[[प्रबन्धप्रकाशः (द्वितीयो भागः) Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
[TABLE]
[TABLE]
प्राक्कथनम्
प्रसन्नताया विषयो यत्परःशतवर्षेभ्यः प्रतिकूल परिस्थितीःसहमाना संस्कृतभाषा साम्प्रतं भारतीयराष्ट्रेण भारतीयमुख्यभाषास्वेकतमत्वेन स्वीकृता भूयोऽप्यभ्युत्थानाभिमुखी दृश्यते। प्रायेण सर्वासां भारतीयभाषाणां मातृभूता हि सा न केवलं भारतीयसंस्कृतेर्निर्वाहिकैव, किन्तु तस्या उद्गमस्थानमपि। लोककल्याणभावनाभिरापूर्ण तस्या वेदोपनिषदादि वाङ्मयं नूनं समस्तस्य जगतोऽमूल्या संपत्तिः। ततश्च संस्कृतभाषाया अभ्युदयो भारतीयभाषाणां संपोषणार्थम्, भारतीयसंस्कृतेः संरक्षणार्थम्, अखिलस्य जगतः कल्याणसाधनसंपत्त्यै चापेक्ष्यते।
स एष संस्कृतज्ञानामतर्कितोपनतः शुभावसरः। ते हि प्रचीनकाले राष्ट्रियजीवनस्य विभिन्नविभागेषु नेतार आसन्। भूयोऽपि तैस्तत्पदमात्मनो देशस्य च हितसंपादनहेतोरासादनीयम्। तदर्थं च तैरवश्यं सततं परिवर्तनशीलाया लोकावस्थितेः सम्यक् परिचयः, प्रगतिशीलपद्धति चानुरुध्य सुविस्तृतस्य संस्कृतवाङ्मयस्यानुशीलनमपेक्ष्यते। तदेतादृशमेवोद्देश्यमपेक्ष्य निर्मितोऽयं ग्रन्थः सर्वथा प्राप्तावसर एव।
समस्तेऽपि भारते संस्कृतमहाविद्यालयेषु मूर्धन्यं पदं भजमानस्य काशिकराजकीयसंस्कृतमहाविद्यालयस्य चिराय आचार्यपदमधिष्ठितवता अस्मत्प्रियशिष्येण श्रीमङ्गलदेवशास्त्रिणा संस्कृतभाषाया अभिवृद्ध्यै संस्कृतज्ञेषु च प्रगतिशीलभावनानां प्रोद्बोधनार्थं यत्सुमहत् प्रयतितं तत्कस्याविदितम्। उत्तरप्रदेशशासनाधीनं विशिष्टपदाधिकारिरूपेण तेन तस्यैव महाविद्यालयस्य संस्कृतविश्वविद्यालयत्वेन विकासार्थमुपनिबद्धा योजनापि खलु संस्कृतभाषायाः समुन्नत्यै तेनानवरतं क्रियमाणस्य प्रयत्नस्यैवापरं निदर्शनम्।
संस्कृतभाषायामपि संप्रति तादृशस्य साहित्यस्यावश्यकता केन संस्कृतज्ञेन नानुभूयते।
किञ्च, कस्यैतदविदितं यल्लोकप्रगतिर्हि स्वभावत एव नदीव सततमग्रगामिनी न जातु एकावस्थायामेव संतिष्ठते। अद्यत्वे पुनः सा प्रगतिःकाष्ठामतिक्रम्य वर्तते। अत एव साम्प्रतं मनुष्यस्य प्रात्यहिकजीवनचर्यायाः साधनेषु प्रकारेषु चापि सर्वथा नूतनतैव प्रतीयते, मानवजातीनां च पारस्परिकव्यवहारा विचाराश्च आमूलतो रूपान्तरमिवापद्यमाना दृष्टिपथमायान्ति। सत्यप्येवं किञ्चिदाश्चर्यकरमिवैतद् यत्संस्कृतज्ञेषु अद्यापि सामयिकप्रगतेरुपेक्षाया भावनैव प्रायो लब्धपदा विद्यते। एतादृश्यामवस्थायाम् “कृधी न ऊर्ध्वाञ्चरथाय जीवसे” (ऋ० १।३६। १४), “भूत्यै जागरणमभूत्यै स्वपनम्" (यजु० ३०।१७), “इन्द्र इच्चरतः सखा” तथा “चरन्वै मधु विन्दति" (ऐ० ब्रा० ७।१५) इत्याद्यनुसारं प्रगतेर्भावनाया जागर्तिरेव संस्कृतज्ञानां साम्प्रतिकी मुख्यावश्यकतेति प्रतिभाति।
तदेवंविधैरेवोद्देश्यैस्तत्तद्विशिष्टावसरेषु प्रदत्तानामस्माकं भाषणानामेष संग्रहो विज्ञानां संस्कृतज्ञानां पुरः समुपस्थाप्यते। संग्रहस्यान्ते च संयोजितौ ऐतरेयपर्यालोचनं नाम महानिबन्धः, सुविस्तृतप्राचीनसंस्कृतवाङ्मयात् प्रायेण पूर्वोक्तदृष्ट्यैव संकलिता कापि सुविचारमाधुकरी च नूनं ग्रन्थस्योपयोगिताया उपादेयतायाश्च प्रकर्षाय भविष्यतः।
सोऽयं संस्कृतभाषायामिदंप्रथमत्वेनैव कृतः समुद्यमः संकृस्तज्ञानां प्रेमभाजनं भवेदिति नो विश्वासः। किं बहुना,
भद्राः सन्तु प्रशस्तयो
भद्रा वाचो वचोविदः।
जागृयाम पुरोहिताः॥
भारतीयसंस्कृतिसंस्थानम्,
इंग्लिशिया लाइन,
बनारस कैंट।
मङ्गलदेव शास्त्री
(मेधातिथिः)
शरत्पूर्णिमा, २००७
(२५।१०।१९५०)
शुद्धाशुद्धसूची
| अशुद्धम् | शुद्धम् |
| द्रोपद्या- | द्रौपद्या |
| बलपूर्वकं | बलात्कारेण |
| संस्कुत- | संस्कृत- |
| पादने | पादनेन |
| एकतमं | एकतमत् |
| पूर्णम् | पूर्णानि |
| आवश्यकी | (!) आवश्यिका |
| प्रत्येकस्य | प्रत्येकं |
| प्रत्येको | प्रत्येकं |
| तेषां | तस्य |
| पश्चात्य- | पाश्चात्य |
| प्रत्येकस्य | प्रत्येकं |
| प्रत्येकस्याः | ” |
| ऐन्द्रियकाणां | ऐन्द्रियिकाणां |
| शारीरिकमानसिकादि- | शारीरिकीमानसिक्यादि- |
| -याश्चा | -याश्च |
| अपेज्ञया | अपेक्षया |
| अशुद्धम् | शुद्धम् |
| सफला- | सफल- |
| आवश्यकी | (?) आवश्यिका |
| आर्थिकधार्मिकाद्या | आर्थिकीधार्मिक्याद्या |
| सत्यपि | सत्यामपि |
| उच्छसद् | उच्छ्वसद् |
| अपि न | अपि स |
| ‘अखिल- | कलकत्तानगरे ‘अखिल’- |
| संशयात्मिका- | संशयात्मक- |
| -मनुष्येसु | -मनुष्येषु |
| शनै | शनैः |
| कृतो | कृतं |
| प्रत्येकस्य | प्रत्येकं |
| गीयाया | गीताया |
| -बौद्धिक- | -बौद्ध- |
| यजन्तः | -र्यजत्राः |
| वाङ्मय- | वाङ्मय- |
| -निदर्ष्टि- | -निर्दिष्ट |
| प्र- | प्रा- |
| सरस्वती | सारस्वती |
| अशुद्धम् | शुद्धम् |
| -ष्यिति | -ष्यति |
| -संग्राहा- | -संग्रहा- |
| -दीय- | -दीप- |
| -द्ध- | -द्ध्- |
| एवाद्य | एव |
| शर्मः | शर्म |
| -त्येर्थः | -त्यर्थः |
| शयक्ते | शक्यते |
| वचा- | वच- |
| बीमाय | बीभाय |
| इष्कु- | इष्कृ |
| भजा | भज |
| ब्राह्मणं | ब्रह्माणं |
| यमयेष | यमयत्येष |
| -यीयाः | -नीयाः |
| झो- | भो- |
विषय-सूची
भूमिका
शुद्धाशुद्धसूची
[TABLE]
[TABLE]
[TABLE]
| (८) पुत्रस्य महिमा गार्हस्थ्यजीवनं च | |
| (९) दानमातिथ्यं च | |
| (१०) राजनीतिः | |
| (११) लौकिक दृष्टान्तः | |
| (१२) यज्ञस्य महिमा स्वरूपं च तथार्त्त्विज्यम् | |
| (१३) देवानां सामान्येन, तत्तद्देवानां, पितॄणां गन्धर्वादीनां च वर्णनम् | |
| (१४) अग्न्यादिपदार्थविज्ञानम् | |
| (१५) मनुष्यस्य पश्वादेश्च स्वभावादिवर्णनम् | |
| ९ | समावर्तनसत्रपद्धतिः |
सुविचार-माधुकरी
| ऋग्वेदसंहितायाः |
| शुक्लयजर्वेदसंहितायाः |
| सामवेदसंहितायाः |
| अथर्ववेहसंहितायाः |
| शतपथब्राह्मणात् |
| ऐतरेयब्राह्मणात् |
| गोपथब्राह्मणात् |
| ईशावास्याद्युपनिषद्भ्यः |
| निरुक्तात् |
| पातञ्जलमहाभाष्यात् |
| वाल्मीकिरामायणम् |
| महाभारतात् (विदुरनीतेः) |
| कौटिलीयादर्थशास्त्रात् |
| चाणक्यसूत्रेभ्यः |
| मनुस्मृतेः |
| चरकसंहितायाः |
| प्राज्ञगीतायाः |
| धम्मपदात् |
| मुद्रणत्रुटिमिर्देशः |
| ग्रन्थकर्त्रा प्रणीतानां संपादितानां वा ग्रन्थानां परिचयः |
[TABLE]
प्रबन्धप्रकाशः
ॐ
अहं राष्ट्री संगमनी वसूनां
चिकितुषी प्रथमा यज्ञियानाम्।
तां मा देवा व्यदधुः पुरुत्रा
भूरिस्थात्रां भूर्यावेशयन्तीम्॥
अहमेव स्वयमिदं वदामि
जुष्टंदेवेभिरुत मानुषेभिः।
यं कामये तं तमुग्रं कृणोमि
तं ब्रह्माणंतमृषिं तं सुमेधाम्॥
(ऋग्० १०।१२५।३,५)
अभिनवभारते संस्कृतज्ञानां स्थानम्1
माननीयाः सभापतिमहोदया विद्वद्वर्याश्च,
परमिदं सौभाग्यं यदहमद्य भगवतोऽनाथनाथस्य जगन्नाथस्यावासभूम्यां पुण्यपुर्यां पुर्यामिह सुप्रथितख्यातेरेतस्याः परिषद् उपाधिवितरणोत्सवावसरे स्नातकानभिलक्ष्य दीक्षान्तभाषणं विधातुं तत्रभवतां भवतां समक्षमुपस्थितोऽस्मि।
भव्याः,
नूनमभूतपूर्वोऽयंसमयो भारतवर्षस्य दैर्घकालिक इतिहासे। सत्यंसुप्रभाता रजनी। चिरकालिकपारवश्यमहातमिस्रातमोऽपगमे भारतीयगगनमण्डले उदयाभिमुखभारताभ्युदयभास्वतो नूतननूतनाशाकिरणोद्भासि दिव्यं प्राभातिकं ज्योतिर्विशालमाशाचक्रवालमाभासयन्नो मानसकलिकाः प्रबोधयदिवावलोक्यते। अस्मिन्हि शोभने समये प्रकृतिदेव्याः क्रोडे क्रीडतामाद्यानामृषीणाम् “एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात्” (ऋग् ० १।१२४।३) इत्याद्युषस्यं श्रुतिगानमिव भारतीयानामस्माकं सोल्लासमनसां सहसेव मुखान्निःसरति-
सुप्रभातं विजयतां धियो यत्पुष्टिवर्धनम्।
पथः सत्यस्य सातये॥
तदेतेन मनोऽभिरामेणाभिनवजीवनदायिना समयेनाभिनवतामापन्न इव भारते
“ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उपासः”
(ऋग्० १।१२४।९)
इत्यनुसारं प्रत्नवद्भयोऽपि भारतीयसंस्कृतेः प्रजागरः स्यादित्यभिप्रायेण ‘भारतं भारती भारतीयसंस्कृतिः’ इति श्रुतिमधुरो रवः सर्वतः श्रुतिपथमापतति।
न केवलमस्मद्देशस्य विभिन्नक्षेत्रेषु कार्यधुरं वहन्तो नेतार एव तत्तन्मञ्चेभ्यो भारतीयसंस्कृतेर्गुणगानपरा अनवरतमद्यत्वे
श्रूयन्ते, किन्तु हिन्दुमहासभा-राष्ट्रियस्वयं सेवकसंघ-अखिलभारतीयसंस्कृतिसंमेलनप्रभृतिसंस्था अपि तथैव खलु तन्महिमवर्णनया मुखरा दृश्यन्ते। किं बहुना, भारतवर्षस्य तु का वार्ता, भारताद्बहिरपि अमेरिका-रूस-फि़न्लैण्ड-नारवेप्रभृतिसुदूरदेशदेशान्तेरष्वपि भारतीयसंस्कृतेरध्ययनाध्यापनविषयिणी महती अश्रुतचरी रुचिर्विदुषां नानाविश्वविद्यालयानां च क्रमशः प्रवर्धमानाहरहः संवादपत्रेभ्यः प्रतीयते।
तत्र केयं ननु भारतीयसंस्कृतिः, किं तस्याः स्वरूपम्, कीदृशं च तस्याः स्थानमद्यतनीये जगतीति स्वाभाविकी जिज्ञासा समुदेति नो मनःसु। सर्व एष विचारः खलु संस्कृतिसामान्यस्वरूपावधारणसापेक्ष इति संस्कृतिसामान्यमेव तावत्संक्षेपेण विचार्यतेI
तत्र संस्कृतिस्तावत्केति जिज्ञासायां कस्यापि देशस्य समाजस्य वा विभिन्नजीवनव्यापारेषु सामाजिकसंबन्धेषु वा मानवीयत्वदृष्ट्या प्रेरणाप्रदानां तत्तदादर्शानां समष्टिरेव संस्कृतिरित्येवार्थः प्रमितित्वेन वक्तव्यः। वस्तुतस्तस्यामेव सर्वस्यापि सामाजिकजीवनस्योत्कर्षः पर्यवस्यति। तयैव तुलया विभिन्नसभ्यतानामुत्कर्षांपकर्षौ मीयेते। किं बहुना, संस्कृतिरेव वस्तुतः “सेतुर्विधृतिरेषां लोकानामसंभेदाय” (छान्दोग्योपनिषदि ८।४।१) इत्येवं वर्णयितुं शक्यते। अत एव च सर्वेषां धर्माणां संप्रदायानामाचाराणां च परस्परं समन्वयः संस्कृतेरेवाधारेण कर्तुं शक्यते।
भारतीयसंस्कृतिः
उपर्युक्तदृष्ट्यैव भारतीयसंस्कृतेरपि गुणगानमद्यत्वेऽभितः श्रूयते। इयं हि भारतीयसभ्यताया अन्तरात्मा, सर्वेषां भारतीयधर्माणां संप्रदायानां चाधारः। आपाततः परस्परं विरुद्धत्वेन प्रतीयमानेष्वपि शैवशाक्तवैष्णवजैनबौद्धादिसंप्रदायेषु परस्परं य आन्तरः संबन्धस्तस्य मूलं तेष्वेकसूत्ररूपेण ओतप्रोता भारतीया संस्कृतिरेव। “स यथा सर्वासामपां समुद्र एकायनम्” (बृहदारण्यकोपनिषदि २।४।११) एवं सर्वेषां भारतीयसंप्रदायानां भारतीयसंस्कृतिरेकायनम्।
भारतीयसंस्कृतेस्तत्तत्संप्रदायानां च परस्परं पोष्यपोषकभावरूपः संबन्धः। एकतः सा तानाप्याययति, अपरतस्ते तां पोषयन्ति। अत एव “इदं सत्यं सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधु” (बृह० उप० २।५।१२) इति श्रुतिमनु “इयं भारतीयसंस्कृतिः सर्वेषां भारतीयसंप्रदायानां मध्वस्याः संस्कृतेः सर्वे संप्रदाया मधु” इदमपि सुतरां वक्तुं शक्यते।
इयंहि यद्यपि तत्तत्संप्रदायेषु व्याप्ता, तथापि न तैरस्याः स्वरूपं परिसमाप्यते। किञ्च तत्तत्कालभेदेन तत्तदवस्थितिभेदेन च भिन्नापि, गङ्गाया धारेव सततं प्रगतिशीलापि, सा एकसूत्ररूपेण वर्तमाना स्वस्या एकात्मतां पवित्रतां च न जहाति। अत एव भारतवर्षे चिराय प्ररूढासु, अस्माकं दास्यकाले च सुतरां प्रवृद्धासु, अनुदारसांप्रदायिकभावनासु विद्यमानास्वपि, तत्त्वविदो
विचारशीला विद्वांसः “परोक्षप्रिया हि देवाः प्रत्यक्षद्विषः” इति श्रुतेरादेशमनुसरन्त इव तेषु तेषु संप्रदायेषु व्यापिन्या एकस्या भारतीयसंस्कृत्या भावनयैव भावितचित्ता उदारहृदयाः सर्वत्र समदृष्टयो न कुत्रापि संप्रदाये पक्षपातिनेा भवन्ति, न चान्यायेन व्यवहरन्ति।
भारतीयसंस्कृतेः स्वरूपम्
तस्या एतस्या आसेतुहिमालयम् “आसमुद्रात्तु वै पूर्वादा समुद्रात्तु पश्चिमात्” (मनु० २।२२) परःशतेषु संप्रदायेषु प्रविभक्तायाः, परःसहस्रेभ्यश्च वर्षेभ्यो लोकोत्तरप्रतिभानवद्भिराचार्यैर्महात्मभिश्च जगद्धितसंपादनकामनयैवाभिवृद्धिं नीतायाः, साम्प्रतं च चतुर्दिशम् “इन्द्राग्नी ता हवामहे” (ऋग्० १।२१।३), “सवितारमुपह्वये” (ऋग्० १।२२।५) इत्याद्यनुसारं देवतारूपेण समाहूयमानाया भारतीयसंस्कृतेः किं स्वरूपं किं वा वैशिष्ट्यमिति महति प्रश्ने समासत एव तत्समाधानमिह प्रदर्श्यते।
भारतीयसंस्कृतेः स्वरूपावधारणप्रसङ्गे प्रथमं पदमवगाहते आध्यात्मिकी भावना। एषा हि तस्या अधिष्ठानं हृदयमात्मैव वा। तिलेषु तैलमिव, पुष्पे सुगन्ध इव, क्षीर आज्यमिव, प्राणिषु प्राणा इव, शरीरे रक्तमिव वा इयं हि तस्याः सर्वं स्वरूपमभिव्याप्य तिष्ठति। मणिमालायां मेरुमभितो मणिगणा इव आध्यात्मिकीं भावनामभितस्तस्या अन्ये गुणा अभिवर्तन्ते। सैव तत्सूत्रं येन वै भारतीयसंस्कृतेः सर्वाण्यन्यानि रूपाणि
संदृब्धानि भवन्ति। एषैव तानि सर्वाणि यमयति। सब्राह्मणोपनिषत्का वेदाः, स्मृतयः, पुराणानि, बौद्धानां जैनानां वागमाः, महात्मनां वचांसि अन्यद्वा भारतीयं वाङ्मयं सर्वमप्याध्यात्मिक्या भावनया साक्षादसाक्षाद्वा ओतप्रोतम्। असंख्यानां भारतीय महात्मनां मुनीनां साधूनां च जीवनान्यस्या एव निदर्शनानि।
कीदृग्रूपा पुनरियमाध्यात्मिकी भावनेति चेत्, “परोक्षप्रिया हि देवाः प्रत्यक्षद्विषः”, “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” (कठोपनिषदि २।१।१), “श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते” (कठो० १।२।२), “पञ्चापासादमारुय्ह असोको सोकिनिं पजं। पब्बतट्ठो व भुम्मट्ठे धीरो बाले अवेक्खति॥” (धम्मपद २।८) इत्यादिश्रुतिस्मृत्यनुसारं सततं संसरणशीले क्षणपरिणामिनि संसारे आपातरम्यां पर्यन्तपरितापिनीमैन्द्रियकां तात्कालिकीं च प्रवृत्तिं विहाय यत्किंचित्स्वभाववतोऽप्यात्मनः कल्याणकामनया धीरधीभिरेवावलम्बनीया अन्तर्वृत्तिरूपा दीर्घदृष्टिरेव सेत्येव वक्तुं शक्यते। सा चैषा आध्यात्मिकी भावना समाना सर्वेष्वपि भारतीयसंप्रदायेषु। अन्यत्सर्वमधस्ताद् वर्णितं भारतीयसंस्कृतेः स्वरूपं वस्तुतोऽस्या एव विस्तरो व्याख्यानं वा।
आध्यात्मिकीं भावनामनु समायाति पारलौकिकी भावना। आपातरम्ये पर्यन्तपरितापिनि ऐन्द्रियके जीवनेऽनास्था, आत्मनः
कल्याणकामना च स्वत एव ‘अयमेव लोको न पर’ इति भावनाया विरोधिन्यां पारलौकिकभावनायामेव विश्रान्तिं लभेते। तां विना को नु क्षणस्थायिनि सततं संसरणशील इह जीवने शान्तिभाग् भवेत्। एतयैव प्रेरिता भारतीया वीरा रमण्यश्च स्वधर्मस्य स्वदेशस्य च रक्षार्थं हसन्त एव सर्वस्वं प्राणानपि चोत्सृजन्तो भारतीयेतिहासे दृश्यन्ते। सा चैषा पारलौकिकी भावनापि सततमस्मान् कर्तव्यपालनाय प्रोत्साहयन्ती अमूल्यं रत्नमिव भारतीयसंस्कृतेः।
कर्तव्यपक्षेऽपि वर्णनातीतमेव भारतीयसंस्कृतेः स्वरूपम्। तत्र आत्मसंयमस्तावत्प्रथमं पदमधितिष्ठति। नानाविधव्रतोपवासादिबहुलेन तत्तत्सांप्रदायिकाचारेण, कृच्छ्रातिकृच्छ्रचान्द्रायादिविधानेन च आत्मसंयमस्यैव भारतीयसंस्कृतावनन्यसदृशंमहत्त्वमाख्यायते। पुरुषार्थचतुष्टयसाधकेषु चतुर्ष्वाश्रमेषु यद् ब्रह्मचर्यस्यानन्यसाधारणं प्रमुखं स्थानं तदपि भारतीयसंस्कृतावात्मसंयमस्यैव वैशिष्ट्यं प्रख्यापयति। नैतदहेतुकं यत्पृथिव्यां विभिन्नसभ्यतासु केवलं भारतीयसंस्कृतावेव ब्रह्मचर्यस्य एकतमाश्रमत्वेन स्थापना तस्याद्वितीयमहत्त्ववर्णनं च दरीदृश्यते। कस्याविदितं यद् भीष्मपितामहसदृशादर्शब्रह्मचारिणां जन्मभूमिरपि भारतमेव।
आध्यात्मिकभावनावारिणा सिक्तायामेव भूमौ पुनरस्यात्मसंयमस्य संभव इति न व्याख्यामपेक्षते। वस्तुतस्तु यमनियमा-
दीनि सर्वाण्यपि बाह्याभ्यन्तरशुचितासाधनानि आत्मसंयमस्यैव प्रपञ्चः।
आत्मसंयमादनन्तरं तस्यैव सद्विलास इव भारतीयसंस्कृतेरपरंवैशिष्ट्यं मातृशक्तेः संमाननं नाम। भारतीयसंस्कृतेरसाधारणं माहात्म्यमेतत्कृतमेव। विश्वप्रपञ्चस्य मूलकारणभूतामाद्यां महाशक्तिं “या देवी सर्वभूतेषु मातृरूपेण संस्थिता” (दुर्गासप्तश० ५।७१) इत्येवं मातृरूपेण चिरात्संभावयन्त्या, “तव देवि भेदाः स्त्रियः समस्ताः” (दुर्गा० ११।६) इत्येवं च तां निध्यायन्त्या भारतीयसंस्कृत्या मातृशक्तेर्विशेषतः संमानः स्वाभाविक एव। परं नियतमेतद्वैशिष्ट्यमखिलेऽपि संसारेऽसाधारणम्। “मातृवत्परदारेषु” इति नीतिकृद्भिरभ्युपगतः सिद्धान्तो व्यवहारेऽपि परस्त्रीषु परदारिकासु च मातः! भगिनि! पुत्रि! इत्यादिशब्दान् प्रयुञ्जानैर्वस्तुतः परिपाल्यते भारते पामरैरपि जनैः। किं बहुना, विशेषतो भगवत्याः सीताया देव्या द्रोपद्याश्चापमानपरिमार्जनार्थं प्रवृत्तयोर्रामायणमहाभारतयोर्निर्माणमपि उपर्युक्तसिद्धान्तनिदर्शनार्थमेव जातमिति मन्ये। ततश्च स्त्रीजातेः संमानभावनाप्यस्माकं भारतीयसंस्कृतेरवर्णनीयं वैशिष्ट्यमिति निर्विवादम्।
परस्परंविचारसहिष्णुतापि अपरं वर्णनार्हं वैशिष्ट्यं भारतीयसंस्कृतेः। सामाजिकाचारेष्वपेक्षितेऽपि प्रायेण व्यक्तीनां साम्ये, विचारविषये सर्वेषां स्वातन्त्र्यं चिरादेवाभिमतमासीद् भारतीयानाम्। परस्परं विचारसहिष्णुतामन्तरेण न तत्प्रथत इति
साप्यावश्यकत्वेनाङ्गमस्मत्संस्कृतेः। अत एव ईश्वरानीश्वरवाद-वेदपौरुषेयत्वापौरुषेयत्ववाद–वाममार्गदक्षिणमार्गादिभेदानां परस्परं सहिष्णुतया संस्थितिर्न कस्याप्यविदिता भारते। अत एव च विशुद्धभारतीयेतिहासे विदेशेतिहासेष्विव धर्मभेदासहिष्णुतामूलकस्य रक्तपातस्य नामापि न श्रूयते। नृशंसन (=मनुष्यहिंसा) विरोधप्रतिपादकस्य महाभारतादिप्राचीनग्रन्थेषु श्लाघनीयगुणत्वेनासकृद्वर्णितस्य आनृशंस्यस्याप्यन्ततो मनुष्यत्वस्य समादररूपायां परस्परं विचारसहिष्णुतायामेव पर्यवसानं भवति।
व्यक्तिस्वातन्त्र्यरूपा वा मनुष्यत्वस्य संमानरूपा वा एषा विचारसहिष्णुतैव वस्तुतो जैनानामनेकान्तवादसिद्धान्तस्य मूलम्। विभिन्नशास्त्रेषु जैनाद्यागमेषु चोपसंगीतगौरवाया अहिंसाया अपि अन्ततस्तत्तच्चेतनव्यक्तीनां स्वव्यक्तित्वविकासार्थमबाधस्वातन्त्र्यमेवाभिप्रायो निष्पद्यते। अत एव भारतीयेतिहासे बलपूर्वकं धर्मान्तरग्रहणस्य वार्ता अश्रुतचरी एव। तदत्र मौलिको भेद आर्यसंस्कृतेरितरसंस्कृतिभ्यः।
भारतीय संस्कृतेः स्थानमद्यतनीये जगति
तदेवमाध्यात्मिकभावनाया आधारेण पारलौकिकी भावना, आत्मसंयमः, मातृशक्तेः संमानः, परस्परं विचारसहिष्णुता चेत्यादिरूपैरसाधारणैर्व्यष्टेः समष्टेश्चोदात्ततायाः कल्याणस्य च संपादकैगुँणैरर्चिता इयं नो भारतीयसंस्कृतिर्नूनं स्वरूपत एव सकललोककल्याणसाधनक्षमा। अत एव मानवीयधर्मेणानर्थान्तरतया
“जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्” (योगसूत्रे २।३१) इत्यनुसारं सार्वभौमधर्मस्यैव नामान्तरम्। लोककल्याणमेव कामययानैर्ऋषिभिर्मुनिभिराचार्यैश्च प्रायोऽविच्छिन्नरूपेण संपोषितायाः, “मित्रस्य चक्षुषा समीक्षामहे” (यजुर्वेदे ३६।१८), “असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्मामृतं गमय” (बृहदारण्यकोपनिषदि १।३।२८) इत्याद्युपदेशामृतैश्च भरिताया अस्याः स्वभावत एव सार्वभौमधर्मरूपत्वे नहि किञ्चिदाश्चर्यम्। अत एव च “कृण्वन्तो विश्वमार्यम् (ऋग्वेद० ९।६३।५), “एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः॥” (मनुस्मृतौ २।२०) इत्याद्युद्धोषास्तस्याः संस्कृतेः संगच्छन्ते। तत्कृत एव च तस्याः कल्याणकारी प्रभावोऽद्यापि सुदूरदेशदेशान्तरेषु, विशेषतश्च बृहत्तरभारतप्रदेशेषु, समुपलभ्यते।
तस्या एतस्याः सांप्रतिके, एकतो नानासंघर्षैरुद्विग्ने, अपरतो जगद्विजिगीषाराक्षस्या समाक्रान्ते, अन्यतः पारस्परिकविद्वेषाविश्वाससंत्रासैः कदर्थिते, क्वचिच्चाद्यापि सभ्यताप्रकाशेन रहिते जगति कीदृशी उपयोगितेति विषये किमु वक्तव्यम्? स्वत एव स्पष्ट एषोऽर्थो नैव हेतुवादैः साध्यतामपेक्षते। नूनं भारतीयसंस्कृत्यधीनमेव परित्राणं समन्तात् खिन्नस्य जगतः।
तस्याः सांप्रतिकी दुरवस्था
सत्यप्येतादृशे लोकोत्तरमहिमशालिनि भारतीयसंस्कृत्याः स्वरूपे वृत्ते च, तस्या भारत एव साम्प्रतिकी दुरवस्था कस्य नाम
मनस्तापं न तनुते? चिरादेव जीर्णशीर्णगात्रा सा साम्प्रतं सत्यं मुमूर्षुरिव प्रतीयते। यत्र कुत्रापि दृष्टिर्निःक्षिप्येत तत्रैव सा सुप्तेव, विलुप्तेव, अथवा विलोपनोन्मुखी एव दृश्यते। सर्वेष्वस्माकं व्यवहारेषु, जीवनक्षेत्रेषु, गृहजीवने, सामाजिकजीवने, विश्वविद्यालयेषु अन्यत्र वा तस्या आदर्शानां स्वरूपस्य च प्रायेण प्रातिकूल्यमेव दृष्टिपथमापतति।
तस्या आध्यात्मिकताया मौलिक आधार एव तावत् प्रस्खलित इव, शिथिलित इव, उन्मूलित इव वा संजातः। “संगच्छध्वं सं वदध्वम्” (ऋग्० १०।१९१।२) इतिश्रुतेरादेशानुसारं समष्टिहितसंपादन एवात्महितबुद्धेदीर्घदृष्टिमपहाय समाजविद्वेषिण्यामन्धस्वार्थकामनायामेव निमग्नाः, सात्त्विकभावनाः समुत्सृज्य रजस्तमोऽभिभूताः, स्वकर्तव्यपालनविमुखा निरन्तरमधिकारलिप्सयैवोह्यमानाः, “ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान्। ……इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्” भ० गी० १६।१२-१३) इत्येवम् “आत्मसंभाविताः स्तब्धा धनमानमदान्विताः” (भ० गी० १६।१७) जगतोऽहितायैव प्रायेण प्रवृत्ता मन्ददृष्टयो वयं स्पष्टं नितरां प्रतिकूला आध्यात्मिकभावनायाः।
एवंभारतीयसंस्कृत्या आधार एव समुन्मूलनोन्मुखे का कथा तस्यास्तत्तद्विशेषाणाम्। तथा च आत्मसंयमस्थाने नग्नोच्छृङ्खलतायाः, विचारसहिष्णुतायाः स्थाने सांप्रदायिकविद्वेषिताया वर्गसंघर्षस्य च साम्राज्यमभितो दरीदृश्यते।औदरिका इव ‘रोटीरोटी’ इति विपुलं क्रन्दन्तोऽपि सुदूरमेव ततः क्रमशो नीय-
मानाः, वस्त्राद्यावश्यकसामग्रीविहीनाः, सर्वविधानुशासनहीना इव स्वकर्तव्यपालनविषये, ‘स्त्रियः स्वतन्त्राः’ इत्येवमापाततस्तासां हितं चिकीर्षन्तोऽपि दम्पत्योरकृत्रिमं स्नेहमुन्मूल्य गृहे गृहेऽशान्तिवातावरणोत्पादनपराः, चिरपरम्पराप्ररूढं गुरुशिष्ययोः पवित्रसम्बन्धं कलुषीकुर्वन्तो वयमसंशयं भारतीयसंस्कृतेः सुदूरमुपनीता इव साम्प्रतम्।
सांप्रतिका भारतीयविश्वविद्यालयाः।
यथा ह वै कस्मिन्नपि देशे राष्ट्रे वा तत्तद्वस्तूनि तत्तद्यन्त्रालयेषु निष्पाद्यन्ते, एवं वाव तत्रत्यायाः सभ्यतायाः संस्कृतेर्वा अभिवृद्धिः परिपुष्टिर्वा तत्रत्येषु विद्यालयेषु विशेषतश्च विश्वविद्यालयेषु जायते। तत्परीक्ष्यतां तावदस्मदीयानां विश्वविद्यालयानामेव दृष्टिरवस्था चैतस्मिन् विषये। सत्यामपि नानाविधायां स्पृहणीयायां तेषां समुन्नतौ, सत्यपि च निर्विवादं तेषामस्माकं समुन्नतौ स्वतन्त्रतावाप्तौ च महत्युपकारे, को नाम प्रभवेत् प्रत्याख्यातुं यत्तेषामा जन्मनः सर्वापि प्रवृत्तिः सर्वेऽप्यादर्शा आमूलचूडं विदेशप्रभवा एव। भारतीयसंस्कृतेर्भवतु नामाध्ययनाध्यापनं यत्र कुत्रचिद् विशेषविषयरूपेण, तच्चाप्यङ्गुलिनिर्देश्यैश्छात्रैः; परं निश्चितं केनाप्यद्य यावन्नैव प्रयतितं भारतीयसंस्कृत्याधारेण तान् प्रतिष्ठापयितुम्।प्रायेण भारतीयवाङ्मयस्य संस्पर्शेनापि विहीनास्तत्रत्याश्छात्रा अध्यापकाश्च भारतीयसंस्कृतेरादर्शेभ्यः पराङ्मुखा इति न किमप्याश्चर्यम्। अत एव च्छात्रोच्छृङ्खलतया कदर्थनामनु-
भवतामध्यापकानाम्, निर्व्याजविद्यापरायणतामुत्सृज्य प्रधानतोऽर्थोपार्जनपराणामध्यापकानामुपेक्षाभावेन खिन्नानां छात्राणां च पारस्परिकसंबन्धस्यादर्शहीनता कं न तापयति भारतीयसंस्कृतेः कल्याणानुबन्धिष्वादर्शेषु श्रद्धावन्तं जनम्। एतस्यैव परिणामोऽयं यदद्यत्वेऽहरहः सुप्रसिद्धविश्वविद्यालयेष्वपि छात्रेभ्योऽप्यध्यापकानां भयस्य, छात्राणां स्वाभीष्टप्रतिघातमूलकस्य तात्कालिकस्याध्ययनाद्विरामस्य तैरेव न केवलमध्यापकानां किन्तु विश्वविद्यालयप्रधानाधिकारिणामप्यनादरस्य च संवादाः समाचारपत्रेषु दृश्यन्ते।
परदारेषु परदारिकासु च मातृबुद्धिं स्वसृबुद्धिं दुहितृबुद्धिं वा शास्त्रतो व्यवहारतश्च प्रतिपादयति भारतीयसंस्कृतिः। परं तद्विरुद्धमेवास्माकं विश्वविद्यालयेषु च्छात्राणामभद्रो व्यवहारो भारतीयसत्कृतेस्तु सर्वथा प्रतिकूल एव; भारतीयसंस्कृतेरपरिचितस्यान्यस्यापि कस्यचित्सोऽभिमतो भवेदिति महान्नः सन्देहः।
प्राचीनभारते नैकविधतपस्याया जीवनं निर्वहतां छात्राणां ब्रह्मचर्यं शृङ्गारभावनाराहित्यं सौम्यत्वं मातापित्रोरैश्वर्यशालित्वाशालित्वविचारमप्युत्सृज्य कृष्णसुदाम्नोरादर्शमनु परस्परं भ्रातृभावेन गुरुसपर्यया च वर्तनं कस्याविदितं भारतीयसंस्कृतीतिहासविदः। सर्वमेतद्विपर्यस्तमिवाद्यत्वे विद्यासंस्थास्विति नापेक्षते विशेषविवरणम्। शिक्षाया अतीव व्ययसाध्यत्वम्, स्वास्थ्यस्य निर्ह्रासः, कस्या अपि निश्चितायाः संध्यावन्दनादिसहकारिण्या दिनचर्याया अभावः, सर्वमेतदेतत्कृतमेव।
अत एव सांप्रतं भारतीयविश्वविद्यालयेषु भारतीयसंस्कृतेस्तु का कथा; प्रायेण साकल्येन तद्विरुद्धमेव वातावरणम्। भाषाया भावानां भोजनाच्छादनयोरपि च दृष्ट्या प्रायेणाभारतीयं वर्तनं तत्र।
तदेवमस्माकं विद्यास्थानेभ्य एव बहिष्कृता भारतीया संस्कृतिः कथमन्यत्र राष्ट्रियजीवने समाश्रयं लब्धुं क्षमा भवितुमर्हति। कथं च तस्या दुरवस्था अपरिहेया न भविष्यतीति सर्वथैव दौर्भाग्यं तस्याः। प्रतिवर्षंदेशालङ्कारभूतैर्महाभागैर्दीक्षान्तसमारम्भेषु विचारगभीरेषु अभिभाषणेषु क्रियमाणेष्वपि नूनं हृदयतापकरी भारतीयसंस्कृतेरियंदुर्दशा।
भारतीयसंस्कृतेः समुद्धारः
तदेवमस्याः, प्राचीनकाले व्याप्तदूरदेशदेशान्तरायाः, सांप्रतं पुनः स्वदेशेऽपि दुरवस्थाग्रस्ताया जीवितसंशयं चेापेताया भारतीयसंस्कृत्याः, न केवलं राष्ट्रियजीवन एव“अभयं सत्त्वसंशुद्धिः” (भ० गी० १६।१) इत्यादेर्दैव्याः संपदः परिपोषिकायाः परिस्थितेरुत्पादनार्थम्, किन्तु तत्तद्व्यक्तिगतव्यवहारेष्वपि निर्व्याजमाधुर्यभावानामुत्पत्तये सद्यः समुद्धारोऽपेक्षितः। अत एव राष्ट्रस्यात्मनः समुद्गतं तदन्तर्नादरूपमाह्वानमिवैष भारतीयसंस्कृतेरुद्धोषः समन्तात् साम्प्रतं श्रूयते।
तत्कोऽभ्युपायस्तस्याः समुद्धारस्येत्येव महान् प्रश्नः।
तत्र तावदिदमवधारणीयं यत्सत्यामपि चिरकालतोऽत्यन्तं प्रतिकूलायां परिस्थितौ भारतीया संस्कृतिरद्यापि न सर्वथैव समु-
च्छिन्ना। जागर्त्येव सा समष्टिरूपेण भारतीयजनताया अन्तर्हृदये मूकभावनासु च। ततः सर्वतः प्रथममावश्यकता यत्तस्या अन्तरात्मन आविष्करणं नाम। तच्च तस्या दीर्घपरम्पराया अध्ययनेनैव साध्यम्। तदर्थं च केवलमेकमात्रं साधनं यदिदं संस्कृतं देववाणी वा।
कस्यैतदविदितं यत्संस्कृतं हि भारतीयसंस्कृतेः शरीरम्। परःसहस्रवर्षेभ्यः समागतायाः, परिस्थित्यनुसारं तत्तत्संप्रदायप्रभावाद्वा तत्तद्राजनीतिकप्रभावाद्वा नानावस्था उपभुञ्जानाया अपि अन्तर्वर्तिनीमेकसूत्रतां संदधानाया भारतीयसंस्कृतेः स्वरूपावगमाय देववाण्या विस्तृतं, प्रायेण भारतीयेतिहासकालस्य समव्यापि, वाङ्मयमेव मुख्यं साधनम्।
चिरन्तनकालादेवायुतसिद्ध इव संबन्धो भारतीयसंस्कृत्या सह संस्कृतस्य। भारतीया संस्कृतिरिव संस्कृतभाषापि चिरादेव समानरूपेण समाश्रिता परिपुष्टा च विभिन्नसंप्रदायैः। अद्यत्वेऽपि विभिन्नभाषाभाषिप्रान्तेषु विभिन्नधार्मिकसंप्रदायेषु च संस्कृतभाषैव सांस्कृतिकीमेकसूत्रतां संपादयति। कस्य तिरोहितं यद्यापि यावद्भारतमार्याणां धार्मिकंकृत्यं प्रायेण संस्कृतद्वारैव संपाद्यते। अद्यापि च दिष्ट्या भारतीयभाषासु केवलं संस्कृतमेव आसेतुहिमालयमापूर्वापरसमुद्रं च परस्परव्यवहारसाधनम्।
ततश्च निर्विवादं भारतीयसंस्कृतेः समुद्धारस्य मुख्यतमं साधनं संस्कृतमेव।
परमहर्षस्य विषयो यत् साम्प्रतमेव भारतीयसंविधानपरिषदा भारतीयमुख्यभाषास्वेकतमत्वेन संस्कृतम्, देशस्य भारतेति नाम च स्वीकृतम्। तदुभयमप्यतीव महत्त्वावहम्। उभयोरप्येष एवाभिप्रायो यत्प्रथमं तु तत्तत्प्रान्तभेदेन तत्तद्भाषादिभेदेन चापाततो भिन्नमप्यस्माकं राष्ट्रमेकात्मताया अनुभवार्थं व्याकुलमिति। द्वितीयम्, कालभेदेन विभिन्नावस्था अनुभवदपि तत्स्वकीयसांस्कृतिकपरम्पराया अन्वयेनैव स्वकीयां भाविनीमुन्नतिं कर्तुकाममिति। शब्दान्तरेषु, भारतीयसंस्कृतेः परम्परामनुसृत्यैव वयमग्रे समुन्नतिपथेन गन्तुकामा इति।
संस्कृतज्ञानां विशेषावसरः कर्तव्यंच
स एष परःशतवर्षेभ्यो निरन्तरमभिवर्धमानाः प्रतिकूलपरिस्थितीः सहमानानां संस्कृतज्ञानामतर्कितोपनतः शुभावसरो यद्भूयोऽपि भारतं स्वतन्त्रम्, भूयोऽपि च भारतीयसंस्कृतेः समुद्धारस्योद्धोषश्चतुर्दिशं श्रूयते, यच्चापि भारतीयसंस्कृतेर्निर्वाहिकायाः संस्कृतभाषाया भारतस्यैकतमप्रधानभाषात्वेन स्वीकृतिः।
परंतेषामेष शुभावसर एव संस्कृतज्ञानां शिरःसु महान्तं कर्त्तव्यभारमापातयति। सांप्रतिकदुरवस्थाया गर्ताद् देववाणीमुद्धृत्य तद्द्वारा विविधनूतनविचारसंघर्षसमाकुलेऽद्यतनीये जगति भारतीयसंस्कृतेः समुद्धारो नाम नहि सुकरं कार्यम्।
नियतमेव संस्कृतभाषायाः संस्कृतज्ञानां च वर्तमानांलोकेन सर्वथोपेक्षितामिवावस्थां पश्यतः सुतरां दुर्वहतासंस्कृतज्ञैरुपर्युक्तभारस्य प्रतीयते। सांप्रतिकजगति जीवन-
यात्रायां या खलु देववाण्याः संस्कृतज्ञानां वा स्थितिः कस्य सा न विदिता। नहि देववाण्याः प्राचीनकाल इव सामान्यजनतायां प्रचारः, उपयोगो वा सामान्यलोकव्यवहारे। नहि जीवनयात्रायां राष्ट्रस्य वा विभिन्नविभागेषु संस्कृतज्ञानस्य काचिद् विशेषापेक्षा। नहि संस्कृतज्ञानां प्राचीनकाल इव सर्वथा सुखेनैव जीवननिर्वाहः। नापि जनतायाः पुरोयायित्वं नेतृत्वंवा। ततश्च उपेक्षिता इव सांप्रतिकजगति, कथं कथमपि च स्वजीवननिर्वाहं कुर्वाणाः संस्कृतज्ञाः कथमिव पूर्वोक्तं दुर्वहभारं वोढुं समर्था भवेयुरिति “प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः” इति न्यायेन युक्तियुक्तः संदेहस्तेषामेव मनसि, किं पुनरन्येषाम्।
सत्यामेतस्यां परिस्थितौ संस्कृतज्ञानामिदमेव सर्वतः प्रथमं कर्तव्यत्वेन समायाति यद् देववाण्यास्तद्विदां चावस्थाया वास्तविकौ समुन्नतिः परिष्कारश्चेति। तदेतत्कथमिव साधयितुं शक्यते तैरित्येव दिङ्मात्रेणाधस्तात् प्रदर्श्यते।
आत्मपरीक्षणं लोकप्रगतेर्ज्ञानं च
आत्मपरीक्षणं हि नाम मनुष्यस्य प्रथमं समुन्नतेर्मूलम्। तद्धि कार्यकर्तुरात्मविश्वासमुपजनयति। विशेषतः स्वकर्तव्यस्य निर्धारणात् प्राग् मनुष्येण तदपेक्ष्यते। तत्र प्रथमं तावत्संस्कृतज्ञैरवेक्षणीयं यत्तेषां सांप्रतिक्या अवस्थाया उत्तरदायित्वं तेषामप्युपरि। न केवलं लोक एवात्र दोषभाक्। सत्यं तेषामुपेक्षा
तत्तत्क्षेत्रेषु। किं तत्र लोक एवापराध्यति? यद्येवम्, किं तैरपराद्धं लोकस्य? किं सोपेक्षा न तेषामेवानधिकारित्वमूला? किं तेषां साम्प्रतिकी शिक्षा तत्तत्कार्यक्षेत्रे तेषां नेतृत्वसंपादनायालम्? किं ते निरन्तरंपरिवर्तिन्या लोकावस्थित्या परिचिताः? न चेत्, त एवात्रापराध्यन्ति न तु लोकः। परिचिताश्चेत् किमिव राष्ट्रेण तेषां नेतृत्वंन स्वीक्रियते।
यथा तथा वा भवतु, परं नात्र वैमत्यं यत्संस्कृतज्ञाः साम्प्रतं नूनमात्मनोऽवमाननारोगेणाक्रान्ता इव, किंकर्तव्यविमूढा इव, सांख्यशास्त्रीयराजपुत्रन्यायेन स्वरूपमजानाना इव, देववाण्याः प्राचीन गौरवगाथां विस्मरन्त इव, केवलं साधारणातिसाधारणपदानां प्राप्त्यर्थमेव प्रयत्नपरा दृश्यन्ते। संस्कृतज्ञानेन सह लौकिकोन्नतेः कश्चित् प्रातिस्विको विरोधः, अत एव लौकिकोन्नतिदृष्ट्या संस्कृतज्ञानोपार्जनं कश्चिदपराध इतीव तेषामान्तरो विश्वासः प्रतीयते। ‘संस्कृतज्ञाः सन्तोऽपि वयम्’ इत्यस्य स्थाने ‘संस्कृतज्ञत्वकारणादेव वयम्’ राष्ट्रस्य तत्तद्विभागेषु न केवलं कार्यकर्तार एव, किन्तु अध्यक्षा अपि, संचालका अपि नेतारोऽपि भवितुमर्हा इत्येष विचारस्तु तेषां मनःसु प्रायेणावकाशमेव न लभते।
सर्वमेतन्न केवलं देववाण्या वास्तविकस्वरूपस्यैतिहासिकवृत्तस्य च किन्तु लोकप्रगतेर्लोकावस्थितेश्चाप्यपरिज्ञानमूलकमेव।
“अहं राष्ट्री संगमनी वसूनाम्”, “यं कामये तं तमुग्रं कृणोमि” (ऋग्० १०।१२५।३,५) इत्यादिश्रुतिशिरोवाग्भिरुपगीतगुणा।
आन्वीक्षिकी त्रयी वात्ता दण्डनीतिश्च शाश्वती।
विद्याश्चतस्र एवैताः
इत्येवमान्वीक्षिक्या त्रय्या च सहैव “वार्ता च सर्वजगतां परमातिहन्त्री” (दुर्गासप्तशत्याम् ४।१०) इत्यनुसारं सर्व जगतां परमार्तिहन्त्र्या वार्तायाः, “आन्वीक्षिकीत्रयीवार्तानां योगक्षेमसाधनो दण्डः। तस्य नीतिर्दण्डनीतिः। ——- तस्यामायत्ता लोकयात्रा” (अर्थशास्त्रे१।४) इत्येवं लोकयात्रायै प्रधानसाधनभूतायाः शाश्वत्या दण्डनीतेश्च प्रतिपादनपरा,
यद्यत्स्याद्वाचिकं सम्यक् कर्म विद्याभिसंज्ञकम्।
शक्तो मूकोऽपि यत्कर्तुंकलासंज्ञं तु तत्स्मृतम् ॥
(शुक्रनीतिसारे ४।३।२५)
इत्येवं लक्षितानां द्वात्रिंशतो विद्यानां चतुःषष्टेः कलानां चप्रदर्शनपरा,
पठन्द्विजो वागृषभत्वमीयात्
स्यात् क्षत्रियो भूमिपतित्वमीयात्।
वणिग्जनः पण्यफलत्त्वमीयाज्
जनश्च शूद्रोऽपि महत्त्वमीयात्॥
(वाल्मीकिरामा० १।१।१००)
इत्येवंच राष्ट्रस्य सर्वेषामप्यङ्गानां कल्याणकामनाभावैरुपेता देववाणी प्राचीनभारते, न केवलं भैक्षवृत्तेरेव, न वा केवलमैश्वर्यमदमत्तानामविवेकिनामतिशयोक्तिपूणैः प्रशस्तिशतैर्मनोविनोदस्यैव साधनमासीत्, किन्तु राष्ट्रजीवनोपयोगिषु सर्वेष्वपि
विभागेषुसर्वेषु च कार्येषु पुरोयायित्वस्य पौरोहित्यस्य (पुरोऽग्रेहिताः स्थापिताः पुरोहिताः, नेतार इत्यर्थः। तेषां भावः कर्म वा पौरोहित्यम्) मार्गप्रदर्शकत्वपदस्य च प्राप्तेरपि एकमात्रं साधनमासीदिति प्रायेण नानुभवामो वयं संस्कृतज्ञाः।
किञ्च व्यवहारोपयोगिनीनां लोकप्रगतेर्लोकावस्थितेश्चपरिचायिकानां विद्यानामध्ययनं भीतानामिव, समुद्विग्नानामिव, दूरतः परित्यजतामस्माकं संस्कृतज्ञानां लोकस्योपेक्षापि समुन्नतौ महानन्तराय इति कस्य तिरोहितं विपश्चितः। लोकप्रगतिर्हिनदीव सततमग्रगामिनी न जातु एकावस्थायामेव संतिष्ठते। ऋतूनामिव तस्या अपि आनुकूल्येन वर्तनं जीवनस्य सफलजीवनयात्राया वा प्रथमं लक्षणम्। लोकप्रगतिमनुरुध्यैव प्रवर्तमानास्तत्तद्देशनिवासिन्यो जातयो जगति स्वयशः समन्तात् प्रसारयन्ति। अन्यास्तु कालकवलतामासादयन्ति।
ततश्चाभिनवभारते ऐतिहासिकपरम्पराप्राप्तस्य स्वकीयकर्तव्यभारस्य समुद्वहनाय प्राचीनगौरवपदस्य च पुनरवाप्तये संस्कृतज्ञानां सर्वतः प्रथममेतदेव कर्तव्यं यत्तैरात्मनोऽवसादकरमवमाननाभावं सर्वथा परित्यज्य लोकप्रगतिं लोकावस्थितिं चानुरुन्धानैरक्षिणी समुन्मील्य लोकस्य तीव्रवेगेन परिणमन्ती क्रान्तिमयी अवस्था निभालनीया। अद्यत्वे हि देशकालयोरभूतपूर्वं संकोचमापादयद्भिर्वैज्ञानिकाविष्कारैर्नूतनातिनूतनविचारधाराभिश्च जगतः स्वरूपमेव परिवर्तितमिवावलोक्यते। तज्जनिताश्च नूतननूतनाः समस्याः प्रतिदेशमुदीयमाना दृश्यन्ते। नूनसेता-
दृशे समये केवलपरम्परानुगामिनीः प्रवृत्तीः परित्यज्य लोकप्रगत्तिमनुरुध्य सामयिकैर्भूत्वैव मनुष्यैः स्वकीयसमस्यानां समाधाने दत्तावधानैर्भवितव्यम्। सर्वस्यापि अपिसमुन्नतेरयमेव प्रथमोऽभ्युपायः।
पाठ्यपद्धतेः परिष्कारः
कस्यापि देशस्य राष्ट्रस्य वा समुत्थानस्य प्रथमं सोपानं विचारपुरस्सरं निर्णीतस्तत्रत्यः शिक्षाक्रम एव भवतीत्यद्यत्वे सर्वसम्मतः सिद्धान्तः। कस्या अपि जनताया विचाराणामादर्शानां वा निर्माणं परिपुष्टिश्च पाठ्यपद्धतिद्वारैव संभवति। प्रायेण तत्तच्छिक्षाक्रमस्य साहाय्येनैव, हिट्लरकालिके जर्मनीदेशे वा भवतु, गतमहायुद्धात्प्राग्जापानदेशे वा भवतु, रूसदेशे च सांप्रतिकपुनर्निर्माणे वा भवतु, अन्यत्र वा कुत्रचित् सर्वत्रैव यूनां विचारधाराया निर्माणं परिवर्तनं क्रान्तिर्वा संपाद्यमाना दृष्टा दृश्यते च सर्वैरप्यस्माभिः।
अतश्च स्वभावत एवावस्थानामावश्यकतानां चानुरूप्येण सर्वे शिक्षाक्रमाः पाठ्यपद्धतयश्च परिवर्तनशीला भवन्ति। संस्कृतपाठ्यपद्धतिरप्यस्य नियमस्य नापवादः। इतिहासविदां नाविदितं यन्न केवलं कालक्रमेण विकासमाप्नुवतां नूतनातिनूतन विद्याविभागानां कारणवशादेव, किन्तु तत्तद्विद्याविभागेषु विशिष्टनूतनग्रन्थानां रचनावशादपि संस्कृतपाठ्यपद्धतौमहान्ति परिवर्तनानि समयानुरूपेणा जायन्त। संस्कृतवाङ्मय एकत्र ब्राह्मणेतिहास-
पुराणकल्पगाथानाराशंसीनाम् (द्रष्टव्यं तैत्तिरीयारण्यकम् २।९), अपरत्र सषडङ्गवेदानाम्, अन्यत्र द्वादशादिभेदेन तत्तद्विद्यानां निर्देशेन, समयभेदेन तत्तद्ग्रन्थेषु भिन्नभिन्नानामाचार्याणां ग्रन्थानां ग्रन्थकृतां च प्रमाणत्वेनोपन्यासेन च संस्कृतपाठ्यपद्धतेः कालक्रमेण विभिन्नकारणवशाज्जायमानं परिवर्तनमेव स्पष्टतः प्रतीयते।
या चेयमद्यत्वे प्रचलिता संस्कृतपाठ्यपद्धतिः सा नातिप्राचीनेत्यत्र विषये विदुषां नैव विवादः।नैकविधप्रतिकूलपरिस्थितीनां सद्भावेऽपि संस्कृतपठनपाठनपरम्परायाः, विशेषतश्चानेकेषां दुरूहग्रन्थानामध्ययनाध्यापनपरम्परायाः, संरक्षणेन सत्यपि तस्या महत्त्वे, अस्माकं राजनीतिकदास्ययुगस्य दुष्प्रभावेण प्रभाविता सा नूनमपरिहार्यैर्दोषैर्विहीना भवेदिति नैव संभवति।
स्वराज्यभानावस्तंगते राष्ट्रियप्रतिभाकमलानां संकोचः स्वाभाविकः। राजनीतिकदासतान्धकारयुगे सर्वत्र न केवलं नूतननिर्माणप्रवृत्तीनां कुण्ठीभाव एव, किन्तु प्राचीनसंचितवस्तूनां संरक्षणमपि स्वभावतो दुष्करतामापद्यते। अत एव नातिचित्रं यद् भारतीयेतिहासस्यान्धकारयुगे प्रवृत्तेय संस्कृतपाठ्यपद्धतिः सातिशयं संकुचितगात्रेव निष्प्राणेव, प्रगतिपराङ्मुखीव च प्रतीयते। भारतीयेतिहासस्य स्वतन्त्रतायाः स्वच्छन्दवातावरणे विनिर्मितान् नवजीवनदायिनो ग्रन्थान् प्रायेणोपेक्षमाणायाः, दास्यकाले च विनिर्मितटीकोपटीकाबहुलग्रन्थलैनिगडितायास्तस्याः संकुचितगात्रत्वं कस्य तिरोहितं
विपश्चितः। जनताया राष्ट्रस्य च जीवनेन प्रायेण सर्वथैव संपर्कविहीनायास्तस्याः प्रगतिपराङ्मुखत्वे निष्प्राणत्वे च कस्य विवादः संभवति?
सा चाद्यत्वे स्वराज्यभानोरभ्युदये, संजाते च सर्वतो राष्ट्रे नवनवाशाकिरणसंचारे, न केवलं संस्कृतज्ञानामभिनवभारते स्वकीयस्य परम्पराप्राप्यनेतृत्वस्य पुनर्लाभार्थमेव, किन्तु क्षणे क्षणे परिवर्तमानानां जगतः परिस्थितीनामवगतेस्तदनुरूपं च कार्यकरणशक्तेः संपादनार्थमपि, तीव्रवेगेनाविरतं प्रवर्धमानानां मानवीयज्ञानसीमानां परिचयेन स्वकीयविद्याविभागानामभ्युन्नयनार्थमपि, किञ्च प्राचीनानां विलुप्तानां विलोपोन्मुखानां वा अनेकेषां ग्रन्थरत्नानां विद्यानां च समुद्धरणार्थमपि, पुनः परिष्कारमर्हतीति कस्य संदेहो भवेत्। तस्यैतस्य परिष्कारस्यैव प्रकारा दिङ्मात्रेणैवाधः प्रदर्श्यन्ते।
(क) सामान्यज्ञानस्यावश्यकता
सर्वेष्वपि समुन्नतदेशेषु प्रत्येकशिक्षितनागरिकस्य कृते सामान्यव्यवहारोपयोगिनां गणितभूगोलेतिहासराजशास्त्रपौरशास्त्रलोकभाषादिविषयाणां सामान्यज्ञानमनिवार्यत्वेनावश्यकमित्येतत् शिक्षाया मौलिकसिद्धान्तत्वेनाभ्युपगम्यते। तत्र हि एतत्सामान्यज्ञानादृते शिक्षितेत्यभिख्यामेव न लभते कश्चिज्जनः।
एतेषां विषयाणां सामान्यज्ञानं हि, न केवलं छात्राणां यथायथं मनोविकासार्थमेव, न केवलं साधारणजनताया जीवनेन
संबद्धानां सामाजिकार्थिकराजनीतिकसमस्यानां यथोचितमवबोधायैव, न वा केवलं तासां समुचितसमाधाने स्वकर्तव्यपालनायैव आवश्यकम्, किन्तु स्वकीयजीवने प्राप्तानामवसराणामुपयोगार्थमप्यावश्यकम्।
संस्कृतज्ञानां विषयेऽप्युक्तसिद्धान्तस्यावहेलना नूनं तेषामेव हानिकरी। “बुद्धिहीना विनश्यन्ति यथा ते मूर्खपण्डिताः” (पञ्चतन्त्रे ), “उष्ट्रः पक्षिविशेषः”, “विशेषेण आ समन्ताज्जिघ्रति’ इति व्युत्पत्तिवशाद् व्याघ्रशब्दार्थं वस्तुतोऽजानतः कस्यचिद् वैयाकरणधुरन्धरस्य व्याघ्रद्वारैव मृत्युः, सर्व एते परम्पराप्राप्ता लोकप्रवादा एतदर्थस्यैव प्रख्यापकाः। “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति॥” इत्यादिप्रमाणैश्चापि अयमेवार्थः पुष्टिं समश्रुते।
प्रात्यहिकव्यवहारोपयोगिनां सामान्यविषयाणामज्ञानकारणादेव संस्कृतज्ञाः प्रायेणाद्यत्वेऽपि पङ्क्तिपावनत्वपदयोग्या अपि पृथग्जना इव जनताया जीवनदृष्ट्या प्रतीयन्ते। ततश्च नागरिकत्वपदप्राप्याणामवसराणां पूर्णतः सदुपयोगाय कर्तव्य एवानिवार्यत्वरूपेण सन्निवेश उक्तसामान्यविषयाणां संस्कृतपाठ्यपद्धतौ।
(ख) प्रौढपाण्डित्यस्य संरक्षणेन सहैव विवेचनाशक्तेरप्युपबृंहणम्
अस्माकं सुदीर्घे राजनीतिकपारतन्त्र्यकाले सर्वतः प्रतिकूलासु परिस्थितिषु अनिवार्य एवासीद् महान् ह्रासो देववाण्याः। सत्य-
प्येवम्, प्रायेण राजशक्तिसकाशादुत्साहप्रेरणयोरभावेऽपि, कथंचित् यत्किंचित् संस्कृतपरम्परायाः संरक्षणं तत्खलु समस्तेऽपि भुवने कस्यापि वाङ्मयस्येतिहासेऽदृष्टचरम्। हन्त! एतस्मिन्नन्धकारयुगे देववाण्याः परःशतानि ग्रन्थरत्नानि विलुप्तानि, प्रायेण चास्तमुपगता स्वोपज्ञग्रन्थानां निर्माणपरम्परा। तथापि परममस्माकं भागधेयं यत्तपस्यां श्रद्धां देशभक्तिमेकान्तनिष्ठां विशेषतश्च देववाणीं प्रत्यनन्यप्रेमभावनां समाश्रितैः, सततं निष्कामभावनया विद्यायाः पठनपाठनयोरनुरक्तैर्भारतीयविद्वद्भिर्बाहुल्येन प्राचीनदुरूहग्रन्थार्णवावारपारीणान् टीकोपटीकाप्लवान् विधायकथमपि प्रौढपाण्डित्यपरम्परा संरक्षिता। पदवाक्यप्रमाणानां पारगाः प्रसिद्धयशोगौरवाः प्रौढप्रगाढपाण्डित्या अप्पय्यदीक्षित - भट्टोजीदीक्षित - नागेशभट्ट-पण्डितराजजगन्नाथप्रभृतयस्तस्या एव परम्परायाः सममेव परिणामा निर्वाहकाश्च। नूनमेतादृशं प्रौढपाण्डित्यमस्माकं गर्वस्य गौरवस्य च विषयः।
सैषा प्रौढपाण्डित्यपरम्परा कथंचिदुह्यमाना, भारत ब्रिटिशशासनारम्भकाले च नैककारणवशाद् मुमूर्ष्ववस्थामापन्ना, भारतीयविभिन्नप्रान्तेषु प्रचलितपरीक्षाप्रणाल्याः साहाय्येन पुनरुच्छ्वासमिवाप्य केनापि रूपेणाद्यापि प्रचलति। परं सत्यपि परीक्ष्यच्छात्राणां संख्यायां वृद्धौ निस्संशयं सा जीवितसंशयमुपस्थितेव दृश्यते। परीक्ष्यच्छात्रैः परिचितानां विदुषां नैतत्तिरोहितम्। प्रायेणैकदेशिपाण्डित्यस्य पक्षपातिनी प्रचलिता पाठ्यपद्धतिर्वा, छात्राणामध्यापकानाञ्चालस्यप्रमादौ वा, छात्राणामेकमात्रं परीक्षोत्तरणाभि-
लाषो वा, शिक्षणविधिनाऽपरिचिता अप्रौढा अध्यापका वा अत्र कारणमिति विवेचनस्य नावमवसरः। तथापि नात्र वैमत्यं संभवति यदेषा अवाञ्छनीया परिस्थितिर्यथा विलोपमापद्यते, यथा च च्छात्रेषु अध्यापकेषु च वस्तुतः प्रौढपाण्डित्यस्य संपादनविषय आस्था समुत्पद्यते तथैव खलु न केवलं पाठ्यपद्धतेः किन्तु परीक्षाप्रथाया अपि सुतरां परिष्कारोऽपेक्षितः शीघ्रमेव।
अत्रेदमप्यवधेयं यत्प्रौढपाण्डित्यं हि प्राधान्येन विवेचनाबुद्धिमपेक्षते। तां विना हि तत् प्रायेण आहोपुरुषिकारूपे प्रौढिवादे, वस्तुतत्त्वपरीक्षणप्रवृत्तिविरोधिन्यामत्यन्तं शब्दप्रमाणपरतायाम्, सर्वज्ञानोन्नतिप्रतिरोधिन्यां विचारसंकीर्णतायामेव वा पर्यवस्यति। सामान्येन शब्दैकप्रमाणपरताप्रवृत्तिं परप्रत्ययनेयबुद्धिं च विहाय तत्तद्विषयेषु स्वयमेव यथाप्रमाणं वस्तुतत्त्वपरीक्षणमुखी प्रवृत्तिरेव विवेचनाबुद्धिः। स्वभावतो मनुष्येषु उदीयमानया विशिष्टजिज्ञासाबुद्ध्या समेधिता, यथासंभव च प्रायोगिकपरीक्षणैरुपचिता विवेचनाबुद्धिरेव सर्वविधज्ञानविज्ञानयोः समृद्धेर्मूलम्।
“परीक्ष्यकारिणो हि कुशला भवन्ति”, “नापरीक्षितमभिनिविशेत्”, “सम्यक्प्रयोगनिमित्ता हि सर्व कर्मणां सिद्धिरिष्टा। व्यापच्चासम्यक्प्रयोगनिमित्ता” (इत्यादि चरके), “अनुभवेन वस्तुतत्त्वस्य कार्त्स्न्येन याथार्थ्यज्ञानवानाप्तः” (न्यायवात्स्यायनभाष्ये), “मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवन् को न ऋषिर्भविष्यतीति। तेभ्य एवं तर्कमृषिं प्रायच्छन् ” (निरुक्ते) इत्यादिप्रमाणानि तस्या एवोपयोगितां तत्तत्प्रकारैरुपवर्णयन्ति।
अद्यत्वे संस्कृतक्षेत्रे कियती तस्या आवश्यकतेति नैव तिरोहितं विदुषाम्।
वर्तमानकाले हि संस्कृतपठनपाठनपद्धतेरयमेको महान् दोषो यत्प्रथमं तु च्छात्रेषु कस्मिन्नपि विषये, विवेचनाबुद्धेस्तु का कथा, स्वाभाविकविशिष्टजिज्ञासाबुद्धेरप्यनुदय एव। उदयेऽपि अभ्यस्यमानग्रन्थप्रमाणबलादेव सबलात्कारमिव तस्या उपशमः क्रियते। अभ्यस्यमानग्रन्थोक्ताः पदार्थास्तत्तद्ग्रन्थे यथा प्रतिपादितास्तथैव वस्तुतत्त्वज्ञाननिरपेक्षया ग्राह्यन्ते। व्याकरण उदाहरणरूपेणान्यथा वा समागतानां शब्दानां केऽर्थाः, काव्यादिषूपवर्णितानां तत्तत्पदार्थानां वस्तुतो लोके किं स्वरूपम्, पुराणेतिहासादिषु वर्णितानां पर्वतानां देशानां नद्यादीनां च वस्तुतः कुत्र स्थितिः कानि च तन्नामानि इदानीन्तने भारतेऽन्येषु वा देशेषु, ज्यौतिषे वा सविस्तरमुपवर्णितानां नक्षत्रादीनां वस्तुतः खगोले कुत्र कीदृशी स्थितिरित्येवं विधानां जिज्ञासानां प्रायेणानुदय एवाद्यत्वे संस्कृतज्ञेषु। उदयेऽपि कति नाम ताः समाधातुं प्रयत्नपरा दृश्यन्ते? दर्शनशास्त्रेषु अंशतोऽनूदितान् दर्शनान्तरपदार्थान् यथा कथंचित् पठित्वैव सन्तुष्टा नहि चेष्टन्ते केऽपि प्रायेण वस्तुतस्तत्तद्दर्शनान्तरपदार्थैस्तान् संवादयितुम्।
ततश्च प्रौढपाण्डित्यंवास्तविकी पुष्टिं फलेग्रहितां चाश्नुवीतेत्यभिप्रायेण संस्कृतपठनपाठनपद्धतौ सर्वज्ञानसमृद्धेर्जननीरूपाया विवेचनाशक्तेरुपबृंहणस्याप्यतीवावश्यकता।
(ग) अनुसन्धानप्रवृत्तेरुद्बोधनम्
नैतदविदितं विदुषां यत्सांप्रतिकजगति येयमाश्चर्यमयी चेतश्चमत्कारिणी समुन्नतिरभितो दृश्यते सा खलु ज्ञानविज्ञानयोविभिन्नविभागेषु निरन्तरमभियोगभाजां विदुषामनुसन्धानस्यैव फलम्। अत एवाद्यत्वे समुन्नतदेशैर्विश्वविद्यालयानामन्यसंस्थानां च द्वारा छात्रेषु अध्यापकेषु अन्येषु च विद्वत्सु अनुसंधानप्रवृत्तेः प्रोत्साहनार्थं प्रतिवर्षमधिकाधिको व्ययः क्रियमाणः श्रूयते। किं बहुना, विश्वविद्यालयानां प्रधानलक्ष्येषु अनुसंधानप्रवृत्तेरुद्बोधनस्याप्येकतमत्स्थानमित्येष सर्वसम्मतः सिद्धान्तः साम्प्रतं जगति।
एतस्याः प्रवृत्तेरेवैष परिणामो यत्पाश्चात्यैर्विद्वद्भिर्भारतीयसंस्कृत्यादिना संबद्धेष्वपि विषयेषु विस्मयावहं महत्श्लाघनीयं कार्यं संपादितमस्ति।तुलनात्मकभाषाविज्ञानपुराणविज्ञानादीनां जन्म, विलुप्तप्रायस्य सुदीर्घस्य भारतीयेतिहासस्य विस्मृतिकुहरान्तर्हितानां शिलालेखादीनां साहाय्येन पुनर्निर्माणम्, परःशतानां लुप्तानां लुप्तप्रायाणां च संस्कृतग्रन्थानां वैज्ञानिकप्रक्रियया संपाद्य प्रकाशनमित्यादि सर्वमद्भुतं कार्यं तस्या एव फलम्।
प्रसन्नताया विषयो यद्भारतेऽपि तस्याः प्रवृत्तेः प्रारम्भो यत्र तत्र सांप्रतं श्रूयते विभिन्नविषयानाश्रित्य। तत्परिणामरूपेणैव भारतीयसंस्कृत्या विशेषतश्च देववाण्या संबद्धेषुभारतीयसाहित्यदर्शनादिविषयेषु क्रियमाणस्यानुसन्धानकार्यस्य प्रकाशनार्थ-
मनेका अनुसन्धानपत्रिकाः, लुप्तानामनेकेषां संस्कृतग्रन्थानां वैज्ञानिकप्रक्रियानुसारं सम्पादितानां प्रकाशनार्थं च नैकाः संस्कृतग्रन्थमाला अद्यत्वेभारतीयविभिन्नप्रान्तेषु प्रकाश्यन्ते। विभिन्नभारतीयविषयेषु यदन्यद्विस्तृतमनुसंन्धानकार्यं स्वदेश एव समारब्धं तद्विवरणस्य तु नायमवसरः।
सत्यप्येवं खेदावहमेतद् यत्प्राचीनपरिपाटीमाश्रित्य संस्कृतपठनपाठनपरम्पराया निर्वाहकाः संस्कृतज्ञा विद्वांसः, स्वकीयविषयाणां विशेषज्ञाः सन्तोऽपि, अद्य यावदस्मिन्ननुसंधानकार्ये न केवलमुदासीना एव, किन्तु बाहुल्येनापरिचिता अपि एतस्य प्रक्रियया मौलिकसिद्धान्तैश्च। वस्तुतस्तु अनुसन्धानप्रक्रियाविज्ञैस्तैरेव संस्कृतज्ञैरेतत् कार्यं यथा सौष्ठवेन कर्तुं शक्यते, न तथान्यैर्भारतीयैरभारतीयैर्वा संस्कृतज्ञैरपि। किंच तेषामेव भारतीयसंस्कृतिप्राणानामेतन्मुख्यतया कर्तव्यं यत् खलु भारतीयवाङ्मयस्य समुद्धरणम्, यच्चापि भारतीयसंस्कृतेरन्तरात्मनो हृदयस्य वाविष्करणम्।
सत्यमष्टादशशताब्द्या अन्तिमभागादारभ्य वैदेशिकैर्विद्वद्भिर्भारतीयवाङमयस्य, विशेषतः संस्कृतवाङ्मयस्य, उद्धारार्थं महत्त्वयुक्तमनुसन्धानात्मकं कार्यं कृतम्, भारतीयसंस्कृतेरान्तरं स्वरूपं चावबोद्धुं बाढं प्रयतितम्। परन्तु सर्वोऽप्ययंतेषां प्रयत्नः सर्वथा श्लाघ्योऽपि भारतीयदृष्ट्या सफलः सन्तोषावहश्चेति वक्तुं दुःशकं प्रतीयते। वस्तुतस्तु भारतीयसंस्कृतेर्वास्तविकं स्वरूपं तस्यामास्थावन्तो भारतीया एव विद्वांसो बोद्धुं बोधयितुं च प्रभवन्तीति नातिशयोक्तिः।
किञ्च, अनन्तो वै विषयोऽनुसन्धानस्य। संस्कृतवाङ्मय एवं तावदद्यापि परःशतानि ग्रन्थरत्नानि विलुप्तान्येव तिष्ठन्ति। तेषां सप्रयत्नमन्वेषणम्, अन्विष्टानां च वैज्ञानिकप्रक्रियया संपाद्य प्रकाशनमनुसन्धानमेवापेक्षते। एवमेव कालवशाद्धि विलुप्तपरम्पराणां तत्तच्छास्त्राणां विद्याविभागानां च गूढाभिप्रायाविष्करणमप्यनुसन्धानाधीनमेव। कति नाम महाविद्वांसोऽपि अद्यत्वे ब्राह्मणानां पुराणानां सुविस्तृतवाङ्मयस्य वस्तुतोऽभिप्रायं विदन्ति, के वा भारतीयसंस्कृतेर्विभिन्नविभागानां शाखानां च विकासस्य परम्परया परस्परंसंबन्धेन चाद्य यावत्परिचिताः? तदेतत्सर्वं वैज्ञानिकप्रक्रिययाध्ययनमनुशीलनमनुसन्धानञ्चापेक्षते। तदस्मिन् सुमहति कार्ये, अभिनवभारतनिर्माणार्थं विशेषत आवश्यके, संस्कृतज्ञा अपि स्वरूपानुरूपं स्वकीयसाहाय्यप्रदानयोग्या भवेयुरिति दृष्टया संस्कृतपठनपाठनपद्धतेः परिष्कारप्रसङ्गेऽनुसन्धानप्रवृत्तेरुद्बोधनमपि मुख्यं स्थानं लब्धुमर्हति।
(घ) विद्यायास्तत्तद्विषयेषु नवीनान्नतेः परिचयः
आसीत्स समयो भारतीयेतिहासे यदा खलु भासते स्म भारतं विविधविद्यानां विलासेन, विकासेन च नानाविधकलानाम्। तस्मिन् हि काले प्रासरत्समन्ताद् भारतीयानां गणितादिविद्यानां प्रकाशो विदेशेष्वपि। परं सर्वमपि तद्विपर्यस्तमिव भारतस्य दास्यकाले। तस्मिन्हि अन्धकारयुगे सर्वाप्यस्माकं प्रगतिरवरुद्धा। एतस्मादेव कारणात्संस्कृतवाङ्मयस्यापि विभिन्नविषयेषु प्रगतिर-
नेकशताब्दीतोऽवरुद्धैव तिष्ठति। स्वभावत एव तेषां सर्व दृष्टिक्षेत्रंमध्यकालीनमेव अस्यामपि शताब्द्याम्।
या पुनः स्वतन्त्रेषु देशान्तरेषु विद्यायाः प्रायेण निखिलविभागेषु साम्प्रतमभ्युन्नतिः संपन्ना सा कस्याविदिता। अन्येषां विभागानां तु का कथा, भारतीयसंस्कृतिसंबद्धेष्वपि विषयेषु तेषां यत्कार्यं तदपि नितरां विस्मयावहमित्युक्तमेव पुरस्तात्। गणितज्योतिषादिविषयेषु तु निरन्तरमभिवधमाना तत्रत्या समुन्नतिः केन न श्रुता भवेत्। कथमिव तया सह भारतीया मध्यकालीना समुन्नतिरेषां शास्त्राणां तुलयितुं शक्येत? एतादृशी एव परिस्थितिरितिहासभाषाशास्त्रादीनामन्येषां विषये।
संस्कृतवाङ्मयमद्यापि अस्पृष्टमेवास्ते तया समुन्नत्या। संस्कृतज्ञा अपि प्रायेणापरिचिता एव तया साम्प्रतं यावत्। अत एव संस्कृताध्ययनाध्यापने वर्तमानजगति प्राचीनवस्तुसंग्रहालयरूपेणैव दृश्येते। न तयोः सांप्रतिकता अद्यावधिकता वा स्वीक्रियते लोकैः। तस्मादेवैतद्विशेषतः संस्कृतज्ञानामात्मनोऽवमाननाया हेतुः। स्पष्टमेषा परिस्थितिर्नहि संस्कृतज्ञानां हितावहा, नापि तेषामनुरूपा। को नु आत्मनो हितमाकाङ्क्षन् विद्यायाः समुन्नतावनुदारो भवितुमर्हति? तथा च विद्यायास्तत्तद्विषयेषु विशेषतश्च स्वकीयविशिष्टविषयेषु संस्कृतज्ञा नवीनोन्नत्या अपरिचिता मा भूवन्निति क्रियतामेव प्रयत्नः।
संस्कृतविश्वविद्यालयस्योपयोगिता स्वरूपं च
तदेवं प्रदर्शिता अस्माभिर्दिङ्मात्रेणैव ते तेऽभ्युपाया ये नूनं समाश्रयणीया अस्मन्मतेन देववाण्याः संस्कृतज्ञानां चाभ्युन्नतये। प्रतिप्रान्तं प्रायेण समाना एव समस्याः संस्कृतस्य संस्कृतज्ञानां च। अतः समानरूपेणैव तेषामभ्युपायानामुपयोगिता सर्वेष्वपि भारतीय प्रान्तेषु। तथापि कुत्र कियती कीदृशी वा प्रायोगिकता व्यावहारिकता वा तेषामिति तत्तदवस्थानुरूपं स्वशक्त्यनुसारं च तत्तत्प्रान्तेनैव निर्णेतुं शक्यते।
सत्यप्येवम्, नात्र संदेहो यदेषामभ्युपायानां साकल्येन वास्तविकदृष्ट्या कार्यरूपेण समाश्रयणं केनापि विश्वविद्यालयेन विश्वविद्यालयदेशीयसंस्थयैव वा कर्तुं शक्यते। अत एव एकस्य संस्कृतविश्वविद्यालयस्य तत्कालमेवावश्यकता अभिनवे भारते। अत एव च भारते यत्र तत्र संस्कृतविश्वविद्यालयस्य स्थापनाया हृद्या वार्ता श्रूयते। संयुक्तप्रान्ते त्वत्र विषय एका योजनापि व्यवस्थापिकायाः सभायाः पुरस्तात् शीघ्रमेव स्थापयितुं सज्जिता वर्तते। तदेतत्सर्वथैव संस्कृतज्ञानामाशावहम्।
तदत्र प्रसङ्गप्राप्त एव कश्चिद्विचारः संस्कृतविश्वविद्यालयस्य स्वरूपस्य आदर्शानां च विषये। सुस्पष्टं प्रदर्शितमस्माभिरुपरिष्टात् सांप्रतिकभारतीयविश्वविद्यालयानां प्रायेणाभारतीयं स्वरूपम्, भारतीयसंस्कृतेरादर्शानां च प्रतिकूलं वातावरणम्। नूनं तेषामपरा प्रतिकृतिरेव नाभिलष्यते संस्कृतज्ञैः। तया हि संस्कृतस्य संस्कृतज्ञानां
देशस्य वा वास्तविकं हितं साधयितुं शक्यत इति संभावनापि न संभवति। भारतीयसंस्कृतेरादर्शैरनुप्राणिता एव विश्वविद्यालयाः, न केवलं जराजीणस्य भारतवर्षस्यैवाभिनवीकरणाय, किन्तु नानाविधसंघर्षवह्निभिर्दन्दह्यमानस्य जगतोऽपि शान्तये, सांप्रतं भारतेऽपेक्षिता इति नो विश्वासः। तादृश एव संस्कृतविश्वविद्यालयः संस्कृतज्ञानामपि हितावहो भवितुमर्हति।
परं विश्वविद्यालयेति वै महदभिधानम्। तस्य गौरवगरिम्णः संरक्षणमतीव दुष्करमपि सदत्यावश्यकम्। एकान्तभावेन विविधविद्यानां समुन्नतेभावना, सर्वविधायाः समुन्नतेर्मूलं विचाराणामौदार्यम्, विचारसंकीर्णतारूपया साम्प्रदायिकभावनया राष्ट्रभ्रंशकरेण क्षुद्रेण तत्तज्जातिपक्षपातेन च राहित्यमित्येतादृशा हि महान्तो गुणाः सामान्येन सर्व विश्वविद्यालयानाम्। भारतीयसंस्कृतेरादशानां त्वाधारेण संस्थापिते विश्वविद्यालये, न केवलमेतेषामेव सामान्यगुणानाम्, किन्तु भारतीयत्वभावनाभावितानामस्माद्विशिष्टगुणानामपि संपत्तिरभीप्सिता। तदेतत्संस्कृतविश्वविद्यालयस्य सममेव कर्तव्यं गौरवं च। एवमेव तस्य सार्थकता संभवति, नेतरथा। नूनं स भारतीयसंस्कृत्याः प्रमुखं केन्द्रं भवेत्। तस्य दृष्टिश्च बृहत्तरभारतस्य भवेत्। एवंहि स वैदिकबौद्धजैनादिरूपे सुविस्तृताया भारतीयसंस्कृतेविशालकेन्द्रत्वेनान्ताराष्ट्रियं महत्त्वमाप्तुमर्हति। नूनमेतादृशो विश्वविद्यालयो न केवलं संस्कृतज्ञानाम्, न केवलं भारतस्य, किन्त्वखिलस्य जगतः कल्याणाय प्रभविष्यतीति कस्य संदेहो भवेदित्यलमनया प्रस्तुतानुप्रस्तुतपरम्परया।
उपसंहारः
यथा तथा वा भवतु। संस्कृतविश्वविद्यालयो भवतु मा वा भूत्। नैव विद्यते संस्कृतज्ञानां कर्तव्यपक्षे द्वेधा प्रतिपत्तेरवकाशः। भारतवर्षस्येतिहासे चिराय सोत्कण्ठमुदीक्षितः कालोऽयं समुपस्थितः। अस्मिन्नवसरे हि दिष्ट्या भारतीयसंस्कृतेः संस्कृतस्य च समुन्नतेर्वार्ता सर्वतो दिशं श्रूयते। सोऽयमतर्कितोपनतः शुभावसरो नैवोपेक्षणीयः। “अद्धा हि तद् यदद्य…अनद्धा हि तद् यच्छ्वः” इति वै शातपथी श्रुतिराह। चिरप्रसुतमस्माभिः। परं नायं निद्रातन्द्रयोः कालः। सद्यस्तावदात्मन एव परीक्षणं विधेयं सावधानेन चेतसा। ततो निभालनीया तीव्रवेगेन परिवर्तमाना जगतः परिस्थितिः। नूनं वयं सर्वात्मना भारतीयसंस्कृतेस्तच्छरीरभूताया देववाण्याश्च समुपासकाः। आसीच्च पुरा तयोरेवाधिपत्यं भारते तस्य सुदिनेषु। परं “ते हि नो दिवसा गताः!” हन्त! पुनरपि भारत स्वतन्त्रम्। तस्याभिनवीकरणस्य पुनर्निर्माणस्य च प्रश्नः सर्वेषामस्माकं पुरस्तात्। तद्धि नूतनं निर्माणं भारतीयसंस्कृतेराधरेणैव भवेदिति वै, मनुष्यमात्रस्य कल्याणकामतनया, सर्वेषामस्माकमभिमतम्। तदपेक्षते तस्याः संस्कृतेर्देववाण्याश्च समुद्धरणम्। “या जागार तमृचःकामयन्ते” (ऋग्०५।४४।१४), “उत्तिष्ठत जागृत प्राप्य वरान् निबोधत” (कठोप० १।३।१४) इति श्रुत्यनुसारंलाकस्य कालस्य च प्रगतिम्, अभिनवभारतस्य चावश्यकता अनुरुध्य देववाण्याः समुन्नतौ
तत्परैर्भाव्यमस्माभिः। अयमेव पन्था येन वयं संस्कृतज्ञा ऐतिहासिकपरम्परानुरूपं स्वकीयगौरवपदं प्राप्तुं शक्नुमो भूयोऽप्यभिनवे भारते। नूनं “नान्यः पन्था विद्यतेऽयनाय”।
तदभिनन्दामो वयं भारतीयसंस्कृतेर्देववाण्याश्चाधिदेवतां भारतीं भुवम् -
* सा नो माता भारती भूर्विभासताम् *
येयं देवी मधुना तर्पयन्ती
तिस्रो भूमीरुद्धृता द्योरुपस्थात्।
कामान्
दुग्धे विप्रकर्षत्यलक्ष्मीं
मेघां श्रेष्ठां सा सदास्मासु दध्यात्॥१॥
सर्वे वेदा उपनिषदश्च सर्वा
धर्मग्रन्थाश्चापरे निधयो यस्याः।
मृत्योर्मर्त्यानमृतं ये दिशन्ति वै
सा नो माता भारती भूर्विसताम्॥२॥
यां प्रच्युतामनु यज्ञाः प्रध्यवन्ते
उत्तिष्ठन्ते भूय उत्तिष्ठमानाम्।
यस्या व्रते प्रसवे धर्म एजते
सा नो माता भारती भूर्वभासताम्॥३॥
यां रक्षन्त्यनिशं प्रतिबुध्यमाना
देवा ऋषयोमुनयोह्यप्रमादम्।
राजर्षयोऽपि ह्यनघाः साधुवर्याः
सा नोमाता भारती भूर्विभासताम्॥४॥
महान्तोऽस्यां महिमानोनिविष्टा
देवा गातुं यां क्षमन्ते न सद्यः।
सा नो वन्द्या भ्राजसा भ्राजमाना
माता भूमिः प्रणुदतां सपत्नान्॥५॥
(मेधातिथेर्मङ्गलदेवशास्त्रिणः)
[इति शम् ।
_____
[TABLE]
*देववाण्या2 अवनतिरस्माकं कर्तव्यं च
मान्या विद्वद्वर्याः प्रयच्छात्रगणाश्च,
महतः प्रमोदस्यायमवसरो यदद्य सर्वेपि वयं नानाप्रदेशेभ्यः समागत्य अस्माकं माननीयाया विश्ववन्द्याया देववाण्याः समुन्नतिं कामयमाना आनन्दकन्दस्य नन्दनन्दनस्य भगवतः श्रीकृष्णस्य जन्मभूम्यां पुण्यपुर्यां मथुरायामिह संसदि समवेताः स्मः।
एषा हि खलु देववाणी शैवशाक्तवैष्णवजैनबोद्धादिनानासंप्रदायेषु विभक्तानां विभिन्नमतिजुषाम् आपाततःपरस्परविरुद्धत्वेन प्रतीयमानानामपि तेषु तेषु संप्रदायेषु तेषु तेषु मतेषु च
एको रसः करुण एव निमित्तभेदाद्
भिन्नः पृथक् पृथगिवाश्रयते विवर्तान्।
आवर्तबुद्बुदतरङ्गमयान् विकारान्
अम्भोयथा सलिलमेव हि तत्समस्तम्॥
इत्याद्यनुरूपमेकंसूत्ररूपेण ओतप्रोतया एकयैव व्यापिन्या भारतीयमौलिकसंस्कृत्या परस्परं सम्बद्धानां सर्वेषामप्यस्माकं भारतीयसंस्कृत्यभिमानिनामतीव माननीया।
संस्कृतभाषा हि भारतीयार्यधर्म इव सर्वेषामप्यस्माकमार्यधर्मावलम्बिनां वरिष्ठः शेवधिर्गवस्य च विषयः। एकोहि आर्यधर्मवृक्षोऽसंख्यशाखाप्रशाखारूपेणातिविस्तृतः,
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
स भूमिंसर्वतः स्पृत्वात्यतिष्ठद्दशाङ्गुलम्॥
इत्यादिश्रुतिभिर्गीयमानविराट्पुरुष इव, नानारूपैः पल्लवितः पुष्पितः फलितश्चसाम्प्रतं समन्ताद्भारतभूमिमलंकरोति। एतद्दृष्ट्या हि सोऽपि “एकोऽश्वत्थः सनातनः” इत्येव वर्णयितुं शक्यते। शैववैष्णवप्रभृतयः सर्वेऽपिभारतीयधर्मास्तस्यैव शाखाप्रशाखारूपाः। भारतीयसंस्कृतीत्यपरनामा एक एव जीवनरसस्तान् सर्वानाप्याययति परिपोषयति च, तेषां सर्वेषामन्यधर्मेभ्यः किञ्चिदनिर्वचनीयंवैशिष्ट्यं च, संपादयति। तस्य खलु भारतीयसंस्कृतीत्यपरनामधेयस्य भारतीयजीवनायामृतकल्पस्य जीवनरसस्य सर्वकामदुधा दोग्ध्नीवेयमस्माकं मातृरूपा देववाणी। अत एव तस्याः परिपोषणेनैव भारतीयसंस्कृतेः परिपुष्टिस्तदनुयायिनां सर्वेषामार्यधर्मावलम्बिनामस्माकं सर्वाङ्गीणा समुन्नतिश्च संभवति।
कस्यैतदविदितं यत्प्रायः सर्वेषामप्यार्यधर्मावलम्बिनां धामिकं साहित्यं प्राचुर्येण देववाण्यामेव विद्यते। प्रायेण सर्वेषामपि आर्यधर्माणामनुयायिभिराजीवनं तपांसि तपद्भिराचार्यः संग्रथितानि ग्रन्थरत्नानि देववाण्याः साहित्यसमृद्धिं सम्पादयन्ति। प्रायेण सर्वासामेव भारतीयभाषाणामुद्गमस्थानभूता चैषा देववाणी। एतद्द्वारैव विभिन्नदेशेषु लैटिन, ग्रीक, इंग्लिश, जर्मन, फ्रेंच— इत्यादिरूपैरुपलभ्यमानया आर्यभाषयास्माकं संबन्धो मुवि सर्वत्र विश्रुतः। अस्यामेव सभ्यजगतः प्राचीनतमं साहित्यं समुपलभ्यते।
तदेतादृशैरनन्यसाधारणैर्गुणगणैरुपलक्षिता इयमस्माकं देववाणी कस्य नाम नाभिवन्दिता स्यात्।
देववाण्याः प्राचीनकाले समुन्नतिः
आसीत्स समयो यदा खलु साभ्युदयसीमामनुभवन्ती अभ्युन्नतिशिखरे संस्थिता सर्वत्रापि स्वप्रभावमहिम्ना सर्वेषां समादरभाजनं बभूव, नानादेशेषु च विस्तृता भारतवर्षस्य यशः समन्तात्पृथिव्यां प्रसारयति स्म।
कस्याविदितं यन्न केवल भारतवर्षं एव किन्तु भारतेतर देशदेशान्तरेष्वपि तस्याः प्रचार आसीत् प्राचीनकाले। केनेतिहासविदा न श्रुतो भवेत्सुदूरवर्त्तिनि ‘एशिया माइनर’ प्रदेशेऽपि परःसहस्रवर्षेभ्यः प्रागपि ‘बोगाज़कोई’ (Boghaskoi) स्थाने समुपलब्धप्राचीनलेखेषूल्लिखितैः ‘इन्द्र’, ‘वरुण’, ‘मित्र’ इत्यादिभिर्वैदिकदेवतावाचिशब्दैः स्पष्टमनुमीयमानस्तस्याः प्रचारः। एशियामध्यप्रदेशेषु इण्डोचाइनाप्रभृतिदेशेषु महासमुद्रान्तःसंस्थितेषु सुदूरवर्त्तिषु ‘बालि’ प्रभृतिद्वीपेषु च अद्यत्वेपि समुपलभ्यमानैः प्राचीनैर्भारतीयैः संस्कृतग्रन्थरत्नैर्देवालयखण्डैः संस्कृतशिलालेखैर्वापि तस्या एव प्रचारातिशयस्तेषु तेषु स्थानेषूद्घोष्यते। भारते विलुप्तानां परःशतानां ग्रन्थरत्नानामद्याप्यनुवादरूपेण चीनतिब्बतादिदेशेष्ववस्थितिरपि देववाण्या एव प्राक्कालिक भुवि विश्रुतं यशः प्रख्यापयति। किं बहुना, “शव-
तिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति। विकार एवैनमार्या भाषन्ते शव इति”, “महान् हि शब्दस्य प्रयोगविषयः। सप्तद्वीपा वसुमती, त्रयो लोकाः…….।” महाभाष्यादिग्रन्थेषूपलभ्यमानैरेतादृशैः प्रमाणैरपि तस्याः प्राक्कालिकः प्रायेण सार्वदेशिकः प्रचारातिशय एव सष्टमनूद्यते।
भारतवर्षे तु प्राचीनकाले तस्या अत्युत्कृष्टप्रभावस्य प्रचारातिशयस्य च विषये किमु नाम वक्तव्यम्? आबालवृद्धमाराजरङ्कमापामरप्राज्ञं च तस्याः सार्वजनीनप्रचारविषये नहि कस्यापि सन्देहलेशस्यावकाशः। साम्प्रतिकहिन्दीप्रभृतिभाषाणामिव प्राचीनकाले “अन्वध्यायं भाषायाम्” (निरुक्ते), “भाषायां सदवसश्रुवः” (अष्टा० ३।२।१०८) “प्रथमायाश्च द्विवचने भाषायाम्” (अष्टा०७।२।७८), “सख्यशिश्वीति भाषायाम्” (अष्टा० ४।१।६२) इत्यादिप्रमाणैर्भाषात्वेन व्यवहार एव तस्याः सार्वजनीनं प्रचारं द्योतयति। “प्रत्यभिवादेऽशूद्रे” इति पाणिनिसूत्रेऽशूद्रग्रहणेन, नाटकेषु संस्कृतभाषाभाषिभिः संस्कृतज्ञपात्रैः सहासंस्कृतभाषिणामपि नीचपात्राणां वार्त्तालापेन, “उदहारि भगिनि या त्वं कुम्भं हरसि शिरसानड्वाहं साचीनमभिधावन्तमद्राक्षीरिति” (महाभाष्ये १। १। ५८) इत्यादिप्रमाणैश्च तस्याः प्रचारो न केवलं शिक्षितेष्वेव किन्तु प्राकृतजनेष्वपि अविहतगतिरासीदिति स्पष्टमेवोद्घोष्यते।
वैदिकेषु ऋषिषु त्रसदस्युप्रभृतीनां राजन्यानां वसुकर्णादिवैश्यानां विश्ववाराप्रभृतीनां स्त्रीणामुलब्धिः, उपनिषत्सु राज्ञा-
मृषिभ्यो ब्रह्मज्ञानस्योपदेष्टृत्वेन प्रसिद्धिः, महाभारते भीष्मपितामहादेर्नीतिशास्त्रप्रवक्तृत्वेन वर्णनमित्यादि सर्वमपि तस्याः प्रचारस्य व्यापकत्वमेवानुमापयति।
तस्मिन्हि प्राचीने प्राचीनतमे च समये जीवनयात्रायाः प्रत्येकविभागे देववाण्या एवाप्रतिहतं साम्राज्यं सुस्थितमासीत्।
सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च।
सर्वलोकाधिपत्यं च वेदशास्त्रविदहति॥
(मनु० १२१००)
दशावरा वा परिषद् यं धर्मं परिकल्पयेत्।
त्र्यवरा वापि वृत्तस्यातं धर्मं न विचालयेत्॥
त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्मपाठकः।
त्रयश्चाश्रमिणः पूर्वे परिषत् स्याद्दशावरा॥
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च।
त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये॥
(मनु०१२।११०-११२)
इत्यादिप्रमाणैरयमेवार्थः स्पष्टीक्रियते।
छान्दोग्योपनिषदादिगतैः “ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुथमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यंराशिं दैवं निधिं वाकोवाक्यमेकायनं देव-
विद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि” (छान्दोग्योपनिषद् ७।१) इत्यादिप्रमाणैः, शुक्रनीत्यादौ—
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वती।
विद्याश्चतस्र एवैताः …………………………
वर्णाःसर्वाश्रमाश्चैव विद्यास्वासु प्रतिष्ठिताः।
इत्येवंसर्वेषां वर्णानामाश्रमाणां च कृते तत्तदुपयोगितामाकलय्य चतसृणां विद्यानां प्रतिपादनेन,
यद्यत्स्याद्वाचिकं सम्यक् कर्म विद्याभिसंज्ञकम्।
शक्तो मूकोऽपि यत्कर्तुंकलासंज्ञं तु तत्म्मृतम्।
इत्येवंलक्षितानां द्वात्रिंशद्विद्यानां चतुःषष्टिकलानां च भेदानुपक्रम्य विभिन्नप्रस्थानैस्तत्तद्वेदसंबद्धैर्धनुर्वेदायुर्वेदार्थवेदादिभिः सह संबन्धविधया विभज्य तत्तत्कलानां प्रदर्शनेन च, न केवलं प्राचीनकाले देववाण्या वाङ्मयस्य तत्तद्विद्यानां कलानां च भेदेनातिविस्तृतत्वं, किन्तु सर्वस्यापि लोकव्यवहारस्य जीवनयात्रायाश्च कार्यनिर्वहणक्षमत्वमखिलपुरुषार्थसाधनोपयोगित्वं च सुस्पष्टं प्रतीयते।
तदेवंप्राचीनकाले न केवलं भारतवर्ष एव किन्तु भारताद्बहिरपि विभिन्नदेशेषु प्रचारातिशयमुपभुञ्जाना सर्वासामपिजीवनयात्रानिर्वाहिकाणां विद्यानामाश्रयीभूता अखिलपुरुषार्थसाधनोपयोगिविस्तृतवाङ्मयेन च समेता समुन्नतिशिखरमधिष्ठिता आसीदेषास्माकं देववाणी।
देववाण्या अद्यत्वेऽवनतिः
परं हा हन्त! सैव देववाणी अद्यत्वे सर्वथा संकुचितगात्रा जीर्णा शीर्णाच दृश्यते। चिरादेव स्वकीयप्राचीनोत्कृष्टपदाद् भ्रष्टा सा शनैः शनैर्वतमानामधोगतिमनुप्राप्ता। साम्प्रतिकजगति जीवनयात्रायां या तस्याः संस्कृतज्ञानांवावस्थितिः कस्य खलु न सा खेदावहा भवेत् नहि तस्याः पुरातनसमय इव सामान्यजनतायां प्रचारः,उपयोगो वा
सामान्यलोकव्यवहारे। नहि जीवनयात्रायां राष्ट्रस्य वा विभिन्नविभागेषु संस्कुतज्ञानस्य काचिद्विशेषापेक्षा। विलुप्त प्रायमेव तस्या नानाविधविद्यानामाश्रयीभूतमनल्पमनवधि च प्राचीनं साहित्यम्। नहि संस्कृतज्ञानां प्राचीनकाल इव सर्वथा सुखेनैव जीवननिर्वाहः। नापि जनतायाः पुरोयायित्वं नेतृत्वं वा। न चापि तेषां विशिष्टविधया किञ्चिदपि स्थानं राज्यव्यवस्थापिकासु संसत्सु। आस्तां पुनर्दूरे तेषां पुरातनं लोकनायकत्वं राष्ट्रकर्णधारत्वं, सेनापतित्वं, प्रधानामात्यत्वं, सान्धिविग्रहिकत्वं प्राड्विवाकत्वं कुलपतित्वं, पृथिव्यां सर्वेषां मानवानां सदाचारोपदेष्टृत्वं, नानाविधानां विद्यानामुपज्ञातृत्वं, सम्राजां पुरोहितत्वं, दूरवर्त्तिदेशदेशान्तरेषु महासमुद्रान्तवर्तिद्वीपपरम्परासु च भारतीयसभ्यताया भारतीयसदाचारस्य भारतीयसाहित्यस्य भारतीयपौराणिकगाथानां भारतीयानां नदीनां नगराणां च नाम्रां संस्थापकत्वम्। परमेतादृशैः
पुरावृत्तोद्गारैरलम्! पर्याप्तमेतावद्वर्णनं तस्या वर्तमानामस्राघारणीमवनतिमस्माकं हृद्गतां कर्तुम्।
देववाण्या अवनतेः कारणानि
कानि पुनर्देववाण्या अवनतेः कारणानि? प्रायेणैष विचार एतादृशस्थालेषु बहुभिरुपस्थाप्यते यद्राजशक्तेः स्वसंस्कृतेः पोषिकाया अभाव एवास्माकं देववाण्या वा उत्तरोत्तरमभिवर्धमानाया अवनतेः कारणमिति। “राजा कालस्य कारणम्” इत्यादिवचनान्यप्यत्र विषये प्रमाणीक्रियन्ते। परं वस्तुतो विचारणायां तु कार्यकारणभावस्य वैपरीत्यमेवात्र नः प्रतिभाति। कस्यापि देशस्य राजशक्ती राजनीतिसंबन्धिन्यवस्था वा न स्वयमकारणत एव समुत्पद्यते। वस्तुतः सापि तत्तद्ददेशवासिनां शिष्टानां शिक्षितानां वा जननायकानां जनतायाः प्रतिनिधिरूपाणां पुरोयायिनां पुरोहितानां वा प्रजाः प्रति स्वकर्त्तव्यस्य पालनापालनमूलिकैव। एवञ्च तत्तत्काले संदृश्यमाना भारते या राजनीतिसंबन्धिनी दुरवस्था नैषास्माकं दुरवस्थायाः कारणम्, प्रत्युत वयमेव स्वकर्तव्यपालनाद्विमुखा जनतायाः पुरोयायिपदाद् भ्रष्टास्तस्याः कारणतामुपगताः। एतादृशमेव तत्तद्विषयककार्यकारणभावे मतिवैपरीत्यमन्येष्वपि विषयेषु प्रायेणास्माकमुपदृश्यते। तदाधारेणैव च जनताया वास्तविकलाभालाभविचारमुपेक्ष्य तास्ता दृष्टोः प्रजासु प्रचारयन्तो वस्तुतः स्वात्मवञ्चनामेव बहवो जनाः कुर्वन्ति।
लोकप्रगतेर्लोकावस्थितेश्चोपेक्षा
ततश्च नहि राजशक्तेर्हानिः संस्कृतभाषाया अवनतेर्मूलकारणम् किन्तु यन्मूलकारणं तत्कृतैव राजशक्तेर्हानिरपि। तच्च लोकप्रगतेः, लोकव्यवहाराद्, लोकावस्थितेश्च संस्कृतज्ञानां विराग उपरति; तेषामुपेक्षा च।
लोकप्रगतिर्हिनदीव सततमग्रगामिनी न जातु एकावस्थायामेव सतिष्ठते। ऋतूनामिव तस्या श्रपि आनुरूप्येण वर्तनं जीवनस्य सफलजीवनयात्राया वा प्रथमं लक्षणम्। लोकप्रगतिमनुरुध्यैव प्रवर्तमानास्तत्तद्देशनिवासिन्यो जातयो जगति स्वयशः समन्तात् प्रसारयन्ति। अन्यास्तु कालकवलतामापद्यन्ते। वस्तुतोलोकप्रगतिमूलिकैव तत्तद्युगादिकल्पना। युगरूपानुसारतश्च धर्माणां भेद इति वै शास्त्रविदां मतम्।
तथा हि—
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे युगे।
अन्ये कलियुगे नॄणां युगरूपानुसारतः॥
युगेष्वावर्तमानेषु धर्मोऽप्यावर्तते पुनः।
धर्मेष्वावर्तमानेषु लोकोऽप्यावर्तते पुनः॥
श्रुतिश्च शौचमाचारः प्रतिकालं विभिद्यते।
नानाधमाः प्रवर्तन्ते मानवानां युगे युगे॥
इत्येवं तासु तासु स्मृतिषु स्मर्यते
सर्वेष्वपि देशेषु सर्वेष्वपि च कालेषु सर्वोऽपि कर्ममार्गाः, सर्वमेव कर्मकाण्डं च लोकप्रगतिमनुरुध्यैव वस्तुतः प्रजाहितदृष्ट्यैव च प्रचारितं सत् साफल्यं लभते।लोक एव
याथार्थ्येन
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः।
ऊरू तदस्य यद्वैश्यः पद्भ्यांशूद्रो अजायत॥
इत्येवंगीयमानस्य भगवतो विराट्पुरुषस्य प्रत्यक्षमूर्त्तिरिव सर्वेषामेव मार्गाणां धर्माणां कर्मणां वा सत्यत्वासत्यत्वयोरुपयोगित्वानुपयोगित्वयोर्वा परीक्षणाय तत्त्वनिकषग्रावेव वर्तते। अमुमेवार्थं प्रख्यापयन्ती “विशि राजा प्रतिष्ठितः” इत्येषा श्रुतिर्गीयते।
अयमेवार्थः “स्त्रीभ्यः सर्ववर्णेभ्यश्च धर्मशेषान् प्रतीयात्” (आ० धर्म० २।११।२९।१५) इत्यापस्तम्बधर्मसूत्रवचनेन पुष्टिं समश्नुते।
एतदेव रहस्यं यत्कालक्रमेण केऽपि धर्मा विलुप्ता जायन्ते, परम्परागताः प्राचीनशास्त्रेषु समुद्गीयमानाः कर्मपथाः खिलीभवन्ति। अन्ये च नूतनास्तेषा स्थानमधितिष्ठन्ति। एतदेव कारणं प्राचीननवीनसंस्कृत्योस्तिरोभावाविर्भावयोः।
तामेतां लोकप्रगतिमनुरुध्यैव लोकावस्थितिञ्चावेक्ष्य लोकव्यवहारविदो विद्वांसः प्रजाहितदृष्ट्यैव कर्मसु प्रवर्तमानाः सर्वेषां समादरभाजो जायन्ते। तत्तत्कार्येषु पुरोयायिनः पुरोहिता (पुरोऽग्रे हिताः स्थापिताः) मार्गप्रदर्शका एव
मनुष्येषु नायकत्वपदवीं नेतृत्वपदवीं वासादयन्ति। चक्षुषामिव नेतॄणां शिक्षितानां शिष्टानां वा एतत्कार्यं यत्खलु मार्गप्रदर्शनं जनतायाः। एतन्मूलकमेव खलु नयनयोनयनत्वम्। पशुषु पुनरन्यथैवैतत्। तेषां प्राजिता हि पश्चादेति दण्डसाहाय्येनैव च तानग्रे यापयति। अत एव प्राचीनकाले ऋषयोधर्मसंकटेषु प्रजोपप्लवेषु चोपस्थितेषु संभूय विचार्य च लोकावस्थानुसारत एव कर्तव्यमार्गनिर्धारणं कुर्वन्ति स्म। लोकावस्थाया उपेक्षयैव पुनः प्रवर्तमानाः पश्चाद्दृष्टयोजनाः शोकमापद्यन्ते।
ततश्चास्माकं देववाण्याः संस्कृतज्ञानां वा विदुषां चिरादेव क्रमशो ह्रासमुपगच्छन्त्या अवस्थाया वास्तविकं मूलकारणं लोकप्रगतेर्लोकावस्थितेश्च अथवा प्रजायाः सामान्यजीवनस्यापेक्षैव, ततस्तेषां पार्थक्यं च। लोकस्य लोकयात्रायाश्च प्रात्यहिकीनामावश्यकतानामुपेक्षयैवास्माकं जीवनोपयोगिनीनां विद्यानां कलानां च नानाविधानां तिरोभावः समजनि। लोकप्रगतेरुपेक्षणेन सर्वैरुपेक्षिता इव शनैः शनैः संस्कृतज्ञा दृश्यन्ते। जनताया नेतृत्वं च शनैः शनैस्तेषां हस्तात्प्रस्खलितमिव प्रतिभाति।
स्वाभ्युदयकाले पुनर्देववाण्या वाङ्मयस्य जीवनयात्राया विभिन्नविभागानामानुरूप्येणैव नैके विभागा विभिन्नाः शाखाश्चावर्तन्त। सभ्यसमाजस्य प्रत्येकावश्यकतानुसारमेव तास्ता विद्याः कलाश्च समुद्दिश्य सस्कृतवाङ्मयं तदा प्रवृतमासीत्। आसीच्च समाजस्य राष्ट्रस्य वा सर्वेष्वप्यङ्गेषु समाना
कल्याणबुद्धिः प्राचीनानामाचार्याणां शिष्टानां जनतायाः पुरोयायिनाम्। अत एव च तत्र तत्र पुराणादिषु—
पठन्द्विजो वागृषभत्वमीयात्
स्यात्क्षत्रियो भूमिपतित्वमीयात्।
वणिग्जनः पण्यफलत्वमीयाज्
जनश्च शूद्रोऽपि महत्त्वमीयात्॥
(वा० रा० १।१।१००)
शृण्वन्विप्रो वेदवित्स्यात्क्षत्रियः पृथिवीपतिः।
ऋद्धिं प्राप्नोति वैश्यश्च शूद्रश्चारोग्यमृच्छति॥
(अग्निपुराणे ३८३।२३)
इत्येवं राष्ट्रस्य सर्वेष्वप्यङ्गेषु अङ्गाङ्गिभावरूपो घनिष्ठः संबन्धोऽत एव चैकस्यापि दुरवस्थयोपेक्षया वा सर्वेषामपि हानिनियतेति च सिद्धान्तानुरूपं सर्वेषामप्यङ्गानां कल्याणकामना श्रूयते।अत एव च प्रजाया विभिन्नानामङ्गानामावश्यकतानुरूपम् “आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वती” इत्येवंविद्यानां चातुर्विध्यमाम्नायते।
“चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति। आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेनेति” (महाभाष्ये), “आचार्यः सर्वचेष्टासु लोक एव हि धीमतः”, “कृत्स्नो हि लोको बुद्धिमतामाचार्यः। शत्रुश्चाबुद्धिमताम् ” (चरके), “बुद्धिहीना विनश्यन्ति यथा ते मूर्खपण्डिताः” (पञ्चतन्त्रे)
इत्याद्यभियुक्तोक्तिभिः, महाभाष्यादिप्राचीनग्रन्थेषु पदे पदे “तद्यथा लोके” इत्येवं लोकव्यवहारस्य समादरेण सांख्यादिषु नानाविधलौकिकदृष्टान्तसाहाय्येन च शास्त्रार्थप्रतिपादने प्राचीनानां विदुषां दृष्टौ लोकबुद्धेर्लोकप्रगतेर्व्यवहारज्ञानस्य च महत्त्वमेव स्पष्टीक्रियते।
प्राधान्येन सामान्यजनतायाः शिक्षणार्थं विनिमितेषु सर्वेषां माननीयेषु विभिन्नपुराणेषु राजशास्त्रस्य, भुवनकोशस्य, महाद्वीपादेः, वास्तुलक्षणस्य रत्नादिपरीक्षायाः, वृक्षायुर्वदस्य, नैकषां राजवंशानाम्, अश्व चकित्सायाः, गजचिकित्सायाः, अन्येषां चैवं विधानां लोकोपयोगिविषयाणां सप्रपञ्चं वर्णनादिकमपि ‘लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि इति भगवदाज्ञानुरूपं न केवलं प्राचीनाचार्याणां लोकसंग्रह चेष्टाया लोककल्याणबुद्धेश्चैव निदशकं किन्तु तेषां स्वयमपि लोकोपयोगिविद्यासु परमप्रावीण्यस्य ख्यापकं स्पष्टतः प्रतीयते ।
परमद्यत्वे संस्कृतज्ञा भीता इव समुद्विग्ना इव दूरतः परित्यजन्ति व्यवहारोपयोगिनीनां लोकप्रगतेश्च परिचायिकानां भूगोलेतिहासगणितराजशास्त्रादिविद्यानामध्ययनम्। हन्तैतादृक्प्रवृत्तिमूलिकैव संस्कृतभाषायाः संस्कृतज्ञानां च जीवनयात्रासंबन्धिषु विभिन्नव्यापारेषु राष्ट्रस्य तत्तदावश्यकविभागेषु चानिशं संवर्द्धमानानुपयोगिता।
तदेवं प्रपञ्चितमस्माभिरस्मन्मतानुसारेण देववाण्या अवनतेर्मूलकारणम्। अन्यानि कारणानि वस्तुतोऽस्यैव मूल-
कारणस्य व्याख्यारूपाणि। तथापि वैशद्यार्थं तान्यपि कानिचिदग्रे प्रतिपाद्यन्ते।
भारतीयमौलिकसंस्कृतेरपरिज्ञानं
सांप्रदायिक्यसहिष्णुता च
आपाततः परस्परविरुद्धत्वेन प्रतीयमानेष्वपि शैवशाक्तवैष्णवजैनबौद्धप्रभृतिषु नानासंप्रदायेषु एकसूत्ररूपेण व्याप्ताया भारतीयमौलिकसंस्कृत्याः संक्षेपेण स्वरूपमुपवर्णितमेव पुरस्तादस्माभिः। तस्या एतस्याः संस्कृतेरपरिज्ञानमननुभवश्चापि एकतमं कारणं देववाण्याः सांप्रतिक्या अवनतेः। एतदपरिज्ञानमूलकमेव संस्कृतज्ञेषु तद्द्वारा साधारणजनेषु च समुपलभ्यमानं परस्परा सहिष्णुत्वं परस्परं कलहश्च दृश्यते।
भारतवर्षं हि खलु सांप्रदायिकासहिष्णुताया जन्मभूमिरिवाद्यत्वे प्रतीयते। आर्यधर्मावलम्बिष्वपि पुनरतितरामुपलभ्यमाना सा कदर्थयति देशहितैषिणां चेतांसि। ‘वयमास्तिका यूयं नास्तिकाः’, ‘वयं’ वैदिका यूयमवैदिकाः’, ‘अस्माकं सम्प्रदायः प्राचीनतमो युष्माकं पुनर्नवीनः किञ्चित्कालादेव प्रचलितः’ इत्येवं परस्परमधिक्षिपन्तः साम्प्रदायिकाः केन न श्रुता भवेयुः। तत्तत्संप्रदायनामोल्लेखपूर्वकं तत्तत्सिद्धान्तखण्डनप्रवृत्तानां ग्रन्थानां नामसु ‘मुखभङ्गः’, ‘कर्णमर्दनम्’, ‘मुखचपेटिका’ इत्यादिपदविन्यासोऽपि तादृश्या एवासहिष्णुताया लज्जास्पदं निदर्शनम्।
वर्तमाने काले तेषु तेषु समुन्नतदेशेषु तत्तदनुदारसाम्प्रदा-
यिकभावनासु प्रतिदिनमुपक्षीयमाणासु, ‘जर्मन’ ‘इटैलियन’‘अरैबिक’ प्रभृतिरूपेण तत्तद्देशीय-मौलिकसंस्कृतिभावनासु पुष्टिं नीयमानासु, तद्द्वारा च तत्तज्जातिषु संघशक्तिसम्पादनपुरःसरं स्वस्वोत्कर्षसाधनतत्परास्वपि, एष जातिभ्रंशकरोऽसहिष्णुताया भावोऽस्मासु कस्य नाम देशहितैषिण आर्यर्यधर्माभिमानिनो मनस्तापं न तनुते।
इतिहासविदामतिरोहितं यत्कालक्रमेण तत्तदवस्थावश्यकतानुरूपं प्राकृतिकनियमानुसारेण नूतन नूतनाः सम्प्रदायाः सर्वेषु देशेषु प्रवर्तन्ते। परम्परागतमर्यादाया विरोधित्वभावना तेषु किञ्चित्कालपर्यन्तमेव जनताया जायते। किञ्चित्कालातिपाते पुनस्तेषां तस्यामेव मर्यादायामन्तर्भावः समावेशश्च प्रायः सर्वत्र क्रियते। ततश्चसाम्प्रदायिकी असहिष्णुता सर्वथा अविचारमूला। अत एव तत्त्वविदो विचारशीला विद्वांसः “परोक्षप्रिया हि देवाः प्रत्यक्षद्विषः” “ये तत्र ब्राह्मणाः सम्मर्शिनेा युक्ता आयुक्ता अलूक्षा धर्मकामाःस्युः, यथा ते तत्र वर्त्तेरन् तथा तत्र वर्त्तेथाः” इति श्रुत्यादेशमनु सरन्तस्तेषु तेषु सम्प्रदायेषु व्यापिन्या एकस्या भारतीयसंस्कृत्या भावनयैव भावितवित्ता उदारहृदयाः परस्परं सहिष्णुताभावस्यैव प्रचारं कुर्वन्ति।
ईश्वरानीश्वरवाद-वेदपौरुषेयत्वापौरुषेयत्ववाद-वाममार्ग-दक्षिण। मार्गादिभेदेन नानारूपायाः शैवशाक्तवैष्ण्वादिसंप्रदायबहुजायाः सांख्यवेदान्तजैनबौद्धप्रभृतिनैकदर्शनपद्धतीरनुसरन्त्या भारतीयार्यजातेर्वाचकस्य ‘हिन्दुजातिः’ इति पदस्य व्यवहारः सर्वेैरप्यस्माभिः प्रतिदिनं क्रियते। सर्वेऽपि तस्या अन्यधर्मानुवर्त्तिभ्यो।विवेकं पार्थक्यंच कर्तुमनायासेनैव क्षमाः। परं विद्वांसोऽपि तस्याः
कस्मिन्नेकस्मिन्नेव लक्षणेऽन्तर्भावप्रदर्शने स्खलितपदा दृश्यन्ते। भारतीयसंस्कृतिरेव वेदान्तिनां मायेव स्वयमनिर्वचनीयापि सती व्यवहारतः प्रत्यक्षं सर्व्वैरनुभूयमाना तस्या एकमात्रं लक्षणम्। सैषा संस्कृतिहि राजनीतिसंघ इव वस्तुतो भारतीयानां संप्रदायानां संघः। स्वसंप्रदायेऽनुरागः परसंप्रदायेषु च समादरबुद्धिरित्येव खलु तस्या मुख्यो नियमः। न चात्र कश्चिद्विरोधः। नहि स्वमातापित्रोरनुरागातिशयः स्वप्रतिवेशिनोमातापितरौ प्रति समादरबुद्ध्या कदाचिद्विरुध्यते।
वस्तुतत्त्वज्ञानस्योपेक्षा
कस्याविदितमेतद् यदद्यत्वे जगति येयमभूतपूर्वा नानाविधा समुन्नतिदृश्यते, नानारूपा आविष्काराश्चानवरतं क्रियमाणाः सवानाश्चर्यचकितान् कुर्वन्ति, विविधविद्यासंबन्धिविज्ञानानां च यः समुत्कर्षो दृष्टपथमायाति, तस्य सर्वस्य मूलकारणं तत्त्वज्ञानदृष्ट्या तत्तत्प्रमेयाणां वास्तविकी जिज्ञासा, “मूढःपरप्रत्ययनेयबुोद्धः” इत्यभियुक्ताोक्त्यनुसारं परम्परागतानांतत्तद्विषयकविश्वासानां स्वयमनुभवेन प्रायोगिकपरीक्षापुरःसरं विनिर्णयस्य च प्रवृत्तिरेव विद्यते। सैषा प्रवृत्तिः सुतरामासीदस्मद्देशेऽपि प्राचीनाचार्येषु। स्वानुभवेन प्रयोगपूर्वकंच वस्तुस्वरूपविनिर्णय-प्रवृत्ति-कारणादेव प्राभवंस्ते नानाविधपदार्थविषयकपरिज्ञानपूर्णान् भारतीय नदीदेशनगरग्रामकूपारण्य-प्रभृतिभूगोलेतिहासादिविशिष्टज्ञानपुरःसरंकौटिल्यार्थशास्त्र पाणिनीयाष्टाध्यायीसदृशान्य-साधारणानि लोक-
विदितानि ग्रन्थरत्नानि निर्मातुम्। वैशेषिके, आयुर्वेदे, ज्यौतिषे, गणिते, अन्येषु चैवंविधेषु प्रायोगिकपरीक्षणसापेक्षेषु शास्त्रेषु स्वानुभवेन वस्तुतत्त्वपरीक्षणपुरःसरं या तेषां समुन्नतिरद्यापि सास्माकं भारतीयानां गव स्यास्पदम्।
“परीक्ष्यकारिणो हि कुशला भवन्तिः”, “नापरीक्षितमभिनिविशेत्”, “सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा। व्यापच्चासम्यक्प्रयोगनिमित्ता” (इत्यादि चरके) ‘अ प्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा। साक्षत्करणमर्थस्याप्तिस्तया प्रवर्तत इत्याप्तः। ऋष्यायम्लेच्छानां समानं लक्षणम्। तथा च सर्वेषां व्यवहाराः प्रवर्तन्ते” (इति न्यायसूत्रवात्स्यायनभाष्ये शब्दलक्षणप्रकरणे), “मनुष्या वा ऋषिषूत्कामत्सु देवानब्रुवन् को न ऋषिर्भविष्यतीति। तेभ्य एत तर्कमृषिं प्रायच्छन्” (इति निरुक्ते) सर्वाणि चैतानि प्रमाणानि तमेव पूर्वोक्तमर्थं द्रढयन्ति। किं बहुना, धर्मविषयेऽपि तेषामासीदियं धारणा यत्—
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः॥
वस्तुतः शब्दप्रमाणस्य प्रामाण्यमनुभवपूर्वपरीक्षासहकृतमेवेति पूर्वनिर्दिष्टवात्स्यायनवचनेन “अनुभवेन वस्तुतत्त्वस्य कार्त्स्न्येन ‘याथार्थ्यज्ञानवानाप्तः”, इत्याप्तलक्षणेन च प्रतीयते।
परं चिरकालादेवैषा स्वयमनुभवेन वस्तुतत्त्वपरीक्षणमुखी प्रवृत्तिस्तिरोहितेव संस्कृतज्ञेषु इति प्रतीयते। अद्यत्वे तु तस्याः
प्रतिकूला प्रवृत्तिरेव चरमां सीमां यातेति कस्याविदितं भवेत्। भवतु नामावश्यकी शब्दैकप्रमाणपरता श्रुत्यादिविहितेषु पारलौकिकेष्वदृष्टेषु विषयेषु। परन्त्वनुभवगम्येषु प्रायोगिक परीक्षणसहेषु लौकिकेषु विषयेषु तु सा सर्वथैवाक्षम्या।
वर्तमानकालेसंस्कृतपठनपाठनपद्धतेरयमेको महान् दोषो यत्प्रथमं तु छात्रेषु कश्मिन्नपि विषये स्वाभाविकविशिष्टजिज्ञासाबुद्धेरनुदय एव। उदयेऽपि अभ्यस्यमानग्रन्थप्रमाणबलादेव सबलात्कारं तस्या उपशमः क्रियते। अभ्यस्यमानग्रन्थोक्ताः पदार्थास्तत्तद्ग्रन्थे यथा प्रतिपादितास्तथैव वस्तुतत्त्वज्ञाननिरपेक्षया ग्राह्यन्ते। व्याकरणे उदाहरणरूपेणान्यथा वा समागतानां शब्दानां केऽर्थाः काव्यादिषूपवणितानां तत्तत्पदार्थानां वस्तुतो लोके किं स्वरूपम्, पुराणेतिहासादिषु वर्णितानां पर्वतानां देशानां नद्यादीनां च वस्तुतः कुत्र स्थितिः कानि च तन्नामानि इदानीन्तने भारतेऽन्येषु वा देशेषु, ज्यौतिषे वा सविस्तरमुपवर्णितानां नक्षत्राणां वस्तुतः खगोले कुत्र कीदृशी स्थित्तिरित्येवंविधानां जिज्ञासानामनुदय एवाद्यत्वे संस्कृतज्ञेषु। उदयेऽपि कति नाम ताः समाधातुं प्रयत्नपरा दृश्यन्ते। दर्शनशास्त्रेषु अंशतोऽनूदितान् दर्शनान्तरपदार्थान् यथाकथंचित्पत्पठित्वैव सन्तुष्टा नहि चेष्टन्ते केऽपि प्रायेण वस्तुतस्तत्तद्दर्शनान्तरपदार्थैस्तान् संवादयितुम्।
सैषातिमात्रं शब्दप्रमाणपरता अस्थाने प्रयुक्ता नूनं देववाण्या अवनतावेकतमद् मुख्यं कारणम्। एषैवास्माकं विचारसकीर्णताया नूतनविज्ञानानां संग्रहेऽनुदारताया अपि मुख्यं कारणम्। “नीचा-
दप्युत्तमां विद्याम्” इति वचने सत्यपि भारतीयज्यौतिषे यवनाचार्याणां प्रासादनिर्माणविद्यायां मयासुरादीनां प्रभावे स्पष्टेऽपि एषास्माकमनुदारता न हि सर्वथा श्लाघनीया। उपरिनिर्दिष्टप्रवृत्तिवशादेव संस्कृतज्ञा अस्मिन्समुन्नतिमुखे काले असामयिका गण्यन्ते।
प्रायेण उपरिनिर्दिष्टकारणव्रातवशादेव शनैःशनैश्चिरायावनतिमुखी देववाणी सांप्रतिकीं खेदावहाँ दशां वहति। एतन्मूलक एव देववाण्याः स्वाभ्युदयकाले विनिर्मितेषु प्राचीनग्रन्थेषु नूतनग्रन्थेषु च महान् प्रभेदः। केन खलु विदुषा न स्वीक्रियेत प्रायेण प्रत्येकस्मिन् साहित्यविभागे प्राचीननवीनग्रन्थयोर्भेदः। अयमेव खलु प्राचीनाचार्यग्रन्थेषु नवीनग्रन्थेषु च महान् भेदो यत्प्राचीनाचार्यास्तु लोकप्रवृत्तिं लोकप्रगति वस्तुतत्त्वं चावगत्य प्रजाकल्याणकामनयैव प्रेरिताः स्वग्रन्थान् प्रणयन्ति स्म। महाभाष्यादिषु पदे पदे लोकव्यवहारचर्चा, चरकादिषु प्रयोगपूर्वकं वस्तुतत्त्वपरीक्षणाय प्रोद्बोधनम्, भूतदयामुद्दिश्यैव ग्रन्थप्रथने प्रवृत्तिश्चात्र स्पष्टं प्रमाणम्। तथा च वात्स्यायनभाष्ये “किं पुनराप्तानां प्रामाण्यम् साक्षात्कृतधर्मता भूतदया यथाभूतार्थचिख्यापयिषेति। आप्ताः खलु साक्षात्कृतधर्माण इदं हातव्यमिदमस्य हानिहेतुरिदमस्याधिगन्तव्यमिदमस्याधिगमहेतुरिति भूतान्यनुकम्पन्ते।” (न्यायभाष्ये २।१।६८) इति। नूतनग्रन्थकारेषु तु पुनः प्रायेण तद्विपरीतैव प्रवृत्तिः। आप्तलक्षणस्य वस्तुतत्त्वानुभवमूलकत्वमुपेक्ष्य प्राधान्येन शब्दप्रमाण तत्परत्वम्, वास्तविकीं प्रजाहितप्रवृत्तिमनादृत्य
अहमहमिकाभावेन अज्ञानां विवेकरहितानां लक्ष्मीपतीनां राजादीनां परितोषपूर्वक बाग्वितण्डया वा निःसारशब्दावल्या वा स्वविपक्षानधःकृत्य स्वार्थसाधनमित्येव प्रायेण नूतनग्रन्थप्रणयनपरिपाट्या रहस्यं वृत्तञ्च।
तान्येतानि देववाण्याः संस्कृतज्ञानां चावनतेः संक्षेपेणास्मन्मतेन कतिचित् कारणानि। देववाण्याः संस्कृतज्ञानां च तीव्रः समुन्नत्यभिलाष एव नः प्रेरयति अत्र विषय आत्मपरीक्षणाय। आत्मपरीक्षणं हि नाम मिथ्याभिनिवेशरहितेन निश्छद्मना च मनसा विहितं समुन्नतेः प्रथमं साधनमिति समामनन्ति सन्तः।
अस्माकं कर्तव्यम्
परं प्रसन्नताया विषयो यत्पुनरपि देववाण्यास्तद्द्वारा च भारतीयसंस्कृतेरभ्युत्थानाय सप्रयत्ना वयम्। उदयाचलमारूढो भगवान् ज्ञानभास्वान् भुवनमाभासयितुं प्रवृत्तः। अविद्यातमिस्रापगमे सर्वेऽपि मोहनिद्रामुन्मुच्य स्वसमुन्नत्यै चेष्टापरा इतस्ततो दृश्यन्ते। एषा ससदपि तस्या एव प्रत्यक्षं प्रमाणम्। प्रतिवर्षं परःसहस्राणां छात्राणां संस्कृतपरीक्षासु प्रवेशः परःशतानां पाठशालानां च यत्र तत्र स्थापनम् –सर्वमेतदाशावहम्। संस्कृतच्छात्रेषु तु एतादृशो नूतन एव जागरः परमसन्तोषावहः।
वस्तुतो न हि कथञ्चिदप्यस्माकं निराशाया अवसरः। अद्यत्वेऽपि संस्कृतच्छत्रेषु संस्कृतविद्वत्सु चान्यत्राश्रुतचरा नैके विशिष्टा गुणा दृश्यन्ते। तपस्या, कष्टसहिष्णुता, गुरुशिष्यभावः, “अस्मिन्नार्यावर्ते निवासे ये ब्राह्मणाः कुम्भीधान्या अलोलुपा अगृह्य-
माणकारणाः किञ्चिदन्तरेण कस्याश्चिद् विद्यायाः पारङ्गतास्तत्रभवन्तः शिष्टाः” महाभाष्ये ६३।१०९) इत्यादर्शानुसारमनन्यभावेन निष्कामभावनया च विद्यायाः पाठनम्, वस्तुतोऽकृत्रिमः स्वदेशप्रेमा, भारतीयसंस्कृतरभिमानः, स्वधर्मपरायणता, कर्मनिष्ठता, आस्तिक्यबुद्धिः, देवभक्तिः शुचिता, भारतीयशीलसदाचारानुवर्त्तित्वम्, विशेषतश्च देववाणीं प्रत्यनन्यप्रेमभावना—सत्सु एतादृशेषु अद्यत्वेऽपि अन्येषु सभ्यत भिमानिदेशेष्वपि प्रायेणदृश्यमानेषु गुणेषु निश्चितं देववाण्या भविष्याभ्युदयविषये न हि कस्याप्यनास्थया भवितव्यम्।
नूनं स समयः पुरस्तात्समुपस्थित इव दृश्यते यदा संस्कृतभाषा भूयोऽपि सर्वेषामादगस्पदमुन्नतिशिखरारूढा च भविष्यति। सांप्रतिकीखल्वव स्थतिःसर्वथा अस्वाभाविकी। अन्यदेशेषु यथा स्वदेशसंबन्धिप्राचीनोत्कृष्टभाषाणां समादारः संदृश्यते, तथैवास्मद्देशेऽपि अस्मिन्नभ्युत्थानयुगे देववाण्याः समुत्कर्षेण समादरेण च नूनं भाव्यम्। सत्यं संस्कृतज्ञा असामयिकत्वेन आधुनिकशिक्षितानां दृष्ट्य न तथा समादरार्हामन्यन्ते यथा तैर्भावितव्यम्। वस्तुतस्तु आधुनिकशिक्षादीक्षितसमाजस्य संस्कृतज्ञसमाजस्य च शिक्षिताशिक्षितत्वदृष्ट्या नहि कश्चिन्मौलिको भेदः। आधुनिकशिक्षिता जानन्ताऽपि साम्प्रतिकीमवस्थितिमितिहासं राजनीति च भारतीयप्राचीनसंस्कृतिज्ञानापेक्षया अज्ञा एव। तच्चैतदन्यथा संस्कृतज्ञेषु। तेऽपि भारतीयप्राचीनसंस्कृत्या परिचिता अपि साम्प्रतिकावस्थाज्ञानापेक्षयैव अज्ञाः। ततश्चाधुनिकशिक्षितैः सह समानेऽपि तेषां दोषे संस्कृतज्ञानामयमेव गुरुतरो दोषो यत्तेऽसाम-
यिकाः। नास्त्यत्र संदेहलवोऽपि यत्समयोपयोगिज्ञानोपार्जनेन संस्कृतोत्कृष्टपाण्डित्यस्य प्राचीनमर्यादायाः संरक्षणेन संपोषणेन च पूर्वमेव पूर्णरूपेण भारतीयभावभावितास्ते वस्तुतः समुत्कृष्टपदं लप्स्यन्ते। एतादृशगुणगणालंकृताः संस्कृतज्ञा एव वस्तुतो भारतीयजनताया नेतृत्वधुरां वोढुमर्हाः।
तदेतद्यथा नातिचिरेण संपद्यते तथैवास्माभिः सर्वैः सर्वथा प्रयतनीयम्। सर्वेषां छात्राणामध्यापकानामन्येषां च भारतीयसंस्कृत्यनुरागिणां .सहयोगेनैवैतत्संभाव्यते। छात्रैश्च विशेषतः प्रयतितव्यम्। कस्यापि देशस्य भविष्यं युवस्वेव तिष्ठति। यूनामेवोद्योगेन कर्तव्यपरायणतयाआशावादितया सोत्साहेन कर्मणा च तत्तद्देशाः समुन्नताः स्वयशःपताका जगति प्रसारयितुं प्राभवन् प्रभवन्ति च। तेषामेवास्मद्देशेऽपि विशेषत एतत्कर्तव्यं यत्पूर्वोक्तानां दोषाणां परिमार्जनं विधाय शुद्धाचरणेन ब्रह्मचर्येण श्रद्धया गुरुभक्त्या देशप्रेम्णा च नानाशास्त्राण्यधीयाना देशप्रगतिं जगतोऽवस्थितिञ्चावगच्छन्तो भारतीयसंस्कृत्या आदर्शान् ऐक्यभावनां च लोकेषु संस्थापयन्तः परस्परं सौहार्दैन, जन्मप्रभृति मरणपर्यन्तं भारतीयानामभ्युदयनिःश्रेयससाधनतत्परायाः सततं स्वसाहित्यसरोरसामृतेन तानाप्याययन्त्याः सर्वथा मङ्गलमय्या भारतीयानां मातृकल्पाया देववाण्याः समुद्धाराय बद्धपरिकरा भवेयुरिति।
दैन्यभावस्य च परित्यागो विशेषतो विधेयः। दैन्यभाव आशावादिता च नैकत्रावस्थानं सहेते। आशावादिता हि अस्माकमार्यधर्मावलम्बिनां मुख्य आदर्शः। दैन्यं चानार्यजुष्टोऽस्वर्ग्योऽकीत्ति-
[TABLE]
करश्च गुणः। वेदमन्त्रेषु यत्र तत्रापि दृश्यते आशावादिता दैन्यराहित्यं चैव श्रेष्ठ आदर्शः प्रतीयते। अस्माकमधःपतनावस्थाकाले दास्यकाले च निर्मिताद् ‘असारः संसारः, सर्वथैव हेयः, कारागारसदृशो बन्धस्थानम्, जीवनं दुःखमयम्’
अभ्रमध्ये च पश्यन्ति चञ्चलां विद्युतां गतिम्।
क्षणं दृष्ट्वा च नश्यन्ति तथा संसारिणो जनाः॥
यथा हि कूपमध्ये च घटमाला भ्रमन्ति च।
गमागमौ हि पश्यामि तद्वत्संसारिणोजनाः॥
जले च बुद्बुदो यद्वत्तद्वत्संखारिणो जनाः।
इत्यादिनिराशाजनकभावपोषकसिद्धान्तैर्व्याप्तात्संस्कृतसाहित्याद्विपरीतमेव नो वैदिकं साहित्यम्। तत्र हि
विश्वदानीं सुमनसः स्याम पश्येम नु सूर्य्यमुञ्चरन्तम्।
(ऋ०६।५२।५)
अस्मे धेहि श्रवो बृहद् द्युग्नं सहस्रसातमम्।
इन्द्र ता रथिनीरिषः॥ (ऋ० १।९।८)
इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि।
जयेम सं युधि स्पृधः॥ (ऋ० १।८।३)
अदीनाः स्याम शरदः शतं भूयश्च शरदः शतात्।
(यजु० ३६।२४)
भद्रं जीवन्तो जरणामशीमहि।
(ऋ० १०।३७।६)
पश्येम शरदः शतम्। जीवेम शरदः शतम्।
बुध्येम शरदः शतम्। रोहेम शरदः शतम्।
पूषेम शरदः शतम् भवेम शरदः शतम्।
भूषेम शरदः शतम् भूयसीःशरदः शतात्॥
(अथर्व० १९।६७।१-८)
इत्यादिरूपाभिः प्रार्थनाभिराशावादितैव जातिदृष्ट्या व्यक्तिदृष्ट्या च जीवनस्य मुख्य आदर्शः, अभ्युदयस्य निःश्रेयसस्य च प्रथमं कारणमिति स्पष्टं प्रतीयते। एतद्दृष्ट्या हि जगदेतत्सुन्दरोपवनसदृशं विधात्रा करुणापरवशेनास्माकमभ्युदयाय ईश्वरप्रदत्तशक्तीनां च पूर्णरूपेण परिपुष्ट्यै परिपुष्टिक्रमेण चामृतत्वपदप्राप्त्यै एव सृष्टम्, अत एव च न सर्वथा हेयत्वेन विभावनीयम्।
वयं हि भारतीयाः
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाद्रचित्ता॥
इत्यवंसततं स्तूयमानाया भगवत्या महाशक्त्याः समुपासकाः तुष्टिरस्तु, पुष्टिरस्तु’ इत्येवमहर्निशं प्रार्थयमानाश्च कथमिव निराशाया दैन्यभावस्य च पात्रं भवितुमर्हामः।
ततञ्च धृत्युत्साहममन्वितैः ‘स्वदेशभविष्यस्य वयमेव निर्मातारः इत्येवंदृढं विश्वसद्भिः, लोकप्रगतिमवगच्छद्भिः किञ्चित्कालादेव नानादेशैयोअभूतपूवो समुन्नतरासादिता तांपश्यद्भिः, ‘वयमपि भारतीयमहापुरुषसन्ताना भारतीयसंस्कृत्यभिमानिना भारतस्य भूयोऽभ्युत्थानं करिष्यामः, भारतीयजनताया निरभिमानबुद्ध्या सेवां कृत्वा तस्यां परस्परं स्नेहभावं च वर्धयन्त वास्तविकं पुरोयायिपदमवाप्स्यामः’ इति दृढं निश्चित्य सर्वाभ्युदयनिःश्रेयससाधनभूताया देववाण्याःसमुन्नत्यै समुत्थातव्यमस्माभिः।
प्रार्थना च विधेया,
औं सहनाववतु सह नो भुनक्तु सह वीर्यं करवावहै।
तेजस्वि नावधीतमस्तु मा विद्विषावहै॥
सं गच्छध्वं स वदध्वं सं वा मनां स जानताम्।
देवा भागं यथा पूर्वे सजानाना उपासते॥
समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वा मनोयथा व सुसहासति॥
॥इति शम्॥
कृधी न ऊर्ध्वाञ्चरथाय जीवसे
(ऋ० १।३६।१४ )
आर्यधर्मस्य संदेशः3।”)
प्रधानमहोदया देव्यः सज्जनाश्च !
नूनमिदं सौभाग्यं यत्पावनेऽस्मिन्समारम्भे स्नातकानभिलक्ष्यदीक्षान्तभाषणं विधातुमामन्त्रितोऽहंतत्रभवतां भवतां समक्षमद्य समुपस्थितोऽस्मि
कार्याधिक्यवशादवकाशराहित्येऽपि संस्थयैतया सह स्वकीयप्राचीनसंबन्धेन स्नेहपरवशो मित्राणामनुरोधेन प्रेरितश्चैवाहमेतत्कार्यभारवहनाय समुद्यतोऽभवम्।
प्रियाः स्नातकाः,
अद्वितीयः खल्वयमवसरो भवतां जीवने। जीवनस्य प्रथमकाले दीर्घायुष्यस्य, बलस्य, वर्चसस्तेजसश्चप्राप्त्थर्थम् “अग्ने व्रतपते व्रतंचरिष्यामि” इत्यादिमन्त्रैर्गृहीतस्य व्रतस्य खलु समाप्तावद्य भवन्तः “तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः”
(ऋ०३।८।४)इत्याद्यनुसारं गुरूणामाशीर्वचोभिः सहैव गुरुकुलात्समावर्तनाय समुद्यता दृश्यन्ते। गुरुकुलं वै तपस्यायाः, संयमस्य, भ्रातृभावस्य अकृत्रिमस्नेहस्य च स्थानम्। तत्रैव वसन्तो भवन्त आर्यदीक्षया दीक्षिता अभवन् ततश्च नूतने जगति प्रवेशानन्तरं भवतां कर्तव्यमेतद् भवेद् यत्तस्यैवार्यधर्मस्य सदेशेन, न केवलं शब्दैः, किन्त्वाचरणद्वारापि, भारतीयसमाजेऽभिनवजीवनस्य संचारो यथा निष्पद्यते तथैव प्रयतितव्यम्।
परमेष नूतनः संसारः सुतरां विशालो विसंष्ठुलो विषमः कण्टकाकीर्णश्च तं संसारमपेक्ष्य यस्मिन् खलु एतावत्कालपर्यन्तमुषितं भवद्भिः। जीवनयात्रायां कठिनपरीक्षायाः स्थानं हि स भविष्यति। अवधीयतां तावद् यदस्य नूतनजीवनस्य साफल्यमुपयोगश्च तस्य महत आर्यधर्मस्य सिद्धान्तानामादर्शानां चाद्ययावद्गृहीतायाः शिक्षायाः व्यावहारिकरूपेण चरितार्थतायामेव विद्यते।
आशावाद एवास्य नूतनजीवनस्य प्रथमः संदेशः।
आशावादो निराशावादश्च
कस्यैतदविदितं यदाशावाद एवार्यधर्मस्य वैदिकधर्मस्य वा मौलिकः सिद्धान्तः। ओतप्रोतं हि वैदिकं वाङ्मयमाशावादस्य सिद्धान्तेन।
कृधी न ऊर्ध्वाञ्चरथाय जीवसे।
(ऋ० १।३६।१४ )
अर्थात् भगवन्! विधेहि नः समुन्नतान् जीवनयात्रायाम्। भद्रं जीवन्तो जरणामशीमहि।
(ऋ० १०।३७।६)
अर्थात, कल्याणमयं जीवनमतियापयन्ता वयं वृद्धावस्थामाप्नुयाम।
विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम्।
(ऋ०६५२५)
अर्थात्, सर्वदैव प्रसन्नचेतसः सन्तो वयमुदीयमान सूर्यः पश्येम।
पश्येम शरदः शतम्। जीवेम शरदः शतम्।
बुध्येम शरदः शतम्।राहम शरदः शतम्।
पूषेम शरदः शतम्। भवेम शरदः शतम्।
भूषेम शरदः शतम्। भूयसीःशरदः शतात् ॥
(अथर्व०१९ ६७।१-८ )
अर्थात्, शतं वर्षाणि ततोऽपि चाधिक कालं यावद् वयं पश्येम, जीवनयात्रां कुर्वीमहि, ज्ञानं संपादयमहि, उत्तोत्तरामुन्नतिमाप्नुयाम, पुष्टिं समृद्धिमैश्वर्य चाधिगच्छेम।
मनुष्यजीवने विद्यत्संचारमिव नूतनां स्पूतिमुत्पादयद्भिरेतादृशैः प्राणसंजीवनैर्वचनामृतैरापूर्णंमिव वै वैदिकं वाङ्मयम्।
ईश्वरप्रदत्तशक्तीनां परस्परं सामञ्जस्येन विकासः, तद्द्वारा च जीवनश्य सर्वाङ्गीणा सम्पूर्णता मानवस्य प्रथमं कर्तव्यमित्येष वै वैदिकः सिद्धान्तः। भगवता विश्वबन्धुना सृष्टमेतद्ध जगदस्माकं
तस्याः सर्वाङ्गीणायाः समुन्नतेः साधकमेव, न तु बाधकम्। अत एवार्यजनस्य दृष्ट्या जीवनमेतत्प्रार्थनाया विषयः, न तु ग्लानेः। एषा चोदात्तभावना नून प्रकृतिनियमानुकूलं जीवनं यापयतो निष्पापस्य स्वच्छहृदयस्य च जनस्यैव संभवति।
एतद्विपरीतमेव खलु वृत्तं तस्य समाजस्य यस्मिन् प्रवेशाय समुद्यता भवन्तः साम्प्रतम्। नैकशताब्दीतोऽन्धकारस्यावनतेश्च गर्ते पतितोऽयं समाजः खलु निराशावादसिद्धान्तैः परिप्लुतः। तेषां सिद्धान्तानामपसिद्धान्तानां वा अनुसारेण हि संसारोऽयमसारः, सर्वथैव हेयः, स्वप्न इव, पान्थशालेव वा, तत्र वा अस्माकं स्थितिर्नद्यां निमज्जतो मनुजस्येव विद्यते, मन्यतामीश्वरेण स संसारः केवलं कारागारस्थानीयत्वेनास्मत्कृते विनिर्मितः। एतद्रूपैर्हि निराशामयसिद्धान्तैर्भारतीयसमाजश्चिराय निष्प्राणो निःसत्त्वो निस्तेजस्कश्च संवृत्तः। उपरिनिर्दिष्टसिद्धान्तैः प्रभावितानामेव जनानां नूनं रौरवादिनरकाणां कल्पना। “मूर्खःकामी खलश्चाहम्” (= “मैं मूरख खल कामी”), तथा “संसारसागरस्येयं पारं गच्छति नौर्यथा” (= नैया मेरी पार लगाओ) एतादृश्यो दैन्यभावनयोपेताः प्रार्थनास्तस्या एव विचारधारायाः प्रतीकम्।
आर्यधर्मस्य प्रथमोऽयं संदेशो भवतु यद्वयमेनं प्राणघातक नैराश्यवादं समूलघातं निहत्य वैदिकोदात्तभावनाभिरस्मत्समाजमापूरयेम। किञ्च,
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम।
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥
(ऋ० १०।१२८।१)
एतादृशीनां वैदिकप्रार्थनानामनुसारं न केवलं समाजस्य यूनामेव, किन्तु प्रत्येकस्य जनस्य समक्षमादर्शमेतं स्थापयेम यत्’स्वकीयोन्नतिविरोधिनीनामखिलानां शक्तीनां प्रवृत्तीनां च निरासायैव वयं जन्म गृहीतवन्तः, यस्यामपि दिशि अस्माकमुद्योगस्य गतिस्तस्यामेव नूनं विजयलक्ष्मीरस्मानुपैष्यति। वयं खलु अमृतस्य ज्योतीरूपस्य परमात्मनः पुत्राः, अत एव स्वीयं जीवन प्रकाशमयं कुर्वाणा वयमन्येषामपि जीवनं प्रकाशमयं विधास्यामः’ इति।
प्रगतिवादो रूढिवादश्च
भारतीयसमाजस्य सर्वाङ्गीणायाः समुन्नतेः पूर्णविकासस्य चात्यन्तं बाधिका प्रवृत्तिस्तस्य रूढिवाद एव। तस्योत्पत्तेः पुष्टेश्च कारणानि तान्येव येभ्यः खलु निराशावादस्य जन्मासीत्। अवरुद्धोन्नतिविकासमार्गोहि जनः समाजो वा स्वभावत एव नैराश्यवादेनात्मन्यविश्वासेन च ग्रस्तो जायते। पादमात्रप्रचलन एव कदाचिन्मम गते कूपे वा पतनं संभवतीति भयाद्भीतोऽन्ध इव स स्वस्थान एव स्थितिंवरं मन्यमानः पदात्पमपि प्रगतिं नैव करोति, रूढिवादस्य ग्राहेण वा ग्रस्तो जायते।
तद्विपरीतम्, यस्य जनस्य समाजस्य वा समक्षमुन्नतेर्मार्गा अनवरुद्धाः प्रशस्ताश्च भवन्ति, आशायाश्च प्रकाशो विद्यते,
अत एव च य आत्मविश्वासेन समुपेतः, नूनं स्वभावत एवस प्रगतिशीलो दृश्यते। कोऽपि चक्षुष्मान् प्रकाशस्य विद्यमानतायामात्मविश्वासेन वै कुत्रापि स्वेच्छया गन्तुमर्हति। अत एव यथैव प्रगतिवादः प्रकाशस्य आशामयस्य विश्वासमयस्य च जीवनस्य लक्षणम्, तथैव खलु रूढिवादोऽन्धकारस्य नैराश्योपेतस्य आत्मविश्वासविरहितस्प जीवनस्य च प्रतीकम्। शब्दान्तरेषु, यथैव खलु रूढिवादः समाजस्य पृथ्व्या उदरे शिलीभूतानां वृक्षादीनामिव निश्चेष्टाया जीवनरहितायाश्च स्थितेः प्रख्यापकः, तथैव प्रगतिवादो जीवनक्रियया सम्पन्नस्य सचेष्टस्य च प्राणिनः स्थितेःपरिचायकः।
अयमेव रूढिवादो भारतीयसमाजस्यात्यन्तं महती समस्या। पादयोर्बद्धे निगडे इव, एष एव समाजस्य नानारूपैः प्रगतिमवरुणद्धि। एतस्य हि दुष्प्रभावः, नितरां सूक्ष्मेणादृश्येन च प्रकारेण, भयानका राजयक्ष्मकीटाणवः शरीर इव, अस्माकं समाजे प्रविष्टस्तं जीर्णं शीर्णं च विधातुं सद्यस्तत्परो विद्यते।
अस्य खलु प्रवृत्तिर्जीवनस्य विभिन्नक्षेत्रेषु दृश्यते। शब्दानामर्थविषये तावदयमेव रूढिवादस्तेषामन्तस्तलप्रवेशेऽस्माकं बाधकः, प्रायेणच मानसिकस्य पाषण्डस्य छद्मनश्च पोषको जायते। अयमेव मनुष्याणां हीनस्वाथैर्निम्नप्रवृत्तिभिश्च प्रेरितानां कार्याणां वास्तविकं स्वरूपमाच्छाद्य जनतायाः प्रतारणायै आवरणायते। भक्तिः, तपः, दानम्, दया, यज्ञः, स्वर्गः वर्णाः, श्रद्धा इत्यादिशब्दानां प्रयोगविषयको योऽयं लोके विप्लवस्तस्य मूलकारणमेष शब्दगतो
रूढिवाद एव। भगवद्गीतायां यज्ञतपोदानादिविषये यदिदं सात्विकराजसतामसभेप्रदर्शनं तदप्यस्यैव रूढिवादस्य निराकरणाय प्रयत्नः। प्रायेण जनैरनवगतमहत्त्वायाः श्रीस्वामिदयानन्दाचार्यैर्निर्मिताया आर्योद्देश्यरत्नमालाया अपि वस्तुतोऽस्यैव शब्दगतरूढिवादस्य निरास एव प्रयोजनम्।
पूर्वोक्तस्य रूढिवादमूलकस्य मानसिकपाषण्डस्य च्छद्मनोवा कारणादेव नैक उद्भटा अपि विद्वांसः, भारतीयेतिहासस्य विभिन्नकालेषु, प्राचीनग्रन्थान् स्वसिद्धान्तानुकूल्येनैव व्याख्यातुं सप्रयत्ना दृश्यन्ते। नूनमद्यत्वेऽपि विद्यत एव सा प्रवृत्तिरस्मद्देशे। एतदेव कारणं यद्देशेऽस्मिन् विभिन्नकालेषु समाजस्य परिष्कार (सुधार)प्रगत्योरुद्देश्येन महापुरुषैः प्रचालितान्यान्दोलनानि संप्रदायाश्च स्वप्रधानलक्ष्याच्च्युतानि रूढिवादस्य कच्छे पतितानि विनाशमगछन्। नैतत्तिरोहितं प्राचीनस्य सामयिकस्य वा इतिहासस्यानुरागिणाम्। रूढिवादिनामेष स्वभावो यत्ते, परभोजिनो वृक्षा वृक्षान्तराणीव, प्रगतिशीलान्यान्दोलनानि कथमप्यात्मसात्कृत्वा निष्प्राणतां निःसत्वतां चापादयन्ति। एतदर्थं च ते समाजे समादृतानां शब्दानां भावनानां च रूपेण परम्परया समागतानां रूढीनामेवोपयोगं पूर्णत्वेनादृश्यविधयैव विदधति।
रूढिवादस्य पूर्वोक्ताभ्येऽदृश्याभ्यो घातक प्रवृत्तिभ्य आत्मनः स्वसमाजस्य च रक्षणार्थमैकान्तकसत्यनिष्ठाया आत्मपरीक्षणस्यामृढबुद्धेश्च सततं प्रयोगस्य महत्यावश्यकता।मनस्यन्यत्क्रियायां चान्यदित्येतद्द्वयं येषामस्ति त एव वञ्चका द्वयाविन इत्येवं
वेदेषु गीर्हणीयत्वेन प्रोक्ताः। “मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवन् को न ऋषिर्भविष्यतीति। तेभ्य एतं तर्कमृषि प्रायच्छन्” (निरुक्तपरिशिष्टे) इत्यत्र प्रतिपादितस्य ‘तर्क एव ऋषिः’ इत्येतस्य सिद्धान्तस्य वै उपयोगो न तावदपरेषां सिद्धान्तानां खण्डनाय विधेयो यावदात्मन एव परीक्षणाय।आत्मपरीक्षणं हि नाम मनुष्यस्य प्रथमं समुन्नतेर्मूलम्। ऐकान्तिकी शब्दप्रमाणपरता वा, परम्परागता “अन्धेनैव नीयमानायथान्धाः” इत्येवंरूपा अन्धभक्तिरेव वा रूढिवादः। अत एव स सर्वतः प्रथमं बुद्धेर्जडताया लक्षणम्।
तद्वैपरीत्येन, वेदेषु पुनः “भद्रादभि श्रेयः प्रेहि” (तैत्तिरीयसंहिता १।२।३।३) (अर्थात्, हे भगवन् प्रापयतु भवान् न उत्कृष्टादुत्कृष्टतरं पदम्), “कृधी न ऊर्ध्वाञ्चरथाय जीवसे” (ऋ० १। ३६।१४) (अर्थात्, भगवन्, विधेहि न उन्नतान् प्रगतिशीलांश्च जीवनयात्रायाम्) इत्यादिमन्त्रैःप्रगतिवादस्यैव गुणगानं क्रियते। वेदेष्वस्रकृद् गीयमान आशावादोऽपि वस्तुतः प्रगतिवादस्यैव रूपान्तरम्। स च जीवनस्य मुख्यं लक्षणम्।
नूतने जीवने प्रवेशानन्रमेतत्तावद्भवतु भवतां; प्रथमं कर्तव्यं यत्तर्कस्यैव ऋषेः साहाय्येन तात्त्विकदृष्ट्या आत्मपरीक्षणं विधाय विचारणीयं– किं वयमेव स्वयं रूढिवादेन ग्रस्ताः स्वकीयायाः शिक्षाया दीक्षायाश्च प्रवञ्चनापरा न भवाम इति। एवं खल्वाशावादस्य प्रगतिवादस्य चाधारेण, आर्यधर्मस्यादर्शाननुसरद्भिर्भवद्भिरभिनवसमाजस्य निर्माणे सर्वदैव प्रयत्नपरैर्भ-
वितव्यम्। सनातनः सार्वभौमश्च वैदिको धर्म इति वै मतमस्माकम्। परं तस्यैव समाजस्य, येनास्माकं घनिष्ठः संबन्धः, तस्यैव धर्मस्यादर्शानामाधारेणाभिनवनिर्माणमन्तरेण कथमिवतस्य धर्मस्य सार्वभौमता साधयितुं शक्यतेऽस्माभिः। स्वगृह एवोत्करबहुले कथमिव वयं परान् शुचितां स्वच्छतां वा उपदेष्टुं शक्नमः।
अतीतस्यैव चिराय गीतगानपरा वयमभूम। समयोऽयं भविष्यस्य गीतानां गानस्य। वास्तविकदृष्ट्या आदर्शो भविष्य एव तिष्ठति, नैवातीते। संभवति यदतीतस्य गीतगानेनास्माकं जीवनस्य मन्दायां गतौ किमपि परिवर्तनं न भवेत्। परं भविष्यस्य गीतगानमस्मदीयं जीवनं स्फूर्तिमयं करिष्यतीति नात्र संदेहः। “परिमितं वै भूतम् … अपरिमितं भव्यम्” (ऐ०ब्रा० ४। ६) (भव्यं भविष्यमित्यर्थः) कथनमेतत्सुतगं सत्यमेव। वस्तुतस्तु अतीतस्य महत्त्वं तावदेव यावत्तदस्माकं भविष्यस्य निर्माणे साहाय्यकृत्। श्रेयःप्रेयोमार्गयो रहस्यमस्मिन्नेव सिद्धान्ते निहितम्। यथा प्रेयोमार्गस्य संबन्धोऽस्माकं जीवनस्यातीतकालसंबन्धिनीभिर्भावनाभिर्भवति, तथैव श्रेयोमार्गस्य संबन्ध आदर्शैःसह विद्यते। वास्तविकोन्नते रहस्यं तूभयोरपि समन्वये सामञ्जस्ये च तिष्ठति।
मानवतायाः संमानो गौरवं च
आर्यधर्मोवैदिकधर्मो
वा वस्तुतः सनातनः सार्वभौमश्च मानवधर्म इति वा अस्माकं मतम्। अत एव विभिन्नकालीनै-
स्तत्तद्देशभवैश्च संप्रदायैर्मतैर्वा नैष एकस्यामेव तुलायां स्थापयितुं शक्यते। विश्वास एषोऽस्माकं न केवलं भावनामूलक एव, किन्तु पुष्टकारणेष्वेवास्याधारः। परं सनातनसावभौममानवधर्मस्य वैशेषिकं स्वरूपमेतदेव संभवति यत्तस्मिन् मानवताया उत्कृष्टपदं प्रति संमानस्य गौरवस्य च, तथा तां प्रति विशुद्धन्यायसत्ययोर्व्यवहारस्यापि स्थानं भवेत्। अस्माकं प्राचीनवाङ्मय एतदेव तथ्यम् ‘आनृशंस्यम्’ इति पदेनाभिव्यज्यते। परं खेदस्यायमवसरो यन् मनुष्यतां प्रति सम्मानगौरवभावनाभिः सहैव एतत्पदस्य प्रयोगोऽप्यस्मत्समाजेऽद्यत्वे प्रायेण विनष्टः।
“यथेमां वाचं कल्याणीमावदानि जनेभ्यः।
ब्रह्मराजन्याभ्यांशूद्राय चार्याय च स्वाय चारणाय च”
( यजु० २६।२)
संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
(ऋ० १०।१९१।२)
समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्॥
(ऋ० १०।१९१।३)
एतादृशीनामुदात्तभावनानांस्थानमद्यत्वे जातिगतानां वर्गतानां च स्वार्थानां परम्परागतेन पारस्परिकसंघर्षेण गृहीतमिव दृश्यते। संघर्षस्यास्य दुष्प्रभावेण जीर्णःशीर्णश्च भारतीयसमाजः पूर्वापेक्षयाप्यतितरां विषाक्त इव दृश्यते। धर्मस्यापदेशेन नो निम्नस्वार्थसाधनतत्परतया वैदिकधर्माभिमानी समाजो मनुष्यतां प्रति संमानगौरवयोमहतो लक्ष्याद्विमुखीभूतोलक्ष्यते। अत एव प्रायेणास्माकं कथनव्यवहारयोःपरस्परं सामञ्जस्यं न विद्यते। आर्यधर्मस्य दीक्षया दीक्षितानां भवतां स्नातकाना-
मेतत्कर्तव्यं भवतु यत्समाजादेनां विसंवादिनी प्रवृत्तिमपसार्य तस्य नूतनं निर्माणमेतादृशं विधेयं यत्तत्र प्रत्येको जनः स्वकीयानामीश्वरप्रदत्तशक्तीनां पूर्णविकासस्यावसरं लभते, समुचितस्यात्मसंमानस्य रक्षां च विधातु पारयते। एवं सत्येव समाजस्य प्रत्येकेा जन आत्मनस्तस्याङ्गत्वभावनायां गर्वमनुभवितुम्, समाजस्य सबलतां संपादयितुं च शक्नोति।
पूर्वोक्तसिद्धान्तस्य निश्छलभावेन स्वीकृतिमन्तरेण आत्मनोमिथ्यागौरवभावनयोपेता वयं, दलितसमाजस्य शिरसि केवलं मिथ्याश्वासनस्य हस्तं धारयित्वा, अथवा तस्य कर्णेषु ओंकारेण रहितानां सहितानां वा मन्त्राणामुच्चारणेन, एवं च दलितोद्धारकार्यमप्यात्मनोगौरवस्यैव साधनतामापाद्य, नैव तस्य समाजस्योद्धारं कर्त्तुं, न वा तमात्मसात्कर्तुं प्रभवामः; काममेतत्तेषां रोषाय भवेत्। दलितसमाजस्यात्मसात्करणेऽस्माकमसफलताया एतदेव मुख्यं कारणम्। परं ध्रुवं सत्यमेतद् यत्पूर्वोक्तसिद्धान्तस्य सर्वात्मना स्वीकारेण विना आर्यधर्मस्य सार्वभौमतायाः स्वकीयसमाजस्य हितसम्पादनस्य च वार्ता केवलमेकोऽनर्गलः प्रलाप एव। ईश्वरस्य शाश्वतनियमानां व्यतिक्रमेऽपि कुशलकामः केवलमात्मनः प्रतारणामेव करोति।
प्रियस्नातकाः,
सत्यसनातनार्यधर्मस्य प्राणदायिनः सन्देशस्य उपरिप्रदर्शितान् मौलिकान् सिद्धान्तान् मनसा वाचा कर्मणा च सर्वथा सत्यभावेनाङ्गीकारमन्तरेण तदाधारेण च भारतीयसमा-
जस्य नूतननिर्माणं विना तस्य धर्मस्य प्रकाशमानं स्वरूपं जगतः समक्षमाविष्कर्तुं न शक्नुमो वयम्। एतेषां सिद्धान्तानामङ्गीकारस्य नूतना दृढतमा प्रतिज्ञास्माभिरेवं क्रियताम्—
ओं “ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्।
ध्रुवासः पर्वता इमे” ध्रुवाः स्याम व्रते वयम् ॥
नूनमाशावादस्य वारिणा सिक्तः, प्रगतिवादस्य प्राणप्रदे प्रकाशे, आत्मसमीक्षणम्, सत्यनिष्ठा, तथा मानवतायाः समादरः– एतैः सुसेवित एवं अभिनवभारतीयसमाजपादपस्याङ्कुरो दृढमूलतामवाप्य कालक्रमेण पुष्पितः फलितश्च भवितुंशक्रोति।
वैदिकसाहित्यस्य पुनरुद्धारः
पूर्वोक्तान् सिद्धान्तानादर्शांश्च समाजस्य जनतायाश्च हृदयंगमतामापादयितुं मुख्यतमं साधनं हि वैदिकसाहित्यस्य पुनरुद्धारः सामान्यजनतायां च तस्य प्रचार एव विद्यते। निराशावादस्यादर्शहीनतायाश्च परिस्थितौ (वातावरणे वा) हि निर्मितं साहित्यमस्मत्समाजस्याकर्मण्यताया उत्साहहीनताया म्लानमुखताया दीनतायाश्च कारणम्। आशावादस्य प्राणसंजीवनरसेनापूर्णं वैदिकं साहित्यमेव ततोऽनार्यजुष्टाया अस्वर्ग्याया अकीर्त्तिकर्याश्चावस्थायास्तमुद्धर्त्तुमलम्।
परं वैदिकसाहित्यस्योद्धारो नहि वेदमहिम्नो गीतानां गानेनैव सेत्स्यति। तपस्विनः, त्यागिनः, प्रतिभाशालिनः, दृढनिष्ठाः, संशितव्रता विद्वांस एवैतत्कार्यं संपादयितुं समर्था भवितुमर्हन्ति।
अस्यां दिश्यस्माकं प्रयत्नोऽगण्य एव सांप्रतं यावत्। ततः परमात्मप्रवञ्चनं किं भवेत्?
अस्माकमभीप्सितन्त्वेतद् भवेत्, यथा हि खलु संप्रति शिक्षितसमाजस्य वार्तालापेष्वपि पश्चात्यशिक्षायाः प्रभावः प्रतिफलित इव दृश्यते, तथैव, ततोऽप्याधिकतरमेव अस्माकं समाज आबालवृद्धमापामरप्राज्ञमाराजरङ्कंच प्राणसंजीवन्या वैदिक विचारधारया प्रभावितो भवेत्, तद्द्वारा च तस्य जीवने कस्याप्यदृष्टपूर्वस्य नूतनज्योतिषः, नूतनप्रेरणायाः, नूतनपरिस्पन्दनस्य च स्पष्टश्चमत्कारो दृष्टिगोचरतामापद्येत। अस्माकं गृहेषु ग्रामेष्वपि च गीयमानानि गीतानि तामेव विचारधारां प्रकटीकुर्युः। एतस्य महतः स्पृहणीयस्य लक्ष्यस्य सिद्धिः कथं संभवतीति खलु गम्भीरं विचारमपेक्षते।
अन्ते प्रार्थ्यते खल्वस्माभिरखिलविश्वभावनो भगवान् तदध्यात्मबलं यतो वयं सत्यतया दृढभावनया च वैदिकसिद्धान्तानामनुसरणे समर्था भवेम।
ओं मा प्रगाम पथो वयम् ॥
(ऋ०१०।५७।१ )
-
*
ॐ
सं पूषन विदुषा नय यो अञ्जसानुशासति।
य एवेदमिति ब्रवत्॥(ऋ०६।५४।१)
शिक्षायामादर्शभावनाः4
देव्यः सज्जनाश्च!
आर्यमहाविद्यालयस्यास्य ‘रजतजयन्ती’ महोत्सवावसरे शिक्षासम्मेलनस्य सभापतिपदाय निमन्त्रितोऽहं नूनं विद्यालयाधिकारिणः प्रति कृतज्ञतामनुभवामि। राजकीयकार्याधिक्येनावकाशाभावेऽपि तेषां स्नेहाग्रहयोरनुरोधेनैव कार्यभारमिममहमङ्गीकृतवान्।
सदातन एव प्रश्नः शिक्षाविषयकः प्रत्येकस्य सभ्यदेशस्य प्रत्येकस्याः सभ्यजातेश्च पुरस्तात्। परमद्यत्वे तु संघर्षस्याशान्तेश्च वातावरणे चतुर्दिशं व्याप्ते, मनुष्यतया च पशुताया रूपे गृहीते स्रति सर्वत्रैव शिक्षाविषयिणी अन्तरवेक्षणप्रवृत्तिर्विशेषतो जागरितेव दृश्यते। अतश्चास्माकमपि कर्तव्यत्वेन समापतति
यत्खलु स्वकीयायाः सांप्रतिकशिक्षायाः पद्धतेरादर्शस्य च विवेचनं नाम।
शिक्षायाः प्रधानमुद्देश्यम्
शिक्षायाः प्रधानमुद्देश्यं किमित्येष वै मुख्यः प्रश्नः शिक्षाविषये। नूनंतदेतादृशं भवेद् येन मनुष्यस्य प्रवृत्तिर्मनुष्यत्वाभिमुखी न तु पशुत्वाभिमुखी जायेत, यच्च मनुष्यस्य पशुभ्यः पृथक्तायाः साधनीभूतानां दैवीनां सात्त्विकीनां च प्रवृत्तीनां प्रोत्साहनाय, नतु पाशवीनामासुरीणां च प्रवृत्तीनामुत्तेजनाय, स्यात्। नैतद् विशेषविवरणमपेक्षते यन्मनुष्यः खलु स्वभावत एव दैवीभिरासुरीभिश्च प्रवृत्तिभिरुपेतो विद्यते। तथापि मनुष्यतायाः कृते आवश्यकमेतद् यन्मनुष्यः स्वकीयनिम्नप्रवृत्तीनां दमने शक्तो भवेत्। इममेवार्थं भगवद्गीता एवमाह—
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।
(१६।६)
दैवी संपद्विमोक्षाय निबन्धायासुरी मता।
(१६,५) इति।
शिक्षाया उपर्युक्तस्य वास्तविकस्य स्वरूपस्योपेक्षा वै साम्प्रतं संसारव्यापिनः संघर्षस्याशान्तेश्च मुख्यं कारणम्। कर्तव्याकर्तव्यबुद्धेरपेक्षां विनैव, कथमपि स्वार्थसम्पादनस्य शक्तेरर्जनमेव शिक्षाया उद्देश्यमित्येव प्रायेण लोको मन्यते। एतादृश्या भावनाया आधारेण गृहीता शिक्षा कामं धनबलयोः प्राप्तेःसाधनं
भवतु; परन्तु नहि मनुष्यस्तदद्वारा वास्तविकदृष्ट्या सामाजिकीं वैयक्तिकीं वा शान्तिमाप्तुं शक्नोति। तद्भावभावितो हि नरः सत्यस्य, आत्मसंयमस्य, स्वदेशस्य, स्वधर्मस्य, स्वजातेः, स्वसंस्कृतेश्च गौरवमयीर्भावना उपेक्ष्य परेषां चाटुकारितां प्रवञ्चनां चाप्यङ्गीकरोति। अत एव शिक्षाया मौलिकं लक्ष्यमस्मन्मत एतदेव यत्तद्द्वारा मनुष्ये स्वकीयजीवनस्यादर्शभावनायाः कर्तव्यबुद्धेर्वोद्बोधनं भवेदिति। “धियो यो नः प्रचोदयात्” (यजु० २२।९), “यां मेधां देवगणाः पितरश्चोपासते। तया मामद्य मेधयाग्ने मेधाविनं कुरु स्वाहा॥” (यजु० ३२।१४) इत्यादिवैदिकमन्त्रेषु बुद्धिविषयिण्या प्रार्थनया उपर्युक्तादर्शभावना कर्तव्याकर्तव्यबुद्धिरेव वाभिप्रेयते। तस्या एवा दर्शभावनाया निदर्शनमस्माकम्
अग्नेनय सुपथा राये… युयोध्यस्मज्जुहुराणमेनः।
(यजु०४०।१६)
(अर्थात्, भगवन्! वास्तविकैश्वर्यस्य प्राप्त्यै प्रेरय नः सत्यस्यः मार्गेण गमनाय, आत्महानिकरं पापं चारमत्तो दूरीकुरु),
विश्वानि देव सवितर्दुरितानि परासुव।
यद्भद्रं तन्न आ सुव॥
(यजु०३०।३)
(अर्थात्, हे देव सवितः! अस्माकं पापान्यस्मत्तो दूरे गमय। यच्च कल्याणं तदस्मानागमय)
इत्यादिवैदिकप्रार्थनासु दृश्यते।
आदर्शभावनाया उद्बोधनं वै निखिलसात्त्विकप्रवृत्तिषु प्रगति-
शीलनूतनतायाः समुत्पत्तेः कारणम्। आदर्शभावनायाः प्रकाशे हि मनुष्यस्वभावस्य निम्नप्रवृत्तीनां विद्यमानता नैव संभवति। ‘शनैः शनैः स्वयमेव ता विलीनतामुपयान्ति। आदर्शहीनं जीवनं हि अन्धकारे यात्रया समानं यस्यामवस्थायां मनुष्यः, प्रगतेस्तु का कथा, स्वजीवनस्यापि रक्षायामसमर्थो भवति।
आदर्शभावनैव, व्यक्तेः समाजस्य च दृष्ट्या, जीवने वैषम्यस्य “घातकद्वन्द्वानां वा अभावस्य स्पृहणीयाया अवस्थायाः प्राप्तेः साधनम्। एतस्या एवावस्थाया नामान्तरं वर्णाश्रमव्यवस्थेति नः प्राचीनशास्त्रेषु प्रसिद्धम्। यथा हि खलु व्यक्तेः समाजस्य च पारस्परिकद्वन्द्वस्य समाधानं वर्णव्यवस्था, एवं वै मनुष्यस्य विभिन्नानां तात्कालिकीनामैन्द्रियकाणां च प्रवृत्तीनां सामञ्जस्येन प्रगतिशीलतासंपादनमेवाश्रमव्यवस्था।
व्यक्तेः समाजस्य च व्यक्तिगतविरुद्धप्रवृत्तीनां च घातकद्वन्द्वं कस्याविदितं मनीषिणः। नूनं तस्य परस्परोन्नायकस्य जीवनप्रदसमन्वयस्य व्यवस्थायाश्च रूपेण परिवर्तनं महानादर्शः। तस्यैव महत आदर्शस्य प्राप्तेरात्मनि योग्यतासम्पादनं वास्तविकी द्विजत्वप्राप्तिः। एतस्या एव द्विजत्वप्राप्तेरुद्देशेन गुरुणोपनीता बालकाः प्राचीनकाले गुरुकुले निवासं चक्रुः।
शिक्षायां सामाजिकी दृष्टिः
अतश्च समष्टिदृष्ट्या समस्तस्य समाजस्य जातेः राष्ट्रस्य वा हितभावनयैव शिक्षाया मौलिकेन लक्ष्येण भवितव्यम्।
शिक्षाद्वारा भावनायामेतस्यां प्रबुद्धायां लब्धभूमिकायां शिक्षितो जनः कस्यामप्यवस्थायां वर्तमानः—सोऽध्यापको वैद्यो विधि (= Law) जीवी व्यवसाये रतो वा भवतु, अन्यो वा कश्चित्—देशस्य समाजस्य जातेर्वा हितं न कदाचिदुपेक्षितुं प्रभवेत्। वैदिकविवाहसंस्कारे ‘राष्ट्रभृद्’आहुतिभिर्वधूवरयोरेषैव राष्ट्रहितभावना दृढीक्रियते। तासामाहुतीनामेष एवाभिप्रायोयत्ताभ्यां प्रतिज्ञातव्यं यत्तयोर्वैवाहिकजीवनस्य लक्ष्यं राष्ट्रहितस्य संपादनमेव भवेदिति।
साम्प्रतिकभारते विभिन्न सामाजिकवैषम्यैः परम्परागतैर्मिथ्यास्वार्थैरनुदारभावनाभिश्च अस्माकमार्यजातौ विशृङ्खलितायाम्, जगति सर्वत्रापमानभाक्ष्वपि स्वसमाजे पुनः निःसारनीचोच्चदुर्भावनाभिरभिभूतेष्वस्मासु, राष्ट्रं समाजं च प्रति समष्टिरूपेण हितभावनाया उद्बोधनस्य महती आवश्यकतेति कस्य तिरोहितं विपश्चितः। अतश्चास्माकं शिक्षासंस्थाभिः स्वकर्त्तव्यत्वेन सर्वतः प्रथममेतद्विचारणीयं यत्कथं नु भारतीयेषु नवयुवसु समस्तं समाजं जातिं राष्ट्रं च प्रति सत्या हितभावनोद्बोधयितुं शक्यते, कथं तेषु एकस्या भारतीयजातेर्गर्वः, यावद्भारतीयम् (भारतीयमात्रे) अकृत्रिमः प्रेमा संपादयितुं शक्यते, कथं च परम्पराप्राप्तानामनुदारभावनानां विनाशकारिप्रभावात्तेषां रक्षा संभवतीति।
समष्टिदृष्ट्या शिक्षाया महत एतस्यादर्शस्यावहेलनया, लघ्वतिलघुसमाजेष्वेव मिथ्याजातिबुद्धिमाधाय तेषामेव हित
साधनं च प्रायेणात्मनोलक्ष्यत्वेन गृहीत्वा इयमस्माकं विश्वविजयिनी आर्यजातिः परःशतेभ्यो वर्षेभ्यः परेषां धिक्कारन्यक्कारयोः पात्रं घोरमपमानमसहिष्ट। तेषामेव कुसंस्काराणां विषमयी आत्मघातिनी प्रवृत्तिरद्यापि तां न मुञ्चति। तस्यैवैष प्रभावो यत्साम्प्रतिकशिक्षादीक्षिता अपि बहवः प्रायेण तस्मिन्नेव कर्दममये कच्छे पतिता इव दृश्यन्ते। एष एव विषमयः प्रभावो हिन्दुसमाजं जीर्णं शीर्णंच विदधाति। तस्य च दुष्परिणामः समस्तेन देशेन सुतरामनुभूयते।
शिक्षायां वैयक्तिकी दृष्टिः
व्यक्तिगतजीवनदृष्ट्यापि शिक्षाद्वारा आदर्शभावनाया उद्बोधनस्य सुतरामावश्यकता। व्यक्तिभिरेव समाजस्य निर्माणं भवति। एकैकया इष्टकया हि महान्तः प्रासादा निर्मीयन्ते। अतः शिक्षायाः साक्षादुद्देश्यं तु व्यक्तिगतपरिष्कार एव। शब्दान्तरे, एतदेव ‘चरित्र निर्माणम्’ इति व्यपदिश्यते।
किं पुनश्चरित्रनिर्माणमिति चेत्, उच्यते। मनुष्ये स्वजीवनस्यादर्शस्य पूर्णं परिज्ञानम्, तस्मिन्नादर्शे निष्ठाविश्वासयोः सद्भावः, किं च तस्यादशंस्य प्राप्तावनुषक्तिः पालने दृढता चेत्येतदेव चरित्र निर्माणमिति मन्तव्यम्। अस्माकमादर्शेषु कार्येषु च यद्येकवाक्यता सामञ्जस्यं च न विद्यते, अस्माकमुपदेश आचारे च यदि विरोधो दृश्यते, यद्यल्पीयसाऽपि बाह्येनाभ्यन्तरेण वा
प्रलोभनेन, आलस्येन, संकटेन वा स्वकीयादर्शेभ्यो विचलिता वयं भवामस्तर्हि अस्माक शिक्षायाः किं मूल्यं कश्चोपयोगः?
प्रायेण न विदितमेतद्भवेद् बहूनां यत्प्राचीने भारतीयवाङ्मये जीवात्मनोऽप्यर्थे ‘इन्द्र’ शब्दः प्रयुज्यत इति। तदर्थकादेवेन्द्रशब्दाद्’इन्द्रिय’ शब्दस्य व्युत्पत्तिः। तथा च पाणिनीयं. सूत्रम् “इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमितिवा” (५। २।९३)। एतस्यायमेवाभिप्रायो भवेद् यत्स्वकीयबाह्याभ्यन्तरपरिस्थित्योर्विजय एव मानवस्य प्रथमं लक्ष्यमिति। परिस्थितीनां विजयस्य प्राप्त्यैप्रयत्न एव वास्तविकी तपस्या। “मह्यं नमन्तां प्रदिशश्चतस्रः” (ऋ० १०।१२८।१) इत्यादिश्रुतीनामप्येतदेव हार्दम्।
वैदिकविवाहसंस्कारे सामाजिकादर्शभावनायाः सद्भावविषय उपरिष्टादुक्तमस्माभिः। तद्वदेव वैयक्तिकदृष्ट्यापि आदर्शभावनामभिलक्ष्यैव तस्मिन् संस्कारे ‘जया’ख्या आहुतयोविधीयन्ते। शारीरिकमानसिकादिशक्तिभिः संपन्नस्य दृढव्रतस्य सत्यनिष्ठस्य च जनस्य समक्षं जीवनस्य सर्वविधा बाधा नतशिरस्का जायन्त इत्येतमेवार्थं वधूवरौ बोध्येते ताभिराहुतिभिः। स्पष्टमेव चायमर्थस्तत्र
प्रजापतिर्जयानिन्द्रायवृष्णे
प्रायच्छदुग्रः पृतनाजयेषु।
तस्मै विशः समनमन्त सर्वाः
स उग्रः स इ हव्यो बभूव॥
(जयान् = जयसाधकान् मन्त्रान् विजयान्वा। पृतनाजयेषु = विरोधिशक्तीनां जयनिमित्तेन। इन्द्राय वृष्णे = विजयशीलाय शक्तिसंपन्नाय जनाय। प्रायच्छत् = प्रयच्छति।इ = च। हव्यः स्तुत्यः ) इत्यस्मिन् मन्त्रेप्रतिपाद्यते।
सामाजिकजीवनं वस्तुतः समुन्नतं विधातुमस्माकं व्यक्तिगतजीवने पवित्रता, सत्यता, कर्तव्यपरायणता इत्यादिगुणानां सद्भावस्यात्यन्तमावश्यकता। सा चैषाद्यत्वेऽदृष्टचररूपेणातिमहती। अस्माकं सामाजिकजीवने तदाधारभूतानामेषामुदात्तगुणानां कियती आवश्यकता विद्यते कियच्चोत्तरदायित्वं तद्विषयेऽस्माकं शिक्षितानामित्यन्तरवेक्षणेन सर्वैरस्माभिरनुभवितुं शक्यते। एतेषां गुणानां विषये हि ग्रामीणाया अशिक्षितायाश्चा जनताया मार्गप्रदर्शनमस्माकं कर्तव्यमासीत्। तत्स्थाने तत्प्रतिकूलमेवोदाहरणमुपस्थाप्यतेऽस्माभिः। तदेतद् दौर्भाग्यमस्मद्देशस्य।
शिक्षायां वैयक्तिकदृष्टया आदर्शभावनायाश्चरित्रनिर्माणस्य च याथातथ्येन लक्ष्यीकरणेनास्माकं गृहाण्येव शिशूनां कृते शिक्षामन्दिराणां स्थानं ग्रहीतुंशक्नुवन्ति। तस्यामवस्थायां देशस्य समक्षमुपस्थितस्य शिशुशिक्षालयानां ‘मान्टेसरी’ प्रभृतिपाठशालानां वा विषये आवश्यकस्य प्रश्नस्य प्रायेण बहुतिथं समाधानं स्वत एव संजायते। वास्तविकशिक्षामवाप्तवतोर्मातापित्रोः सम्पर्के गृहस्य पवित्रे वातावरणे वसतां शिशूनां कोमलहृदयेषु सच्चरित्रताया देशभक्तेश्च स्थायिन्याः शिक्षायाः सुखेनैव बीजारोपणं भवितुम-
र्हति। “मातृमान् पितृमानाचार्यवान् पुरुषो वेद” (अर्थात्, मनुष्यस्य वास्तविकी शिक्षा प्रशस्तेषु मातापित्रोराचार्ये चायत्ता भवति), “पितुर्दशगुणं माता गौरवेणातिरिच्यते” (अर्थात, बालकस्य शिक्षायां पितुरपेज्ञया मातुरत्युत्कृष्टंस्थानं वर्तते) एतेषां वैदिकादर्शानां सत्यता महत्ता च, शिक्षायां वैयक्तिकादर्शभावनायै चरित्रनिर्माणाय च समुचितस्थानस्य दानेन विना, नैवानुभवितुं शक्यतेऽस्माभिः।
अतश्च भवत्वस्माकं बालकानां कीदृश्यपि विशिष्टा शिक्षा, परं शिक्षाया वास्तविक्याः सफलातायाः कृते आवश्यकमेतद् यत्तेषां शिक्षायां सामाजिकदृष्ट्या वैयक्तिकदृष्ट्या च उपरिनिर्दिष्टानामादर्शभावनानामुद्बोधनस्य समुचितेन स्थानेन भाव्यमिति। वस्तुतः शिक्षाया इयमेव मौलिकीभित्तिः।
जनतायाः शिक्षायामाश्रमाणां स्थानम्
शिक्षाया; दृष्टिकोणे पूर्वोक्तस्यापेक्षितपरिवर्तनस्य प्रश्नेन सहैव, जनतायां शिक्षायाः प्रसारस्यापि प्रश्नो देशस्य सम्मुखे विद्यते। कस्यैतदविदितं यदन्येषामुन्नतदेशानामपेक्षया भरतीयजनता शिक्षाविषये नितरामनुन्नता। साम्प्रतं हि सा शताब्दीभ्यः समागतेन घोरेणाज्ञानेन अन्धविश्वासैश्चग्रस्ता समन्ताद् दृश्यते। तस्याश्च नेतृत्वं तेषां स्वार्थिनां जनानां हस्ते वर्तते यैश्चिरादेव तस्याः श्रद्धालुताया अन्धभक्तेश्च प्रायेण दुरुपयोग एव कृतः। न तस्यामेकजातीयताया भावः, नापि जीवनप्रदानां धार्मिकविश्वा-
स्रानां समानता समुपलभ्यते। अत एव देशस्य जातेश्च बलशक्त्योः प्रवृद्धौ सहायतायाः स्थाने सा केवलं तयोः कृते भारभूतैव। वास्तविक दृष्ट्या शिक्षायाः प्रसारेणैव एषा दुरवस्थापनेतुंशक्यते।
अत्र विषये आश्रमाणां प्राचीनप्रणाल्याः पुनः प्रवर्तनेन महत्साहाय्यमाप्तं शक्यत इति नः प्रतिभाति। शिक्षाप्रमारस्य यानि साधनानि अद्य यावदस्माकं सम्मुखं वर्तन्ते प्रथमं तु तान्यपर्याप्तान्येव जनतायां शिक्षाप्रसारणाय; द्वितीयम्, यथोक्तमुपरिष्टात्, साम्प्रतिकशिक्षापद्धतौपूर्वोक्ताया आदर्शभावनाया उद्बोधनस्य नहि तत्स्थानं यदभीष्टमावश्यकं वा विद्यते। अत एव प्राचीना या आश्रमप्रणाली सा जनतायां शिक्षायाः प्रसाराय न केवलं साहाय्यकारिण्येव किन्त्वावश्यकी अपोति प्रतीयते। समुन्नतदेशेषु यत्र शासनेन शिक्षायाः प्रयोजनार्थं कोटिकोटिधनस्य व्यय आवश्यकत्वेन मन्यते क्रियते च नैकाः शासनेनासम्बद्धाः संस्था अपि जनतायाः शिक्षणकार्ये महान्तं सहयोगं कुर्वन्तीति न भवेत् तिरोहितं विदुषाम्।
अत्रेदमवधेयम्। उपर्युक्तदृष्ट्या हि शिक्षायाः प्रयोजनार्थं केवलं पठनस्य लेखनस्य अथवा साक्षरताया नैवापरिहार्यं स्थानम्। नूनं तदुपयोगिता विद्यते; परं तावदेव शिक्षायाः सर्वस्वं प्रधानरूपं वेति न स्वीक्रियतेऽस्माभिः। जनतायाः शिक्षायां मौखिक्याः प्रायोगिक्या अथवा प्रात्यक्षिक्याः पद्धतेरपि अतीव महत्त्वमिति प्रायेणोपेक्ष्यते शिक्षाविशेषज्ञैरपि। अत एव नैके विषयाः, य एतया पद्धत्या सरलतयैव शिक्षयितुं शक्यन्ते, पुस्तक-
द्वारा पाठ्यमानाश्छात्राणां शिरःसु अनावश्यकं भारमारोपयन्ति। अर्थ दृष्ट्यापि अतीव व्ययसाध्यमेतत्। अद्यत्वे निर्धना अल्पवयस्काश्च छात्राः पुस्तकभारेणावनताः पाठशालायै गच्छन्तः कस्य विचारशीलस्य मनसि करुणां नोत्पादयन्ति। इंग्लैण्डप्रभृतिदेशेषु पुनरुपर्युक्तपद्धतिविषयकसिद्धान्तमनुसृत्यैव महतां संग्रहालयानां प्रदर्शनागाराणां चोपयोगो जनताया मनोरञ्जनेन सहैव शिक्षणार्थमपि क्रियते। एतदर्थमेव तेषु स्थानेषु नैकेषां व्याख्यातॄणां नियुक्तिस्तत्रत्यवस्तूनां स्वरूपादेर्ज्ञानं साधारणजनताया भवेदित्यभिप्रायेण क्रियते। ते हि तत्र तत्र प्रकोष्ठे गत्वा विविधवस्तूनां स्वरूपं जनतामवबोधयन्ति। ‘रेडियो’ (आकाशवाणी) ‘सिनेमा’ (चलच्चित्रप्रदर्शन) संस्थयोरपि एतदुद्देश्येनैव महानुपयोगः सफलतापूर्वकं तत्र क्रियते। अस्मद्देशेऽपि पण्डिताः साधवः संन्यासिनश्च कथावार्त्तोपदेशप्रभृत्युपायैर्जनतायाः शिक्षणे महत् कार्यं चिरादेव कुर्वन्तः कस्याविदिताः। सा पद्धतिरद्यत्वे विकृतैवेति अन्यदेतत्। उपर्युक्तपद्धत्या साधारणजनस्य शिक्षार्थमेव पुराणानां निर्माणमासीदित्यसकृच्छास्त्रेषु प्रतिपाद्यते
परं भारतस्य प्राचीनकाले देशे यत्र तत्र स्थिता ऋषीणां मुनीनां चाश्रमा महत्या सफलतया जनतायाः शिक्षणे सहयोगं ददति स्मेति श्रायेण न ज्ञायते लोकैः। तपस्यासंतोषात्मसंयमपरोपकारविद्योपार्जनादीनामुच्चपवित्रवातावरणस्य हेतोर्जनतायामेनानाश्रमान् प्रति अतीवाकर्षणं स्वाभाविकमेवासीत्। एवं
राजभिः प्रजाभिश्च समादृतास्त आश्रमास्तस्मिन्काले जनतायाः शिक्षणविषय उत्कृष्टविद्यालयानां स्थानीया आसन्।
अस्मन्मत आर्यप्रतिनिधिसभासनातनधर्ममहासभासदृशीनां लोकशिक्षणरतानां संस्थानां साधूनां संन्यासिनां चैतत् कर्तव्यं यत्सामान्यजनतायाः शिक्षणस्योद्देश्येन, तां शताब्दीनामज्ञानस्यान्धविश्वासानां च गर्तादुद्धर्तुम्, तस्यां धर्मानुरागस्य एकजातीयतायाश्च भावानामुत्पत्तये, प्रत्येकमण्डले न्यूनाद् न्यूनमेकस्याश्रमस्य स्थापनायै कापि योजना प्रस्तुतीक्रियताम्। एवं च यावद्देशमाश्रमाणामेका परम्परा विस्तृता भवितुमर्हति।
एतेषामाश्रमाणां च कार्यकर्तारः संचालका वा परोपकारैकव्रता देशभक्ता धर्मात्मानस्तपस्विनो विद्वांसश्च वानप्रस्थाः संन्यासिनो वा भवेयुः। तेषु जनताया आर्थिकधार्मिकाद्यावश्यकतानां परिज्ञानेन सहैव सेवाभावेन तस्या उत्थापनेऽनुरागोऽपि भवेत्। स्वस्थवृत्तस्य तथा “होमियोपैथी” सदृशसामान्यचिकित्सापद्धतेज्ञानमप्यावश्यकम्। अन्ततः स्वकीयसेवाभावेन, पवित्राचरणेन, निःस्वार्थजीवनेन च जनताया विश्वासभाजनतामवाप्तुं योग्यतापि तेषु भवेत्। तेषां कर्तव्यमेतद् भवेद् यत्ते कथावार्त्ताभिरुपदेशैः संस्कारैरन्यैश्चैवं जातीयैरुपायैर्जनतां शिक्षयेयुः, तस्या अन्धविश्वासानपनयेयुः, सर्वथास्वस्थसुन्दरसंपन्नसदाचरणयुक्तजीवनयापनस्य विधिमुपदिशन्तस्तस्यामुदात्तवैदिकभावनाश्च उद्बोधयेयुः।
स्पष्टमेतद् यदीदृशानां कार्यकर्तॄणां पवित्रजीवनं सततसंपर्कश्च यथा जनतामाकर्षितुं प्रभावितां च कर्तुं प्रभवति, नैव तथा ‘रेल’ द्वारा यत्र तत्र भ्रमणपराणां वैतनिकानामुपदेशकानाम्– येषां वास्तविकजीवनेन जनता नितरामेवापरिचिता—उपदेशा भाषणानि वा प्रभवन्ति। अस्मात्कारणादेव, एतादृशानामुपदेशकानां साहाय्येन जनतायां कासांचिदप्युच्चभावनानां प्रचारस्याद्यत्वे बहुधावलम्बितः प्रकारः प्रायेण निरर्थक एवेति नः प्रतिभाति।
खेदस्यायं विषयो यद् देशस्य धर्मस्य चोद्धारे तत्पराभिरपि संस्थाभिर्जनताया एवं शिक्षणस्य सांप्रतं यावत् प्रायेणोपेक्षैव कृता। अत एव सामान्यजनतायां तासां प्रभावः प्रायेणाभावेन सदृस एव। अत एव च भारतीयजनता अद्यापि शताब्दीनामज्ञानस्य अन्धविश्वासानां च गर्ते पतितैव दृश्यते।
आशास्यते यत्तादृश्यः संस्था अस्य प्रश्नस्य विषये गम्भीरभावेन विचारं करिष्यन्ति, तथा अस्माकं वानप्रस्थाश्रमाः, साधूनामाश्रमाः, गुरुकुलानि ऋषिकुलानि अन्याश्चैवंविधाः संस्थाःस्वस्थानानां समन्तान्निवसन्त्या सामान्यजनतया सह स्वसम्पर्कं संवर्धयितुम्, उपर्युक्तदृष्ट्या च तस्याः शिक्षणं स्वकार्यक्रमेण सह सम्मेलयितुं प्रयत्नपरा भविष्यन्ति।
संस्कृतशिक्षाया महत्त्वं तस्याः पद्धतिश्च
शिक्षाविषयकविचारप्रसङ्गे, विशेषतश्च एतादृशस्य महाविद्यालयस्य रजतजयन्त्युत्सवावसरे यस्य मुख्यमुद्देश्यं संस्कृतशिक्षण-
मेव विद्यते, संस्कृतशिक्षाया विषयेऽपि कश्चिद्विचारो नूनमावश्यक एव। नास्त्यत्र संदेहो यत्संस्कृतभाषैवास्माकं धर्मस्य संस्कृतेश्च मूलस्रोतः। किञ्च, संसारस्य विभिन्नवाङ्मयेषु संस्कृतवाङ्मयस्याप्रतिमं स्थानम्। अतश्च वेदादिशास्त्राणां ज्ञानप्राप्तये एकमात्रसाधनस्य संस्कृतस्याध्ययनमस्माकं मुख्यं कर्तव्यम्। एवंसत्यपि, सत्यमेतद् यज्जीवनस्य सभ्यतायाश्च अन्यान्यावश्यकतानां दृष्ट्या अस्माभिस्तत्तद्भाषाणां साहाय्येन तेषामन्यविषयाणामप्यध्ययनं विधेयं येषां ज्ञानं संस्कृतद्वारा न संभाव्यते। एतस्यामवस्थायां स्पष्टमेतद् यत्संस्कृतशिक्षणस्य सर्वेषां कृते कश्चित्समान एव पाठ्यक्रमोनहि शक्यते निर्मातुम्। व्यक्तीनामवरस्य परिस्थितेश्च भेदाद् रुचीनां वैचित्र्याच्च तस्मिन् पाठ्यक्रमे भेदोऽनिवार्य एव। तस्मिन् क्रमे मुख्यो भेदस्तु द्विविधानामधिकारिणां दृष्ट्या भविष्यति। प्रथमं तु तावत्तेऽधिकारिणो ये संस्कृते प्रगाढपाण्डित्यमधिगत्य अध्यापकवृत्तिं स्वीकृत्य एकान्तरूपेण तस्यानुशीलन एव जीवनं यापयितुमिच्छन्ति। द्वितीयाः पुनस्ते ये संस्कृतज्ञानोपार्जनं विधाय, यथासंभवं तस्य साहाय्येन, अन्यप्रकारिकामाजीविकां कर्तुमिच्छन्ति।
अस्मन्मते संस्कृतशिक्षणविषयेऽद्य यावत्कृतः प्रयत्न उपर्युक्तदृष्टिद्वयेनापि नैव संतोषावहः। प्रथमदृष्ट्या तावत् सत्यपि परीक्ष्यच्छात्राणां संख्यायां वृद्धौ पदवाक्यप्रमाणपारगाणां प्रौढपण्डितानां परम्पराद्यत्वे निस्संशयं जीवितसशयं प्राप्तेव दृश्यते। वेदब्राह्मणदर्शनधर्मशास्त्रज्यौतिषादिगम्भीरविषयाणामुत्कृष्टमध्यमनाध्यापनं
प्रायेण विलुप्तमिव नितरां कदर्थयति सचेतसां चेतांसि, किञ्च प्राचीनपरिपाटीमाश्रित्य संस्कृतपठनपाठनपरम्पराया निर्वाहकाः संस्कृतज्ञा विद्वांसोऽद्य यावत् भारतीयप्राचीनसाहित्यादिविषयकानुसंधानकार्ये न केवलमुदासीना एव, किन्तु बाहुल्येनापरिचिता अपि तस्य प्रक्रियया मौलिकसिद्धान्तैश्च। महता खेदेन सममेव गम्भीरविचारस्यायं विषयः।
द्वितीयदृष्ट्यापि संस्कृतशिक्षार्थं कृतानां प्रयत्नानां विषये गम्भीरतापुरस्सरं विचारस्यावश्यकता विद्यते। स्पष्टमेतद्यत्संस्कृतस्याधिकाधिकः प्रचारो जनतायामेतयैव दृष्ट्या निर्मितस्य पाठ्यक्रमस्य साहाय्येन संभवति। संस्कृतशिक्षाया आजीविकया संबन्धे स्थापित एव तत्संभवति। केवलं भावुकताया आधारेण संस्कृतशिक्षाया जनतायां सन्तोषावहः प्रचारः कदापि भविष्यतीति मनोरथमात्रम्। एतदेव कारणं यत्परःशतवर्षेभ्यो जनतया, द्विजातिभिरपि, संस्कृतस्य पठनपाठनं त्यक्तमासीत्। संस्कृत्पठनपाठने चिरादेव केवलं त एव प्रवृत्ता अभूवन् ये संस्कृतज्ञानसाहाय्येन पौरोहित्येन अध्यापकवृत्त्या वा स्वकीयजीविकामर्जितुमशक्नुवन्। शिक्षायामाजीविकादृष्टेरुपेक्षा नैव कर्तुं शक्यते। अतश्च यदि वयं जनतायां संस्कृतस्य प्रचारं वस्तुतोऽभिलषामस्तर्हितस्य पाठ्यक्रमस्या जीविकया सह संबन्धस्य स्थापनमपरिहार्यत्वेनावश्यकम्।
सामान्यरूपेण आयुर्वेदराजशास्त्रपौरोहित्यादिविषयाणां सरलतया संबन्धः संस्कृतशिक्षणेन स्थापयितुं शक्यते। एता-
दृशानां विषयाणां स्पष्टमुपयोगिता जीविकायै विद्यते। संस्कृतस्य विद्यालया अपि कष्टेन विनैव एतेषां पठनपाठनस्य प्रबन्धं कर्तुं शक्नुवन्ति। एतद्विहाय, कृषिः, व्यापारः, उद्योगः इत्यादिविषयाणां शिक्षार्थमपि प्रबन्धो यावच्छक्यं संस्कृतविद्यालयैर्विधीयताम्। परमेतस्य गम्भीरस्य विषयस्य वास्तविको विचार एतदर्थमेवायोजितासु विशिष्टासु विद्वत्परिषत्स्वेव सुतरां कर्तुं शक्यते। अत एव प्रस्तूयत आशास्यते चास्माभिर्यत् संस्कृतशिक्षणकार्यं कुर्वतीभिर्गुरुकुलऋषिकुलादिसंस्थाभिस्तादृशी काचित्स्थायिनी विदुषां शिक्षापरिषत् शीघ्रं स्थाप्येत यस्यां तत्तद्दृष्टिभिस्तत्तदनुभवानां चाधारेण संस्कृतशिक्षापद्धतेर्विषये परस्परं विचारविनिमयस्यावसरः प्राप्यते तदद्वारा चोक्तसमस्यायाः समाधाने समर्था वयं भवामः।
इति शम्
____
ब्रह्म वर्म ममान्तरम्
(अथर्व० १।१९।४)
वेदा अभिनवभारतं च5
मान्या विद्वद्वर्याः प्रियब्रह्मचारिणश्च,
नूनमभूतपूर्वोऽयं समयः संसारस्येतिहास। अदृष्टचरमहायुद्धकालरात्रि संत्रस्तमखिलं जगद् भूयः शान्तिप्रभातमुपस्थितप्रायमभिमन्यमानंनूतननूतनाभिराशाभिः साश्वासमुच्छसदिव प्रतीयते। “जिव्री युवाना पितराकृणोतन’ (ऋ० १।११०।८) इत्यनुसारं जराजीर्णस्य भारतवर्षस्यापि कायकल्पेनाभिनवोकरणस्य चिराय सोत्कण्ठमुदीक्षितः कालः समासन्न इव। तदस्मिन्नभिनवे भारते भारतीयसंस्कृतेः प्रधानस्रोतसां वेदानां केन स्थानेन केन चोपयोगेन भवितव्यमित्येवाद्य प्राधान्येन वैदिकसाहित्यसमुद्धारार्थं संस्थापितस्यास्य विश्वविद्यालयस्य सरस्वतीसम्मेलनस्यावसरे किञ्चिद्विचार्यते।
कस्याप्यर्थस्योपादेयता तदुपयोगितामपेक्षते। उपयोगिता चोपादातुरादर्शानुगामिनीरावश्यकता अनुसरति। एतन्न्यायानुसारमभिनवभारतस्यादर्शानामावश्यकतानां चानुकूल्येनैव वेदा-
नामुपयोगितायाः स्थितेश्च स्वरूपविनिर्णयः कर्तुं शक्यत इति तां विधामाश्रित्यैव प्रकृतो विषयोऽद्य प्रपञ्चयिष्यते।
वेदानां स्थितेः सिंहावलोकनम्
तत्रादौ वेदानामद्य यावत्स्थितेः किञ्चित्सिंहावलोकनमपेक्षितम्। तच्च क्रमिककालभेदेन प्रदर्श्यते।
प्रथमः कालः
प्रथमं तावदायाति साक्षात्कृतधर्मणामृषीणां कालः। अस्मिन्हि काले वेदप्राणानां तेषां जीवनचर्यातो नितरामभिन्नैव वेदानां स्थितिरासीत। अयातयामानि हि वै तदा छन्दांसि बभूवुः। अग्निवाय्वादित्यादिदेवानां यदपि दार्ष्टिविषयिकं कर्म, यच्चापि मनुष्यस्याध्यात्मिकं वृत्तं तदेव वेदानां प्रत्यक्षरूपत्वेन व्याख्यारूपत्वेन वा मन्यते स्म। किं बहुना, “वेदा जीवनं, जीवनं च वेदाः” इत्येव तेषाममायिनामृषीणां साक्षात्कृतधर्मतायाः स्वरूपमासीदिति प्रतीयते। अयमेवार्थः"अग्निवायुरविभ्यस्तु6 इति नैरुक्तसिद्धान्तविधया सर्वासामपि वैदिकमन्त्रैः स्तूयमानानां देवतानामग्न्यादित्रय एवान्तर्भावोऽवगन्तव्यः। शतपथब्राह्मणम् (११।५।८।१-३)अप्यत्रानुसंधेयम्।”) त्रयं ब्रह्म सनातनम्।
दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम्।” इत्यादिवचसां संगच्छते।
द्वितीयः कालः
ते पुनः साक्षात्कृतधर्माण ऋषयोऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्संप्रादुः। चिराय स्वल्वेषोपदेशपरम्परा प्रववृते। एतन्मूलकमेव वेदानां श्रुतिरित्यपि नामान्तरम्। तस्या मन्त्रोपदेशपरम्पराया निर्वाहकेषु ये सत्त्वसंपन्नाः प्रज्ञावैशारद्यविशिष्टा यथानियमं वेदाभ्यासनिरता आसंस्तेऽर्थानुसन्धानपूर्वकमेव मन्त्रान्याज्ञिके कर्मकलापे प्रयुञ्जाना अथवा मन्त्रार्थाननुसृत्यैव श्रौतकर्माणितन्वानाः7 इत्युपनिषदप्येतमेवार्थं ब्रवीति । (त्रेतायां त्रयीसंयोगभूतायां होत्राध्वर्यवौद्गात्रप्रकारायामिति तट्टीका)")साक्षात्कृतधर्मताया आदर्शस्यैव यथासंभव संरक्षणार्थमयतन्त।
अस्मिन् हि काले मन्त्रार्थानाश्रित्य गौणरूपेणैव कर्मकाण्डस्य प्रवृत्तिरासीत्। तदानुकूल्येनैव च तस्मिन् क्रियमाणे कर्मकाण्डस्य साफल्यममन्यत। अत एव “एतद्वै यज्ञस्य समृद्धं यद् रूपसमृद्धं यत्कर्म क्रियमाणमृग् यजुर्वाभिवदति ” (नि० १।१६ ), “अधेन्वा
चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम्” (ऋ० १०।७१।५.), “सर्वा विशः कल्पन्ते, कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते ‘यत्रैवं विद्वान् होता भवति” ( ऐ० ब्रा० १।९ ), “वाचा च हि मनसा च यज्ञो वर्तते” (मननं मनोज्ञानमर्थावबोध इत्यभिप्रायः। ऐ० ब्रा० ५।३३) इत्यादिश्रुतिषु अर्थज्ञानपूर्वकमेव मन्त्राणां कर्मसूपयोगः श्रेयसे कल्पत इत्ययमेवार्थः सुबहुशः प्रतिपाद्यते।
किञ्च, गौणत्वेन प्रवृत्तस्यापि कर्मकाण्डस्यास्मिन् काले सार्थक्य” वैदिकादात्तभावनानां निर्वाहकत्वेन तद्द्वारा जनताया राष्ट्रस्य च समुन्नतेः खाधनत्वेनैव मन्यते स्म। ‘न वा अरे कर्मकाण्डस्य कामाय कर्मकाण्डं प्रियं भवति, जनताया राष्ट्रस्य तु कामाय कर्मकाण्डं प्रियं भवति’ इतीव तात्कालिकः सिद्धान्त आसीत्।
तात्कालिकीनामुदात्तभावनानामुदाहरणानि कर्मकाण्डविधायकेषु ब्राह्मणादिग्रन्थेष्वेव प्रायेणोपलभ्यन्ते। तद्यथा—
ईश्वरो हास्य वित्ते देवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति (ऐ० ब्रा० ३।४८)। स्वीयवर्तमानावस्थायामसन्तुष्टो यः समुत्कृष्टतरावस्थाया अवाप्तये यतते तस्यैव देवाः सहाया भवन्तीति भावः।
नानाभान्ताय श्रीरस्तीति रोहित! शुश्रुम।
पापो नृषद्वरो जन इन्द्र इच्चरतः सखा॥चरैवेति।
(ऐ० ब्रा० ७।१५)
चरन्वै मधु विन्दति चरन्स्वादुमुदुम्बरम्।
सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरन्॥
चरैवेति।
(ऐ० ब्रा० ७।१५ )
भद्रादभि श्रेयः प्रेहि (ऐ० ब्रा० १।१३)
मङ्गलादुत्कृष्टतरं कल्याणमाप्नुहीत्यर्थः।
तस्मादाहुर्न सायमतिथिरपरुध्य इति (ऐ० ब्रा० ५।३०)। अपरुध्यो निराकरणीयः।
राष्ट्राणि वै विशः (ऐ० ब्रा० ८।२६)। जनताया उन्नत्यवनत्यनुगामिन्यौवै राष्ट्रस्योन्नत्यवनती भवत इत्यर्थः।
ब्रह्म च क्षत्रंच संश्रिते (ऐ० ब्रा० ३।११ )। संश्रिते परस्पराश्रिते इत्यर्थः।
ब्रह्मणि खलु वै क्षत्रं प्रतिष्ठितम्। क्षत्रे ब्रह्म (ऐ० ब्रा० ८।२)
तृतीयः कालः
परं कालान्तरेण “अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्” इत्युक्त्यनुरूपं सर्वमेव पूर्वोक्तं विपर्यस्तम्। तथा च मन्त्रोपदेशपरम्परानिर्वाहका एव क्रमशः “आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति” इत्यनुसारमालस्यादिदोषोपहताः प्रज्ञामान्द्यहेतोर्मन्त्रार्थज्ञानाय ग्लायन्तः, स्थाणव इव केवलं भारहाराः सन्तः, “अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम्” (ऋ० १०।७१।५) इत्येवं मायिनो हठान्निगदवादिनो याज्ञिकत्वाभिमानिनः संवृत्ताः। “अनर्थका हि मन्त्राः।” (निरुक्ते १।१५), “मन्त्राश्च कर्मकरणाः” (आश्व० श्रौ० सू० १।१।२१ ) इति वै तेषां सनिर्बन्धमाघोषितः सिद्धान्तः
“यद् गृहीतमविज्ञातं निगदेनैव शब्द्यते। अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्”, ‘अर्थज्ञानं विना हि प्रयुक्ता मन्त्ररूपा वागसुर्येत्यभिधीयते नैव च सा स्वाभीष्टानर्थान्दुग्धे’ इत्येवंशतशः स्पष्टमर्थज्ञानमहिम्नः प्रतिपादकेषु प्रमाणेषु विद्यमानेष्वपि मन्त्रानर्थक्यप्रतिपादनपर एष सिद्धान्तो नूनं लोकप्रतारणार्थं स्वार्थसाधनतत्परैः स्वकीयाज्ञानप्रच्छादनबुद्ध्यैव प्रवर्त्तित आसीदिति प्रतीयते। अर्थज्ञाननिरपेक्षो हि अज्ञो लोकः सुखं शब्दप्रमाणजालैर्निगडयितुं शक्यते। मन्त्रार्थानभिज्ञा ऋत्विजस्तस्करा इव यजमानस्य वित्तमादाय द्रवन्ति तं च पापगर्ते प्रक्षिपन्तीति सार्वजनीनः सार्वभौमश्च सिद्धान्तः श्रुतावेवासकृत्स्पष्टं प्रतिपादितो विद्यते तथा चैतरेयिणां श्रुतिः—
यथा ह वा इदं निषादा वा सेलगा वा पापकृतो वा वित्तवन्तं पुरुषमरण्ये गृहीत्वा कर्तमन्वस्य वित्तमादाय द्रवन्त्येवमेव त ऋत्विजो यजमानं कर्तमन्वस्य वित्तमादाय द्रवन्ति यमनेवंविदो याजयन्ति (ऐ० ब्रा० ८।११)।
सेलगाश्चौराः। कर्तमन्वस्य गर्तेप्रक्षिप्येत्यर्थः।
किञ्चावर्ज्यानृत्विजः, ऋत्विजां कर्तव्यं च प्रतिपादयन्ती सैव
श्रुतिराह—
त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तम्। तद्धैतदेव जग्धं यदाशंसमानमार्त्विज्यं कारयत उत वा मे दद्यादुत वा मा वृणीतेति। तद्ध तत्पराङेव यथा जग्धम्। न हैव तद्यजमानं भुनक्ति। अथ हैतदेवं गीर्णं यद्बिम्यदार्त्विज्यं कारयत उत वा मा न बाधेतोत वा मे न यज्ञवेश-
सं कुर्यादिति। तद्ध तत् पराङेव यथा गीर्णम्। न हैव तद्यजमानं भुनक्ति। अथ हैतदेव वान्तं यदभिशस्यमानमार्त्विज्यं कारयते। यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एवं तस्माद्देवाः। तद्ध तत्पराङेव यथा वान्तम्। न हैव तद्यजमानं भुनक्ति। स एतेषां त्रयाणामाशां नेयात् (ऐ० ब्रा० ३.४६)
पराङ् निकृष्टम्। यज्ञवेशसं यज्ञविघातम्। अभिशस्यमानः। योऽयथाचारेण सर्वैर्निन्द्यते। नूनमेषा श्रुतिः सदसद्विवेकपराङ्मुखान् धनार्जनलम्पटान्परवञ्चकानृत्विज एवाभिलक्ष्यीकृत्य प्रवृत्ता।
अस्मिन् हि काले कर्मसु प्रयुक्तमन्त्राणामर्थज्ञानस्योपेक्षया शुष्ककर्मकाण्डस्यैव प्राधान्यंतत्र प्रयुज्यमानमन्त्राणां च गौणत्व सप्रयत्नमास्थापितं निगदवादिभिर्वेदजडैर्याज्ञिकंमन्यैः। निगदमात्रेण वेदमधीत्य त्वरिता वक्तार8।")एते सनियमं वेदाभ्यासप्रवृत्तेरप्युच्छेदकराः संजाताः। “अन्धेनैव नीयमाना यथान्धाः” इत्यन्धपरम्परान्यायानुरूपमज्ञानगर्ते पतितार्यजनतापि शनैः शनैर्वैदिकसंस्कृतेस्तदुदात्तभावनाभ्यश्च सुदूरमुत्सारिता। अस्मिन्नेव काले नीरसं शुष्कं वैदिकं कर्मकाण्डमवैदिकेन कर्मकाण्डेन समाक्रान्तं प्रायेण जनतायाः प्रतारणफलकमेव संजातम्। “मन्त्राः
कर्मकरणाः’, “वेदा हि यज्ञार्थमभिप्रवृत्ताः” इति सिद्धान्तमादाय स्वाभिधेयार्थनिरपेक्षया प्रक्षिप्तबाह्यकर्मकाण्डेऽपि शन्यादिग्रहशान्त्यादिरूपे वैदिकमन्त्राः प्रायुज्यन्त। एवं चान्यदेशेष्विव भारतवर्षेऽपि अज्ञानोपबृंहिता परप्रतारणोन्मुखी प्रवृत्तिरेव शुष्ककर्मकाण्डस्यानन्तराशेः प्रसवभूमिः।
तदेतदन्धकारयुगं वैदिकेतिहासपरम्परायाम्। प्रथमं त्वत्र काले वेदमन्त्राणामर्थज्ञानप्रवृत्तिरेव प्रायेण विनष्टा। मीमांसादिविषयेषु वेदचर्चाप्रसङ्गे प्रायेण ब्राह्मणवचनानामेवोद्धरणमेतदेव द्योतयति। वैदिकसंहिताभाष्येषु मन्त्राणां व्याख्यायां कृतायामपि ‘मन्त्राः कर्मकरणाः’ इति पक्षमाश्रित्य कृता सा कर्मकाण्डापेक्षया मन्त्राणां गौणत्वमेव ख्यापयति। वेदमन्त्राणां महत्त्वंन तेषां तत्तत्कर्मणि विनियेागमूलकम्, किन्तु वस्तुतः स्वप्रतिपादितार्थोत्कर्षमूलकमेव। अत एव च तेषां कर्मसु विनियोगः। अत एव च वस्तुतस्तत्तत्कर्मणः सार्थक्यमित्येष तात्त्विकः सिद्धान्तस्तु समूलमुपेक्षित एव प्रायेण वेदभाष्यकारैः।
वस्तुतः स्वहिताहितमनवेक्षमाणैरेतैर्याज्ञिकं मन्यैर्वेदाभ्यासः स्वयमेव न त्यक्तः, किन्त्वन्यैरपि न परित्याजितः। एतस्यैवायंदुष्परिणामो यद्वैदिके पथि खिलीभूते, वैदिकोदात्तभावनासु च विनष्टप्रायासु, परितो विजृम्भमाणा अनार्यभावना आर्यजातेर्जीवनस्रोतांस्यपवारयन्त्योदेशप्रगतेर्मार्गेषु चिराय कण्टकीभूताः संतिष्ठन्ते।
अस्माकं कर्तव्यम्
आर्यजातेः सैषा दुरवस्था एताश्चानार्यभावनाः पुनरपि वैदिकोदात्तभावनानां जनतायां प्रचारणेनैव समूलमुन्मूलीकर्तु शक्यन्ते। तच्चैतद्वेदानां स्वाध्यायप्रवृत्तेर्जनतायां प्रबोधनेन, सततमप्रबुद्धानास्कन्दितुमुद्युक्तायाः प्रायेण नैतिकभावनाभङ्गरसिकाया अतिमात्रं प्रवृद्धाया निरर्थकशुष्ककर्मकाण्डपिशाचिकाया अवखण्डनेन, पुनरपि कर्मकलापराशेर्जनताप्रतारणामूलकस्वरूपमपनुद्य पूर्वकाल इव वैदिकेादात्तभावनानां पोषकरूपत्वापादनेन, ‘कर्मकाण्डं तत्सहकारिण ऋत्विगादयश्च जनताहितसंपादनार्थं न तु जनता तदर्थम्’ इति बुद्धेःसर्वत्रोद्भावनेन चैव संभवति।
नूतनजीवनप्रदोपदेशगभीरैर्वेदमन्त्रैर्होमादिकरणे न तेषां वास्तविकी उपयोगिता, किन्तु निरन्तरममूढेन सोत्साहेन सश्रद्धेन च चेतसा तदर्थमनन एव। वेदविषय एतादृशविचाराणां प्रचार एव चिराय निरर्थककर्मकलापपाशैर्निगडितां भारतीयार्यजनतां धार्मिकदृष्ट्या नैतिकदृष्ट्या च समुन्नतिपथं नेतुं प्रभवति।
वैदिकोदात्तभावनानां निदर्शनानि
वैदिकोदात्तभावनाविषयमवलम्ब्यातिप्रपञ्चनस्य नायमवसरः। स्वतन्त्रतयैव प्रतिपादनीयोऽयं विषयः। तथापि चिरायावनतिगर्ते पतिताया विशीर्णसर्वगात्राया निराशापाशेन निगडिताया अन्याभिश्चानार्यजुष्टाभिरस्वर्ग्याभिर्भावनाभिरभिभूताया भारतीय-
जनतायाः समुद्धाराथ वैदिकोदात्तभावना एव प्रथम उपाय इति कैश्चिदेव निदशनैरत्र प्रदर्श्यते। तथा हि—
समष्टिभावना
कस्याविदितंयद्भारतीयजनतायां साङ्घिकशक्त्यै कुठारीभूता चिराय रूढमूला वैयक्तिकभावना। धार्मिकक्षेत्रे राजनीतिक्षेत्रे सामाजिकजीवने वा सर्वत्रापि दृष्टदुष्टप्रभावा सा तस्या मूलानि कृन्तति। तस्या उच्छेदनार्थंसमष्टिभावनया राष्ट्रभावनया चोतप्रोताः “संगच्छध्वं संवदध्वम्…”, “समानो मन्त्रः…”, “आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामा राष्ट्रे राजन्यः शूर…”, एतादृश्यो वैदिकभावना एव जनतामनःसु प्रविष्टाः सुतरां प्रतीकारः। “धियो यो नः प्रचोदयात्”, “यद्भद्रं तन् न आ सुव”, “अग्ने नय सुपथा राये अस्मान्” इत्येवं प्रायेण निरपवादं बहुवचनेन युक्ताः प्रार्थनाः समष्टिभावनाया एव वेदेषु स्वाभाविकत्वमाख्यापयन्ति।
कल्याणभावना
एवमेव सुखावाप्तिदुःखहानिभावने एवाश्रित्य प्रचलितस्य हिन्दुधर्मस्य साक्षादसाक्षाद्वा दुष्प्रभावोऽस्माकं वैयक्तिकजीवने सामाजिकजीवने कस्याविदितो भवेत्। ऐन्द्रियकता, लोकायतता, स्वकर्तव्यपराङ्मुखता, तत्तत्फलकामनया विभिन्नदेवापदेवानामुपासना, मिथ्यासंन्यासः—सर्वमेतत्तद्दुष्प्रभावमूलकमेव। एतस्या अनास्थायाः प्रतीकारो वैदिक्या भद्रभावनयैव कर्तुं सुशकः।
“भद्रं कर्णेभि…”, “यद्भद्रं तन्न आ सुव”, “भद्रं जीवन्तोजरणामशीमहि” इत्येवं शतशः स्पष्टमाम्नाता भद्रभावनैव श्रेयःशब्दचाच्या सुखदुःखभावने अतीत्य अथवा सुखदुःखे समे कृत्वा आणपणेनापि मनुष्यंस्वकर्तव्यपालनपरायणं विधातुं क्षमते। सैषा भद्रभावना यद्वा कल्याणभावनैव वस्तुतोऽमृतत्वभावना। एषैव निःश्रेयसभावना।
आशाया भावना
चिरान्नानाविधसंतापैः परिपीडिताया आर्यजातेर्नैराश्यभावना स्वभाव इव जीवनस्य प्रायः प्रतिक्षेत्रे लब्धपदा दृश्यते। ‘असारः संसारः, सर्वथैव हेयः, कारागारसदृशो बन्धस्थानम्, जीवनं दुःखमयं क्षणभङ्गुरं च।’
अभ्रमध्ये च पश्यन्ति चञ्चलां विद्युतां गतिम्।
क्षणं दृष्ट्वा च नश्यन्ति तथा संसारिणो जनाः॥
इत्यादिभिर्हृदुल्लासहरैः सिद्धान्तैर्व्याप्तमेवास्मदीयमावरकालिकं धार्मिकमपि वाङ्मयम्। अस्माकं विद्वत्सु साधुसमाजे च दृश्यमानं वैराग्यमपि प्रायेण नैराश्यस्यैवापरं नाम। एतत्प्रभावेणैवास्माकं क्षमादयासन्तोषप्रभृतयोऽप्युदात्तगुणा दैन्यभयालस्यादिरूपेण विकृतिमापादिता इव दृश्यन्ते। तदेतस्या नैराश्यभावनायाः प्रतीकारः “विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम्” (ऋ० ६।५२।५), “इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि। जयेम सं युधि स्पृधः॥” (ऋ० १।८।३), “मह्यं
नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम” (ऋ० १०।१२८।१), “अदीनाः स्याम शरदः शतंभूयश्च शरदः शतात्” (यजुः ३६।२४), “रोहेम शरदः शतम्। पूषेम शरदः शतम्। भवेम शरदः शतम्। भूषेम शरदः शतम्। भूयसीः शरदः शतात्॥” (अथर्व० १९।६७।४ -८) इत्यादिभिराशाभावभरिताभिर्भावनाभिरेव सुतरां कार्तुं पार्यंते।
तदेतत्सर्वं वैदिकसाहित्यस्य विशेषतश्च वेदानामध्ययनाध्यापनप्रवृत्तेः श्रवणश्रावणप्रवृत्तेश्च प्रोद्बोधनेन, वैदिकोदात्तभावनानां चाबालवृद्धमापामरप्राज्ञं च, न केवलं निरर्थकप्रायेणोपदेशेन, किन्तु कर्मणाचारेण निदर्शनेन च हृदयंगमतापादनेनैव साधयितुं शक्यते।
परं हन्त! वेदनामकीर्तनमारटन्तोऽपि वेदानामध्ययनमध्यापनंश्रवणं श्रावणं च परमो धर्म इत्येवमनवरतमितस्ततो घोषयन्तोऽपि, मन्त्रार्थावबोधस्तु दूरत एवास्ताम्—मन्त्राणां शुद्धोच्चारणेऽपि पङ्के गाव इवाद्यापि सोदन्तो वयं पूर्वोक्तेभ्यो निगदपाठिभ्योऽप्यपकृष्टां पदवीं भजामहे। तदनुकरणशीलाश्च वयं जनताप्रतारणोन्मुखा भारतीयेतिहासे चिराय दृष्टदुष्टप्रभावस्यापि अतिमात्रं प्रवृद्धस्य कर्मकाण्डस्य प्रचारणेन अर्थज्ञानमनपेक्ष्यैव मन्त्रजातैरग्नौ धनराशीन् भस्मसात्कुर्वन्तो नात्मग्लानिमनुभवामः। विस्मरामश्च यदभिनवे भारते वेदानामुपयोगिताया हृदयंगमता नैवमापादयितुं शक्यते। समयोऽयं यदद्याप्यत्र विषये सावहितैर्भाव्यमस्माभिः। ततश्च ये वेदेषु श्रद्धालवस्तेषा-
मेतत्कर्तव्यंयत्तैरभिनवभारतस्यावश्यकता आदर्शांश्चाकलय्य इतिहासतोऽपि च शिक्षामङ्गीकृत्य वृद्धाया मातृभूमेरभिनवीकरणे दृढाष्यवसायैरुदात्तवैदिकभावनानामापूरितदिगन्तर उच्चैर्घोष उपस्थापयितव्यः। प्रार्थना च विधेया—
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै।
तेजस्वि नावधीतमस्तु मा विद्विषावहै।
॥इति शम्॥
___
ॐ
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥
(भगवद्गीता १८।७८)
भगवद्गीतायाः स्वरूपम्
देव्यः सज्जनाश्च!
‘गीताजयन्ती’ महोत्सवस्य शुभावसरेऽस्मिन् सभापतिपदग्रहणाय निमन्त्रितोऽहं नूनमेतस्य समारम्भस्य संयोजकमहानुभावान् प्रति अनुगृहीतमात्मानं मन्ये। नाहं गम्भीरस्य गीताशास्त्रस्य पारगो विद्वान्, न चापि तस्य दुर्गममार्गस्य सफलो यात्री। तथापि, प्राप्तवानस्मि गीतायाः स्वजीवनेऽद्वितीयं प्रकाशं प्रेरणाञ्चाहम्। विद्यते तस्या उपदेशे मदीया श्रद्धा; आत्मानं च तस्यास्तुच्छमेकं साधकं मन्ये। मदीयैषा दृढा धारणा यन्न केवलमार्यधर्मस्य पुनरभ्युत्थानार्थमेव, किन्तु समस्तमानवसमाजस्य कल्याणार्थमपि, तस्या आवश्यकता विद्यते। अत एव कारणान्निमन्त्रणमेतत्कर्तव्यबुद्ध्यैव स्वीकृतवानहम्।
-
*
*१५।१२।१९४५ ई० तिथौ (११ सु० मार्गशीर्ष, २००२) ‘अखिलभारतीय आर्य (हिन्दू) धर्मसेवासंघ’ स्याश्रयेण प्रवृत्ते ‘गीताजयन्ती’ महोत्सवे सभापतेर्ग्रन्थकर्तुरभिभाषणम् (हिन्दीभाषातः संस्कृतेऽनूदितम्)।
अस्या रत्नगर्भाया भारतभूमेरथवा वीरप्रसविन्या विश्वविजयिन्या आर्यजातेर्दुर्भाग्यमेतद् यत्सा स्वकीयानि बहुमूल्यान्यनुपमरत्नानि विस्मृत्य, तेषां स्वरूपं वा अनवबुध्य संसारे दीनेव हीनेव भिक्षुरिव वा दरीदृश्यते। तस्या दशा तस्य परिवारस्येव यो वस्तुतो धनवानपि स्ववंशपरम्पराप्राप्तमपि निधिं विस्मृत्य, अज्ञानवशाद्वा हीरकमणीन् काचस्य खण्डानिव व्यवहरन् आत्मानं दरिद्रं दीनं च मन्यते। उदात्तस्यार्यधर्मस्योपदेष्टारोऽस्माकं वेदादिनिधय एतादृशीमेव दुरवस्थां भजन्ते। प्रथमं तु ते विस्मृता एवास्माभिः, न चेत्तेषां दुरुपयोग एव चिरात् क्रियतेऽस्माभिः। श्रीमद्भगवद्गीतापि तेषामेव सर्वश्रेष्ठरत्नानामेकं रत्नम्। अविस्मृतत्वेऽपि तस्य नैव तस्य पूर्णरूपेण सदुपयोगः कृतोऽस्माभिः। अतोऽत्र गीतायाः स्वरूपमुपयोगं चैवाधिकृत्य मीमांसाद्य प्रस्तूयते।
चिरकालादेव गीतायाः स्वरूपविषये विभिन्नमतानां बाहुल्यमिति नाविदितं विदुषाम्। विभिन्नमतान्यवलम्ब्य निर्मितानि यावन्ति भाष्याणि टीकाश्च गीताया उपलभ्यन्ते, प्रायेण नैव तावन्ति अन्यस्य कस्यापि ग्रन्थस्य भवेयुः। प्रायेण प्रत्येकसंप्रदायस्य प्रवर्त्तकैरनुयायिभिर्वा आचार्यैर्विद्वद्भिश्च गीतायास्तात्पर्यं स्वस्वसंप्रदायस्यानुकूल्येन प्रदर्शयितुं प्रयतितम्। नूनमेतद् गीतायाः सर्वसम्मतं महत्त्वं स्पष्टीकरोति, तथापि तदेव गीतायाः स्वाध्याये जटिलां समस्यां तटस्थस्य जिज्ञासोः पुरस्तादुपस्थापयति।
तदत्र गीतायाः पृष्ठभूमेरैतिहासिकभित्तेर्वा परिज्ञानमेव प्रायेण समस्याया एतस्याः समाधाने नः शरणमिति प्रतीयते। गीतासदृशस्य महतः शास्त्रस्यैतिहासिक आधारो युद्धक्षेत्रे समुत्पन्ना अर्जुनस्य संशयात्मिकतैव, न तु तात्कालिकी सामाजिकी घामिकी वा प्रवृत्तिरवस्था वेत्येतन्मतं तु केवलमात्मप्रवञ्चनैव। संसारे कस्याप्येतादृशस्य ग्रन्थस्यैतिहासिकी भित्तिः केवलमेकव्यक्तिसापेक्षा भवेदिति नैव युज्यते। प्रसृता कार्यकारणपरम्परा हि प्रायेण जगतीतिहासस्य घटनानामुदभवं स्वरूपं चापि निर्धारयति। अत एव गीतायाः सिद्धान्तानां विचाराणां वा वैशिष्ट्यस्य सामञ्जस्यस्य चावगमाय तात्कालिकीनां समाजगतप्रवृत्तीनां स्वरूपस्य ज्ञानमावश्यकम्। तच्च गीताया एवाध्ययनात्स्पष्टीभवति। उदाहरणार्थम्, अधोनिर्दिष्टवचनान्येव तावदत्र विचार्यन्ताम्—
(१)
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी॥
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥
आत्मसंभाविताः स्तब्धा धनमानमदान्विताः।
यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्वकम्॥
(१६।१४, १५, १७)
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।
वेदवादरताः पार्थ! नान्यदस्तीति वादिनः॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥
(२।४२-४३)
(२)
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः॥
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः।
मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान्॥
(१७।५-६)
(३)
न कर्मणामनारम्भान्नैष्कर्म्यंपुरुषोऽश्नुते।
न च संन्यसनादेव सिद्धिं समधिगच्छति॥
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते॥
(३।४-६)
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुरत्यागं विचक्षणाः॥
(१८।२)
प्रमाणेभ्य एतेभ्यः स्पष्टमेतत्प्रतीयते यद् गीताया उपदेशस्य तात्कालिकं विशिष्टं कारणं यत्रैकतस्तस्मिन् समये समाजे व्याप्ता
अत्यधिक कर्मकाण्डस्य प्रवृत्तिरासीत् तत्रापरतः कर्मकाण्डमात्रं तिरस्कुर्वती मिथ्यासंन्यासस्य प्रवृत्तिरथवा घोरशारीरिककष्टरूपातपसः प्रवृत्तिरेवासीत्।
नात्र संदेहो यत्स्वाभाविकताया आधारेण प्रवृत्तय एताः स्वस्वपरिधौ मनुष्यस्याध्यात्मिकसमुन्नतौ साहाय्यं कर्तुं शक्नुवन्ति; तथापि संसारस्य विभिन्नधर्माणामितिहासस्यात्र साक्ष्यं यद्रजस्तमोभ्यामभिभूतमनुष्येसु लब्धप्रसरा एता एव प्रवृत्तयः स्वार्थंबुद्ध्यविवेकदम्भमानप्रमादालस्यहेतुभ्यः शनैः शनैर्विकृतं रूपमुपाददते।
भारतवर्षस्यैवेतिहासे तावत्पातनीया दृष्टिर्यज्ञादिकर्मकाण्डस्य प्रारम्भातिरेकयोः। योऽयं कर्मकाण्डः प्रारम्भावस्थायां मानवजीवनस्य यावत्कर्तव्यकर्मणां प्रतीकरूपेणैव समाज उदात्तानामार्यभावनानां पोषक एवासीत्, स एव कालक्रमेण यजमानानामृत्विजां च निम्नानाम्, गीतानुसारम् ‘आसुरीणाम्’ वा, वासनानां तृप्तेः साधनभूते नीरसे निष्प्राणे शुष्के च क्रियाकलापे परिवर्त्तितोऽभूत्। एतस्मिन् शुष्क आदर्शहीने च कर्मकाण्डेऽन्धभक्तेरेवैष दुष्परिणाम यच्चिराय विश्वविजयिन्यामार्यजातौ वीरता, कर्तव्यनिष्ठा, पराक्रमः, आशावाद—इत्येतादृशीनामुदात्तभावनानां स्थान क्लैब्यम्, कर्तव्यभीरुता, दैन्यम्, निराशावादः—एतत्सदृशीभिरनार्यभावनाभिरपहृतम्, यच्चापि जनतायां मूढप्राहाणामन्धविश्वासानां च साम्राज्यमभितः प्रवर्तते। नूनमुपनिषदां बहूनि प्रमाणानि सुस्पष्टं प्रकटीकुर्वन्ति एतस्मादेव निष्प्राणक्रियाकलापात्समुद्भूतामुद्विग्नताम्। तथा हि—
प्लवा ह्येते अदृढा यज्ञरूपा
अष्टादशोक्तमवरं येषु कर्म।
एतच्छ्रेयोयेऽभिनन्दन्ति मूढा
जरामृत्युं ते पुनरेवापि यन्ति॥
अविद्यायां बहुधा वर्तमाना
वयं कृतार्था इत्यभिमन्यन्ति बालाः।
यत्कर्मिणो न प्रवेदयन्ति रागात्
तेनातुराः क्षीणलोकाश्च्यवन्ते॥
(मुण्डकोप० १।२।७, ९)
अविद्यायामन्तरे वर्तमानाः
स्वयं धीराः पण्डितं मन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः॥
(कठोप ०१।२।५)
अर्थात्, आदर्शहीनो यज्ञादिकर्मकाण्डः खल्वयमदृढनौकया समानः। अविवेकिनो हि जना एनमेव जीवनस्य लक्ष्यत्वेन मन्यमानाः स्वकीयान्धवासनानामावर्तेषु पतिता आध्यात्मिकोन्नतिपदमासादयितुं न शक्नुवन्ति। मूढा आत्मानं पण्डितं मन्यमानाः परं वस्तुतोऽज्ञानवशेन आदर्शहीने क्रियाविशेषबहुले कर्मकाण्डे निमग्नाः, आध्यात्मिकोन्नतेः सरलेऽकण्टके च मार्गेऽग्रेसरा नैव भवन्ति। दम्भमोहमानानां कुटिलेन
मार्गेण गच्छन्तो भ्रान्तास्ते स्वजीवनमपि व्यर्थतां नयन्ति। तेषां वै दशा वस्तुतोऽन्धेनैव नीयमानस्यान्धस्य समाना भवति।
एतादृशमादर्शहीनमतिमात्रतां गतं कर्मकाण्डं लक्ष्यीकृत्यैव नूनं गीताया उपरिष्टान्निर्दिष्टानां विचाराणां प्रवृत्तिरासीदिति स्पष्टं प्रतीयते।
अपरतस्तस्या एतस्या प्रवृत्तेः प्रतिक्रियारूपेण देशे शुष्कज्ञानप्रवृत्तेः प्रारम्भोऽभूत्। सापि क्रमशः प्रवर्धमाना कालान्तरेण, अतिमात्रताया हेतोः, प्रमाद आलस्येऽकर्मण्यतायां च परिणतासीदिति गीताया एव प्रतीयते। एवमेव तृतीयापि प्रवृत्तिः सामान्यजनतायां सुतरां बद्धमूला प्रभाववती च स्वेच्छया विविधशारीरिकघोरयातनानां सहन एवात्मानं कृतकृत्यं मन्यमानानां तपस्विनामधारिणां चिराय भारतवर्षस्येतिहासे लब्धपदा दृश्यते। वाल्मीकिरामायणे—
अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः॥
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे।
गात्रशय्या अशय्याश्च तथैवानवकाशिकाः॥
मुनयः सलिलाहारा वायुभक्षास्तथापरे।
आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः॥
तथोर्ध्ववासिनो दान्तास्तथार्द्रपटवाससः।
(३।६।२—५)
(अश्मकुट्टाः = अपक्वकुट्टितान्नभक्षकाः। दन्तोलूखलिनः= दन्तातिरिक्तावहननसाधनरहिताः। उन्मज्जकाः = कण्ठदघ्ने
जले स्थित्वा तपः कुर्वन्तः। गात्रशय्याः = अनास्तरणशायिनः। अशय्याः = निद्राहीनाः। अनवकाशिकाः = एकपादस्य स्थित्यवकाशदानरहिताः। एकपादस्थितिमन्त इति यावत्। आकाश
निलयाः = अनावृतप्रदेशस्थायिनः।)
इत्येवं नानाविधघोरशारीरिकयातनाः सहमानानां तापसानां वर्णनेन भारत एतस्याः प्रवृत्तेश्चिरन्तनत्वं सुतरां स्पष्टमेव।
पूर्वोक्तप्रवृत्तित्रयस्यातिमात्रतां नीतेनाविचारमूलेन च प्रचारेणैव उत्साहस्राहसपराक्रमभावनाभिराशावादेन चोतप्रोतायामार्यजातावादर्शैविहीनायाः कर्तव्याकर्तव्यविवेकेन शून्याया अनेकैमूढग्रहिरभिभूताया निष्प्रभाया अकर्मण्याया अत एव मृतकल्पाया जातेर्लक्षणानि शनैः शनैर्दृष्टिगोचरतामागच्छन्। न केवलं पूर्वोद्धृतप्रमाणेभ्य एव, किन्तु गीताया विचारधारायाः साकल्येन विवेचनादपि सुस्पष्टमेतत्प्रतीयते यदुक्तप्रवृत्तीनां हानिकराद् दुष्प्रभावाद्देशमार्यजातिं च त्रातुमेव भगवता वासुदेवेन “सर्वशास्त्रमयी”, “सर्वज्ञानप्रयोजिका”, “धर्ममयी”, “सर्वतीर्थमयी” च गीतेयमिह भुवने प्रवर्तिता। तस्याः सर्वकल्याणमयस्योपदेशस्यायमेवाभिप्राय आसीद् यत्पूर्वोक्तप्रवृत्तिष्वादर्शहीनतायाः कारणेन समुपजातं पारस्परिकविरोधं मौलिकस्यादर्शस्य भावनया अपनीय कथमपि सामञ्जस्यं स्थाप्यतामिति।
गीताया दुरुपयोगः
परमेवं प्रतीयते यत्पूर्वं प्रतिपादितस्य गीताया ऐतिहासिकस्याधारस्याज्ञानादेव तस्या दुरुपयोगश्चिराय भारते क्रियते।
अत एव गीताया विषये भावनैषा चिरकालादेव देशेऽस्मिन्प्रसृता दृश्यते यत्सा केवलं सांसारिकजीवनादुपरतानां साधूनां (= भिक्षूणाम्) संन्यासिनां चैव पुस्तकम्, यद्वा, तदेतादृशं शास्त्रं यस्योपयोगः, भवतु नाम स वृद्धानां कृते, सांसारिकव्यापारेषु व्यापृतानां गृहस्थानां यूनां च कृते न विद्यत एव। समानरूपेणैव एषा मिथ्याभावना मूढेषु पण्डितेषु च प्रायेण कृतपदा समुपलभ्यते। एतस्याः परिस्थितेः कटुरनुभवोऽस्माकं वाराणसेयराजकीयसंस्कृतमहाविद्यालयपरीक्षापाठ्यक्रमे सामान्यपत्रेषु सोत्साहमिदंप्रथमत्वेन समावेशिताया अपि गीतायाः संस्कृतपण्डितानामनेकेषां विरोधकारणादेव ततः पृथक्करणावसर एव प्रथमवारमजायत। गीतायाः सन्निवेशः कस्मिन्नपि सर्वसाधारणे पाठ्यक्रमे नैव समुचित इत्येव तेषां पण्डितानामासीदाघोषः।
कुतो हेतोः कथं वा गीताया विषये पूर्वोक्ता मिथ्याभावना प्रववृत इति वक्तुं दुःशकमिव प्रतीयते। तथापि निश्चितमेतद् यदस्य प्रायेणोत्तरदायित्वं भारतेतिहासस्य निराशामयस्य आर्यभावनाभिश्च शून्यस्य मध्यकालस्य टीकाकारेषु भाष्यकारेषु चावतिष्ठते। तैरेव नूनं वेदान्तशास्त्रेण सह गीताया गाढं संबन्धः स्थापितः। परं स्वयं गीताया एवात्र किमुत्तरमिति तावद्विचार्यतामस्माभिः।
गीताया उपक्रमोपसंहारौ
नात्र विवादः केषाञ्चित् यत्कस्यापि ग्रन्थस्य संदर्भस्य वा वास्तविकतात्पर्यस्य निर्धारणे तदुपक्रमोपसंहारावेव प्रधानं कार-
णम्। तत्र शस्त्रास्त्रसज्जैयुयुत्सुभिर्वीरैराचिते युद्धक्षेत्रे"प्रवृत्ते शस्त्रसंपाते” तावद् गीताया उपक्रमः। तादृशे ह्यवसरे विचारसंघर्षे लीनम्, विषादगर्ते च पतितम्, किंकर्तव्यविमूढं सशयात्मानमर्जुनं प्रति वै भगवतः कृष्णस्य सर्वतः प्रथममुक्तिरेषा—
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यमकीत्तिकरमजु न!॥
क्लैब्य मा स्मगमः पार्थ! नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप!॥
(२।२-३)
अर्थात्, हे अर्जुन! एतस्मिन्ननवसरे कुत एतदार्यैर्गहितम्, आत्मनः पतनकारणम्, अपयशसो हेतुश्चाधैर्यं तव हृदये समुपस्थितम्? त्वं हि वीरः शत्रूणां हन्ता चासि, क्षुद्रां हृदयस्य दुर्बलतामेतामुत्सृज्य युद्धाय कृतनिश्चयः समुत्तिष्ठ।
स एष गीताया उपक्रमः।
अथ तदुपसंहारोऽपि विचार्यताम्। तत्र गीताया अन्तिमः श्लोको भवति—
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥
(१८।७८)
संजयः कथयति यद् यत्रापि विशुद्धकर्तव्यभावनाया उपदेष्टुर्भगवतः श्रीकृष्णस्य वीरस्य चार्जुनस्य संवादरूपाया गीताया उपदेशस्यानुसरणं क्रियते तत्र लक्ष्म्या विजयस्यैश्वर्यस्य सत्यादन-
पायिन्या नीतेश्च स्थितिर्भवतीति मदीया धारणा। शब्दान्तरेष्वस्यायमेवाभिप्रायो यद्युद्धक्षेत्रेऽवस्थितं वीरमर्जुनमुद्दिश्योपदिष्टा गीता खलु श्रियो विजयस्य भूतेः सन्नीतेश्च प्रतिपादकं शास्त्रम्। नियतं नैषां किमपि स्थानं सभवति वेदान्तशास्त्रे। नैव कश्चिद् वेदान्तशास्त्रविषयको ग्रन्थो वेदान्तस्य जिज्ञासोः पुरस्ताद् लक्ष्मीविजयादिकमादशरूपेण स्थापयिष्यति।
किञ्चैतदपि विभावनीयं यद्गीताया उपदेशेन प्रभावितोऽप्यर्जुनो न हि युद्धात्पराङमुखो बभूव, न च वनं गत्वा तपस्यामाश्रितवान्, न चापि किमपि देवमन्दिरं प्रविश्य भगवतो भक्त्याराधनेन च कालं निनाय। प्रत्युत स प्राणपणेन शत्रुभिः सह युध्वा विजयलक्ष्मीमधिगतवान्। गीताया उपदेशं साकल्येन श्रुत्वा अर्जुनस्य हृदयोद्गारः खल्वेवम्—
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥
(१८।७३)
अर्थात्, हे अच्युत! भवत उपदेशेन मम मोहो भ्रमश्चनिर्मूलतां गतौ यद्वशाद्धि एतस्योपदेशस्य प्रारम्भे शोकसंविग्नमानसेनाश्रुपूर्णाकुलेक्षणेन विषीदता मया सशरं चापं विसृज्य (१।४६) ‘न योत्स्ये’ (२।९) इत्येवमुक्तो भवानासीत्। अधुना गतसन्देहोऽहं
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥
(२।३७-३८)
इत्येतद्भवतो वचनं करिष्ये।
एवमुपक्रमोपसंहाराभ्यां स्पष्टमेतद् यद्गीता न केवलं भिक्षूणां संन्यासिनां जराजर्जरितगात्राणां वृद्धानामेव वा शास्त्रम्। न चापि तत्कर्मभीरूणां प्रमादिनामलसानां मिथ्यावैराग्यव्याजेन स्वकर्तव्येभ्यः पराङ्मुखानां शास्त्रम्।
तद्धि खलु—
ममाग्ने! वर्चो विहवेष्वस्तु
वयं त्वेन्धानास्तन्वं पुषेम।
मह्यं नमन्तां प्रदिशश्चतस्रस्
त्वयाध्यक्षेण पृतना जयेम॥
(ऋ० १०।१२८।१)
इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि।
जयेम सं युधि स्पृधः॥
(ऋ०१।८।३)
(अर्थात्, भगवन्! वर्चस्विनस्तेजस्विनो बलवन्तश्च सन्तो वयं भवतां साहाय्येन स्वशत्रून् = स्वकीयोन्नतेर्बाधिकाः शक्तीर्जयेम। समस्ताश्च दिशोऽस्माकं समक्षे नतमस्तका भवेयुः। भगवन्! भवतां रक्षायां वर्तमाना आत्मरक्षाया उपकरणैश्च सन्नद्धा वयं विघ्नान् बाधाश्चापघ्नन्त उन्नतिमार्गेऽनवरतमग्रेसरा
“वाग्वै मनसोह्रसीयस्री। अपरिमिततरमिव हि मनः। परिमिततरेव हि वाक्” ( शतपथब्राह्मणे १।३।६)
एतच्छुत्यनुसारं विचारारणां प्रकटीकरणार्थमपूर्णमेकं साधनम्, स्वतःसिद्धस्य मौलिकतत्त्वस्य प्रतिपादिकैव भवितुमर्हति न तूत्पादिका।
उपरिनिर्दिष्टसिद्धान्तस्य दृष्ट्यैव तत्त्वदर्शी विपश्चिद् निम्नवासनानिरोधपूर्वकं मनुष्यस्योच्चानामाध्यात्मिकीनां नैतिकीनां च प्रवृत्तीनां प्रबोधनपोषणयोरुद्देश्येन विभिन्नधर्मप्रतिपादितेषु विभिन्नकर्मकाण्डेषु, विभिन्नदेवोपासनापद्धतिपु, अथवा अधिकारिभेदस्य प्रवृत्तिभेदस्य वा हेतोर्विभिन्नशाब्दिकपरिभाषाणामाश्रयेण मौलिकतत्त्वस्य प्रतिपादकेषु विभिन्नदर्शन (= दृष्टि) शास्त्रेषु भेदं नैव पश्यति।
अतः शाब्दिकपरिभाषाकृतभ्रान्त्या अप्रभावितैश्चेदस्माभिस्तात्त्विकदृष्ट्या गीताया अध्ययनं क्रियते तर्हि नियतमेव सा समस्तमानवजातेरनर्घधर्मशास्त्रत्वेन प्रतीयेत।
गीतायाः कर्मणो यज्ञस्य च स्वरूपम्
कर्तव्याकर्तव्यशास्त्रं कर्मशास्त्रं वा गीतेत्युपरिष्टात्प्रतिपादितमस्माभिः। तस्या विशिष्टप्रतिपाद्यविषय एष एव यन्मनुष्येण कर्म, न केवलं कर्तव्यबुद्धयैव अनासक्तबुद्धयैव, किन्तु ईश्वरार्पणबुद्ध्या अथवा भक्तिभावनयापि विधेयमिति। तथा हि
तस्मादसक्तः सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः॥
कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
(३।१९-२०)
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥
(९।२७)
एवमनासक्तबुद्ध्या तथेश्वरार्पणबुद्ध्या विहितस्य कर्मणो महिमा गीतायामसकृद् वर्णितः। किञ्च,
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष वोऽस्त्विकामधुक्॥
(३।१०)
यज्ञशिष्टामृतभुजोयान्ति ब्रह्म सनातनम्।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम॥
(४। ३१)
एव यज्ञस्यापि गुणगरिम्णो भूयो भूयः संकीर्तनं तत्र क्रियते।
परंतु गीताया मौलिकसिद्धान्तोयाथार्थ्येन बुद्ध्यारूढोभवेदित्येतदर्थंकर्मणो यज्ञस्य च वास्तविकस्वरूपस्यावबाधोऽत्यन्तमावश्यकः। शब्दविषयकरूढिवादस्य प्रभावेणैव तपोदानदयास्वर्गवर्णश्रद्धाप्रभृतिशब्दानामिव कर्मयज्ञेतिशब्दयोरप्यर्थविषयेऽस्माकं समाजो वास्तविकताया अतिदूरं नीतो वर्तते। अस्माकं धर्मशास्त्राण्यपि नात्र विषयेऽपवादाः। रूढिमूलकस्यै तस्यैव परम्पराप्राप्तस्य भ्रमस्यापाकरणार्थ गीतायां श्रद्धादानतपःप्रभृतिशब्दैः सह कर्मयज्ञेतिशब्दयोरपि वास्तविकमर्थं स्पष्टयितुं सुमहत् प्रयतितम्।
तत्र कर्मविषये गीता स्पष्टमुद्घोषयति—
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। (४।१६)
अर्थात्, कर्मणोऽकर्मणश्च वास्तविकस्वरूपस्यावगमे कवयो विद्वांसोऽपि भ्रान्ता दृश्यन्ते, सामान्यजनानां तु का कथा।
सामान्यरूपेण कर्मशब्दो यज्ञादिकर्मकाण्डस्य देवार्चनादिकर्मणो वा वाचकत्वेनैव गृह्यते। परन्तु गीतायां यस्य कर्मणः स्वरूपं विर्चायते तेन तु जीवनस्य विभिन्नक्षेत्रेषु पितापुत्र, जायापति, गुरुशिष्य, सेव्यसेवक, नागरिकतादिसांसारिकसंबन्धैः प्रेरितेन मनुष्येण क्रियमाणानां सर्वविधकर्मणां संग्रहोऽभीप्सितः। यज्ञादिकर्मकाण्डं तु तस्यैव व्यापकजीवनस्य साधनरूपः संभारः, अथवा प्रतीकमेव। यथा ह वै स्वल्पकालमपि प्रत्यहं कृतः शारीरिको व्यायामो यावद्दिवसं कर्मकरणाय शरीरस्य स्वास्थ्यसंरक्षणद्वारैवोपयोगी, एवमेव खलु सर्वस्यापि धार्मिककर्मकाण्डस्योपयोगः साफल्यं च मनुष्यस्योच्चभावनानां परिपुष्टौ तद्द्वारा च जीवनस्य पवित्रतासच्चरित्रतयोः संपादन एव विद्यते। एतादृश्या भावनया विरहितं हि कर्मकाण्डं देवार्चनादि वा, स्वयमेव जीवनस्य लक्ष्यं सत्, बाहुल्येन दम्भमानलोभपाषण्डपरप्रतारणाभावैः संचालितम्, शनैशनैरादर्शहीनजटिलक्रियाकलापरूपेण च परिणमत्, व्यक्तिगतानां समाजगतानां वा उदात्तभावनानां नैतिकतायाश्च नैव परिपोषकं भवितुमर्हति, किन्तु घातकमेव संजायते। तस्यामवस्थायां हि किञ्चित्पूजापाठादिनैव मनुष्यः कृतकृत्यतामासादयितुं शक्नोति, तस्य प्रात्यहिकजीवनस्य
कर्तव्यकर्मणामाध्यात्मिकेन नैतिकेन वा जीवनेन नहिकोऽपि संबन्ध इत्येष विचार एव जनतायाः संजायते। एतादृशमेवादर्शहीनं यज्ञादिकर्मकाण्डं गीतायां तामसत्वेन राजसत्वेन वा वर्ण्यते, नैकप्रकारेण च तस्य भर्त्सना क्रियते। एतादृशएव निरुद्देश्यके कर्मकाण्डे रतानां विषय उच्यते—
नैनं छन्दांसि वृजिनात्तारयन्ति
मायाविनं मायया वर्तमानम्।
नीडं शकुन्ता इव जातपक्षाश्
छन्दांस्येनंप्रजहत्यन्तकाले॥
(विदुरनीतौ ३।४२)
सर्वस्यापि, लौकिकस्य धार्मिकस्य वा, कर्तव्यस्य कर्मणो महत्त्वं केवलं तस्मिन् कर्मणि प्रवृत्तत्य मनुष्यस्य भावनाधीनम्। कर्मकरणे प्रवृत्तो हि मनुष्यो विद्वान् वा, पण्डितो वा, ब्राह्मणो वा, संपत्तिशाली वा, साधारणातिसाधारणकार्यकरः शूद्रो वा ‘हरिजनो’ वा भवतु, तस्योच्चताया नीचतायाश्च निर्णयो गीतयैतयैव दृष्ट्या विधास्यते। नूनं धर्मव्याधादिकथानामस्मत्पुराणादिसाहित्य उपवर्णितानामेष एवाभिप्रायः।
समानैव कथा यज्ञशब्दस्यापि वर्तते। तस्यापि वास्तविकमर्थ विस्मृत्य वयंचिराय संकुचित एवार्थे तस्य प्रयोगं कुर्मः। अग्नावाहुतीनां प्रक्षेप एव नहि तस्य मौलिकोऽर्थः। वास्तविकयज्ञभावनायाः समयभेदेन केवलमेकं प्रतीकं तत्कामं भवतु। यज्ञस्य नानाभेदान् प्रदर्शयन्ती गीतैव स्वयमाह—
दैवमेवापरे यज्ञं योगिनः पयुपासते।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति।
शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते॥
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः॥
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः॥
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति।
…………………………………………..
एवं बहुविधा यज्ञा वितता ब्रह्मणो सुखे॥
(४।२५-३०, ३२)
अल्पज्ञस्य, स्वभावत इन्द्रियपरायणस्य तथा स्वार्थसाधने तत्परस्य मनुष्यस्य स्वकीयनिम्नप्रवृत्तीनां विजयोद्देश्येन जगतः पोषणकर्त्रीभिः स्वभावतः परार्थप्रवृत्ताभिर्दैवीभिः शक्तिभिरथवा दैव्या शक्त्या स्वसंपर्कस्य स्थापनमेव यज्ञस्य वास्तविकोऽर्थः।
“यज देवपूजासंगतिकरणदानेषु” इत्येषामर्थानामप्यत्र संगतिः
संजायते। दानेन खलु वस्तुतो महत्याः शक्तेः समक्षमात्मनः समर्पणमेवाभिप्रेयते। उपर्युक्तसंपर्कश्च निःस्वार्थलोकसेवाद्वारैव स्थापयितुं शक्यते। अयमेवार्थो गीतायामेवमुपवर्ण्यते—
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥
देवान्भावयतानेन ते देवा भावयन्तु वः।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ॥
(३।१०-११)
ऐतरेयब्राह्मणादिग्रन्थेषु अस्मिन्नेवार्थे ‘भावनायज्ञ’ इति शब्दः प्रयुक्तो दृश्यते। भवति चात्र श्लोकः—
भावनाकुसुमैरीले तत्तेजः शाश्वतं महत्।
सवितृरूपेणात्मा वै जगतस्तस्थुषश्च यत्॥
एतादृशेन हि यज्ञेन गीताया मतेन
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्।
(५।२९)
श्रेयान् द्रव्यमयाद्यज्ञाज ज्ञानयज्ञः परन्तप।
(४।३३)
इत्यनुसार यज्ञतपसां भोक्तुर्भगवतः परमेश्वरस्य भक्तिः पूजा च कर्तुं शक्येते। वस्तुतस्तु गीतानुसारं कर्तव्यबुद्ध्या ईश्वरार्पणबुद्ध्या च कृतं कर्मैव तात्विको यज्ञः। स्पष्टमेवैतादृशो यज्ञोऽन्धश्रद्धया स्वकीयस्य दरिद्रदेशस्य दीनहीनसमाजस्य च वास्तविकीरावश्यकता अनपेक्ष्य अग्नौलक्षलक्षाणां रूप्यकाणामन्नादिसामग्र्याभस्मसात्करणं नापेक्षते।
गीताया भक्तिः
गीतायां भक्तिरिति शब्दस्यातिमहत्त्वम्। परन्तु भक्तिशब्दस्य प्रचलितादर्थाद् गीताया भक्तिर्नितरां भिन्ना।
गीतानुसारं हि योऽसौ विश्वप्रपञ्चस्य संचालकः सर्वेषां प्रेरकः सर्वस्योत्तारको यज्ञतपसामुपभोक्ता सर्वलोकमहेश्वरो भगवान् तस्य प्रीत्यर्थमेव कर्मकरणं परमा भक्तिः।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥
(१८।४६)
एतदनुसारं मनुष्यजीवनस्य सफलताया रहस्यं कर्मद्वारा ईश्वरभक्तावेव विद्यते। उपयुक्तं चैतत् यतो व्यष्टेर्व्यक्तेर्वा कर्तव्यस्य समाप्तिः पर्यवसानं वा समष्ट्या सह तस्याः सामञ्जस्य एवास्ते। एवं प्रकारेण भक्तिवादः कर्तव्यबुद्धेरादर्शवादस्यैव वा परा काष्ठा। एष भक्तिवादः कर्तव्यबुद्धेर्भावनायां नूतनमाधुर्यरसस्य संचारं करोति। न हि तस्मिन्वर्तते कश्चिदवकाशो दैन्यस्य, आलस्यस्य, प्रमादस्य, अकर्मण्यताया वा। न स प्रकृतेर्विरुद्धं पुरुषं स्त्रीवदाचरणं शिक्षयति, नाप्यत्याचारिणोऽत्याचारस्य सहनमुपेक्षां वा। “वज्रादपि कठोराणि मृदूनि कुसुमादपि” इत्युक्तिमनु नम्रतायाः शौर्यस्य चादृष्टपूर्वं सामञ्जस्यमत्र विद्यते। किं बहुना, गीताया भक्तिवादस्य दृष्ट्या स्वकर्तव्यपालनार्थं सर्वस्वमप्यर्पयन्तो
महाराणाप्रताप-गुरुगोविन्दसिंह-प्रभृतयस्तादृशा एव भक्ता यादृशा गोस्वामी तुलसीदासो महात्मा नानकः कबीरो वा।
गीताया भक्तेरादर्शमनुसरन् हि भक्त आशाया आत्मविश्वासस्य च प्रतिमूर्त्तिरेव भवति। महत्स्वपि संकटेषु समापतितेषु
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥
(गो०६।५)
इति सिद्धान्ते विश्वसन्नविचलितधैर्यः स तेषां स्वागतमेव करोति। तस्य मानसिकावस्थायाः सुन्दरं वर्णनं गीतायामेवं कृतो दृश्यते—
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥
(२।३२)
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥
(२।३६)
वास्तवेन, गीताया एव प्रक्रियाया अनुसारेण यज्ञदानतपआदिवद् भक्तिरपि सात्त्विकराजसतामसभेदेन त्रिविधेति व्याख्यातुं शक्यते। तथा हि—
(१)
योऽन्तरात्मा जगत्साक्षी सृष्टवानिदमद्भुतम्।
कल्याणबुद्ध्या जीवानां तत्प्रस्रादाय केवलम्॥१॥
कर्तव्यमिति यत्कर्म क्रियते नियतात्मभिः।
सिद्ध्यसिद्ध्योः समैर्भूत्वा भक्तिः सा सात्विकी मता॥२॥
मनःप्रसादः सौम्यत्वं समुत्साहः स्वकर्मसु।
श्रेयोऽभ्युदयसिद्धिश्च तस्याः फलमिहोच्यते॥३॥
(२)
सत्कारमानपूजार्थंप्रतार्य सकलं जगत्।
जीविकासाधनार्थं वा प्रयोमार्गपरायणैः॥४॥
लोकेशस्य प्रसादार्थमेवमुद्धोष्य सर्वतः।
क्रियते यः समारम्भो भक्तिः सा राजसी मता॥५॥
दम्भो दर्पोऽभिमानश्च समुद्रेगः स्वकर्मसु।
चित्तचञ्चलता चैव तस्याः फलमिहोच्यते॥६॥
(३)
समुत्सृज्य स्वकं कर्म सदालस्यपरायणैः।
कर्मण्यकर्म पश्यद्भिरकर्मणि च कर्म यत्॥७॥
नाम्नः संकीर्तनेनैव न तु कर्मसमाश्रयात्।
पूज्यते भगवान्नित्यं भक्तिः सा तामसी मता॥८॥
निरुद्यमा निरुत्साहा हीनसत्त्वपराक्रमाः।
अनार्यजुष्टमार्गेस्था जायन्ते तां समाश्रिताः॥९॥
अर्थात्, जगतः साक्षिभूतो योऽन्तरात्मा भगवानिदमद्भुतं भुवनं जीवानां कल्याणार्थमेव सृष्टवान् केवलं तस्य प्रसन्नतायै कार्यस्य सिद्धिमसिद्धिं च समं जानद्भिः संयतात्मभिर्यत्कर्म कर्त-
व्यमेतदिति बुद्ध्यैव क्रियते सा वै सात्विकी भक्तिरुच्यते। तया च भक्त्यामनःप्रसादः सौम्यत्वं स्वकर्मसु समुत्साहो निःश्रेयसस्याभ्युदयस्य च प्राप्तिरित्येतानि फलरूपेण भवन्ति।
केवलं स्वार्थसाधनतत्परैः, ईश्वरस्य प्रसन्नतायै एवं कार्यमिदं क्रियते प्रत्यक्षत एवं सर्वत्र घोषयित्वा वस्तुतस्तु आत्मन एव सत्कारमानपूजार्थं जीविकाप्राप्त्यै वा, जगत्प्रतार्य यत्कार्यं क्रियते स्रा राजसी भत्तिरुच्यते। तया च मनुष्ये केवलं दम्भस्य दर्पस्याभिमानस्य स्वकार्येष्वशान्तेश्चित्तचञ्चलतायाश्च वृद्धिरेव फलरूपेण दृश्यते।
कर्मण्यकर्मेति अकर्मणि च कर्मेति पश्यद्भिः, सर्वदा आलस्यप्रमादपरैर्जनैः स्वकर्तव्यस्योपेक्षया केवलं भगवन्नामसंकीर्तनेन, न तु स्वार्थरहितकर्मद्वारा, यल्लोकेशस्य पूजा क्रियते सा तामसी भक्तिरुच्यते। तामसीं भक्तिमाश्रिता हि जना निरुद्यमा निरुत्साहा हीनसत्त्वपराक्रमा अनार्यसेवितमार्गगामिनश्च जायन्ते।
तदेवं भक्तेः सात्विकराजसतामसरूपेण विवेकः।
आत्मपरीक्षणमन्तरवेक्षणं वा
गीतया न हि कस्यापि धर्मविशेषस्य संप्रदाय विशेषस्य वा प्रतिपादनं क्रियत इति पूर्वमवोचाम। सा हि मनुष्यमात्रस्य समक्षम्, तस्य संप्रदायविशेषस्य धर्मविशेषस्य वानुयायित्वमनपेक्ष्य, कर्मणोऽनुष्ठानस्योच्चतममादर्श स्थापयति। प्रत्येककर्मणश्च स्वरूपपरीक्षणं तस्य भावात्मिकाया भित्तेर्दृष्ट्या कर्तुं
शक्यते, यतो हि प्रत्येकस्य धार्मिकस्य नैतिकस्य वा कर्मणा महत्त्वमस्माकं भावेष्वाश्रितम्। भावसंशुद्धिर्हि मानसतपःसु एकतमद् गीयाया अभिमतम्। एतच्चात्मपरीक्षणमन्तरवेक्षणं वा नितरामपेक्षते। एतदन्तरवेक्षणं गीताया उपदेशस्य एकं महद्वैशिष्ट्यम्।
तच्चैतदन्तरवेक्षणं प्रकृतिसिद्धस्य सत्त्वं रजस्तम इति गुणत्रयस्याधारेणैव कर्तुं शक्यते। सामान्यरूपेण अविवेका मोहो जडता आलस्यंप्रमादश्चेति तमोगुणस्य लक्षणान। परम्परागतानामन्धरूढीनां तथा चिरप्ररूढानां स्वकीयानामेव वासनानां दासता रजोगुणस्य लक्षणम्। स्वकीयप्रत्येककार्यस्य परीक्षणे सावधानता अमोहः, तथा प्रमादेन वासनाभिश्चासंपृक्तायाः शुद्धबौद्धिकदृष्टेः स्थिरता चेति सत्त्वगुणस्य लक्षणमिति वक्तुं शक्यते। गीतया स्वयमेवोदाहरणरूपेण श्रद्धायज्ञतपोदान प्रभृतेः सात्त्विकराजसतामसभेदेन त्रैविध्यं प्रतिपादितम्। एतेनैव निकषेरणास्माकं प्रत्येकस्य कर्मणः परीक्षणं विधातुंशक्नुमोवयम्।
“अन्धेनैव नीयमाना यथान्धाः” इत्यनुसारमन्धरूढिप्रवाहेणोह्यमाना आर्यजनता साम्प्रतं स्वस्य जीवनस्य प्रायः प्रत्येकक्षेत्रे नितरामेतदन्तरवेक्षणमपेक्षत इति नैव तिरोहितं विपश्चिताम्। अस्माकं दानं यज्ञस्तपस्तथा धर्मनाम्ना क्रियमाणमन्यच्चापि कार्यं प्रायेण सात्त्विकरूपतां विहाय लोकाचारप्रभात्रेण मानेन दम्भेनाविवेकेन वा क्रियमाणं विकृतरूपतामापन्नं दृश्यते। गीतायाः शिक्षायाः प्रथमः प्रभावोऽस्माकमुपरि एष भवतु यद्वयमस्माकं
रूढीनां कर्मणां चान्तःपरीक्षणद्वारा वास्तविकं स्वरूपमवगन्तुं शक्ता भवेम। एतदात्मपरीक्षणमेव गीतायाममोह इति शब्देनोच्यते। “गच्छन्त्यमूढाः पदमव्ययंतत्” (१५।५) इत्येष वै गीताया उद्घोषः। कठोपनिषदि अयमेवार्थो हृदयग्राहिण्या भाषया एवं प्रतिपाद्यते—
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्।
(२।१।१)
अर्थात्, लोके कश्चिद्धीरवीरमनुष्य एवात्मकल्याणकामनया आत्मपरीक्षण परो भवति
गीताया आशावादः
आशावादो हि आर्यधर्मस्यैकतमद् मुख्यं वैशिष्ट्यम्। आशावादस्यौजःपूर्णभावैरोतप्रोतं हि नः प्राचीनं वाङ्मयम्, विशेषतश्चवैदिकं साहित्यम्। यथा हि—
ओजोऽस्योजो मयि धेहि
(शु० यजु० १९।९)
(परमात्मन्! त्वमोजःस्वरूपोऽसि, मामप्योजस्विनं विधेहि)
अदीनाः स्याम शरदः शतम्
(शु० यजु० ३६।२४)
(भगवन्! वयमाजीवनं दैन्यरहिता एव भवेम)
मदेम शतहिमाः सुवीराः
(ऋ० ६।४।८)
(बयंवीरसन्तानवन्तः पूर्णमायुः प्रसन्नतयैव यापयेमहि)
कृधी न ऊर्ध्वाञ्चरथाय जीवसे
(ऋ०१। ३६। १४)
(भगवन् !भवतामनुग्रहेण वयं समुन्नतजीवनाय सदा सप्रयत्ना भवेम)
प्राचीनाया आर्यजातेरेतस्याशावादस्याधार एकत आत्मविश्वासः, अपरतश्च जगन्नियन्तुर्भगवतः सृष्टावत्यन्तव्यापकेऽर्थं सत्यस्य साम्राज्यं विद्यत इत्येष विश्वासश्चासीत्। “असतो मा सद् गमय”, “सत्येन लभ्यस्तपसा ह्येष आत्मा,” “सत्ये सर्वं प्रतिष्ठितम्” श्रुतय एता आर्याणां गम्भीरव्यापकसत्यभावनामेव स्पष्टीकुर्वन्ति।
गीतायामप्येष प्राचीन आर्याणामादर्श ओतप्रोतः।
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्।
(६।५)
इत्येवमात्मनैवात्मन उद्धरणम् आत्मग्लानेश्चात्मनो रक्षणमुपदिशन्त्यपि सा अपरतो भगवतः कृष्णस्य प्रेमरसाप्लुतैः शब्दैर्विश्वासमपि ददाति—
कौन्तेय! प्रतिजानीहि न मे भक्तः प्रणश्यति।
(९।३१)
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति।
(६।४०)
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।
(२।४०)
अर्थात्, तात अर्जुन! कर्तव्यबुद्ध्या कर्म कुर्वन् कल्याणमार्गानुयायीश्वरभक्तः पथिको नहि कदापि दुर्गतिं गच्छतीति विश्वासं कुरु। कोऽपि सत्प्रयत्नो निष्फलतां गच्छेदिति नैव संभवति।
एषा हि कल्याणभावना भोगैश्वर्यप्रसक्तानाम्, इन्द्रिय-
लोलुपानाम्, अवसरानुकूलं स्वकार्यसाधकानामादर्शहीनानां जनानां नैव विषयः। एतत्स्वरूपं तु स एव वेत्तुमलं यस्यैष विश्वासोयत्सत्यभाषणं संयतजीवनम् आपत्तीनामागमनेऽपि स्वकर्तव्यपालनादपराङ्मुखत्वंतस्य स्वभावस्य तस्य व्यक्तित्वस्यान्तस्तमस्वरूपस्यावश्यकतैव। यथा खलु कस्यापि पुष्पस्य सौन्दर्यं’ सुगन्धश्च कमपि बाह्यहेतुमन्तरेण तस्य स्वरूपस्यैवाङ्गम्, एवमेव कल्याणमार्गस्थस्य पथिकस्य यन्नैरपेक्ष्येणानासक्तभावेन च कर्तव्यपालनं तद्धि तस्य स्वरूपस्यैवाङ्गम्। तेनैव तस्य जीवनस्य सार्थक्यं पूर्णाङ्गता च। एषैव गीतायाः सात्विकी श्रद्धा। गीताया भक्तेर्निष्कामकर्मणश्च मूल एषैव आशामयी श्रद्धामयी च कल्याणभावनावतिष्ठते।
आशावादमूला गीताया एषा कल्याणभावना, “यद्भद्रंतन्न आ सुव” (= भगवन्! यद्भद्रं कल्याणं वा वर्तते तदस्मान् प्रापय), “भद्रं जीवन्तो जरणामशीमहि” (= कल्याणमार्गेण गच्छन्तो वयं जीवनं यापयेमहि), “भद्रं कर्णेभिः शृणुयाम ‘देवा भद्रंपश्येमाक्षभिर्यजन्तः” (= कल्याणमेव कर्णैःशृण्वन्तः पश्यन्तश्च वयंधार्मिक कृत्यं सम्पादयेम) इत्येवमनेकत्र मन्त्रेषु वर्णिता भद्रभावना च वस्तुतोऽनर्थान्तरमेव उभयोरपि मूल आशावादः, उभयोरपि च लक्ष्यं मनुष्ये कर्तव्यबुद्धेरुद्बोधनमेव
उपसंहारः
अनन्तो वै महिमा गीतायाः। नूनं सास्माकं प्राचीनाया आर्यजातेरेकमनर्घ समुज्ज्वलं रत्नम्। अपेक्षितमेतद् यद्वयं तस्या वास्त-
विकं स्वरूपं महत्त्वमुपयोगं चावगच्छन्तस्तद्द्वारा आर्यजनतायां तन्द्रां क्लान्तिं दैन्यं निराशावाद मालस्यं प्रमादं दम्भं पाषण्डं चापसार्य तेषां स्थाने स्फूर्त्तेरुत्साहस्योल्लासस्याशाया आत्मसम्मानस्य कर्तव्यपरायणतायाः सत्यनिष्ठायाश्च स्थापनया नवजीवन संचारयेम।
गीताऽस्मदीया। नूनं सास्माकं गौरवस्य गर्वस्य च विषयः, परं सममेव तस्याः सार्वदेशिकं सार्वकालिकं च महत्त्वम्। समस्तमानवसमाजस्य कल्याणस्य रहस्यं तस्यां निहितम्। कर्तव्यबुद्धेर्भावनायां मधुररसस्य संचारं कुर्वन्त्या गीताया भक्तिवाद आत्मपरीक्षणं चैव संसारस्य संतप्तायोद्विग्नाय च मानवसमाजाय शान्तिप्रदानं कर्तुं मलम्। गीताया जीवनप्रदस्योपदेशस्य संदेशस्य च, स्वकीयाचरणेन, देशे सर्वत्र प्रसारणमेव नः प्रथमं कर्तव्यम्। एवं कृत एव स समयः शीघ्रमागच्छेद् यदा प्रबुद्धं भारतं मानवजातेःकल्याणभावनया गीताया अनुपमं शुभ्रं प्रकाशमासंसारं प्रवर्त्तयितुं समर्थं भवेत्। अन्ते योऽसावतीन्द्रियग्राह्योऽपि
विश्वमूर्त्तिर्महामूर्त्तिर्दीप्तमूर्त्तिरमूर्त्तिमान्।
अनेकमूर्त्तिरव्यक्तः शतमूर्त्तिः शताननः॥
(विष्णुस०)
स एव प्रार्थ्यतेऽस्माभिः—
सत्यनिष्ठाः कर्मपरास्तुष्टाः पुष्टाश्च मानवाः।
भवेयरमृतं पीत्वा गीताया जीवनप्रदम्॥१॥
वासनाद्वासुदेवस्य वासितं भुवनत्रयम्।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दन्तु मानवाः॥२॥
इति।
[TABLE]
काशिक-राजकीय-संस्कृत-महाविद्यालयस्य
अनुसन्धानमन्दिर-प्रारम्भोत्सवे
डाक्टर मङ्गलदेवशास्त्रिणो
भाषणम्
माननीयसभापतिमहोदयाः, देव्यः, सज्जनाश्च!
अद्वितीयो ह वा एष शुभावसरः काशिकराजकीयसंस्कृतमहाविद्यालयस्य दैर्घकालिक इतिहासे यद्वयमद्य, सहैव तस्य द्वितीयेनोपाधिवितरणोत्सवेन, तदीयानुसन्धानमन्दिरस्य प्रारम्भोत्सवमपि संभावयितुं समवेताः स्मः।
वर्षमिदं हि भारतवर्षस्येतिहासेऽभूतपूर्वम्। अनन्तरं हि बह्वीनां शताब्दीनां तस्य सुदिनं भूयः समुपस्थितम्, वयं च स्वकीयभाग्यविधातारः संवृत्ताः स्मः। एतादृशे सुयोगे संभाव्य-
मान एष प्रारम्भोत्सवोऽपि नूनं किमप्यद्वितीयं वैशिष्ट्यमावहति। सत्यमागामिनोभव्यभारतस्य शुभसंकेत एषः।
तदेतस्मिन् चिरायाविस्मरणीये शुभावसरे अहमात्मनो महाविद्यालयस्य च हेतोर् भवतः सर्वेषां महानुभावानां हार्दिकं सुस्वागतं ब्रवीमि।
प्रसन्नताया विषयो यदुक्तनवीनसंस्थाया उद्घाटनार्थमस्मत्प्रार्थना माननीयैः शिक्षामन्त्रिभिः स्वीकृता। तदर्थं सर्वेऽपि वयं तेषामतीव कृतज्ञाः। नूनमस्या नूतनसंस्थाया उपक्रमे त एव हेतवः। अतस्तानेव पुरस्कृत्य तस्याः प्रारम्भोत्सवो निर्वर्त्त्यतामिति सर्वथा समुचितम्। परं तदर्थं तेषामर्थनायाः प्रागिदमावश्यकं प्रतीयते यत्प्रकृतदृष्ट्यामहाविद्यालयस्यैतिहासिकपर्यवेक्षणेन अनुसन्धानमन्दिरस्याधारभित्तेः स्वरूपं विशदीक्रियताम्।
ऐतिहासिक-पर्यवेक्षणम्।
सरस्वतीभवनम्
यान्युद्देश्यान्यवलम्ब्य एष महाविद्यालयः १७९१ ई० बर्षे स्थापित आसीत् तेषु खलु संस्कृतवाङ्मयस्य संरक्षणं प्रचारः समुन्नतिश्चेति मुख्यान्यासन्। एषामुद्देश्यानां पुर्त्तये विशुद्धमहाविद्यालयविभागेन सममेव पुस्तकालयस्याप्येकस्य स्थापनमावश्यकत्वेनामन्यत। वर्तमानस्य विशालस्य सरस्वतीभवनस्य प्रारम्भस्तस्मादेव पुस्तकालयादजायत। तत्कालादारभ्यैव पुस्तकालय एष विशेषदृष्टेः पात्रमभूत्। आदौ महाविद्यालयप्रधानाध्यापक
एव पुस्तकालयकाय भारोऽपि न्यस्त आसीत्। प्रायेण १८१३ ई० संवत्सरे पुस्तकालयस्यापि कृते विशिष्टस्थानमेकं निर्मातव्यमित्येष निश्चयः क्रियते स्म। तस्मिन्नेव काले शतरूप्यकमासिकवेतनस्य पुस्तकालयाध्यक्षस्य नियुक्तिः संजाता, पञ्चाशद्रूप्यकवेतनौ च द्वौ सहायको नियुक्तौ।
संस्थापकानामभिप्रेतमासीद्यत्प्राग्वर्तिराजनीतिकविप्लववशात् कालकवलितानां प्राचीनपुस्तकालयानां यत्र तत्र विच्छिन्नैर्विलुप्तप्रायैश्चपुस्तकैः सहैव काश्यां बहिश्च निवसतां प्रसिद्धप्राचीनपण्डितकुलानां पुस्तकसंग्रहाणामेकत्रीकरणं संरक्षणं चोक्तपुस्तकालयद्वारा सुशकं भविष्यति। अस्मिन् विषये सरस्वतीभवनेन प्रभूता सफलता समधिगतेत्यत्र नास्ति संदेहः। अद्य मुगलशासनकाले सुप्रसिद्धस्य विदुषः पुस्तकसंग्रहीतुश्च सर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीमहोदयस्य नामाङ्कितानि उपशतं पुस्तकानि, भट्टभट्ट-शेष-धर्माधिकारिप्रभृतिसुप्रसिद्धपण्डितकुलानां चानेके हस्तलिखितपुस्तकसंग्रहाः सरस्वतीभवने सुरक्षितानि विद्यन्ते। किं बहुना, नास्त्यत्र संदेहो यद् अद्यत्वे पृथिव्यामतिप्रसिद्धेषु हस्तलिखितसंस्कृतपुस्तकालयेषु सरस्वतीभवनस्याप्येकं प्रमुखं स्थानमस्ति।
भारतीयसंस्कृतिसाहित्यविषयकः सरस्वतीभवनस्थो विभिन्नभाषासु मुद्रितानां पुस्तकानां संग्रहोऽपि स्वकीयं वैशिष्ट्यं भजते। वस्तुतः सरस्वतीभवनं (यदीयभव्यभवननिर्माणं डाक्टरवेनिसमहोदयस्य प्रभावेण १९१४ ई० वर्षे संपन्नम्) स्वत एव महाविद्यालयस्यास्य अमूल्या संपत्तिरस्ति।
ग्रन्थ-प्रकाशनम्
अनेन महाविद्यालयेन संस्कृतवाङ्मयस्य विलुप्तप्रायाणां दुर्लभानां च ग्रन्थानां संरक्षणेन सहैव एतद्वाङ्मयप्रकाशनविषये यत्कार्यं कृतं तदपि महत्त्वपूर्णमेव। चिरादेव महाविद्याल-योऽयंसंस्कृतक्षेत्रे साहित्यिककार्यस्य प्रधानकेन्द्रत्वेनैव स्थितः। अस्य दीर्घे इतिहासे एतदध्यक्षाध्यापकैः स्वयमेवं स्वप्रेरणया वा अस्यां दिशि यावत्कार्यं संपादितं तदुपरि पर्यवेक्षणात्मकदृष्टिपातनमिहाप्रासङ्गिकं न भवेत्। तच्च कार्यं वयं स्थूलदृष्ट्या तिसृषु कोटिषु विभजामः।
प्रथमकोटौ तावद् वयं विभिन्नदृष्टिभिरद्य यावन्निष्पन्नं नवीनग्रन्थनिर्माणात्मकं तत्कार्यं स्थापयामो येन महाविद्यालयस्य संस्कृतसाहित्यसमुन्नतिविषयकमूलोद्देश्यस्य केनचिदंशेन पूर्तिर्जातेति कथयितुं शक्यते। एवंविधकार्यस्य प्रारम्भः प्रथमतो महाविद्यालयप्रधानाध्यक्ष-श्री जे० म्यौर (१९४६-१८६१), डा० जे० आर० बैलण्टाइन (१८४६-१८६१) महोदययोः समये समजनि। एताभ्यां हि महोदयाभ्यां न केवलं तात्कालिकपाठ्यक्रमे गणितेतिहासपदार्थविज्ञानप्रभृतीनां नवीनविषयाणां समावेशार्थमेव प्रयतितम्, किन्तु तेषु विषयेषु संस्कृतभाषायां नूत्नोदन्तोदीत्स (=नूत्न+उदन्त+उदन्+उत्स=इंग्लैण्डेतिहासः)-इतिहासतमोमणि (=भारतवर्षस्येतिहासः) पदार्थविद्यासार-मानसधर्म-(= Mental & Moral Philosophy )विज्ञानसारसंग्रह-
(=Synopsis of Science) प्रभृतीनां नवीनग्नन्थानां निर्माणमपि कृतम्। ततः परं डा० बैलण्टाइनमहोदयस्य प्रयत्नेन स्थापितस्य तदानीन्तनस्य ऐंग्लोविभागस्य पर्यवेक्षणे पं० विट्ठल शास्त्रिप्रभृतिभिर्विद्वद्भिः कारिताः ‘नोवुम् आर्गैनुम् सदृशपाश्चात्यग्रन्थानां संस्कृतेऽनुवादा अपि अस्यामेव कोटौ निपतन्ति। खेदावहमेतद् यत्तदानीं प्रवर्त्तितमेतन्नूतनग्रन्थनिर्माणकार्यं कतिपयप्रकारकत्रुटिवशात् स्थायित्वं न लेभे।परन्तु महाविद्यालयसंबन्धवशाद्वा तत्संबन्धस्योपयोगं विधाय वा यद् ग्रन्थनिर्माणकार्यं श्रीग्रिफिथ-थीवोप्रभृतिमहाविद्यालयाध्यक्षैः, म० म० पं० बापूदेवशास्त्रि, म० म० पं० सुधाकरद्विवेद, म० म० पं० गङ्गाधरशास्त्रिप्रभृतिसुप्रसिद्धाध्यापकैश्च कृतं तस्य महत्त्वं कस्याविदतम्? एतदपि सुस्पष्टं महाविद्यालयस्यैव गौरवं ख्यापयति।
द्वितीयकोटौ महाविद्यालयस्य तन्महत्त्वपूर्णं कार्यं वर्त्तते यस्य सूत्रपातः श्रीग्रिफिथमहोदयस्य कार्यकाले १८६६ ई० वर्षे स्थापितस्य पण्डितपत्रापराभिधानस्य काशीविद्यासुधानिधिनामक संस्कृतपत्रस्य रूपेण जातः। अस्य पत्रस्य मुख्यमुद्देश्यं हि दुर्लभसंस्कृतग्रन्थानां तेषाम् इंग्लिशभाषानुवादानां च प्रकाशनमासीत्। एतत्पत्रद्वारा, १८६६ वर्षादारभ्य १९१७ पर्यन्तम्, राजकीयमहाविद्यालयीयप्रसिद्धाध्यापकैः संपादितानां शतासनप्राचीनदुर्लभसंस्कृतग्रन्थानां यथासंभवम् इंग्लिशभाषानुवादसहितानाम्) प्रथमवारं मुद्रणं प्रकाशनं च जातम्। कालेन प्रयत्नेऽस्मिन्शैथिल्य मुपागते, १९२० वर्षे म० म० डा० गङ्गानाथझा महोदयस्य
प्रयत्नेन ‘सरस्वतीभवनग्रन्थमाला,’ ‘सरस्वतीभवनानुशीलनपत्रिका’ च प्रारभ्येताम्।अद्यापि तत्कार्यं प्रायस्तेनैव रूपेण प्रचलति, पत्रिकयैव केवलमिदानीं प्राधान्येन संस्कृतपत्रिकायाः रूपं ‘धृतमास्ते। अस्यां नवीनग्रन्थमालायामद्य यावत् ८२ ग्रन्था इदं प्रथमं मुद्रिताः प्रकाशिताश्च। अनेके च ग्रन्था अद्यापि मुद्रणालय एव वर्त्तन्ते।
इत्थं पण्डितपत्र-सरस्वतीभवनग्रन्थमालाद्वारा अद्य यावद्-ग्रन्थानां प्रायेण द्विशती प्रथमतः प्रकाशिता। कस्या अपि संस्थायाः कृते एतत् साहित्यिकं कार्यं गर्वस्य विषयों भवितुमर्हति।
** तृतीयकोटौ** तत्साहित्यिकं कार्यमागच्छति यस्य प्रकाशनं तु संस्थान्तरैः कृतम्, परन्तु यदर्थं न केवलं प्रेरणैव, किन्तु प्रधानसामग्र्यपि अनेन महाविद्यालयेनैव प्रदत्ता। अस्मिन् हि विभागे ‘विजयनगरग्रन्थमाला’, ‘बनारस संस्कृत सीरीज़’, ‘चौखंभा संस्कृत सीरीज़’ प्रभृतिग्रन्थमालाः, एतन्महाविद्यालयसंबद्ध म० म० पं० विन्ध्येश्वरीप्रसादद्विवेदप्रभृतिविद्वद्भिर्वैयक्तिरूपेण संपादित-
ग्रन्थांश्चान्तर्भावयामः। अस्यामपि कोटौ शतशो महत्त्वपूर्णाः ग्रन्थाः समापतन्ति।
अनुसन्धानच्छात्रवृत्तयः
महाविद्यालये परीक्षार्थिनां छात्राणां कृते वृत्तीनां प्रबन्धे सत्यपि, अनुसन्धानकार्याथ छात्रवृत्तिप्रबन्ध ऊनविंशशताब्दीप-
र्यन्तं नासीदेव। अस्या न्यूनतायाः पूर्त्तिः१९०५ ई० वत्सरासन्नकालेडा० वेनिसमहोदयस्य प्रेरणया ‘राजामुंशीमाधोलाल’ प्रदत्त ४५००० रूप्यकात्मकनिधिद्वारा स्थापिताभिः साधोलालच्छात्रवृत्तिभिः संजाता। प्राधान्येन आधुनिकपद्धत्या अनुसन्धानशिक्षाप्रदानार्थमेव एतासां वृत्तीनां स्थापनमक्रियत। एतोअद्यापि प्रचलन्त्येव। १९२० ई० वर्षे म० म० डा० गङ्गानाथझा महोदयप्रेरेणया वर्षत्रयस्थायिन्यो विंशतिरूप्यकमासिकात्मिकाः षट् ‘पोस्ट-आचार्य’च्छात्रवृत्तयः प्रतिवर्षं दातव्या इत्यधिकारिभिर्घोषितम्। प्रौढपाण्डित्यप्रवर्धनमेव निरुक्तवृत्तीनां लक्ष्यत्वेन निर्दिष्टमासीत्।
अनुसन्धान-मन्दिरस्यावश्यकता
0 उपरिनिर्दिष्टेनैतिहासिकपर्यवेक्षणेत स्पष्टमिद यदेनेन महाविद्यालयेन अद्य यावद् यद् वाङ्गयप्रकाशनसंबन्धि अनुसन्धानसंबन्धि कार्यं कृतं तत् स्वसमयदृष्ट्या सन्तोषावहमिति कथयितुंशक्यते। तथापीदं सत्यमस्ति यद् महाविद्यालयसंबन्धिकाक्रमे तेन कार्येणाद्य यावत् कदापि प्रमुखस्थानं न लब्धम्। अतः इदं स्वाभाविकमेव यत् संस्कृतजगतः साहित्यिकानुसन्धानकार्ययोर्वर्त्तमानमानदृष्ट्या तत्कार्यमास्राम्प्रतिकं प्रतीयते। अत आधुनिकपरिस्थितिं निभालयता इदमेव वक्तव्यंयदवसरोऽयमुपस्थितो यदा उपर्युक्तं सर्वंकार्यं वास्तविकताया आधारेणैव संपादनीयम्। शब्दान्तरेषु, सरस्वतीभवनस्य विशिष्टानुसन्धान- मन्दररूपेण
संवर्धनं विकासश्च प्राप्तकालत्वेनात्यावश्यकं संजातम्। शासकैः १९३८ ई० वर्षे स्थापितया ‘महाविद्यालयपुनःसंघटनसमित्या’ एष एव प्रस्तावस्तेषां पुरः सुदृढं स्थापित आसीत्। प्रसन्नता-स्पदमेतद् यदधिकारिभिः स प्रस्तावः स्वीकृतः, तत्परिणामरूपश्च संस्कृतज्ञलोकेन चिराय सोत्कण्ठमुदीक्षितोवासरो लोकविदितसंस्कृतवैदुष्याणां संस्कृतविषयकप्रगाढानुरागाणां च एतत्प्रान्तीयमाननीयशिक्षामन्त्रिणां तत्परतया समुत्साहेन चाद्यसमुपस्थितः।
अनुसन्धान-मन्दिरस्य रूपरेखा
पूर्वोक्ताधारभितौ निर्मीयमाणम्, चिरन्तनकालात् संस्कृतविद्याया अद्वितीयप्रतिष्ठानभूतायामस्यां वाराणस्यां च स्थाप्यमानमेतदनुसन्धानमन्दिरं स्वभावत् एव सर्वेषामाशाबाहुल्यस्य केन्द्रं भविष्यतीति न प्रतिपादनमपेक्षते। तथापि केनापि मानदण्डेन एतस्य कार्यं स्वक्षेत्रे ऽनुसन्धानमन्दिरान्तरस्य कार्याद् उच्चकोटिकन्नचेद्निम्नकोटिकमपि भवितुन्नार्हति। एतदनुसन्धानमन्दिरस्थापकानामधिकारिणामपि ईदृश एवाभिप्राय इति मे विश्वासः। श्रनया दृष्टया एतदनुसन्धानमन्दिरस्य लक्ष्याणि वयं तात्कालिकदैर्घकालिकभेदाभ्यां विभजामः। प्रारम्भिककाले अस्य कार्यक्षेत्रं स्वभावत एव तात्कालिककायक्रमेण सीमाबद्धमेव तिष्ठेत्, दैर्घकालिककार्यक्रमस्तु कालान्तरेणैव व्यवहर्तुं शक्येत।
तात्कालिककार्यक्रमः
अनुसन्धानमन्दिरस्य तात्कालिककार्यक्रमस्तावदधोनिदष्टिप्रकारेण चतुर्विधो भवेत्—
(१) ग्रन्थमाला
(२) अनुसन्धानपत्रिका
(३) उत्तराध्ययन (= Post-graduateStudy) स्य अनुशीलनानुसन्धानयोश्च प्रबन्धः
(४) हस्तलिखितपुस्तकानां प्रमाणिकसूचीपत्राणि च।
एतेषां विवरणमधो निर्दिश्यते—
ग्रन्थमाला अनुसन्धानपत्रिका च
स्वनामानुरूपमस्यानुसन्धानमन्दिरस्य सर्वतो मुख्यमिदमेव लक्ष्यं यदेतन्महाविद्यालयसंसृष्टाः, अनुसन्धानमन्दिरसम्पर्किणश्च विद्वांसः स्वविशिष्टविषयेषु वैज्ञानिकप्रक्रियानुसारम् अनुसन्धानकार्यं कर्तुं प्रेरिताः प्रोत्साहिताश्च भवेयुः, तेषामनुसन्धानकार्यस्य च समुचितप्रकाशनप्रबन्धो विधेय इति। तदर्थं तावन्महाविद्यालयस्य ‘सरस्वती सुषमा’ पत्रिकैव त्रैमासिकानुसन्धानपत्रिकारूपेण प्रकाशनीयेति निर्धारितम्। एवमेव सरस्वतीभवनग्रन्थमालामपि उत्कृष्टग्रन्थमालारूपं ग्राहयित्वा, तस्यां वैज्ञानिकपद्धत्या सम्पादितानां प्राचीनानाम्, अद्यावधि अमुद्रितानाम्, ग्रन्थानामेव सामान्यतः प्रकाशनं भवेदित्यपि अस्मदीयो विचारः। प्राधान्येन
नैकशताब्दीतो वाराणस्यमध्ययनाध्यापन-परम्परायां प्रचलितेषु वेदव्याकरणदर्शनतन्त्रधर्मशास्त्रविषयेष्वेव विशिष्टग्रन्था महाविद्यालयस्थैरन्यैश्च विद्वद्भिः सम्पाद्य ग्रन्थमालायामस्यां प्रकाशिता भवेयुः। महत्त्वभाजो मौलिकग्रन्था अप्यत्र प्रकाश्येरन्।
प्राचीनग्रन्थसम्पादनविषये वैज्ञानिकपद्धतेः परमावश्यकतेति न तिरोहितं विदुषाम्। परमेतत् खेदास्पदं यदद्यापि अस्मद्देशे तन्महत्त्वंप्रायेण नावगम्यते। यः कोऽपि, नितरां ग्रन्थसम्पादनकलया अपरिचितोऽपि स्वेच्छानुरूपं सम्पादनकार्यंकर्तुमारभते। नासौ संपादनकार्यार्थमाधारपुस्तकानां तत्पाठान्तराणां वा परस्परसंबन्धमवगन्तुं पारयति न च तेषां प्रामाणिकतामप्रामाणिकतां वा परीक्षितुं शक्नोति। एतस्या अनास्थाया एवैष दुष्परिणामो यदनेकेषां प्रकाशितग्रन्थानां पाठाः प्रायेणोत्तरोत्तरं भ्रांशमाना दृश्यन्ते; अनेकेषां च तेषां प्रामाणिकता संपादकानामसावधानतावशाद्वा मूलग्रन्थे मनःकल्पितपाठपरिवर्तनादिहेतुभिर्वा, साधारणमूलादर्शपुस्तकापेक्षयापि, न्यूनतरैव दृष्टिपथमागच्छति। एतस्या दुष्परिस्थितेः प्रतीकारार्थं यत्रैकतोऽद्यावध्यमुद्रितानां ग्रन्थानां प्रकाशनमावश्यकम्, तत्रैव परतस्तेषां सम्पादने वैज्ञानिकप्रक्रियाया अवलम्बनमपि सविशेषमावश्यकम्। एतासामावश्यकतानां पूर्त्तिरेव प्रथमं लक्ष्यं भवेदुक्तग्रन्थमालाया इत्येष नो विचारः।
अनुसन्धानार्थं छात्रवृत्तयः
आशास्महे यदियं संस्था किञ्चित्कालानन्तरमेव अनुसन्धानेन सहैव उत्तराध्ययनस्यानुशीलनस्य च केन्द्रत्वपदमवाप्स्यति। इद-
मेवाभिलक्ष्य अद्यत्वे छात्रेभ्य आकर्षणरहिता महाविद्यालयस्य पोस्ट-आचार्यवृत्तीरपास्य तत्स्थाने कतिपयास्तद्विशिष्टाश्छात्रवृत्तयः स्थापिताः सन्त्यधिकारिभिः। एता वृत्तयो ‘विशिष्टाचार्य’ ‘वाचस्पति’ नामक विशिष्टपरीक्षयोः कृते दास्यन्ते। एतदध्ययनकालश्च क्रमेण द्वेत्रीणि च वर्षाणि यावद् भविष्यति। वाचस्पतेः पदं विश्वविद्यालयानां ‘डाक्टर’ इत्युपाधेः समानं भवेदित्यस्माकमभिवाञ्छितम्। दृढमाशास्महे यदेताभिर्वृत्तिभिः संस्कृतवाङ्मयविषये मौलिकानुसन्धानस्य नूतनग्रन्थनिर्माणस्य च प्रवृत्तिरभीष्टमुत्साहं लभेत। स्पष्टमिदं यदनुसन्धानानुशीलनयोः क्षेत्रस्य विस्तारेण सहैव संस्थायां विभिन्नविषयेषु विशेषज्ञानां विदुषामावश्यकता भविष्यति। नूनमत्र विषयेऽधिकारिणो यथावसरं दत्तावधाना भविष्यन्तीत्याशास्यते।
हस्तलिखितपुस्तकानां प्रामाणिक्यः सूचयः
अनुसन्धान-मन्दिरस्यान्तिमस्तु तात्कालिककार्यक्रमः सरस्वतीभवने संगृहीतानां पञ्चाशत्सहस्रासन्नानां हस्तलिखितपुस्तकानां परीक्षणपुरस्सरं विषयानुसारिवर्गीकरणं प्रामाणिकसूचीनिर्माणं च भविष्यति। कस्यापि पुस्तकालयस्य सदुपयोगाय तत्रत्यपुस्तकानां प्रामाणिकं सूचीपत्रमपेक्ष्यते। तत्र हस्तलिखित पुस्तकानां कस्यापि विशालसंग्रहस्य विषये तु यत्र अद्यावधि अमुद्रितानां पारेसहस्रं ग्रत्थानां संभावना भवेत्, सूचीपत्राण्यतितरामावश्यकानि। एतत्सूचीपत्रनिर्माणप्रसङ्गेन कियन्ति तिरोहितानि अमूल्यानि
ग्रन्थरत्नानि पुनर्लभ्येरन्निति न वक्तुं शक्यते। तानि मन्थरत्नानि अन्वेषयितुम्, तेषां यथार्थं मूल्यं विनिश्चेतुम्, अपूर्णग्रन्थानां स्वरूपं निर्धारयितुञ्च विशेषज्ञ एव विद्वानपेक्ष्यते निरीक्षकत्वेनास्य कार्यस्य। भारते यूरोपीयदेशेषु च सुप्रसिद्धहस्तलिखितसंस्कृतपुस्तकसंग्रहाणां सूचीपत्राणि म० म० डा० हरप्रसादशास्त्रि-वेबर-कीथ-एग्लिंग-आउफ्रेख्टप्रभृतिसुप्रसिद्धविद्वद्भिरेव सम्पादितानि सन्ति। एतादृशप्रामाणिकसूचीपत्रद्वारैव देश्या वैदेशिकाश्च विद्वांस एतादृशसंग्रहारणामुपयोगं कर्तुं शक्नुवन्ति।
अलमेतत्प्रतिपादनेन यदुपर्युक्तं तात्कालिकं कार्यक्रममेव यथाविधि सफलतापूर्वकं सम्पादयदिदमनुसन्धानमन्दिरं नूनं देशदेशान्तरीयसंस्कृतानुसन्धानसंस्थासु प्रमुखमेकं स्थानमासादयितुं प्रभविष्यति। स्मरणीयन्त्विदमेव यत् कस्मिन्नपि कार्ये सफलताया रहस्यं तत्संपादनप्रकार एव निहितं भवति।
दैर्घकालिकः कार्यक्रमः
पूर्व प्रतिपादितं यत्तात्कालिककार्यक्रमातिरिक्तो दैर्घकालिककार्यक्रमोऽप्येकोऽस्यानुसन्धानमन्दिरस्य भविष्यति। अस्माकं विचारेण तस्य कार्यक्रमस्य स्वरूपेण तथा व्यापकेन भाव्यं यथैतन्न केवलं महाविद्यालयस्यास्य साम्प्रतिकदेशव्यापिप्रभावस्य भाविनो वा तस्य विस्तारस्य, किन्तु भारतीयसंस्कृतेः प्रमुखप्रतिष्ठानत्वेन विश्वविख्याताया अस्या वाराणस्या गौरवस्याप्यानुरूप्यंभजेत। अस्यायमेव निष्कृष्टोऽर्थो यदिदमनुसन्धानमन्दिरं तथा विकास-
[TABLE]
माप्नुयात् यथेदम्, न केवलमेशियाखण्डे, अपि तु सर्वस्मिन्संसारे, वास्तविकदृष्ट्या भारतीयसंस्कृतेः, साहित्यस्य, दर्शनस्य चोत्तराध्ययनार्थमनुसन्धानार्थमनुशीलनार्थं च प्रमुखं केन्द्रं भवितुंशक्नुयात्। अस्य दृष्टिर्विशालभारतीया भवेत्, वैदिकबौद्धजैनादिरूपेण विस्तृताया भारतीयसंस्कृतेरपेक्षया चास्य महत्त्वमन्ताराष्ट्रियं भवेत्।
अष्टादशशताब्द्या अन्तिमभागमारभ्य यन्महत्त्वयुक्तं कार्यं प्रायेण वैदेशिकैर्विद्वद्भिर्भारतीयवाङ्मयस्य, विशेषतः संस्कृतसाहित्यस्योद्धारार्थंकृतं तत्सर्वथा श्लाघनीयमेव। एतस्मिन्नेव काले भारतीयसंस्कृतेर्हृदयमन्तरात्मानं वा अवबोद्धुंतैर्बाढं प्रयतितम्। परन्तु सर्वोऽप्ययं तेषां प्रयत्नः सर्वथा श्लाघ्योऽपि भारतीयदृष्ट्या वस्तुतः सफलः सन्तोषावहश्चेति वक्तुं न शक्यते।
वस्तुतस्तु भारतीयसंस्कृतेर्वास्तविकं स्वरूपं तस्यामास्थावन्तो भारतीया एव विद्वांसो बोद्धुंबोधयितुं च प्रभवन्ति। तया संस्कृत्या इतिहासे एकदा मानवसमाजाय, न केवलं विशालभारतक्षेत्र एव, अपि तु मेक्सिकोपर्यन्तं विस्तृतेषु देशदेशान्तरेष्वपि, वास्तविकशान्तेः, सुखस्य सहिष्णुतायाः, प्रेम्णश्च सन्देशोदत्त आसीत्। निखिलेऽपि जगति इयमेवैका संस्कृतिर्या लोकपरलोकयोर्भुक्तिमुक्त्योरभ्युदयनिःश्रेयसयोर्जातिव्यक्त्योर्विभिन्नधार्मिकसम्प्रदायानां च द्वन्द्वेपरस्परं समन्वयं सामञ्जस्यं च स्थापयितुं शक्नोति सन्तप्तमुद्विग्नं च मानवसमाजं वास्तविकीं शान्तिं परस्परं सौहार्दं चोपदेष्टुं पारयति।
इत्थञ्च अस्यानुसन्धानमन्दिरस्य सर्वप्रधानं मौलिकं वा लक्ष्यन्तु भारतीयसाहित्यदर्शनयोरनुशीलनानुसन्धानाभ्यां भारतीयसंस्कृतेरन्तरात्मनोदर्शनं, तदीयवास्तविकसन्देशस्य च संसारे प्रचारणमेव भवितुमर्हति। निस्सन्देहमेतद् यदिदानीमनेकशताब्द्यनन्तरं दास्यबन्धनादुन्मुक्तेऽस्मिन्वातावरणे भारतीया एव कार्यमिदं कर्तुं शक्नुयुः। एतत् प्रधानं लक्ष्यमभिलक्ष्यैव अस्यानुसन्धानमन्दिरस्य दैर्घकालिककार्यक्रमो निर्धारणीयः। अस्मन्मते लक्ष्येऽस्मिन् सफलताप्राप्त्यै अस्माकं दैर्घकालिकी योजना अधोलिखितानुसार भवितुमर्हति।
विशेषज्ञानां विदुषां नियुक्तिः
दैर्घकालिकयोजनांकार्यान्वितां कर्त्तुम्, विभिन्नविषयेषु अनुशीलनानुसन्धानानुकूलां परिस्थितिं च संपादयितुं सर्वप्रथममनुसन्धानमन्दिरे तुलनात्मकया ऐतिहासिक्या च दृष्ट्या भारतीयपुरातत्त्वे भाषाविज्ञाने वेदादिवाङ्मये दर्शनविषये च विशेषज्ञानां विदुषां नियुक्तेरावश्यकता भविष्यति। ईदृशान्विदुषो विना विभिन्नविषयेषु वाचस्पतिसदृशपरीक्षाणां कृते समुचितप्रबन्धोऽपि न कर्तुं शक्यते। किञ्च प्रौढिदृष्ट्या विस्तारदृष्टया च महाविद्यालयेऽध्ययनाध्यापयोर्दशायां क्रमशोऽभ्युन्नतिरप्यपेक्षिता भविष्यति। तत्रापि पूर्वोक्तनियुक्तिभिर्नूनं साहाय्यं लभ्येत।
नूतनग्रन्थनिर्माणाय प्रोत्साहनम्
तात्कालिककार्यक्रमप्रसङ्गेन प्राचीनानाममुद्रितानां ग्रन्थानां प्रकाशनस्योल्लेखोऽस्माभिरुपरिष्टात् कृत एव। सहैव तेन इद-
मप्यावश्यकं यत्प्राचीनविभिन्नविषयेषु गम्भीरव्यापकाध्ययनानन्तरं नूतना निबन्धालेखनीया इति। दृष्ट्यन्तरेणापि नूतनग्रन्थनिर्माणमावश्यकं प्रतीयते। अतिरोहितमेतद्विदुषां यदस्माकं चैरकालिकराजनीतिकदास्यवशात् संस्कृतसाहित्यस्य विभिन्नविषयेषु प्रगतिरनेकशताब्दीतोऽवरुद्धैव तिष्ठति। तेषां सर्व दृष्टिक्षेत्रं मध्यकालीनमेव। या पुनः स्वतन्त्रषु देशान्तरेषु विद्यायाः साम्प्रतमभ्युन्नतिः सम्पन्ना तयास्माकंसंस्कृतवाङ्मयमद्यापि अस्पृष्टमेवास्ते। अत एव संस्कृताध्ययनाध्यापने वर्तमानजगति अद्यापि प्राचीनवस्तुसंग्राहालयरूपेणैव दृश्येते। न तयोः सांप्रतिकता अद्यावधिकता वा विद्यते। अत्यन्तमावश्यकं यदियं स्थितिः परिवर्तेत, अस्माकं संस्कृतज्ञा विद्वांसश्च स्वस्वविषयेषु साम्प्रतिकज्ञानस्य समकक्षतामानेतुं प्रयतेरन्निति। अनया दृष्ट्यापि नूतनग्रन्थनिर्माणप्रवृत्त्यै प्रोत्साहदानमस्यानुसन्धानमन्दिरस्य विशिष्टं लक्ष्यं भवितुमर्हति।
वैदेशिकभाषाणां शिक्षणस्य प्रबन्धः
आधुनिकजगति जातैराविष्कारविशेषैरद्यत्वे ससारोऽयमतिसङ्कुचित इव प्रतीयते। गमनागमनयोः सौकर्यकारणेन अद्यत्वे तस्य विस्तारो व्यावहारिकदृष्ट्या प्राचीनकालिकैकप्रान्ततोऽप्यल्पीयानेव। अत एव देशदेशान्तरेषु परस्पर विचाराणामादानप्रदानं प्रात्यहिकं वृत्तम्। अत एव च ज्ञानस्य प्रत्येकक्षेत्रेक्रमशो लब्धपदासार्वभौमता समालोच्यते, अस्यां परिस्थितौ संसारस्य समुन्नतज्ञान-
विज्ञानेन सह वास्तविकसंपर्कस्थापनार्थम्, वैदेशिकैर्विद्वद्विर्यदद्भुतं गवेषणात्मकं कार्यमैतिहासिकतुलनात्मकप्रक्रिययोरवलम्बेन प्राचीनसंस्कृतीनां विषये कृतं तस्योपयोगार्थम्, भारतीयसंस्कृतिसन्देशं च देशान्तरेषु नेतुं संस्कृतज्ञानां विदुषां कृते तत्तद्देशीयसमुन्नतप्रधानभाषाणाम्, विशेषतस्तु प्राचीनविशालभारतक्षेत्रस्य मुख्यभाषाणाम्, ज्ञानमत्यन्तमावश्यकम्। अत एव मन्मते हिन्दुविश्वविद्यालय-काशीविद्यापीठयोःसहयोगेन अनेनानुसन्धानमन्दिरेण इंग्लिशभाषया सार्धं जर्मनी-फ्रा़ंस-रूस-चीन-तिब्बतदेशीयभाषाणामपि शिक्षणस्य समुचितः प्रबन्धः करणीयः। मदीय एष विश्वासोयद् यदीदमनुसन्धानमन्दिरं पूर्णविकासाय अवसरं लभते, तहि कतिपयवर्षानन्तरमेव तथाविधः समयः समुपस्थितो भविष्यति यदा प्राचीनकाले काश्यपमातङ्ग-उपाध्यायदीयङ्करश्रीज्ञान-कुमारजीव-परमार्थ-प्रभृतिभारतीयविद्वांस इव पुनरप्यस्माकं संस्कृतज्ञा विद्वांसोऽस्माकं संस्कृतेः सन्देशवाहका भूत्वा विदेशेषु गमिष्यन्ति, वैदेशिकविश्वविद्यालयैश्च सह महोपाध्यायानां परिवर्तनञ्चप्राप्स्यते।
विदेशीयानां विदुषामुत्तराध्ययनस्य प्रबन्धः
अनुसन्धानमन्दिरेण आत्मन उपरिनिर्दिष्टकार्यक्रमे सफलता लभ्यते चेतर्हि न तद्दिनं दूरे यदा प्राचीनकालिक-इत्सिंग-फाहिआन-युआंग्च्वांग्-अल्बरूनीप्रभृतिविद्वांस इव अनेके वैदेशिका विद्वांसो भूयोऽपि भारतीयज्ञानस्य उत्तराध्ययनाय अनुशीलनाय च इहा-
गन्तुंसमुत्सुका भविष्यन्ति। तस्यामवस्थायां तादृशानां विदुषां कृते इह निवासविद्याध्ययनादिसौलभ्यस्यापि प्रबन्ध आवश्यकत्वेन करणीयोभविष्यति।
संक्षेपेणानुसन्धानमन्दिरस्य दैर्घकालिककार्यक्रमस्य इयमेव रूपरेखा। परमस्य महाविद्यालयस्य यादृशे विकासे सर्वमेतत् सम्भाव्यते तादृशोविकासोनूनं विश्वविद्यालयरूपेण तस्य समुन्नतिमपेक्षते। अत एतन्महाविद्यालयस्य एतन्महाविद्यालयसंबद्धानां परःशतानां विद्यालयानां च प्रातिनिध्येन प्रान्तीयाधिकारिवर्गस्य पुरस्तादस्माकमियमेवाभ्यर्थना यद् यथासंभवम् भारतीयस्वतन्त्रताया ऐतिहासिकेऽस्मिन् वर्ष एव संस्कृतविश्वविद्यालयस्थापनासमारम्मस्य घोषणावश्यं क्रियताम्।
सौभाग्येन प्रान्तेऽस्मिन् संस्कृतशिक्षायाः प्रधानस्तम्भभूता अस्माकं माननीयाः शिक्षामन्त्रिमहोदया अद्येहैव विराजन्ते। संस्कृतस्य संस्कृतविदुषां च प्रोत्साहनाय प्रभूतं प्रयतितमत्रभवद्भिः। तदर्थं न पारयामो वयं पर्याप्तान् धन्यवादान् प्रदातुंश्रीमद्भ्यः। दृढमाशास्महे यन्नूनं श्रीमतां द्वारैवास्माकं विश्वविद्यालयस्यापि स्थापना भविष्यति। पर्यवसाने श्रीमन्तोऽनुसन्धान-मन्दिरस्य प्रारम्भणीयं भाषणम् आरभन्तामिति प्रार्थ्य विरमामि॥
-
*
श्रुतिविमर्शः
ऐतरेयब्राह्मण आचारविचाराः
अथवा
ऐतरेय-पर्यालोचनम्
यामुपजीव्य प्रवृत्तानि शास्त्राणि विविधान्यपि।
श्रेयोऽभ्युदयसिद्धयैकहेतुं तां श्रुतिमाश्रये॥
वैदिकवाङ्मये ब्राह्मणभागस्यातीव महत्त्वमिति नाविदितं वैदिकानां विदुषाम्। “मन्त्रब्राह्मणयोर्वेदनामधेयम्” (आपस्तम्बयज्ञ परि० सू०३१) इत्यादिप्रमाणैर्ब्राह्मणभागस्यापि वेदान्तर्गतत्वमित्येष वै संप्रदायः। तत्र पूर्वमीमांसासूत्रे (मन्त्रब्राह्मणनिर्वचनाधिकरणयोः) “तच्चोदकेषु मन्त्राख्या”, “शेषे ब्राह्मणशब्दः (मी० २।१।३२-३३) इति सूत्रानुसारेण मन्त्रभागविशिष्टो वेदभागो हि ब्राह्मणमित्येवं सामान्येन ब्राह्मणलक्षणं प्रतिपादितम्।
अन्यत्र तु “वेदो द्विधा मन्त्रात्मको ब्राह्मणात्मकश्च। तत्राद्यः कर्माङ्गभूतद्रव्यदेवतास्मारकः। ….द्वितीयश्चतुर्धा विधिनिषेधार्थवादनामधेयात्मा। आद्योद्विविधो मुख्योऽमुख्यश्च। लिङ्-लोट्-लेट्-तव्यत्तवैप्रत्ययो मुख्यः। स च यजेतेत्यादिरूपः। …..लिङादीनां भावनाविधायकत्वेन मुख्यं विधित्वम्। तद्युक्तानि “स्वर्गकामो यजेत”
इत्यादीनि वाक्यान्यपि विज्ञातभावनापेक्षितांशत्रयसापेक्षकत्वाद्विशिष्टभावनानुष्ठापकत्वाच्चामुख्यविधिरित्युच्यते। ….सोऽयं विधिः प्रवर्तनात्मकः। निषेधस्तु “ब्राह्मणो न हन्तव्यः”, " न हिंस्यात्सर्वाणि भूतानि” इत्यादिरूपः। अर्थवादस्तु विधिस्तावकः प्ररोचनाविशेषजनकः। …नामधेयं तु गुणफलोपधानार्थम्। यथा “अग्निहोत्रं जुहोति” इत्यादि।” (प्रतिज्ञासूत्रपरिशिष्टभाष्यम् १।२) इत्येवं हि मन्त्रब्राहाणाभेद उपवर्णितः।
सत्यप्येवं प्राधान्येन विधिप्रतिपादको वेदभाग एव ब्राह्मणमित्येष वै सर्वसम्मतः सिद्धान्तः। तथा चापस्तम्ब आह “कर्मचोदना ब्राह्मणानि” (आपस्तम्बय० प० सू० ३२) इति। अत एव चोदनालक्षणं धर्ममधिकृत्य प्रवृत्ते पूर्वमीमांसासूत्रेतत्तद्ब्राह्मणवाक्यान्येव प्रायेण तत्र तत्र विचार्ययन्ते।
परमेवं पूर्वमीमांसया सम्यगालोचितेऽपि प्राधान्येन कर्मचोदनापरेऽतिगम्भीरे ब्राह्मणात्मके वेदभागे तत्र तत्र प्रसङ्गेनान्येऽपि नानाविधविषया उट्टङ्किता विद्यन्ते। तद्यथा ब्रह्मयज्ञप्रकरणे “यद् ब्राह्मणानीतिहासान् पुराणानि कल्पान् गाथा नाराशंसीः” (तै० आ० २।९) इति श्रूयते। अत्र हि विप्रपरिव्राजकन्यायेन ब्राह्मणाद्यवान्तरभेदानामेवेतिहासादीनां पृथगभिधानमित्येष सिद्धान्तः। तत्र “देवासुराः संयत्ता आसन्” (तै० सं० १।५।१।१) इत्यादय इतिहासाः। इदं वा अग्रे नैव किञ्चनासीन्न द्योरासीत्” (तै० सं० २।२।९।१) इत्यादिकं जगतः प्रागवस्थानमुपक्रम्य सर्गप्रतिपादकं वाक्यजातं पुराणम्। कल्पस्त आरुणकेतुकचयनप्रकरण आम्नायते—” इति मन्त्राः कल्पोऽत ऊर्ध्वम्”
(तै० आ० १।२६।१) इति। अग्निचयने—‘यमगाथाभिः परिगायति” (तै० सं० ५।१।८।२) इति विहिता मन्त्रविशेषा गाथाः। मनुष्यवृत्तान्तप्रतिपादिका ऋचो नाराशंस्यः।
सर्वज्ञाननिधावप्रमेये वेदे वेदभागे वा सर्वमेतद् युज्यत एव। तथा च मनुः—
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम्।
अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः॥१२।९४॥
चातुर्वर्ण्यंत्रयो लोकाश्चत्वारश्चाश्रमाः पृथक्।
भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिद्ध्यति॥१२।९७॥
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम्।
तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम्॥१२।९९॥
सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च।
सर्वं लोकाधिपत्यं च वेदशास्त्रविदर्हति॥१२।१००॥ इत्यादि।
अतस्ते प्रसङ्गागता नानाविषयाः क्रमेण संगृहीता विमृष्टाश्च न केवलं विपश्चितां मनस्तोषाय किन्तु ज्ञानवृद्धयेऽपि भवितुमर्हन्तीत्यसंशयं वक्तुं शक्यते। एतदभिप्रायेणैवेयं विचारमाधुकरी प्रबन्धमालाक्रमेणात्र विदुषां पुरस्तादुपस्थापयिष्यते।
तत्र तावद् बह्वृचाना मुख्यमैतरेयब्राह्मणमधिकृत्यैव प्रबन्धमालैषा प्रस्तूयते। अस्मिन् प्रथमे निबन्धे तु रीति-नीति-स्वर्ग-यज्ञस्वरूप-तत्तद्देवतास्वरूपं-तत्तत्पदार्थविज्ञानादिविषयका विचारा एवाद्य संग्रथ्यन्ते।
(१) विद्याया विदुषां च प्रशंसा
अन्यब्राह्मणेष्विव ऐतरेयब्राह्मणेऽपि विद्याया विदुषां च प्रशंसा यत्र तत्र बहुधा श्रूयते। “तमसो मा ज्योतिर्गमय” इत्यादिश्रुत्यन्तरानुरूपमिहापि ज्ञानस्य प्रकाशेनाज्ञानस्य च तमसातद्द्वारा च मृत्युना साम्यमसकृत् प्रतिपाद्यते। होतृप्रभृतयो यदि स्वकर्तव्यविदो विद्वांसः तदैव यज्ञस्य साफल्यं जनताया देशस्य च समृद्धिं कल्याणं च सम्पादयितुंकल्पन्ते, नान्यथा—इत्यादयो हृदयङ्गमा विचाराः प्रसन्नगम्भीरया गिरा प्रकटीकृता विद्यन्ते। तद्यथा—
अप्यश्लीलस्य श्रोत्रियस्य मुखं व्येव ज्ञायते तृप्तमिव रेभतीव।
(ऐ० ब्रा० १।२५)
अश्लीलस्य कुरूपस्य। श्रोत्रियस्य वेदशास्त्रविदः। तृप्तमिव दैन्यहीनतया तृप्तियुक्तमिव। रेभतीव वेदशास्त्रपाठोपेतत्वाच्छंसन्निव। वि एव ज्ञायते विशेषेणावश्य प्रतीयते। (सायणः)
चित्रमिव वै ब्रह्मवर्चसम्। (ऐ० ब्रा० ४।११)
ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः।
दीदायेव वै ब्रह्मवर्चसम्। (ऐ० ब्रा० ४।११)
दीदाय दीप्यते।
द्युमदिव वै ब्रह्मवर्चसं विभाति। (ऐ० ब्रा० ४।११)
द्युमत् प्रकाशयुक्तम्।
आत्मसंस्कृतिर्वाव शिल्पानि। (ऐ० ब्रा० ६।२७)
आत्मसंस्कृतिः। आत्मनः संस्करणानि
** तस्माद्धाप्येतर्हिनक्तं यावन्मात्रमिवैवापाक्रम्य बिभेति। तम इव हि रात्रिर्मृत्युरिव।** (ऐ० ब्र० ४।५)
यावन्मात्रमिवैव। यत्किञ्चिदपि वा दूरं रात्रौ गृहादपक्रम्य।
मृत्युर्वै तमश्छाया। ( ऐ० ब्रा० ७।१२)
अवरेणैव वै देवान् काव्याः, परेणैव पितॄन्। (ऐ० ब्रा० ३।३७)
काव्या देवानां स्तोतारः। (सायणः)
** ये वा अनूचानास्ते कवयः**। (ऐ० ब्रा० २।२)
अनूचानः प्रवचने साङ्गेऽधीती (अमरः)
** सर्वा दिशः कल्पन्ते, कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान् होता भवति।** (ऐ० ब्रा० १।७)
** सर्वा विशः कल्पन्ते, कल्पते यज्ञोऽपि तस्यै जनतायै कल्पते यत्रैवं विद्वान् होता भवति।**(ऐ०ब्रा० १।९ )
( २ ) वाङ्मनसयोः प्रशंसा
“अ॒हं राष्ट्री॑ सं॒ ग॑म॒नी व॑सूनां चि॒कितु॑षा प्र॒थमा य॒ज्ञि॑यानाम्।
तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम्॥” (ऋ०१०।१२५।३) इत्यादिप्रकारेण आम्भृण्यादिसूक्तेषु वर्णिताया वाचः, “यत्प्र॒ज्ञान॑मु॒त चेतॊ॒ धृति॑श्च॒ यज्ज्योति॑रन्तर॒मृतं प्र॒जासु। यस्मा॒न्न ऋ॒ते
किञ्च॒न क॑र्मक्रि॒यते॒ तन्मे॒मनः॑ शि॒वसं॑कल्पमस्तु॥(यजु० ३५।२) इत्येवं बहुधा संकीर्तितस्य मनसोऽपि च वास्तविको महिमा अन्ये च वाग्विषया विशेषा अत्र ब्राह्मणे यत्र तत्र श्रूयन्ते। तद्यथा—
तिर इव वा एतद्वाचो यदुपांशु। (ऐ० ब्रा० २।७)
तिर इव तिरोहितमिव।
** तिस्रो वै देवानां मनोतास्तासु हि तेषां मनांस्योतानि। वाग्वै देवानां मनोता तस्यां हि तेषां मनांस्योतानि। गौर्वै देवानां मनोता तस्यां हि तेषां मनांस्योतानि । अग्निर्वै देवानां मनोता तस्मिन् हि तेषां मनांस्योतानि। अग्निः सर्वा माताः। अग्नौ मनोताः संगच्छन्ते।** (ऐ० ब्रा० २।१०)
देवानां मनांस्योतानि दृढं प्रविष्टानि यस्यां देवतायां सा मनोता।( सायणः)
** यथा धेनुमुपह्वयेत, तेन वत्सेन यजमानाय सर्वान् कामान् दुहे। सर्वान् हास्मै कामान् वाग् दुहे।** (ऐ० ब्रा० ६।३)
दुहे सम्पादयति। तु० “कामान् दुग्धे विप्रकर्षत्यलक्ष्मीं, धेनुं धीराः सूनृतां वाचमाहुः” (उत्तररामचरिते)।
असुर्या ह वा इतरा गिरः। ( ऐ० ब्रा० ३।४६ )
असुरेभ्यो हिता असुर्याः। इतरा गिरः। देववाक्यादितराः, देवविरोधिन्य इत्यर्थः।
** यां वै दृप्तो वदति यामुन्मत्तः सा वै राक्षसी वाक्।** (ऐ०ब्रा० २।७ )
तु “ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः” (उत्तररामचरिते)। दृप्तो दर्पं प्राप्तः।
वाग्घि ऐन्द्री। (ऐ० ब्रा० २।२६)
ऐन्द्री। इन्द्रस्य व्याकरणकर्तृत्वेन। अथवा “बि॒भ॒र्म्य॒हमि॑न्द्रा॒ग्नी” (ऋ० १०।१२५।१) इत्याम्भृणीया श्रुतिरत्रानुसंधेया।
वाग्घि ब्रह्म। (ऐ० ब्रा० २।१५)
तथा च स्मर्यते “अनादिनिधना दिव्या वागुत्सृष्टा स्वयम्भुवा” इति। अथवा “अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्” इत्याद्यत्रानुसन्धेयम्।
वाग्घि वज्रः। ( ऐ० ब्रा० ४।१)
अयथाप्रयुक्ता हि वाग्वज्रसदृशीजायते।
वाग्वै त्वष्टा। वाग्हीदं सर्वं ताष्टीव। (ऐ० ब्रा० २।४)
ताष्टीव तक्षतीव। यथा तक्षणेन काष्ठं प्रौढमपि सूक्ष्मं भवति। एवं महान्तोऽपि पर्वतादयोऽल्पेनैव शब्देन गृह्यन्ते। तदेतज्जगत्तष्टनमिव भवति। (सायणः)
वाग्वै यज्ञः। (ऐ० ब्रा० ५।२४)
वाग्वै राष्ट्रो। (ऐ० ब्रा० १।१९)
वाग्वै शर्मः। (ऐ० ब्रा० २।४०)
वाग्वै समुद्रो न वै वाक् क्षीयते, न समुद्रः क्षीयते। (ऐ० ब्रा० ५।१६)
तथा च पस्पशाह्निके “महान् शब्दस्य प्रयोगविषयः। सप्तद्वीपावसुमती, त्रयो लोकाः” इत्यादि।
** वाग्वै सुतर्मा नौः। वाचमेव तदारुह्य तया स्वर्गंलोकमभिसन्तरति।** (ऐ० ब्रा० १।१३)
** सप्त वै वागवदत्।** (ऐ० ब्रा० २।१७)
लोके गानरूपा या वागस्ति सा ‘सप्तधा अवदत्’। षड्जऋषभादिस्वरोपेता प्रवृत्ता। (सायणः)। तैत्तिरीयप्रातिशाख्ये तु “सप्त वाचः स्थानानि भवन्ति। उपांशुध्वाननिमदोपब्दिमन्मन्द्रमध्यमताराणि।” (२३।४-५) इत्येवं वाचः सप्तधात्वमुपवर्णितम्।
परोक्षप्रिया इव हि देवाः (ऐ० ब्रा० ३।४३)
लोके देवाः पूज्या आचार्यादयः परोक्षनामप्रिया एव। (सायणः )
‘ओमि’ ति वै दैवं’तथे’ति मानुषम्। (ऐ० ब्रा० ७।१८)
यद्वैदेवानां नेति तदेषामो३मिति। (ऐ० ब्रा० १।१६)
लोके प्रतिषिद्धवाची नेतिशब्दो वेदेऽङ्गीकारवाची। ‘न’ ‘ओम्’ इत्यस्य पदस्यार्थे वर्तते। तथा सति लोकवैपरीत्यस्य दृष्टत्वाद् उपमार्थोऽपि वक्तुं शक्यते। (सायणः)। तथा च निरुक्ते—“नेति प्रतिषेधार्थीयो भाषायाम्। उभयमन्वध्यायम्”। (१।४) इत्यादि।
प्रजापतिरकामयत प्रजायेय भूयान् स्यामिति। स तपोऽतप्यत। स तपस्तप्त्वेमाल्ँलोकानसृजत पृथिवीमन्तरिक्षं दिवम्। ताल्ँलोकानभ्यतपत्। तेभ्योऽभितप्तेभ्यस्त्रीणि ज्योतींष्यजायन्ताग्निरेव पृथिव्या अजायत, वायुरन्तरिक्षात्, आदित्यो दिवः। तानि ज्योतींष्यभ्यतपत्। तेभ्योऽभितप्तेभ्यस्त्रयो वेदा अजायन्तऋग्वेद एवाग्नेरजायत, यजुर्वेदो वायोः, सामवेदआदित्यात्। तान् वेदानभ्यतपत्। तेभ्योऽभितप्तेभ्यस्त्रीणि शुक्राण्यजायन्त भूरि-
त्येव ऋग्वेदादजायत, भुव इति यजुर्वेदात्, स्वरिति सामवेदात्। तानि शुक्राण्यभ्यतपत्। तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा प्रजायन्ताकार उकारो मकार इति। तानेकधा समभरत्तदेतद् ओ३मिति। तस्मादोमोमिति प्रणौति। ओमिति वै स्वर्गो लोकः, ‘ओमित्यसौ योऽसौ तपति। (ऐ० ब्रा० ५। ३२)
शुक्राणि। पापरूपतमोनिवारणसमर्थानि ज्योतींषि। प्रणौति। प्रयोगमध्ये होता ओमिति प्रणवं करोति।
** एतानि ह वै वेदानामन्ताश्लेषणानि यदेता व्याहृतयः। तद्यथात्मनात्मानं सन्दध्याद्यथा पर्वणा पर्व यथा श्लेष्मणा चर्मण्यं वान्यद्वा विश्लिष्टं संश्लेषयेदेवमेवैताभिर्यज्ञस्य विश्लिष्टं सन्दधाति। सैषा सर्वप्रायवित्तिर्यदेता व्याहृतयः।** (ऐ० ब्रा० ५। ३२)
आत्मनात्मानम्। एकेन द्रव्येण द्रव्यान्तरमित्यर्थः। (सायणः)
सर्वाप्तिर्वा एषा यदेता व्याहृतयः। (ऐ० ब्रा० ८।७)
सर्वाप्तिः सर्वफलप्राप्तिसाधनम्।
असम्प्रेषितं वा इदं मनः। (ऐ० ब्रा० ६।२)
असंप्रेषितम्। इन्द्रियान्तरेण केनचिदपीति भावः।
मनसो हि न किञ्चन पूर्वमस्ति। (ऐ० ब्रा० २।४०)
तथा च मनसेदं भूतं भुवनं भविष्यच्च परिगृहीतमिति, यदपूर्वमिति च यजुःसंहितायां ३५ तमाध्याये प्रतिपाद्यते।
** मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता। मनसा वा इषिता वाग्वदति। यां ह्यन्यमना वाचं वदत्यसुर्या वैसा वागदेवजुष्टा।** (ऐ० ब्रा० २।५)
इषिता प्रेरिता। असुर्या असुराणां प्रिया।
वाक् च वैमनश्च देवानां मिथुनम्। (ऐ० ब्रा० ५।२३)
वाचा च हि मनसा च यज्ञो वतते। (ऐ० ब्रा० ५।३३)
(३) प्रत्यक्षस्य माहात्म्यम्
प्रत्यक्षमूलानि प्रत्यक्षपर्यवसानोन्मुखानि चानुमानादीनि हि प्रमाणानि। केनचिदंशेन सर्वाशेन वा प्रत्यक्षमूलकानुभवमुपादायैव हि तेषां प्रवृत्तिरिति प्रत्यक्षमूलानि। अनुमानादिभिरवगतमप्यर्थं मनुजः प्रत्यक्षतोऽवगन्तुमुन्मुखो भवतीति प्रत्यक्षपर्यवसानोन्मुखानि तानि। प्रत्यक्षेऽपि चक्षुषोः प्राधान्यमतिरोहितम्। अयमेवार्थः"परीक्ष्यकारिणो हि कुशलाभवन्ति”, नापरीक्षितमभिनिविशेत्”, “अनुभवेन वस्तुतत्त्वस्य कार्त्स्न्येन याथार्थ्यज्ञानवानाप्तः” इत्येवं बहुधान्यत्र प्रपञ्चितोऽत्र ब्राह्मणेऽपि श्रूयते। तद्यथा—
चक्षुर्वा ऋतं तस्माद्यतरो विवदमानयोराहाहमनुष्ठ्या चक्षुषादर्शमिति तस्य श्रद्दधति। (ऐ० ब्रा० २।४०)
अनुष्ठ्या अनुष्ठित्या प्रयत्नेन (सायणः)। तथा च सुश्रुतसंहितायाम्—“शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः”।
** चक्षुषा वा एतत्प्रज्ञायते यद प्रज्ञेयम्। तस्मादपि मुग्घश्चरित्वा यदैवानुष्ठ्या चक्षुषा प्रजानात्यथ प्रजानाति।** (ऐ० ब्रा० १।८)
मुग्धः। दिग्मोहं प्राप्तः पुरुषः। अनुष्ठ्या। केनापि प्रयत्नविशेषेणेति सायणः।
विचक्षणवतीं वाचं वदेत्। चक्षुर्वैविचक्षणं वि ह्येनेन पश्यतीति। एतद्ध वै मनुष्येषु सत्यं निहितं यच्चक्षुः। तस्मादाचक्षाणमाहुरद्रागिति। स यद्यदर्शमित्याहाथास्य श्रद्दधति। यद्यु वै स्वयं पश्यति न बहूनां चनान्येषां श्रद्धधाति। तस्माद्विचक्षणवतीमेव वाचं वदेत्। सत्योत्तरा हैवास्य वागुदिता भवति। (ऐ० ब्रा० १।६)
अद्राक्।कि त्वमेवमद्राक्षीरित्यर्थः। चनशब्दोऽपिशब्दार्थः। सामश्रमिसत्यव्रतमतेन ‘विचक्षणवतीमेव वाचं वदेत्’ इत्यस्य वचनस्य हि दृष्टविषयमात्रकथनविधानेऽदृष्टविषयकथननिषेधे च तात्पर्यम्।
(४) परस्परं सद्भावस्य प्रशंसा
“स॒॒मा॒नो मन्त्रः॒समि॑तिः समा॒नी स॑मानं मनः॑ स॒ह चि॒त्तमे॑षाम्”
(ऋ० १०।१९१३)
“स॒म्यञ्चः॒ सव्र॑ता भू॒त्वा वाच॑ वदत भ॒द्रया॑”
(अथर्व० ३।३०।३)
इत्यादिश्रुत्यन्तरप्रतिपादितः परस्परं सांमनस्येन वर्तितव्यमित्येषोऽर्थोऽत्रापि ब्राह्मणे श्रूयते। तथा हि—
देवा अबिभयुरस्माकं विप्रेमाणमन्विदमसुरा आभविष्यन्तीति’
(ऐ०ब्रा० १।२४)
विप्रेमाणमनु परस्परप्रेमराहित्यमनुवीक्ष्य असुरा इदमस्मदीयं राज्यम् आभविष्यन्ति सर्वतः प्राप्स्यन्तीति। (सायणः)
** न सतानूनप्त्रिणे द्रोग्धव्यम्।** (ऐ० ब्रा० १।२४)
सतानूनप्त्रिणे सहशपथकारिणे न द्रोग्धव्यम्। देवसंबन्धिशपथविशेषवाचिना तानूनप्त्रशब्देन शपथमात्रमुपलक्ष्यते। बहुभिः सह क्रियमाणं तानूनप्त्रं यस्यास्ति सोऽयं सतानूनप्त्री। (सायणः)। अध्वर्युप्रभृतिषोडशर्त्विजो यजमानश्च मिथो द्रोहशून्या भवन्त एकमत्या यज्ञकार्यं संपादयितुं घृतस्पर्शपूर्वकं समन्त्रं यत्शपथं कुर्वन्ति तदेव ‘तानूनप्त्रं कर्म’। (तु० सामश्रमी)। सहैवैककर्मणि प्रवृत्तैर्मिथो द्रोहशून्यैर्भवितव्यमिति फलितार्थः।
सम्यञ्चो वा इमे लोकाः। (ऐ० ब्रा० ४।२५)
सम्यञ्चः संगताः परस्पराश्रिता इति यावत्।
(५) स्वकर्तव्यपालनस्य, समुन्नतेराशायाः, श्रमस्य च महिमा
(क) स्वकर्तव्यस्य पालनमाह—
वहति ह वै वह्निर्धुरो यासु युज्यते। (ऐ० ब्रा० ६।१८)
वह्निर्वोढा। अश्वो बलीवर्दो वा (सायणः)। अथवा स्वकार्यनिर्वाहकः पुरुष एव वह्निः। तथा च सर्वथा स्वकर्तव्यमाचरणीयमेव मनुष्येणेति भावः।
(ख) मनुष्येण स्ववर्तमानावस्थापेक्षया समुत्कृष्टतरपदावाप्तये सततं प्रयत्नपरेण भाव्यमित्येषोऽर्थ ऐतरेयब्राह्मणे हृदिस्पृशा गिरोपदिश्यते।
तद्यथा—
** ईश्वरो हास्य वित्ते देवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति।**
(ऐ० ब्रा० ३।४८)
अरन्तोरीश्वरः अरन्तुमक्रीडितुं समर्था भवन्ति। एतस्य वित्तं द्विषन्तीत्यर्थः। स्ववर्तमानावस्थायामसन्तुष्टो यः समुत्कृष्टतरावस्थावाप्तये यतते तस्यैव देवाः सहाया भवन्तीति हृदयम्।
** कृधी न ऊर्ध्वाञ्चरथाय जीवसे।** (ऐ० ब्रा० २।२)
नोऽस्मान् चरणाय जीवनाय चोच्छ्रितान् कुरु इत्यर्थः। ऋगियमत्र ब्राह्मणे समुद्धृता।
** परिमितं वै भूतम्। अपरिमितं भव्यम्।** (ऐ० ब्रा० ४।६)
तथा च श्रुत्यन्तरम्, “कस्तद्वे॑द्॒यदद्भु॑तम्” (ऋ० १।१७०।१)।
अद्भुतमभूतमिति निरुक्ते। तथा च—समुन्नतेरपरिमितं क्षेत्रमित्यादर्श एवानुसरणीयो मनुष्येणाशावादिनेति रहस्यम्।
** भद्रादभि श्रेयः प्रेहि** (ऐ० ब्रा० १।१३)
मङ्गलादुत्कृष्टतरं कल्याणमाप्नुहीत्यर्थः। इयमपि ऋगेव।
** महद्वाव नष्टैष्यभ्यल्पं वेच्छति, यतरो वाव तयोर्ज्याय इवाभीच्छति, स एव तयोः साधीय इच्छति।** (ऐ० ब्रा० ३।९)
नष्टं वस्तु प्रयत्नेन तत्र तत्रान्विच्छतीति नष्टैषी (सायणः)। कश्चित्पुरुषो नष्टाद्वस्तुनोऽधिकमेवाभीच्छति। कश्चिच्चाल्पमेव। तयोर्मध्ये य एव महदेवेच्छति स एव साधीय इच्छति। उन्नतिपरेणैव मनुष्येण भाव्यमिति भावः।
(ग) श्रमस्य महिमा “न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः” (ऋ० ४।३३।११) (=श्रमयुक्तादृते परिश्रममन्तरेणेति यावद् देवाः सख्याय न भवन्तीत्यर्थः), “या॒दृश्मि॒न् धायि॒ तम॑प॒स्यया॑ विदत्”
(ऋ० ५।४४।८) (= यादृशे कामे मनो धत्ते तादृशं काममपस्यया कर्मणा विन्दत इत्यर्थः) इत्यादिश्रुत्यन्तरेषु कीर्तितोऽत्र ब्राह्मणे सविशेषं वर्णितो दृश्यते। तथा हि—
** योऽनड्वान् विमुक्तस्वच्छालासदां प्रजानां रूपं यो युक्तस्तच्चक्रियाणाम्।** (ऐ० ब्रा० १।१४)
शालासदां गृहावस्थितानाम्। चक्रियाणाम्। चक्रमस्यास्तीति चक्रि शकटम्। तेन चक्रिणा यान्तीति, शकटमारुह्य गच्छन्त्यः प्रजाश्चक्रियाः। तासाम्। (सायणः)। तदत्र शालासदामनुद्योगिनां निन्दा, चक्रियाणामुद्योगशालिनां च प्रशंसा व्यज्यते।
इन्द्रः पुरुषरूपेण पर्येत्य (रोहितम्) उवाच—
नानाश्रान्ताय श्रीरस्तीति रोहित! शुश्रुम।
पापो नृषद् वरो जन इन्द्र इच्चरतः सखा॥१॥
चरैवेति।……
पुष्पिण्यौ चरतो जङ्घेभूष्णुरात्मा फलग्रहिः।
शेरेऽस्य सर्वे पात्मानः श्रमेण प्रपथे हताः॥२॥
चरैवेति। …..
आस्ते भग आसीनस्योर्द्ध्वष्ठति तिष्ठतः।
शेते निपद्यमानस्य चराति चरतो भगः॥३॥
चरैवेति। …….
कलिः शयानो भवति संजिहानस्तु द्वापरः।
उत्तिष्ठंस्त्रेता भवति कृतं संपद्यते चरन्॥४॥
चरैवेति।……
चरन्वै मधु विन्दति चरन्स्वादुमुदुम्बरम्।
सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरन्॥५॥
** चरैवेति॥**
(ऐतरेयब्राह्मणे ७।१५, हरिश्चन्द्रोपाख्यानात् )
नानाश्रान्ताय। न अनाश्रान्ताय। यद्वा नानेति पदच्छेदः। तदा श्रान्ताय नाना श्रीरस्तीति सम्बन्धः। नृषद्। नृषु सीदति। बन्धुगृहेष्वेव सर्वदावस्थितो वर उत्कृष्टोऽपि जनः पापो निन्दनीयोभवति। इन्द्रः परमेश्वरः। चरत उद्यमशीलस्य। चरैवेति। अतः श्रमशील एव भवेत्यर्थः॥१॥ पुष्पिण्यौ श्रमजयेन सेव्ये। आत्मा मध्यदेहः शरीरं वा। भूष्णुर्वर्द्धिष्णुः। फलग्रहिः।आरोग्यरूपं फलं गृह्णाति। शेरे शेरते। विनश्यन्ति। प्रपथे प्रकृष्टे मार्गे॥२॥ भगः सौभाग्यम्। उर्द्ध्वोऽभिवृद्ध्युन्मुखः। निपद्यमानस्य भूमौ शयानस्य। चराति दिने दिने वर्धते॥३॥ पुरुषस्य चतस्रोऽवस्थाः—निद्रा, तत्परित्यागः, उत्थानं, संचरणं चेति। ताश्चोत्तरोत्तरश्रेष्ठत्वात् कलि-द्वापर-त्रेता-कृतयुगैः समाना इति सायणः। केचित् तु कल्यादिशब्दा अक्षद्यूतसंबन्धिन इत्याहुः॥४॥ मधु उदुम्बरं च भोगविशेषस्योपलक्षणम्। श्रेमाणं श्रेष्ठत्वम्। तन्द्रयतेऽलसेभवति॥५॥
** सं वै गुरुर्भारः शृणाति।** (ऐ० ब्रा० ४।१३)
संशृणाति भारवाहकान् विनाशयति। स्वशक्तिमनतिक्रम्यैव कर्म कर्तव्यमिति भावः। तथा च गीता— “युक्तचेष्टस्य कर्मसु” इति।
(६) सत्यभाषणादिसदाचारस्य श्रेयसां च प्रशंसा, पाप्मनो निन्दा च
स्वभावतो मनुष्याणामसत्यसंहितत्वेऽपि तैः सर्वथा सत्यभाषणे सदाचारे च प्रयत्नो विधेयः, “आत्महितं चिकीर्षता सर्वेण सर्वंसर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठेयम्”, पाप्मनः प्रवृत्तिश्च समुच्छेदनीयेत्यर्थः श्रुत्यादिषु प्राधान्येन प्रतिपाद्यते। अस्मिन् ब्राह्मणेऽपि स निरुपमविधया विधीयते। तद्यथा—
** अथो खल्वाहुः। कोऽर्हति मनुष्यः सर्वं सत्यं वदितुम्। सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति** (ऐ० ब्रा० १।६)
सत्यसंहिताः सत्ये तात्पर्ययुक्ताः ( सायणः)
** यः सकृत्पापकं कुर्यात् कुर्यादेनत्ततोऽपरम्।** (ऐ० ब्रा० ७।१७)
यः सकृत्पापकं कुर्यात् सोऽभ्यासवशात्ततः पापादन्यत् पापकं कुर्यादेवेति भावः।
** व्यतिषक्त इव वै पुरुषः पाप्मना।** (ऐ० ब्रा० ४।४)
व्यतिषक्तो मिश्रितः।
असमायी वै स्वर्गो लोकः। कश्चिद्वै स्वर्गे लोके समेतीति।
(ऐ० ब्रा० ६।२६)
बहुभिः संभूतैः एतुं योग्यः समायी। तद्विपरीतोऽसमायो। कश्चिदेव पुण्यकृत्स्वर्गमाप्नोतीति भावः।
** ऋतं वाव दीक्षा सत्यं दीक्षा तस्माद्दीक्षितेन सत्यमेव वदितव्यम्** (ऐ० ब्रा० १।६)
तदु ह स्माह हिरण्यदन् बैदः। ……..द्यौरन्तरिक्षे प्रतिष्ठिता। अन्तरिक्षं पृथिव्याम्। पृथिव्यप्सु। आपः सत्ये। सत्यं ब्रह्मणि। ब्रह्म तपसि। इत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वमनुप्रतितिष्ठति यदिदं किञ्च। (ऐ० ब्रा० ३।६)
तम इव ह्यनपहतपाप्मानः। (ऐ० ब्रा० ४।२५)
दिवेव ह्यपहतपाप्मानः। (ऐ० ब्रा० ४।२५)
दिवेव दिवसा इव प्रकाशयुक्ताः।
** न ह वा अव्रतस्य देवा हविरश्नन्ति। तस्मादुपवसति उत मे देवा हविरश्नीयुरिति।** (ऐ० ब्रा० ७।११)
** मा प्र गाम पथोवयम्** (ऐ० ब्रा० ३।११)
ऋक्पाद एषोऽत्र समुद्धृतः। सन्मार्गाद् भ्रष्टा मा भूमेत्यर्थः।
** रक्षांसि वै पाप्मात्रिणः।**(ऐ० ब्रा० २।२)
अत्रिणो भक्षणशीलाः। अन्येषां पीडाकरा इति यावत्। यानिरक्षांसि सन्ति यश्च पाप्माविद्यते तत्सर्वमत्रिन्शब्देन विवक्षितम्इत्यर्थः (सायणः)
वाचो वाव तौस्तनौसत्यानृते वाव ते। अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद(ऐ० ब्रा० ४।१)
** विश्वंसमत्रिणं दहेति। रक्षांसि वै पाप्मात्रिणः। रक्षांसिपाप्मानं दहेत्येव तदाह।** (ऐ० ब्रा० २।२)
** श्रद्धा पत्नी सत्यं यजमानः। श्रद्धा सत्यं तदित्युत्तमं मिथुनम्। श्रद्धया सत्येन मिथुनेन स्वर्गाल्ँलोकान् जयतीति।** (ऐ० ब्रा० ७।१०)
** अनु वै श्रेयांसं पर्यावर्त्तन्ते।** ( ऐ० ब्रा० २।२० )
विद्यया वृत्तादिना च श्रेयांसमाचार्यादिकमनुगम्य शिष्यादयः परितः संचरन्ति ( सायणः)
** तूष्णीं वै श्रेयस आकाङ्क्षन्ते।** ( ऐ० ब्रा० ७।१२ )
लोके हि सेवकादयस्तूष्णींभूता एव सन्तः श्रेष्ठान् राजगुर्वादीन् उपेत्य स्वाभीष्टं प्रार्थयन्त इति भावः।
** दुरववदं हि श्रेयसः।** ( ऐ० ब्रा० ५२२ )
श्रेयसः पुरुषस्याचरणं हि अववादेन निन्दया वदितुमयोग्यम्।
** प्रति वै श्रेयांसमायन्तमुत्तिष्ठन्ति।** ( ऐ० ब्रा० २.२० )
लोके हि श्रेयांसमागच्छन्तं प्रति उत्तिष्ठन्त्येवेत्यर्थः।
(७) संपत्तेर्महतत्त्वं दारिद्र्यस्य च निन्दा
** “अ॒ग्निना॑र॒यिम॑श्नव॒त् पोष॑मे॒व दि॒वेदि॑वे। य॒शस॑ वी॒रव॑त्तमम्॥”** ( ऋ० १।१।३ ), “एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒स्रह॑म्। वर्षि॑ष्ठमू॒तय॑ भर॥ ( ऋ० १।८।१ ) इत्येवमनेकधाभ्युदयस्याभिलषणीयताभिहिता श्रुतिशतेषु। अदी॑नाः स्याम श॒रदः श॒तम्( यजु० ३६।२४ ) इत्येवं च दैन्यंयत्र तत्र निन्द्यते। सोऽयमेवार्थ ऐतरेयब्राह्मणेऽप्यत्र नानाप्रकारेण प्रपञ्चितः। तद्यथा—
** अशनाया वै पाप्मामतिः।** ( ऐ० ब्रा० २।२ )
अशनाया क्षुधा। अमतिः बुद्धिभ्रंशः। अमतिशब्देन क्षुधा वा पापं
वाभिधीयते। तयोर्बुद्धिभ्रंशहेतुत्वात्। ( सायणः)। तथा च लौकिकानामाभाणकः “बुभुक्षितः किन्न करोति पापम्” इति।
** अस्यां वाव स न प्रतितिष्ठति यो न प्रतितिष्ठति।**( ऐ० ब्रा० १
।
१ )
यः प्रजापशुरूपया प्रतिष्ठया वर्जितः, सोऽस्यां वाव कृत्स्नायामप्येतस्यां भूमौ न प्रतितिष्ठति श्लाघ्यो न भवति। तस्मादप्रतिष्ठा परिहर्तव्येत्यर्थः। (सायणः)अत्र लोके प्रजाधनादिसंपत्तिविहीनस्य नहि कापि प्रतिष्ठा भवतीत्यर्थः।
** गृह वै प्रतिष्ठा** ( ऐ० ब्रा० ३।२४ )
** ज्योतिर्वै शुक्रं हिरण्यम्।** ( ऐ० ब्रा० ७।१२)
शुक्रं ज्योतिः। अत्यन्तं भास्वरः प्रकाशः।
** तस्मादु श्रेष्ठी पात्रे रोचयत्येव यं कामयते।**( ऐ० ब्रा० ३।३० )
लोके हि कश्चिद् धनपतिर्यं कामयते तं पात्रेरोचयत्येव। तेन सह पानभोजनादिकं कृत्वा सर्वेभ्यो रोचयत्येवेत्येर्थः।
** तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति** ( ऐ० ब्रा० ३।२५ )
** पश्चे व हि हीनोऽनुसंजिगमिषति।** ( ऐ० ब्रा० २।३६ )
घनादिराहित्यहेतुदैन्येन युक्त आत्मग्लान्या पश्चादेव जिगमिषतीतिलोके प्रसिद्धमिति भावः।
पुरुषः पशुषु प्रतिष्ठितोऽत्ति चैनानधि च तिष्ठति। वशे चास्य। ( ऐ० ब्रा० ४।३ )
वशे चास्य। सर्वे पशवो वर्तन्त इति शेषः।
** यथाह वा इदमनो वा रथो वाक्तो वर्तत एवं हैवाक्तो वर्तते।** ( ऐ० ब्रा० ४।७ )
अनः स्वल्पशकटम्। अक्तःचक्रस्य भ्रमणस्थाने मषीमिश्रेण तैलेनाभ्यक्तः। वर्तते स्वकार्यसंपादनार्थंसहसा प्रवर्तते। एवं लोके जनस्तैलस्थानीयेनान्नादिनाभ्यवहृतेनैव सुपुष्टः संसारयात्रायां प्रवर्तत इति भावः।
** यदेलवा अभिगेष्णाश्चरन्ति अथान्नाद्यं प्रजायते।** ( ऐ० ब्रा० ५।३ )
इलशब्दोऽन्नवाची, तद्येषां कर्षकाणामस्ति ते कर्षका इलवाः। ते च वर्षन्तं पर्जन्यमभिलक्ष्य ‘गेष्णाः’ हर्षेण गायन्तो यदा चरन्ति, अथ तदानीमन्नाद्यं प्रजायते। अथवा प्रसन्नाः कर्षका यत्र तत्रैवान्नाद्यं जायत इत्यर्थः। तथा च देशस्य समृद्धिःप्रसन्नान् कर्षकाननुसरतीति भावः।
** यशो वै हिरण्यम्।** ( ऐ० ब्रा० ७।१८ )
यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठं लोके विराजति।( ऐ० ब्रा० १।५ )
** यो वै भवति यः श्रेष्ठतामश्नुते तस्य वाचं प्रोदितामनुप्रवदन्ति।**( ऐ० ब्रा० २।१५ )
लोके हि ऐश्वर्येण विद्यावृत्तादिभिर्वा श्रेष्ठत्वमुपभुञ्जानस्य नरस्यादेशमन्येऽनुवर्तन्त इत्यर्थः।
यो वै भवति यः श्रेष्ठतामश्नुते स महान् भवति। ( ऐ० ब्रा० ३।२१ )
** यो वै भवति यः श्रेष्ठतामश्नुते स सामन् भवति।** ( ऐ० ब्रा० ३।२३ )
सामन् भवति। सर्वेषु स्वकीयत्वबुद्ध्या समदृष्टिर्भवतीति सायणः।
** यो वै भवति यः श्रेष्ठतामश्नुते स किल्बिषं भवति।** ( ऐ० ब्रा० १।१३ )
श्रेष्ठपदमाप्तवतः पापप्रवणता प्रायेण संभाव्यते।अतस्तेन सततममूढेनात्मचरितमवेक्षणीयमिति भावः।
( ८ ) पुत्रस्य महिमा गार्हस्थ्यजीवनञ्च
** “आ॒त्मा वै पु॒त्रना॒मासि॑”** इत्येवं श्रुत्या प्रतिपादितः पुत्रस्य महिमा गार्हस्थ्यजीवनसंबन्धिनोऽन्ये च विषया ब्राह्मणेऽत्र हृदयंगमया गिरा गीर्यन्ते। तथा हि—
स ( हरिश्चन्द्रः ) ह नारदं पप्रच्छ—
**यन्न्विमं पुत्रमिच्छन्ति ये विजानन्ति ये च न।
किंस्वित्पुत्रेण विन्दते तन्म आचक्ष्व नारद!॥१॥**इति।
स एकया पृष्टो दशभिः प्रत्युवाच—
ऋणमस्मिन्संनयत्यमृतत्वं च गच्छति।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्॥२॥
यावन्तः पृथिव्यां भोगा यावन्तो जातवेदसि।
यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः॥३॥
शश्वत्पुत्रेण पितरोऽत्यायन् बहुलं तमः।
आत्मा हि जज्ञ आत्मनः स इरावत्यतितारिणी॥४॥
किन्नु मलं किमजिनं किमु श्मश्रूणि किं तपः।
पुत्रं ब्रह्माण इच्छध्वं स वै लोकोऽवदावदः॥५॥
अन्नं ह प्राणः शरणं हवासो रूपं हिरण्यं पशवो विवाहाः।
सखा ह जाया कृपणं ह दुहिता ज्योतिर्हं पुत्रः परमे व्योमन्॥६॥
पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम्।
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते॥७॥
तज्जाया जाया भवति यदस्यां जायते पुनः।
आभूतिरेषा भूतिर्बीजमेतन्निधीयते॥८॥
देवाश्चैतामृषयश्च तेजः समभरन् महत्।
देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः॥९॥
नापुत्रस्य लोकोऽस्तीति तत्सर्वेपशवो विदुः।
तस्मात्तुपुत्रो मातरं स्वसारं चाधिरोहति॥१०॥
एष पन्था उरुगायः सुशेवो यं पुत्रिण आक्रमन्ते विशोकाः।
तं पश्यन्ति पशवो वयांसि च तस्मात्ते मात्रापि मिथुनीभवन्ति॥११॥
( ऐ० ब्रा० ७।१३ )
ये मनुष्यादयो विजानन्ति। विवेकज्ञानयुक्ताः। ये च पश्वादयो न विजानन्ति। विवेकज्ञानरहिताः॥१॥
सन्नयति सम्यगवस्थापयति॥२॥
पृथिव्यां भोगा निवासादयः। जातवेदसि दहनपचनादयः। अप्सु स्नानादयः॥३॥
शश्वत्सर्वदा। तमो दुःखम्। स पुत्र इरावती अन्नयुक्ता अतितारिणी नौरिव॥४॥
अत्र मलाजिनश्मश्रुतपःशब्दैराश्रमचतुष्टयं विवक्षितम्। मलरूपाभ्यां शुक्रशोणिताभ्यां संयोगात् मलशब्देन गार्हस्थ्यं विवक्षितम्। कृष्णाजिनसंयोगादजिनशब्देन ब्रह्मचर्यं विवक्षितम्। क्षौरकर्मराहित्यात् श्मश्रुशब्देन वानप्रस्थ्यं विवक्षितम्।…तपःशब्देन पारिव्रज्यं विवक्षितम्। …अवदावदो लोकः। वदितुमयोग्यानि निन्दावाक्यान्यवदाः तैर्वाक्यैर्नोद्यते न कथ्यत इत्यवदावदः। …दोषराहित्यान्निन्दानर्ह इत्यर्थः।(सायणः)॥५॥
भवत्यस्यां पुत्ररूपेण पतिरित्येषा भूतिः। रेतोरूपेणागत्य अस्यां पुत्ररूपेण भवतीति आभूतिः॥८॥
महत्तेजः समभरन्। पुत्रोत्पादनाय संपादितवन्तः॥९॥
उरुगायः। उरुभिर्महद्भिर्गीयते। सुशेवः सुष्ठु सेवितुं योग्यः॥११॥
** अति वै प्रजात्मानमति पशवः।** ( ऐ० ब्रा० ४।६ )
आत्मनाऽपेक्षया स्वप्रजायाः पशूनां च बहुत्वं प्रसिद्धमेवेति भावः।
** प्रजा वै तन्तुः।** ( ऐ० ब्रा० ३।११ )
** तद्यथैवादः प्रियः पुत्रः पितरं प्रिया वा जाया पतिं सुखं शिवमुपस्पृशत्याविस्रस एवं हैव….** (ऐ० ब्रा० ८।२० )
आअविस्रसः। आअविस्रंसनाद्। देहपातपर्यन्तमित्यर्थः।( सायणः )
** स्त्रियः पत्याविच्छन्ते। तस्मादु स्त्र्यनुरात्रं पत्याविच्छते।**( ऐ० ब्रा० ३।२२ )
तस्मादेकस्य बह्व्योजाया भवन्ति नैकस्यै बहवः सह पतयः। ( ऐ० ब्रा० ३।२३ )
** यदि ह वा अपि बह्व्यइव जायाः पतिर्वाव तासां मिथुनम्।** ( ऐ० ब्रा० ३।४७ )
** तद्यथैवादः स्नुषा श्वशुराल्लज्जमाना निलीयमानैत्येवमेव सा सेना भज्यमाना निलीयमानैति यत्रैवं विद्वांस्तृणमुभयतः परिच्छिद्येतरां सेनामभ्यस्यति…** ( ऐ० ब्रा० ३।२२ )
** तस्मात्समानोदर्या स्वसान्यादर्यायै जायाया अनुजीविनी जीवति।** ( ऐ० ब्रा० ३।३७ )
लोकस्थितेर्वर्णनमेतत्।
एतद्वै सर्वं स्वस्त्ययनं यत् प्रेति चेति चेति। तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रति चेति चेति स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति। ( ऐ० ब्रा० ३।२६ )
‘प्र’-इत्येकम्, ‘आ’-इति च द्वितीयं पदम्। तदेतत् सर्वं स्वस्त्ययनं ग्रामान्तरं जिगमिषवे सर्वक्षेमप्रापकमित्यर्थः। देशान्तरं गन्तुमुद्यतं प्रति ‘गच्छतु भवान् सकुशलं पुनरागमनाय’ इत्येवं शुभाशंसनमेवात्राभिप्रेतमिति प्रतीयते।
** तस्माद्धाप्येतर्हि पितरं पुत्रा निष्ठावोऽववदितेत्येवाचक्षते।** ( ऐ० ब्रा० ५।१४ )
धनविभागादेर्धर्मरहस्यं निःशेषेण स्थितिर्निर्णयो निष्ठा, सा यस्मिन्नस्ति स निष्ठावः। ज्येष्ठपुत्रस्यैतावद् द्वितीयस्यैतावदन्यस्यैतावद् इत्यवच्छिद्य वदितुं समर्थोऽववदिता। ( सायणः)
तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति। ( ऐ० ब्रा० ३।२८ )
तस्मादद्यत्वेऽपि कस्यापि द्रव्यस्य स्वामित्वविषयके प्रश्ने ‘अस्माकंलब्धमनतिक्रम्यैव स्वामित्वं युक्तम्’ इत्याहुः। यद्वस्तु येन लब्धं न्यायतः प्राप्तं तत् तस्यैवेति लौकिकन्याय इति भावः।
यो वै भागिनं भागान् नुदते, चयते वैनम्। स यदि वैनं न चयते, अथ पुत्रमथ पौत्रं चयते त्वेवैनमिति।( ऐ० ब्रा० २।७ )
नुदते नाशयति। चयते च्यावयति। एनं विनाशयितारम्। अयं भावः—भागभ्रष्टो मनसि द्वेषं गृहीत्वा स्वविरोधिनं यदाकदाचित् केनापि प्रकारेण विनाशयत्येवेति। ( सायणः)। ततश्चान्यायेन परस्य भागोद्रव्यं वा न ग्रहीतव्यमिति भावः।
( ९ ) दानमातिथ्यं च
दानस्य आतिथ्यस्य च श्रैष्ठ्यं प्रतिपादयन्त्योऽपि श्रुतयोऽत्र श्रूयन्ते। तद्यथा—
** एतद्वैवाचो जितं यद् ददामीत्याह।** ( ऐ० ब्रा० ८।९ )
कोऽनद्धापुरुष इति? न देवान् न पितॄन् न मनुष्यानिति। (ऐ० ब्रा० ७।९ )
अनद्धापुरुषः। अद्धेतिसत्यनाम। तद्वैपरीत्यादनृतः पुरुषः। यो ‘न देवान्’ इत्यादौ ‘यः पूजयेत्’ इति शेषः। मनुष्यान् अतिथीन्।
** तस्मादाहुर्न सायमतिथिरपरुध्य इति।** ( ऐ० ब्रा० ५।३० )
अपरुध्यो निराकरणीयः।
मनुष्यराज आगतेऽन्यस्मिन्वार्हत्युक्षाणं वा वेहतं वा क्षदन्ते। ( ऐ० ब्रा० १।१५ )
वेहतं गर्भघातिनीं वृद्धां गाम्।क्षदन्ते हिंसन्ति। ( सायणः )
** यदा वा अतिथिं परिवेविषत्यापीन इव वै स तर्हि भवति।** ( ऐ० ब्रा० १।१७ )
आपीन इव। वृद्धिं प्राप्त इव। प्रसन्नात्मेति यावत्।
** यावन्तः खलु वै राजानमनुयन्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियते।** ( ऐ० ब्रा० १।१५ )
** शिरो वा एतद्यज्ञस्य यदातिथ्यम्।** ( ऐ० ब्रा० १।२५ )
आतिथ्येष्टेर्यज्ञशिरोरूपत्वमित्यर्थः।
(१०) राजनीतिः
राजनीतिसंबन्धिनोऽनेके विषया अत्र ब्राह्मणे यत्र तत्र श्रूयन्ते। तथा च राजपुरोहितस्य स्वरूपं महिमा च, राष्ट्रं प्रति राज्ञः कर्तव्यम्, ब्राह्मणस्य क्षेत्रस्य च परस्परं संबन्धः, शत्रु जयः, देशभेदेन राज्यपद्धतेर्भेदा इत्यादयो विषया वर्णिता दृश्यन्ते। तद्यथा—
(क) पुरोहितमहिमा—
अग्नीन्वा एषः स्वर्ग्यान् राजोद्धरते यत् पुरोहितम्। तस्य पुरोहित एवाहवनीया भवति, जाया गार्हपत्यः, पुत्रोऽन्वाहार्यपचनः। स यत्पुरोहिताय करोत्याहवनीय एव तज्जुहोति। अथ यज्जायायै करोति गार्हपत्य एव तज्जुहोति। अथ यत् पुत्राय करोत्यन्वाहार्यपचन एव तज्जुहोति। त एनं शान्ततनवोऽभिहुता अभिप्रीताः स्वर्गं लोकमभिवहन्ति क्षत्रं च बलं च राष्ट्रंच विशं च। त एवैनमशान्ततनवोऽनभिहुता अनभिप्रीताः स्वर्गाल्लोकान्नुदन्ते क्षत्राच्च बलाच्चराष्ट्राच्च विशश्च। (ऐ० ब्रा०८।२४)
तस्य ह राज्ञः पुरोहितादय एव आहवनीयाद्यग्निस्थानीयाः।अन्वाहार्यंपचनोदक्षिणाग्निः। राजा पुरोहितादिभ्यो यदपेक्षितं करोति तदेतद् आहवनीयादिषु होमसमानम्। शान्ततनवः। उग्ररूपत्वं परित्यज्य अभीष्टसम्पादनेन प्रीताः।
** अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत् पुरोहितः। तस्य वाच्येवैका मेनिर्भवति, पादयोरेका, त्वच्येका, हृदय एका, उपस्थ एका। ताभिर्ज्वलन्तीभिर्दीप्यमानाभिरुपोदेति राजानम्। स यदाह क्वभगवोऽवात्सीस्तृणान्यस्मा आहरतेति तेनास्य तां शमयति यास्य वाचि मेनिर्भवति। यदस्मा उदकमानयन्ति पाद्यं तेनास्य तां शमयति यस्य पादयोर्मेनिर्भवति। अथ यदेनमलंकुर्वन्ति तेनास्य तां शमयति यस्य त्वचि मेनिर्भवति। अथ यदेनं तर्पयन्ति तेनास्य तां शमयति यास्य हृदये मेनिर्भवति। अथ यदस्यानारुद्धो वेश्मसु वसति तेनास्य तां शमयति यास्योपस्थे मेनिर्भवति। स एनं शान्ततनुरभिहुतोऽभिप्रीतः स्वर्गं लोकमभिवहति क्षत्रं च बलं च राष्ट्रं च विशं च। स एवैनमशान्ततनुरनभिहुतोऽनभिप्रीतः स्वर्गाल्लोकान्नुदते क्षत्राच्च बलाच्च राष्ट्राच्च विशश्च।** ( ऐ०ब्रा० ८।२४ )
परोपद्रवकारिणी क्रोधरूपा शक्तिर्मेनिरित्युच्यते, यथाग्नेर्ज्वाला तद्वत्।अतो यः पुरोहितोऽस्ति सोऽयं पञ्चविधमेन्युपेतो वैश्वानरनामकाग्निसमानः, वागादीनि पञ्च मेनिस्थानानि चेति सायणः। उपोदेति समीपे प्राप्नोति। तृणानि कुशाद्यासनानि। अलंकुर्वन्ति वस्त्रगन्धादिना। तर्पयन्ति धनादिना।
क्षत्रेण क्षत्रं जयति बलेन बलमश्नुते।
यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः॥१॥
तस्मै विशः सञ्जानते सम्मुखा एकमनसः।
यस्यैवंविद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः॥२॥
( ऐ० ब्रा०८।२५ )
यस्य राज्ञः। संजानते। राज्ञा सहैकमत्यं प्राप्नुवन्ति। संमुखाः। न विमुखा भवन्तीति भावः।
** यो हवै त्रीन् पुरोहितांस्त्रीन् पुरोधातॄन् वेद स ब्राह्मणः पुरोहितः। स वदेत पुरोधायै। अग्निर्वाव पुरोहितः पृथिवी पुरोधाता, वायुर्वाव पुरोहितोऽन्तरिक्षं पुरोधाता, आदित्यो वाव पुरोहितो द्यौः पुरोधाता। एष ह वै पुरोहितो य एवं वेद। अथ स तिरोहितो य एवं न वेद।**
** तस्य राजा मित्रंभवति द्विषन्तमप बाधते। यस्यैवं विद्वान् ब्राह्मणो राष्ट्रगोपः पुरोहितः॥**
( ऐ० ब्रा० ८।२७)
तस्य राज्ञः। राजा देशान्तरवर्ती।
** न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति। तस्माद्राजा यक्ष्यमाणो ब्राह्मणं पुरो दधीत देवामेऽन्नमदन्निति।**( ऐ० ब्रा०८।२४ )
बृहस्पतिर्ह वै देवानां पुरोहितस्तमन्वन्ये मनुष्यराज्ञां पुरोहिताः।(ऐ० ब्रा० ८।२६ )
(ख) राजा राष्ट्रंच—
** ऐन्द्रो वै देवतया क्षत्रियो भवति** ( ऐ० ब्रा० ७।२३ )
ऐन्द्र इन्द्रसंबन्धी। देवतानां मध्ये इन्द्रः क्षत्रियस्वाभिमानी देवतेत्यर्थः।
** ओजः क्षत्रंवीर्यंराजन्यः**( ऐ० ब्रा० ८।४ )
** क्षत्रंवा एष प्रपद्यते यो राष्ट्रंप्रपद्यते। क्षत्रंहि राष्ट्रम्।**(ऐ० ब्रा० ७।२२ )
** क्षत्रायैव तद् विशं प्रत्युद्यामिनीं कुर्युः पापवस्यसम्** ( ऐ० ब्रा ० ६।२१ )
प्रत्युद्यामिनीं प्रतिकूलोद्योगयुक्ताम्। पापवस्यसम्। तद्धि अतिशयेन पापरूपम्।
** न वा अनभ्युत्कृष्टः क्षत्रियोवीर्यं कतुमर्हति।** (ऐ० ब्रा० ८।१७ )
अनभ्युत्कृष्टो गुणकीर्तनादिद्वारा प्रजास्वनुद्धोषितः क्षत्रियो राज्येऽभिषिक्तो वीर्यं स्वपदानुरूपं न कर्तुमर्हतीत्यर्थः। ततश्च राज्ञा सर्वथा राष्ट्ररञ्जनं विधेयमिति भावः।
** नितत इव हीह क्षत्रियो राष्ट्रे वसन् भवति। प्रतिष्ठित इव।** ( ऐ० ब्रा० ७।३१ )
निततो नितरां सन्ततः। क्षत्रियो राजा।
यत्रेद्रं देवताः पर्यवृञ्जन् विश्वरूपं त्वाष्ट्रमभ्यमंस्त वृत्रमस्तृत यतीन् सालावृकेभ्यः प्रादादरुर्मघानवधीद् बृहस्पतेः प्रत्यवधीदिति तत्रेन्द्रः सोमपीथेन व्यार्ध्यत। इन्द्रस्यानु व्यृद्धिं क्षत्रं सोमपीथेन
व्यार्ध्यत।……तद् व्यृद्धमेवाद्यापि क्षत्रंसोम पथेन ( ऐ० ब्रा० ७।२८)
पर्यवृञ्जन् यज्ञेषु परितो वर्जितवन्तः। व्यार्ध्यत वियुक्तोऽभूत्। अभ्यमंस्त हिंसितवान्। अस्तृत हिंसितवान्। यतयो वेदविरुद्धनियमोपेता इति सायणः। सालावृका अरण्यश्वानः। स्वगुरोर्बृहस्पतेर्वाक्यं स्वकीयेन वाक्येन प्रत्यवधीत्। प्रतिघातमकरोत्। विश्वरूपवधादयो हि इन्द्रस्यापराधाः।
** राष्ट्राणि वै विशः।** ( ऐ० ब्रा० ८।२६ )
( ग ) ब्रह्मक्षत्रयोः संबन्ध :—
** न वै ब्रह्मण्वद्रिष्यति।**( ऐ० ब्रा० १।१३ )
न वै रिष्यति। सर्वथा नाशं न प्राप्नोति।
** ब्रह्म खलु वै क्षत्रात्पूर्वम्।** ( ऐ० ब्रा० ८।१ )
** ब्रह्म च क्षत्रं च संश्रिते।** ( ऐ० ब्रा० ३।११ )
संश्रिते। परस्पराश्रिते।
** ब्रह्मणि खलु वै क्षत्रं प्रतिष्ठितम्। क्षत्रे ब्रह्म।** ( ऐ० ब्रा० ८।२ )
** भूयान् वै ब्राह्मणः क्षत्रियात्।** ( ऐ० ब्रा० ७।१५)
** यत्र वै ब्रह्मणः क्षत्रं वशमेति तद्राष्ट्रंसमृद्धं तद्वीरवदाहास्मिन् वीरो जायते।**( ऐ० ब्रा० ८।९ )
( घ ) शत्रुजय :—
** उपसदा वै महापुरं जयन्ति।**( ऐ० ब्रा० १।२३ )
उपसदा परकीयदुर्गसमीपावस्थानेन, महत्या सेनया दुर्गवेष्टनेन, महतीं दुर्गरूपां पुरम् ( सायणः )
न द्विषतः पूर्व उपविशेद्, यदि तिष्ठन्तं मन्येत तिष्ठेतैव, न द्विषतः पूर्वःसंविशेत्, यद्यासीनं मन्येतासीतैव। न द्विषतः पूर्वःप्रसुप्याद्, यदि जाग्रतं मन्येत जाग्रियादेव। अपि ह यद्यस्याश्ममूर्धा द्विषन् भवति, क्षिप्रं हैवैनं स्तृणुते स्तृणुते। ( ऐ० ब्रा० ८।२८ )
अश्ममूर्धा पाषाणसदृशशिरस्कः। अतिप्रबल इत्यर्थः। स्तृणुते हिनस्ति। शत्रुविनाशाय राज्ञा सदा जागरूकेण स्थातव्यमिति रहस्यम्।
(ङ) राज्यपद्धतेर्भेदा :—
एतस्यां प्राच्यां दिशि ये के च प्राच्यानां राजानः साम्राज्यायैकतेऽभिषिच्यन्ते। सम्रालित्येनानभिषिक्तानाचक्षते।( ऐ० ब्रा० ८।१४ )
एतस्यां दक्षिणस्यां दिशि ये के च सत्वतां राजानो भौज्यायैव तेऽभिषिच्यन्ते। भोजेत्येनानभिषिक्तानाचक्षते। ( ऐ० ब्रा० ८।१४ )
** एतस्यां प्रतीच्यां दिशि ये के च नीच्यानां राजानो येऽपाच्यानां स्वाराज्यायैव तेऽभिषिच्यन्ते। स्वरालित्येनानभिषिक्तानाचक्षते।** ( ऐ० ब्रा० ८।१४ )
निकर्षमञ्चन्तीति नीच्याः। अपकर्षमञ्चन्तीति अपाच्याः। जात्या निकर्षः, व्यवहारेणापकर्षः। ( सायणः )
एतस्यामुदीच्यां दिशि ये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा इति वैराज्यायैव तेऽभिषिच्यन्ते। विरालित्येनानभिषिक्तानाचक्षते। ( ऐ० ब्रा० ८।१४ )
अस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च कुरुपञ्चालानां राजानः सवशोशीनराणां राज्यायैव तेऽभिषिच्यन्ते। राजेत्येनानभिषिक्तानाचक्षते। ( ऐ० ब्रा० ८।१४ )
मध्यमा दिक्। मध्यदेशः। ( सायणः )
(११) लौकिका दृष्टान्ताः
तत्तदर्थस्पष्टीकरणाय दृष्टान्तानामुपयोगः प्रायेण सर्वशास्त्रेषु समादृतः। दृष्टान्तेषु हि लौकिकपरीक्षकाणां बुद्धिसाम्याज्झटित्येव तद्द्वारा गूढोऽप्यर्थो बुद्ध्यारूढो भवति। अत एवात्रापि तत्तत्प्रसङ्गेन नैके दृष्टान्ताः प्रयुक्ता दृश्यन्ते। ते च न केवलं प्रकृतार्थोपयोगित्वेनैव किन्तु स्वारसिकपदार्थमहिम्नापि विदुषां विमर्शयोग्या इत्यधस्तात्संगृह्यन्ते। तथाहि—
** तद्यथा क्षेत्रज्ञमध्वनः पुरएतारं कुर्वीत तादृक् तत्।** ( ऐ० ब्रा० ४।२० )
क्षेत्रज्ञं मार्गविशेषाभिज्ञम्। पुरएतारम्। पुरतो गन्तारं मार्गप्रदर्शकम्।
** तद्यथा दीर्घाध्व उपविमोकं यायात् तादृक् तत्।** ( ऐ० ० ब्रा० ६।२३ )
लोके यथा दूरमार्गे गच्छन् पुरुषो रथादौ योजितमश्वादिकं श्रान्तिपरिहाराय तत्र तत्र उपविमुच्योपविमुच्य गच्छेत् तथेति भावः।
** तद्यथादोऽश्वान् वा गा वा पुनरभ्याकारं तर्पयन्त्येवमेवैतद्देवताः पुनरभ्याकारं तर्पयन्ति।** ( ऐ० ब्रा० ३।५ )
पुनरभ्याकारम् पौनःपुन्येन तृणोदकादिभिरभिमुखीकृत्य (सायणः)
तद्यथादोऽश्वैर्वानलुद्भिर्वान्यैरन्यैरश्रान्ततरैरश्रान्ततरैरुपविमोकयान्ति। एवमेव….. (ऐ० ब्रा० ४।२७)
उपविमोकम्। श्रान्तानश्वान् उपविमुच्योपविमुच्य। अन्यैरन्यैः। पुनः पुनर्नूतनैः।
** तद्यथा पुनराग्रन्थं पुनर्निर्ग्रन्थमन्तं बध्नीयात्, मयूखं वान्ततो धारणाय निहन्यात् तादृक् तत्।** ( ऐ० ब्रा० ५।१५ )
शस्त्रस्य स्रंसनपरिहारार्थमत्र दृष्टान्तद्वयम्। तद्यथा लोके रज्जुं निर्मिमाणः पुरुषः ‘पुनराग्रन्थं पुनः पुनरागृथ्य आग्रथ्य’पुनर्निर्ग्रन्थं’ पुनः पुनर्निर्ग्रथ्य निर्ग्रथ्य तस्या रज्जोरन्तं बध्नीयात्। दीर्घाया रज्ज्वा अग्रंसूक्ष्मं पुनः पृष्ठतः प्रत्याकृष्य वेष्टनं कृत्वा ग्रथनं नाम।तस्य दृढीभावो निर्ग्रथनम्। यथा वा लोके चर्मकार आर्द्रस्य चर्मणः संकोचनिवारणाय भूमौ तत्प्रसार्य दृढमाकृष्य चर्मणोऽन्ते ‘मयूखं’ शङ्कुचर्मणो धारणाय भूमौ निहन्यात्। एवम्…..
** तद्यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत्तादृक् तत्।** ( ऐ० ब्रा० ६८ )
प्रयच्छेत्। पानीयादिकमिति शेषः।
तद्यथा समुद्रंप्रप्लवेरन्नेवं हैव ते प्रप्लवन्ते ये…… ( ऐ० ब्रा० ६।२१ )
प्रप्लवः परतोरगमनम् ( सायणः )
** तद्यथा सूच्या वासः सन्दधदियात्।** ( ऐ० ब्रा० ३।१८ )
** तद्यथा सैरावतीं नावं पारकामाः समारोहेयुरेवमेव……** ( ऐ० ब्रा० ६।२१ )
सैरावतीं नावम्। इरा अन्नम्। तत्समूह ऐरम्। तेन सह वर्तत इति सैरं नौस्थं वस्तुजातम्। तादृशं सैरं यस्यां नाव्यस्ति, सेयं नौः सैरावती ( सायणः )। मार्गेऽपेक्षितवस्तुजातेन सहिता नौरित्यर्थः।
** तद्यथेह चेह चापथेन चरित्वा पन्थानं पर्यवेयात्तादृक् तत्।** ( ऐ० ब्रा० ४।४ )
पन्थानम्। समीचीनं पन्थानम्। पर्यवेयात् परिगच्छेत्।
** तद्यथैवाद इति ह स्माह तेजन्या उभयतोऽन्तयोरप्रस्रंसाय बसौंनह्यति, एवमेवैतद्।** ( ऐ० ब्रा० १।११ )
तेजनिःरज्जुः। अप्रस्रंसाय विश्लेषनिवारणाय। बसौंनह्यति। मस्याकारौ ग्रन्थी बध्नाति। ( सायणः )
** यथ ऋषभो वाशितां यथा वा गौः प्रज्ञातं गोष्ठमेवं ( हैषामिन्द्रो यज्ञमैव गच्छति )।** ( ऐ० ब्रा० ६।२२ )
वाशितां गर्भार्थिनीं गाम्। यज्ञमागच्छत्येवेत्यन्वयः।
** यथा कुमाराय वा वत्साय वा जाताय स्तनं प्रतिदध्यात् तादृक् तत्।** ( ऐ० ब्रा० ५।३१ )
प्रतिदध्यात्। पातुं समर्पयेत्।
** यथा कुमाराय वा वत्साय वाऽजाताय स्तनं प्रतिदध्यात्तादृक् तत्।** ( ऐ० ब्रा० ५।३१ )
अजाताय। अनुत्पन्नाय।
** यथा गृहानितं कर्मणाऽनुसमियात्, एवमेव…..** ( ऐ० ब्रा२।३१ )
यथा गृहप्राप्तमतिथिमातिथ्यसत्कारेणोपचरेदेवमित्यर्थः।
** यथा पुरुषाय वा हस्तिने वाऽप्रयते हस्त आदध्यात्तादृक् तत्। ……यथा पुरुषाय वा हस्तिने वा प्रयते हस्त आदध्यात्तादृक् तत्** ( ऐ० ब्रा० ५।३१ )
अप्रयते अप्रसारितहस्ते ग्रासम् आदध्यात् प्रक्षिपेत्।
** यथा रथचक्रमनन्तमेवंयदग्निष्टोमः। …….तदेषाभियज्ञगाथा गीयते। यदस्य पूर्वमपरं तदस्य यद्वस्यापरं तद्वस्य पूर्वम्। अहेरिव सर्पणं शाकल्स्य न विजानन्ति यतरत्परस्तादिति।** ( ऐ० ब्रा० ३।४३ )
यथा रथचक्रस्य पुनः पुनः परिवर्तमानस्य अयमादिरयमन्त इति विभागः कर्तुं न शक्यते तथेति भावः। शाकलशब्दः सर्पविशेषवाची। स हि सर्पणकाले मुखेन पुच्छस्य दंशनं कृत्वा वलयाकारो भवति किं मुखं किं पुच्छमिति न ज्ञायते।
** यथा श्रान्तोऽविमुच्यमान उत्कृत्येत। एवं…..** ( ऐ० वा० ६।२३ )
यथा लोके रथादौ युक्तोऽश्वादिर्दूरगमनाच्छ्रान्तः सन् यदि नविमुच्येत, तदानीमुत्कृत्येत उच्छिद्येत ( सायणः )।
** यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवम्……** (ऐ० ब्रा० ३।४७ )
ऊहिवान्। भारवहनं कृत्वा श्रान्तः सन्।
** यथैकतश्चक्रेण यायात्तादृक् तत्……. यथोभयतश्चक्रेण यान् क्षिप्रमध्वानं समश्नुवीत तादृक् तत्।** ( ऐ० ब्रा० ५।३० )
** यथैकपात् पुरुषो यन्नेकतश्चक्रोवा रथो वर्तमानो भ्रेषं न्येति एवमेव ……यथोभयतःपात्पुरुषो यन्नुभयतश्चक्रो वा रथो वर्त्तमानो न रिष्यति। एवमेव…..** ( ऐ० प्रा० ५।३३ )
भ्रेषं भूमौ पतनं न्येति नितरामेति। रिष्यति विनश्यति।
** यथैव गत्वा काष्ठामपराध्नुयात् तादृक् तत्।** ( ऐ० ब्रा० ४।९ )
काष्ठामवधिम्। धावनसमाप्तिम्। अपराध्नुयात्। स्खलनपतनादिरूपमपराधं कुर्यात्।
** यथैव गत्वा काष्ठामभिपद्येत तादृक् तत्।** ( ऐ० ब्रा० ४।९ )
अभिपद्येत। स्खलनरहितः स्वाभीष्टं प्राप्नुयात्।
** यथैव च्छिन्ना नौर्बन्धनात्तीरं तीरमृच्छन्ती प्लवेतैवमेव ते…**( ऐ० ब्रा० ४।१३ )
तीरं तीरं परतीरमर्वाक् तीरं च। प्लवेत यत्र कुत्रापि गच्छेत्।
** यथैत्र प्रवयणतः पेशः कुर्यात्तादृक् तत्। ……..यथैव मध्यतः पेशः कुर्यात्तादृक् तत्। ….. यथैवाव प्रज्जनतः पेशः कुर्यात्तादृक्तत्**( ऐ० ब्रा० ३।१० )
पेशाःअलङ्काराः। वेञ् तन्तुसन्तान इति धातोर्वयशब्दोत्पत्तिः। कुविन्दानां यत्प्रारम्भे वस्त्रवयनं तत् प्रवयणम्। लोके यथैव वाससां प्रवयणतः वयनप्रारम्भे पेशोऽलंकारं कुर्यात्। वर्णान्तरोपेतैस्तन्तुभिरलंकारः, तथैव। प्रजनः वस्त्रस्यान्तभागः। ( सायणः )
(१२) यज्ञस्य महिमा स्वरूपञ्च तथार्त्त्विज्यम्
यज्ञस्य महिम्नः स्वरूपस्य च वर्णनमत्र नैकप्रकारेण कृतं नूनं चेतश्चमत्करोति। यज्ञो वै स्वर्गगमनाय देवरथसदृशः, स्वाभीष्टावाप्तये च
सुतर्मा नौरिव, तस्य भ्रेषमनु यजमानोभ्रेषमेतीत्येवं बहुधा तस्य महिमा हृदयंगमविधया वर्णितोदृश्यते। यज्ञस्वरूपविषयेऽपि भावनायज्ञविधिः, दधियवाग्वादिहोमद्रव्यालाभे ‘अहं श्रद्धां जुहोमि’ इत्येवं संकल्प्य श्रद्धाया एव होमोऽनुष्ठातुं शयक्ते, ‘मनसैव यज्ञस्तायते’ इत्यादिप्रकारेण यज्ञानुष्ठाने मनःशक्तेरद्भुतं सामर्थ्यम्, क्रियमाणकर्मणोऽभिव्यञ्जिकाया एव ऋचः प्रयोगो यज्ञसमृद्धिकरः, यज्ञे दीक्षितस्य नूतनमिव जन्म जायते, पुरोडाशसत्रस्य प्रशंसा—इत्यादयो विषयाः प्रपञ्चिताः। एवमृत्विजां प्रशंसा, तत्कर्तव्यम्, यज्ञे वर्ज्या ऋत्विजश्चेत्येते विषया अत्र यज्ञमधिकृत्य निरूपिताःश्रूयन्ते। तथा हि—
(क) यज्ञस्य महिमा—
** ते देवा एवं क्लृप्तेन यज्ञेनापासुरान् पाप्मानमन्नताजयन् स्वर्गं लोकम्। अप हवै द्विषन्तं पाप्मानं भ्रातृव्यं हते जयति स्वर्गं लोकं य एवं वेद।** ( ऐ० ब्रा० ६।४ )
देवरथो वा एष यद्यज्ञः। ( ऐ० ब्रा० २।३७ )
** तस्मादाहुर्जुह्वदेवाजुह्वतो वस्वीयानिति।** ( ऐ० ब्रा० ३।३६ )
होमरहितात्पुरुषाद् होमं कुर्वन्नेवात्यन्तं श्रेष्ठ इत्येवं जना आहुरित्यर्थः।
** न ह वा अग्निष्टोमः क्षमा रमते। ऊर्ध्वो ह वा एष यजमानमादाय स्वरेति। … तं यथा समुद्रं स्रोत्या एवं सर्वे यज्ञक्रतवोऽपियन्ति।** ( ऐ० ब्रा० ३।३९ )
क्षमा क्षमायां भूमौ। स्रोत्या नद्यः। तमग्निष्टोमम्।
पथो वा एष प्रैति यो यज्ञे मुह्यति। ( ऐ० ब्रा० ३।११ )
** पुनर्वा एतमृत्विजेा गर्भं कुर्वन्ति यं दीक्षयन्ति।**(ऐ० ब्रा० १।३ )
गर्भं कुर्वन्ति। गर्भवदसौ संस्कारैः पालनीय इत्यर्थः ( सायणः )
** प्रजापतिर्यज्ञमसृजत। यज्ञं सृष्टमनु ब्रह्मक्षत्रेअसृज्येताम्। ब्रह्मक्षत्रे अनु द्वय्यः प्रज्ञा असृज्यन्त हुतादश्चाहुतादश्च। ब्रह्मैवानु ह्रुतादः, क्षत्रमन्वहुतादः। एता वै प्रजा हुतादोयद् ब्राह्मणाः, अथैता अहुतादोयद्राजन्यो वैश्यः शूद्रः।** ( ऐ० ब्रा० ७।१९)
** प्राणान्वा एषोऽभ्यात्मन् धत्ते योऽग्नीनाधत्ते।** ( ऐ० ब्रा० ७।१२)
ब्रह्म वा एष प्रपद्यते यो यज्ञं प्रपद्यते। ब्रह्म वै यज्ञः। (ऐ० ब्रा० ७।२२ )
** यजमानो वै यज्ञः।** ( ऐ० ब्रा० १।२८)
** यज्ञस्य भ्रेषमनु यजमानो भ्रेषं न्येति।** ( ऐ० ब्रा० ५।३३ )
** यज्ञस्य वै छिद्रं स्रवद् यजमानोऽनु पापीयान् भवति।** ( ऐ० ब्रा० ३।११ )
** यज्ञस्यारिष्टिमनु यजमानोन रिष्यति।** ( ऐ० ब्रा० ५।३३ )
अरिष्टिं विनाशाभावम्।
** यज्ञियं वै कर्मोक्थ्यं वचः।** ( ऐ० ब्रा० १।२९ )
** यज्ञेन वै देवा ऊर्ध्वाः स्वर्गं लोकमायन्।** ( ऐ० ब्रा० २।१ )
** यज्ञो वै सुतर्मा नौः।** ( ऐ० ब्रा० १।१३ )
यज्ञरूपां नावमारुह्य स्वर्गलोकमभिसंतरतीत्यर्थः।
** यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति।** ( ऐ० ब्रा० ३।६ )
** वृत्रं वा एष हन्ति यं यज्ञ उपनमति।** ( ऐ० ब्रा० १।४ )
वृत्रं पापरूपं शत्रुमिति सायणः। यं यज्ञ उपनमति। यो यज्ञं सम्पादयतीत्यर्थः।
** स वा एष एकातिथिः। स एष जुह्वत्सु वसति। … एतां वाव स देवतामपरुणद्धि योऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति। तमेषा देवतापरुद्धापरुणध्द्यस्माच्च लोकादमुष्माच्चोमाभ्यां योऽलमग्निहोत्राय सन्नाग्निहोत्रं जुहोति। तस्माद्योऽलमग्निहोत्राय स्याज्जुहुयात्।** ( ऐ० ब्रा० ५।३० )
एष आदित्यः। अपरुणद्धि निराकरोति। अलं समर्थः।
सर्वाभिर्वा एष देवताभिरालब्धो भवति यो दीक्षितो भवति।( ऐ० ब्रा० २।९ )
आलब्धःस्वीकृतः। ( सायणः )
सर्वाभ्यो वा एष देवताभ्य आत्मानमालभते यो दीक्षते। ( ऐ० ब्रा० २।३ )
आत्मानमालभते। पशुत्वेनालब्धुमुपक्रमते। ( सायणः )
** सैषा स्वर्ग्याहुतिर्यदग्न्याहुतिः। यदि ह वा अध्यब्राह्मणोक्तो यदि दुरुक्तोक्तो यजतेऽथ हैषाहुतिर्गच्छत्येव देवान्न पाप्मना संसृज्यते।** ( ऐ० ब्रा० १।१६ )
अब्राह्मणोक्तः। “ब्राह्मणं विधायकं वाक्यं, तेन प्रेरितो ब्राह्मणोक्तः।तद्विपरीतः पण्डितम्मन्यः स्वबुद्ध्यैव यत् किञ्चिद् योऽनुतिष्ठति, सोऽयमब्राह्मणोक्तः। …अथवा स्मृतिषु अब्राह्मणत्वेन प्रतिपादितो योऽस्ति,
सोऽयमब्राह्मणोक्तः” इति सायणः।अन्येतु ब्राह्मणत्वेनोक्तः, वस्तुतोऽब्राह्मण इति यावत्।
दुरुक्तोक्तः। “पौरुषेयार्थविरुद्धं विधिवाक्यं दुरुक्तं तेन प्रेरितो दुरुक्तोक्तः। … ( अथवा ) दुष्टान्यपवादरूपाणि वचानानि दुरुक्तानि, तैरभिशस्तो दुरुक्तोक्तः” इति सायणः।
(ख) यज्ञस्वरूपविषये—
** ऐन्द्रो वै यज्ञः। इन्द्रो यज्ञस्य देवता।** ( ऐ० ब्रा० ५। ३४ )
यज्ञः सोमयाग इति सायणः।
** स प्रजापतिर्यज्ञमतनुत। तमाहरत्। तेनायजत।…….स प्रजापतिर्यज्ञं देवेभ्यः सम्प्रायच्छत्। ते देवा यज्ञमतन्वन्त। तमाहरन्त। तेनायजन्त।** ( ऐ० ब्रा० ५।३२ )
असौवा अस्यादित्योयूपः पृथिवी वेदिशेषधयो बर्हिर्वनस्पतय इध्मा आपः प्रोक्षण्यो। दिशः परिधयोयद्ध वा अस्य किञ्च नश्यति यन् म्रियते यदपाजन्ति सर्वं हैवैनं तदमुष्मिंल्लोके यथा बर्हिषिदत्तमागच्छेदेवमागच्छति य एवं विद्वानग्निहोत्रं जुहोति। उभयान्वा एष देवमनुष्यान् विपर्यासं दक्षिणा नयति सर्वं चेदं यदिदं किञ्च। मनुष्यान्वा एष सायमाहुत्या देवेभ्यो दक्षिणा नयति, सर्वं चेदं यदिदं किञ्च। त एते प्रलीना न्योकस इव शेरे मनुष्या देवेभ्यो दक्षिणा नीताः। देवान्वा एष प्रातराहुत्या मनुष्येभ्यो दक्षिणा नयति, सर्वं चेदं यदिदं किञ्च। त विविदाना इवोत्पतन्त्यदोऽहं करिष्येऽदोऽहं गमिष्यामीति वदन्तः।
यावन्तं ह वै सर्वमिदं दत्वा लोकं जयति तावन्तं हलोकं जयति य एवंविद्वानग्निहोत्रंजुहोति।
( ऐ० ब्रा० ५।२८ )
भावनारूपो होमोऽत्र विधीयते। अस्य भावनारूपं यज्ञं कुर्वतः। अत्र आदित्यादिषु यूपादिभावनैवाग्निहोत्रहोमः। स चेतरसंपत्त्यभावे कर्तव्यत्वेनात्र विधीयते। यदपाजन्ति। अपगच्छति स्वस्माद्वियुक्तं भवति। विपर्यासं दक्षिणा नयति। विपर्यस्य दक्षिणाःकृत्वा समर्पयति। न्योकस इव। ओकःस्थानम्। मदीयं गृहमित्यभिमानरहिता एव। शेरे शेरते।
** आ त्वैव श्रद्धायै होतव्यम्।** ( ऐ० ब्रा० ५।२७ )
दधियवाग्वादि यदि किमपि होमद्रव्यं न लभ्येत तर्हि “अहंश्रद्धां जुहोमि” इति संकल्प्य श्रद्धाया एव होमो विधेय इत्यर्थः। (तु० सायणः)
** श्रद्धा पत्नी सत्यं यजमानः। श्रद्धा सत्यं तदित्युत्तमं मिथुनम्। श्रद्धया सत्येन मिथुनेन स्वर्गान् लोकाञ्जयतीति** ( ऐ० ब्रा० ७।१० )
मानसमग्निहोत्रंकीदृशमिति प्रसङ्गेनेदं वचनम्।
** तद्यथायथमृत्विज ऋतुयाजान् यजन्त्यसंप्रदायम्। तद् यथर्त्वृतून् कल्पयन्ति, यथायथं जनताः।** ( ऐ० ब्रा० ५।९ )
यथायथमृत्विग्भिर् ऋतुयाजानां यजनेन ऋतवः सुखप्रदा जनसमूहश्च सुखी संजायत इति भावः। असंप्रदायम्। स्वकर्तव्यमनतिक्रम्य।
** तस्माद्धाप्येतर्हि यज्ञः सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च च्छन्दोभिश्च।** ( ऐ० ब्रा० ३।४५ )
** पच्छो वै देवा यज्ञं समभरन्** ( ऐ० ब्रा० ३।११ )
पच्छः पादशः, एकैकभागक्रमेण। समभरन् संपादितवन्तः।
** दीक्षमाणेषु पूर्वःपूर्व एव दिदीक्षिषेत।अपपाप्मानं हते य एवं वेह।** ( ऐ० ब्रा० ४।२५)
** मनसा वै यज्ञस्तायते मनसा क्रियते।** ( ऐ० ब्रा० ३।११ )
** येन तमसा प्रावृतो मन्येत तन्मनसा गच्छेदप हैवा स्मात्तल्लुप्यते।** ( ऐ० ब्रा० ३।१९ )
गच्छेत्। ध्यायेत्। तमोहि बहुविधम्—दृष्टिनिरोधकमेकम्, मोहरूपं द्वितीयम्, पापरूपं तृतीयम्। यज्ञप्रसङ्गेनैव एतदुच्यते।
** एतद्वैयज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति।** ( ऐ० ब्रा० १।४ )
रूपसमृद्धमित्यस्यैव व्याख्यानं ‘यत्कर्म कियमाणमृगभिवदति’ इति।
** यद्यज्ञेऽभिरूपं तत्समृद्धम्।** ( ऐ० ब्रा० १।१६ )
अभिरूपम्। प्रकृतकर्मण ऋचाप्यभिधीयमानत्वेनानुरूपम्।
** यजमानं ह वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति। स यथा गर्भो योन्यामन्तरेव संभवञ्छेते। न वै सकृदेवाग्रे सर्वः संभवत्येकैकं वा अङ्गं संभवतः संभवतीति।** ( ऐ० ब्रा० ६।३१ )
शेतेऽवतिष्ठते। यज्ञक्रतुना यजमानस्य संस्कृतिः शनैः शनैर्जायमाना कालसाध्यैवेति भावः।
** यज्ञादु ह वा एष पुनर्जायते यो दीक्षते।** ( ऐ० ब्रा० ७।२२ )
यज्ञो यज्ञस्य प्रायश्चित्तिः। ( ऐ० ब्रा० ७।४ )
** यत्र क्वच यजमानवशो भवति, कल्पत एव यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवं विद्वान् यजमानो वशी यजते।** ( ऐ० ब्रा० ३।१३ )
कल्पते प्रयोजनसमर्थो भवति। वशी स्ववशो भूत्वा।
** एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च** ( ऐ० ब्रा० १।१ )
अन्त्ये। आदावन्ते च वर्तमाने।
** तदाहुः …….“ऋतेरक्षा वै यज्ञः।** ( ऐ० ब्रा० २।७ )
ऋतेशब्दो वर्जनवाची। वर्जितं रक्षो यस्मिन्यज्ञे सोऽयम् ऋतेरक्षाः। तदाहुः केचिदाहुरित्यर्थः।
** कुलायमिव ह्येतद् यज्ञे क्रियते यत्पैतुदारवाः परिधयो गुग्गुलूर्णास्तुकाः सुगन्धितेजनानीति।** ( ऐ० ब्रा० १।२८ )
कुलायमिव नीडमिव। पितुदारुः खदिरवृक्ष इत्येके, देवदारुवृक्ष इत्यन्ये, तत्संबन्धिनः पैतुदारवाः। ऊणास्तुका अविसंबन्धिरोमविशेषाः। सुगन्धितेजनं तृणविशेषः। एते उत्तरवेद्यां स्थापिताः संभाराः।
** तदाहुर्नयज्ञेरक्षसांकीर्तयेत्।** ( ऐ० ब्रा २।७ )
तदाहुः। केचिदाहुरित्यर्थः।
** चक्षुर्वा एतद् यज्ञस्य यत्तूष्णींशंसः।** ( ऐ० ब्रा० २।३२ )
तूष्णींशंसः तूष्णीं शंसनम्।
** तूष्णींसारो वा एष यत्तूष्णींशंसः।** ( ऐ० ब्रा० २।३१ )
** मूलं वा एतद् यज्ञस्य यत्तूष्णींशंसः।** ( ऐ० ब्रा० २।३२)
तदाहुर्यदेष हविरेव यत्पशुः। अथास्य बह्वपैति लोमानि त्वगसृक्कुष्ठिकाः शफा विषाणे स्कन्दति पिशितम्। केनास्य
तदापूयत इति। यदेवैतत् पशौ पुरोडाशमनुनिर्वपन्ति तेनैवास्य तदापूर्यते। पशुभ्यो वै मेधा उदक्रामंस्तौ व्रीहिश्चैव यवश्च भूता(मा) वजायेताम्। ( ऐ० ब्रा० २।११ )
असृग्रक्तम्। कुष्ठिका उदरवर्त्तिनो भक्षितास्तृणादयः। पिशितं मांसं यत्किञ्चित् स्कन्दति भूमौ पतति। मेघाः यज्ञयोग्या भागाः। कृत्स्नस्यैव पशोर्हवोरूपत्वस्वीकारात्तस्य चावयवानामपाये कथं तेषां पूर्तिरिति प्रश्ने पशुपुरोडाशेनैव तेषां पूर्त्तिर्भवतीति वेदितव्यमित्यत्र पशुपुरोडाशप्रशंसैवाभिप्रेता।
** सर्वेषां वा एष पशूनां मेधेन यजते यःपुरोडाशेन यजते। तस्मादाहुः पुरोडाशसत्रं लोक्यमिति।** ( ऐ० ब्रा० २।९ )
लोक्यम् प्रेक्षणीयम् ( सायणः)।
** स वा एष पशुरेवालभ्यते यत्पुरोडाशः। तस्य यानि किंशारूणि तानि रोमाणि, ये तुषाः सा त्वग्, ये फलीकरणास्तदसृग्, यत्पिष्टं किक्नसास्तन्मांसं यत् किञ्चित्कं सारं तदस्थि।** (ऐ० ब्रा० २।९ )
किंशारूणि बुसपलालादीनि। फलीकरणास्तण्डुलश्वैत्यार्थेनावघातेन हेया अंशाः। किक्नसाः सूक्ष्माः पिष्टावयवाः। किञ्चित्कम्। किञ्चिदपरम्। स्वार्थे कः प्रत्ययः।
** सा वा एषामृताहुतिरेव यद्वपाहुतिः। अमृताहुतिरग्न्याहुतिः। अमृताहुतिराज्याहुतिः। अमृताहुतिः सोमाहुतिः। एता वा अशरीरा आहुतयः। या वै काश्चाशरीरा आहुतयोऽमृतत्वमेव ताभिर्यजमानो जयति।** ( ऐ० ब्रा० २।१४ )
** तस्मादाहुर्न निवृत्तदक्षिणां प्रतिगृह्णीयान्नेन्मा शुचा विद्धा शुचा विध्यादिति। यदि त्वेनां प्रतिगृह्णीयादप्रियायैनां भ्रातृव्याय दद्यात्। परा हैव भवति।** ( ऐ० ब्रा० ६।३५ )
निवृत्तदक्षिणां केनापि कारणेन परित्यक्तां दक्षिणाम्।
** तस्माद् ददद्याज्यः। …. तस्मात्प्रतिगृह्णता याज्यम्। उभये राध्नुवन्ति य एवं विद्वांसो यजन्ते च याजयन्ति च।** ( ऐ० ब्रा० ४।२५ )
** दक्षिणा वै यज्ञानां पुरोगवी। यथा ह वा इदमनोऽपुरोगवं रिष्यत्येवंहैव यज्ञोऽदक्षिणो रिष्यति। तस्मादाहुर्दातव्यैव यज्ञे दक्षिणा भवत्यल्पिकापि।** ( ऐ० ब्रा० ६।३५ )
अनोऽपुरोगवम्। बलीवर्दरहितं शकटम्। रिष्यति विनश्यति।
** एते ह वै संवत्सरस्य चक्रे यदहोरात्रे ताभ्यामेव तत्संवत्सरमेति। सयोऽनुदिते जुहोति यथैकतश्चक्रेण यायात्तादृक् तत्। य उदिते जुहोति यथोभयतश्चक्रेण यान् क्षिप्रमध्वानं समश्नुवीत तादृक् तत्।……तदेषाभि यज्ञगाथा गीयते—यथा ह वास्थूरिणैकेन यायादकृत्वान्यदुपयोजनाय। एवं यन्ति ते बहवो जनासः पुरोयाज्जुह्वति येऽग्निहोत्रम्। इति।** ( ऐ० ब्रा० ५।३० )
अस्थुरि’ नामाश्वो रथवाजी। यथा कश्चिन्मन्दबुद्धिः ‘उपयोजनाय’ रथे योजयितुम् ‘अन्यदकृत्वा’ अश्वान्तरमसम्पाद्य एकेनैव ‘अस्थूरिणा’अश्वेन रथयुक्तेन यायात्। तद्वदेव तेषामाचरणं ये रात्रिरूपे एकस्मिन्नेव कालेऽग्निहोत्रंजुह्वतीत्यर्थः।
(ग) ऋत्विजां प्रशंसा—
** ईश्वरो हयद्यप्यन्यो यजेताथ होतारं यशोऽर्तोः।** ( ऐ० ब्रा० २।२० )
यद्यपि यजमान एव यागकर्तृत्वंविद्यते तथापि होतुर्यशःप्राप्तिस्तु भवत्येवेति भावः। यशोऽर्तोरीश्वरो ह यशः प्राप्तुं समर्थमेव।
** ऋत्विजिहि सर्वो यज्ञः प्रतिष्ठितो यज्ञेयजमानः।** ( ऐ० ब्रा० २।३२ )
** किं सयजमानस्य पापभद्रमाद्रियेतेति हस्माह योऽस्य होता स्यादिति। अत्रैवैनं यथा कामयेत तथा कुर्यात्।** (ऐ० ब्रा० ३।३)
यजमानस्य होता किमिष्टमनिष्टं वा सम्पादयितुं समर्थ इति प्रश्ने, अत्रैव जन्मनि एनं यजमानं प्रति होता यथा कामयेत तथा कर्तुं शक्नोतीत्युत्तरम्।
** तस्माद्धाप्येतर्हि यज्ञो ब्रह्मण्येव ब्राह्मणेषु प्रतिष्ठितः। ….तस्माद्धाप्येतर्हि क्षत्रियो यजमानो निधायैव स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तते।** ( ऐ० ब्रा० ७।१९ )
एतर्हि एतस्मिन् काले। स्फ्यादीनि यज्ञायुधान्येव ब्रह्मण आयुधानि उच्यन्ते। अश्वयुक्तरथादीनि क्षत्रियस्यायुधानि।
** ब्रह्मणि हि सर्वो यज्ञः प्रतिष्ठितः। यज्ञेयजमानः।** (ऐ० ब्रा० ७।२६ )
** यज्ञस्य हैष भिषग् यद् ब्रह्मा।** ( ऐ० ब्रा० ५।३४ )
(घ) वर्ज्या ऋत्विजः, ऋत्विजां कर्तव्यं च—
** त्रीणि ह वै यज्ञेक्रियन्ते जग्धं गीर्णं वान्तम्। तद्धैतदेव जग्धं यदाशंसमानमार्त्विज्यं कारयत उत वा मेदद्यादुत वा मा वृणीतेति। यद्धू तत्पराङेव यथा जग्धम्। न हैव तद्यजमानंभुनक्ति। अथ हैतदेव गीर्णं यद् बिभ्यदार्त्विज्यं कारयत उत वामा न बाधेतोत वा मे न यज्ञवेशसं कुर्यादिति। तद्ध तत्पराङवे यथा गीर्णम्। न हैव तद्यजमानंभुनक्ति। अथ हैतदेव वान्तं यदभिशस्यमानमार्तिज्यंकारयते। यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एव तस्माद्देवाः। तद्ध तत्पराङेव यथा वान्तम्। न हैव तद्यजमानं भुनक्ति। स एतेषां त्रयाणामाशां नेयात्।** ( ऐ० ब्रा० ३।४६ )
यज्ञे वर्ज्यानृत्विजो दर्शयितुमेष प्रबन्धः। जग्धं भक्षितावशिष्टम् भाजनपात्रे स्थितम्। गीर्णमुदरे प्रविष्टम्। पराङ् निकृष्टम्। भुनक्ति पालयति। कश्चिदृत्विग् धनार्जनलम्पटः सन् निरन्तरमार्त्विज्यं कामयते। तादृशं कामयमानं पुरुषं यजमान आर्त्विज्यं कारयत इति यदस्ति तदेव ‘जग्धम्’। यथा लोके पात्रस्थितं भक्षितावशिष्टमुच्छिष्टत्वादितरैरस्पृश्यं तथा।
यज्ञवेशसं यज्ञविघातम्। भीतिमात्रप्रयुक्तमार्त्विज्यं गीर्णमन्नमिव भोगयोग्यं न भवति। अभिशस्यमानो यः पातित्यापवादेन सर्वैर्निन्द्यते।
** यथा ह वा इदं निषादा वा सेलगा वा पापकृतो वा वित्तवन्तं पुरुषमरण्ये गृहीत्वा कर्तमन्वस्य वित्तमादाय द्रवन्त्येवमेव त ऋत्विजो यजमानं कर्तमन्वस्य वित्तमादाय द्रवन्ति यमनेवं विदो याजयन्ति।** ( ऐ० ब्रा० ८।११ )
सेलगाश्चौराः। इला अन्नं, तया सह वर्तन्त इति सेला धनिकाः, तान् ‘धनापहारार्थं गच्छन्तीति चौराः सेलगाः। कर्त्तमन्वस्य गर्त्तेप्रक्षिप्य। अनेवंविदस्तत्तद्यज्ञे विहितप्रक्रियाया अनभिज्ञाः।
** यशसा वा एषोऽभ्यैति य आर्त्विज्येन। तं यः प्रतिरुन्धेद् यशः स प्रतिरुन्धेद्।… यदि त्वस्मादपोज्जिगांसेद् यज्ञेनास्मादपोदियात्। यदि त्वयाज्यः, स्वयमपोदितं तस्मात्।** ( ऐ० ब्रा० ६।३४ )
आर्त्विज्यं हि अत्यतं यशस्करम्। आर्त्विज्यकरणाय प्रार्थयितारं यजमानं यदि कश्चित्प्रार्थितः प्रतिरुन्धेत् तर्हि स स्वकीयं यश एव विनाशयेत्। ततश्चार्त्त्विज्यमङ्गीकरणीयमेवेति भावः। …परं यदि अस्माद् आर्त्विज्यात्। अपोजिगांसेत् अपेत्योद्गन्तुमिच्छेत्। तदानीमन्येन यज्ञेन निमित्तभूतेन अस्मादार्त्विज्यादपक्रम्योद्गच्छेत्। एकस्मिन्नेव दिने द्वयोर्यज्ञयोरनुष्ठानासंभवादित्यर्थः। परं यागार्थी पुरुषो यदि अयाज्यस्तदा तुआर्त्विज्यं स्वयमेवापोदितं भवति।
(१३) देवानां सामान्येन, तत्तद्देवानां, पितॄणां, गन्धर्वाणां,
रक्षसां, देवासुराणां, स्वर्गादिलोकानां च वर्णनम्।
प्राधान्येन यज्ञस्वरूपप्रतिपादनपरेषु ब्राह्मणेषु देवानां सामान्येन, तत्तद्देवानामग्न्यादीनां पितॄणां, गन्धर्वाणां प्रसङ्गेनासुराणांरक्षसां च वर्णनं स्वाभाविकमेव। अत एवात्रैतरेयब्राह्मणेऽपि तदुपलभ्यते। तत्र देवानां सामान्येन वर्णने तेषां त्रयस्त्रिंशत्त्वम्, कथं तेषां स्वर्गावाप्तिरभूत्, न वै देवा अन्योन्यस्य गृहे वसन्ति ( अर्थात् नैव ते स्वाधिकारमतिक्रम्य
वर्तन्ते)इत्यादि विशदं प्रतिपाद्यते। तत्तद्देवानां वर्णनमपि सुचारुचर्चितम्। तद्यथा—अग्निंहीमाः प्रजाः परिक्षियन्ति, अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः, उद्यन्वा आदित्यः सर्वाणि भूतानि चेष्टयति, सर्वमिदमादित्यस्यानुचरस्थानीयमत एव तमनुचरति, सविता वै प्रसवानामीशे, प्रजापतेर्द्वादश तन्वः, संवत्सरः प्रजापतिः, यज्ञो वै प्रजापतिः, अपरिमितो वै प्रजापतिः, अहर्वै मित्रो रात्रिर्वरुणः। एवं स्वर्गादिलोकवर्णनमपि। तद्यथा—परोवरीयांसो वा इमे लोका अर्वागंहीयांसः, इतः सहस्राश्वगन्तव्ययोजनपरिमितदेशे खलु स्वर्गो लोक इत्येवमनेके विचित्राश्चित्ताकर्षका विषया उपवर्णिता दृश्यन्ते। ते चात्र क्रमेण संगृहीताः—
(क) देवानां सामान्येन वर्णनम्—
** अहर्वै देवा अश्रयन्त रात्रीमसुराः।** ( ऐ० ब्रा० ४।५ )
** त्रयस्त्रिंशद्वै देवाः। अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च।** ( ऐ० ब्रा० १।१० )
** त्रयस्त्रिंशद्वै देवाः सोमपास्त्रयस्त्रिंशदसोमपाः। अष्टौ वसवएकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्चैते देवाः सोमपाः। एकादश प्रयाजा एकादशानुयाजा एकादशोपयाजा एतेऽसोमपाः पशुभाजनाः।** ( ऐ० ब्रा० २।१८)
** देवानां मिथुनेन मिथुनं प्रजायन्ते प्रजात्यै।** (ऐ० ब्रा० ५।२२)
देवसम्बन्धिमिथुनानुग्रहेण मानुषमिथुनमुत्पादयन्तीत्यर्थः।
** देवा वै यज्ञमतन्वत। ताँस्तन्वानानसुरा अभ्यायन् यज्ञवेशसमेषां करिष्याम इति।** ( ऐ० ब्रा० २।११ )
यज्ञवेशसं यज्ञविघातम् (सायणः)।
** देवा वै यज्ञेन श्रमेण तपसाहुतिभिः स्वर्गं लोकमजयन्।** ( ऐ० ब्रा० २।१३ )
** न वै देवा अन्योन्यस्य गृहे वसन्ति। नतु ऋतोर्गृहे वसतीत्याहुः।**( ऐ० ब्रा० ५।९ )
स्वाधिकारमनतिक्रम्यैव देवाःकार्यंकुर्वन्तीति भावः।
** न हवा अव्रतस्य देवा हविरश्नन्ति।** ( ऐ० ब्रा० ७।११ )
** परोक्षप्रिया इव हि देवाः।** ( ऐ० ब्रा० ३।४३ )
देवाः पूज्या आचार्यादयः परोक्षनामप्रिया एव। शीघ्रप्रतीतिरहितं नाम परोक्षमित्युच्यते। ( सायणः)
( ख ) तत्तद्देवानां वर्णनम्। १—तत्राग्निः।
** अग्निर्वै देवयोनिः।** ( ऐ० ब्रा० १।२२ )
** अग्निर्वै देवयोनिः। सोऽग्नेर्देवयोन्या आहुतिभ्यः संभूय हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेति।** ( ऐ० ब्रा० २।१४ )
स यजमानः।
** अग्निर्वैदेवानामवमोविष्णुः परमः। तदन्तरेण सर्वा अन्यादेवताः।** ( ऐ० ब्रा० १।१ )
अवमः प्रथमः। परमः उत्तमः।
** अग्निर्वै देवानां गोपाः।** ( ऐ० ब्रा० १।२८ )
अग्निर्वै देवानां नेदिष्ठः। ( ऐ० ब्रा० ७।१६ )
नेदिष्ठः। हविर्वहनेनातिसमीपवर्ती।
** अग्निर्हि देवानां पशुः।** ( ऐ० ब्रा० १।१५ )
यथानड्वान् हव्यं वहति, तथाग्निरपि हव्यं वहति। तस्मादग्नेः पशुसाम्यम्। ( सायणः )
** अग्निर्वै देवानां मुखं सुहृदयतमः।** ( ऐ० ब्रा० ७।१६ )
मुखम्। मुखस्थानीयः। अग्निद्वारेणैव सर्वैर्देवैर्हविःस्वीकारात्।
** अग्निर्वैदेवानां वसिष्ठः।** ( ऐ० ब्रा० १।२८ )
वसिष्ठोऽतिशयेन निवासहेतुः( सायणः)।
** अग्निर्वै देवानां होता।** ( ऐ० ब्रा० १।२८ )
होता होमनिष्पादकः।
** अग्निर्वै परिक्षित्। अग्निर्हीमाः प्रजाः परिक्षेति, अग्निं हीमाः प्रजाः परिक्षियन्ति।** ( ऐ० ब्रा० ६।३२ )
परिक्षेति परिपालयन् निवसति। परिक्षियन्ति परितः सेवमाना निवसन्ति।
** अग्निर्वै सर्वा देवताः।** ( ऐ० ब्रा० १।१ )
** अग्निर्वै स्वर्गस्य लोकस्याधिपतिः।** ( ऐ० ब्रा० ३।४२ )
** अग्निश्च ह वै विष्णुश्च देवानां दीक्षापालौ। तौ दीक्षाया ईशाते।** ( ऐ० ब्रा० १।४ )
अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः। स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपम्।…..अथ यद् द्वैधमिव कृत्वा दहति। द्वौ वा इन्द्रवायू। तदस्यैन्द्रवायवं रूपम्। …….अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपम्। …….. स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपम्। तं यद् घोरसस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपम्। ……. अथ यदेनं द्वाभ्यां
बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति। द्वौ वा अश्विनौ। तदस्याश्विनं रूपम्। ……अथ यदुच्चैर्घोषः स्तनयन्बबबा कुर्वन्निव दहति। यस्माद् भूतानि विजन्ते। तदस्यैन्द्रं रूपम्। ……अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपम्। ……अथ यत्स्फूर्जयन्वाचमिव वदन् दहतितदस्यसारस्वतं रूपम्।( ऐ० ब्रा० ३।४ )
प्रवानिव। प्रकर्षवानिव। उच्चहृष्यति नि च हृष्यति। ज्वलतोऽग्नेरौन्नत्यमुद्धर्षः, ज्वालाशान्त्या नीचत्वं निहर्षः। मित्रकृत्येवोपासते। मित्रस्य कृतिः कार्यंसमीपेऽवस्थानं तेनेव शीतपरिहाराय वह्नि सेवन्ते।
** अन्नादो वा एषोऽन्नपतिर्यदग्निः।** ( ऐ० ब्रा० १।८ )
** अयं वा अग्निर्मन्विद्धः। इमं हि मनुष्या इन्धते। अयं वा अग्निर्होता मनुवृतः। अयं हि सर्वतो मनुष्यैवृतः। …….अयं वाअग्निरतूर्त्तो होता। इमं ह न कश्चन तिर्यञ्चं तरति। ……. अयं वा अग्निर्देवो देवान् यजति।** ( ऐ० ब्रा० २।३४ )
अतूर्तः केनाप्यतीर्णः।
** देवो ह्येष एतज्जीवातवे कृतो यदग्निः।** ( ऐ० ब्रा० १।२८ )
जीवातवे अस्माकं जीवनौषधाय ( सायणः)।
** द्यावापृथिवीभ्यां वा एतं जातं देवाः पर्यगृह्णंस्ताभ्यामेवाद्यापि परिगृहीतः।** ( ऐ० ब्रा० १।१६ )
एतमग्निम्। पावकोऽग्निर्भूम्या परिगृहीतः, प्रकाशकःसूर्यरूपोऽग्निर्दिवा परिगृहीतः। (सायणः)
** रक्षांसि वा एनं तर्ह्यालभन्ते यर्हि न जायते यर्हिचिरं जायते।** ( ऐ० ब्रा० १।१६ )
एनं वह्निम्। आलभन्ते। संस्पृशन्ति। प्रतिबध्नन्तीत्यर्थः। (सायणः)
२—अश्विनौ।
** अश्विनौ हि देवानां भिषजौ। अश्विनावध्वर्यू।**( ऐ० ब्रा० १।१८ )
३—अग्निरुषा अश्विनौ च।
** एते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ।**(ऐ० ब्रा० २।१५ )
प्रातर्यावाणः सुत्यादिने प्रातःकाले यज्ञभूमिं यान्ति। ( सायणः )
४—आदित्यः, सविता।
** अद्भ्यो वा एष प्रातरुदेत्यपः सायं प्रविशति।**( ऐ० ब्रा० ४।२० )
एष आदित्यः।
** असौ वा अग्निर्देवेद्ध एतं हि देवा इन्धते। …..असौ वै होता देववृतः। एष हि सर्वतो देवैर्वृतः। …….असौ वै रथीरध्वराणाम्। एष हि यथैतच्चरति रथीरिव ……. असौ वै देवो देवानावहति।**
(ऐ० ब्रा० २।३४ )
असौ वा अग्निः। असौ आदित्यमण्डलेऽवस्थितः। यथैतच्चरति रथीरिव। लोक यथा कश्चन रथवान् गन्तव्यस्थानं गच्छति तद्वत्।
** आदित्यो वै देवं क्षत्रम्।आदित्य एषां भूतानामधिपतिः।** ( ऐ० ब्रा० ७।२० )
** उद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति। तस्मादेनं प्राण इत्याचक्षते।** ( ऐ० ब्रा ५।३१ )
प्रणयति चेष्टयति।
** तस्य ह न काचन रिष्टिर्भवति देवेन सवित्रा प्रसूतस्य।** ( ऐ० ना० ७।२०)
** तां वा एतां देवतां प्रयतीं सर्वेमिदमनुप्रैति यदिदं किञ्च।एतस्यै हीदं देवताया अनुचरं सर्वं यदिदं किञ्च। सैषानुचरवती देवता।** ( ऐ० ब्रा० ५।३० )
ताम् एतामादित्यदेवताम्। प्रति प्रवर्तते। अनुचरं भृत्यस्थानीयम्।
स वा एष उत्तरोऽस्मात् सर्वस्माद् भूताद् भविष्यतः सर्वमेवेदमतिरोचते यदिदं किञ्च ( ऐ० ब्रा० ४।१८ )
एष आदित्यः।
** स वा एष न कदाचनास्तमेति नोदेति। तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाऽथात्मानं विपर्यस्यते रात्रीमेवावस्तात्कुरुतेऽहःपरस्तात्। अथ यदेनं प्रातरुदेतीति मन्यन्ते रात्रेरेक तदन्तमित्वाथात्मानं विपर्यस्यतेऽहरेवावस्तात्कुरुते रात्रीं परस्तात्। स वा एष न कदाचन निम्रोचति न ह वै कदाचन निम्रोचति।**( ऐ० ब्रां० ३।४४)
सः सूर्यः। निम्रोचनमस्तमयः।
** सविता वै प्रसवानामीशे** ( ऐ० ब्रा० १।१६ )
ईशे स्वामी भवति ( सायणः)।
५—अग्निर्वायुरादित्यश्च।
** अग्निर्गृहपतिरिति हैक आहुः। सोऽस्य लोकस्य गृहपतिः। वायुर्गृहपतिरिति हैक आहुः। सोऽन्तरिक्षलोकस्य गृहपतिः। असौ वै गृहपतिर्योऽसौतपति। एष पतिर्ऋतवो गृहाः।** (ऐ० ब्रा० ५।२५)
६—आपः।
** आपो वै मरुतः। आपोऽन्नम्।** ( ऐ० ब्रा० ६।३० )
मरुतो वृष्टिद्वारेणाप एव। अपां चान्नहेतुत्वादन्नत्वम्।
** आपो वै सर्वा देवताः। रेवत्यः सर्वा देवताः।** (ऐ० ब्रा० २।१६)
रायो धनानि यासां भवन्तीति रेवत्यः।
७—इन्द्रः।
** इन्द्रो वै गोपाः। ……इन्द्रो वै त्वष्टा। …… इन्द्रो वै वेधाः।** ( ऐ० ब्रा० ६।१० )
** इन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमः।** ( ऐ० ब्रा० ७।१६ )
ओजो दीप्तिर्बलं दार्ढ्यंप्रसह्यकरणे सहः। सुजनः सन् पारयिष्णुरुपक्रान्तसमाप्तिक्कृत्॥ ( सायणभाष्ये पूर्वाचार्यवचनम् )
** इन्द्रो वै वृत्रं हत्वा विश्वकर्माभवत्।** ( ऐ० ब्रा० ४।२२ )
** ओकःसारी वा इन्द्रो यत्र वा इन्द्रः पूर्वंगच्छत्यैव तत्रापरं गच्छति।** ( ऐ० ब्रा० ६।१७ )
ओकांसि स्थानानि गृहाणि तेषु सरति सर्वदा सञ्चरतीति ओकःसारी मार्जारः। वै-शब्द उपमार्थः। यथा मार्जारः पूर्वस्मिन् दिने येषु गृहेषु
सञ्चरति, तेष्वेव गृहेषु परेद्युरपि सञ्चरति। एवमयमिन्द्रोऽप्यवगन्तव्यः।( सायणः )
** घृतेन हि वज्रेणेन्द्रो वृत्रमहन्।** ( ऐ० ब्रा० १।२६ )
८—इन्द्राग्नी।
** इन्द्राग्नी वै देवानापोजिष्ठौबलिष्ठौ सहिष्ठौ सत्तमौ पारयिष्णुतमौ।** ( ऐ० ब्रा० २।३६ )
९—इन्द्रो विष्णुश्च।
** इन्द्रश्च ह वै विष्णुश्चासुरैयुयुधाते। ……** ( ऐ० ब्रा० ६।१५ )
१०—ऋभवः।
** ऋभवो वै देवेषु तपसा सोमपीथमभ्यजयन्। …..तेभ्यो वै देवा अपैवाबीभत्सन्त मनुष्यगन्धात्।** ( ऐ० ब्रा० ३।३० )
ऋभुनामकाः केचन मनुष्यविशेषा देवत्वं प्राप्ताः। मनुष्यगन्धाद्धेतोस्तेभ्यः ‘अपैव’ स्वयमपगताः सन्तोऽग्न्यादयः ‘अबीभत्सन्त’ मनसि बीभत्सां कृतवन्तः।
** प्रजापतिर्वै पित ऋभून् मत्यान् सतोऽमर्त्यान् कृत्वा तृतीयसवन आभजत्।** ( ऐ० ब्रा० ६।१२ )
११—चन्द्रमाः।
** एतद्वौ देवसोमं यच्चन्द्रमाः।** ( ऐ० ब्रा० ७।११ )
देवसोमम्। देवानामपेक्षितं सोमद्रव्यसदृशं वस्तु। ( सायणः)
१२—मरुतः।
** देवविशः कल्पयितव्या इत्याहुस्ताः कल्पमाना अनु मनुष्यविशः कल्पन्ते।** ( ऐ० ब्रा० १।९ )
** मरुतो वै देवविशोऽन्तरिक्षभाजनाः।** ( ऐ० ब्रा० १।१० )
मरुतो वै देवानां विशः। ( ऐ० ब्रा० १।९)
१३—द्यावापृथिव्यौ।
** अयं वै लोको ज्योतिरसौ लोको ज्योतिस्त एते ज्योतिषी उभयतः संलोकेते।** ( ऐ० ब्रा० ४।१५ )
** असाविमां वृष्ट्याभ्युनत्त्यभिजिघ्रति।** ( ऐ० ब्रा० १।७ )
असौ द्यौः। इमां भूमिम्। अभ्युनत्ति सर्वतः क्लेदयति। अभिजिघ्रति धर्मकाले भूमिगतं रसमाभिमुख्येनादत्ते।
** इयं वा ओषधीनां प्रतिष्ठा।** ( ऐ० ब्रा० २।६ )
इयं भूमिः।
** द्यावापृथिवी वै देवानां हविर्धाने आस्ताम्। ते उ एवाद्यापि हविर्धाने। ते हीदमन्तरेण सर्वं हविर्यदिदं किञ्च।** ( ऐ० ब्रा० १।२९ )
** द्यावापृथिवी वै प्रतिष्ठे। इयमेवेह प्रतिष्ठा, असावमुत्र।** ( ऐ० ब्रा० ३।२९ )
इह मनुष्यजन्मनि। अमुत्र जन्मान्तरे। असौ द्युलोकः। ( सायणः )
** धूमेनैवेयममूं जिन्वति। वृष्ट्यासाविमाम्।** ( ऐ० ब्रा० ४।२७)
इयं भूमिः। जिन्वति प्रीणयति। असौ द्यौः।
१४—प्रजापतिः।
** अनिरुक्तो वै प्रजापतिः।** ( ऐ० ब्रा० ६।२० )
अन्नादा चान्नपत्नी च। अन्नादा तदग्निरन्नपत्नी तदादित्यः। भद्रा च कल्याणी च। भद्रा तत्सोमः कल्याणी तत्पशवः।
अनिलया चाhभया च। अनिलया तद्वायुः। न ह्येष कदा च नेलयति। अपभया तन्मृत्युः। सर्वं ह्येतस्माद् बीभाय। अनाप्ता चानाप्या च। अनाप्ता तत्पृथिव्यनाप्या तद् द्यौः। अनाधृष्या चाप्रतिधृष्या च। अनाधृष्या तदग्निरप्रतिधृष्या तदादित्यः। अपूर्वा चाभ्रातृव्या च। अपूर्वा तन्मनोऽभ्रातव्या तत्संवत्सरः। एता वाव द्वादश प्रजापतेस्तन्वः। एष कृत्स्नः प्रजापतिः। ( ऐ० ब्रा० ५।२५ )
तन्वो मूर्तयः। अन्नपत्नी अन्नस्य पालयित्री। आदित्याज्जायते वृष्टिरिति न्यायेन। नेलयति न गच्छति। बीमाय भीति प्राप्नोति। अनाप्ता भूमिः। असंयोगपूर्वस्य संयोगस्य प्राप्तिशब्दार्थत्वस्याभावादिति भावः। अनाधृष्या। अग्निर्हि स्पर्शेन घर्षितुमशक्यः। अप्रतिधृष्या। आदित्यो हि केनापि प्रतिबन्धेनाभिभवितुमशक्यः। अपूर्वा। सर्वमपीन्द्रियजातं मनसा संकल्पिते विषये पश्चात्प्रवर्ततेऽतोऽपूर्वा। अभ्रातृव्या। यतः कालात्मा संवत्सरः सर्वंजरयति। न तमन्यः कश्चिज्जरयितुं समर्थः।
** अपरिमितो वै प्रजापतिः।** ( ऐ० ब्रा० २।१७ )
एकविंशो वै प्रजापतिः। द्वादश मासाः। पञ्चर्तवः। त्रय इमे लोकाः। असावादित्य एकविंश उत्तमा प्रतिष्ठा। तद्दैवं क्षत्रम्। सा श्रीः। तदाधिपत्यम्। तद् ब्रध्नस्य विष्टपम्। तत्प्रजापतेरायतनम्। तत्स्वाराज्यम्। ( ऐ० ब्रा० १।३० )
तत्। आदित्यमण्डलम्।ब्रध्नस्य आदित्यस्य। विष्टपं स्थानभूतम्। ( सायणः )
** को वै नाम प्रजापतिः।** ( ऐ० ब्रा० ३।२१ )
को वै प्रजापतिः। ( ऐ० प्रा० ६।२१ )
** त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि। तावान्संवत्सरः। संवत्सरः प्रजापतिः। प्रजापतिर्यज्ञः।** ( ऐ० ब्रा० २।१७ )
** प्रजापतिः प्रजाः सृष्ट्वा विश्वकर्माभवत्। संवत्सरो विश्वकर्मा।** ( ऐ० ब्रा० ४।२२ )
** प्रजापतिं वै प्रजा अनु प्रजायन्ते। प्रजापतिरूनातिरिक्तयोः प्रतिष्ठा।**( ऐ० प्रा० ५।२४ )
प्रतिष्ठा आश्रयः। समाधानहेतुः।
** प्रजापतिर्वा इदमेक एवाग्र आससोऽकामयत प्रजायेय भूयान् स्यामिति। स तपोऽतप्यत। स वाचमयच्छत्।** ( ऐ० ब्रा० २।३३ )
वाचमयच्छत्। मौनव्रतं कृतवानित्यर्थः।
** प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांस्येष उ एव प्रजापतिर्योयजते।**( ऐ० ब्रा० २।१८ )
** प्रजापतिर्वै कः।** ( ऐ० ब्रा० २।३८ )
** प्रजापतिर्वै यज्ञः।** ( ऐ० ब्रा० ४।२६ )
** प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत्। दिवमित्यन्य आहुरुषसमित्यन्ये।……** ( ऐ० ब्रा० ३।३३ )
** सप्तदेशो वै प्रजापतिः। द्वादश मासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन। तावान् संवत्सरः। संवत्सरः प्रजापतिः।** ( ऐ० ब्रा० १।१ )
** स वा अयंप्रजापतिः संवत्सर ऋतुषु च मासेषु च प्रत्यतिष्ठत्। ते वा इम ऋतवश्च मासाश्च प्रजापतावेव संवत्सरे प्रत्यतिष्ठन्। त एतेऽन्योन्यस्मिन् प्रतिष्ठिताः।** ( ऐ० ब्रा० ४।२५ )
संवत्सरः प्रजापतिः। प्रजापतिर्यज्ञः। ( ऐ० ब्रा० ६।१९ )
संवत्सरः प्रजापतिः। सोऽस्य सर्वस्य प्रजनयिता। ( ऐ० ब्रा० २।३९ )
संवत्सरः प्रजापतिर्यं प्रजायमानं विश्वं रूपमिदमनु प्रजायते। ( ऐ० ब्रा० २।१७ )
१५—बृहस्पतिः।
** ब्रह्म वै बृहस्पतिः।** ( ऐ० ब्रा० १।१३ )
** बृहस्पतिर्ह वै देवानां पुरोहितस्तमन्वन्ये मनुष्यराज्ञां पुरोहिताः।** ( ऐ० ब्रा० ८।२६ )
१६—मित्रावरुणौ।
** अहर्वै मित्रो रात्रिर्वरुणः।** ( ऐ० ब्रा० ४।१० )
१७—वषट्कारः।
** ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वो** ( ऐ० ब्रा० ३।८ )
** यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद् वषट् करिष्यन् साक्षादेव तद्देवतां प्रीणाति प्रत्यक्षाद्देवतांयजति।**( ऐ० ब्रा० ३।८ )
** वाक् च वै प्राणापानौ च वषट्कारः।**( ऐ० ब्रा० ३।८ )
** वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट् करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति।** ( ऐ० ब्रा० ३।६ )
** त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः। स यमेवोच्चैर्बलि वषट्करोति स वज्रः। तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै। तस्मात्स भ्रातृव्यवता वषट्कृत्यः। अथ यः समः सन्ततोऽनिर्हाणर्चः स धामच्छद्। तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते। तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्यः। अथ येनैव षलवराध्नोति स रिक्तः। रिणक्त्यात्मानं रिणक्ति यजमानं पापीयान्वषट्कर्ताभवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात्।** ( ऐ० ब्रा० ३।७ )
स्तृत्यो हन्तव्यः। सन्ततो याज्यया सह विच्छेदरहितः। निर्हाणर्चः याज्यारूपाया ऋचःपाठेन हीनः। अनिर्हाणर्चःसम्पूर्णयाज्यापाठोपेतः। धामच्छद्। धाम यज्ञस्थानं, तत्र यथा रक्षांसि न प्रविशन्ति तथा छादयति सः। षट्शब्दो वषट्कारमभिधत्ते, एकदेशेन व्यवहारात्। वषट्कारावरोधस्तत्समृद्ध्यभावः, स च तस्य नीचोच्चारणेन। रिणक्ति रिक्तीकरोति दरिद्रं करोतीत्यर्थः।तस्याशाम्। तस्य रिक्तस्य वषट्कारस्येच्छामपि।
१८—वायुः।
वायुर्वा अग्निः सुषमित्। वायुर्हि स्वयमात्मानं समिन्धे स्वयमिदं सर्वं यदिदं किञ्च। ……. वायुर्वै प्रणीर्यज्ञानाम्। यदा हि प्राणित्यथ यज्ञोऽधाग्निहोत्रम्।…… वायुर्वै तूर्णिर्हव्यवाट्। वायुर्हीदं सर्वं सद्यस्तरति यदिदं किञ्च। वायुर्देवेभ्यो हव्यं
वहति।…… वायुर्वैजातवेदाः। वायुर्हीदं सर्वं करोति यदिदं किञ्च। ( ऐ० ब्रा० २।३४ )
** वायुर्ह्येव प्रजापतिः।** ( ऐ० ब्रा० ४।२६ )
१९—विष्णुः।
** यद्विक्रान्तवत्तद्वैष्णवम्।** ( ऐ० ब्रा० ३।१८ )
** विष्णुः सर्वा देवताः।** ( ऐ० ब्रा० १।१ )
** विष्णुर्वै देवानां द्वारपः।** ( ऐ० ब्रा० १।३० )
** विष्णुर्वैयज्ञः।** ( ऐ० ब्रा० १।१५ )
२०—विष्णुर्वरुणश्च।
** विष्णुर्वैयज्ञस्य दुरिष्टं पाति, वरुणः स्विष्टम्। …….. यथा वैमत्यमेवं यज्ञस्य विष्णुः। तद्यथा दुष्कृष्टं दुर्मतीकृतं सुकृष्टं सुमतीकृतं कुर्वन्नियादेवमेवैतद्यज्ञस्य दुष्टुतं दुःशस्तं सुष्टुतं सुशस्तं कुर्वन्नेति यदेतां होता शंसति।** ( ऐ० ब्रा० ३।३८ )।
दुरिष्टम् अङ्गविकलं यदनुष्ठितं तद्विष्णुः पाति। वैकल्यं निवारयतीत्यर्थः। स्विष्टं साकल्येन यदङ्गमनुष्ठितं तद्वरुणः पाति। तस्य फलप्रतिबन्धं निवारयतीत्यर्थः। बुद्धौ सम्यक्त्वेन प्रतिभातं कार्य मत्यम् ( सायणः)। एतां वैष्णवीमृचम्।
२१—संवत्सरः।
** एते ह वै संवत्सरस्य चक्रे यदहोरात्रे ताभ्यामेव तत्संवत्सरमेति।** ( ऐ० ब्रा० ५। ३० )
** संवत्सरो वै परिक्षित्। संवत्सरो हीमाः प्रजाः परि क्षेति, संवत्सरं हीमाः प्रजाः परि क्षियन्ति।** ( ऐ० ब्रा० ६।३२ )
२२—साध्या देवाः।
** छन्दांसि वै साध्या देवाः।** ( ऐ० ब्रा० १।१६ )
२३—सोमः।
** एष वै ब्राह्मणानां सभासाहः सखा यत्सोमो राजा।** ( ऐ० ब्रा० १।१३ )
सभासादः। विद्वत्सभां विद्याप्रसङ्गेन सहते अभिभवति सभासाहः। ( सायणः )
** तदाहुः क्रूरमिव वा एतत्सोमस्य राज्ञोऽन्ते चरन्ति यदस्य घृतेनान्ते चरन्ति। घृतेन हि वज्रेणेन्द्रो वृत्रमहन्।**( ऐ० ब्रा० १।२६ )
** द्यावापृथिव्योवा एष गर्भो यत्सोमो राजा।** ( ऐ० ब्रा० १।२६ )
** पापो हि सोमविक्रयी।** ( ऐ० ब्रा० १।१२ )
** सोमः सर्वा देवताः।** ( ऐ० ब्रा० २।३ )
(ग) पितरः।
** ऊमा वै पितरः प्रातःसवने, ऊर्वामाध्यन्दिने, काव्यास्तृतीयसवने।** ( ऐ० ब्रा० ७।३४ )
ऊमाः, ऊर्वाः, काव्याः—इत्येते सवनत्रयगताः पितृविशेषाः।
(घ) रक्षांसि गन्धर्वाश्च।
** तिर इवैतद्रक्षांसि।** ( ऐ० ब्रा० २।७ )
रक्षांसि इति यदस्ति एतदपि तिर इव। चोरवद्यज्ञे रक्षसां गूढचारित्वात्। ( सायणः)
** स्त्रीकामा वै गन्धर्वाः।** ( ऐ० ब्रा० १।२७ )
(ङ) देवासुराः।
** देवासुरा वा लोकेषु एषु समयतन्त।** ( ऐ० ब्रा० १।१४ )
(च) स्वर्गादिलोकाः।
** अपरिमितो वै स्वर्गो लोकः।** ( ऐ० ब्रा० ६।८ )
** अस्माल्लोकादन्तरिक्षलोकमभि प्रवहति।…… अन्तरिक्षलोकादमुं लोकम्। अभ्यन्तरिक्षलोको हि ज्येष्ठः।……. अमुष्माल्लोकात्स्वर्गं लोकमभि।** ( ऐ० ब्रा० ६।९)
** अस्य वै लोकस्यासौ लोकोऽनुरूपोऽमुष्य लोकस्यायं लोकोऽनुरूपः।** ( ऐ० ब्रा० ८।२ )
अस्मिल्ँलोके दत्तेन हविषा देवाः स्वर्गे जीवन्ति, स्वर्गादागतया वृष्ट्या मनुष्या जीवन्ति, तदेतत्परस्परमनुरूपत्वम्।
** अहर्वैस्वर्गो लोकः।** ( ऐ० ब्रा० ५।२४ )
** आप्त्यैव तत्स्वर्गं लोकं यजमाना अस्मिन् लोके प्रतितिष्ठन्ति।**(ऐ०ब्रा० ६।२० )
** त्रय इम ऊर्ध्वा एकविंशा लोकाः।** ( ऐ० ब्रा० १।५ )
इमे पृथिव्यन्तरिक्षस्वर्गरूपाः, एकैकस्मादूर्ध्वत्वेन वर्तमानाः, प्रत्येकमेकविंशत्यवयवसमूहरूपा लोकास्त्रयो विद्यन्ते। ( सायणः )
** त्रयो वा इमे त्रिवृते लोकाः।** ( ऐ० ब्रा० २।१७ )
इमे पृथिव्यन्तरिक्षद्युलोका रज्जुवत् त्रिवृत इत्यर्थः।
** देवयाना वै ज्योतिष्मन्तः पन्थानः।** ( ऐ० ब्रा० ३।३८ )
** नव स्वर्गालोकाः।** ( ऐ० ब्रा० ४।१६ )
** परो वा अस्माल्लोकात् स्वर्गो लोकः।** ( ऐ० ब्रा० ६।२० )
** परोवरीयांसोवा इमे लोका अर्वागंहीयांसः।** (ऐ० ब्रा० १।२५ )
इमे लोकाः परोवरीयांसः परस्तादूर्ध्वभागे निवसन्तोऽत्यन्तं विस्तृताः। अर्वागधोभागे अंहीयांसोऽतिशयेनारणुवत्संकुचिताः। ( तु० सायणः)
** रेभन्तो वै देवाश्च ऋषयश्च स्वर्ग लोकमायन्। तथैवैतद्यजमाना रेभन्त एव स्वर्गं लोकं यन्ति।** ( ऐ० ब्रा० ६।३२ )
रेभन्तः। शब्दं कुर्वन्तः। कीर्तिं कुर्वन्त इत्यर्थः।
** सप्त वै देवलोकाः।** ( ऐ० ब्रा० २।१७ )
सप्त भूलोकादयः सत्यलोकान्ताः।
** सहस्राश्वीने वा इतः स्वर्गो लोकः।** ( ऐ० ब्रा० २।१७ )
प्रबलोऽश्व एकेनाह्ना यावन्ति योजनानि गच्छति तावद्योजनपरिमितो देशोऽश्वीनः। स च सहस्रसंख्यया गुणितः सहस्राश्वीनः। ( सायणः )
** स्वर्गो वै लोको दूरोहणम्।** ( ऐ० ब्रा० ४।२१ )
स्वर्गारोहणं दुष्करमिति भावः।
** स्वर्गो वै लोको ब्रध्नस्य विष्टपम्।** ( ऐ० ब्रा० ४।४ )
ब्रध्नस्य आदित्यस्य। विष्टपं स्थानम्। (सायणः)
** स्वर्ग्यैवोर्ध्वा दिक्।** ( ऐ० ब्रा० १।८ )
(१४) अग्न्यादिपदार्थविज्ञानम्।
अस्तीह ब्राह्मणे तत्तत्प्रसङ्गेन नैकविधपदार्थानां गुणवर्णना तद्विषयकविज्ञानस्य चर्चा च। अग्न्यादीनां देवतात्वेन प्रसिद्धानामपि विषय आधिभौतिकदृष्ट्यै तादृशं वर्णनं विद्यते। आधिदैविकदृष्ट्या कृतं तु
तद्विषयकं वर्णनमुपरिष्टादेव निर्दिष्टम्।आतपयुक्तवर्षभवा आपो वै ब्रह्मवर्चसं तेजः, अप्सुषदोऽग्नयो वै वर्चसो बलस्य ओजसश्च साधनम्, प्राणा हीदं सर्व समिन्धते यदिदं किञ्च, प्राणोवै जातवेदाः, वायुर्हि स्वयमात्मानं सर्वञ्चेदं समिन्धे, विद्युदादीनां वायावन्तर्धानप्रकारः, अश्वत्थस्य तेजसः समुत्पत्तिः, इत्यादिरूपेणाात्युपयोगिवर्णनं विद्यते।
तथाहि—
** अग्निना वै तेजसा रात्रिस्तेजस्वती। आदित्येन तेजसाहस्तेजस्वत्।** ( ऐ० ब्रा० ५।२९ )
** अग्निर्वै शर्माण्यन्नाद्यानि यच्छति।** ( ऐ० ब्रा० २।४१ )
शर्माणि सुखकराणि।
** वायोरग्निर्जायते। प्राणाद्धि बलान्मध्यमानोऽधिजायते।** ( ऐ० ब्रा० ८।२८ )
** अग्नेर्वा आदित्यो जायते।** ( ऐ० ब्रा० ८।२८ )
रात्रावग्निं प्रविष्ट आदित्यः परेद्युरग्नेर्जायते। अत एवाहनि अग्निस्तेजोरहितः, सूर्योऽधिकतेजा भासते। ( सायणः)
** आदित्याद्वै चन्द्रमा जायते।** ( ऐ० ब्रा० ८।२८ )
अमावास्यायामादित्ये प्रविष्टश्चन्द्रमाः शुक्लप्रतिपदि आदित्याज्जायते।
** अमृतं वा एतदस्मिल्ँलोके यदापः।** ( ऐ० ब्रा० ८।२० )
इमा आपः शिवतमा इमाः सर्वस्य भेषजीः।
** इमा राष्ट्रस्य वर्धनीरिमा राष्ट्रभृतोऽमृताः॥** ( ऐ० ब्रा० ८।७)
** तेजश्च ह वै ब्रह्मवर्चसं चातपवर्ष्या आपः।** ( ऐ० ब्रा० ८।८)
आतपयुक्तवर्षभवा आप आतपवर्ष्याः ( सायणः )
** पशवो वा एते यदापः।** ( ऐ० ब्रा० १।८ )
** प्रतीच्योऽप्यापो बह्व्यः स्यन्दन्ते।** ( ऐ० ब्रा० १।७ )
पश्चिमसमुद्रसमीपे प्रवहन्तीनां नदीनां पश्चिमाभिमुखत्वमित्यर्थः।
** शान्तिर्वा आपः।** ( ऐ० ब्रा० ७।५ )
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोपस्पृशत त्वचंमे।
सर्वाँ अग्नीँरप्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्त॥
( ऐ० ब्रा० ८।६ )
अप्सु जलेषु सीदन्तीति अप्सुषदः। और्वादयोऽग्नयः। ( सायणः )
** सर्वदेवत्या वै स्तोकास्तस्मादियं स्तोकशो वृष्टिर्विभक्तोपाचरति।** ( ऐ० ब्रा० २।१२ )
अग्निसंयोगाद्येमेदसो बिन्दवः श्चोतन्ति तेऽत्र स्तोकाः। स्तोकशः प्रतिबिन्दुभिः। उपाचरति भूसमीपमागच्छति।
** इयं वै श्रीः।** ( ऐ० ब्रा० ८।५)
इयं भूमिः।
** इयं हि सर्पराज्ञी। इयं हि सर्पतो राज्ञी। इयं वा अलोमिकेवाग्र आसीत्। …..तामयं पृश्निर्वर्ण आविशन्नानारूपो य यं काममकामयत। यदिदं किञ्चौषधयो वनस्पतयः सर्वाणि रूपाणि।** ( ऐ० ब्रा० ५।२३ )
इयं भूमिः। सर्पतः संचरतो जङ्गमस्य मनुष्यादेः। पृश्निर्नानारूपो नीलपीतादिः। वर्गशब्देन सर्वमपि भाग्यजातमुपलक्ष्यत इति सायणः। असौ भूमिरकामयत।
……..तस्याः शोचत्या इमेप्रदराः प्रादीयन्त येऽस्या इमेप्रदराः। समेव हैव ततःपुरा। ( ऐ० ब्रा० ६।३५ )
तस्याः पृथिव्याः। प्रदरेभ्यःपूर्वमयंभूमिः समतलैवासीदिति भावः।
** ऊर्ग्वै वसन्तः।**( ऐ० ब्रा० ४।२६ )
** ऋतून्वै प्रतितिष्ठत इदं सर्वमनुप्रतितिष्ठति यदिदं किञ्च।**( ऐ०ब्रा० ३।६ )
** ऋतुश एव तत्संवत्सरमाप्नुवन्ति। ऋतुशः संवत्सरे प्रतितिष्ठन्तो यन्ति।**( ऐ० ब्रा० ४।१६ )
** या वै संवत्सस्यावारं च पारं च वेद स वै स्वस्ति संवत्सरस्यपारमश्नुते।……यो वै संवत्सरस्यावरोधनं चोद्रोधनं च वेद सवै स्वस्ति संवत्सरस्य पारमश्नुते।…….यो वै संवत्सरस्य प्रणोदानौवेद स वै स्वस्ति संवत्सरस्य पारमश्नुते।**( ऐ० ब्रा० ४।१४ )
अवरुध्यते स्वाधीनं क्रियते येन प्रारम्भरूपेण कर्मणा तत्कर्मावरोधनम्। उद्रुध्यते समाप्यते येन कर्मणा तदुद्रोधनम्।
** चन्द्रमसो वै वृष्टिर्जायते।** ( ऐ० ब्रा० ८।२८ )
** तस्माद्धेदंप्राच्यो ग्रामता बहुलाविष्टाः। …….तस्माद्धेदं प्रत्यञ्चिदीर्घारण्यानि भवन्ति।** (ऐ० ब्रा० ३।४४ )
पूर्वदिग्वर्तिनो ग्रामसमूहाः बर्हुभर्जनैः संपूर्णा भवन्ति। प्रत्यञ्चि पश्चिमदिग्वर्तीनि। ( सायणः )
** तेजो वै ब्रह्मवर्चसं प्राची दिक्।** ( ऐ० ब्रा० १।८ )
** ऊर्द्ध्वाःपुरुषस्य भूयांसः प्राणा यच्चावाञ्चः।** (ऐ० ब्रा०३।२९)
ऊर्द्ध्वाःचक्षुर्घ्राणादयः। अवाञ्चोनाभेर्वाचीने देशे वर्तमानाः। पायुगुह्यादयोऽवाञ्चः प्राणाः, अल्पोयांत इति शेषः ( सायणः )
** दश वै प्राणाः।** ( ऐ० ब्रा० ६।२० )
** प्राणाःहीमानि सर्वाणि भूतान्यनुप्रयन्ति।** ( ऐ० ब्रा० २।४०)
** प्राणा द्वन्द्वम्।** ( ऐ० ब्रा० २।२७ )
** प्राणा वा ऋतुयाजाः।** ( ऐ० प्रा० २।२९)
** प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजाः।** ( ऐ० प्रा० २।२७ )
तनूपावानः शरीरपालकाः।
** प्राणा वै द्विदेवत्याः।** ( ऐ० ब्रा० २।२७ )
** प्राणा वै मरुतः स्वापयः।** ( ऐ० ब्रा० ३।१६ )
स्वापयः सुषुप्तिकालेऽपि वर्तमाना वायव इत्यर्थः।
** प्राणा वै समिधः। प्राणा हीदं सर्वंसमिन्धते यदिदं किंच।**( ऐ० ब्रा० २।४ )
समिधः समिन्धनहेतवः।
** प्राणास्त इमेऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्य इति।** ( ऐ० ब्रा० १।२० )
रेतस्यः। रेतसे हितः। मूत्र्यः। मूत्राय हितः। पुरीष्यः। पुरीषाय हितः।
** प्राणो वा अपानो व्यानस्तिस्रो देव्यः।** ( ऐ० ब्रा० २।४ )
प्राणो वै जातवेदाः। स हि जातानां वेद। यावतां वै स
जातानां वेद ते भवन्ति। येषामु न वेद किमु ते स्युः। ( ऐ० ब्रा० २।३९)
** प्राणो वै तनूनपात्। स हि तन्वः पाति।** ( ऐ० ब्रा० २।४ )
** प्राणापानौ वै दैव्या होतारा।** ( ऐ० ब्रा० २।४ )
** प्राणो वै वनस्पतिः।** ( ऐ० ब्रा० २।१० )
** प्राणोवै वयः।** ( ऐ० ब्रा० १।२८ )
** प्राणोवै सविता** ( ऐ० ब्रा० १।१९ )
देहेन्द्रियप्रेरकत्वात्प्राणस्य सवितृत्वम्।
** प्राणोवै होता। प्राणः सर्वऋत्विजः।** ( ऐ० ब्रा० ६।१४ )
** नव वै प्राणाः।** ( ऐ० ब्रा० १।१५ )
पुरुषस्य शिरोगतेषु सप्तसु च्छिद्रेषु वर्तमानाः सप्त प्राणाः। अधोभागावस्थितयोर्वर्तमानौ द्वौ। एवं नवसंख्याकाः प्राणाः। (सायणः)
** नव वै प्राणा नवस्वर्गा लोकाः।** ( ऐ० ब्रा० ४।१६ )
स्वर्गलोका नव भोगस्थानभेदेन नवविधाः। ( सायणः )
** विहृता वा इमे प्राणाः प्राणेनापानोऽपानेन व्यानः।** (ऐ० ब्रा० ६।२८ )
विहृताः परस्परव्यतिषक्ताः।
** सप्त वै शीर्षन्प्राणाः।** ( ऐ० ब्रा० १।१७ )
शिरसि छिद्रवर्तिनां प्राणानां सप्तत्वादिति सायणः।
** समु वा इमे प्राणा विद्रे ये चेमे ये चेमे।** ( ऐ० ब्रा० १।१७ )
सं विद्रे संभूय तिष्ठन्तीत्यर्थः। ये चेमे ये चेमे। ये च शिरस्यवस्थिताः, ये च नाभेरधस्ताद् वर्तमानाः।
** स वा अयं प्राणस्त्रेधा विहितः प्राणेऽपानोव्यान इति।** ( ऐ० ब्रा० २।२६ )
** उत्तरतः पश्चादयं भूयिष्ठं पवमानः पवते।** ( ऐ० ब्रा० १।७ )
वायुरुत्तरपश्चिमयोरन्तरालवर्त्तिन्यांवायव्यां दिशि अत्यधिकं सञ्चरतीत्यर्थः।
** वायुर्हि प्राणः।** ( ऐ० ब्रा० २।२६ )
** वायुर्हिस्वयमात्मानं समिन्धे स्वयमिदं सर्वं यदिदं किञ्च।** ( ऐ० ब्रा० २।३४ )
समिन्धे। व्यापारक्षमं करोतीत्यर्थः। ( सायणः)
** वायुर्हीदं सर्वं सद्यस्तरति यदिदं किञ्च।** ( ऐ० ब्रा० २।३४ )
** वायुर्हीदं सर्वं करोति यदिदं किञ्च।** ( ऐ० ब्रा० २।३४ )
** विद्युद्धीदं वृष्टिमन्नाद्यंसंप्रयच्छति।** ( ऐ० ब्रा० २।४१ )
** वृष्टेर्वै विद्युज्जायते।** ( ऐ० ब्रा० ८।२८)
अथातो ब्रह्मणः परिमरः। ……अयं वै ब्रह्म योऽयं पवते। तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः। विद्युद्वै विद्युत्य वृष्टिमनुप्रविशति। सान्तर्धीयते। तां न निर्जानन्ति। यदा वै म्रियतेऽथान्तर्धीयतेऽथैनं न निर्जानन्ति। …… वृष्टिर्वै वृष्ट्वाचन्द्रमसमनुप्रविशति सान्तर्धीयते। तां न निर्जानन्ति। ……चन्द्रमा वा अमावास्यायामादित्यमनुप्रविशति। सोऽन्तर्धीयते। तं न निर्जानन्ति। …….. आदित्यो वा अस्तं यन्नग्निमनुप्रविशति। सोऽन्तर्धीयते। तं न निर्जानन्ति। ……
अग्निर्वा उद्वान् वायुमनुप्रविशति। सोऽन्तर्धीयते। तं न निर्जानन्ति। ( ऐ० ब्रा० ८।२८ )
ब्रह्मशब्देनात्र वायुर्विवक्षितः। तस्य वायोः परितो विद्युदादीनां मरणप्रकारः (अन्तर्धानविधिः ) परिमर इत्युच्यते। तद्भावनारूपस्य कर्मविशेषस्यापि तदेव नामधेयम्। ( सायणः)
** उत्तरा ह वै सोमो राजा।** ( ऐ० ब्रा० १।८ )
** सोमो वै राजामुष्मिल्ँलोक आसीत्। तं देवाश्च ऋषयश्चाभ्यध्यायन् कथमयमस्मान्सोमो राजागच्छेदिति।** ….(ऐ० ब्रा० ३।२५)
** सोमो वै राजा गन्धर्वेष्वासीत्। तं देवाश्च ऋषयश्चाभ्यध्यायन् कथमयमस्मान् सोमो राजागच्छेदिति।** … ( ऐ० ब्रा० १।२७ )
ब्राह्मणानां स (=सोमः) भक्षः। ……अथ यदि दधि, वैश्यानांस भक्षः। ……अथयद्यपः , शूद्राणां स भक्षः। ……अथास्य (= क्षत्रियस्य ) एष स्वोभक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि प्लाक्षाण्यभिषुणुयात्तानि भक्षयेत्। सोऽस्य स्वोभक्षः। ( ऐ० ब्रा० ७।२६ )
** अमृतं वा आज्यम्। अमृतं हिरण्यम्।** ( ऐ० ब्रा० २।१४ )
आज्यस्य स्वादुत्वेन हिरण्यस्य च दर्शनीयत्वेन प्रियत्वादमृतत्वम्। ( सायणः )
** आज्यं वै देवानां सुरभि, घृतं मनुष्याणाम्, आयुतं पितॄणाम्, नवनीतं गर्भाणाम्।** ( ऐ० ब्रा० १।३ )
सुरभि योग्यं प्रियमित्यर्थः। सर्पिर्विलीनमाज्यं स्याद् घनीभूतं घृतं विदुः। ईषद्विलीनमायुतम्। ( सायणः )
** एतद्वै मधु दैव्यं यदाज्यम्।** ( ऐ० ब्रा० २।२ )
** तेजो वा एतत्पशूनां यद् घृतम्।** ( ऐ० ब्रा० ८।२० )
** इन्द्रियं वा एतदस्मिल्लोके यद्दधि।** ( ऐ० ब्रा० ८।२० )
** ..अथ यदि दधि, वैश्यानां स भक्षः।** ( ऐ० ब्रा ७।२६ )
** इयान् वाव किल पशुर्यावती वपेति।** ( ऐ० ब्रा० २।१३ )
** रसो वा एष ओषधिवनस्पतिषु यन्मधु।** ( ऐ० ना० ८।२०)
** अथ यद् दधि मधु घृतं भवत्यां स ओषधीनां रसः।** ( ऐ० ब्रा० ८।८ )
** अथ यत्सुरा भवति क्षत्ररूपं तदथो अन्नस्य रसः।** (ऐ० ब्रा०८।८ )
** तेजो वा एतदक्ष्योर्यदाञ्जनम्** ( ऐ० ब्रा० १।३ )
आञ्जनस्याक्षितेजस्त्वं लोके प्रसिद्धम्। ( सायणः)
** पङक्तिर्वा अन्नम्।** ( ऐ० ब्रा० ६।२० )
अन्नं हि पञ्चसंख्योपेतम्—प्राश्यं, पेयं, खाद्यं, लेह्यं, निगीर्यमिति।
** आग्नेय्यो ह्योषधयः।** ( ऐ० ब्रा० १।७ )
बीजरूपेण सस्यपाकस्तदन्तर्वर्त्यग्न्यधीन इति भावः। ( सायणः )
** दक्षिणतोऽग्रओषधयः पच्यमाना आयन्ति।** ( ऐ० ब्रा० १।७ )
“विन्ध्यपर्वतस्य दक्षिणभागे व्रीह्याद्योषधयोऽग्रे पच्यमाना आयन्ति। तत्तत्स्वामिगृहेष्वागच्छन्ति। विन्ध्यस्योत्तरभागे यवगोधूमचणकादिधान्यप्राचुर्यम्। तानि च धान्यानि माघफाल्गुनयोः पच्यन्त इति पश्चाद्भावीनि। दक्षिणदिग्भागे तु यवादिप्राचुर्याभावात्, प्राचुर्याणि (१) च व्रीह्या
दीनीति कार्त्तिकमार्गशीर्षयोः पच्यमानत्वादग्रे पाकोऽभिहितः।” ( सायणः)
** क्षत्रं वा एतदोषधीनां यद् दूर्वा।** ( ऐ० ब्रा०८।८)
** भौज्यं वा एतदोषधीनां यत् प्रियङ्गवः।** ( ऐ० ब्रा० ८।१६ )
** सैनान्यं वा एतदोषधीनां यद्यवाः।** ( ऐ० ब्रा०८।१६ )
** क्षत्रं वा एतदोषधीनां यद् व्रीहयः।** ( ऐ० ब्रा० ८।१६ )
** साम्राज्यंवा एतदोषधीनां यन्महाव्रीहयः।** (ऐ० ब्रा० ८।१६)
तेजसोवा एष वनस्पतिरजायत यदश्वत्थः। साम्राज्यं वा एतद्वनस्पतीनाम्। ( ऐ० ब्रा० ७।३२ )
** ऊर्ग्वाअन्नाद्यमुदुम्बरः। यद्वै तद्देवा इषमूर्जं व्यभजन्त तत उदुम्बरः समभवत्। तस्मात्स त्रिः संवत्सरस्य पच्यते।** ( ऐ० ब्रा० ५।२४ )
** ऊर्जोवा एषोऽन्नाद्याद् वनस्पतिरजायत यदुदुम्बरः। भौज्यं वाएतद् वतस्पतीनाम्।** ( ऐ० ब्रा० ७।३२ )
ऊर्जोरसात्। भौज्यंभोजनार्हम् ( सायणः)
** क्षत्रं वा एतद्वनस्पतीनां यन्न्यग्रोधः।** ( ऐ० ब्रा० ७।३१ )
** तेजो वै ब्रह्मवर्चसं वनस्पतीनां पलाशः।** ( ऐ० ब्रा० २।१ )
** सर्वेषां वा एष वनस्पतीनां योनिर्यत्पलाशः। तस्मात्पलाशस्यैव पलाशेनाचक्षतेऽमुष्य पलाशममुष्य पलाशमिति।** ( ऐ० ब्रा० २।१ )
** यशस्रो वा एष वनस्पतीरजायत यत् प्लक्षः। स्वाराज्यं च ह वा एतद् वैराज्यं च वनस्पतीनाम्** ( ऐ० ब्रा० ७।३२ )
स्वातन्त्र्येण राजत्वं स्वाराज्यम्। विशेषेण राजत्वं वैराज्यम्। ( सायणः)
** बिल्वं ज्योतिरिति वा आचक्षते।** ( ऐ० ब्रा० २।१ )
** समां समां वै बिल्वो गृभीतस्तदन्नाद्यस्य रूपम्। आमूलाच्छाखाभिरनुचितस्तत्पुष्टेः।** ( ऐ० ब्रा० २।१ )
समां समां तस्मिन् तस्मिन् संवत्सरे। बिल्ववृक्षो गृभीतः फलैः गृहीतः। अन्नाद्यम् अदनयोग्यमन्नम्। रूपं स्वरूपम्। मूलमारभ्य शाखाभिरनुक्रमेणोपचितो बिल्ववृक्षः। तत्रोपचयनं पुष्टेः स्वरूपम्। ( सायणः )
(१५) मनुष्यस्य पश्वादेश्च स्वभावादिवर्णनम्
मनुष्यादीनां प्राणिनां स्वभावादिवर्णनमप्यत्र ब्राह्मणे समुपलभ्यमानंनूनं विपश्चितां चेतश्चमत्कारायालम्। एकविंशोऽयं पुरुषः, पाङ्क्तोऽयं पुरुषः, षड्विधोवै पुरुषः, पुरुषो वै वीर्ये प्रतिष्ठितः, ओषध्यात्मा वै पशुः, गावः सर्वेषां प्रेम्ण आस्पदम्, इत्यादयोविचारा मीमांसनीया हृदयाह्लादकाश्चात्र विषये श्रूयन्ते। तथाहि—
(क) पुरुषः—
** एकविंशोऽयं पुरुषः। दश हस्त्या अङ्गुलयो दश पाद्याः। आत्मैकविंशः।** (ऐ० ब्रा० १।१९)
** आत्मशब्देन मध्यदेहो जीवात्मा वा अभिधीयते।** ( सायणः )
** पाङ्क्तोऽयं पुरुषः पञ्चधा विहितो लोमानि त्वङ् मांसमस्थि मज्जा।** ( ऐ० ब्रा० २।१४ )
पञ्चसंख्यायोगात् पुरुषस्य पाङ्क्तत्वम्। ( सायणः )
** पुरुषस्य पर्वाणि शिथिराणि सन्ति दृढानि** (ऐ० ब्रा० ३।३१)
मनुष्यस्य हि पर्वाणि हस्तपादाद्यवयवसंधयः शिथिलान्यपि तत एव हेतोर्दृढानि सन्ति।
** पुरुषो वीर्ये प्रतिष्ठितः सर्वेषां पशूनां वीर्यवत्तमः।** ( ऐ० ब्रा० ४।३ )
** विदलसंहित इव वै पुरुषः। तद्धापि स्यूमेव मध्ये शीर्श्णोविज्ञायते।** ( ऐ० ब्रा० ४।२२ )
विदलसंहितः। विदलं भागः। ताभ्यां विदलाभ्यां दक्षिणवामभागाभ्यां संहितः संयोजितः। तद्धापि तस्मादेव कारणात्। स्यूम स्यूतम्। ( सायणः)
** शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रियः।** ( ऐ० ब्रा० २।१७ )
** षड्विधो वै पुरुषः षडङ्गः।** ( ऐ० ब्रा० २।३९ )
तु० “षोढा विहितो वै पुरुष आत्मा च शिरश्चत्वार्यङ्गानि” ( तै० सं० ५।६।९।१ )। द्वौ हस्तौ द्वौ पादावित्यङ्गचतुष्टयम्। आत्मशब्दो मध्यदेहवाची। ( सायणः )
** एकं सच्चक्षुर्द्वेधा।** ( ऐ० ब्रा० २।३२ )
** “पूर्द्धि चक्षुर्” (ऋ० १०।७३।११ ) इति चक्षुषो मरीमृज्येत। आजरसं ह चक्षुष्मान् भवति य एवं वेद।** ( ऐ० ब्रा० ३।१९ )
मरीमृज्येत। पुनःपुनः शोधयेत्। ( सायणः )
** अनिरुक्तंवै रेतो गुहा योन्यां सिच्यते।** ( ऐ० ब्रा० ६।२७ )
** आहनस्याद्वैरेतः सिच्यते। रेतसः प्रजाः प्रजायन्ते।**( ऐ० ब्रा० ६।३६ )
आहनस्यं मैथुनम्।
** उपांश्विव वै रेतसः सिक्तिः।** ( ऐ० ब्रा० २।३८ )
किमिव च वै किमिव च रेतो विक्रियते। तत्तदा विकृतं प्रजातं भवति। ( ऐ० ब्रा० ६। १६ )
योनौ निषिक्तं हि रेतः क्रमेण किञ्चित् किञ्चिदेव विक्रियते। विकृतं च सत्पुत्रादिरूपेणोत्पद्यते।
** तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं संभवतः संभवतीति। …….कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति।…….. कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति।….. कुमारो जातः पश्चेव प्रचरति** ( = दर्शनश्रवणग्रीवोन्नमनादिक्रियाभ्यः पश्चादेव समर्थः सन् हस्ताभ्यां पादाभ्यां चेतस्ततः प्रचरति इत्यर्थः)।………कुमारं जातं जघन्या वागाविशति ( = बालको वै हस्तपादप्रचारात्रस्थाया ऊर्ध्वं वक्तुमारभते। अतो जघन्या वागित्युच्यते )।( ऐ० ब्रा० ३।२ )
** पराञ्चो गर्भा धीयन्ते पराञ्चः संभवन्ति। ……मध्ये गर्भा धृताः। …… अमुतोऽर्वाञ्चो गर्भाः प्रजायन्ते।** (ऐ० ब्रा० ३।१०)
अमुतः। मातुरुदरदेशात्।
** प्रजा वै तन्तुः।** ( ऐ० ब्रा० ३।११ )
** मध्यतो वै प्रजा अन्नं धिनोति।** ( ऐ० ब्रा० ५।३ )
धिनोति प्रीणयति। उदरगतमेवान्नं प्रजाः प्रीणयतीत्यर्थः।
** मुक्ता गर्भा जरायोर्जायन्ते।** ( ऐ० ब्रा० १३ )
** मुष्टी वै कृत्वा गर्भोऽन्तः शेते मुष्टी कृत्वा कुमारो जायते।**( ऐ० ब्रा०१।३)
** यानि वै पुरा संवत्सराद्रेतांसि जायन्ते, यानि पञ्चमास्यानि यानि षण्मास्यानि, स्रीव्यन्ति वै तानि, न वै तैर्भुञ्जते। अथ यान्येव दशमास्यानि जायन्ते यानि सांवत्सरिकाणि तैर्भुञ्जते।** ( ऐ० ब्रा० ४।२२ )
स्त्रीव्यन्ति स्रवन्ति। न वै तैर्भुञ्जते। न तु तैरल्पमासधृतै रेतोभिः पुत्रादिशरीरमनुभवन्ति। ( सायणः )
** रेतःपुरुषस्य प्रथमं संभवतः संभवतीति।** ( ऐ० ब्रा० ३।२ )
** रेतो वा अग्रेऽथ प्राणाः। ……..रेतो वा अग्रेऽथात्मा।** ( ऐ० ब्रा० ६।३१ )
विक्षुद्रमिव वा अन्तस्त्यमणीय इव न स्थवीय इव च। ( ऐ० ब्रा० १।२१ )
अन्तस्त्यं शरीरगतमध्यस्थावयवजातम्। विक्षुद्रमिव वै। विविधत्वेन तारतम्येन स्वल्पमेव भवति। तद्यथा, किञ्चिन्मांसनाड्यादिकम् ‘अणीय इव च’ अत्यन्तं सूक्ष्ममेव भवति। अन्यच्च ‘स्थवीय इव च’ अत्यन्तं स्थूलमेव भवति। ( सायणः )
** सहैवोल्बेन कुमारो जायते।** ( ऐ० ब्रा० १।३ )
** समाना वा इमेऽङ्गानामन्ताः।** (ऐ० ब्रा० ६।८)
हस्तादीनामन्तास्तुल्या एव दृश्यन्ते। तथाहि, दक्षिणहस्तस्यान्तो यादृशः पञ्चाङ्गुल्युपेतः, तादृश एव वामहस्तस्यान्तोऽपि।
(ख) पशवः—
** एतयोरेव शैशिरयोर्मासयोरागतयोर्ये चैव ग्राम्याः पशवो ये चारण्या अणिमाणमेव तत्परुषिमाणं नियन्ति।** ( ऐ० ब्रा० ४।२६ )
अणिमाणं कृषत्वम्। परुषिमाणम् पारुष्यम्।
** ओषध्यात्मा वै पशुः।** ( ऐ० ब्रा० २।६ )
** तस्मादाहु …पाङ्क्ताः पशव इति।** ( ऐ० ब्रा० ३।२३ )
चतुर्भिः पादैर्मुखेन च योगात् पाङ्क्ताः। ( सायणः )
** तस्माद्धाप्येतर्हि गव्यं मीमांसमानाः पृच्छन्ति सन्ति तत्रोषा ३ःइति। ऊषो हि पोषः।** ( ऐ० ब्रा० ४।२७ )
ऊषाः पशव इति सायणः। ऊषा लवणानीति अपरे (Keith )। ऊषाः शस्यानीति अन्ये ( Haug )। गव्यं गोरसं क्षीरादिकमिति सायणः। गवादिपशुभ्यःसमुचितं स्थानमिति केचित्।
** तस्माद्यद्यपि दूर इव पशूल्ँलभते गृहानेवैनानाजिगमिषति। गृहा हि पशूनां प्रतिष्ठा।** ( ऐ० ब्रा० ३।२४ )
आजिगमिषति। आनेतुमिच्छति।
** तस्माद्धेदं भरतानां पशवः सायंगोष्ठाः सन्तो मध्यन्दिने संगविनीमायन्ति।** ( ऐ० ब्रा० ३।१८ )
भरतानामृत्विजाम्। संगविनीम् मध्याह्नकाले धर्मकालीनसन्तापनिवारणाय निर्मितां संगवकालयोग्यां शालाम्।
** पशुर्वै मेधः।** ( ऐ० ब्रा० २।६ )
** पीवोरूपा वै पशवः।** ( ऐ० ब्रा० २।३ )
** वाजो वै पशवः।** ( ऐ० ब्रा० ५।८ )
पर्शोर्हविष्ट्वेन देवतान्नत्वात्। अन्नं वाजः।(सायणः)
** वामं हि पशवः।…… हविर्हिपशवः। वपुर्हि पशवः।** ( ऐ० ब्रा० ५।६ )
वामं रमणीयम्।
** विक्षुद्रा इव हि पशवः।** ( ऐ० ब्रा० ५।६ )
विक्षुद्राः। विविधाः क्षुद्राः। एकस्मादन्यो न्यूनः तस्मादप्यन्यो न्यून इति भावः।
** सप्त वै ग्राम्याः पशवः।** ( ऐ० ब्रा० २।१७ )
तथा च बौधायनः—“सप्त ग्राम्याः पशवोऽजाश्वो गौर्महिषी वराहो हस्त्यश्वतरी च” इति। आपस्तम्बमतानुसारिणस्त्वेवं वर्णयन्ति—
“अजाविकं गवाश्वं च गर्दभोष्ट्रनरास्तथा।
सप्त वै ग्राम्यपशवो गीयन्ते कविसत्तमैः॥” इति। (सायणः)
** अश्वः पशूनां जविष्ठः। …..अश्वः प्रत्यङ् पदा हिनस्ति।**( ऐ० ब्रा० ५।१ )
प्रत्यङ् पृष्ठतः।
** इदमाहुः सुधायां ह वै वाजी सुहितो दधातीति।** ( ऐ० ब्रा० ३।३९ )
** तस्मात्स उच्चैर्घोषः उपब्दिमान् क्षत्रस्य रूपम्। ऐन्द्रो हि सः।**( ऐ० ब्रा० ४।९)
सेाऽश्वयुक्तो रथः, अश्व एव वा। उपब्दिमान् शब्दोपेतः।
** तस्मात्स सृतजवो दुग्धदोहःसर्वेषामेतर्हि वाहनानामनाशिष्ठः।….. स द्विरेता वाजी।**( ऐ० ब्रा० ४।९ )
स गर्दभः। सृतजवो गतवेगः। दुग्धदोहो गतक्षीररसः। अनाशिष्ठोऽत्यन्तवेगरहितः।….द्विरेताः। गर्दभाश्वतरजातिद्वयोत्पादकः। वाजी गमनवान्। तु० “रासभमारोक्ष्यन्नभिमन्त्रयते शूद्रोऽसि शूद्रजन्माग्नेयोवै द्विरेताः” ( पारस्करगृह्यसूत्रे ३।१५।६ )।
** सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः।** ( ऐ० ब्रा० ४।१७ )
** क्षत्रं वा एतदारण्यानां पशूनां यद् व्याघ्रः।** (ऐ० ब्रा० ८।६)
(ग) शकुनयः—
** निर्ऋतेर्वा एतन्मुखं यद्वयांसि यच्छकुनयः।**(ऐ० ब्रा० २।१५)
निर्ऋतिः काचिद्राक्षसरूपा मृत्युदेवता। अत्र वयःशब्देन पक्षिसामान्यमुच्यते, शकुनिशब्देन पक्षिविशेषः। येषां सञ्चारादध्वनीष्टानिष्टसूचकतया मनुष्या व्यवहरन्ति ते शकुनयः। ( सायणः )
(घ) सर्पाः—
** त एतेऽपहतपाप्मानो हित्वा पूर्वां जीर्णां त्वचं नवयैव प्रयन्ति।**( ऐ० ब्रा० ६।१ )
ते सर्पाः
-
*
इत्येवमैतरेयब्राह्मणमधिकृत्य रीति-नीति-स्वर्ग-यज्ञस्वरूप-तत्तद्देवता-
स्वरूप-तत्तत्पदार्थविज्ञानादिविषयका विचाराःकुसुमावचायमवचिता इदं प्रथमं च विदुषां पुरस्तादावेदिता असंशयं तेषां मनस्तोषाय भविष्यन्ति।
इत्याचार्य श्रीमङ्गलदेवशास्त्र्युपज्ञाते श्रुतिविमर्शे
महानिबन्धे ‘ऐतरेयब्राह्मण आचारविचाराः’
अथवा ‘ऐतरेयपर्यालोचनम्’ नाम
प्रथमो निबन्धः9।
समावर्तनसत्रपद्धतिः
[ १९४७ तमख्रिस्तवत्सरे ‘गवर्नमेन्ट संस्कृत कालेज, बनारस’ इत्याख्य-
सुप्रसिद्धसंस्थायाः सार्धशताब्दीपूर्त्तिस्मारको महोत्सव उत्तरप्रदेश-
राज्यस्य ( तदा संयुक्तप्रान्तस्य ) मुख्यमन्त्रिणः श्रीगोविन्दवल्लभ-
पन्तमहोदयस्य सभापतित्वे महता समारम्भेणोत्साहेन च संपन्न
आसीत्। ततः कालादारभ्यैव उपाधिपरीक्षोत्तीर्णस्नात-
केभ्यः सविधि प्रमाणपत्रादिसमर्पेणनिमित्तं प्रतिवर्षं
समावर्तनसत्रस्य व्यवस्था प्रचलिता। महाविद्या-
लयस्यास्य दैर्घकालिक इतिहासे न केवलमिदं-
प्रथमतया, किन्तु स्नातकानां पुरस्तात्तेषां शिक्षा-
या विशिष्टानामादर्शानामुद्बोधकत्वेनापि
सत्रस्यास्य विशेषमहत्वम्। तदस्मिन्
सत्रे प्रतिवर्षमनुस्रियमाणा पद्धति-
रधः प्रकाश्यते। पद्धतिरियमन्य-
संस्कृतशिक्षासंस्थाभिरपि
यत्र तत्रानुस्रियत इति
नः संतोषस्य विषयः ]
** (१) सदसस्पतिः = सभापतिः**
** (२) कुलपतिः = महाविद्यालयाध्यक्षः ( प्रिंसिपल )**
(३) प्रस्तोता = स्नातकानामुपस्थापयिता
(४) प्रवक्ता = दीक्षान्त-भाषणकर्ता
(सत्रमण्डपे10 कुलपतेर्भाषणानन्तरम् )
** सदसत्पतिः—**
अथातः समावर्तनसत्रमारंभध्वम्।
** कुलपतिः—**
भो ब्रह्मन्! पुरःस्वस्त्ययनमनुब्रूहि।
(वेदाचार्यः स्वशिष्यगणेन सह अधोनिर्दिष्टान् मन्त्रान् पठेत्)
(१) भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभि-
र्व्यशेमहि देवहितं यदायुः॥
( यजु० २५।२१ )
(२) यत् प्रज्ञानमुत चेतो धृतिश्च,
यज्ज्योतिरन्तरमृतं प्रजासु।
यस्मान्न ऋते किञ्चन कर्म क्रियते,
तन्मे मनः शिवसंकल्पमस्तु॥
( यजु० ३४।३ )
(३) यस्मिन् ऋचः साम यजूँषि,
यस्मिन् प्रतिष्ठिता रथनाभाविवाराः।
यस्मिंश्चित्तँसर्वमोतं प्रजानां
तन्मे मनः शिवसंकल्पमस्तु॥
( यजु० ३४।५ )
(४) अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नमउक्तिंविधेम॥
( यजु० ४०।१६ )
(५) असतो मा सद्गमय।तमसोमा ज्योतिर्गमय।मृत्योर्माऽमृतंगमय॥
( बृहदा० उ० १।३।२८ )
(६) यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्संबभूव।समेन्द्रो मेधया स्पृणोतु।अमृतस्यदेव धारणो भूयासम्।शरीरं मे विचर्षणम्।जिह्वामे मधुमत्तमा।कर्णाभ्यांभूरि विश्रुवम्।ब्रह्मणः कोशोऽसि मेधयापिहितः।श्रुतंमे गोपाय॥
( तैत्ति० उ० १।४।१)
(७) मन्द्रा कृणुध्वं धिय आतनुध्वं
नावमरित्रण्णीं कृणुध्वम्।
इष्कुणुध्वमायुधारं कृणुध्वं
प्राञ्चं यज्ञं प्रणयता सखायः॥
(ऋ० १०।१०१।२ )
** कुलपतिः—**भोः स्नातकाः! साधु भवन्तोऽवहिताः शृण्वन्तु।
( श्रुत्वैवं सर्वे स्नातकाः समुत्तिष्ठेयुः )
** कुलपतिः—**(१) स्नातकाः। अपि प्रतिजानते भवन्तो यत्सर्वदा स्मृतिमास्थाय आर्यवृत्तमनुतिष्ठद्भिः पाण्डित्यप्रकर्षार्थं च प्रयतमानैर्भवद्भिः काशिकराजकीयमहाविद्यालयीयपरीक्षाणां गौरवस्य मर्यादायाश्च संरक्षणं विधास्यते ?
** स्नातकाः**—आम्, नूनम्।
** कुलपतिः—**(२) स्नातकाः ! अपि प्रतिजानते भवन्तो यद् भारतीयशीलसदाचारपरम्पराया आदर्शमभिलक्ष्य मनसा वाचा कर्मणा च सदा तथा प्रयतिष्यते भवद्भिर्यथा भारतीयसंस्कृतेः सुयधो जगद्व्यापि भवेत् ?
** स्नातकाः—**आम्, नूनम्।
** कुलपतिः—**(३) स्नातकः ! अपि प्रतिजानते भवन्तोयत् परहितसाधन एवात्महितं समीक्षमाणैर्भवद्भिरज्ञानस्यान्यायस्य दैन्यस्य दारिद्र्यस्य च प्रतीकारेण ज्ञानस्य, न्यायस्य, आत्मगौरवस्य, समृद्धेश्च स्थापनया मातृभूमिर्भारतंसबलं, सम्पन्नं, सम्मानास्पदं च यथा सम्पद्येत तथैव प्रयतिष्यते ?
** स्नातकाः—**आम्, नूनम्।
( ततः परं स्नातकैः संभूयाधो निर्दिष्टा प्रतिज्ञा कर्तव्या )
ॐ अग्ने व्रतपते व्रतं चरिष्यामि।
तच्छकेयं तन्मे राध्यताम्।
इदमहमनृतात् सत्यमुपैमि॥( यजु ० १।५ )।
( ततः परं सर्वे स्नातका उपविशेयुः )
______
** कुलपतिः—**भोः प्रस्तोतः!अथ स्नातका यथाक्रममुपस्थाप्यन्ताम्।
** प्रस्तोता—**माननीयाः सदसस्पतयः ! अहं खलु भवतां समक्षं …………उपस्थापयामि। एभिः।एनेन यथाविधि गुरुशुश्रूषया…….. विद्या समधिगता, परीक्षाद्वारा च स्वकीया ……….उपाधियोग्यता प्रमाणिता। प्रार्थये यत्प्रमाणपत्रवितरणेन एतान्। एनम् उक्तोपाधिनालंकुर्वन्तु तत्रभवन्त इति।
-
*
(उपाधिप्रमाणपत्रदानोत्तरं पदकप्रदानार्थमपि स्नातका अधोलिखितप्रकारेण उपस्थापयिष्यन्ते )
** प्रस्तोता—**माननीयाः ! अहं खलु भवतां समक्षं…………..उपस्थापयामि। एनेन……….शास्त्रे परीक्षाद्वारा विशेषयोग्यता प्रमाणिता। प्रार्थये यत् स्वर्ण। रजतपदकप्रदानेन एनमलंकुर्वन्तु तत्रभवन्त इति।
-
*
( ततः परं कुलपतेरादेशः )
(१)
ॐ सह नाववतु।सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु। मा विद्विषावहै।
( कठोपनिषद्। शान्तिपाठः )
(२)
सङ्गच्छध्वंसं वदध्वं
सं वो मनांसि जानताम् !
देवा भागं यथा पूर्वे,
संजानाना उपासते॥
( ऋ० १०।१९१।२ )
(३)
समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुसहासति॥
(ऋ० १०।१९१।४)
(४)
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति—
सत्यं वद। धर्मं चर। स्वाध्यायान्मा प्रमदः। आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः।
सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्। देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव।
यान्यनवद्यानि कर्म्माणि तानि सेवितव्यानि, नो इतराणि। यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि, नो हतराणि। ये के चास्मच्छ्रेयांसो ब्राह्मणास्तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्।
श्रद्धया देयम्। अश्रद्धयाऽदेयम्। श्रिया देयम्। ह्रिया देयम्। भियाऽदेयम्। संविदा देयम्।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्, ये तत्र ब्राह्मणाः संमर्शिनोयुक्ता आयुक्ता अलूक्षा धर्म्मकामाः स्युः, यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः। अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संमर्शिनो युक्ता आयुक्ता अलूक्षा धर्मकामाः स्युः, यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः।
एष आदेशः। एष उपदेशः। एषा वेदोपनिषत्। एतदनुशासनम्। एवमुपासितव्यम्। एवं चैतदुपास्यम्॥
( तैत्तिरीयोपनिषत् १।११ )
(ततः परं प्रवक्तृमहोदयस्य11 भाषणं भविष्यति )
-
*
[TABLE]
सुविचार-माधुकरी
<MISSING_FIG href=”../books_images/U-IMG-1733326353Screenshot2024-12-049.02.12PM.png”/>
सन्तो मधुव्रताः सान्द्रं
पीत्वा शास्त्ररसामृतम्।
लोकोत्तरं तथाक्षय्य-
मानन्दमुपभुञ्जते॥
** इदँ सत्यँ सर्वेषां भूतानां मधु। अस्य सत्यस्य सर्वाणि भूतानि मधु।** (बृहदारण्यकोपनिषद् २।५।१२)
मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां
म॒धुश्चुता॑ म॒धुदु॒घे मधु॑व्रते। ( ऋ० ६।७०।५ )
ऋग्वेदसंहितायाः
अप्स्वन्तरमृतमप्सु भेषजम्। ( १।२३।१९ )।
प्रापश्च विश्वभेषजीः। ( १।२३।२०)।
सविता······ अपामीवां बाधते। ( १।३५।९ )।
(सविता अमोवां रोगादिबाधामपबाधतेऽपाकरोतीत्यर्थः)।
न दुरुक्ताय स्पृहयेत्। ( १।४१।९)।
(दुष्टं वाक्यं न कामयेदित्यर्थः)।
न दुष्टुतिर्द्रविणेदेषु शस्यते।( १।५३।१ )।
(द्रविणदेषु = धनदातृषु )
नभो न रूपं जरिमा मिनाति। ( १।७१।१० )।
(= नभ इव जरा रूपं हिनस्ति )।
ऋतमर्षन्ति सिन्धवः
सत्यं तातान सूर्यः। ( १।१०५।१२ )।
पश्यदक्षण्वान् न वि चेतदन्धः। ( १।१६४।१६ )।
(ज्ञानदृष्ट्युपेत एव वस्तुतत्त्वं जानाति, अन्धः स्थूलदृष्टिस्तु न विजानातीत्यर्थः )।
बहुप्रजा निर्ऋतिमा विवेश ( १।१६४।३२ )।
माता पृथिवी महीयम्। ( १।१६४।३३ )।
एकं सद् विप्रा बहुधा वदन्ति। ( १।१६४।४६ )।
पुलुकामो हि मर्त्यः। ( १।१७९।५)।
( मनुष्यः खलु कामेन निरुद्ध एव वर्तत इत्यर्थः)।
नकिरस्य तानि व्रता देवस्य सवितुमिनन्ति। ( २।३८।७ )।
पुरुद्रुहो हि क्षितयो जनानाम् ( ३।१८।१)।
जायेदस्तम्। ( ३।५३।४ )।
( = जाया इत अस्तम् = जायैव गृहं भवतीत्यर्थः )। तु० “गृहिणी गृहमुच्यते”।
न ऋते श्रान्तस्य सख्याय देवाः। ( ४।३३।११)।
( श्रमयुक्तादृते परिश्रममन्तरेणेति यावद् देवाः सख्याय न भवन्तीत्यर्थः)।
यादृश्मिन् धायि तमपस्यया विदत्। ( ५।४४।८)
( यादृशे कामे मनो धत्ते तादृशं काममपस्यया कर्मणा विन्दत इत्यर्थः )।
य उ स्वयं वहते सोअरं करत्। ( ५।४४।८ )
( य एव स्वयमनन्यप्रेरितोऽनुतिष्ठति सोऽत्यर्थं कुर्यात। न ह्यन्येन कारितंफलवद्भवतीत्यर्थः )।
अनुब्रुवाणोअध्येति, न स्वपन्। ( ५।४४।१३ )।
( अनुसंकीर्तयन्नेव स्मरति न तु स्वपन्नित्यर्थः )।
योजागार तमृचः कामयन्ते या जागार तमु सामानि यन्ति। ( ५।४४।१४ )।
विद्वान् पथःपुरएता ऋजु नेषति। ( ५।४६।१ )।
(विद्वान् मार्गाभिज्ञ एव पुरएता पुरतो गन्ता सन् पथो मार्गान् ऋजु यथा स्यात्तथा प्रापयतीत्यर्यः )।
न दुष्टुती मर्त्योविन्दते वसु। ( ७।३२।२१ )।
( मर्त्यो दुष्टुत्या धनं न विन्दत इत्यर्थः )।
न स्रेधन्तंरयिर्नशत्। ( ७।३२।२१ )।
(स्रेधन्तं हिंसन्तं स्वकर्माण्यकुर्वन्तमिति यावद् रयिर्धनं न नशत् न प्राप्नोतीत्यर्थः )।
स्त्रिया अशास्यं मनः। ( ८।३३।१७ )।
ऋतस्य शृङ्गमूर्विया वि पप्रथे। ( ८।८६।५ )।
( उविया = उरु विस्तीर्णं यथा भवति तथा )
मज्जन्त्यविचेतसः। ( ९।६४।२१ )।
सत्येनोत्तभिता भूमिः। (१०।८५।१ )।
न वै स्त्रैणानि सख्यानि सन्ति। ( १०।९५।१५)
न स सखा यो न ददाति सख्ये। ( १०।११७।४ )।
केवलाघो भवति केवलादी। ( १०।११७।६ )।
( सरस्वती )
पावका नः सरस्वती वाजेभिर्वाजिनीवती।
यज्ञं वष्टु धियावसुः॥ ( १।३।१० )।
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम्।
यज्ञं दधे सरस्वती॥ ( १।३।११ )
-
*
कृधी (अग्ने!) न ऊर्ध्वाञ्चरथाय जीवसे। (१।३६।१४ )
(दीर्घायुः)
विश्वं चिदायुर्जीवसे। ( १।३७।१५ )।
उत पश्यन्नश्नुवन्दीर्घमायु–
रस्तमिवेज्जरिमाणं जगम्याम्। ( १।११६।२५ )।
( अस्तम् = गृहम्। जरिमाणम् = वृद्धावस्थाम् )
भद्रं जीवन्तो जरणामशीमहि। ( १०।३७।६ )।
-
*
स्वस्ति पन्थामनुचरेम सूर्याचन्द्रमसाविव॥(५।५१।१५ )।
शं नः क्षेमे शमु योगे नो अस्तु। ( ७।८६।८ )।
मा गामनागामदितिं वधिष्ट। ( ८।१०१।१५ )
सा मा सत्योक्तिः परि पातु विश्वतः। ( १०। ३७।२ )।
जगृभ्मा ते दक्षिणमिन्द्र हस्तम्। ( १०।४७।१ )।
( ज्ञानम् )
उत त्वः पश्यन्न ददर्श वाच-
मुत त्वः शृण्वन्न शृणोत्येनाम्।
उतो त्वस्मै तन्वंवि सस्रे
जायेव पत्य उशती सुवासाः॥ ( १०।७१।४ )।
(तन्वंवि सस्रे = आत्मानं विवृणुते। वाक् स्वरहस्यं प्रकाशयतीत्यर्थः। )
उत त्वं सख्ये स्थिरपीतमाहुर्
नैनं हिन्वन्त्यपि वाजिनेषु।
अधेन्वा चरति माययैष
वाचं शुश्रुवाँ अफलामपुष्पाम्॥ ( १०।७१।५ )
( त्वम् = वाग्विदम्। स्थिरपीतम् = विपरीतार्थम्, विज्ञातार्थम्। वाजिनेषु = रहस्यमयवाग्विषयेषु। न हिन्वन्ति = अविद्वांसो न प्राप्नुवन्ति )
( विराट् पुरुषः )
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शुद्रो अजायत॥
(१०।९०।१२)।
( वाङ्महिमा )
अहमेव स्वयमिदं वदामि
जुष्टं देवेभिरुत मानुषेभिः।
यं कामये तंतमुग्रं कृणोमि
तं ब्रह्माणं तमृषि तं सुमेधाम्॥ ( १०।१२५।५ )
( श्रद्धा )
श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः।
श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि॥ ( १०।१५१।१ )
( संज्ञानम् )
सं गच्छध्वं सं वदध्वं स वो मनांसि जानताम्।
देवा भागं यथा पूर्व संजानाना उपासते॥ ( १०।१९१।२ )।
-
*
शुक्लयजुर्वेदसंहितायाः
देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे। ( १।१ )
( प्रार्पयतु समर्पयतु )
धूर्वं, धूर्वन्तं, धूर्वन्तं योऽस्मान् धूर्वति ( १।८ )
(धुर्वी हिंसार्थः। धूर्वन्तं हिंसन्तम्।धूर्व विनाशय हिन्धि। )
मा भेः, मा संविक्थाः। ( १।२३ )
( = त्वं मा भैषीः। मा च त्वमुद्विग्नतां यासीः। ओविजी भयचलनयोः। )
अस्माकं सन्त्वाशिषः, सत्या नः सन्त्वाशिषः। ( २।१० )
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन। ( २।२४ )
(समगन्महि संगता भवामः। तनूभिः कार्यक्षमैः शरीरैः )
येषामध्येति प्रवसन् येषु सौमनसो बहुः। गृहानुपह्वयामहे। ( ३।४२ )
( = देशान्तरं गच्छन्मनुजो येषां गृहाणां स्मरति। इक् स्मरणे। येषु च प्रीत्यतिशयो लभ्यते।तादृशान् गृहान् वयमभिलषामः। )
परिमाग्ने दुश्चरिताद् बाधस्वा मा सुचरिते भजा ( ४।२८ )
( परिबाधस्व = परितो निवारय। भज = स्थापय )
सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः। (८।५३)
वयं राष्ट्रेजागृयामः पुरोहिताः। (९।२३)
( जागृयाम = अप्रमत्ता भवाम )
व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम्।
दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते॥ ( १९।३० )
दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः।
अश्रद्धामनृतेऽदधाच्छुद्धां सत्ये प्रजापतिः॥ ( १९।७७ )
( = सत्यानृतयो रूपे उपलभ्य प्रजापतिस्तयोः पृथक्त्वं कृतवान्। अनृते नास्तिक्यमस्थापयत्। अनृतस्याश्रद्धानिमित्तत्वात्। सत्ये च श्रद्धामास्तिक्यमदधात् )।
विशि राजा प्रतिष्ठितः। (२०।९)। ( विशि = प्रजायाम् )।
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम्। आराष्ट्रेराजन्यः शूर इषव्योऽतिव्याधी महारथो जायताम्। दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम्। निकामे निकामे नः पर्जन्यो वर्षतु। फलवत्यो न ओषधयः पच्यन्ताम्। योगक्षेमा नः कल्पताम्। ( २२।२२ )
(ब्रह्मवर्चसी = यज्ञाध्ययनशीलः। इषव्यः इषुभिविध्यतीति वा, इषौ कुशलो वा। अतिव्याधी = अत्यन्तं विध्यतीति। सप्तिः = अश्वः। पुरन्धिः = पुरं शरीरं सर्वगुणसंपन्नं दधातीति। निकामे = नितरां का मनायाम् )।
ब्रह्म सूर्यसमं ज्योतिः।( २३।४८)। ( ब्रह्म = वेदः )
अश्मा भवतु नस्तनूः।( २९।४६ ) \। ( अश्मा = पाषाण-
तुल्यदृढा )।
विश्वानि देव स्रवितर्दुरितानि परासुव। यद्भद्रं तन्न आसुव।(३०।३)
(दुरितानि पापानि। परासुव दूरे गमय। आसुव आगमय)
तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय (३१।१८)।
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः।
तदेव शुक्रं तद् ब्रह्म ता आपः स प्रजापतिः॥ ( ३२।१ )
इदं मे ब्रह्म च क्षत्रं चोभे श्रियमश्नुताम्। ( ३२।१६ )
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे। ( ३६।१८ )
अदीनाः स्याम शरदः शतम्। भूयश्च शरदः शतात्। (३६।२४)
ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्॥ ( ४०।१ )
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ (४०।२)
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। (४०।१७ )
-
*
सामवेदसंहितायाः
स्रखायस्त्वा ववृमहे देवं मर्त्तास ऊतये॥ (पूर्वार्चिके १।६।८)
अग्ने सख्ये मा रिषामा वयं तव। ( पू० १।७।४ )।
भद्रं भद्रं न आभरेषमूर्जं शतक्रते॥ ( पू० २।८।९ )।
इन्द्र त्वादातमिद्यशः। ( पू० ३।१।२ )।
नकि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन्।
नक्येवं यथा त्वम्॥ ( पू० ३।१।१० )।
जीवा ज्योतिरशीमहि। ( पू० ३।७।७ )।
यत इन्द्र भयामहे ततो नो अभयं कृधि॥ ( पू० ३।९।२ )
अप ध्वान्तमूर्णुहि पूर्धि चक्षुः। ( पू० ४।३।७ )।
देवस्य पश्य काव्यम्। ( पू० ४।४।३ )।
भद्रं नो अपि वातय मनः। ( पृ० ५।४।४ )।
(वायोः स्वास्थ्यसंरक्षणे यक्ष्मादिरोगनिवारणे च महिमा)
वात आ वातु भेषजं शंभु मयोभु नो हृदे।
प्र न आयूँषि तारिषत्॥
उत वात पितासि न उत भ्रातोत नः सखा।
स नो जीवातवे कृधि॥
यददो वात ते गृहेऽमृतं निहितं गुहा।
तस्य नो धेहि जीवसे॥ ( उत्त० ९।११ )
अथर्ववेदसंहितायाः
ब्रह्म वर्म ममान्तरम्। ( १।१९।४ )
ब्रह्मद्विषं द्यौरभिसंतपाति। ( २।१२।६ )
सर्वाश्चण्डस्य नप्त्योनाशयामः। ( २।१४।१ )
उद्यन्नादित्यः क्रिमीन्हन्तु निम्रोचन्हन्तु रश्मिभिः। (२।३२।१)
आप इद्वा उ भेषजीरापो अमीवचातनीः। (३।७।५ )
( सांमनस्यम् )
अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः।
जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम्॥ ( ३।३०।२ )
मा भ्राता भ्रातरं द्विक्षन्मा स्वसारमुत स्वसा।
सम्यञ्चः सव्रता भूत्वा वाचंवदत भद्रया॥ ( ३।३०।३ )
समानी प्रपा सह वोऽन्नभागः
समाने योक्त्त्त्रेसह वो युनज्मि॥ (३।३०।६ )
-
*
( गावः )
यूयं गावो मेदयथा कृशं चिद्
अश्रीरं चित्कृणुथा सुप्रतीकम्।
भद्रं गृहं कृणुथ भद्रवाचो
बृहद्वो वय उच्यते सभासु॥ (४।२१।६ )
-
*
( वाङ्महिमा )
अहमेव स्वयमिदं वदामि
जुष्टं देवानामुत मानुषाणाम्।
यं कामये तं तमुग्रं कृणोमि
तं ब्राह्मणं तमृषिं तं सुमेधाम्॥ (४।३०।३ )
-
*
सच्चासच्च वचसी पस्पृधाते। (८।४।१२ )
( अतिथिसत्कारः )
सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति। ( ९।७।८ )
सर्वो वा एषोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति। ( ९।७।९ )
कीर्तिं च वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति। ( ९।८।५ )
अशितवत्यतिथावश्नीयात् यज्ञस्य सात्मत्वाय यज्ञस्याविच्छेदाय तद् व्रतम्। (९।८।८ )
-
*
ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति।
आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते। ( ११।७।१७ )
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम्। ( ११।७।१८ )
ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत। (११।७।१९ )
ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम। ( २०।७।१७ )
तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते।
सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते॥ ( ११।१०।३२ )
माता भूमिः पुत्रो अहं पृथिव्याः। (१२।१।१२ )
न तिष्ठन्ति न नि मिषन्त्येते
देवानां स्पश इह ये चरन्ति॥ (१८।१।९)
प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु।
प्रियं सर्वस्य पश्यत उत शुद्र उतार्ये॥ ( १९।६२।१ )
( दीर्घायुः )
पश्येम शरदः शतम्। जीवेम शरदः शतम्।
बुध्येम शरदः शतम्। रोहेम शरदः शतम्।
पूषेम शरदः शतम्। भवेम शरदः शतम्।
भूषेम शरदः शतम्। भूयस्रीः शरदः शतात्॥
( १९।६७\।१–८ )
-
*
इच्छन्ति देवाः सुन्बन्तंन स्वप्नाय स्पृहयम्ति।
यन्ति प्रमादमतन्द्राः॥ ( २०।१८।३)
न दुष्टुतिर्द्रविणोदेषु शस्यते। ( २०।२१।१ )
( वेदमाता )
स्तुता मया वरदा वेदमाता
प्रचोदयन्तां पावमानी द्विजानाम्। (१९।७१।१ )
-
*
शतपथब्राह्मणात्
अमेध्योवै पुरुषो यदनृतं वदति।
सत्यमेव देवा अनृतं मनुष्याः।
यशो ह भवति य एवं विद्वान् सत्यं वदति।
वाग्वै मनसो ह्रसीयसी। अपरिमिततरमिव हि मनः। परिमिततरेव हि वाक्।
देवान्वा एष उपावर्तते यो व्रतमुपैति।
एते वा उत्पवितारो यत्सूर्यस्य रश्मयः।
यथा वै देवानां चरणं तद्वा अनु मनुष्याणाम्।
तद्धि समृद्धं यत्रात्ता कनीयान् आद्यो भूयान्।
पतिं वा अनु जाया।
द्वया वै देवाः। देवाः अहैव देवाः। अथ ये ब्राह्मणाः शुश्रुषांसोऽनूचानास्ते मनुष्यदेवाः।
छाययेव वा अयं पुरुषः पाप्मनानुषक्तः।
इदं मनश्च वाक् च समानमेव सन्नानेव।
अद्धा हि तद्यद् भूतम्।… अनद्धा हि तद् यद्भविष्यत्।
(अद्धा निश्चितम् )
अद्धा हि तद्यदद्य।… अनद्धा हि तद् यच्छ्वः।
पुरुषा वै प्रजापतेर्नेदिष्ठम्।
पतये ह्येव स्त्रियै प्रतिष्ठा।
सुवासा एव बुभूषेत्।… अप्यश्लीलं सुवाससं दिदृक्षन्ते।
( अश्लीलमसुन्दरम् )
_____
ऐतरेयब्राह्मणात्
ब्रह्म च क्षत्रं च संश्रिते।
शिरो वा एतद्यज्ञस्य यदातिथ्यम्।
एतद्वै वाचो जितंयद्ददामीत्याह।
प्रजा वै तन्तुः।
यो वै भवति यः श्रेष्ठतामश्नुते तस्य वाचं प्रोदितामनुप्रवदन्ति।
अथ खल्वाहुः। कोऽर्हति मनुष्यः सर्वंसत्यं वदितुम्। सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति।
व्यतिषक्त इव वै पुरुषः पाप्मना। ( व्यतिषक्तो मिश्रितः )।
परोक्षप्रिया इव हि देवाः।
संवै गुरुर्भारः शृणाति।
( संशृणाति भारवाहकान् विनाशयति )
यां वै दृप्तो वदति यामुन्मत्तः सा वै राक्षसी वाक्।
(तथोत्तररामचरिते–“ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः”)
ईश्वरो हास्य वित्तेदेवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति।
( अरन्तोरीश्वरः = अक्रीडितुं समर्था भवन्ति। एतस्य वित्तं द्विषन्तीत्यर्थः। स्ववर्तमानावस्थायामसंतुष्टो यः समुत्कृष्टतरावस्थावाप्तये यतते तस्यैव देवाः सहाया भवन्तीति हृदयम् )
परिमितं वै भूतम्, अपरिमितंभव्यम्।
अशनाया वै पाप्मामतिः।
( अशनाया क्षुधा, अमतिर्बुद्धिभ्रंशः )
यावन्तः पृथिव्यां भोगा यावन्तो जातवेदसि।
यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः॥
स्रस्वा जाया, कृपणं हदुहिता, ज्योतिर्ह पुत्रः परमे व्योमन्। राष्ट्राणि वै विशः।
-
*
गोपथब्राह्मणात्
स मनसा ध्यायेद्—यद्वा अहं किञ्चन मनसा ध्यास्यामि तथैव तद्भविष्यति। तद्ध स्म तथैव भवति।
यज्ञस्य विरिष्टमनु यजमानो विरिष्यते, यजमानस्य विरिष्टमवृत्विजोविरिष्यन्ते।
रूपसामान्यादर्थसामान्यं नेदीयः।
व्रतेन वै ब्राह्मणः संशितो भवति।
अनिष्टयज्ञा न तरन्ति लोकान्।
ऋतुसन्धिषु वै व्याधिर्जायते।
यत्र ह्येवमनस्तद् वाक्। यत्र वै वाक् तन्मनः। इत्येते द्वे योनी एक मिथुनम्।
** एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धम्। यत्कर्म क्रियमाणमृग्यजुर्वाभिवदति।**
** उत्तमे वयसि पुत्रान् पितोपजीवति।**
** एतद्वैमनुष्येषु सत्यं यच्चक्षुः। तस्मादाहुराचक्षाणमद्रागिति। सयदाहाद्राक्षमिवि तथा हास्य श्रद्धधति। यद्यु वै स्वयं वै दृष्टं भवति न बहूनां जनानामेष श्रद्धधाति।**
ईशावास्योपनिषदः
ईशावास्यमिदँसर्वंयत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्॥१॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छत्ँसमाः।
एव त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥२॥
असुर्या नाम ते लोका अन्धेन तमस्रावृताः।
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनोजनाः॥३॥
कविर्मनीषी परिभूः स्वयम्भूर्
याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः स्रमाभ्यः॥८॥
हिरण्मयेन पात्रेण सत्यस्यापिहितंमुखम्।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥१५॥
अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नमउक्तिं विधेम॥१८॥
( वयुनानि = प्रज्ञानानि कर्माणि वा। युयोधि = पृथक् कुरु। जुहुराणम् = कुटिलम्, प्रतिबन्धकम्। नमउक्तिम् = नमस्कारवचनम् )
केनोपनिषदः
[ ॐ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च। सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणमस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥ ]
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमोयथैतदनुशिष्यादन्यदेव तद्विदितादथो अविदितादधि इति शुश्रुम पूर्वेषां ये नस्तद् व्याचचक्षिरे॥१।३॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः।
अविज्ञातं विजानतां विज्ञातमविजानताम्॥२।३॥
इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः।
भूतेषु भूतेषु विचित्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति॥२।५॥
-
*
कठोपनिषदः
न वित्तेन तर्पणीयो मनुष्यः॥१।१।२७॥
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्
ते उभे नानार्थे पुरुषँसिनीतः।
तयोः श्रेय आददानस्य स्राधु भवति
हीयतेऽर्थाद् य उ प्रेयो वृणीते॥१।२।१॥
श्रेयश्च प्रेयश्च मनुष्यमेतस्
तौ संपरीत्य विविनक्ति धीरः।
श्रेयो हि धीरोऽभि प्रेयसो वृणीते
प्रेयो मन्दो योगक्षेमाद् वृणीते॥१।२।२॥
अविद्यायामन्तरे वर्तमानाः
स्वयंधीराः पण्डितं मन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः॥१।२।५॥
तं दुर्दर्शं गूढमनुप्रविष्टं
गुहाहितं गह्ररेष्ठंपुराणम्।
अध्यात्मयोगाधिगमेन देवं
मत्वा धीरो हर्षशोकौ जहाति॥१।२।१२॥
(ओंकारमहिमा )
सर्वे वेदा यत्पदमामनन्ति
तपाँसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्॥१।२।१५॥
एतद्ध्ये वाक्षरं ब्रह्म एतदेवाक्षरं परम्।
एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्॥१।२।१६॥
एतदालम्बनँश्रेष्ठमेतदालम्बनं परम्।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते॥१।२।१७॥
-
*
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूँस्वाम्॥१।२।२२॥
नाविरतो दुश्चरितान् नाशान्तो नासमाहितः।
नाशान्तमानसोवापि प्रज्ञानेनैनमाप्नुयात्॥१।२।२३॥
आत्मानं रथिनं विद्धि शरीरँ रथमेव च।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥१।३।३॥
इन्द्रियाणि हयानाहुर्विषयाँस्तेषु गोचरान्।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥१।३।४॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥१।३।६॥
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः।
सोऽध्वनः पारमाप्रोति तद्विष्णेाः परमं पदम्॥१।३।९॥
उत्तिष्ठत जागृत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया
दुर्गं पथस्तत्कवयो वदन्ति॥१।३।१४॥
पराञ्चि खानि व्यतृणत्स्वयम्भू-
स्तस्मात्पराङ् पश्यति नान्तरात्मन्।
कश्चिद्धीरः प्रत्यगात्मानमैक्षद्
आवृत्तचक्षुरमृतत्वमिच्छन्॥२।१।१॥
न प्राणेन नापानेन मर्त्यो जीवति कश्चन।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ॥२।२।५॥
-
*
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्॥२।३।१०॥
तां योगमिति मन्यन्ते स्थिरमिन्द्रियधारणाम्।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ॥२।३।११॥
-
*
मुण्डकोपनिषदः
द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति पराचैवापरा च। तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते॥१।१।४-५॥
प्लवा ह्येते अदृढा यज्ञरूपा
अष्टादशोक्तमवरं येषु कर्म।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा
जरामृत्युं ते पुनरेवापि यन्ति॥१।२।७॥
अविद्यायां बहुधा वर्तमाना
वयं कृतार्था इत्यभिमन्यन्ति बालाः।
यत्कर्मिणो न प्रवेदयन्ति रागात्
तेनातुराः क्षीणलोकाश्च्यवन्ते॥१।२।९॥
इष्टापूर्त्तेमन्यमाना वरिष्ठं
नान्यच्छ्रेयो वेदयन्ते प्रमूढाः॥१।२।१०॥
-
*
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्॥२।२।४॥
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनु भाति सर्वं
तस्य भास्रा सर्वमिदं विभाति॥२।२।१०॥
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वाद्वत्त्य-
नश्नन्नन्योअभिचाकशीति॥३।१।१॥
-
*
( सत्यस्य महिमा )
सत्येन लभ्यस्तपसा ह्येष आत्मा
सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्॥३।१।५॥
सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः।
येनाक्रमन्त्यृषयो ह्याप्तकामा
यत्र तत्सत्यस्य परमं निधानम्॥३।१।६॥
यं यं लोकं मनसा संविभाति
विशुद्धसत्त्वः कामयते यांश्च कामान्।
तं तं लोकं जायते तांश्च कामांस्
तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः॥३।१।१०॥
कामान्यः कामयते मन्यमानः
स कामभिर्जायते तत्र तत्र।
पर्याप्तकामस्य कृतात्मनस्तु
इहैव सर्वेप्रविलीयन्ति कामाः॥३।२।२॥
-
*
नायमात्मा प्रवचनेन लभ्ये।
न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनुं स्वाम्॥३।२।३॥
नायमात्मा बलहीनेन लभ्यो
न च प्रमादात्तपसो वाप्यलिङ्गात्॥३।२।४॥
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुसो भवति। तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतोभवति॥३।२।९॥
-
*
माण्डूक्योपनिषदः
ओमित्येतदक्षरमिदँ सर्वं तस्यापव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव। यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव॥१॥
-
*
तैत्तिरीयोपनिषदः
वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति।
सत्यं वद। धम्मँचर। स्याध्यायान्मा प्रमदः। आचार्य्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः।
सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। भूत्यै न प्रमदितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्। देवपितृकार्याभ्यां न प्रमदितव्यम्। मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव।
यान्यनवद्यानि कर्म्माणि तानि सेवितव्यानि, नो इतराणि। यान्यस्माकँ सुचरितानि तानि त्वयोपास्यानि, नो इतराणि। ये के चास्मच्छ्रेयाँसो ब्राह्मणाः तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्।
श्रद्धया देयम्। अश्रद्धयाऽदेयम्। श्रिया देयम्। ह्रिया देयम्। भियाऽदेयम्। संविदा देयम्।
अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्, ये तत्र ब्राह्मणाः संमर्शिनो युक्ता आयुक्ता अलूक्षा धर्मकामाः स्युः, यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः। अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संमर्शिनो युक्ता आयुक्ता अलूक्षा धर्मकामाः स्युः, यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः।
एष आदेशः। एष उपदेशः। एषा वेदोपनिषत्। एतदनुशासनम्। एवमुपासितव्यम्। एवमु चैतदुपास्यम्॥१।११॥
-
*
रसो वै सः। रसँ ह्येवायं लब्ध्वानन्दी भवति॥२।७॥
यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद् ब्रह्मेति॥३।१॥
-
*
छान्दोग्योपनिषदः
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्। सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति॥२।२३।१॥
अन्नमशितंत्रेधा विधीयते। तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति, यो मध्यमस्तन्माँसम्, योऽणिष्ठस्तन्मनः। …… अन्नमयँ हि सोम्य मनः॥६।५।१,४॥
अधीहि भगव इति होपससाद सनत्कुमारं नारदः। तँ होवाच यद्वेत्थ तेन मोपस्रीद ततस्त ऊर्ध्वं वक्ष्यामीति। स होवाच ऋग्वेदंभगवोऽध्येमि यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशि दैव निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि॥७।१।१-२॥
-
*
मनो वाव वाचो भूयः॥७।३।१॥
संकल्पो वाव मनस्रो भूयान्। यदा वै संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति॥७।४।१॥
चित्तं वाव संकल्पाद् भूयः। यदा वै चेतयतेऽथ संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति॥७।५।१॥
ध्यानं वाव चित्ताद् भूयः॥७।६।१॥
विज्ञानं वाव ध्यानाद् भूयः॥७।७।१॥
-
*
यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्यः॥७।२३।१॥
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। “अथ यन्त्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्। यो वै भूमा तदमृतम्, अथ यदल्पं तन्मर्त्यम्॥७।२४।१॥
-
*
आहारशुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ ध्रुवा स्मृतिः। स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः॥७।२६।२॥
-
*
बृहदारण्यकोपनिषदः
असतो मा सद्गमय। तमसोया ज्योतिर्गमय। मृत्योर्मामृतं गमय॥१।३।२८॥
द्वे वाव ब्रह्मणो रूपे मूर्त्तंचैवामूर्त्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यश्च॥२।३।१॥
अमृतत्वस्य नाशास्ति वित्तेनेति॥२।४।२॥
न वा अरे सर्वस्य कामाय सर्व प्रियं भवत्यात्मनस्तु कामाय सर्वंप्रियंभवति। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्योमैत्रेय्यात्मनोवा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदँसर्वं विदितम्॥२।४।५॥
अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि सर्वाणि निःश्वसितानि॥२।४।१०॥
अयमात्मा सर्वेषां भूतानां मधु। अस्यात्मनः सर्वाणि भूतानि मधु। यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायामात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा।इदममृतमिदं ब्रह्मेदं सर्वम्॥२।५।१४॥
स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानाँ राजा। तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः॥२।५।१५॥
एतंवै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति॥३।५।१॥
यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यँ सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयेष आत्मान्तर्याम्यमृत इत्यधिभूतम्॥३।७।१५॥
यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिल्ँलोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति। यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः। अथ य एतदक्षरं गागि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः॥३।८।१०॥
-
*
श्वेताश्वतरोपनिषदः
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम्।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत्॥१।१४॥
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति॥६।२०॥
-
*
नारायणोपनिषदः
यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति॥११॥
मेधा देवी जुषमाणा न आगाद्
विश्वाची भद्रा सुमनस्यमाना।
त्वया जुष्टा नुदमाना दुरुक्तान्
बृहद्वदेम विदथे सुवीराः॥४१॥
सत्यं परं परँ सत्यँ सत्येन न सुवर्गाल्लोकाच् च्यवन्ते कदाचन। सताँ हि सत्यं तस्मात्सत्ये रमन्ते। ….. मानसमिति विद्वाँसस्तस्माद् विद्वाँस एव मानसे रमन्ते॥७८॥
मुक्तिकोपनिषदः
लोकवासनया जन्तोः शास्त्रवासनयापि च।
देहवासनया ज्ञानं यथावन्नैव जायते ॥२।२॥
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासना सरित्।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि॥२।५-६॥
द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः॥२।२७॥
हस्तं हस्तेन संपीड्य दन्तैर्दन्तान् विचूर्ण्य च।
अङ्गान्यङ्गैःसमाक्रम्य जयेदादौ स्वकं मनः॥२।४२॥
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।
दिवीव चक्षुराततम्॥२।७७॥
-
*
निरुक्तात्
(वेदानामर्थज्ञानस्य प्रशंसा अज्ञानस्य निन्दा च)
स्थाणुरयं भारहारः किलाभू—
दधीत्य वेदं न विजानाति योऽर्थम्।
योऽर्थज्ञ इत्सकत्वं भद्रमश्नुते
नाकमेति ज्ञानविधूतपाप्मा॥
यद् गृहीतमविज्ञातं निगदेनैव शब्द्यते।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्॥१।१८॥
(स्थाणुर्वृक्षः। स हि पत्रपुष्पफलानामात्मीयानां धारणमात्रेणैव संबद्ध्यते, न तज्जैरान्धरसरूपस्पर्शोपभोगसुखैः। इतः =एव। गृहीतं गुरुमुखात्। अविज्ञातमर्थतः।)
( केऽध्यापनीयाः? )
विद्या ह वै ब्राह्मणमा जगाम
गोपाय मा शेवधिष्टेऽहमस्मि।
असूयकायानृजवेऽयताय
न मा ब्रूया वीर्यवती तथा स्याम्॥१॥
या आतृणत्त्यवितथेन कर्णा-
वदुःखं कुर्वन्नमृतं संप्रयच्छन्।
तं मन्येत पितरं मातरं च
तस्मै न द्रुह्येत्कतमच्चनाह॥२॥
अध्यापिता ये गुरुं नाद्रियन्ते
विप्रा वाचा मनसा कर्मणा वा।
यथैव ते न गुरोर्भोजनीया-
स्तथैव तान्न भुनक्ति श्रुतं तत्॥३॥
यमेव विद्याः शुचिमप्रमत्तं
मेधाविनं ब्रह्मचर्योपपन्नम्।
यस्ते न द्रुह्येत् कतमच्चनाह
तस्मै मा ब्रूया निधिपाय ब्रह्मन्॥४॥
(२।४)
(शेवधिः = सुखनिधानम्। आतृणत्ति = आभिनत्ति, अपिहिताविव सन्तौ कर्णौ विवृणोति। अवितथेन = सत्येन ब्रह्मणा। कतमच्चनाह= कदाचिदपि। भोजनीयाः= सेवयीयाः। भुनक्ति =पालयति।)
नैष स्थाणोरपराधो यदेनमन्धो न पश्यति। पुरुषापराधः स भवति।
यथा जानपदीषु विद्यातः पुरुषविशेषो भवति, पारोवर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति।
कस्तद्वेद यदभूतम्?
बहुप्रजाः कृच्छ्रमापद्यत इति परिव्राजकाः।
नित्यं ह्यविज्ञातुर्विज्ञानेऽसूया।
साक्षात्कृतधर्माण ऋषयोबभूवुः। तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्संप्रादुः। उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं च वेदाङ्गानि च।
मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवन्को न ऋषिर्भविष्यतीति। तेभ्य एतं तर्कमृषिं प्रायच्छन्।
यदेव किंचानूचानोऽभ्यूहत्यार्षं तद्भवति।
आचार्य आचारं ग्राहयति।
सैषा पुरुषगर्हा न शास्त्रगर्हा।
अप्येकः(अविद्वान्) पश्यन् न पश्यति वाचम्। अपि चशृण्वन् न शृणोत्येनाम्।
-
*
पातञ्जलमहाभाष्यात्
सैषा महतो व शस्तम्बाल्लट्वानुकृष्यते।
(तु० हिन्दी—“पहाड़ खोदना और चूहे का पाना” )
तद्यथा एकोऽन्धो दर्शनेऽसमर्थस्तत्समुदायश्च शतमपि असमर्थम्।
द्विगता अपि हेतवॆभवन्ति। तद्यथा—आम्राश्च सिक्ताः पितरश्च प्रीणिताः।
तद्यथा समानमीहमानानामधीयानानां च केचिदर्थैर्युज्यन्ते, अपरे न। तत्र किमस्माभिः कर्तुं शक्यम्। स्वाभाविकमेतत्।
न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद् भवति। नहि गोधा सर्पन्ती सर्पणादहिर्भवति।
नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते, न च मृगाः
सन्तीति यवा नोप्यन्ते।
अर्थगत्यर्थः शब्दप्रयोगः। अर्थं संप्रत्याययिष्यामीति शब्दः प्रयुज्यते।
यो हि भुक्तवन्तं ब्रूयान्मा भुङ्क्था इति किं तेन कृतं स्यात्।
नष्टाश्वदग्धरथवत् सह संप्रयोगो भवति। तद्यथा तवाश्वोः नष्टो ममापि च रथो दग्ध उभौ संप्रयुज्यावहा इति।
सामान्यातिदेशे हि विशेषानतिदेशः।
श्वा कर्णे वा पुच्छे वा छिन्ने श्वैव भवति, नाश्वोन गर्दभः।
पर्जन्यो यावदूनं पूर्णं च सर्वमभिवर्षति।
क्वास्ताः क्व निपतिताः।
अपि काकः श्येनायते।
अन्यत्पृष्टोऽन्यदाचष्टे। आम्रान् पृष्टः कोविदारानाचष्टे।
तद्यथा कश्चित्कान्तारे समुपस्थिते सार्थमुपादत्ते। स यदा निष्क्रान्तकान्तारो भवति तदा सार्थं जहाति।
पर्याप्तो ह्येकः पुलाकः स्थाल्या निदर्शनाय।
दृष्टस्य हि दोषस्य सुसुखः परिहारः।
नदोषाणां लक्षणमस्ति।
इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते। तद्यथा नौर्नावि बद्धा नेतरत्राणाय भवति।
नौः शकटं वहति शकटं च नावं वहति ( तु० “कभी नाव गाड़ी पर, कभी गाड़ी नाव पर” )
द्विर्बद्धं सुबद्धं भवति।
द्वौ हि प्रतिषेधौप्रकृतमर्थं गमयतः।
-
*
वाल्मीकिरामायणात्
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्॥१।४।७॥
असंकल्पितमेवेह यदकस्मात्प्रवर्तते।
निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत्॥२।२२।२४॥
-
*
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।
वीराः संभावितात्मानो न दैवंपर्युपासते॥
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।
न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥२।२३।१६-१७॥
-
*
आर्यपुत्र12! पिता माता भ्राता पुत्रस्तथा स्नुषा।
स्वानि पुण्यानि भुञ्जानाः स्वं स्वंभाग्यमुपासते॥
भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ।
अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि॥
न पिता नात्मजो वात्मा न माता न सखीजनः।
इह प्रेत्य च नारीणां पतिरेकोगतिः सदा॥२।२७।४-६॥
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्॥
इह लोके च पितृभिर्या स्त्री यस्य महाबल!
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा॥२।२९।१७-१८॥
-
*
( अराजकराष्ट्रस्य दुर्दशा )
नाराजके जनपदे बीजमुष्टिः प्रकीर्यते।
नाराजके पितुः पुत्रो भार्या वा वर्तते वशे॥
अराजके धनं नास्ति नास्ति भार्याप्यराजके।
इदमत्याहितं चान्यत्कुतः सत्यमराजके॥
नाराजके जनपदे कारयन्ति सभां नराः।
उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च॥
नाराजके जनपदे यज्ञशीला द्विजातयः।
सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः॥
॥२।६७।१०-१३॥
नाराजके जनपदे प्रहृष्टनटनर्तकाः।
उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः॥
नाराजके जनपदे सिद्धार्थाव्यवहारिणः।
कथाभिरभिरज्यन्ते कथाशीलाः कथाप्रियैः॥
नाराजके जनपदे तूद्यानानि समागताः।
सायाह्नेक्रीडितुं यान्ति कुमार्यो हेमभूषिताः॥
नाराजके जनपदे धनवन्तः सुरक्षिताः।
शेरते विवृतद्वाराः कृषिगोरक्षजीविनः॥
नाराजके जनपदे वाहनैः शीघ्रवाहिभिः।
नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः॥
॥२।६७।१५-१९॥
नाराजके जनपदे शरान्संततमस्यताम्।
श्रूयते तलनिर्घोष इष्वस्राणामुपासने॥
नाराजके जनपदे वणिजो दूरगामिनः।
गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः॥
नाराजके जनपदे चरत्येकचरो वशी।
भावयन्नात्मनात्मानं यन्त्रसायंगृहो मुनिः॥
नाराजके जनपदे योगक्षेमः प्रवर्तते।
न चाप्यराजके सेना शत्रून्विषहते युधि॥
नाराजके जनपदे हृष्टैः परमवाजिभिः।
नरा संयान्ति सहसा रथैश्चप्रतिमण्डिताः॥
नाराजके जनपदे नराः शास्त्रविशारदाः।
संवदन्तोपतिष्ठन्ते वनेषूवनेषु वा॥
नाराजके जनपदे माल्यमोदकदक्षिणाः।
देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः॥
॥२।६७।२१-२७॥
यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम्।
अगोपाला यथागावस्तथा राष्ट्रमराजकम्॥
॥२।६७।२९॥
नाराजके जनपदे स्वकं भवति कस्यचित्।
मत्स्या इव जना नित्यं भक्षयन्ति परस्परम्
॥२।६७।३१॥
यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते।
तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः॥
राजा सत्यं च धर्मश्च राजा कुलवतां कुलम्।
राजामाता पिता चैव राजा हितकरो नृणाम्॥
॥२।६७।३३-३४॥
अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन।
राजा चेन्न भवेल्लोके विभजन्साध्वसाधुनी॥
॥२।६७।३६॥
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः॥२।१०३।३०॥
-
*
( रामः पितृवियोगदुःखितं भरतं सान्त्वयति )
नात्मनः कामकारो हि पुरुषोऽयमनीश्वरः।
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति॥
सर्वेक्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम्।
एव नरस्य जातस्य नान्यत्र मरणाद्भयम्॥
यथागारं दृढस्थूणं जीर्णं भूत्वोपसीदति।
तथावसीदन्ति नरा जरामृत्युवशं गताः॥
अत्येति रजनी या तु सा न प्रतिनिवर्तते।
यात्येव यमुना पूर्णं समुद्रमुदकार्णवम्॥
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जन्तमिवांशवः॥
आत्मानमनुशोच त्वंकिमन्यमनुशोचसि।
आयुस्तु हीयते यस्य स्थितस्याथ गतस्य च॥
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति।
गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते॥
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्॥
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्॥
हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिवागतम्।
ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः॥
यथा काष्ठं च काष्ठं च समेयातां महार्णवे।
समेत्य तु व्यपेयातां कालमासाद्य कंचन॥
एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः॥
नात्र कश्चिद्यथाभावं प्राणी समतिवर्तते।
तेन तस्मिन्न सामर्थ्यंप्रेतस्यास्त्यनुशोचतः॥
यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः।
अहमप्यागमिष्यामि पृष्ठतो भवतामिति॥
एवं पूर्वैर्गतो मार्गः पैतृपितामहैर्ध्रुवः।
तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः॥
वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः॥
धर्मात्मा सुशुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः।
न स शोच्यः पिता तात स्वर्गतः सत्कृतः सताम्॥
स जीर्णमानुषं देहं परित्यज्य पिता हि नः।
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम्॥
तं तु नैवंविधः कश्चित्प्राज्ञः शोचितुमर्हति।
त्वद्विधो मद्विधश्चापि श्रुतवान्बुद्धिमत्तरः॥
एते बहुविधाः शोका विलापरुदिते तथा।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता॥
॥२।१०।१५-३५॥
-
*
प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु॥२।१०८।१७॥
-
*
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः।
मानं न लभते सत्सु भिन्नचारित्रदर्शनः॥
कुलीनमकुलीनंवा वीरं पुरुषमानिनम्।
चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम्॥
॥२।१०९।३-४॥
सत्यमेवेश्वरो लोके स्रत्ये धर्मः सदाश्रितः।
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्॥
॥२।१०९।१३॥
एकः पालयते लोकमेकः पालयते कुलम्।
मज्जत्येको हि निरय एकः स्वर्गे महीयते॥
॥२।१०९।१५॥
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं ध्रुवम्।
भारः सत्पुरुषैश्चीर्णस्तदर्थमभिनन्द्यते
॥२।१०९।१९॥
भूमिः कीत्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि।
सत्यं समनुवर्तन्ते सत्यमेव भजेत्ततः॥२।१०९।२२॥
कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्॥२।१०९।२८॥
लक्ष्मीचन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्।
अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः॥२।११२।१८॥
देशधर्मस्तु पूज्यताम्॥३।९।२७॥
न सुखाल्लभते सुखम्॥३।९।३१॥
अवश्यं लभते कर्ता फलं पापस्य कर्मणः।
घोरं पर्यागते काले द्रुमः पुष्पमिवार्त्तवम्॥३।२९।८॥
परेतकल्पा हि गतायुषो नरा
हितं न गृह्णन्ति सुहृद्भिरीरितम्॥३।४१।२०॥
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत्।
तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्॥
यत्कृत्वा न भवेद्धर्मो न कीत्तिर्नयशो ध्रुवम्।
शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत्॥३।५०।१८-१९॥
विनाशे बहवो दोषा जीवन्प्राप्नोति भद्रकम्॥५।१३।४५॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति या।
एति जीवन्तमानन्दो नरं वर्षशतादपि॥५।३४।६॥
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकषणः॥६।२।१३॥
देशे देशे कलत्राणि देशे देशे च बान्धवाः
तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥६।१०१।१४॥
पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले॥
॥६।१११।६७॥
मरणान्तानि वैराणि॥६।१११।१०२॥
रामो द्विर्नाभिभाषते॥
-
*
महाभारते
विदुरनीतेः
पण्डितलक्षणम्
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता।
यमर्था नापकर्षन्ति स वै पण्डित उच्यते॥१॥
क्रोधो हर्षश्च दर्पश्च ह्रीःस्तम्भो मान्यमानिता।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते॥२॥
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥३॥
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते॥४॥
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।
न कञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः॥५॥
क्षिप्रं विजानाति चिरं शृणोति, विज्ञाय चार्थं भजते न कामात्।
ना सम्पृष्टो ह्युपयुङ्क्ते परार्थे, तत्प्रज्ञानं प्रथमं पण्डितस्य॥६॥
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः॥७॥
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः।
अबन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते॥८॥
आर्यकर्मणि रज्यन्ते भूतिकर्माणिकुर्वते।
हितं च नाभ्यसूयन्ति पण्डिताभरतर्षभ॥९॥
न हृष्यत्यात्मसंमाने नावमानेन तप्यते।
गाङ्गो हृद इवाक्षोभ्यो यः स पण्डित उच्यते॥१०॥
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते॥११॥
प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान्।
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते॥१२॥
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा।
असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः॥१३॥
अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते॥१४॥
-
*
( मूढलक्षणम् )
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः॥१॥
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति।
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते॥२॥
अकामान् कामयति यः कामयानान् परित्यजेत।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम्॥३॥
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम्॥४॥
संसारयति कृत्यानि सर्वत्र विचिकित्सते।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ॥५॥
अनाहूतः प्रविशति अपृष्टो बहु भाषते।
अविश्वस्ते विश्वसिति मूढचेता नराधमः॥६॥
परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा।
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः॥७॥
आत्मनोबलमज्ञायधर्मार्थपरिवर्जितम्।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते॥८॥
-
*
(आर्यशीलः पुरुषः)
न वैरमुद्दीपयति प्रशान्तं
न दर्पमारोहति नास्तमेति।
न दुर्मतोऽस्मीति करोत्यकार्यं
तमार्यशीलं परमाहुरार्याः॥१॥
न स्वे सुखे वै कुरुते प्रहर्षं
नान्यस्य दुःखे भवति प्रहृष्टः।
दत्वा न पश्चात्कुरुतेऽनुतापं
स कथ्यते सत्पुरुषार्यशीलः॥२॥
-
*
( संख्यावन्ति सुभाषितानि )
एकःसम्पन्नमश्नाति वस्ते वासश्च शोभनम्।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः॥१॥
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः।
भाक्तारो विप्रमुच्यन्ते कर्त्ता दोषेण लिप्यते॥२॥
एकंहन्यान्न वा हन्यादिषुर्मुको धनुष्मता।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम्॥३॥
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते।
सराष्ट्रंसप्रजं हन्ति राजानं मन्त्रविप्लवः॥४॥
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत्।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात्॥५॥
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः॥६॥
सोऽस्य दोषो न मन्तव्यः क्षमाहि परमं बलम्।
क्षमा गुणे ह्यशक्तानां शक्तानां भूषणं क्षमा॥७॥
क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते।
शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः॥८॥
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥९॥
द्वे कर्मणी नरः कुर्वन्नस्मिल्ँलोके विरोचते।
अब्रुवन्पुरुषं कञ्चिदसतोऽनर्चयंस्तथा॥१०॥
द्वाविमौ कण्टकौतीक्ष्णौशरीरपरिशोषिणौ
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः॥११॥
द्वावेव न विराजेते विपरीतेन कर्मणा।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः॥१२॥
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान्॥१३॥
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ।
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्॥१४॥
द्वावम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम्।
धनवन्तमदातारं दरिद्रं चातपस्विनम्॥१५॥
द्वाविमौ पुरुषव्याघ्र ! सूर्यमण्डलभेदिनौ।
परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः॥१६॥
त्रयः पापा मनुष्याणां श्रूयन्ते भरतर्षभ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः॥१७॥
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः।
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु॥१८॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्॥१९॥
हरणं च परस्वानां परदाराभिमर्शनम्।
सुह्रदश्च परित्यागस्त्रयो दोषाः क्षयावहाः॥२०॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेततत्त्रयं त्यजेत्॥२१॥
वरप्रदानं राज्यं च पुत्रजन्म च भारत।
शत्रोश्च मोक्षणं कृच्छ्रात् त्रीणि चैकं च तत्समम्॥२२॥
भक्तं च भजमानं च तवास्मीति च वादिनम्।
त्रीनेताञ्छरणं प्राप्तान्विषमेऽपि न सन्त्यजेत्॥२३॥
चत्वारि राज्ञा तु महाबलेन
वर्ज्यान्याहुः पण्डितस्तानि विद्यात्।
अल्पप्रज्ञैःसह मन्त्रं न कुर्या-
न्न दीर्घसूत्रै रभसैश्चारणैश्च॥२४॥
चत्वारि ते तात ! गृहे वसन्तु
श्रियाभिजुष्टस्यगृहस्थधर्मे
वृद्धो ज्ञातिरवसन्नः कुलीनः
सखा दरिद्रो भगिनी चानपत्या॥२५॥
चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः।
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे॥२६॥
देवतानां च संकल्पमनुभावं च धीमताम्।
विनयं कृतविद्यानां विनाशं पापकर्मणाम्॥२७॥
चत्वारि कर्माण्यभयङ्कराणि
भयं प्रयच्छन्त्ययथाकृतानि।
मानाग्निहोत्रमुत मानमौनं,
मानेनाधीतमुतमानयज्ञः॥२८॥
पञ्चाग्नयो मनुष्येण परिचर्याःप्रयत्नतः।
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ !॥२९॥
पञ्चैव पूजयंल्लोके यशः प्राप्नोति केवलम्।
देवान्पितॄन् मनुष्यांश्च भिक्षूनतिथिपञ्चमान्॥३०॥
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः॥३१॥
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम्।
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम्॥३२॥
षड दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रिता॥३३॥
षडिमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्॥३४॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्।
ग्रामकामं च गोपालं वनकामं च नापितम्॥३५॥
षडेव तु गुणाः पुंसा न हातव्याः कदाचन।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः॥३६॥
अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड् जीवलोकस्य सुखानि राजन् !॥३७॥
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः॥३८॥
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते।
चौराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः॥३९॥
प्रमदाः कामयानेषु यजमानेषु याजकाः।
राजा विवदमानेषु नित्यंमूर्खेषु पण्डिताः॥४०॥
षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात्।
गावः सेवा कृषिभार्या विद्या वृषलसङ्गतिः॥४१॥
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम्।
आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरम्॥४२॥
नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम्।
नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम्॥४३॥
आरोग्यमानृण्यमविप्रवासः
सद्भिर्मनुष्यैः सह सम्प्रयोगः।
स्वप्रत्यया वृत्तिरभीतवासः
षड् जीवलोकस्य सुखानि राजन् !॥४४॥
ईर्षुर्घृणी न संतुष्टः क्रोधनो नित्यशङ्कितः।
परभाग्योपजीवी च षडेते नित्यदुःखिताः॥४५॥
सप्त दोषाः सदा राज्ञा दातव्या व्यसनोदयाः।
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः॥४६॥
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्।
महच्च दण्डपारुष्यमर्थदूषणमेवच॥४७॥
अष्टौ गुणाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च॥४८॥
नवद्वारमिदंवेश्म त्रिस्थूणं पञ्चसाक्षिकम्।
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः॥४९॥
दशधर्म न जानन्ति धृतराष्ट्र ! निबोध तान्।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः॥५०॥
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश।
तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः॥५१॥
-
*
कौटिलीयादर्थशास्त्रात्
विद्यासमुद्देशः
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति विद्याः।
ताभिर्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम्। सांख्यं योगो लोकायतं चेत्यान्वीक्षिकी। धर्माधर्मौ त्रय्याम्। अर्थानर्थौ वार्त्तायाम्। नयानयो दण्डनीत्याम्। बलाबले चैतासां हेतुभिरन्वीक्षमाणा लोकस्योपकरोति, व्यसनेऽभ्युदये च बुद्धिमवस्थापयति, प्रज्ञावाक्यक्रियावैशारद्यं च करोति—
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्।
आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी माता॥
सामर्ग्यजुर्वेदास्त्रयस्त्रयी। अथर्ववेदेतिहासवेदौ च वेदाः। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविचितिर्ज्योतिषमिति चाङ्गानि।
एष त्रयीधर्मश्चतुर्णां वर्णानामाश्रमाणां च स्वधर्मस्थापनादौपकारिकः।
स्वधर्मः स्वर्गायानन्त्याय च। तस्यातिक्रमे लोकः संकरादुच्छिद्येत—
तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत्।
स्वधर्मं संदधानो हि प्रेत्य चेह च नन्दति॥
व्यवस्थितार्थमर्यादः कृतवर्णाश्रमस्थितिः।
त्रय्या हि रक्षितो लोकः प्रसीदति न सीदति॥
कृषिपाशुपाल्ये वणिज्या च वार्त्ता; धान्यपशुहिरण्यकुप्यविष्टिप्रदानादौपकारिकी। तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम्।
आन्वीक्षिकीत्रयीवार्तानां योगक्षेमसाधनो दण्डः। तस्य नीतिर्दण्डनीतिः; अलब्धलाभार्था, लब्धपरिरक्षणी, रक्षितविवर्धनी, वृद्धस्य तीर्थेषु प्रतिपादनी च। तस्यामायत्ता लोकयात्रा। तस्माल्लोकयात्रार्थी नित्यमुद्यतदण्डः स्यात्। न ह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्ड इत्याचार्याः। नेति कौटिल्यः तीक्ष्णदण्डो हि भूतानामुद्वेजनीयः। मृदुदण्डः परिभूयते। यथार्हदण्डः पूज्यः।
चतुर्वर्णाश्रमो लोको राज्ञा दण्डेनपालितः।
स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु॥
( १।२-४)
मात्स्यन्यायाभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे।
( १।१३ )
न कञ्चिदवमन्येत सर्वस्य शृणुयान्मतम्।
बालस्याप्यर्थवद्वाक्यमुपयुञ्जीत पण्डितः॥
( १।१५ )
अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च।
प्राप्यते फलमुत्थानाल्लभते चार्थसंपदम्॥
( १।१९ )
प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम्॥
( १।१९)
चित्तानित्यत्वान्मनुष्याणाम्। अश्वस्रधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते। (२।९)
न त्वेवार्यस्य दासभावः। ( ३।१३ )
पूज्या विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः।( ३।२० )
स्वयमुपस्थितं नावमन्येत। ( ५।६ )
कालश्च सकृदभ्येति यं नरं कालकाङ्क्षिणम्।
दुर्लभः स पुनस्तस्य कालः कर्म चिकीर्षतः॥ ( ५।६ )
विजिगीषुः शक्त्यपेक्षः षाड्गुण्यमुपयुञ्जीत। समज्यायोभ्यां संघीयेत। हीनेन विगृह्णीयात्। विगृहीतो हि ज्यायसा हस्तिनापादयुद्धमिवाभ्युपैति। समेन चामं पात्रमामेनाहतमिवोभयतः क्षयंकरोति। कुम्भेनेवाश्मा हीनेनैकान्तसिद्धिमवाप्नोति।( ७।३ )
व्यस्यत्येनं श्रेयस इति व्यसनम्। ( ८।१ )
बिल्वं बिल्वेन हन्यताम्। ( ९।२ )
लाभविघ्नः—कामः कोपः साध्वसं कारुण्यं ह्रीःअनार्यभावः मानः सानुक्रोशता परलोकापेक्षा धामिकत्वम् अत्याहितत्वं (अत्यागित्वं वा ) दैन्यम् असूया हस्तगतावमानो…..अविश्वासो
भयम्……शीतोष्णवर्षाणामाक्षम्यं मङ्गलतिथिनक्षत्रेष्टित्वमिति।
नक्षत्रमतिपृच्छन्तं बालमर्थोऽतिवर्तते।
अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः॥
साधनाः ( ? सधनाः ) प्राप्नुवन्त्यर्थान् नरा यत्नशतैरपि।
अर्थैरर्थाः प्रबध्यन्ते गजाः प्रतिगजैरिव॥९।४॥
एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद् गर्भगतानपि॥१०।६॥
-
*
चाणक्यसूत्रेभ्यः
जितात्मा सर्वार्थैःसंयुज्येत॥१०॥
मन्त्ररक्षणे कार्यसिद्धिर्भवति॥२३॥
मन्त्रविस्रावी कार्यं नाशयति॥२४॥
षट्कर्णाद् भिद्यते मन्त्रः॥३४॥
मित्रसंग्रहणे बलं संपद्यते॥३६॥
तेजो हि संधानहेतुस्तदर्थानाम्॥५३॥
नातप्तलोहो लोहेन संधीयते॥५४॥
गजपादयुद्धमिव बलवद्विग्रहः॥५७॥
आमपात्रमामेन सह विनश्यति॥५८॥
अग्निदाहादपि विशिष्टं वाक्पारुष्यम्॥७५॥
आत्मनि रक्षिते सर्वंरक्षितं भवति॥५४॥
आत्मायत्तौ वृद्धिविनाशौ॥८५॥
नास्त्यग्नेर्दौर्बल्यम्॥८८॥
पुरुषकारमनुवर्तते दैवम्॥९८॥
पूर्वं निश्चित्य पश्चात् कार्यमारभेत॥१०१॥
न चलचित्तस्य कार्यावाप्तिः॥१०३॥
दोषवर्जितानि कार्याणि दुर्लभानि॥१०५॥
कालातिक्रमात् काल एव फलं पिबति॥१०८॥
परीक्ष्यकारिणि श्रीश्चिरं तिष्ठति॥११३॥
यो यस्मिन् कर्मणि कुशलस्तंतस्मिन्नेव योजयेत्॥११७॥
सिद्धस्यैव कार्यस्य प्रकाशनं कर्त्तव्यम्॥१२१॥
ज्ञानवतामपि दैवमानुषदोषात्कार्याणि दुष्यन्ति॥१२२॥
दैवंशान्तिकर्मणा प्रतिषेद्धव्यम्॥१२३॥
मानुषीं कार्यविपत्तिं कौशलेन विनिवारयेत्॥१२४॥
क्षीरार्थी वत्सो मातुरूधः प्रतिहन्ति॥१२७॥
न दैवप्रमाणानां कार्यसिद्धिः॥१२९॥
अपरीक्ष्यकारिणं श्रीः परित्यजति॥१३३॥
स्वशक्तिं ज्ञात्वा कार्यमारभेत॥१३५॥
धेनोः शीलज्ञः क्षीरं भुङ्क्ते॥१४०॥
अतिभारः पुरुषमवसादयति॥१४६॥
यः संसदि परदोषं शंसति स स्वदोषबहुत्वं प्रख्यापयति॥१४७॥
साहसेन न कार्यसिद्धिर्भवति॥१५०॥
अवमानेनागतमैश्वर्यमवमन्यते साधुः॥१६०॥
बहूनपि गुणानेकदोषो ग्रसति॥१६१॥
क्षुधार्तो न तृणं चरति सिंहः॥१६४॥
नाल्पदोषाद् बहुगुणास्त्यजन्ते॥१६९॥
विपश्चित्स्वपि सुलभा दोषाः॥१७०॥
नास्ति रत्नमखण्डितम्॥१७१॥
क्षीराश्रितं जलं क्षीरमेव भवति॥१७७॥
रजतंकनकसङ्गात्कनकं भवति॥१७९॥
नास्त्यलवस्यैहिकामुष्मिकम्॥१८४॥
निरुत्साहाद्दैवंपतति॥१८५॥
अविश्वस्तेषु विश्वासो न कर्तव्यः॥१८७॥
विषं विषमेव सार्वकालम्॥२८८॥
नीचस्य मतिर्न दातव्या॥२०३॥
सुपूजितोऽपि दुर्जनः पीडयत्येव॥२०५॥
चन्दनादीनपि दावाग्निर्दहत्येव॥२०६॥
कदापि पुरुषं नावमन्येत॥२०७॥
मितभोजनंस्वास्थ्यम्॥२९८॥
पथ्यमपथ्याजीर्णे नाश्नीयात्॥२१९॥
जीर्णभोजिनं व्याधिर्नोपसर्पति॥२२०॥
जीर्णशरीरे वर्धमानं व्याधिं नोपेक्षेत॥२२१॥
अजीर्णे भोजनं दुःखम्॥२२२॥
शत्रोरपि विशिष्यते व्याधिः॥२२३॥
मूर्खेषु विवादो न कर्तव्यः॥२३०॥
मूर्खेषु मूर्खवत्कथयेत्॥२३१॥
आयसैरायसं छेद्यम्॥२३२॥
पररहस्यं नैव श्रोतव्यम्॥२४४॥
स्वहस्तोऽपि विषदिग्धश्छेद्यः॥२४८॥
व्यसनं मनागपि बाधते॥२५३॥
अमरवदर्थजातमार्जयेत्॥२५४॥
अर्थवान् सव लोकस्य बहुमतः॥२५५॥
महेन्द्रमप्यर्थहीनं न बहु मन्यते लोकः॥२५६॥
दारिद्र्यंखलु पुरुषस्य जीवितं मरणम्॥२५७॥
विरूपोऽर्थवान् सुरूपः॥२५८॥
अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति॥२५९॥
अकुलीनोऽपि कुलीनाद्विशिष्टः॥२६०॥
नास्त्यमानभयमनार्यस्य॥२६१॥
परद्रव्यापहरणमात्मद्रव्यनाशहेतुः॥२६९॥
न चौर्यात्परं मृत्युपाशः॥२७०॥
विशेषज्ञं स्वामिनमाश्रयेत्॥२८३॥
पुरुषस्य मैथुनं जरा॥२८४॥
स्त्रीणाममैथुनं जरा॥२८५॥
अगम्यागमनादायुर्यशःपुण्यानि क्षीयन्ते॥२८७॥
नास्त्यहंकारसमः शत्रुः॥२८८॥
संसदि शत्रुं न परिक्रोशत्॥२८६॥
यः परार्थमुपसर्पति स सत्पुरुषः॥२९६॥
इन्द्रियाणां प्रशमं शास्त्रम्॥३००॥
म्लेच्छभाषण न शिक्षेत॥३०३॥
म्लेच्छानामपि सुवृत्तं ग्राह्यम्॥३०४॥
न स्त्रैणस्य स्वर्गाप्तिर्धर्मकृत्यं च॥३१७॥
स्त्रियोऽपि स्त्रैणमवमन्यन्ते॥३१८॥
न महाजनहासः कर्तव्यः॥३२१॥
कार्यसंपदं निमित्तानि सूचयन्ति॥३२२॥
नक्षत्रादपि निमित्तानि विशेषयन्ति॥३२३॥
कथानुरूपं प्रतिवचनम्॥३२९॥
विभवानुरूपमाभरणम्॥३३०॥
वयोऽनुरूपो वेषः॥३३४॥
आत्मच्छिद्रं न पश्यति परच्छिद्रमेव पश्यति बालिशः॥३४३॥
श्वो मयूरादद्य कपोतो वरः॥३४८॥
सर्वं जयत्यक्रोधः॥३५०॥
अलोहमयं निगडं कलत्रम्॥३५६॥
भूषणानां भूषणं सविनया विद्या॥३६८॥
उपस्थितविनाशः पथ्यवाक्यं न शृणेति॥३९५॥
न चक्षुषः समं ज्योतिरस्ति॥४०३॥
चक्षुहि शरीरिणां नेता॥४०४॥
अपचक्षुषः किं शरीरेण॥४०५॥
न वेदबाह्योधर्मः॥४१४॥
न मीमांस्या गुरवः॥४२२॥
ऋणशत्रुव्याधिष्वशेषः कर्त्तव्यः॥४३५॥
नार्थिष्ववज्ञा कार्या॥४३७॥
जिह्वायत्तौ वृद्धिविनाशौ॥४४०॥
विषामृतयोराकरी जिह्वा॥४४१॥
प्रियवादिनो न शत्रुः॥४४२॥
स्तुता अपि देवतास्तुष्यन्ति॥४४३॥
अनृतमपि दुर्वचनं चिरं तिष्ठति॥४४४॥
श्रुतिसुखात् कोकिलालापात् तुष्यन्ति॥४४६॥
परण्डमवलम्ब्य कुञ्जरं न कोपयेत्॥४५२॥
यथा श्रुतं तथा बुद्धिः॥४५९॥
यथा कुलं तथाचारः॥४६०॥
न चागतं सुखं त्यजेत्॥४६२॥
स्वयमेव दुःखमधिगच्छति॥४६३॥
गतानुगतिको लोकः॥४७३॥
यमनुजीवेत्तं नापवदेत्॥४७४॥
न च स्त्रीणां पुरुषपरीक्षा॥४७८॥
स्त्रीणां मनः क्षणिकम्॥४७९॥
देही देहं त्यक्त्वा ऐन्द्रपदं न वाञ्छति॥४८४॥
अनार्यसंबन्धाद् वरमार्यशत्रुता॥४८६॥
निहन्ति दुर्वचनं कुलम्॥४८७॥
न दानसमं वश्यम्॥४९४॥
असत्समृद्धिरसद्भिरेव भुज्यते॥४९६॥
निम्बफलं काकैर्भुज्यते॥४९७॥
नाम्भोधिस्तृष्णामपोहति॥४९८॥
आत्मा न स्तोतव्यः॥५०९॥
आर्यः स्वमिव परं मन्यते॥५२०॥
यत्र सुखेन वर्तते तदेव स्थानम्॥५२२॥
पुत्रो न स्तोतव्यः॥२९॥
श्वः कार्यमद्य कुर्वीत॥५३९॥
आपराह्निकं पूर्वाह्णएव कर्तव्यम्॥५४०॥
सर्वज्ञता लोकज्ञता॥५४२॥
शास्त्रज्ञोऽप्यलोकज्ञो मूर्खतुल्यः॥५४३॥
आत्मनः पापमात्मैव प्रकाशयति॥५५३॥
व्यवहारेऽन्तर्गतमाकारः सूचयति॥५५४॥
आकारसंवरणं देवानामशक्यम्॥५५५॥
मनुस्मृतेः
( आहारविषये श्लोकाः )
पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्।
दृष्ट्वाहृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः॥
पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति।
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम्॥
नोच्छिष्टं कस्यचिद् दद्यान्नाद्याच्चैव तथान्तरा।
न चैवाध्यशनं कुर्यान्न चोच्छिष्टः क्वचिद् व्रजेत्॥
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम्।
पुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत्॥
(२।५४—५७ )
-
*
( इन्द्रियसंयमः )
इन्द्रियाणां विचरतां विषयेष्वपहारिषु।
संयमे यत्नमातिष्ठेद्विद्वान्यन्तेव वाजिनाम्॥
( २।८८ )
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्।
संनियम्य तु तान्येव ततः सिद्धिं नियच्छति॥
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥
यश्चैतान्प्राप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत्।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते॥
न तथैतानि शक्यन्ते संनियन्तुमसेवया।
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः॥
वेदात्यागश्च यज्ञाश्च नियमाश्च तपांसि च।
न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित्॥
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः॥
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम्।
तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम्॥
वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा।
सर्वान्संसाधयेदर्थानक्षिण्वन्यागतस्तनुम्॥
( २।९३-१०० )
-
*
( ब्रह्मचारिनियमाः )
सेवेतेमांस्तु नियमान्ब्रह्मचारी गुरो वसन्।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः॥
नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम्।
देवताभ्यर्चनं चैव समिदाधानमेव च॥
वर्जमेन्मधु मांसं च गन्धं माल्यं रसान्त्रियः।
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम्॥
अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम्।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम्॥
द्यूतं च जनवादं च परिवादं तथानृतम्।
स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च॥
एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्वचित्।
कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमात्मनः॥
( २।१७५—१८० )
( योऽनूचानः स नो महान् )
अध्यापयामास पितॄञ्शिशुराङ्गिरसः कविः।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान्॥
ते तमर्थमपृच्छन्त देवानागतमन्यवः।
देवाश्चैतान्समेत्योचुर्न्याय्य वः शिशुरुक्तवान्॥
अज्ञो भवति वै बालः पिता भवति मन्त्रदः।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम्॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥
विप्राणां ज्ञानतो ज्यैष्ठ्यंक्षत्रियाणां तु वीर्यतः।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः॥
न तेन वृद्धो भवति येनास्य पलितं शिरः।
यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः॥
(२।१५१—१५६ )
-
*
चरकसंहितायाः
धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्।
सम्यक्प्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम्।
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः।
आत्मानमेव मन्येत कर्तारं सुखदुःखयोः।
ज्ञानवतापि च नात्यर्थमात्मनो ज्ञानेन विकत्थितव्यम्।
आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्ति अनेके।
कृत्स्नो हि लोको बुद्धिमतामाचार्यः।शत्रुश्चाबुद्धिमताम्।
ज्ञानपूर्वकं कर्मणां समारम्भं प्रशंसन्ति कुशलाः।
परीक्ष्यकारिणो हि कुशला भवन्ति।
हेतावीर्ष्युः फले नेर्ष्युः।
नान्यदोषान् ब्रूयात्।नान्यरहस्यमागमयेत्।
नासंवृतमुखो जृम्भां क्षवथुं हास्यं वा प्रवर्त्तयेत्।
न नियमं भिन्द्यात्।
न सर्वविश्रम्भी, न सर्वाभिशङ्की।
न कार्यकालमतिपातयेत्।
न सिद्धावौत्सुक्यं गच्छेत्।नासिद्धौ दैन्यम्।
नापरीक्षितमभिनिविशेत्।
प्रत्यक्षं ह्यल्पमनल्पमप्रत्यक्षमस्ति।
न ह्यतः पापात्पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः।
पुरुषोऽयं लोकसम्मितः।….. यावन्तो हि मूर्त्तिमन्ते लोके भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके।
सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा। व्यापच्चासम्यक्प्रयोगनिमित्ता।
तद्विद्यसंभाषा हि ज्ञानाभियोगसंहर्षकरी भवति। वैशारद्यमपि चाभिनिर्वर्त्तयति। वचनशक्तिमपि चाधत्ते। यशश्चाभिदीपयति। पूर्वश्रुते च संदेहवतः पुनः श्रवणात् श्रुतसंशयमपकर्षति। श्रुते चासन्देहवतो भूयोऽध्यवसायमभिनिर्वर्तयति। अश्रुतमपि च कञ्चिदर्थं श्रोत्रविषयमापादयति।
नरो हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः।
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥
ग्राम्यो हि वासो मूलमशस्तानाम्।
-
*
प्राज्ञगीतायाः
(भावनायज्ञविषये)
भावनाकुसुमैरीले
तत्तेजः शाश्वतं महत्।
आत्मा सवितृरूपेण
जगतस्तस्थुषश्च यत्॥१॥
-
*
(परात्मदेवताविषये)
यैषा सर्वमयी देवी मातृरूपेण वर्तते।
तस्याः क्रोडं समाश्रित्य वर्तेथास्त्वं गतव्यथः॥१॥
संसारसागरे यात्रां कर्तुकामोऽभयेन यः।
परात्मदेवतानौकामाश्रयेत् स प्रयत्नतः॥२॥
दैव्या नावोह्यमानोऽहं सुतरामापदापगाः।
असंशयं तरिष्यामि नात्र कार्या विचारणा॥३॥
महती देवता यैषा हृन्मन्दिर उपस्थिता।
तां ध्यायेच्छ्रद्धयोपेतो य इच्छेच्छेय आत्मनः॥४॥
-
*
( विष्णोर्विषये )
वेवेष्टि यो जगत्सर्व बहिरन्तश्च संस्थितः।
चराचरस्य लोकस्य स मे विष्णुः सहायकः॥१॥
बहिरन्तश्च यत्तत्त्वंजगत्संव्याप्य संस्थितम्।
तदभिन्नतयात्मानं मत्वा धीरो न शोचति॥२॥
महती देवता यैषा ह्यात्मनोऽभ्यन्तरे स्थिता।
आत्मानमर्पयेत्तस्यै क्षेमार्थी यो भवेन्नरः॥३॥
-
*
( ईश्वरं प्रति प्रार्थनाविषये )
दत्तं देवेन यत्तुभ्यं तदर्थं स्वकृतज्ञताम्।
ब्रूहि तं परमात्मानं मा भूत्तेऽत्र कृतघ्नता॥१॥
यदवाप्तं त्वया देवात्तदर्थं योग्यतात्मनः।
दर्शनीया प्रयत्नेन प्रार्थनीयं ततोऽधिकम्॥२॥
-
*
(लघुस्वार्थानां चिन्तनमेव दुःखमूलम् )
शरीरात्मा लघुस्तस्य नैव कार्या विचारणा।
चिन्तनं हि लघोर्यस्माल्लघुतापादकं मतम्13॥१॥
ब्रह्मविज्जायते ब्रह्म ह्याम्नातमसकृच्छ्रुतौ।
तस्माद् ब्रह्मविचारेऽब्धौनिमग्नः शान्तिमाप्नुहि॥२॥
तत्त्वमानन्दरूपं तदादिमं नात्र संशयः।
तथापि महदाश्चर्यं दृश्यन्ते दुःखिनो जनाः॥३॥
एकमेव महत्तत्त्वं मूलं सर्वस्य वस्तुनः।
तद्विकासाः समे भावा नियतं मत्स्वरूपिणः॥४॥
-
*
( अनेकेषु एकत्वबुद्धिः )
पात्रभेदेन भिन्नाम्भः पिबन्नार्त्तः पिपासया।
यथा शान्तिमवाप्नोति नोक्तभेदेऽवसज्जते॥१॥
तथैव तत्त्वविद्विद्वान् नानारूपेण पूजिते।
परात्मतत्त्व एकस्मिन् शान्तिमाप्नोति नैष्ठिकीम्॥२॥
अथवा
तथैवोपाधिभिर्भिन्नेऽभिन्ने वस्तुत आत्मनि।
एकत्वबुद्धिमास्थाय शान्तिमाप्नोति तत्त्ववित्॥३॥
-
*
( चित्तवृत्तीनां निरोधविषये )
वृत्तयो निररन्त्योऽमूः स्फुलिङ्गा इव वह्नितः।
आत्मनोऽनारतं शक्तिं विक्षिपन्ति समन्ततः॥१॥
तासां जाते निरोधे तु योगशास्त्रानुसारतः।
आत्मनः स्वं महत्तेजः स्थिररूपेण भासते॥२॥
-
*
( अदीनाः स्याम )
दृष्ट्वाप्यनन्तप्रसरां
मानवो गतिमात्मनः।
आश्वर्यं मूढतादोषाद्
दीनं हीनं च मन्यते॥१॥
( आत्मन उन्नतेः कापि काष्ठा न विद्यत इति दृष्ट्वापि मोहवशान्मनुज आत्मानं दीनं हीनं च मन्यत इति महदाश्चर्यमित्यर्थः)
-
*
( मानवेन प्राप्तकालं विधीयताम् )
यदतीतमतीतं तत्
संदिग्धं यदनागतम्।
तस्माद् यत्प्राप्तकालं तन्
मानवेन विधीयताम्॥१॥
-
*
(कर्मणैव संसिद्धिः )
न हि चिन्तनमात्रेण
कार्यसिद्धेर्हि संभवः।
कर्मणैव हि संसिद्धि-
स्ततो गीतासु वर्णिता॥१॥
-
*
( वास्तविकं धनम् )
यत्कर्मकरणेनान्तः-
सन्तोषं लभते नरः।
वस्तुतस्तद्धनं मन्ये
न धनं धनमुच्यते॥१॥
-
*
( जीवनयात्राविषये )
यात्रेति जीवनं प्राहुर्यात्री वर्त्ते न संशयः।
प्रीत्यैव व्यवहर्तव्यं यात्रिभिः, किं विरोधतः॥१॥
विरोधिनां विरोधेन शान्तिभङ्गो भवेद् ध्रुवम्।
यदुद्दिश्य विरोधः स्याच्छान्तेर्मूल्यं ततोऽधिकम्॥२॥
-
*
( कश्चिदपि नावमन्तव्यः )
सर्वेऽमी प्राणिनः साक्षान्मानवास्तु विशेषतः।
प्रदीपा इव भासन्ते दीपिता ब्रह्मतेजसा॥१॥
भास्वरं तन्महत्तेजो ब्रह्मणो नः समन्ततः।
चैतन्यरूपतापन्नं प्राणिमात्रे प्रकाशते॥२॥
अत एव च सर्वेऽपि प्राणिनो गौरवास्पदम्।
न कश्चिदवमन्तव्य आत्मश्रेयोऽभिकाङ्क्षिणा॥३॥
-
*
( पितापुत्रादिसंबन्धे कर्तव्यबुद्धिः )
पितापुत्रादिसंबन्धो नैव स्वेच्छाकृतो मतः।
परात्मना कृतस्तस्मात्तदभिप्रायमूलकः॥१॥
तदभिप्रायसिद्ध्यर्थमस्मज्जन्मादिकं ततः।
कर्तव्यमिति बुद्ध्यैव कुर्वीत कर्म मानवः॥२॥
-
*
( बुद्धिभावनयोर्द्वन्द्वम् )
बुद्धिभावनयोर्द्वन्द्वं जीवने दृश्यतेऽनिशम्।
तत्त्वज्ञानकरी बुद्धिर्भावना मोहरूपिणी॥१॥
भावनाप्रसरे दुःखं बुद्धिरात्मप्रसादनी।
समन्वयस्तयोस्तस्मात्स्थापनीयः कथंचन॥२॥
भावना शक्तिदा प्रोक्ता बुद्धिर्मार्गप्रदर्शिका।
बुद्धेः प्राधान्य एवात्र तयोर्योगः सुखप्रदः॥३॥
( भावना = sentiment. बुद्धिः= Intellect )
-
*
( परात्मना सर्वथा रक्षितो वर्त इति भावना )
नूनं स्वजन्मनः पूर्वमन्तर्यामिनियन्त्रितः।
अभूवमहम् एवं वै मृत्योः पश्चात्स्थितिर्ध्रुवा॥१॥
सत्येवम्,“अल्पकालेऽस्मिञ्जीवनेऽपि परात्मना।
सर्वथा रक्षितो वर्त्त” इत्येवमवधार्यताम्॥२॥
-
*
( सोऽयं मे निधिरव्ययः )
जन्मजन्मान्तरीयस्य कर्मव्रातस्य संक्षये।
लोकलोकान्तरीयस्य वस्तुनस्तत्त्वनिर्णये॥१॥
या सत्या या परा शान्तिस्तस्याः संपादने महत्।
कारणं योग आम्नातः सोऽयं मे निधिरव्ययः॥२॥
तथा
ऋषिभिर्मुनिभिः पूर्वैराचार्यैस्तत्त्वदर्शिभिः।
तपःस्वाध्यायनिरतैः शान्तैर्दान्तैर्मनीषिभिः॥३॥
लोककल्याणबुद्ध्यैव नैवं स्वार्थपरायणैः।
वाङ्मयं यन्महत्सृष्टं सोऽयं मे निधिरव्ययः॥४॥
( निर्धनेनापि विदुषा ‘उक्तविधिना विशेषतो धनवानहम्’ इस्येवं विभावनीयमिति भावः। )
-
*
धम्मपदात्
नहि वेरेन वेरानि सम्मन्तीध कुदाचनं।
अवेरेन च सम्मन्ति एस धम्मो सनन्तनो॥५॥
(= न हि वैरेण वैराणि शाम्यन्तीह कदाचन
अवैरेण च शाम्यन्ति धर्म एष सनातनः॥ )
अप्पमत्तो पमत्तेसु सुत्तेसु बहुजागरो।
अबलस्सं ‘व सीघस्सो हित्वा याति सुमेधसो॥२९॥
( = अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः।
अबलाश्वं व14शीघ्राश्वो हित्वा याति सुधीर्नरः॥ )
चित्तं दन्तं सुखावहं॥३५॥
( = दान्तं चित्तं सुखावहम् )
नत्थि जागरतो भयं॥३९॥
(= जाग्रतो हि भयं नास्ति )
यथापि रुचिरं पुप्फं वण्णवन्तं अगन्धकं।
एवं सुभासिता वाचा अफला होति अकुब्बतो॥५१॥
( = यथा हि रुचिरं पुष्पं वर्णवच्चाप्यगन्धकम्।
एवं सुभाषितापि वागफला स्यादकुर्वतः॥ )
यो बालो मञ्ञतीबाल्यं पण्डितोचापि तेन सो।
बालो च पण्डितमानी स वे बालो’ति वुच्चति॥६३॥
( = यो बालो मन्यते बाल्यं तेन चापि स पण्डितः।
बालश्च पण्डितंमन्यः स वै बाल इति स्मृतः॥ )
बालः = मूर्खः।
अत्तानं दमयन्ति पण्डिता॥८॥
( = आत्मानं दमयन्ति पण्डिताः। )
अप्पका ते मनुस्सेसु ये जना पारगामिनो।
अथायं इतरा पजा तीरमेवानुधावति॥८५॥
( = अल्पकास्ते मनुष्येषु ये जनाः पारगामिनः।
अथेयमितरा प्रजा तीरमेवानुधावति॥ )
मासे मासे सहस्सेन योयजेथ सतं समं।
एकञ्च भावितत्तानं मुहुत्तमपि पूजये॥
सा येव पूजना सेय्योयं चे वस्ससतं हुतं॥१०६॥
( = मासे मासे सहस्रेण यो यजेत शतं समाः।
एकं च भावितात्मानं मुहूर्त्तमपि पूजयेत्॥
पूजैव श्रेयसी तस्माद् यच्चेद् वर्षशतं हुतम्॥ )
विसं जीवितुकामो ‘व पापानि परिवज्जये॥१२३॥
(= विषं जीवितुकामो व15 पापानि परिवर्जयेत्। )
न विज्जती सो जगति प्पदेसो
यत्थट्ठितं न प्पसहेय्य मच्चू॥१२८॥
(= न विद्यते जगति स प्रदेशो
यत्र स्थितं न प्रसहेत मृत्युः॥ )
अत्तानं उपमं कत्वा न हनेय्य न घातये॥१२९॥
( = आत्मानमुपमां कृत्वा न हन्यान्न च घातयेत्॥ )
न नग्गचरिया न जटा न पङ्का
नानासका थण्डिलसायिका वा।
रजोवजल्लं उक्कुटिकप्पधानं
सोधेन्ति मच्चं अवितिण्णकङ्खं॥१४१॥
( = न नग्नचर्या न जटा न पङ्का
नानशनं स्थण्डिलशायिका वा।
रजोलेपनमुत्कुटिकप्रधानं16
शोधयन्ति मर्त्यमवितीर्णाकाङ्क्षम्॥ )
अप्पस्सुतायं पुरिसोबलिवद्दो ‘व जीरति।
मंसानि तस्स बड्ढन्ति पञ्चा तस्स न बड्ढति॥१५२॥
( = अल्पश्रुतोऽयं पुरुषो बलीवर्दो व जीर्यति।
मांसानि तस्य वर्धन्ते प्रज्ञा तस्य न वर्धते॥ )
मिच्छादिट्ठिं न सेवेय्य॥१६७॥
( = मिथ्यादृष्टिं न सेवेत )
उत्तिट्ठे नप्पमज्जेय्य॥१६८॥
( = उत्तिष्ठेन्न प्रमाद्येत्।)
आरोग्यपरमा लाभा सन्तुट्ठी परमं धनं॥२०४॥
(= आरोग्यं परमो लाभः सन्तुष्टिः परमं धनम्॥ )
निन्दन्ति तुण्हीमासीनं निन्दन्ति बहुभाणिनं।
मितभाणिनम्पि निन्दन्ति नत्थि लोके अनिन्दितो॥२२७॥
( = निन्दन्ति तूष्णीमासीनं निन्दन्ति बहुभाणिनम्।
मितभाणिनमपि निन्दन्ति नास्ति लोके ह्यनिन्दितः॥ )
असज्झायमला मन्त्रा अनुट्ठानमला घरा॥२४९॥
( = अस्वाध्यायमला मन्त्रा अनुत्थानमला गृहाः॥ )
न जटाहि न गोत्तेहि न जच्चा होति ब्राह्मणो।
यभ्झिसच्चञ्च धम्मो च सो सुची सो च ब्राह्मणे॥३९३॥
(= न जटाभिर्न वा गोत्रैर्न जात्या ब्राह्मणो भवेत्।
यस्मिन्सत्यं च धर्मश्च स शुचिः स च ब्राह्मणः॥)
इति श्रीमन्मङ्गलदेवशास्त्रिविरचिते
प्रबन्धप्रकाशे द्वितीयभागः
समाप्तः॥
<MISSING_FIG href=”../books_images/U-IMG-1733760477Screenshot2024-12-099.37.40PM.png”/>
मुद्रणत्रुटिनिर्देशः
ग्रन्थेऽस्मिन् मुद्रणदोषाज्जातास्त्रुटयः सामान्येनाधस्तान्निर्दिश्यन्ते—
| अशुद्धम् | शुद्धम् |
| -वधमाना | -वर्धमाना |
| सदेहो | संदेहो |
| मुवि- | भुवि |
| -त्बे | -त्वे |
| -र्वां- | -र्वा- |
| -र्दूं- | -र्दू- |
| -घा- | -धा- |
| -ष्व- | -ष्वा- |
| -मितेषु | -र्मितेषु |
| -चिकिस्सा- | -चिकित्सा- |
| अर्पि | अपि |
| -तिहि | -तिहिं |
| -प्रमृति- | -प्रभृति- |
| -प्रगति | -प्रगतिं |
| पूर्वक | -पूर्वकं |
| बाग्- | वाग्- |
| ससद् | संसद् |
| इत्यवं | इत्येवं |
| सतत | सततं |
| सदेशेन | संदेशेन |
| विद्यत् | विद्युत् |
| नून | नूनं |
| -मितः | -र्मितः |
| -घातक | -घातकं |
| -सत्वतां | -सत्त्वतां |
| ऋषि | ऋषिं |
| शक्नमः | शक्नुमः |
| तद्- | तद्- |
| वर्णां- | वर्णा- |
| -र्वों-, र्ते- | -र्वो-, -र्त- |
| आप्तं | आप्तुं |
| -त- | -ते- |
| तद- | तद्- |
| -राथ | -रार्थं |
| निदश- | निदर्श |
| कर्णेभि | कर्णेभिः |
| पार्यंते | पार्यते |
| -मार्गं | -मार्ग- |
| उदभवं | उद्भवं |
| मग- | भग- |
| -ज्जैयु- | -ज्जैर्यु- |
| सश- | संश- |
| -कीत्ति- | -कीर्त्ति- |
| क्लैब्य | क्लैब्यं |
| -दौबल्यं | -दौर्बल्यं |
| अर्थात् | अर्थात् |
| सभवति | संभवत्ति |
| ज्ञान | ज्ञानं |
| कतु- | कर्तु- |
| -रय- | -स्य- |
| द्ध-, -द्ध- | -द्ध्-,-द्ध्- |
| -र्थ | -र्थं |
| -कर्म- | -कर्म- |
| कत- | कर्त |
| पयु- | पयु- |
| -सार | सारं |
| बु- | बु- |
| कर्म- | कर्म- |
| वरानं | वर्णनं |
| दृश्यत | दृश्यते |
| सकल | सकलं |
| -र्मं- | -र्म- |
| -दशस्य | -देशस्य |
| बयं | वयं |
| -कर्तंव्य- | -कर्तव्य- |
| अनेकमूत्ति- | अनेकमूर्त्ति- |
| -काय- | -कार्य- |
| -पूर्णः- | -पूर्ण- |
| -कार्याथ | -कार्यार्थं |
| इद | इदं |
| -भितौ | -भित्तौ |
| -लम्व- | -लम्ब- |
| -सार | -सारं |
| -तन्त्रषु | -तन्त्रेषु |
| स्माक | -स्माकं |
| तहि | तर्हि |
| म्म- | -म्म- |
| -वश्य | -वश्यं |
| -षा | -षी |
| कि | किं |
| -ब्रत- | -व्रत- |
| यशस | यशसं |
| -र्तं- | -र्त- |
| नाबं | नावं |
| -बारणाय | -वारणाय |
| स्वा- | स्वा- |
| सर्ब- | सर्व |
| -यत | -र्यत |
| अग्निव | अग्निवे |
| लोंक | लोके |
| युयु- | -र्युयु- |
| भीति | भीतिं |
| कार्य | कार्यं |
| सर्व | सर्वं |
| स्त्री- | स्री- |
| बा | वा |
| वतत | वर्तत |
| इह्ण | इह |
| गागि | गार्गि |
| -र्भं- | र्भ |
| -कषणः | -कर्षणः |
| षड | षड् |
| -र्थां- | -र्था- |
-
*
ग्रन्थकर्त्रा डा० मङ्गलदेवशास्त्रिणा प्रणीतानां
संपादितानां17 वा ग्रन्थानां परिचयः—
( संस्कृते )
(१) ऋग्वेदप्रातिशाख्यम्,
उवटाचार्यकृतभाष्येण सहितम् , प्रकाशकः—इंडियन प्रेस लिमिटेड, इलाहाबाद।
(२,३) प्रबन्धप्रकाशः (भागद्वयात्मकः )।
प्रकाशकः— इंडियन प्रेस लिमिटेड, इलाहाबाद।
(४) न्यायसिद्धान्तमाला ( द्वौ भागौ )।
प्रकाशकः—गवर्नमेंटप्रेस, इलाहाबाद।
(५) उपनिदानसूत्रम् ( सामवेदीयम् )।
प्रकाशकः—पूर्ववत्।
(६) उपेन्द्रविज्ञानसूत्रम् ( वेदान्तः )।
प्रकाशकः—पूर्ववत्।
(७) आश्वलायनश्रौतसूत्रम्
( सिद्धान्तिभाष्यसहितम् ) ( प्रथमो भागः )। प्रकाशकः— पूर्ववत्।
(८) आर्यविद्यासुधाकरः।
प्रकाशकः—मेसर्स मोतीलाल बनारसीदास, बुक्सेलर्स, चौक, बनारस।
(९) भारतीयसंविधानस्य (उत्तरार्धस्य) संस्कृतानुवादः।
प्रकाशकः—Government of India.
( इंग्लिशभाषायाम् )
(१०) ऋग्वेदप्रातिशाख्यम्
(English Translation, Critical Notes, Appendices etc.)। प्रकाशकः—मेसर्स मोतीलाल बनारसी दास, बुकसेलर्स, चौक, बनारस।
(११) Part of the Introduction to the Critical Edition of the
ॠग्वेदप्रातिशाख्य,
Oxford University Press, Oxford (out of print).
( हिन्दीभाषायाम् )
(१२) भाषाविज्ञान
( अथवा तुलनात्मक भाषाशास्त्र ), चतुर्थसंस्करण, प्रकाशक—इंडियन प्रेस लिमिटेड, इलाहाबाद
(१३) भारतीय आर्य धर्म की प्रगतिशीलता
(भारतीय संस्कृति के विकास का विवेचनात्मक अध्ययन )।
प्रकाशक—पूर्ववत्।
(१४) मिना
( = प्रेम और प्रतिष्ठा का संघर्ष ) ( ‘मिना फ़न बार्नह्यल्म’ नामक जर्मन नाटक का अनुवाद )। प्रकाशक—हिन्दुस्तानीएकेडेमी, इलाहाबाद
(१५) वेदों का वास्तविक स्वरूप, अथवा—वेदों के महान् आदर्श।
प्राप्तिस्थान—मेसर्स मोतीलाल बनारसी दास, बुक्सेलर्स, चौक, बनारस
( प्रकाशनार्थं प्रस्तुता ग्रन्थाः )
** (१) शतपथब्राह्मणपर्यालोचनम्**
** (२) ऐतरेयपर्यालोचनम्**
(३) वैदिकसूक्तसंग्रहः
( अनुवादेन, विविधटिप्पणीभिःपरिशिष्टैश्च सहितः )
(४) ऋग्वेदप्रातिशाख्यम्
( उवटभाष्यसहितऋग्वेदप्रातिशाख्यीयसंस्करणस्य बृहद्भूमिकादिसंवलितः प्रथमो भागः )
अन्ये चैवंविधा ग्रन्थाः ।
-
*
[TABLE]
]
-
“१- ३।२। १९५० ईस्वीतिथावुत्कलसंस्कृतपरिषद उपाधिवितरणोत्सवावसरे ग्रन्थकर्तुर्दीक्षान्तभाषणम्।” ↩︎
-
“१९, २०।८।१९३९ ईस्वीतिथ्योः संयुक्तप्रान्तीयसंस्कृतच्छात्रसंमेलनस्य श्रीमथुरापुर्यां द्वितीयाधिवेशने सभाध्यक्षस्य ग्रन्थकर्तुरभिभाषणम् ।” ↩︎
-
“१–२७।१२।१६४३ गुरुकुलवृन्दावन विश्वविद्यालयीय ३६ तम महोत्सवावसरे ग्रन्थकर्तुर्दीक्षान्तभाषणम् ( हिन्दीभाषातः संस्कृतभाषायामनूदितम् ↩︎
-
“*२५।१२।१९४४ ईस्वीतिथौ ‘अर्यर्यमहाविद्यालय, किरठल, मेरठ इत्येतस्य ‘रजतजयन्ती’ महोत्सवावसरे शिक्षासम्मेलनेऽध्यक्षस्य ग्रन्थकर्तुरभिभाषणम् ।” ↩︎
-
“१- ३१।३।१९४५ ईस्वीतिथौ गुरुकुलकांगड़ी-विश्वविद्यालयीय ४३ तम महोत्सवस्य सरस्वतीसम्मेलनाधिवेशने सभाध्यक्षस्य ग्रन्थकर्तुरभिभाषणम्।” ↩︎
-
“१—तिस्र एव देवता इति नैरुक्ताः। अग्निः पृथिवीस्थानः। वायुर्देवो वान्तरीक्षस्थानः। सूर्यो द्युस्थानः। तासां माहाभाग्यादेकैकस्या अपि बहूनि नामधेयानि भवन्ति। अपि वा कर्मपृथक्त्वात्। (नि०७।५ ↩︎
-
“१—“तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि।” ( मुण्डकोपनिषद् १।२।१ ↩︎
-
“तथा च पातञ्जलं महाभाष्यम्— “वेदमधीत्य त्वरिता वक्तारो भवन्ति। वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः। अनर्थकं व्याकरणमिति।” (पस्पशाह्निके ↩︎
-
“स एष निबन्धः काशिक-राजकीय-संस्कृत महाविद्यालयस्य ‘सारस्वती सुषमा’पत्रिकाया द्वितीयतृतीयवर्षयोरङ्कयोः प्रथमवारं प्रकाशितः किञ्चित्परिवर्तनेनात्र पुनः प्रकाश्यते।” ↩︎
-
“प्रथमसमावर्तनसत्रे कुलपतिस्तत्समये महाविद्यालयाध्यक्षः श्रीमङ्गलदेवशास्त्री एतद्ग्रन्थकर्ता।” ↩︎
-
“प्रथमसमावर्तनसत्रे महामहोपाध्यायः श्रीविधुशेखरशास्त्रिभट्टाचार्यःप्रवक्तासीत्।” ↩︎
-
“आर्यपुत्रेति रामं प्रति सीतायाः संबोधनम्।” ↩︎
-
“तथा हि " ↩︎
-
“इवार्थे व-शब्दः।” ↩︎
-
“इवार्थी व-शब्दः।” ↩︎
-
“उत्कुटिकासनं नामासनविशेषः।” ↩︎
-
“वाराणसेय राजकीय सं० महाविद्यालयस्याध्यक्षरूपेण ग्रन्थकर्त्रा संपादितानामनेकेषां ग्रन्थानां नात्रोल्लेखः क्रियते।” ↩︎