा मन्त्रमित्युच्चारयामास।
हउं जीवणु जाणउं काइँ चडुडइ वावइ साइँ।
घल्लिउ बम्भणि वीसासु पइँ भुञ्जसु सुकअसु हाइँ॥ 195 ॥
[अहं जीवनं जानामि किम् तत् पिष्यते विहीयते।
गृहे ब्राह्मणि विश्राम्य पतिं सेवस्व सुखमेवं भवति॥ ]
वणं इह आखुरिअदन्तप्पहसन्तअं।
कहिं पि अउरन्तअम्बेहि सिंगरिअं॥ 196 ॥
[ वनमिदमङ्कुरितदन्तप्रहसन्तं।
कुत्रापि अङ्कुरिताम्रैः शृङ्गारितम्॥ ]
सरसखीरमालिअफलभारणाझिप्रं।
कहिं पि टिस्बुरिणिजम्बुइणिअअसोहिअं॥ 197 ॥
[सरसक्षीरमालिकाफलभारनामितम्।
कुत्रापि टिम्बुरिणीजम्बूनिचयशोभितम्॥ ]
कहिं पि करवन्दाइजालसंराइअं।
कहिं पि कप्पूरकङ्कोलगन्धवहं॥ 198 ॥
[ कुत्रापि करविन्दजालसंराजितम्।
कुत्रापि कर्पूरकङ्कोलगन्धवहम्॥ ]
देवदारुप्पिअंगुचूअमल्लीलअं।
कहिं पि सिरिखण्डअइगरुतरुमण्डिअं॥ 199 ॥
[देवदारुप्रियङ्गुचूतमल्लोलतम्।
कुत्रापि श्रीखण्डागरुतरुमण्डितम्॥ ]
णाअपुंणाअदाडिमवरणाडम्बरं।
मअरबोरीर्हि कविवीहिपीलुघणं॥ 200 ॥
[नागपुन्नागदाडिमावरणाडम्बरम्।
मकरबदरोकपित्थवीथीपीलुघनम्॥ ]
दीहघणवास जलीर्हि अइखोहिअं।
कहिं पि रत्त—–डम्बरं॥ 201 ॥
[ दीर्घघनवासजालैः अतिक्षोभितम्।
कुत्रापि रक्त——डम्बरम्॥ ]
पोष्फलीविडवघणकरम्मरुद्धम्बरं॥ 202 ॥
[पोप्पलीविटपघनकम्ररुद्धाम्बरम्॥ ]
किञ्च-
रत्तकणवीरे कणवीरिअं फलिअं।
अण्णवच्छम्मि सेवत्तिआ फुल्लिआ॥ 203 ॥
[ रक्तकर्णवीरे कर्णवीरकं फलितम्।
अन्यवृक्षके सेवन्तिका फुल्लिता॥ ]
अण्णवच्छम्मि कारन्द आवच्छअं।
अण्णवच्छम्मि सिन्दूरअं फुल्लिअं॥ 204 ॥
[अन्यवृक्षके कारण्डमाच्छादितम्।
अन्यवृक्षके सिन्दूरकं फुल्लितम्॥ ]
अण्णवच्चम्मि फुल्लस्तमन्दारअं।
सिरिसउत्तुङ्गगन्धोहवरमारुअं॥ 205 ॥
[ अन्यवृक्षके फुल्लमन्दारकम्।
?शिरीषोत्तुङ्गगन्धहरमारुतम्॥ ]
अण्णवच्छम्मि सिरिआतोरणं।
फुल्लिअं मणोहरं जणिअपरिसोहिअं॥ 206 ॥
[ अन्यवृक्षके सिन्दूरिकातोरणम्।
फुल्लितं मनोहरं जनितपरिशोभितम्॥ ]
अण्णवच्छम्मि जुत्तद्दअं कुन्दअं।
मल्लिणोमालिआकुसुमा घणपुप्फिआ॥ 207 ॥
[ अन्यवृक्षके युक्तदलं कुन्दकम्।
मल्लीनवमालिकाकुसुमानि घनपुष्पितानि॥ ]
इत्येवं बाह्मणस्य वदतो राजपुत्र्या हसितम्। हास्यतिरेकेण गलग्रन्धिर्द्विधा बभूव। द्विधा जाते च तस्मिन् राजसुतायाः सुखमुत्पन्नम्। नृपेण च कृतार्थीकृतो विप्रः स्वसदन गतः।
इति कथां श्रुत्वो प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एतचत्वारिंशत्तमो कथा ॥
कथा-42
अरेपद्युः प्रभावती “गच्छामी"ति शुकं प्रत्याह।
शुकः-
सुखोपभोगः संसारे सारं सर्वाङ्गसुन्दरि।
व्रज चेद्व्याघ्रमारीव वेत्सि वक्तुं त्वमुत्तरम्॥ 208 ॥
तच्छ्रुत्वा प्रभावत्याह-“सुखोपभोगः संसारे कोर! कथां कथय।”
शुकः कथां प्राह-
अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहो नाम राजपुत्रः तद्भार्या कलहप्रियेति विश्रुता। साऽन्यदा भर्त्रा सार्धं कलहं विधाय पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। सा च कोपवशात्पत्तनानि बहूनि वनानि च बहून्यतिक्रम्य गता मलयपाश्वस्थं महाकाननम्। तच्च कथं भूतम्।
चन्दणसत्तच्छआसण्णअं सरलवरतुङ्गतरुसाहसंछण्णअं।
कहिं पि सहआरखज्जूरिअं फणसअ मत्तालिविहङ्गभारिअं॥ 209 ॥
[ चन्दनसप्तच्छदसन्नद्धं सरलवरतुङ्गतरुशाखासंच्छन्नम्।
क्वापि सहकारखर्जूरिकं पनसे मत्तालिविहङ्गभरितम्॥ ]
कहिं पि सेलुपीलुफपूरिअन्तअं सरसवोरबहुतिन्तडीछण्णअं दाडिमीफलबिल्लफलसुगन्धिवाअअं॥ 210 ॥?
[ क्वापि सेलुपीलूप्रपूरितान्तरं सरसबदरबहुतिन्तिडीच्छन्नम्।
दाडिमीफलबिल्वफलसुगन्धिवातकम्॥ ]
एवंविधे गहने गता सा कलहप्रिया व्याघ्रं ददर्श। स च व्याघ्रस्तव सपुत्रां दृष्ट्वा पुच्छेन भूमिमाहत्य धावितः। ततः सा कथं भवतु? इति प्रश्नः।
उत्तरं शुकः प्राह-सा व्याघ्रमागच्छमानं दृष्ट्वा घार्ष्ट्यात् पुत्रौ चपेटया हत्वा इति जगाद-
कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः। अयमेकस्तावद्विभज्य भुज्यताम्। पश्चादन्यो द्वितीयः कश्चिल्लक्ष्यते।
इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।
निजबुद्ध्या विमुक्ता सा भयाद्व्याघ्रस्य भामिनि।
अन्योऽपि बुद्धिमाल्ँलोके मुच्यते महतो भयात्॥ 211 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ द्विचत्वारिंशत्तमो कथा॥
कथा-43
अन्येद्युः शुकमापृच्छति स्म कामिनी।
शुकः प्राह-
व्रज देवि न तेऽयुक्तं व्रजनं गजगामिनि।
व्याघ्रमारीव बुद्धिस्ते द्वितीयापि यदि स्थिरा॥ 212 ॥
प्रभावती पृच्छति, कथमेतत्?
व्याघ्रमार्याः कृतां बुद्धिं द्वितीयां विवदाधुना।
महत्कौतुकमत्रार्थे विद्यते मे प्रियंवद! ॥ 213 ॥
शुकः-
तं दृष्ट्वा कानने व्याघ्रं नष्टं जातं भयाकुलम्।
मृगधूर्तो हसन्नाह व्याघ्रो नष्टः कुतो भयात्॥ 214 ॥
व्याघ्रः-गच्छ गच्छ जम्बुक त्वमपि किंञ्चिद्गूढ़प्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।
मृगधूर्तः-व्याघ्र! त्वया महत्कौतुकमावेदितं यन्मांसपिण्डाद् मानुषादपि बिभेषि।
व्याघ्रः-प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया घ्नन्नी दृष्टा।
जम्बुकः-स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्। यदि व्याघ्र! तव तत्र गतस्य सा सम्मुखमपीक्षते तदा मम त्वदीया वेला स्मरणीया।
व्याघ्रः-शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
जम्बुकः-यद्येवं तहि मां निजगले बद्ध्वा चल शीघ्रम्।
स व्याघ्रस्तथा कृत्वा कानन ययौ। व्याघ्रमार्यपि प्राप्ता पुत्रसहिता तेन जम्बुककृतोत्साहाद् व्याघ्रात्सा कथं मुच्यताम्। इति प्रश्नः।
शुकः-तया व्याघ्रमार्या तदा चिन्तितं यदयं मृगधूर्तेनानीतस्तस्मादमुमेव जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्त्युवाच-
रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
विश्वस्याद्यैकमानीय कथं यासि वदाधुना॥ 215 ॥
इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा।
व्याघ्रोऽपि सहसा नष्टो गलबद्धशृगालकः॥ 216 ॥
निजबुद्ध्या पुनर्मुक्ता व्याघ्रजाद् देवि सा भयात्।
बुद्धिर्वलवती तन्वि सर्वकार्येषु सर्वदा॥ 217 ॥
इति कथां श्रत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ त्रिचत्वारिंशत्तमी कथा ॥
कथा-44
अथान्येद्यर्दिनावसाने प्रभावती शुकं पृच्छति।
शुकः-
आत्मानं सङ्कटाद् देवि याहि चेद्वेत्सि रक्षितुम्।
यथात्मा सङ्कटात्तेन जम्बुकेनापि रक्षितः॥ 218 ॥
स च जम्बुको गलबद्धो निघृष्टपृष्ठचरणो गलद्रुधिरप्रवाहो मूमूर्षुरिव देशान्तरं गन्तुमिच्छता व्याघ्रमारीभयाद्व्याघ्रेण नोयते। ततो महतोऽपायात् शृगालः कथं मुच्यते-इति प्रश्नः।
उत्तरं प्राह शुकः-ततस्तं व्याघ्रं बहुनदीकाननविषमसमप्रेदेशपर्वतानुल्लङ्घयन्तं सत्वरं दृष्ट्वा आत्मानं मोचयितुकामः शृगालो भृशं जहास पीडितोऽपि सन्।
व्याग्रेणोक्तम्-कथं हसितम्।
स आह-देव! सा मया व्याघ्रमारीति धूर्तिका ज्ञाता। त्वत्प्रसादाच्च दूरदेशमागतोऽहं जीवितः। परं यदि साऽस्मद्रक्तस्रावसंलग्ना पापिनी पृष्ठतः समेति तदा कथं जीवितव्यम्। अतोऽह हसितः। व्याघ्रस्वामिन्! स्थिरीभूय विचारय।
अथ तुष्टो व्याघ्रस्तेन वाक्येन `तथे’त्युक्त्वा जम्बुकं मुक्त्वा सहसा नष्टः। शृगालोऽपि सुखं तस्थौ।
बुद्धिर्वरं वरारोह धनमानसुखैषिणाम्।
बुद्धिहीनाः परं क्लेशं प्राप्नुवन्ति कृशोदरि॥ 219 ॥
बलं प्रज्ञाविहीनस्य परकार्याय केवलम्।
गिरिकूटोपमाङ्गस्य कुञ्जरस्येव दृश्यते॥ 220 ॥
इति कथां श्रुत्वा प्रभावती शुकवाक्यविस्मिता सुप्ता।
॥ इति शुकसप्ततौ चतुश्चत्वारिंशत्तमी कथा ॥
कथा-45
अन्येद्युः सा कामिनी सन्ध्यायां शुकं पप्रच्छ-`गमिष्यामी’ति।
शुकः प्राह–
समयोज्यं प्रियं भोक्तुं तव भामिनि सम्प्रति।
वञ्चिता वेत्सि चेत्कर्तुं किञ्चिद्विष्णुः पुरा यथा॥ 221 ॥
प्रभावत्याह–`कथमेतत्’।
शुकः प्राह-अस्ति विलासपुरं नाम नगरम्। तत्र अरिन्दमो नाम राजा। तत्र च विष्णुनामा ब्राह्मणो रतिलोलुपः कुटुम्बवर्जितो रतिकर्मणि सर्वनारीदुःसह इति नगरे प्रसिद्धो बभूव। वेश्याभिरपि न शक्यते जेतुं किम्पुनः कुलाङ्गनाभिः। तत्र रतिप्रिया नाम गणिका।
अथ सा षोडश द्रम्मान् गृहीत्वा तमाजुहाव। तमायान्तं दृष्ट्वा सा चाटूक्तिभिः परिचर्यां चकार। सोऽपि चान्यकार्यनिवृत्तस्तस्मिन्नेव रतिकर्मणि दत्तमनास्तां रन्तु जेतुमारेभे। तया च स रतिलोलुपः द्रव्यार्थं वा पराजयार्थं वा प्रहरद्वयं यावत्सोढः। निशीथे चाधोभूमिकामागत्य कुट्टिन्यग्रतो निवेदितं `यद्दुःसहोऽयं द्विजः। पणबन्धं समर्पयित्वा तमुत्कालय। मयि जीवन्त्यां प्रागेव बाहुल्यं भविष्यति।’
कुट्टिन्याह-`अस्मद्गृहे न कोऽपि कामुको गणिकां जित्वा पणबन्धं जग्राह। ततोऽहमेनं यावत्प्रपञ्चेन निःसारयामि तावत्सोढव्य इति। यदा चाहं पिप्पलमारुह्य सूर्पद्वयेन पक्षशब्दं कुक्कुटध्वनिं विदधानि तदा विभातमिति कृत्वा निःसारणयः’-इत्युक्त्वा प्रेषितोपरिभूमौ गणिका।
यथोक्तं च कुट्टिन्या तावत्कृतम्। तस्मिन्कृते विभातमिति कृत्वा निःसारितो द्विजः। यावद् गृहद्वरस्थो व्योममालोकयते तदोपरि निशीथोवर्तते। तदा स विप्रः कुट्टिनीपराजितो जनमध्ये पराजयं कथं वहतु-इति प्रश्नः।
शुकः-यदा विप्रः कुक्कुटध्वनिस्थानमवलोकयति तावत्सूर्पद्वययुतां कुट्टिनीं ददर्श। तेन च सा लोष्टेनाहत्य भूमौ पातिता प्रमादजनैश्च धिक्कृता। स च ब्राह्मणो ग्रहणकं द्विगुणं गृहीत्वा पुरमध्ये गणिकां विनिन्द्य। स्वगृहं ययौ।
॥ इति शुकसप्ततौ पञ्चचत्वारिंशत्तमी कथा ॥
कथा-46
अथान्येद्युः प्रभावती शुकं पृच्छति।
शुकः-
याहि देवि गृहं मुक्त्वा यदि वेत्सि त्वमुत्तरम्।
यथा करगरानाथः कृतवान्भूतनिग्रहे॥ 222 ॥
अस्ति देवि वत्सोमं नाम नगरम्। तत्र विद्वान्दरिद्रो ब्राह्मणः। तस्य प्रिया च करगराभिधाना यथार्थनाम्नो सर्वजन्तूद्वेगकारिणी, यत्तद्द्वारदेशवृक्षस्थितो भूतस्तस्याः करगराया भयात्पलाय्याटव्यां गतः। ब्राह्मणोऽपि तस्या उद्वेगाद्देशान्तराभिमुखोऽभूत्। सोऽपि च तेन भूतेन दृष्टो जल्पितश्च मार्गश्रान्तस्त्वम्। तेन त्वयाद्य ममातिथिना भाव्यम्।
विप्रेण भीरुणोक्तम्-यदातिथ्यं करोषि तद्विधेहि शीघ्रम्। भूतेनोक्तम्-न त्वया भेतव्यम्। त्वं मम स्वामी यतोऽहं त्वद्गृहद्वारवृक्षस्थो भूतः करगराभयेनेहागतः। ततस्तव निजस्वामिनी गुणवदुपकर्तव्यमेव। तस्मात्त्वं द्विज मृगावतीं राजधानीं मदनभूपतिसनाथां गच्छ। तत्र चाहं तत्पुत्रीं मृगलोचनां ग्रहीष्ये। सा चान्यैर्मन्त्रिकैर्नोरुजा न भविष्यति। तत्त्वयि समागते तव दर्शनादेवाहं त्यक्ष्यामि। ततः परं तु मन्त्रवादो न विधेयः। इति भणित्वा सोऽपि भूतो गत्वा तां राजपुत्रीं जग्राह। विप्रोऽपि तत्र ययौ। तेन च डिण्डिमः स्पृष्टः। ततो राजकुलं गतो विप्र आचार्यविस्तरं विदधे। भूत आचार्यविस्तरं यावन्नमुञ्चति तावत्किं करोत्विति प्रश्नः।
शुक-भूतग्रहेऽनिवर्तिते विप्रेणोक्तम्-
करगरणाहउ आइअउ भूअ एउ वीससिउ ठिउ धुत्त।
आपिणि बोलिउ संभरि रे कूडउं किं मइँ देव जुत्त॥ 223 ॥
[ करगरानाथोऽहमागत्य भूत इह विश्वस्य स्थितो धूर्त।
आत्मनो वचनं संभृहि रे कूटकं किं मयि देव युक्तम्॥ ]
उक्तञ्च-
मनुष्याः सुकुलोत्पन्ना अपि च ब्रह्मचारिमः।
न भवन्ति मृषावाचः किं पुनर्देवयोनयः॥ 224 ॥
ततो भूतः त्यक्त्वा जगाम। इयं मुक्तेत्युक्त्वा ब्राह्मणाय राज्ञा सुताः राज्यार्धञ्च प्रदत्तम्। विप्रोऽपि पूर्णमनोरथो जगाम।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ षट्चत्वारिंशत्तमी कथा ॥
कथा-47
दिनमतिवाह्य प्रभावती शुकं पृच्छति।
शुकः-
गच्छ देवि गता वेत्सि यदि कर्तुं त्वमुत्तरम्।
यथा करगरानाथः कृतवान्भूतसङ्कटे॥ 225 ॥
स करगरापतिः राजकन्यया सह राजलक्ष्मीं भुङ्क्ते। अत्रान्तरे स भूतः कर्णावतीं गत्वा राज्ञो भार्यां सुलोचनां जग्राह। सा मदनस्य पितृष्वसा। सा चात्यर्थं पीडिता जीवितशेषाभूत्। सापि शत्रुघ्ननरपतेर्भार्या मातृराज्ये केशवमान्त्रिकमाकारयामास। स च निजदूताप्रेषयित्वा केशवोऽपि राज्ञा प्रियवाक्यैः प्रहितोऽप्यगन्तुकामुकः। तदा स करगरापतिर्भार्यानुरोधतो जगाम। तत्र गतः सन्मानितो महीभुजा शत्रुघ्नेन गतः सुलोचनावेश्मनि।
स च भूतस्तमायान्तं दृष्ट्वा परुषैर्वाक्यैस्तर्जयन्नित्याह-`मया प्रतिपन्नमेकदेशे कृतम्। अधुना तु विप्र त्वया आत्मा रक्षणीयः।’ स च द्विजो न मन्त्रं न तन्त्रं विजानाति। कथं भवत्विति प्रश्नः।
शुकः- तदा तं भूतं ज्ञात्वा कालवेदी कृताञ्जलिर्भूत्वा तत्कर्णमाश्रित्येति जगाद द्विजः।
प्राप्ता करगरा भूत पृष्ठलग्नात्र मेऽधुना।
यद्भर्ता चात्र सम्प्राप्तस्तद्व्याख्यातुमिहागतः॥ 226 ॥
श्रुत्वैतद्वचनं भीतो भूतो विस्मितमानसः।
यामीति ब्राह्मणं प्रोक्त्वा पात्रं त्यक्त्वा जगाम तत्॥ 227 ॥
तदा पात्रे स्वस्थीभूते शत्रुघ्नराज्ञा सत्कृतो ब्राह्मणो मृगावतीनगरं ययौ।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ सप्तचत्वारिंशत्तमी कथा॥
कथा-48
अथान्येद्युः प्रभावती शुकं पृच्छति-गच्छामि नरान्तरमिति।
शुकः-
सम्भोगसुखमेवात्र परमं व्रज सुन्दरि।
विषमे निर्णयं कर्तुं वेत्सि चेच्छकटालवत्॥ 228 ॥
पाटलीपुरपट्टने सार्वभौमो नन्दो नाम राजभूत्। शकटालस्तस्य नृपतेः सचिवाग्रणीरभत्। तद्बुद्धिविभवाक्रान्ताश्च भूपालाः सर्वेऽपि करदा अभवन्।
उक्तञ्च-
अप्राज्ञेन च कातरेण च गुणः स्यात्सानुरागेण कः प्रज्ञाविक्रमशालिनोऽपि हि भवेत् किं भक्तिहीनात्फलम्।
प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे सम्पत्सु चापत्सु च॥ 229 ॥
किञ्च-
प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः।
हस्तोपधृतछत्रस्य वारिधारा इवारयः॥ 230 ॥
स च राजा धर्मनाशकं कुर्वन्निर्द्रव्यां च मेदिनीं विदधानो निषिद्धो मन्त्रिणा। ततस्तेनापि मूर्खेण राज्ञा सचिवोऽवटे निक्षिप्तः। स च सपुत्रस्तत्र चिरं तस्थौ। ततः शकटाले महामात्ये तत्रस्थे सर्वत्र मृतो मृत इति वार्त्ताभूत्।
ततो बङ्गालनाथेन तत्परीक्षार्थमात्मोयपुरुषा घोटिकाद्वयं समर्प्य नन्दपार्श्वे प्रेषिताः। यदेतयोर्मध्यात्का माता का च पुत्री इति ज्ञात्वा समागन्तव्यम्। सर्वलक्षणसम्पूर्णे सदृशे घोटिकेतानि च लक्षणानि शालिहोत्रज्ञातव्यानि। यदा च कोऽपि नन्दराज्ये घोटिकानिर्णयं कर्तुं न क्षमस्तदा नन्दो राजा व्यचिन्तयात्-“शकटालं विनाहं परिभवास्पदं जातः।”
उक्तञ्च-
भूमेश्च देशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशे।
भृत्यप्रणाशे मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः॥ 231 ॥
विचिन्त्यैव दण्डपाशिकमब्रवीत् “यच्छकटालकुले कश्चित्कूपगतो विद्यते न वा।”
तेनोक्तम्-“कश्चिदस्ति परं व्यक्तितो न ज्ञायते। यतः पूर्वोद्दिष्टं भक्तं कश्चित्कूपगतो गृह्णाति। तं च कूपादाकृष्य सम्मान्य च एव मुक्तवान्-
मान्यस्त्वं मम मित्रं च गुरुः स्वामी नियोगकः।
आश्रयस्य सदा दाता कि क न त्वं सदानघ॥ 232 ॥
उक्तञ्च-
स्वामी दुर्णयवारणव्यतिकरे शास्त्रोपदेशे गुरुर्विश्रम्भे हृदयं नियोगसमये दासो भये चाश्रयः।
दाता सप्तसमुद्रसीमरशनादामान्तिकायाः क्षितेः सर्वाकारमभूत्स्वयं वरसुहृत्को न कर्णो मम॥ 233 ॥
मन्त्रिणोक्तम्-`स्वामिन् किं विधेयं तदादिश।’
राज्ञोक्तम्-`अस्य वडवायुगलस्य मध्ये का माता का च पुत्री इति सन्देहममीषां छलात्मनां दूतानां शीघ्रं छिन्धि। स कथं छिनत्तु तत्सन्देहमिति प्रश्नः।
शुकः-ततो मन्त्रिणा तद्वडवायुगं सपर्याणं कारयित्वा बाह्याल्यामतिवाह्य पर्याणरहितं विधाय श्रान्तं सम्मोचितम्। तदनु तद्युगलं च मातृसुताविचेष्टितं चकार। माता जिह्वया सुतां लिलेह सुता च तां प्रति अतिवत्सलाभूत्। ततः सुमन्त्रिणा मातृसुताविशेषा राज्ञोऽग्रे निवेदितः। ततश्च शकटालः परां लक्ष्मीं प्रसिद्धिं च लेभे।
इति कथां श्रत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ अष्टचत्वारिंशत्तमी कथा ॥
कथा-49
अथापरेद्युः दिनकृत्यं सा विधाय शुकमापृच्छते।
शुकः-
सम्भोगसुखमेवाद्य भोक्तुं ते देवि युज्यते।
विषमेऽपि प्रवीणासि पुनश्चेच्छकटालवत्॥ 234 ॥
यथापूर्वं तथैव बङ्गालनाथो यष्टिकां सुवृत्तां ध्वजाच्छिद्रिणीमयीं जीवचछकटालपरीक्षायै तैरेव पुंभिः प्रेषयामास। यथा युष्माभिर्नन्दराज्ये गत्वा अस्या यष्टिकाया रत्नसुवर्मवज्रैर्खचिताया आदिमन्तं ज्ञात्वा समागन्तव्यमित्यादेशात्ते पुमांसो नन्दपार्श्वमागत्य यष्टिकां तत्पुरतो मुक्त्वा आदिमन्तं च पप्रच्छुः। तच्छ्रत्वा प्रधानैः कलाभिज्ञैर्वणिग्वरैस्तोलिता आन्यैश्च कोविदैरवलोकिता। परं केनापि आद्यन्तविभागो न ज्ञातः।
ततो राजा शकटालमादिशत् यत्त्वां विना आद्यन्तविभागं न कोऽपि जानाति। ततस्त्वया निर्णयो विधेय एव। ततो मन्त्री वदति-“स्वामिन्! युष्मत्कृता सम्भावनापि न निष्फला। उक्तञ्च
सुवंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम्।
कृच्छ्रेषु व्यर्थया यत्र भूपतेर्भर्तुराज्ञया॥ 235 ॥
ततश्च स मन्त्री सम्भावितोऽपि कथं ज्ञास्यतीति प्रश्नः।
उत्तरम्-शुकः प्राह-“ततोऽसौ बुद्धिमान्मन्त्री यष्टिकां जले चिक्षेप। ज्ञातञ्च यतो यन्मूलं तदीषज्जले मग्नम्। तच्च नृपतेर्निवेदितम्। तेन च तेषां दूतानामपि कथितम्। ततस्ते श्रुत्वास्वराज्ञे न्यवेदयन्। ततश्च ते राजानो नन्दाधिराजस्य पूर्वजल्पितं करं ददुः। इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकोनपञ्चाशत्तमी कथा ॥
कथा-50
अन्यदा प्रदोषे प्रभावती चलिता शुकं पप्रच्छ।
शुकः-
गच्छ देवि न ते दोषो गमने कोऽपि दृश्यते।
विषमे यदि वेत्सि त्वं धर्मबुद्धिरिवेहितम्॥ 236 ॥
“कथमेतत्?”
शुकः-अस्तिः देवि धरापृष्ठे जाङ्गलाभिधो ग्रामः। तत्र मित्रद्वयं वर्तते धर्मबुद्धिर्दुष्टबुद्धिश्चेति। अन्यदा तौ द्वावपि धनाशया देशान्तरं गतौ। कियद्भिर्दिनैः प्रचुरं धनमर्जयित्वा स्वग्रामागतौ परस्परं मन्त्रं चक्राते यत्पिप्पलाधो धनं किञ्छित्क्षिप्त्वान्यद्गृहे नीयते। पश्चात्क्रमेण विभज्यते लग्नम्। इति कृत्वा तौ निजगृहं जग्मतुर्हृष्टतुष्टौ सुखास्वादतत्परौ स्थितौ। अत्रान्तरे यत्कृत दुष्टबुद्धिना तन्निशम्यताम्। नच युज्यते वक्तुम्।
यतः-
न वक्तव्यं ध्रुवं देवि पापं दृष्टं श्रुतं मया।
कथापि खलु पापानामलमश्रेयसे यतः॥ 237 ॥
तेन च दुष्टबुद्धिना तद्द्रव्यमुत्पाट्य गृहीत्वा निजगृहमानीतम्। कालक्रमेण च सम्मिलितौ पिप्पलाधःस्थितं द्रव्यं ग्रहीतुं गतौ यावदालोकयतः तावद्द्रव्यं नास्ति। धर्मबुद्धिस्ततो गत्वा मन्त्रिणोऽग्रे आचख्यौ धनवृत्तान्तं हृतं चापि कुबुद्धिना। कुबुद्धिनाहृतेन उत्तरं कृतम्। सहस्रस्य पणो मुक्तः। एतदर्थे शपथं दापयिष्यामि।
मन्त्रिणोक्तमेवमेवास्तु।
द्वितीयेनापि प्रतिपन्नं यदा तदा मन्त्रिणा प्रतिभुवौ गृहीत्वा मुक्तौ गतौ गेहं पृथक्पृथक्। ततो दुष्टबुद्धिर्निजं पितरं विदितार्थं कृत्वा वृक्षकोटरे चिक्षेप। प्रभाते सचिवस्तौ च वादिनो कोतुकी लोकश्च तं पिप्पलं ययुः। दुष्टबुद्धिः स्नातः कृताञ्जलिः सत्यं कृत्वा जगाद। “इदंसत्यं ब्रूहि नगोत्तम यदि मया द्रव्यमपहृतं तदानेन हृतमिति वाच्यम्। यदि न हृतं तदानेन न हृतमिति वाच्यम्।” इति श्रुत्वा तत्पित्रा नहीति जल्पितं सर्वलोकप्रत्यक्षम्। ततो धर्मबुद्धिः कथं भवतु-इति प्रश्नः।
तत्सन्दिष्टः शुक-प्राह–`धर्मबुद्धिस्तं शब्दं तत्पितुर्ज्ञात्वा कोटरे वह्निं जज्वाल। तं पितरं कोटरात् फूत्कूर्वन्तमर्धज्वलितं च पतितं दृष्ट्वा दुष्टबुद्धेर्निग्रहं विधाय मन्त्री धर्मबुद्धिमानन्दयामास।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ पञ्चाशत्तमी कथा॥
कथा-51
अन्यदा सा बाला शुकं पप्रच्छ।
शुकः-
यादि देवि रतास्वादलुब्धे कामिनि तं नरम्।
गाङ्गिलवद्विजानासि विषमे यदि भाषितुम्॥ 238 ॥
प्रभावती ब्रूते-“नाहे वेद्मि। तत्कथय।”
शुकः-`अस्ति चमत्कारपुरं नाम नगरम्। तच्च चतुर्वेदचतुर्वर्णचतुराश्रमसमाकुलम्। ततः कदाचित्तत्रस्था ब्राह्मणा वल्लभीनाथयात्रायां चलिता गन्त्रीभिरश्ववाहनैः सकौतुका वृद्धिमन्तः पूर्णपार्थयादिसामग्रीका सारनेपथ्याः सपुत्रकलत्राः। मार्गे चौरैर्गृहीतुमारब्धाः। तेऽपि सर्वे भयाकुला नष्टाः। गाङ्गिलनामा विप्रस्तैर्विप्रैः सह गन्तुमशक्तः खञ्जः सन् समन्ततो गन्त्र्यारूढो धृतः। ततः स कथं भवत्विति प्रश्नः।
शुकः-ततः सर्वेषु द्विजेपु नष्टेषु स शकटस्थः उद्भ्रान्तं भ्रातरं साहसिक इव जगाद। भ्रातः कियन्तो गजाः कियन्तश्च वाजिनः सन्ति। इति कथय सतूर्मं च त्वं धनुरर्पय यथैतान्दिव्यास्त्रेण युगपन्मारयामि। इति वचः श्रुत्वा ते तस्कराः सर्वेऽपि नष्टाः।
तस्माद्यो भाषितुं वेत्ति धर्मे चार्थे स्मरे तथा।
कस्तं धर्षयितुं शक्तो नरेषु कमलानने॥ 239 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकपञ्चाशत्तमो कथा ॥
कथा-52
अतिक्रम्य दिवा प्रभावती त्रियामासमये द्विजं प्राह-व्रजामीति।
शुकः-
व्रजाभोष्टं नरं देवि यदि कार्यं निजं गता।
जयश्रीरिव जानासि कार्यं कर्तुं निजं हितम्॥ 240 ॥
कथमेतत्?
शुकः-शृणु देवि! अस्ति धरापृष्ठे प्रतिष्ठानं नाम पत्तनम्। तत्र सत्त्वशीलो राजा। तत्पुत्रो दुर्दमनो नाम। तेन इति चिन्तितं यन्मया स्वभुजोपार्जितमेव भोक्तव्यं न तु पैतृकमिति सञ्चिन्त्य निजनगरं त्यक्त्वा समशीलैर्मित्रैः ब्राह्मणकाष्ठतड्वणिक्पुत्रैः समं निर्ययौ देशान्तरोपरि। ततश्च तैर्मिलितैश्चिन्तितं यदरमाकं रत्नभूमिर्महोदधिः सेवितुं युज्यते।
उक्तं यतः-
विद्यावतां कुलीनानां शौर्यसम्पत्तिशालिनाम्।
स्थानं नरेशभवनमथवा यत्ततोऽधिकम्॥ 241 ॥
उक्तञ्च-
सन्त एव सतां नित्यमापत्तरणहेतवः।
गजानां पङ्कमग्नानां गजा एव धुरन्धराः॥ 242 ॥
विचार्यैवं सेवितः पयसां पतिः त्रिसप्तकृत्व उपोषितैस्तैः। ततस्तुष्टोऽम्भोनिधिः तेभ्यश्चतुर्भ्यश्चत्वारि चिन्तामणिगुणानि रत्नानि ददौ।
निवृत्ताः कृतकृत्यास्ते लब्ध्वा रत्नचतुष्टयम्।
विश्वस्ता वणिजः पार्श्वे सर्वं एव समार्पयन्॥ 243 ॥
ततो दुष्टेन तेन लोभाभिभूतेन तद्रत्नचतुष्टयं जङ्घान्तरे क्षिप्त्वा सीवितम्। एकदा अन्यदा च मार्गे फूत्कृतं पश्चाद्दूरस्थितेन वणिजा मुषितोऽस्मीति वदनैः।
तैरुक्तम्-केन हेतुना।
सा आह-मम मूत्रोत्सर्गार्थं पश्चात्स्थितस्य चौरेण मात्रापहृता विश्वापि।
एवे च निवेदिते तैर्ज्ञातं-पश्य धूर्तोऽयम्। नूनमनेन वणिजाकिमपि कृटं कृतं भविष्यतीति मन्यमाना विवदन्तः ऐरावतीं पुरीं ययुः। तत्र च नीतिसार इत्याख्यातो भूपतिः। तस्य च मन्त्री बुद्धिसारो नाम जगद्विख्यातः यस्यैवं प्रसिद्धिर्देशे देशान्तरे च यद्विवादिनां वचनमुक्तमात्रं जानाति। ततस्ते राजपुत्राद्यास्तस्मै मन्त्रिणे आचख्युः निजं रत्नगमनवृत्तान्त यथा जातम्। तथैव विरीक्ष्यास्माकं मध्ये रत्नजातं वधबन्धं विना पृथक् पृथक् एकैकं समर्पय। यदि च नार्पयसि तानि ज्ञात्वा तदा प्रसिद्धिर्भिविते व्यर्थतां याति।
बुद्धिसार इति श्रुत्वा चिन्तावष्टब्धः स्थितः। स च राजा नीतिसारः कथं स्यादिति प्रश्नः।
शुकः प्राह-यदा स मन्त्री रत्नचतुष्टयं तन्मध्ये स्थितं न जनाति तदा विषण्णो गृहमाययौ। अत्रान्तरे मन्त्रिपुत्री प्राप्तनवयौवना पार्वतीं नत्वा पितुर्नमस्कारणाय गता जयश्रीनामदेया। पितरं तादृशं सचिन्तं दृष्ट्वा विषादकारणं पृच्छति स्म। ततो मन्त्री यथास्थितमाचष्टे।
सुता प्राह-तात! मा विषीद। तेषां निर्णयमहं करिष्यते। ते विवादिनः पुमांसो यदा कारणायागच्छन्ति तदा गृहे प्रेषणीयाः यथाऽहं तन्मध्याद्रत्नजातहर्तारं समर्पयामि।
सा आह-
पुत्रि! यन्मया न ज्ञातं तत्त्वं कथं ज्ञास्यसि?
सा आह-
न चैतत्तात वक्तव्यं भिन्ना बुद्धिर्हि देहिषु।
कोऽपि किञ्चिद्विजानाति जगत्यत्र कलापरः॥ 244 ॥
किञ्च-
मुण्डे मुण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।
तुण्डे तुण्डे नवा वाणी गेहे गेहे पतिव्रता॥ 245 ॥
प्रज्ञाविस्फारिताक्षाणां विद्रवन्ति विपत्तयः।
हस्तोद्यतप्रदीपानामन्धकार इवाग्रतः॥ 246 ॥
तस्मात्तात! नात्र कापि चिन्ता कार्या। प्रस्थाप्यास्तेऽन्यदेशिनः यथा तान्प्रबोधयामि। प्रस्थापितास्ते मन्त्रिणा तयाऽपि स्नापिता भोजिताश्च पृथक्पृथक शायिताः। ततः सा शृङ्गारं विधाय प्रधानं राजपुत्रं प्राह-अहं रत्यर्थिनी तव पार्श्वं समागता। त्वं च मह्यं काञ्चनशतं दत्त्वा मां भुङ्क्ष्व।
तेनोक्तम्-अहं तव द्रव्यं राज्यं चोपार्ज्य दास्यामि। परमधुना न किञ्चन विद्यते।
इति तं निर्द्रव्यं ज्ञात्वा ब्राह्मणं गता। ब्राह्मणमपि पूर्वोक्तमेवोक्तवती। ब्राह्मणो जगाद-यदस्मत्पितुः पार्श्वे द्रव्यं शासनबद्धा भूमिरपि तत्सर्वं तुभ्यं दास्ये।
तमपि निर्धनं ज्ञात्वा परित्यज्य सूत्रधारं ययौ।
आह च सः-साम्प्रतं मम पार्श्वे किञ्चिन्न विद्यते परं पश्चाल्लक्षं दास्यामि।
तमपि निर्द्रव्यं परित्यज्य वणिक्सुतं ययौ। तथैव गदितवती। स आह-स्वामिनि! रत्नचतुष्टयं गृहीत्वा मां भुङ्क्ष्व।
ततो जङ्घायाः समाकृष्य रत्नजातं समर्पयामास। ततः सा सव्याजमुत्थाय शीलरक्षां कुर्वाणा जयश्रीर्गृहमाययौ। रत्नचतुष्टयं पितुरर्पयामास। मन्त्र्यपि तानाकार्य निजं निजं रत्नं समर्पयामास। तेऽपि स्वरत्नलाभात्कृतकृत्या निजं निजं गृहं ययुः।
इति कथां श्रुत्बा प्रभावती सुप्ता।
॥ इति शुकसप्तती द्विपञ्चाशत्तमो कथा ॥
कथा-53
अथापरेद्युः प्रभावती गमनाय शुकं पृच्छति। शुकः प्रोवाच-
व्रज रम्भोरु युक्तं ते गमनं विषमे सति।
चेत्कर्तुमुत्तरं वेत्सि चर्मकारकलत्रवत्॥ 247 ॥
प्रभावती पृच्छति-कथमेतत्?
शुकः-चर्मण्वतीनदीतीरे चर्मकूट इति ग्रामः। तत्र च दोहडो नाम चर्मकारः। तस्य देविका नाम भार्या परं परपुरुषलम्पटा। ततः स चर्मकारश्चर्मणां क्रयणाय यदा बहिर्निर्गतः तदा तया उपपतिः समानीतः। तयोश्चान्ते सुरतसेविनोः पतिश्चर्मसमायुक्तो बहिरागतः।
ततः स उपपतिः सा च कथं भवेताम् इति प्रश्नः।
तत्पृष्टः शुकः प्राह-यदा च तया पतिर्ज्ञातः समागच्छन्तदा-
[ रूहं चुचुहुंचूकरऊंहुं आअउचलिहं नावहं मद्रं।
उवाइपाउ चलियउ फिरिया खंलिगावह॥ ]
इति वाक्यं वदति त्वरितं निःसृता।
ततस्तद्वाक्यं श्रुत्वा भीतो मान्त्रिकमाकरणाय स मूर्खो भ्रमितुं गतो ग्रामे यावत्तावत्तया च निःसारितो जारः स्ववेश्म गतः। ततस्त्वमप्युत्तरं विषमे यदि वेत्सि तदा गच्छ। अन्यथा शयन कुरु।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ त्रिपञ्चाशत्तमो कथा ॥
कथा-54
अथातिवाह्य दिनं प्रभावती गमनोत्सुका पुनः शुकं पृच्छति।
स प्राह-
को दोषो गम्यतां देवि यादि त्वं वेत्सि भाषितुम्।
दूतेन भाषितं यद्वद्विषमे नृपतेः पुरः॥ 248 ॥
प्रभावत्याह-कथमेतत्।
शुकः-अस्ति शक्रावती नाम पुरी। तस्यां धर्मदत्तो नाम राजा धर्मादिगुणोपेतः। तस्यामात्यः सुशीलो नाम। तस्य च सुतो विष्णुनामा संधिविग्रहिकः पूर्वमासीत्। तस्मात्पदाद्यदा भ्रष्टो द्रव्यहीनः कुलामात्योऽहमित्यहंकृतः कर्कशश्च। ततो राजा न किञ्चिद्वदति। मन्त्री च कदाचिन्नृपमाह-स्वामिन्नयं विष्णुर्भक्तो रक्तः प्रवीणो दूतकर्मणि। तद्देवपादैः क्वापि प्रेषयित्वा परीक्षणीयः।
ततो राजा तद्वाक्यं श्रुत्वा तत्प्रतिकूलः सन्भस्मप्राभृतं मुद्रया मुद्रितं समर्प्य शत्रुदमननृपपार्श्वे विदिशायां नगर्यां तं प्रेषयामास। सोऽपि च तत्र गतस्तत्प्राभृतं भस्ममयमजानन्मुद्रितं राज्ञः पुरो मुक्तवान्। तस्मिंश्चामङ्गलकारिणि प्राभृते राज्ञोऽग्रे मुक्ते राजा कोपाटोपसहितो बभूव। ततः स दूतस्तस्मिन्प्राभृते समानीते कथं क्षेममवाप्नोतु इति प्रश्नः।
शुक उत्तरं प्राह-स विष्णुस्तं क्रुद्धं दृष्ट्वा बुद्धिमानिदमुवाच-स्वामिन्! मदीयेन नाथेनाश्वमेधो यज्ञः कृतः। तस्य कुण्डस्य त्रेताग्रिसम्भवं पवित्रं श्रेयस्करमघापहं भस्म वन्दनाय समर्पितवान्। यतः-
गजाः सन्ति हयाः सन्ति विचित्राः सन्ति सम्पदः।
त्वदीये च मदीये च दुर्लभं भस्म याज्ञिकम्॥ 249 ॥
इत्युक्त्वा सहसोत्थाय करे भस्म कृत्वा राज्ञे समर्पयामास। स च तेन वचसा तुष्टिपरो ववन्दे। तेनापि तुष्टेन प्रतिप्राभृतं महत्प्रेषितम्। स च विष्णुः सम्मान्य विसर्जितः।
ततस्त्वमपि भामिनि! विषमे उत्तरं जानासि यदि तदा गम्यतामन्यथा तिष्ठ।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ चतुःपञ्चाशत्तमी कथा ॥
कथा-55
अन्यदा यामिनीसमये प्रभावती गमनाय शुकमापृच्छति।
कीर उवाच-
गच्छ रम्भोरु गमनं युज्यते गजगामिनि।
यदि वेत्स्युत्तरं कर्तुं श्रीधरो ब्राह्मणो यथा॥ 250 ॥
प्रभावत्याह-कथमेतत्?
शुको ब्रूते-चर्मकूटे ग्रामे द्विजः श्रीधरो नाम। तत्रैव चन्दनाख्यश्चर्यकारः। तत्पार्श्वात् श्रीधरेणोपानहयुगलं कारितम्। चर्मकारोऽपि नित्यमेव द्रव्यं याचते। विप्रोऽपि वदति-त्वां हृष्टचित्तं करिष्ये। एवं सुमहत्कालं ययौ। स विप्रोऽन्यदा चर्मकारेण विधृतः। धनं विना स विप्रः कथं मुच्यते। तत्कथयेति प्रश्नः।
उत्तरम्। शुकः प्राह-एतस्मिन्नन्तरे ग्रामपालस्य गृहे सुतो जातः। ततो द्विजः प्राह छलान्वेषो सन्-चर्मकृन्मया पूर्वमुक्तम् त्वां हृष्टचित्तं करिष्यामि। तदस्मिन्सुते जाते त्वं हृष्टचित्तो न वेति।
यदि स ब्रूते नाहं हृष्टचित्त इति तदा राज्ञा ग्राह्यः स्यात्। अन्यथा च द्रव्यं याति। ततस्तेनोक्तम्-हृष्टचित्तोऽहं जातः।
ततो द्विजश्छलेनात्मानं विमुच्य गतः। ततो भामिनि! यद्येवमुत्तरं जानासि तदा गच्छ।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ पञ्चपञ्चाशत्तमी कथा ॥
कथा-56
अथापरेद्युः प्रभावती गमनाय शुकं पृच्छति।
शुकः–
यादि देवि गता वेत्सि यदि कर्तुं त्वमुत्तरम्।
विषमे सान्तको यद्वद्वणिक्पुत्रः पुराकरोत्॥ 251 ॥
अस्त्यत्र त्रिपथो नाम ग्रामः। तत्र सान्तको नाम वणिक् महाधनी कृपणो दुष्टशीलो ग्रामान्तरप्रियश्च। ततश्च ग्रामान्तरादुद्ग्रहणिकां कृत्वा आगच्छन्पथि चौरैर्धृतः स भामिनि कथं चोरभयान्मुच्यते इति प्रश्नः।
उत्तरम्। शुकः-स वणिक्पुत्रः आत्मानं चोरैर्धृतं ज्ञात्वा गलग्रहनाम्नो यक्षस्य समीपवर्तिनोऽन्तिकं ययौ। तस्याग्रतश्च द्रव्यं मुक्त्वा हस्ते च खटिकामादाय यक्षाधाशामिदमब्रवीत्-
धनोद्ग्राहणिका देव कृतेयं तव सर्वतः।
इदं द्रव्यं मया लब्धं तिष्ठत्यन्यच्च वृद्धिमत्॥ 252 ॥
तं लेखकं च दृष्ट्वा यक्षधनमिति ज्ञात्वा तं प्रणम्य ते गताश्चोराः। स च द्रव्यं गृहीत्वा क्षेमेण गृहं ययौ।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इतिशुकसप्ततौ षट्पञ्चाशत्तमी कथा ॥
कथा-57
प्रदोषेऽन्यत्र सा बाला पुनः प्राह विहङ्गमम्।
सुखं भोक्तुं व्रजाम्यद्य नरान्तररतोद्भवम्॥ 253 ॥
शकुः-
यादि देवि यदा ज्ञाता भर्त्रा त्वं वेत्सि भाषितुम्।
यता ज्ञातः पुरा राज्ञा वदद्विद्वाञ् शुभङ्करः॥ 254 ॥
अवन्तोपुर्यां विक्रमार्को नृपः। तस्य चन्द्रलेखानाम्नी राज्ञी। सा राजपण्डितं शुभङ्करनामानं कामार्ता इयेष रमते च दूतीदासीविपर्ययात्। नित्यं तद्गृहं गत्वा यदृच्छया क्रीडते। एवं च विलसतोस्तयोः पण्डितराज्ञ्योः प्रावृट्कालः समाययौ। यत्र च-
तडिन्निर्घोषपटहो घनगर्जितगीतकः।
शिखिस्वरजयध्वजः प्रावृट्कालनृपो ययौ॥ 255 ॥
दुर्दिनं वेगवृष्टिश्च पङ्कश्च तडितः प्रभा।
सदाभिसारिकाणां च स्नेहव्यतिकराणि ह॥ 256 ॥
उक्तञ्च-
जइ ससणेही तो मुअइ अह जीवइ णिण्णेह।
दुहिअ पयारेहिं गइअ धण किं गज्जहि खलमेह॥ 257 ॥
[ यदि सस्नेहा तत् मृता अथ जीवति निःस्नेहा।
द्वाभ्यामपि प्रकाराभ्यां गता धन्या, किं गर्जसि खलमेघ॥ ]
किञ्च-
X X X X X ।
X X X X X ॥ 258 ॥
एतस्मिन्समये रात्रौ राज्ञीं शुभङ्करगृहं चलितां ज्ञात्वा पृष्ठत अज्ञातचर्यया हस्ते खड्गमादाय नीलवासाः सन् कौतुको विक्रमार्को राजा तामनुचलितः। शुभङ्करोऽपि तां राज्ञीं गृहद्वारसमागतां दृष्ट्वा जगाद-
उन्नादाम्बुदवर्द्धितान्धतमसि प्रभृष्टदिङ्मण्डले काले यामिकजागरूकसुभटव्याकीर्णकोलाहले।
भूपस्यासुहृदर्णवाम्बुवडवावह्नेस्त्वमन्तःपुरादायातासि यदम्बुजाक्षि कृतकं मन्ये भयं योषिताम्॥ 259 ॥
इदं वचनं श्रुत्वा नृपतिः स्वप्रासादमाजगाम्। शुभङ्करोऽपि भोगसंस्कारैश्चाटूक्तिभिश्च महिषीं तोषयामास।
उक्तञ्च-
ण कुणन्ति जे पहुत्तं कुविअं दास व्य जे पसाअन्ति।
ते च्चिअ महिलाण पिआ सेसा सामीचिअवराआ॥ 260 ॥
[ न कुर्वन्ति ये प्रभुत्वं कुपितां दास इव ये प्रसादयन्ति।
ते एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः॥ ]
नायकेषूत्तमः सोऽथ महिषी नायिकासु च।
शयनं चोत्तमं निन्ये त्रिधा भेदविकल्पनात्॥ 261 ॥
उत्तमाधममध्यैश्च भेदैः स्नयान्नायकस्त्रिधा।
नायिकाश्च तथा ज्ञेयास्तयोश्च शयनं त्रिधा॥ 262 ॥
तत्र नायकगुणाः-
हतो मन्युहस्रैर्यः सन्तप्तो मदनाग्निना।
रक्तश्च यो विरक्तायां सोऽधमः परिकीर्तितः॥ 263 ॥
कामिनीभिः स्मरार्ताभिः सततं काम्यते हि यः।
न ताः कामयते नम्रो मध्यमो नायकः स्मृतः॥ 264 ॥
रक्तां यो भामिनीं देवि सक्तां कामयते सदा।
तयापि काम्यतेऽत्यर्थमुत्तमः सोऽभिधीयते॥ 265 ॥
नायिकास्त्रिधा-
कार्ये गृह्णाति रोषं या गतरोषा प्रियानुगा।
रसज्ञा कृत्यकुशला सोत्तमा नायिका स्मृता॥ 266 ॥
अस्थाने कोपमाना या या दुःखानुनया तथा।
मानिनी मानहीना च क्षणात्सा मध्यमा स्मृता॥ 267 ॥
लुब्धा यातीव चपला वचने नीरसाक्षरा।
दुःखप्रसाधनाभिज्ञाकृतज्ञा साधमा मता॥ 268 ॥
तयोश्च शयनं त्रिधा-
पार्श्वयोरुन्नति नीतं निम्नमध्ये प्रियस्य तत्।
विमर्दं सहतेऽत्यर्थं सुरतासक्तयोस्तयोः॥ 269 ॥
मध्यमस्य पुनः कार्यं शयनं समभूमिकम्।
प्रविरलाङ्गसंस्पर्शा नित्यं याति निशा यथा॥ 270 ॥
द्वेष्यस्य तुल्यमुत्तुङ्गं मध्ये नीचं च पार्श्वयोः।
न शक्येत कलाकल्पो यत्र रन्तुं निरन्तरम्॥ 271 ॥
इत्यनुन्नततल्पस्था भुक्ता मुक्ता विपश्चिता।
महिषी रतिसन्तुष्टा प्रत्यूषे स्वगृहं ययौ॥ 272 ॥
राजा च प्रातः सर्वावसरानन्तरम् पण्डितं राज्ञीं चाजुहाव। सिंहासने च पण्डितमुपवेशयामास। शुभङ्करं प्रति हसन्वार्ताप्रबन्धेनेति जगाद-“कृतकं मन्ये भयं योषिता"मिति वचनं श्रुत्वा स्वदोषविस्मितमानसः सञ्जातः। स राज्ञा ज्ञातः कथं भवित्विति प्रश्नः। यतः-
दीनस्यापि गृहे दोषे कृते भवति निग्रहः।
किं पुनः पृथिवीपालगृहे दोषो विमुच्यते॥ 273 ॥
उत्तरम्। शुकः प्राह-ततश्च स बुधो राज्ञा ज्ञातोऽहमिति सञ्चिन्त्येति वाणीभुदैरयत्-
उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योम्नि स्थाऽपि च दुर्गमक्षितिभृतां मूर्धानमारोहति।
व्याप्तं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते मदनावतार कृतकं मन्ये भयं योषिताम्॥ 274 ॥
इति पण्डिते पठितं श्रुत्वा राजा तं बुधं तां च राज्ञीं दृष्ट्वा इति चिन्तयामास-`दुर्लभोऽयं बुधः। सुलभाः खलु नार्य’ इति विचिन्त्य महिषीं हस्ते धृत्वा तस्मै विदुषे ददौ। उवाच च-`गृहाणेमां महिषीम्।’ परितोषितः पण्डितोऽपि `महाप्रसाद’ इत्यवोचत्।
उक्तञ्च-
गुणदोषौ न शास्त्रज्ञः कथं विभजते जनः।
किमन्धस्याधिकारोऽस्ति रूपदोषोपलव्धिषु॥ 275 ॥
पण्डितोऽपि राज्ञः प्रसादात्सुखं भुंक्ते तया समम्।
यद्येवं प्रभावति! त्वमपि समये वक्तुं जानासि तदा गम्यताम्। अन्यथा स्थीयताम्।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ सप्तपञ्चाशत्तमी कथा ॥
कथा-58
अन्यदा प्रदोषे चलिता प्रभावती शुकं पृच्छति।
शुकः-
रत्यर्थिनो व्रजाथ त्वं रन्तुं चेत्समयोचितम्।
दुःशीलापतिवद्वेत्सि कर्तुं गणपतेः पुरः॥ 276 ॥
प्रभावत्याह-कथमेतत?
शुकः-अस्ति लोहपुरी नाम नगरम्। तस्मिंश्च राजडो नाम पामरः। तस्यापि पत्नी परपुरुषलम्पटा दुःशीलेत्याह्वया। सा च सूत्रविक्रयार्थं सखीभिः समेत्य पद्मावतीं पुरीं प्रयाति। ततश्च ग्रामसमीपस्थस्य गणपतेस्ताभिः पृथक्पृथक् उपयाचितमुक्तम्। तया च चुम्बनमुपयाचितमुक्तं मदनाक्रान्तदेहया। स च तासां प्रभूतं लाभं चक्रे। ततः सर्वाभिरन्याभिरात्मीयमुपयाचितं तस्मै गणेशाय प्रदत्तम्। तया च नग्नीभूय चुम्बनं कृतम्। ततः केलिप्रियेण तेन सा अधरे धृता। तस्मिंश्च धृते सा कुक्कुटीव तत्र स्थिता। तञ्च वृत्तान्तं तन्मोक्षणाय तद्भर्तुः सख्योपहसमाना निवेदयामासुः। सोऽपि तद्वचनं श्रुत्वा तत्रागमत् तां तथाविधां दृष्ट्वा स व्यचिन्तयत्-कथमियं मुच्यत इति प्रश्नः।
शुकः-तां तथास्थितां दृष्ट्वा सकामः सन् रासभं रन्तुमारेभे। ततश्च स गणपतिस्तताविधं कौतुकं दृष्ट्वा जहास। हसतस्तस्य ओष्ठौ शिथिलौ जातौ। ततः सा मुक्ता सती प्रणम्य निजं नाथं तर्जयन्ती गृहं ययौ।
कृतं तेन रतं देवि समयोचितमीदृशम्।
स्वकार्ये मोचिता सापि दुःशीला विघ्ननायकात्॥ 277 ॥
समयोचितमारम्भं कुरुते यस्तु कृत्यवित्।
सर्वदा तु फलं तस्य समयज्ञो दि शिष्यते॥ 278 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ अष्टपञ्चाशत्तमी कथा ॥
कथा-59
अथ दिनान्ते सा शुकं गमनाय पृच्छति स्म।
शुकः-
गच्छ देवि स्वकार्यञ्च कुरु चिन्तितमद्भुतम्।
रुक्मिणीवद्विजानासि पतिं वञ्चितुमुद्धतम्॥ 279 ॥
प्रभावत्याह-कथमेतत्?
शुकः-अस्ति सङ्गमो नाम ग्रामः। तत्र राहडो नाम राजपुत्रः सकोपः। तस्य भार्या रुक्मिणी नाम। स च तया सार्धं देवयात्रायां चलितः। सा च नरान्तरं कटाक्षयन्तो तेन दृष्टा पुमांश्च। ततः स तन्मिथुनं तथाविधं ज्ञात्वा तां तदनुरक्तां मेने। उक्तञ्च
बद्धमणिआइ कन्तो तहेअ अद्धच्छिपिच्छिला धाई।
अससिअं पि मुणिज्जइ छइल्लजनसंकुले गामे॥ 280 ॥
[ बद्धहृदयायाः कान्तः तथैव अर्द्धाक्षपिच्छिला वामा।
निःश्वसितमपि ज्ञाक्षयते विदग्धजनसंकुले ग्रामे॥ 280 ॥]
तां तथाविधां विकृतां ज्ञात्वा च राहडो गृहमगमत्। धिक्कृत्य परुषाक्षरैर्गृहान्तरे यन्त्रितां धारयामास। सा च चिन्तयति-मम जन्म जीवितं यौवनं च तदा सफलं यदा एतस्य प्रत्यक्षं नरान्तरमुपभोक्ष्ये। प्रतिज्ञातं च मनसा दृढम्। तत आत्मोयप्रतिज्ञां कथं निर्वाहयत्विति प्रश्नः।
शुकः-ततः सा कदाचित्तं हृदयस्थं नरं गृहपार्श्वे गच्छन्तं दृष्ट्वा तं प्रत्याह-अद्य रात्रौ त्वयास्मद्गृहाङ्गणस्थचिञ्चिणीमूले निजकायाकारगर्तायामूर्ध्वलिङ्गिना शयनं विधेयमिति। स तथेति प्रतिज्ञाय रात्रौ तथा भूत्वा स्थितः। सा च कामार्ता सर्वकरणचतुरा तत्र ययौ। आगारभूमिमुद्दिश्य भर्तारमाह्वयति स्म। सा चिञ्चिणीच्छायायां गत्वा तस्य लिंगस्योपरि उपविश्य सतूमधनुषं तमब्रवीत्।
धानुष्कोऽसि प्रधानोऽसि लोके ख्यातिं गतोऽसि च।
छिन्धि मे चन्द्रिकामद्य पौरुषं गणयामि ते॥ 281 ॥
स च मूर्खस्तद्वचनमिदं श्रुत्वा सशरं धनुरादाय चन्द्रिकां लक्षीकृत्य बाणं मुमोच। तेन मुक्तोऽपि बाणो नाकाशगतां चन्द्रिकां भिनत्ति। अधः स वेध्याद् भ्रष्टः। तस्मिंश्च पत्यावपराद्धेषौ सति सा विंपरीतरतक्षमा सहस्ततालं तमिदमाह-
[ “राहड भूलडं चान्द्रणीयाहं हिं रूपवदीसइ नीयडडं।
ताहं वलिकीजिन्हं तादहीवाहं मइं राषज्जेवद्रढीछाहं॥ 282 ॥ ]
राहडोऽपि तामेवं जल्पन्तीं श्रुत्वा तं शरं गवेषयन् चिरं बभ्राम। ततस्तया यदृच्छया विपरीतं विहितम्। एवमुक्तश्च पतिः-
यदृच्छया रतं मूर्ख ते पुरोऽद्य मया कृतम्।
शूरो हि कुहितोऽसि त्वं यास्यामीति जगाद तम्॥ 283 ॥
इत्युक्त्वोपपत्त्या समानीतं हयमारुह्यजगाम। गच्छन्तीं च तां ततो दृष्ट्वा राहडोऽपि लज्जितो विगुप्तश्च। ततः स्त्रीणां वशगः को न विडम्बितः। यतः-
आननर्त पुरा शम्भुर्गोविन्दो रासकृत्तथा।
ब्रह्मा पशुत्वमापन्नः स्त्रीभिः को न विडम्बितः॥ 284 ॥
संसारवृक्षमूलं याः पापकन्दलभूमिका।
सन्तापफलपुष्पाणि योषितः किं सुखावहाः॥ 285 ॥
मायामूलमिदं सर्वं तस्या मूलं हि योषितः।
संयोगो योषितां मूलं तं त्यक्त्वा च सुखानि नः॥ 286 ॥
तस्येदं वचः श्रुत्वा प्रभावती प्राह-
उत्पत्तिकारणं तन्वी तन्वी वृद्धेश्च कारणम्।
सुखस्य कारणं तन्वी सा कथं कीर दुष्यते॥ 287 ॥
विना ताभिर्न सम्भोगो विना ताभिः सुखं न च।
विना ताभिर्न चात्मानं कृतार्थं मन्येते जनः॥ 288 ॥
उक्तञ्च-
अमृतस्येव कुण्डानि सुखानामिव खानयः।
रतेरिव निधानानि योषितः केन निर्मिताः॥ 289 ॥
प्रियादर्शनेमेवास्तु किमन्यैर्दर्शनान्तरैः।
प्राप्यते यत्र निर्वाणं सरोगेणापि चेतसा॥ 290 ॥
इति तस्या वचः श्रुत्वा शुकः प्राह-
वाजिवारणलोहानां काष्ठपाषाणवाससाम्।
नारीपुरुषतोयानामन्तरं बहु विद्यते॥ 291 ॥
एतत्त्वयोक्तं पतिव्रताविषयं नान्यासु।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकोनपष्टितमी कथा ॥
कथा-60
अन्यदा सा प्रभावती गमनाय शुकं प्रपच्छ।
शुकः प्राह-
गच्छ देवि यदा वेत्सि संशये कृत्यमागते।
वीरस्य नपतेर्यद्वत्सभायां नृपदूतकः॥ 292 ॥
प्रभावत्याह-कथमेतत्?
शुकः-
कच्छाधिपतिना देवि तस्य राज्ञः सभा श्रुता।
विचित्रा देवनिर्मिता सर्वरत्नविभूषिता॥ 293 ॥
तां द्रष्टुं प्रहितो दूतो हरिदत्त इति श्रुतः।
सहस्रप्राभृतो भीरु सुरत्नहयहस्तकः॥ 294 ॥
स दूतस्तत्पुरीं गत्वा नृपं दृष्ट्वा तं जगाद, `मत्स्वामिनाऽहं सचित्रां तव सभामवलोकयितुमुत्कलितः।
राजा प्राह-प्रातर्दर्शयिष्ये।
ततो राज्ञा द्वितीयदिने दूत आकारितः। स च सहसागतस्तां सभां विचित्ररत्नखचितां दृष्ट्वा जलमयीं स्थलमयीं वेति निश्चेतुमशक्तः कथं भवत्विति प्रश्नः।
शुकः ततः स पूगीफलं पुरः क्षिप्त्वा स्थलं ज्ञात्वा गृहं ययौ।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ षष्टितमी कथा ॥
कथा-61
अन्यदा सा शुकं प़च्छति स्म।
शुक प्राह-
गच्छ देवि गता वेत्सि रन्तुं चेत्त्वं निजं नरम्।
यथा तेजुकया पूर्वं कृतं चिरमाकाङ्क्षितम्॥ 295 ॥
प्रभावत्याह-कथमेतत्?
शुकः कथयति-अस्ति खोरसमभिधानो ग्रामः। तत्र वणिक्पुत्रः पार्श्वनागनामा। तस्य भार्या रूपसम्पन्ना रतलोलुपा कुलटा तेजुका नाम। साऽन्यदा सखीभिर्वृता देवयात्रालोकनाय गता सुरूपस्यैकस्य पुंसः रूप प्रेक्ष्य सङ्गमाय मनश्चक्रे। यतः-
विवाह देवयात्रायां राजवेश्मनि सङ्कटे।
परगेहे विवादे च देवि नारी विनश्यति॥ 296 ॥
उक्तञ्च-
गृहेऽरण्ये तथा देवे हव्ये तीर्थे जलाशये।
विवाहे चोत्सवे नित्यं मालिनीनिलये तथा॥ 297 ॥
यात्रायां स्त्रीसमूहे च निर्जने जनसङ्कुले।
पत्तने च तथा ग्रामे स्वच्छन्दा द्वारवर्तिनी॥ 298 ॥
खले क्षेत्रे प्रवासे च मार्गे वेश्मनि चत्वरे।
प्रवेशे निर्गमे राज्ञां सदा या कौतुकप्रिया॥ 299 ॥
प्रतिवेश्मगृहे शून्ये रजकीसूचिकीगृहे।
दिवा रात्रौ च सन्ध्यायां दुर्दिने राजचत्वरे।
शोके च व्यसने भर्तुः स्वच्छन्दा स्त्री विनश्यति॥ 300 ॥
तेजुका च तं दृष्ट्वा भ्रूसंज्ञया आहूयेदमब्रवीत्-अहं तवासक्ता परं मदीयो भर्ता दुःसहो निष्ठुरश्च गृहाद्बहिर्निर्गन्तुं नोत्सहे। अतो यस्मिंस्तस्मिन्दिवसेऽस्मद्गृहद्वारि घटे क्षिप्त्वा वृश्चिको मोक्तव्यः। तदाहं पश्चिकदष्टा भविष्यामि। त्वयास्मद्गृहद्वारि वैद्येन भाव्यम्। इति सङ्केतं विधाय स्वगृहं जग्मतुः। तेनापि तथा कृतम्। सापि घटं खट्वोच्छीर्षके क्षिप्त्वा इति जगाद-अहमनेन वृश्चिकेन घटस्थेन दष्टा’-इति रारटीति।
सोऽपि च पुरुषस्तदा वैद्यो भूत्वा तद्गृहद्वारि तस्थौ।
“ताडं बन्धउ पोट्टं मलउ सूलं फेडउ विसं हरउ”
[ तालं बध्नामि, उदरं मर्द्दयामि, शूलं स्फेटयामि, विषं हरामि ]
इति जल्पति। तदा च सा भर्तारं जगाद।
देहि काष्ठानि मे नाथ मरिष्यामि न संशयः।
आहूय मन्त्रिकान्वैद्यान् गतार्त्तिं वा कुरुष्व माम्॥ 301 ॥
ततस्तद्भर्ता गृहाद्बहिः स्थितं तमाकारयामास। वैद्योऽपि तां दृष्ट्वा तत्पतिं जगाद।
यद्येषा कालदष्टा जीवति ततस्त्वं भाग्यवानहमपि यशःपात्रं भवामि।
वणिगाह-वैद्य! प्रसादं विधाय एनां विषरहितां कुरु।
ततः स वैद्यः केनापि कटुकभैषज्येन वनितौष्ठमालिप्य तत्पतिमाह- अहो वणिक्सर्वेषामपि विषाणां समधिकं मानुषविषमेव। ततो विषस्य विषमौषधमिति कृत्वा त्वमस्या ओष्ठं धाव।
ततो वणिक् तथा कर्तुमारेभे। क्षणमात्रेणतस्य वणिजः कटुकौषधमिश्रौष्ठास्वादेन मुखं कटुकं सञ्जातम्। ततो वणिगाह-त्वमेवोष्ठ धावेत्युक्त्वा वणिक् स्थितः। वणिजोऽपि विषशङ्कारूढा। ततो बहिर्गते वणिजि वैद्येन सा कामार्ता यथेच्छं भोजिता। तदनन्तरं सा मायिनी स्वस्थाऽभूत्। वणिगपि क्षणेन स्वस्थो बभूव। उपकृतश्च वैद्यस्तेन चरणैः स्पृष्ट्वा त्वदीयोऽस्मीति। ततः स वैद्यच्छद्मना गृहमायाति सततं वणिजि बहिर्गते भुङ्क्ते च तां नित्यम्। ततो भामिनि एवं कर्तुं वक्तुं च यदि जानासि ततो याहि।
एवं कर्तुं च वक्तुं च यो जानाति छलप्रियः।
स करोतु स यात्वेवं कर्तुं भोक्तुं निजं हितम्॥ 302 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकषष्टितमी कथा ॥
कथा-62
अन्यदा सा प्रभावती शुकमापृच्छति।
शकुः प्राह-
प्रियमेवानुभोक्तव्यं याहि देवि तदर्थिनी।
कुहनस्य यथा कान्ते सङ्कटेऽसि क्षमोत्तरे॥ 303 ॥
अस्ति गम्भीराख्यो ग्रामः। तत्र कुहनो नाम राजपुत्र ईर्ष्यालुः शूरो जडः स्त्रीप्रियो दुर्धरश्च। तस्याभूतां द्वे कलत्रे शोभिकातेजिकाख्ये रतलोलुपे परपुरुषलम्पटे सुरूपे। तद्भर्ता तद्रक्षणाय ग्रामाद्बहिर्नदीतीरे गृहं केच द्वारस्थस्ते रक्षयति।
अन्यदा स ताभ्यामुक्तः-यदा कश्चिन्नापितः समभ्येति तदा भव्यं भवति।
ततस्तेनापि भ्रामको नापितः प्रेषितः प्रतिसीरान्तरैस्तयोर्नखकल्पनाय। ततश्च तयोश्चरणान् तिरस्करिणीबहिःस्थान्नापितः प्रक्षलयति। पतिश्चादूरे पथि निविष्टः। ताभ्यां च स नापितः सुवर्णकटकमर्पयित्वा प्रच्छन्नमेवमुक्तः-एतद् द्रव्यं गृहीत्वा आवयोः केनापि सार्धं संयोगं विधेहि।
दिवाकीर्तिरपि तथेति प्रतिज्ञाय राजपुत्रमापृच्छ्य जगाम। अन्यदात्ममित्रं नवयौवनं कलापात्रमनुद्गतश्मश्रुं स्त्रीवेषं कारयित्वा तयोः पत्युः पार्श्वे तेन सह समागत्य नापित इदमाह-ममेयं वल्लभा। अहं च ग्रामान्तरं जिगमिषुर्युष्मद्गृहं विनाऽन्यत्र मोक्तुं न शक्नोमि। यतो भवतां गृहे स्त्रीयन्त्रणा भव्या।
इत्युक्ते तेन प्रतिपन्नं मुञ्चेति। ततश्चण्डालोऽपि तं मुक्त्वा तयोः पार्श्वे गतो जगाद-यदियं युष्माभिरात्मीया करणीया।
ततस्ते तं चण्डालानीतं ज्ञात्वा बहु मेनाते। स च दिवा स्त्रीरूपी रात्रौ च कामुकः राजपुत्रकलत्रे प्रतिवारं भुङ्क्त। स च राजपुत्रः स्त्रीलोलुपस्तत्सङ्गमाय स्पृहयति। ययाचे च तां नित्यम्। सा तु कपटीस्त्री नेति जगाद। राजपुत्रस्य स्त्रीत्वे भ्रान्तिरुत्पन्ना तद्भान्तिमपनेतुं निजकलत्रे जगाद-ततो देव्यादेशान्मया प्रातर्महोत्सवो विधेयः। तत्र भवतीभिर्विवस्त्राभिस्तिसृभिरपि नर्तितव्यम्।
ततः स स्त्रीच्छन्ना कथं नृत्यतु इति प्रश्नः।
उत्तरम् शुकः-तन्त्र्या लिंगाग्रं नियम्य गुदमध्यगमानम्य स्फुटां भगाकृतिं कृत्वा पत्यौ समागते सहस्ततालं सर्वा एवं वदन्त्यो ननृतुः।
निसुहर णाच्चइ संकलिदं जं मनसि किदं मक्कटीजालं।
णाहि णाहि पृछह अत्थ धरेइ णाद भिल्उकलत्तु करेइ॥ 304 ॥
[निशामय नृत्यति सङ्कलितं यन्मनसि कृतं मर्कटीजालम्।
नहि नहि पृच्छ अथोध्रियते ज्ञातं भिन्नकलत्रं करोति॥ 304 ]
राजपुत्रोऽर्थं पप्रच्छ। ताभ्यामुक्तम्-मर्कटा कटिसन्धिरुच्यते। ततस्तस्यां त्रुटितायां राजपुत्रोन्यत्कलत्रं कुर्यादित्यर्थः। ततो राजपुत्रः स्त्रीचरित्रपराङ्मुखो मूढधीः प्रतीतः, इतरस्तु तथैव स्त्रीवेषेण कलत्रे भुङ्क्ते।
तस्माद्यः सङ्कटे वेत्ति कर्तुं वक्तुं च भामिनि।
स यात्वत्र यथाकामं यथाकालं यथासुखम्॥ 305 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ द्विषष्टितमी कथा ॥
कथा-63
अन्यस्मिन्प्रदोषे प्रभावती यामीति शुकं प्रत्याह।
शुकः प्राह-
याहि देवि न दोषोऽत्र मनोदुःखे समागते।
तद्र्दुःखशमनं कर्तुं वेत्सि चेच्छकटालवत्॥ 306 ॥
यथा शकटालेन निजकुटुम्बभरणाय समुद्भवद्दुःखं चाणक्यपार्श्वन्नन्दकुलमुच्छेद्य दुःखशमनं कृतं तथा त्वमेव……………….. तस्मात्तव परगृहं गन्तुं न युज्यते।
उक्तञ्च-
उडुगणपरिवारो नायकोऽप्योषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः।
भवति विकलमूर्तिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को न धत्ते लघुत्वम्॥ 307 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ त्रिषष्टितमी कथा ॥
कथा-64
अन्यदा प्रभावती शुकमापृच्छति स्म। सोऽप्याह-
गच्छ चेद्विषमे वेत्सि कर्तुं किञ्चित्कृशोदरि।
कृतं देविकया यद्वत्सखीजारविमुक्तये॥ 308 ॥
प्रभावती प्राह-कथमेतत्?
शुकः अस्ति कूटपुराभिधो ग्रामः। राजपुत्रः सोमराजः। तस्य मण्डुका नाम पत्नी प्रियदर्शना नरान्तरलोलुपा। ताञ्चैको नरः कृतसंकेतः सघण्टको रात्रौ गृहाङ्गणे भुङ्क्ते। तत्पतिर्घण्टाशब्दं शृण्वन्नेकदा लगुडमादाय प्रधावितः षण्डशङ्कया। ततः षण्डवेशधारी उपपतिः। कथं भवित्विति प्रश्नः।
शुकः-देविका नाम सखो मण्डुकायाः पतिं घण्टाशब्दानुसारिणमागच्छन्तं दृष्ट्वा जारस्य नश्यतो घण्टातालां हस्ते धृत्वा तं प्रति जगाद भावुक! कांदिशीको वृषो नष्टः।
ततः स व्यावृत्य निजपौरुषं पत्न्यै कथयामास।
इति कतां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ चतुःषष्टितमी कथा ॥
कथा-65
अन्यदा प्रभावती शुकं पृच्छति।
शुकः-
युज्यते गमनं देवि तव तत्र प्रभावति।
वेत्सि चेद्विषमे वक्तुं सितवस्त्र इवाकुलः॥ 309 ॥
अस्ति देवि जनस्थानं नाम पत्तनम्। तत्र नन्दनो नाम राजा यथार्थः। तत्पत्तने श्रीवत्सो नाम श्रावकः परं महेश्वररतः। तेन अन्यदा वारणसीं नगरीं प्रति प्रस्थितेन सशिष्येन पथि गच्छता। एकः शिष्यः मांसहरणाय स्थापितः। अन्यश्रावकैर्दृष्टः स कथं भवत्विति प्रश्नः।
शुकः प्राह-यदा सर्वश्रावका आगत्योपविष्टाः तदाट्टहासं जहास। पृष्टः सर्वैर्जगाद-ईदृशोऽयं शिष्य-। मयोक्तं मां संवर्तत अबुद्ध्या अनेन मांसस्य……..।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ पञ्चषष्टितमी कथा ॥
कथा-66
अन्यदा सा प्रभावती चलिता शुकं पृच्छति।
शुकः-
गच्छ देवि न कर्तव्यो विलम्बः पुण्यकर्मणि।
यदि वेत्सि भये कर्तुं सुबुद्धिर्हंसराडिव॥ 310 ॥
अस्ति देवि धरापृष्ठे रम्यं क्षीणनराकुलम्।
दशयोजनविस्तीर्णं वनं विहगवल्लभम्॥ 311 ॥
तत्र गव्यूतिविस्तीर्णे शीतच्छाये जलाशयतीरस्थिते वटे शङ्खधवलो नाम हंसराट् सकुटुम्बो मेदिनीं भ्रान्त्वा दिनात्यये शेते। अन्यदा तेषु हंसेषु भ्रमणाय गतेषु पापर्द्धिना जालं बद्धम्। प्रदोषागताः पतिताः सर्वेऽपि कथं मुच्यन्ते-इति प्रश्नः।
शुकः-ततस्तु स्वं कुटुम्बं तथा बद्धं ज्ञात्वा रात्रौ शङ्खधवलः प्राह-रे रे पुत्राः! यादसौ लुब्धकः प्रातर्भूरुहं समारुह्य युष्मानवलोकयति तदा भवद्भिर्मृतकल्पैरुच्छ्वासनिःश्वासरहितैः स्थातव्यम्। सोऽपि युष्मान्मृतानिति ज्ञात्वा यदा भूमौ सर्वान् क्षिपति तदा सर्वैरप्युड्डीय गन्तव्यम्। इति कृते लुब्धकः प्रातः समाययौ। तेन ते मृता इति ज्ञात्वा भूमौ क्षिप्तास्तदा ते उड्डीय काङ्क्षितं देशं ययुः।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ षट्षष्टितमी कथा ॥
कथा-67
अन्यदा चलिता प्रभावती शुकं पृच्छति स्म।
शुकः-
अथ चेद्यासि कामार्ता याहि भीरु गता सती।
प्लवङ्गम इवात्मीयं वक्तुं वेत्सि यथाहितम्॥ 312 ॥
अस्ति पुष्पाकरं नाम वनम्। तत्र वनप्रियो नाम वामनवानरः। स कदाचित्समुद्रान्तमर्यादाजले लुठन्तं मकरं दृष्ट्वा प्राह-`मित्र! किं जीवितनिर्विण्णस्त्वं यदद्य धराभूमौ समागतः।’
इति वचः श्रुत्वा मकरोऽप्याह-
यस्य यद्विहितं स्थानं यस्य यद्वेतनं कृतम्।
तत्रैव रमते चित्तं तस्य नान्यत्र वानर॥ 313 ॥
उक्तञ्च-
सर्वस्वर्णमयी लङ्का न मे लक्ष्मण रोचते।
पितृक्रमागतायोध्या निर्धनापि सुखायते॥ 314 ॥
जणणीं जम्मणभूमिं पिअसंगं जीविअं धणासंघं।
पच्छिमणिद्दा विरिकामिणिं च दुक्खेहि मुंचन्ति॥ 315 ॥
[ जननीं जन्मभूमिं प्रियसङ्गं जीवितं धनासङ्गम्।
पश्चिमनिद्रां वरकामिनीञ्च दुःखेन मुञ्चन्ति॥ ]
तदहं सफलजन्मा संवृत्तस्त्वदीयदर्शनेन।
उक्तञ्च-
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः।
तीर्थं फलति कालेन सद्यः साधुसमाममः॥ 316 ॥
तस्मात्स्थलोत्पन्नः प्राणिवर्गस्तु धन्यो यत्र भवादृसशाः प्रियवादिनो वर्तन्ते। इति श्रुत्वा वानर आह-`अहो मकर! त्वमद्यप्रभृति मे प्राणाधिकं मित्रम्। त्वमेव सौहृद्यवचसां वक्ता। उक्तञ्च-
यतः सतां सन्नतगात्रि सङ्गतं मनीषिभिः साप्तपदीनसुच्यते।
इत्युक्त्वा पुनः प्राह-मित्र! त्वमद्यातिथिरस्माकं भव।’ इति भणित्वा अमृतसदृशानि पक्वफलानि ददौ।
ततः प्रभृति प्रतिदिनं कदलीफलानि यच्छति। मकरोऽपि निजदयिताया अर्पयति। सा च पतिं तत्फलवृत्तान्तं पृच्छति। स च सर्वं यथास्थितं निवेदयति। ततः सा गर्भानुभावतश्चिन्तयामास-`यो वानरो नित्यमीदृशानि फलानि भुङ्क्ते तस्यौरस्यं मांसममृतोपमं स्यात्।’ इति विचिन्त्य पतिं प्राह-`मम गर्भानुभावतो वानरहृदयपिशितभक्षणे दोहदो विद्यते। तद्यदि पूरयसि तदा जीवामि अन्यथाऽसंशयं मम मृत्युर्भविष्यति।’ इति श्रुत्वा दयिताग्रहाच्च समुद्रतटमागत्य वानरं प्राह-`मित्र! त्वदीयभ्रातुः प्रिया त्वामाकारयति। अस्मदीयो गृहोपचारो विलोकनीयः।’ इत्युक्त्वा विश्वास्य पृष्ठे चारोप्य प्रचलितः। वानरस्तं गच्छन्तं शङ्कितः प्राह-तत्र गतेन मया किं विदेयम्?
इत्याकर्ण्य मकरेण चिन्तितम्-`वानरोऽसौ तस्मात्स्थानान्मया नीतः कथमम्भोनिधितटं यास्यति, तस्मात्कथयामि’-इत्यवधार्य यथास्थितं जगाद। ततो वानरः कथं भवत्विति प्रश्नः।
शुकः-वानरः प्राह-भो मकर! तर्हि त्वं मां तत्र वृथा नयसि यतोऽहं हृदयहीनो भवामि। मम हृदयं मम पार्श्वे नास्ति।
मकरः-क्व मुक्तं त्वया।
वानरः-मित्र! किं न श्रुतं त्वया?
सर्वदोदुम्बरो वृक्षे हृदयं वृटभूरुहे।
चित्तमस्ति गृहीत्वा तदागच्छामि पुनर्जलम्॥ 317 ॥
इत्युक्ते तदा मकरो मूर्खः समुद्रान्तमाययौ। वानरोऽपि तत्पृष्ठतः समुत्तीर्य शाखिनमारोहति स्म। ततो मकरं जगाद गच्छ। नाहं भावदृशैरत्रस्थो गृहीतुं शक्यः।
जलजन्तुचरैर्नित्यं जलमार्गानुसारिभिः।
स्थलजैः संगतिर्न स्यात् ध्रुवेति मुनिभाषितम्॥ 318 ॥
इति निर्भर्त्सितो वानरेण मकरः स्वगृहं ययौ।
उक्तञ्च-
उत्पन्ना युक्तिकार्येषु बुद्धिर्यस्य न हीयते।
स एव तरते दुर्गं जलान्ते वानरो यथा॥ 319 ॥
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ सप्तषष्टितमी कथा ॥
कथा-68
अथान्येद्युः शुकं प्राह प्रभावती।
शुकः-
याहि देवि सुखं भुङ्क्ष्व यदि तेऽस्ति सहायिनी।
वितर्कसदृशी काले विषमे वरवर्णिनि॥ 320 ॥
अस्ति विद्यास्थानं नाम ग्रामः ब्राह्मणानाम्। तत्र केशवो ब्राह्मणः। तेन च स्नानाय गतेन तटाके रम्या वणिक्पुत्री दृष्टा। स च तां रन्तुमिच्छति। अन्यदा तया प्रोक्तो द्विजः स्नानादुत्थितः-`यत्त्वं मम शिरसि द्वितीयं घटमारोपय।’ अतस्तेन घटमारोपयता तस्या ओष्ठश्चुम्बितः स च तथा कुर्वन् पतिना दृष्टः। नीतो राजकुलं कथं मुच्यताम् इति प्रश्नः।
उत्तरं शुकः प्राह-अथ तन्मित्रं वितर्को नाम। स च तत्समीपमागगत्येदमब्रवीत्-`मित्र! त्वया राजकुलगतेन वचचेवत्येव वाक्यं जल्पनीयं नान्यत्। तथा कृते च मन्त्रिणोक्तम्-`नायं दोषभाक्। प्रकृतिरेवंविधैवास्य। तेनैव चोत्तरेण लोके साधुतां गतो वितर्कसाहायिकबुद्ध्या। यदि त्वमपि तथा जानासि तदा गच्छ।
इति कथां श्रुत्वा प्रभावती सुप्त।
॥ इति शुकसप्ततौ अष्टष्टितमी कथा ॥
कथा-69
अन्यदा प्रभावती शुकं पृच्छति। शुकः प्राह-
कुरु जारं विशालाक्षि विजारं कुरुषे यदि।
यथा वेजिकया पूर्वमर्धस्नाते पतौ कृतम्॥ 321 ॥
अस्ति स्थानं कलास्थानं नाम। तत्रैको वणिक्सुतः तस्य भार्या च वेजिका नामातिवल्लभा। अन्यदा च तं भर्तारं स्नापयन्ती उपपतिं पूर्वकृतसङ्केनं पथि गच्छतं दृष्ट्वा नात्र पानीयं प्रचुरमिति मिषान्तरं कृत्वा पानीयानयनव्याजाद्गृहान्निर्गता जारेण साकं बहुकालं च स्थिता। ततोऽर्धस्नातं पतिं मुक्त्वा तथा स्थिता कुमुत्तरं करोत्विति प्रश्नः।
उत्तरम्-
शुकः ततः जारेण भुक्ता स्वपतिवञ्चनं विचिन्त्यात्मानं कूपे चिक्षेपः। ततः कोलाहलःसंवृत्तः। कूपे कापि वराकी पतितास्तीति प्रवादः सञ्जातः। तेन तत्पतिस्तद्वचनं श्रुत्वा व्यचिन्तयत्-नूनं सा मत्पत्नी कूपे पतिता भविष्यति-इति द्रुतं गत्वाऽवलोकयामास। ततस्तां कूपादाकृष्यानीयामानयत्।
इति कथां श्रुत्वा प्रभावती सुप्ता।
॥ इति शुकसप्ततौ एकोनसप्ततितमी कथा ॥
कथा-70
एतावतीनां कथानां पर्यन्ते तद्भती मदनो देशान्तरादागतः। तस्मिंश्चागते सा तथैव तस्मिन्स्नेहलाभूत्। शुक एवं मन्दं मन्दं पठति-
अनुरागो वृथा स्त्रोषु स्त्रीषु गर्वो वृथा तथा।
प्रियोऽहं सर्वदा हय्स्या ममैषा सर्वदा प्रिया॥ 322 ॥
परं मदनो न शृणोति। उपहास्य तदा चैवं वदति-`यः कश्चिद्धितं वाक्यं शृणोति करोति च स परत्रेह च शर्मभाग्भवति।’ इति मुहुर्मुहुः पठितं मदनः श्रुत्वा पृच्छति। ततः सा स्वयमेव शंकिता कथयति।
उक्तञ्च-
सर्वत्र शुचयो धीराः सुकर्मबलगर्विताः।
कुकर्ममयसंत्रस्ताः पापाः सर्वत्र शङ्किताः॥ 323 ॥
आर्यपुत्र! त्वमेव वन्द्यो यस्य वेश्मनि त्रिविक्रमानीतयुगमध्यादेकः शुकः सर्वेषा लोकानां हितभाषकोऽत्र बन्धुपितृस्थानीयो विशेषतो मम। यथा यथा सा शुकं स्तौति तथा तथा शुको लज्जते।
उक्तञ्च-
बउ जइ मारइ मच्छली तो उण्णउ करेइ।
सीहु जु मारइ मत्तगअणहचम्पिआ धरेइ॥ 324 ॥
[ बकः यदि मारयति मत्स्यान् स पुनर्न करोति।
सिंहो यो मारयति मत्तगजनाथ सेवितो ध्रियते॥ ]
ततो मदनस्तद्वचनं श्रुत्वाह-किं तव शुकेनोपकृतन्। कथमीदृग्गुणोऽसौ जातः।
सा प्राह–स्वामिन्! सत्यस्य वाचो वक्ता श्रोता च न लभ्यते।
उक्तञ्च–
सुलभा पुरुषा राजन् सततं प्रियवादिनः।
अप्रियस्य तु पत्यस्य वक्ता श्रोता च दुर्लभः॥ 325 ॥
महिला चपला स्वामिन्निःस्नेहा गुणवर्जिता।
कुविकल्पा तनुप्रज्ञा यथोक्तं सत्यमेव तत्॥ 326 ॥
मन्यते सुकृतं नैव पतिपुत्रपराङ्मुखी।
पूर्वस्नेहमयी मृद्वी कृतकार्याऽतिनिष्ठुरा॥ 327 ॥
उक्तञ्च-
कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम्।
ज्ञात्वा च तं मन्मथपाशबद्धं ग्रस्तामिषं मीनमिवोद्धरन्नि॥ 328 ॥
समुद्रवीचीव चलस्वभावाः सन्ध्याभ्ररेखेव मुहुर्तरागाः।
स्त्रियः कृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति॥ 329 ॥
सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति।
एताः प्रविश्य हृदयं सदयं नराणां किं नाम वामनयना न समाचरन्ति॥ 330 ॥
स्वामिन्! त्वयि प्रोषिते मया कञ्चित्कालं त्वद्वियोगः सोढः। पश्चाच्च कुसखीसङ्गता। पुरुषान्तरं रन्तुकामया मया गमनविघातिनी सारिका हता। अनेन शुकेन तु वचनप्रपञ्चेन सप्ततिदिनानि स्थापिताहम्। अतो मया कर्मणा पापं न विहितं मनसा तु कृतम्। अद्यप्रभृति त्वं मम जीवनमरमस्वामी।
इति श्रुत्वा मदनः शुकं पृच्छति।
स आह-
प्रयोजनमविज्ञाय ज्ञात्वा चाथ मनीषिणा।
सहसैव न वक्तव्यमचिन्त्यो विधिनिर्णयः॥ 331 ॥
विहिविहिअं लद्ध पिअसंगो जीविअं धणं धण्णं।
जुत्तं सव्वं जणवअणं विअणविडम्बणा णिहिला॥ 332 ॥
[ विधिविहितं चिरलब्धं प्रियसङ्गो जीवितं धन धान्यम्।
युक्तं सर्वं जनवचनं वचनविडम्बना निखिला॥ ]
स्वामिन्! यद्यपि कथयितुं न युज्यते तर्हि शृणु।
मूर्खाणां मद्यपानां च नारीणां रोगिणामपि।
स्वामिन्कामातुराणां च खिन्नानां कोपिनां तथा॥ 333 ॥
मत्तप्रमत्तभीरूणां क्षुधार्तानां विशेषतः।
सुकृतं स्खलितं चार्या न गृह्णान्ति क्षमान्विताः॥ 334 ॥
उक्तञ्च भारते-
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः।
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश॥ 335 ॥
अस्याश्च कुकृतं क्षम्यताम्। अत्रार्थे नास्या दोषः। कुसखीसङ्गादियम्।
उक्तम्-
असतां सङ्गदोषेण साधवो यान्ति विक्रियाम्।
दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः॥ 336 ॥
विद्याधरेण तनया भुक्ता राज्ञः पुरा छलात्।
पतिनापि सुभुक्तापि निर्दोषिति विचारिता॥ 337 ॥
शुकः कथां मदनाग्रे कथयामास-अस्ति जगतीतले मलयो नाम पर्वतः। तस्य शृंगे मनोहरं नाम गन्धर्वपुरम्। तत्र मदनोनाम गन्धर्वः। तस्य भार्या रत्नावली। तयोः सुता मदनमञ्जरी। तस्या रूपसम्पदं दृष्ट्वा देवो वा दानवो वाऽधोमुखो मुह्यति। न कोऽपि तदनुरूपो वरो लभ्यते यस्य सा दीयते।
अथान्यदा नारदः समायातः। सोऽप्यस्या रूपमवलोक्य मूर्च्छितः सकामोऽभूत्। पश्चाल्लब्धसंज्ञेन ऋषिणा सा शप्ता। उक्तञ्च-
तरुणी रमणी रतिरम्यतया प्रमदा सुखदा च सदा समदा।
यदि सा सुभगा हृदयेनिहिता क्व जयः क्व जयः क्व जयः क्व जयः॥ 338 ॥
यदेतस्या रूपे दृष्टे मे स्मरज्वरो जातः तदियं शीलविडम्बनां प्राप्स्यते। ततो राजा प्रणम्य प्राह–स्वामिन्! प्रसन्नो भूत्वा प्रसादं कुरु। नारद आह-
`नास्याः शीलखण्डेन दोषो भविष्यति न च पतिविरहः। मेरुपर्वते विपुलापुरीनिवासी कनकप्रभो नाम गन्धर्वः। स तव पुत्र्या वरो भविष्यति।’ इत्युक्त्वा नारदो ययौ।
ततो मुनिवचनेन तेन गन्धर्वेण सोद्वाहिता। सोऽन्यदा तां मुक्त्वा कैलासं ययौ। सापि तद्वयोगार्ता शिलापट्टे लुठन्ती वस्त्रादिरहिता केनचिद्विद्याधरेण रूपातिशमवलोक्य संयोगार्थं प्रार्थिता। सा तं न वाच्छति। ततस्तेन तद्भर्तुर्गन्धर्वरूप कृत्वा सा भुक्ता। ततः कालक्रमेण तस्या भर्ता गृहमागतः। तां सुरतसुखसन्तुष्टामपश्यत्। `परोपभुक्तदेहेयम्’ इति तां दृष्टां मत्वा सावश्यं वध्येति निश्चित्य चण्डिकालयं ययौ। यावत्तदग्रतो मारयति तावदन्यया फूत्कृतम्-`स्वामिनि! मम त्वया वरो दत्तो यत्तव गन्धर्वचक्रवर्ती पुत्रो भविष्यति। तत्कथं पुत्रमुखम दृष्ट्वा विपत्स्ये।’
एवं विलपन्त्यास्तस्याः पुरतस्तां प्रति देवी प्राह-हे गन्धर्ववीर! नास्याः कोऽपि दोषः। किन्तु विद्याधरेणेयं त्वदीयरूपमयेन मायया भुक्ता। ततोऽजानन्त्या अस्या न दोषः। अन्यच्च मुनिशापो विद्यते।
तत इदं सञ्जातम्-`शापवृत्तान्तश्च निवेदितः, ततो मुनिवचनादियं निर्दोषा त्वया ग्राह्या’-इति गौरीवचनं श्रुत्वा स निःशङ्कं तया सह स्वस्थानं गतस्तथैव सुखतोऽभूत्।
`ततो वणिक्पुत्र। यदि मद्वचः प्रमाणं तदैनामदुष्टां प्रति प्रसादं कर्तुमर्हसि।’ इति कीरवचनान्मदनेनानुगृहीता। ततो हरिदत्तोऽपि पुत्रागमनतुष्टो महोत्सवं चकार। तस्मिन्महोत्सवे दिव्यमाला पतिता। तद्दर्शने शुकसारिकात्रिविक्रमाणां शापमोक्षात्स्वर्गगमनं बभूव। मदनोऽपि प्रियया प्रभावत्या सह सुखानि भुङ्क्त।
इति शुकसप्ततौ सप्ततितमी कथा।
॥ इति शुकसप्ततिः समाप्त ॥
******************************************************************************************
]