लघुकथासङ्ग्रहः ६

[[लघुकथासङ्ग्रहः ६ Source: EB]]

[

मत्स्यकन्या

धवलगिरिराजः वीरसिंहः कदाचित् सायङ्काले राजोद्याने विहरन् आसीत् । तदा कश्चन रक्षकभटः समीपम् आगत्य विनयेन नमस्कृत्य निवेदितवान्—“महाप्रभो! भवतः दर्शनार्थं कश्चन धीवरः आगतः अस्ति । भवद्दर्शनं कर्तुम् इच्छति च” इति ।

तदा महाराजः असमाधानेन उक्तवान्—“धीवरः वा? विहारसन्दर्भे किं दर्शनम् ? श्वः सभासन्दर्भे आगन्तुं सूचयतु” इति ।

भटः ततः निर्गत्य क्षणकालानन्तरं पुनः आगत्य—“महाराजाय कोऽपि अपूर्वः विषयः निवेदनीयः अस्ति। एतदर्थम् एव अहं सुदूरात् ग्रामतः दिनद्वयं यावत् पादसञ्चारं कृत्वा आगतवान् अस्मि । सः तावन्मुख्यः विषयः यत् मया इदानीम् एव राजा निवेदनीयः इति वदति सः धीवरः” इति निवेदितवान् ।

वीरसिंहः असमाधानेन एव—“अस्तु तर्हि तम् अत्र प्रेषयतु” इति उक्तवान् ।

किञ्चित्कालानन्तरं पञ्चविंशतिवर्षीयं धीवरयुवकं महाराजसमीपम् आनीय प्रतिगतवान् रक्षकभटः ।

धीवरः युवकः महाराजं नमस्कृत्य—“मम नाम सिंहाचलः इति, महाप्रभो!” इति उक्तवान् ।

वीरसिंहः तं परीक्षादृष्ट्या पश्यन्—“भवान् सिंहाचलः वा भवतु, गरुडाचलः वा भवतु, मम किं तेन ? नामनिवेदनार्थम् एव अत्र आगतवान् वा भवान् ?” इति पृष्टवान् ।

“क्षन्तव्यः अहं महाप्रभो! विहारसमये दर्शनार्थं न आगन्तव्यम् इति अहं जानामि । महत्त्वपूर्णः विषयः निवेदनीयः इत्यतः अहम् इदानीम् आगतवान् । मम ग्रामसमीपे समुद्रतीरे मत्स्यकन्या अस्ति” इति उक्तवान् सः धीवरयुवकः ।

“मत्स्यकन्या ! कुत्र दृष्टा सा ?” इति आश्चर्यपूर्णः उद्गारः सहजतया आगतः

वीरसिंहस्य मुखतः ।

“मम ग्रामसमीपे एव ! मया सह वार्तालापं कृतवती सा। ‘लोके यत् यत् प्रवर्तते तत्सर्वं वदामि’ इति वदति सा” इति उक्तवान् सः धीवरयुवकः ।

“मत्स्यकन्या भवता दृष्टा, तया सह वार्तालापः अपि कृतः! अत्याश्चर्यकरम् एतत् । सा कथम् अस्ति ? किं सम्भाषणं प्रवृत्तम् ? निस्सङ्कोचं वदतु भवान्” इति कुतूहलेन उक्तवान् वीरसिंहः ।

तदा सिंहाचलः निवेदितवान्—“गतसप्ताहे कदाचित् भोजनं समाप्य अहं मध्याह्नसमये समुद्रप्रयाणार्थम् उद्युक्तः । तदा वृक्षाणां मध्यतः किलकिलेति हासध्वनिः श्रुतः। अहं तत्समीपं गत्वा दृष्टवान्। तत्र कटिपर्यन्तं स्त्रीरूपिणीं ततोऽप्यधः मीनशरीरवतीं काञ्चित् मत्स्यकन्याम् अहं दृष्टवान्। सा समुद्रात् उत्थाय वृक्षाणां मध्ये सञ्चरन्ती आसीत् ।

सा मत्स्यकन्या मां दृष्ट्वा—“किं भोः, प्रपञ्चः एव अत्र भूमौ सुखेन अस्ति। भवान् तु तत्र समुद्रं गच्छति? तत्र गत्वा किं जानाति ?” इति पृष्टवती ।

अहं विचित्ररूपिणीं तां मत्स्यकन्याम् आश्चर्येण पश्यन्—“तत्पार्श्वेस्थितायां भूमौ जीवितुम् एतत्पार्श्वे स्थितः समुद्रः एव शरणं मम । भवती तु समुद्रवासिनी। भूमौ निवसतां जनानां कष्टकार्पण्यं भवती किं जानाति?” इति पृष्टवान्।

तदा सा मत्स्यकन्या मधुरं हसन्ती—“मां किमिति चिन्तयति? समुद्रे निवसन्ती अपि अहं प्रपञ्चे कोणे कोणे यद्यत् प्रवर्तते तत्सर्वं वक्तुं शक्नोमि” इति उक्तवती ।

“एवं वा ? एवं तर्हि एतत्समये वीरसिंहमहाराजः किं कुर्वन् अस्ति इति वदतु, पश्यामि” इति उक्तवान् अहम् ।

मत्स्यकन्या क्षणकालं नेत्रे निमील्य, पुनः उद्घाट्य—“इदानीं भवतः वीरसिंहमहाराजः महाराज्ञीम् इतोऽपि पायसम् अपेक्षितम्’ इति वदन् अस्ति” इति उक्तवती ।

“भवती किमपि उक्तवती । तत् सत्यम् इति कथं विश्वसिमि अहम् ? अस्तु तावत्,

पश्यामि” इति उक्त्वा अहं मीनग्रहणार्थं समुद्रं प्रविष्टवान् । कार्यं समाप्य यदा अहं तीरं प्राप्तवान् तदा अपि सा मत्स्यकन्या तत्रैव आसीत् ।

** सा मां दृष्ट्वा—“भवतः महाराजः इदानीं राज्ञयापरिविष्टं हरिणमांसोपेतं सारम् आकण्ठं भुक्त्वा ‘पर्याप्तम्’ इति वदन् अस्ति । मया यदा दिव्यदृष्ट्या दृष्टं तदा सर्वदा भवतः महाराजः भोजनं कुर्वन् अस्ति। तस्य भोजनं विना अन्यत् कार्यं नास्ति इति भाति” इति उक्त्वा समुद्रं प्रविश्य अदृश्यतां गता ।**

** तद्दिने रात्रौ यथापूर्वम् अहं शयनं तु कृतवान्, किन्तु मत्स्यकन्यायाः विषयम् एव चिन्तयतः मम निद्रा न आगता एव । ‘मत्स्यकन्यातः मम किमपि प्रयोजनं न स्यात्, तथापि एतं विषयं महाराजाय यदि निवेदयेयं तर्हि तस्य उपकाराय भवेत् । शत्रुराजानां चलनवलनानि, द्रोहिणां कुतन्त्राणि, दुष्टानां दुराचाराः इत्यादयः पूर्वम् एव ज्ञातुं शक्यते चेत् देशस्य एव हितं किल ?’ इति चिन्तयन् अहं भवतः समीपं प्रति प्रस्थितः ।**

** अत्र आगन्तुं मम ग्रामतः समीचीनः मार्गः नास्ति तथापि महता श्रमेण अत्र आगतवान्” इति ।**

** सिंहाचलेन उक्तं सर्वं श्रुत्वा राजा आश्चर्यचकितः । तस्य कुतूहलः अपि प्रवृद्धः। ‘यदा अहं भोजनं करोमि तत्सन्दर्भे तत्र बाह्यः कोऽपि न भवति। तथापि राज्ञीं प्रति मया यत् उक्तम्, इतोऽपि पायसम् अपेक्षितम् इति, हरिणमांसोपेतः सारः पर्याप्तः इति च, तत् मत्स्यकन्यया कथं ज्ञातम् ? सा निश्चयेन दिव्यदृष्टियुता एव’ इति आलोचितवान् महाराजः ।**

** सिंहाचलः महाराजं पुनः एकवारं नमस्कृत्य—“महाराज ! ग्रामं प्रतिगन्तुम् अनुज्ञादानेन अनुग्रहणीयः अहम्” इति प्रार्थितवान् ।**

** ‘अस्तु, भवान् गच्छतु। अहं द्वित्रेषु दिनेषु भवतः ग्रामम् आगमिष्यामि’ इति उक्त्वा वीरसिंहः सेवकम् आहूय—“एतस्मै सिंहाचलाय शतं सुवर्णनाणकानि दत्त्वा प्रेषयतु” इति आज्ञापितवान् ।**

** अनन्तरदिने एव वीरसिंहमहाराजस्य**

प्रयाणम् आरब्धम्। केचन सैनिकाः त्वरया सिंहाचलस्य ग्रामं गत्वा राजपरिवारस्य वसत्यर्थं समुद्रतीरे पटमण्डपान् निर्मितवन्तः । अन्ये केचन राजधानीतः तत्कुग्रामपर्यन्तं राजप्रयाणयोग्यम् उत्तमं मार्गं निर्मितवन्तः ।

** राजधानीतः महाराज्ञ्या सह प्रस्थितः महाराजः द्वितीये दिने तं ग्रामं प्राप्तवान् । मत्स्यकन्या यत्र दृष्टा तं प्रदेशं प्रति महाराजं नीत्वा सिंहाचलः उक्तवान्—“महाराज ! मया अत्र एव मत्स्यकन्यया सह वार्तालापः कृतः” इति।**

** तद्दिने अनन्तरदिने वा वीरसिंहः मत्स्यकन्यां न दृष्टवान् । एवम् एव चत्वारि दिनानि अतीतानि । तथापि मत्स्यकन्यायाः दर्शनं नास्ति । इतः परम् अत्र निवासेन प्रयोजनं नास्ति इति विचिन्त्य महाराजः राजधानीं गन्तुम् उद्युक्तः । तत्समये सिंहाचलः महाराजम् एकान्ते दृष्ट्वा उक्तवान्—“महाप्रभो ! मद्विषये भवान् यदि न कुप्येत् तर्हि अहं वस्तुस्थितिं निवेदयितुम् इच्छामि” इति ।**

** “वस्तुस्थितिः ? निवेदयतु, यदि सः विषयः क्षमार्हः स्यात् तर्हि क्षमा अस्ति एव” इति उक्तवान् महाराजः ।**

** “मत्स्यकन्या मया कल्पनया सृष्टा । वस्तुतः सा नास्ति एव । मया सा न दृष्टा अपि” इति उक्तवान् सिंहाचलः ।**

** वीरसिंहः कोपमिश्रितेन आश्चर्येण पृष्टवान्—“एतादृशीम् असत्यकथां किमर्थं कल्पितवान् ?” इति ।**

** तदा सिंहाचलः भीत्या एव सर्वं निवेदितवान्—“महाराज्ञ्याः आप्तसेविकायाः लवङ्गीनामिकायाः दास्याः जन्मस्थलं एषः एव ग्रामः । सा मम समीपबन्धुः अपि ।**

** अहं तां परिणेतुम् इच्छामि। आवयोः परिणयविषये ज्येष्ठैः अनुमतिः दत्ता अस्ति अपि । लवङ्ग्याः मातापितरौ राजधान्यां निवसतः। ‘विवाहानन्तरं भवद्गृहे स्थातव्यं भवति । इतः मातृगृहं गन्तुं महत् कष्टं भविष्यति। यतः भवतः ग्रामतः राजधानीं प्रति सामान्यः मार्गः अपि नास्ति । अतः विवाहानन्तरकालीनं जीवनं कष्टकरम् एव’**

इति कदाचित् खेदेन उक्तवती लवङ्गी ।

** तदा अहम्—“महाराजः यदि कदाचित् अत्र आगच्छेत् तर्हि इतः राजधानीपर्यन्तम् उत्तम मार्गः निर्मितः भवेत्” इति उक्तवान् ।**

** “भवदुक्तं सत्यम् एव । किन्तु महाराजः किमर्थं वा कोणे स्थितम् एतं ग्रामम् आगच्छेत् ?” इति पृष्टवती लवङ्गी।**

** अहम् एतदनन्तरं बहु चिन्तितवान् । अन्ते कुत्रापि श्रुतां कथां स्मरन् मत्स्यकन्यायाः कथाम् उपकल्पितवान्” इति ।**

** सिंहाचलेन उक्तं सर्वम् आसक्त्या श्रुत्वा वीरसिंहः हसन् पृष्टवान्—“अहं कुपितः भवेयम् इति जानन् अपि भवान् माम् एतावत्पर्यन्तम् आनीतवान् । धैर्यशाली भवान् । तदस्तु, मम राज्याः च मध्ये प्रवृत्तः वार्तालापः भवता कथं ज्ञातः ?” इति ।**

** “कदाचित् वार्तालापसन्दर्भे तत् घटनाद्वयम् अपि महाराज्ञी एव लवङ्गीम् उक्तवती आसीत् । लवङ्गी मां तत् उक्तवती । अहम् उपायेन तत् घटनाद्वयं मत्स्यकन्यायाः कथायां योजितवान् । मत्स्यकन्यायाः कथां कल्पयता मया महान् अपराधः कृतः, सत्यम् । किन्तु तेन राजधानीतः मद्ग्रामपर्यन्तम् उत्तमः मार्गः निर्मितः अभवत् । यदि अहं क्षमार्हः तर्हि क्षन्तुम् अर्हति भवान्” इति उक्तवान् सिंहाचलः ।**

** वीरसिंहः क्षणकालं मौनं स्थित्वा तदनन्तरम् उक्तवान्—“भवान् लवङ्गी च चतुरौ। भाविपत्न्याः साहाय्येन भवान् अद्भुतं रूपकम् एव अभिनीतवान् । एतत् यद्यपि औद्धत्यं, तथापि एतेन अहं युक्तं पाठं पठितवान्। यः राजा भवति, तेन तदा तदा देशपर्यटनं करणीयम् । तदा एव सः प्रजानां सुखदुःखादिकं ज्ञातुं शक्नोति । इतः परम् अहं मासे एकवारं वा तत्र तत्र सञ्चारं करिष्यामि । मम कर्तव्यं ज्ञापितवान् भवान् इति । अनन्तरं कण्ठे स्थितम् एकं हारं निष्कास्य सिंहाचलस्य हस्ते अर्पयन्—“भवतोः विवाहार्थम् एतत् मम उपायनम्” इति हसन् उक्तवान् ।**

मन्त्रिणां कुतन्त्रम्

पूर्वं कस्यचित् महाराजस्य आस्थाने दश मन्त्रिणः आसन् । ते सर्वे धनपराः । स्वार्थसम्पादनार्थं ते कार्यं कुर्वन्ति स्म । प्रजानां हितसाधने तेषां न तात्पर्यम् । अतः शीघ्रम् एव राज्यपरिपालने अव्यवस्था उत्पन्ना।

एतस्य अवकाशस्य दुरुपयोगं स्वीकुर्वन् शत्रुराजः एतस्य राज्यस्य उपरि आक्रमणं कृतवान् । केचन मन्त्रिणः रहस्यरूपेण शत्रुसेनायाः साहाय्यं कृतवन्तः ।

यदा पराजयः आसन्नः तदा एव महाराजः मन्त्रिणां वञ्चनां ज्ञातवान् । किन्तु काले अतीते किं वा कर्तुं शक्यते ? असहायः सः पत्न्या, द्विवर्षीयेण पुत्रेण च सह दुर्गं परित्यज्य अश्वम् आरुह्य पलायनं कृतवान् ।

अहोरात्रं प्रयाणानन्तरं ते बहु श्रान्ताः । अतः मरुभूमेः पार्श्वे शिलामयभूमौ प्रयाणं स्थगयित्वा स्थितवन्तः । पार्श्वस्थनद्याः जलंपीत्वा विश्रान्तिम् अनुभूतवन्तः ।

किन्तु अत्रान्तरे अश्वानां खुरपुटध्वनिः तैः श्रुतः । किङ्कर्तव्यतामूढः महाराजः पत्नीं हस्तेन गृहीत्वा बलेन आकृष्यन् पुत्रं तत्रैव त्यक्त्वागुल्मसमूहंप्रविष्टवान् । “आगन्तारः लुण्ठाकाः शत्रुसैनिकाः वा भवेयुः । ते शिशुं नपीडयेयुः एव । यदि शिशुं नयावः तर्हि सः रोदनादिना आवयोः रहस्यस्थितिं सूचयेत् एव” इति चिन्तितवान् आसीत् महाराजः ।

किन्तु प्रवृत्तम् अन्यत् एव । तत्र आगताः लुण्ठाकाः एव । तेषां नायकः निर्जनस्थले स्थितं शिशुं दृष्ट्वा सन्तोषम् अनुभूतवान् । शिशुम् उन्नीय गतवान् च ।

गुल्मसमूहात् बहिः आगतौ महाराजः तत्पत्नी च पुत्रम् अदृष्ट्वा दिगभ्रान्तौ । तत्पत्नी तु उच्चैः रोदनं कर्तुम् आरब्धवती ।

तदा तां सान्त्वयन् महाराजः उक्तवान् “आवाम् इदानीं राज्यभ्रष्टौ । पुनः अद्वितीयः पुत्रोऽपि अदृश्यतां गतः । देवो दुर्बलघातकः । ‘पुत्रः यत्रकुत्रापि भवतु । सः सकुशलं जीवतु’ इति प्रार्थनां विना किम् अन्यत् कर्तुं शक्येत इदानीम् । दुःखं शाश्वतिकं न किल ? कालान्तरे पुत्रः अस्माभिः पुनः प्राप्येत” इति ।

** केषाञ्चित् दिनानाम् अनन्तरं तौ दम्पती बन्धुराजस्य समीपं गतवन्तौ । तस्य बन्धुराजस्य समीपे अपि सैन्यं पर्याप्तमात्रेण अस्ति । तस्य साहाय्येन एषः महाराजः शत्रूणाम् उपरि अकस्मात् आक्रमणं कृतवान् । घोरं युद्धं कृत्वा शत्रुसेनां पराजित्य स्वदुर्गं स्वराज्यं च वशीकृतवान् ।**

** एवं पूर्वस्थितिः यदा प्राप्ता तदा पुत्रविरहवेदनया सः पुनः तीव्रं पीडितः अभवत् । अतः पुत्रान्वेषणार्थं बहुविधप्रयत्नान् कृतवान् । सर्वदिक्षु सेवकान् प्रेषितवान् । किन्तु तेन किमपि प्रयोजनं न सिद्धम् ।**

** एवंस्थिते कदाचित् केचन वणिजः उष्ट्रैः मरुभूमिमार्गेण गच्छन्तः आसन् । तदा केचन लुण्ठाकाः तेषाम् उपरि आक्रमणं कृतवन्तः । उभयोः पक्षयोः मध्ये तीव्रं युद्धम् अभवत् । उभयपक्षे अपि केचन मृताः । तथापि अन्ते जयः वणिक्पक्षस्य एव । ते वणिजः अवशिष्टान् लुण्ठाकान् बद्ध्वा महाराजस्य पुरतः आनीतवन्तः ।**

** वणिजां बुद्धिमत्तां साहसं च ज्ञात्वा महाराजः बहु सन्तुष्टः । उपायनदानैः सः तान् सत्कृतवान् । चोरान् शूलम् आरोपयितुम् आदिष्टवान् च ।**

** यदा भटाः चोरान् वध्यस्थानं नेतुं प्रवृत्ताः तदा सहजतया महाराजस्य दृष्टिः कस्यचित् चोरयुवकस्य उपरि पतिता । सः चोरयुवकः पुष्टः सल्लक्षणोवतः आकर्षकः च आसीत् । अतः सः युवकं स्वसमीपम् आहूय पृष्टवान्—“कः भवान् ? भवतः नाम किम् ?” इति ।**

** “अहम् एतेषां नायकः अस्मि । अजरुद्दीन् इति मम नाम” इति सधैर्यम्**

उक्तवान् सः युवकः ।

** “मम आस्थाने भवते उद्योगं दास्यामि चेत् भवान् तत् कर्तुं सिद्धः वा ? सद्व्यवहारेण जीवितुम् इच्छति वा भवान् ?” इति पृष्टवान् महाराजः ।**

** “प्रभो ! मम पितुः आग्रहेण मया एषा वृत्तिः आश्रिता, न तु स्वेच्छया । अतः उद्योगः दत्तः चेत् निश्चयेन करोमि एव । किन्तु तादृशं भाग्यं मम स्यात् वा ?” इति खेदेन पृष्टवान् अजरुद्दीनः ।**

** इदानीम् अजरुद्दीनः महाराजस्य आस्थाने उद्योगी । स्वसामर्थ्येन सः शीघ्रम् एव महाराजस्य विशेषानुग्रहं सम्पादितवान् । कर्तव्यपालनया सर्वेषाम् आदर्शपात्रम् अभवत् । एवं कालक्रमशः महाराजस्य विश्वासं सम्पादयन् सः कोषाधिकारिपदवीम् अपि सम्पादितवान् ।**

** एतावत्पर्यन्तं इतरे मन्त्रिणः स्वेच्छया कोषागारस्य धनं जलम् इव व्ययीकुर्वन्तः आसन् । इदानीं अजरुद्दीनस्य दक्षताकारणतः परिस्थितिः एवं जाता आसीत् यत् तस्य अनुमतिं विना एकदीनारस्य अपि स्वीकारः अशक्यः एव इति । अतः इदानीं इतरमन्त्रिणां महान् क्लेशः । ते सर्वे एकत्रीभूय निश्चयं कृतवन्तः—‘एषः अजरुद्दीनः अस्माकं मार्गे कण्टकम् इव आचरन् अस्ति । अतः एषः केनापि उपायेन निवारणीयः’ इति ।**

** महाराजस्य अनुपस्थितेः समयं प्रतीक्षमाणाः मन्त्रिणः कदाचित् अजरुद्दीनं भोजनकूटार्थम् आहूतवन्तः । भोजनकूटस्य अन्ते सम्यक् द्राक्षारसं पायितवन्तः । एतेन मदमत्तः अजरुद्दीनः विसंज्ञः अभवत् । तदा ते मन्त्रिणः तं नीत्वा अन्तःपुरे महाराजस्य शय्यायां शायितवन्तः । एतत्कार्यं तथा जागरूकतया कृतवन्तः यत् एतेषां तन्त्रं कोऽपि सेवकः न ज्ञातवान् ।**

** मध्यरात्रे महाराजः शयनगृहं प्रविष्टवान् । ‘शय्यायाम् अन्यः कोऽपि सुप्तः’ इति ज्ञात्वा सः कोपविष्टः अभवत् । सेवकम् आहूय सुप्तः कः इति परीक्षितुम् आदिष्टवान् ।**

** “कश्चित् आकण्ठं पीत्वा विसंज्ञः सन्**

पतितवान् अस्ति” इति उक्तवान् सेवकः ।

तदा ‘किं प्रचलति ?” इति द्रष्टुं रहसि स्थिताः मन्त्रिणः समीपम् आगत्य कुहकस्वरेण उक्तवन्तः—“किम् एतत् ? महाप्रभोः शय्यायां अनामधेयः कश्चित् शयनं करोति ! इतोऽपि अपमाननं किमपि स्यात् वा ?” इति ।

“एतं नीचं शूलम् आरोपयन्तु” इति आज्ञापितवान् महाराजः ।

“एषः एव उचितः दण्डः” इति उक्तवान् प्रमुखः मन्त्री ।

“सत्यं, सत्यम्” इति इतरे मन्त्रिणः शिरः चालितवन्तः ।

अजरुद्दीनः इतोऽपि विसंज्ञावस्थायाम् एव आसीत् । सेवकाः आगत्यतं शय्यातः अधः पातितवन्तः । मन्त्रिणः तस्य मुखं पश्यन्तः—“एषः वा ! ‘महाराजापेक्षया अहम् एव श्रेष्ठः’ इति चिन्तयति स्म एषः । तदनुगुणं फलं प्राप्तवान्” इति सन्तोषेण उक्तवन्तः ।

एतादृश्याम् अवस्थायां स्थितम् अजरुद्दीनम् दृष्ट्वा महाराजः क्षणकालं चकितः । तथापि

सः किमपि अनुक्त्वा मौनं ततः बहिः गतवान् ।

अपरस्मिन् दिने सूर्योदयतः पूर्वम् एव भटाः अजरुद्दीनं वध्यस्थानम् आनीतवन्तः । अजरुद्दीनस्य शूलारोपणं द्रष्टुं बहवः तत्र सम्मिलितवन्तः ।

तदा जनानां मध्यतः कश्चन वृद्धः बहिः आगत्य—“अये पुत्र ! का गतिः प्राप्ता भवता ! जीवता मया भवतः एषा गति द्रष्टव्या वा ?” इति वदन् अजरुद्दीनम् आलिङ्ग्य रोदितुम् आरब्धवान् ।

तत्समये दश मन्त्रिणः अपि तत्रैव आसन् । ‘एषः वृद्धः एव प्रायः लुण्ठाकानां भूतपूर्वः नायकः इति ते चिन्तितवन्तः । प्रधानः मन्त्री तस्य बन्धनार्थम् आज्ञापितवान् । अनन्तरं धावन् महाराजस्य समीपं गत्वा वार्ता निवेदितवान् च। महाराजः कुतूहलेन वध्यस्थानम् आगतवान् ।

महाराजं दृष्ट्वा वृद्धः चोरनायकः पादयोः

पतन् प्रार्थितवान्—“महाप्रभो ! मां मारयित्वा मम पुत्रं बन्धविमुक्तं करोतु । मम पुत्रः देवदूतः । दैवानुग्रहेण प्राप्तः वरप्रसादः एषः” इति ।

** “सर्वे पितरः स्वपुत्रान् देवस्य वरप्रसादेन प्राप्तवान् एव मन्यन्ते किल भोः” इति उपहासपूर्वकम् उक्तवान् प्रधानः मन्त्री ।**

** “प्रभो ! एषः देवपुत्रः यदि न स्यात् तर्हि निर्मानुषमरुभूमौ शिलानां मध्ये कथं प्राप्तः भवेत् ? एषः अजरुद्दीनः मम औरसपुत्रः न । शैशवावस्थायां स्थितः एषः मरुभूमौ शिलानां मध्ये मया प्राप्तः” इति सगद्गदम् उक्तवान् वृद्धः चोरनायकः ।**

** “मरुभूमौ ! शिलानां मध्ये ! किं स्थलं तत् ? कदा प्राप्तः एष ?” इति आश्चर्यः प्रकटयन् पूर्वतनं पुत्रवृत्तान्तं स्मरन् पृष्टवान् महाराजः ।**

** यदा चोरनायकः पूर्वतनं वृत्तान्तं सविस्तरं निवेदितवान् तदा महाराजस्य मनसि निश्चयः अभवत् यत् एषः अजरुद्दीनः आत्मनः पुत्रः एव इति । महाराजः आनन्दाश्रूणि मोचयन् अजरुद्दीनं गाढम् आलिङ्गितवान् । तदनन्तरं पुत्रेण सह वार्तालापसमये मन्त्रिणां कुतन्त्रं सः ज्ञातवान् ।**

** “एतान् दुष्टमन्त्रिणः सर्वान् पर्वतशिखरतः पातयन्तु” इति कोपावेशेन आदिष्टवान् महाराजः ।**

** “पितः ! तिष्ठतु। एते अकार्यं कृतवन्तः स्युः । किन्तु एतेन अस्माकं हितम् एव सिद्धं किल ? एतेन एव भवान् मम परिचयं प्राप्तवान् । अतः मरणदण्डनं न उचितम् इति भाति मम” इति उक्तवान् अजरुद्दीनः ।**

** “एवं तर्हि एतान् कारागारे स्थापयन्तु । आजीवम् एते कारागारसुखम् अनुभवन्तु” इति महाराजः आज्ञां कृतवान् ।**

** एतदनन्तरं पितापुत्रौ सम्भूय सुचारुरूपेण राज्यपालनं कुर्वन्तौ चिरकालं यावत् सुखेन जीवितवन्तौ ।**

मरणशासनम्

गङ्गानगरे रङ्गनाथनामकः एकः धनिकः आसीत् । वृद्धत्वकारणतः तस्य दृष्टिः मन्दा आसीत्। सः इदानीं बधिरः अपि । देहशक्तिः अपि कुण्ठिता जाता।

एकदा रङ्गनाथः ज्येष्टपुत्रं महेशम् आहूयउक्तवान्—“पुत्र ! भवान् मम नेत्रयोः चिकित्सां कारयतु । यावत् जीवामि तावत् अहं पराधीनः भवितुं न इच्छामि” इति ।

महेशः पितुः इच्छां मधुरवचनैः तिरस्कुर्वन् उक्तवान्—“दृष्टिशक्तिः क्षीणा चेत् कः दोषः इदानीम्? भवदीयसेवार्थं तु अहम् अस्मि । भवतः स्नुषा,पौत्राः अपि सन्ति” इति ।

रङ्गनाथः एतद्विषये पुत्रं महेशं पुनः पुनः प्रार्थितवान् । अन्ते पितुः पीडाम् असहमानः महेशः पितरं ग्रामीणस्य कस्यचित् वैद्यस्य समीपं नीतवान्। वैद्येन चिकित्सा आरब्धा ।

रङ्गनाथस्य भाग्येन वैद्यस्य हस्तकौशलेन वा

अल्पे एव काले तदीया दृष्टिः पूर्ववत् एव जाता । सः इदानीं सम्यक द्रष्टुं शक्नोति स्म ।

रङ्गनाथः पुत्रम् उक्तवान्—“पुत्र ! भवान् श्रद्धया चिकित्सां कारितवान् । एतत्कारणतः, एव अहम् इदानीं सम्यक् दृष्टुं शक्नोमि ।”

रङ्गनाथस्य द्वितीयस्नुषा एतत्सर्वं दृष्टवती । सा पतिम् उक्तवती—“पश्यतु भवतः पिता सर्वदा ज्येष्ठपुत्रस्य प्रशंसां करोति । भवता अपि कथञ्चित् पितुः प्रंशसा प्राप्तव्या किल ?”

रङ्गनाथस्य द्वितीयपुत्रः श्यामसुन्दरः पत्न्याः सूचनाम् अङ्गीकृतवान् ।

अनन्तरदिने एव सः नगरं गत्वा एकं प्रसिद्धं वैद्यं गृहम् आनीतवान् ।

वैद्यः रङ्गनाथस्य गृहे एव निवासं कृतवान् । विशेषश्रद्धया औषधोपचारं कृतवान् । एतेन अल्पे एव काले रङ्गनाथस्य बधिरता दूरं गता । इदानीं रङ्गनाथः सम्यक् श्रोतुं समर्थः । अतः

सः द्वितीयपुत्रस्य अपि प्रशंसां कृतवान् ।

** एवम् एव कानिचन दिनानि अतीतानि । एकदा रङ्गनाथः पुत्रद्वयम् अपि आहूय स्वकीयं मरणशासनं प्रदर्शितवान् । तत्र मरणानन्तरं तदीयसम्पत्तेःभूमेः च का व्यवस्था भवेत् इति लिखितम् आसीत् ।**

** मरणशासनपत्रं पठित्वा उभौ अपि पुत्रौ मूर्च्छितौ इव । यतः तत्र “स्वकीया सम्पत्तिः ग्रामे स्थितायै धर्मशालायै समर्पणीया” इति लिखितम् आसीत् ।**

** ‘पितुः समीपे विवादेन कोऽपि लाभः नास्ति’ इति तौ सहोदरौ चिन्तिवन्तौ । अतः तौ ग्रामीणान् प्रमुखान् आहूय प्रार्थितवन्तौ—“भवन्तः सज्जनाः एव अत्र न्यायनिर्णयं कुर्वन्तु । पिता समग्रां सम्पत्तिं धर्मशालायै किमर्थं समर्पितवान् ? किमर्थं वा पुत्रौ आवां वञ्चितवान् इति न ज्ञायते । भवन्तः एवपितरं न्यायम् उपदिश्य आवाम् उद्धरन्तु” इति ।**

** ते ग्रामप्रमुखाः रङ्गनाथसमीपं गतवन्तः । तेषु एकः रङ्गनाथम् उक्तवान्—“रङ्गनाथ ! भवतः एषः निर्णयः न उचितः । पञ्चेन्द्रियेषु समर्थेषु सत्सु यदि कश्चित् मरणं प्राप्नोति, तर्हि तदीयं भाग्यं तत् । भवतः पुत्रौ तु पितृभक्तौ । एकः नेत्रयोः विषये चिकित्सांकारितवान् । अपरः च श्रवणशक्तिविषये । एवं स्थिते पुत्रयोः कृते किमपि अदत्त्वा सर्वस्वस्य अपि दानं करोति इत्यस्य कः अर्थः ?**

किमेतत् उचितं वा ? भवान् एव चिन्तयतु” इति ।

** रङ्गनाथः हसन् उक्तवान्—“चिकित्सया पुत्रौ उपकृतवन्तौ इति तु सत्यम् एव । एतेन एवअहम् इदानीं गृहे यः कोलाहलः प्रचलति तं श्रोतुं शक्नोमि, सर्वं द्रष्टुम् अपि शक्नोमि । एतेन मम निश्चयः दृढः जातः यत् पुत्रयोः दानापेक्षया धार्मिक-सामाजिककार्यार्थं सम्पत्तेः दानम् एव श्रेयस्करम् इति ।”**

** रङ्गनाथस्य एतानि वचनानि श्रुत्वा ग्रामप्रमुखाः चिन्तितवन्तः—“एषः वृद्धः पुत्रयोः विषये किञ्चित् असन्तुष्टः अस्ति” इति । अतः ते महेशं श्यामसुन्दरं च पृष्टवन्तः—“भवन्तौ पितुः वचनानि श्रुतवन्तौ किल?” इति ।**

** महेशः श्यामसुन्दरः च किमपि उत्तरं न उक्तवन्तौ। तौ लज्जया शिरः अवनमय्य स्थितवन्तौ ।**

** तदा रङ्गनाथः पुत्रौ उद्दिश्य उक्तवान्—“खेदः मास्तु । सम्पत्तेः आशया पुत्राः स्वमातापित्रोः सेवां कुर्वन्ति इति तु सर्वैः ज्ञातः एव विषयः । सम्पत्तेः आशाया या सेवा क्रियते तत्र वास्तविकी प्रीतिः न दृश्यते एव । एतां नीतिं पाठयितुम् एव अहम् एतादृशं मरणशासनं लिखितवान् ।**

** एतत् श्रुत्वा पुत्रौ सर्वै ग्रामप्रमुखाः च आश्चर्यचकितया दृष्ट्या रङ्गनाथं दृष्टवन्तः ।**

** रङ्गनाथः पुत्रौ प्रीतियुक्तया दृष्ट्या पश्यन् पुनः उक्तवान्—“मम कथनतः पूर्वम् एव यदि चिकित्सायाः व्यवस्था कृता स्यात् तर्हि अहं बहु सन्तुष्टः अभविष्यम् । किन्तु एवं न कृतम् । मरणशासनतः युक्तः पाठः पठितः किल ? अतः इदानीं तत् परिवर्तयामि । वस्तुतः मदीयाः पुत्रपौत्रादयः एव सम्पत्तिम् अनुभवन्ति चेत् या तृप्तिः, साअन्यया रीत्या न उपलभ्यते एव” इति ।**

** रङ्गनाथस्य वचनानि श्रुत्वा सर्वे ग्रामप्रमुखाः स्वकीयां तृप्तिं सूचितवन्तः ।**

मातङ्गः

** विन्ध्यपर्वतस्य प्रान्ते एकः विशालः सरोवरः । सरोवरस्य तटे प्रशान्ते प्रदेशे एकं गुरुकुलम् । गुरुकुलस्य कुलपतिः मातङ्गः नाम पण्डितः । तस्य आश्रमे अनेके विद्यार्थिनः विद्यार्जनाय वसन्ति । तेषु विद्यार्थिषु केचन धनिकानां पुत्राः । केचन निर्धनिकानां पुत्राः । तेषां मध्ये राजसम्बन्धी विरूपः अपि एकः ।**

** विरूपः बुद्ध्या किञ्चित् वक्रः । सः सर्वेषां विडम्बनं करोति । सः गुरुकुले सर्वदा नियमान् उल्लङ्घयति । मातङ्गः तस्मिन् समये तं निन्दति । विरूपः तु ‘गुरुः मां निन्दति’ इति कुपितः भवति । अतः सहपाठिनां समीपे ‘पङ्गुः गुरुः’ इति गुरोः विडम्बनं करोति । वस्तुतः मातङ्गस्य दक्षिणपादः किञ्चित् ऊनः ।**

** एकस्मिन् दिने मातङ्गः शिष्याणां पाठस्य समाप्तेः अनन्तरं एकां कथां वक्तुम् आरब्धवान् ।**

** पञ्चाशत्-वर्षेभ्यः पूर्वं भैरवानन्दः नाम एकः कुलपतिः आसीत् । सः सर्वशास्त्र-पारङ्गतः मन्त्रवेत्ता च । शिष्याणां विद्याभ्याससमाप्तेः अनन्तरं प्रियशिष्याणां कृते मन्त्ररहस्यम् उपदिशति स्म । एवम् उपदिष्टाः ते एव प्रसिद्धाः मन्त्रवेत्तारः भवन्ति स्म ।**

** भैरवानन्दस्य सुभानुः मातङ्गः इति द्वौ शिष्यौ । तौ शास्त्राभ्यासं समापितवन्तौ । अनन्तरं मन्त्ररहस्य ज्ञातुं तयोः इच्छा जाता । अतः उभौ अपि गुरोः समीपं गत्वा ‘मन्त्रम् उपदिशतु’ इति प्रार्थितवन्तौ । भैरवानन्दः अङ्गीकृत्य तयोः कृते एकप्रकारं मन्त्रम् एव उपदिष्टवान् । तस्य सिद्धिप्रकारम् अपि निवेदितवान् ।**

अनन्तरम् एवम् उक्तवान्—

‘एतेन मन्त्रेण यथेष्टं रूपं प्राप्तुं शक्यम् । किन्तु मन्त्रस्य केचन नियमाः सन्ति । मन्त्रस्य परीक्षार्थं वा, अल्पकारणार्थं वा मन्त्रस्प उपयोगः न करणीयः । कार्यार्थंयत्र मन्त्रस्य बहु आवश्यकता अस्ति तादृशसमये एव मन्त्रः प्रयोक्तव्यः । अपि च, केनापि कारणेन अड्गवैकल्यं भवति चेत् तदा मन्त्रः व्यर्थः भवति । अतः जागरूकतया मन्त्रस्य उपयोगः करणीयः ।’

** गुरुणा उपदिष्टमन्त्रौ तौ सुभानु-मातङ्गौ गुरुं नमस्कृत्य कमपि उद्योगं प्राप्तुं राजधानीं प्रति प्रस्थितौ । मार्गे एका नदी । तां नदीं तीर्त्वा एव राजधानीं प्रति गन्तव्यम् । नाविकः तु अपरस्मिन् तीरे आसीत् ।**

** तदा मातङ्गः सुभानुम् एवम् उक्तवान्—‘तस्मात् तीरात् यः कोऽपि अत्र आगच्छति चेत् नौका अत्र आगच्छति । तावत्पर्यन्तं समयः व्यर्थः । आवां मन्त्रं जानीवः किल ? तेन मन्त्रेण मत्स्यरूपं धृत्वा नदीं तरावः ।’**

** ‘अल्पकार्यार्थं मन्त्रशक्तिः न प्रयोक्तव्या इति गुरोः वचनं विस्मृतं वा ? परीक्षार्थमपि एवं न करणीयम्’ इति उक्तवान् सुभानुः ।**

** तदा मातङ्गः ‘नदीतरणम् अल्पकार्यं न । भवान् नौकया एव आगच्छतु । अहं तु मत्स्यरूपेण नदीं तरामि’ इति उक्त्वा मत्स्यरूपेण नदीं तीर्त्वा तीरं प्राप्तवान् ।**

** किञ्चित्-समयानन्तरं सुभानुः नौकया एव नदीं तीर्त्वा मातङ्गेन सह पुनः राजधानीं प्रति प्रस्थितः । पादाभ्याम् एव गमनं बहु कष्टकरम् इति मातङ्गः चिन्तितवान् ।**

** अतः सः सुभानुं प्रति “आवां पक्षिणोः रूपं धृत्वा शीघ्रम् एव राजधानीं गच्छावः । पादाभ्यां गमनेन बहु श्रमः” इति उक्तवान् ।**

** सुभानुः न अङ्गीकृतवान् । “भवान् बहु भीरुः, अविवेकी च” इति सुभानुं भर्त्सयन् मातङ्गः “अहं शीघ्रं गत्वा राजधान्यां**

प्रतीक्षां करोमि’ इति उक्त्वा पक्षिरूपेण उड्डयितवान् । आकाशमार्गे किञ्चित्-समयम् उड्डीय श्रमपरिहारार्थम् एकस्य वृक्षस्य शाखायाम् उपविष्टवान् । तदा एकः गृध्रः आकाशमार्गे भ्रमन् एनं पक्षिणं दृष्ट्वा पादाभ्यां गृहीत्वा पुनः आकाशे उड्डयितुं प्रवृत्तः ।

** मातङ्गः तदा मानुषरूपम् आश्रितवान् । गृध्रः मानुषरूपेण परिणमन्तं पक्षिणं दृष्ट्वा भीत्या तं त्यक्तवान् । मातङ्गः आकाशात् गुल्मप्रदेशे पतितवान् । अतः तस्य प्राणापायः न अभवत् । किन्तु तस्य दक्षिणपादः भग्नः ।**

** तदा तस्मिन् मार्गे एव आगताः यात्रिकाः मातङ्गं दृष्ट्वा शुश्रूषां कृतवन्तः । कतिपयदिनानाम् अनन्तरं वेदना किञ्चिदिव शान्ता अभवत् । दुःखितः सः गुरोः भैरवानन्दस्य समीपं गत्वा प्रवृत्तं सर्वं वृत्तान्तं निवेदितवान् ।**

** भैरवानन्दः तं समाश्वास्य पादस्य कृते अनेकप्रकारां चिकित्सां कारितवान् । व्रणः सम्पूर्णतया शान्तः । किन्तु मातङ्गः पादेन ऊनः अभवत् । एतेन अङ्गवैकल्येन पूर्वं गुरुणा उपदिष्टः मन्त्रः व्यर्थः अभवत् । सुभानुः राज्ञः आस्थाने उद्योगं प्राप्य गच्छता कालेन उन्नतस्थानम् अपि प्राप्तवान् ।**

** गुरु मातङ्गः कथां समाप्य ‘गुरुणा उक्तान् नियमान् उल्लङ्घ्य मातङ्गः पङ्गुः अभवत् । अपि च मन्त्रेण सिद्धा अपूर्वा शक्तिः अपि नष्टा । सः मातङ्गः अहम् एव । गुरोः विषये यस्य गौरवभावना नास्ति सः पण्डितः अपि तिरस्कारार्हः’ इति उक्त्वा कुटीरं प्रविष्टवान् ।**

** कथां श्रुत्वा विरूपः ततःप्रभृति कदापि गुरुकुलस्य नियमान् न उल्लङ्घितवान् । सहपाठिनां समीपे गुरोः विडम्बनम् अपि न कृतवान् ।**

मानवजन्म

पूर्वं ब्रह्मदत्तः काशीराज्यं परिपालयति स्म । तस्मिन् काले बोधिसत्वः मगधराज्ये निर्धनिकरूपेण जन्म प्राप्तवान् । सः राजपरिवारे सेवकः भूत्वा जीवनं यापयति स्म ।

** मागधदेशस्य पार्श्वे अङ्गदेशः अस्ति । तयोः मध्ये चम्पानदी प्रवहति । नद्याः तले नागराज्यम् आसीत् । नागराज्येचाम्पेयः राजा आसीत् ।**

** सामान्यतः अङ्ग-मगधदेशयोः मध्ये वैरं सर्वदा अस्ति एव । अतः तदा तदा युद्धम् अपि प्रचलति । एतादृशे एकस्मिन् युद्धे मगधराजः पराजितः । सः अश्वम् आरुह्य युद्धरङ्गात् पलायितः । मार्गे चम्पानदी दृष्टा । ‘शत्रुहस्ते मरणापेक्षया आत्महत्या एव वरम्’ इति चिन्तयित्वा सः अश्वेन सह नदीम् उत्पतितवान् । अश्वः तु साक्षात् नागराज्यं प्रविश्य**

चाम्पेयस्य सभास्थानम् एव प्रविष्टवान् ।

** नागराजः चाम्पेयः झटिति आसनतः उत्थितवान् । आदरपूर्वकं मगधराजस्य सत्कारं कृतवान् । मगधराजस्य सर्वं वृत्तान्तम् अपि श्रुतवान् ।**

** ‘प्रवृत्तस्य विषये चिन्ता मास्तु । अङ्गराजेन सह युद्धे अहं भवतः साहाय्यं करोमि । भवतः एव जयः यथा स्यात् तथा करोमि ।’ इति वचनं दत्तवान् चाम्पेयः ।**

** पुनः युद्धं प्रवृत्तम् । स्ववचनानुसारं चाम्पेयः मगधराजस्य साहाय्यं कृतवान्। अङ्गराजः रणाङ्गणे एव मृतः । मगधराजः उभयोः राज्ययोः अपि अधिपतिः अभवत् ।**

** एतन्निमित्तं चाम्पेयस्य मगधराजस्य च मैत्री गाढा जाता । मगधराजः प्रतिवर्षम् अपि सपरिवारः चम्पानदीतीरं गच्छति स्म । तद्दिने चाम्पेयः उपरि आगच्छति स्म । मगधराजेन दत्तानि धनकनकादीनि उपायनानि अतिथिसत्कारं च स्वीकरोति स्म । एतत् दृश्यं अतिमनोहरं दृश्यते स्म ।**

** बोधिसत्वः मगधराजस्य सेवकः आसीत् किल ? सः प्रतिवर्षम् अपि चाम्पेयस्य वैभवं पश्यन् आसीत् । मरणसमये अपि तस्य मनसि चाम्पेयस्य अतुल-वैभवस्य एव चिन्ता । अतः अपरजन्मनि सः बोधिसत्वः सर्पाणां कुले जन्म प्राप्तवान् । अनन्तरं सः एव नागानां राजा अपि अभवत् ।**

** पूर्वजन्मसु बोधिसत्वस्य शरीराणि सुन्दराणि आसन् । अस्मिन् जन्मनि असुन्दरं सर्पशरीरम् ! अतः बोधिसत्वः जुगुप्सितः । ‘मया वराकेण अविचार्य नागराजस्प ऐश्वर्यविषये आशा प्रदर्शिता । अतः मया एतादृशी दुर्गतिः प्राप्ता ।’ इति सः पश्चात्तापम् अनुभूतवान् ।**

** ‘आत्महत्यया एतत् जन्म समापयामि’ इति चिन्तयित्वा सः आत्महत्यार्थं सिद्धः । तदा तत्र सुमना नाम नागकन्यका सखीभिःसह आगत्य प्रणामं कृतवती ।**

** सुमनां दृष्ट्वा नागराजस्य जीविते आशा पल्लविता । आत्महत्याविचारं त्यक्त्वा सः सुमनां परिणीतवान् । पुनः नागलोकं गत्वा राज्यपालनं कर्तुम् आरब्धवान् ।**

** ‘एतत् शरीरम् अशाश्वतम् । अतः मया ‘व्रतोपवासादिभिः पुण्यं सम्पादनीयम् । तदर्थम् अहं गुप्तरूपेण मानवानां लोकं गच्छामि’ इति सः कदाचित् निश्चितवान् ।**

** एतदनुसारम् उपवासदिनेषु सः मानवलोकम् आगच्छति स्म। राजमार्गपार्श्वे वल्मीकस्य उपरि पतित्वा ‘मां गरुडः नयतु । अहितुण्डिकः वा मां गृह्णातु । मम शरीरेण यस्य कस्यपि प्रयोजनम् भवतु’ इति चिन्तयति स्म ।**

** किन्तु प्रवृत्तम् अन्यत् एव । वल्मीकस्य उपरि शान्तं स्थितं सर्पं जनाः दृष्टवन्तः । जनाः क्षीर-पुष्प-चन्दनादिभिः पूजयितुम् आरब्धवन्तः । एतावत् एव न, समीपग्रामवासिनः सर्वे मिलित्वा एकं मन्दिरम् अपि निर्मितवन्तः । प्रतिदिनम् अपि सहस्रशः जनाः तत्र आगत्य, आरोग्यभाग्यं, पुत्रसौभाग्यं, व्याधिनिवारणम् इत्यादिकं प्रार्थयन्ति स्म ।**

** केषाञ्चित् प्रार्थना फलिता । एतेन सर्वत्र प्रचारः अपि अधिकः जातः । नागराजस्य उपवासदिनानि एवम् एव गतानि । प्रतिमासं कृष्णपक्षस्य प्रथमातिथ्यां केवलं सः गृहं गच्छति स्म ।**

** पत्नी सुमना पत्युः भूलोकगमनवार्तां ज्ञातवती । सा एकदा पतिं पृष्टवती—‘आर्य ! तदा तदा भूलोकगमनं न उचितम् । सः लोकः अपायकारी । तत्र कदा किं भवति इति वक्तुं न शक्यते । कदाचित् भवताम् आपत् आगता चेत् वयं कथं जानीमः ?’ इति ।**

** नागराजः सुमनाम् एकस्य सरोवरस्य समीपं नीतवान् । सरोवरं प्रदर्श्य उक्तवान्—‘अत्र पश्यतु, मम किमपि ब्रणादिकं जातं चेत् एतस्य सरोवरस्य जलं मलिनं भविष्यति । गरुडः मां नयति चेत् जलं सर्वं शुष्कं भविष्यति । कदाचित् मान्त्रिकः अहितुण्डिकः वा मां नयति चेत् जलं रक्तमयं भविष्यति । एतेन भवती सर्वदा मम योगक्षेमं ज्ञातुं शक्नोति’ इति ।**

** काशीनगरवासी कश्चित् तक्षशिलां गत्वा महता श्रमेण वशीकरणविद्यां पठित्वा, स्वदेशम् आगच्छन् आसीत् । सः मार्गपार्श्वे सुप्तं नागराजं दृष्टवान् ।**

** सः युवकः मन्त्रबलेन सर्पं बद्ध्वा कण्डोलेस्थापितवान् । तं सर्पं ग्रामं नीतवान् । तत्र सर्पक्रीडायाः प्रदर्शनं कृतवान् । युवकस्य इच्छानुसारं नागराजेन क्रीडनीयम् आपतितम् ।**

** नागराजस्य क्रीडां द्रष्टुं ग्रामस्थाः मिलिताः। चित्रविचित्रां क्रीडां दृष्ट्वा सर्वे जनाः सन्तुष्टाः। ते सर्वे ब्राह्मण-युवकाय धनम् अमूल्यवस्तूनि च दत्तवन्तः ।**

** ‘अस्मिन् कुग्रामे एव एतावत् सम्पादनं चेत् नगरे बहु धनं अवश्यं मिलेत् एव । अतः अहं अद्य एव नगरं गच्छामि।’ इति ब्राह्मणः चिन्तितवान् । अनन्तरं सः नागराजं स्वीकृत्य एकमासाभ्यन्तरे नगरं प्राप्तवान् ।**

** एकमासपर्यन्तं नागराजः उपवास एव कृतवान् । ब्राह्मणेन दत्तम् आहारं न स्वीकृतवान् एव ।**

** ‘अहम् आहारं स्वीकरोमि चेत् पुनः एतद्युवकतः मम मोक्षः एव न भविष्यति’ इति नागराजः चिन्तितवान् ।**

** ब्राह्मणयुवकः काशीनगरसमीपे ग्रामेषु नागराजस्य क्रीडां प्रदर्श्य यथेष्टं धनं सम्पादितवान् ।**

** नागराजस्य क्रीडाविनोदान् काशीराजः अपि श्रुतवान् । सः ब्राह्मणयुवकम् आस्थानम् आहूतवान् । क्रीडायाः प्रदर्शनार्थं व्यवस्थां कृतवान् ।**

** अत्र नागलोके एकमासपर्यन्तम् अपि नागराजस्य अनागमनं ज्ञात्वा सुमना भीता । ‘पत्युः किं कष्टं जातम्’ इति ज्ञातुं सा सरोवरसमीपं गतवती । सरोवरे जलं रक्तवर्णं**

दृश्यते स्म । कोऽपि अहितुण्डिकः पतिं बद्धवान्’ इति सा ज्ञातवती । अतः सा पतिम् अन्वेष्टुं प्रस्थिता । तत्र तत्र जनान् पृष्ट्वा पृष्ट्वा सा काशीनगरं प्राप्तवती ।

सा काशीनगरे ब्राह्मणसमीपे क्रीडन्तं स्वपतिं दृष्टवती । राजा प्रजाः च सन्तोषेण क्रीडां पश्यन्तः आसन् । अकस्मात् आगतां पत्नीं दृष्ट्वा नागराजः लज्जितः । सः झटिति कण्डोलं प्रविष्टवान् ।

तदा सुमना मानवरूपं धृत्वा राजानं नमस्कृत्य प्रार्थितवती—‘महाप्रभो ! मम कृते पतिभिक्षां ददातु’ इति ।

तावति काले, नागरूपेण स्थितः नागराजः सुन्दरस्य नवयुवकस्य रूपं धृत्वा स्थितवान् । एतत् दृष्ट्वा जनाः सर्वे आश्चर्यचकिताः ।

काशीराजः रमणीये दम्पती दृष्ट्वा सन्तुष्टः । एकसप्ताहपर्यन्तं तयोः सत्कारं कृतवान् । अनन्तरं परिवारसहितः ताभ्यां सह

नागलोकम् अपि गतवान् । नागलोकस्य ऐश्वर्यं वैभवं च दृष्ट्वा काशीराजः अतीव सन्तुष्टः । तस्य आश्चर्यस्य तु सीमा एव नास्ति ।

‘नागलोके एतादृशं वैभवं अस्ति । एतत्सर्वं त्यक्त्वा भवान् किमर्थं भूलोके वल्मीकस्य उपरि निवसति स्म ?’ इति काशीराजः नागराजं पृष्टवान् ।

‘महाराज ! अत्र नागलोके यथेष्टं वैभवम् अस्ति, सत्यम् । किन्तु मोक्षः प्राप्तव्यः चेत् मानवलोकः एव शरणम्’ इति नागराजः उक्तवान् ।

एतत् श्रुत्वा काशीराजः अतीव सन्तुष्टः । ‘भवतः परिचयतः अहम् अस्माकं लोकस्य माहात्म्यं ज्ञातवान्’ इति सः उक्तवान् । नागराजः यथेष्टां सम्पत्तिं दत्वा काशीराजं सम्मानितवान् ।

मार्गदर्शकः

पूर्वं रामपुरग्रामे वल्लभदेवः कृषिकः आसीत् । तस्य एकमात्रपुत्रः शिवः ।शिवः बाल्यात् अपि अतीव अलसः । विद्यार्जने कृषिकार्ये च अनासक्तः सः अप्रयोजकः अभवत् । सः प्रतिदिनम् आकण्ठं भुक्त्वा सम्यक् निद्रां करोति स्म । जनाः तम् ‘अलसः शिवः’ इत्येव आहृयन्ति स्म । वल्लभदेवः तु “तारुण्ये प्राप्ते सत्यपि पुत्रस्य आलस्यप्रवृत्तिः न दूरङ्गता किल” इति सङ्कटम् अनुभवतिस्म ।

एवं कालचक्रं चलति स्म । कदाचित् वल्लभदेवस्य परमाप्तमित्रस्य प्रभुदेवस्य महत् सङ्कटं संप्राप्तम् । तस्य पुत्र्याः विवाहः निश्चितः आसीत् \। वरः नगरे उद्योगी । सःवरदक्षिणारूपेण धनम् एव इच्छति, न तु भूमिम् । प्रभुदेवः एतत् अङ्गीकृतवान् आसीत् । प्रभुदेवः चिन्तितवान्—‘मम तुसुवर्णसदृशी फलवती भूमिः । अहं यदा कदा वा तां विक्रेतुं शक्नोमि । जनाः अहमहमिकया आगत्य भूमिं क्रेष्यन्ति” इति । अतः सः भूमेः विक्रयणविषये विलम्बम् आचरितवान् । विवाहः यदा समीपम् आगतः तदा सः भूमिं विक्रेतुं प्रयत्नम् आरब्धवान् । तदा जनाः सन्दर्भस्य दुरुपयोगं स्वीकुर्वन्तः अतिन्यूनमूल्येन भूमिं पृष्टवन्तः ।

तदा किंकर्तव्यतामूढः प्रभुदेवः वल्लभदेवस्य समीपम् आगत्य सर्वंनिवेदितवान् । वल्लभदेवः अपि इदानीं किं करणीयम् इति न जानाति । तदा सर्वं शृण्वन् मञ्चे एव सुप्तः शिवः उक्तवान्—“अत्र चिन्तयितुं किम् अस्ति ? भवतः भूमेः पार्श्वे एव ग्रामाधिकारिण भूमिः अस्ति । तस्मै सर्वांपरिस्थितिं निवेदयतु । सः एव भवतः भूमिं युक्तमूल्येन क्रेष्यति । महताम् आचारः अपि महान् एव”

इति ।

** “तदपि सत्यम् । एषः विचारः मम मनसि न आगतः एव” इति वदन् प्रभुदेवः त्वरया ततः गतवान् ।**

** ग्रामाधिकारी सरलः सज्जनः आढ्यः च आसीत् । तस्य समीपे आगताः याचकाः कदापि रिक्तहस्तेन न प्रतिनिवर्तन्ते स्म । तस्य गृहम् आगताः अतिथयः अपि आकण्ठम् भुक्त्वा योग्यं सम्माननं च लब्ध्वा एव प्रतिष्ठन्ते स्म । दैवनुग्रहेण पुत्राः अपि विनीताः, पत्नी अपि अनुकूला आसीत् । अतः उदारी ग्रामाधिकारी इत्येव सर्वे ग्रामीणाः कथयन्ति स्म ।**

** प्रभुदेवः यदा ग्रामाधिकारिणः गृहं प्राप्तवान् तदा सः आसन्दे उपविष्टः आसीत् । प्रभुदेवं दृष्ट्वा सः उत्थाय स्वागतं कृत्वा आसने उपवेश्य कुशलवार्तां पृष्टवान् । तदा प्रभुदेवः स्वीयं सर्वं वृत्तान्तं निवेद्य साहाय्यं याचितवान् । अनन्तरं प्रभुदेवस्य भूमिं ग्रामाधिकारी युक्तमूल्येन क्रीतवान् । निश्चिते मुहूर्ते विवाहः निर्विघ्नं सवैभवं च समाप्तः । प्रभुदेवः शिवस्य सामयिकीं सूचनां बहु श्लाघितवान् ।**

** कानिचन दिनानि अतीतानि । एकस्मिन् दिने पुनः वल्लभदेवः प्रभुदेवः च मिलितवन्तौ । परस्परवार्तालापसन्दर्भे वल्लभदेवः “मम पुत्रः शिवः अप्रयोजकः अभवत् किल” इति स्वकीयं दुःखं निवेदितवान् । किञ्चित् कालं तूष्णीम् उपविश्य प्रभुदेवः उक्तवान्—“शिवः अलसः स्यात् नाम । किन्तु तस्य सूक्ष्मा बुद्धिशक्तिः अस्ति । अहं तं कथञ्चित् उद्योगिनं करिष्यामि” इति ।**

** अनन्तरं प्रभुदेवः शिवम् उत्थाप्य—“अरे शिव ! सर्वे अपि भवन्तम् अलसः अप्रयोजकः इति वदन्ति । श्रोतुं लज्जा न भवति वा ?” इति ।**

** शिवः नेत्रं निमील्य एव उत्तरं दत्तवान्—“तेषां वचनेषु तथ्यम् अस्ति । अहं निश्चयेन अप्रयोजकः सत्यश्रवणेन कोपः किमर्थम् ?” इति ।**

** “तत् किमपि भवतु । मम दृष्ट्या तु**

भवान् योग्यः समर्थः च । भवता सूचितेन विचारेण एव मम समस्या परिहृता । अद्य आरभ्य भवान् ‘सर्वेभ्यः दुःखपरिहारार्थं सूचनादानम् एव मम कार्यम्’ इति चिन्तयतु, तथैव आचरतु च । प्रयोजनं प्राप्य जनाः यथाशक्ति धनं यच्छन्ति । एवं भवतः अपि लाभः, अन्येषामपि प्रयोजनम्” इति उक्तवान् प्रभुदेवः ।

** तदा शिवः उक्तवान्—“भवान् वृथा मम विषये अधिकं चिन्तयति । वस्तुतः मयि काऽपि शक्तिः नास्ति । न अहं मेधावी अपि” इति ।**

** “तत्सर्वस्य निर्णयं वयं कुर्मः । किञ्चित् कालं यावत् अहं यथा वदामि तथा आचरतु” इति प्रभुदेवः उक्तवान् ।**

** अनन्तरं सः गृहस्य पुरतः एव शिवाय एकां शय्यां विरचय्य तत्रैव शयनं कर्तुं शिवं सूचितवान् । एकस्मिन् फलके “अत्र कालानुकूलाः सूचनाः दीयन्ते” इति विलिख्य शिवस्य मञ्चस्य समीपे स्थापितवान् । प्रभुदेवः अपि तेन सह उपविष्टवान् । गमनागमनसमये जनाः तत्फलकं दृष्ट्वा उपहासं कृतवन्तः । एकः अपि प्रष्टा न आगतवान् ।**

** “कः एषः असङ्गतः व्यवहार ? किमर्थं वा मां सुखेन शयनं कर्तुम् अपि न त्यजति भवान् ?” इति शिवः उदासीनतां प्रकटयन् उक्तवान् ।**

** “शिव ! त्वरा मास्तु । भवता सह अहम् अपि उपविशामि किल ? किञ्चित्कालपर्यन्तं निरीक्षणं कुर्मः । जनाः आगमिष्यन्ति एव” इति उक्तवान् प्रभुदेवः ।**

** परेद्युःकश्चन गोपालः तेन मार्गेण गच्छन् आसीत् । तत् फलकं दृष्ट्वा सः “किम् एतत् ?” इति पृष्टवान् ।**

** प्रभुदेवः उक्तवान्—“अत्र दुःखतप्तानां दुःखस्य परिहारार्थं मार्गः सूच्यते । तदर्थं यथाशक्ति धनं दातव्यम्” इति ।**

** “एवं वा ?” इति उद्गारं प्रकटयन् गोपालः उक्तवान्—“अस्माकं ग्रामेमेषाणाम् आहारार्थं तृणानि न सन्ति । अतः वयं सर्वे**

इदानीं ग्रामं परित्यज्य दूरस्थं पर्वतप्रान्तम् आश्रितवन्तः । किन्तु तत्र वृकेभ्यः भयम् । सर्वे वयं जागरूकतया उपविश्य अहोरात्रं रक्षणं कुर्मः । तथापि केनापि उपायेन अस्माकं वसतिं प्रविश्य वृकाः मेषान् उन्नीयं गच्छन्ति । वृकाणां पीडा कथं निवारणीया इति न जानीमः” इति ।

शिवः भित्तिम् अवलम्ब्यउपविष्टः एव उक्तवान्

—”

भोः ! सर्वेषां जागरणं किमर्थम् ? प्रतिदिनं भवत्सु एकः जागरूकतया स्थित्वा रात्रौ ढक्कां वादयतु । शब्देन वृकाः समीपं न आगच्छन्ति । पर्यायक्रमेण प्रतिदिनम् एकः ढक्कां वादयतु । इतरे निद्रां कुर्वन्तु नाम" इति ।

"

अहो ! युक्तः परिहारः । हन्त, मन्दबुद्धेः मम एषः उपायः न स्फुरितः" इति उक्त्वा गोपालः अर्धरूप्यकं दत्त्वा गतवान् ।

शिवस्य सूचनया गोपालस्य दुःखं परिहृतम् इति वार्ता सर्वत्र प्रसृता । तद्दिनादारभ्य जनाः समस्यानां परिहारार्थं शिवस्य समीपम् आगन्तुम् आरब्धवन्तः । शिवस्य धनार्जनम्अपि क्रमेण प्रवृद्धम् ।

शिवस्य वार्ता ग्रामाधिकारिणः समीपं गता । सः एतम् आहूय उक्तवान्

—"

शिव, भवान् पीडानां परिहारकथने समर्थः इति श्रुतवान् । मम एका समस्या अस्ति । मम जामाता पानासक्तः जातः । तस्य दुरभ्यासः कथं निवारणीयः ? कमपि उपायं सूचयतु" इति ।

"

स्वामिन् ! एवं करोतु—वैद्यतः वमनकारकम् औषधं स्वीकृत्य मद्ये सम्मिश्र्य ददातु । यदा सः वमनं करोति तदा तमेव वैद्यम् आहूय वमनशङ्कानिवारकम् औषधं दापयतु । अनन्तरं वैद्यः वदतु

—"

मद्यकारणतः एव एवं जातम् । अद्य समये औषधं स्वीकृतम् । अतः भवान् जीवितः । अन्यथा प्राणाषायः भवेत् । इतः परं मद्यपानं सर्वथा न करणीयम्’ इति । एतदनन्तरं भवतः जामाता मद्यं स्प्रष्टुम् अपि न इच्छति" इति शिवः उक्तवान् ।

ग्रामाधिकारी तस्यां रात्रौ तत् नाटकं योजितवान् । नाटकं पूर्णं फलप्रदं जातम् ।

ग्रामाधिकारिणः जामाता प्राणभीत्या मद्यं सम्पूर्णं त्यक्तवान् । सन्तुष्टः ग्रामाधिकारी शतं रूप्यकाणि दत्त्वा शिवं सम्मानितवान् ।

** एतस्याः घटनायाः अनन्तरं मासाभ्यान्तरे एव महाराजः महेन्द्रपालः शिवाय आमन्त्रणं प्रेषितवान् ।**

** यतः—राजा महेन्द्रपालः अस्वस्थः आसीत् । तं विचारं ज्ञात्वा शत्रुराजः विक्रमवर्मा युद्धार्थं सन्नद्धः अभवत् । ग्रामाधिकारिणः महाराजस्य च सम्बन्धः स्नेहयुक्तः अपि आसीत् । ग्रामाधिकारी महाराजाय शिवस्य मार्गदर्शनसामर्थ्यम् उदाहरणपूर्वकं निवेदितवान् । ‘भवतः समस्यायाः अपि ततः परिहारः लभ्येत’ इति सूचितवान् अपि । अतः एव महेन्द्रपालः शिवम् आहूतवान् आसीत् ।**

** आस्थानम् आगतं शिवं महाराजः सर्वंनिवेदितवान् । तत् श्रुत्वा शिवः उक्तवान्—“महाप्रभो, भवतः अस्वास्थ्यं केवलं काल्पनिकम् । वास्तविकी स्थितिः अन्या एव अस्ति । राजा स्वतः युद्धम् उद्घोषयितुं न इच्छति । यदि शत्रुराजः विक्रमवर्मा स्वयं युद्धाय आगच्छति, तदा जेष्यामि इति इच्छया एव स्वयंमहाराजेन एवं वार्ता प्रसारिता अस्ति । राजा तु सङ्गीतसाहित्यनृत्यादिविलासे तु मग्नः अस्ति । वहिः अनारोग्यम् इति वार्ता । अन्तः युद्धस्य सर्वसिद्धता” इति सर्वत्र वार्तां प्रसारयतु । परिणामः किं भवति इति पश्यामः । एतां वार्तां यथा कथञ्चित् शत्रुराजस्य गूढपुरुषान् प्रापयतु । युद्धस्य सर्वसिद्धता अपि प्रचलतु" इति ।**

** राजा महेन्द्रपालः शिवस्य सूचनानुसारं सर्वम् आचरितवान् । स्वगूढपुरुषैः एतं विचारं ज्ञात्वा शत्रुराजः विक्रमवर्मा युद्धसाहसं त्यक्त्वा ससैन्यं स्वनगरीं प्रतिनिवृत्तः ।**

** राजा महेन्द्रपाल बहुसन्तुष्टः अभवत् । शिवं आप्तमन्त्रिस्थाने नियोज्य अधिकं वेतनम् अपि निश्चितवान् । अनन्तरं शिवस्य नाम मन्त्रिशिवाचार्यः इति प्रसिद्धम् अभवत् ।**

मूर्खौवणिजौ

** अनूपनगरे एकः उदारः भूस्वामी आसीत् । वाणिज्यार्थंमूलधनं ये इच्छन्ति तादृशानां कृते सः साहाय्यं करोति स्म । साहाय्यं सम्प्रार्थ्य आगतानां बुद्धिपरीक्षां कृत्वा सः धनं ददाति स्म ।**

** एकदा कुक्कुटाण्डानां वाणिज्यं कर्तुम् इच्छन्तौ मन्देशः मूर्खेशः च भूस्वामिसमीपम् आगतवन्तौ ।**

** तदा भूस्वमी पृष्टवान्—“कुक्कुटाण्डानां विषये आज्ञातः विषयः यदि कोऽपि अस्ति, उच्यताम्” इति ।**

** तदा मन्देशः उक्तवान्—“प्रकाशं वायुं च विना कुक्कुटशावकाः कथम् अण्डे बहुकालं निवसन्ति इति अहं न जानामि” इति ।**

** तदा मूर्खेशः उक्तवान्—“इतोऽपि आश्चर्यकरः विषयः अन्यः अस्ति । शावकः बहिः आगतमनसमये अण्डं भित्वा आगच्छति किल ? किन्तु प्रवेशसमये अण्डम् अभित्वा सः कथं प्रविशति ?” इति ।**

** तदा भूस्वामी हसन्—“अण्डानां वाणिज्ये साफल्यं प्राप्तुं भवन्तौ असमर्थौ । अतः अन्यवाणिज्यं किमपि चिन्तयन्तु” इति उक्त्वा तौ प्रेषितवान् ।**

मूर्खग्रामः

** एकं नगरम् । तत्र कोटीशनामकः कश्चित् वसति स्म । सीताफलं तस्य प्रियं फलम् आसीत् । एकदा सः मार्गे गच्छति स्म । मार्गमध्ये कान्तेशनामकः मिलितवान् । कान्तेशः मासतः पूर्वं दूरदेशतः आगत्य तस्मिन्नेव नगरे वसति स्म । तस्य हस्ते एकम् उत्तमं सीताफलम् आसीत् ।**

** फलं दृष्ट्वा कोटीशः आश्चर्येण ‘अहो ! किम्एतत् ! अकाले सीताफलम् । एतत् फलं भवान् कुत्र लब्धवान् ? प्रायः इदमिदानीमेव वृक्षात् अवचित्य आनीतम् इव दृश्यते भोः !, इति पृष्टवान् ।**

** ‘अत्र आश्चर्यस्य किमस्ति कारणम् ? मम गृहस्य पश्चाद्भागे एकः आम्रवृक्षः अस्ति । तस्मिन् वृक्षे संवत्सरस्य सर्वेषु कालेषु सर्वविधानि फलानि अपि लभ्यन्ते’ इति कान्तेशः उक्तवान् ।**

** ‘नितराम् असम्भवम् एतत् ।’ इति कोटीशः पुनः अधिकेन विस्मयेन उक्तवान् ।**

** ‘किमर्थम् असम्भवम्?’ नित्यानन्दयोगिनः मम गृहम् आगत्य कूपस्य जलं मन्त्रपूतं कृत्वा गतवन्तः । तदारभ्य एवमेव प्रवर्तते । बहवः जनाः आगत्य मम कूपस्य जलं याचन्ति । अहं तु न ददामि इत्येव वदामि । किमर्थम् इति चेत्, यदि मम कूपस्य जलेन सर्वे वृक्षाः सर्वविधानि फलानि दातुं समर्थाः भवन्ति, तर्हि मम वैशिष्ट्यं किं वा स्यात् ? तथा याचना अपि अयुक्ता । अस्य जलस्य दानमपि अयुक्तम्" इति उक्त्वा कान्तेशः अग्रे गतवान् ।**

** कान्तेशस्य गृहं बहुदूरे आसीत् । तथापि तत्र गत्वा तं विचित्रवृक्षं दृष्ट्वा आगन्तव्यम्**

इति कोटीशस्य इच्छा अभवत् । तदेव चिन्तयन् सः किञ्चित् दूरं गतवान् । तदा पार्श्वस्थ-उपमार्गतः गोविन्दः आगच्छति स्म । सः कोटीशस्य परिचितः एव । सः अपि अतीव त्वरायुक्तः इव दृश्यते स्म । तेन सह किमपि वक्तुं कोटीशः यदा मुखम् उद्घाटितवान्, तत्पूर्वमेव गोविन्दः—“किं भोः ? कान्तेशस्य गृहं भवान् आगच्छति वा ? तत्र एतस्मिन् जन्मनि एव दुर्लभस्य विचित्रस्य दर्शनं भवति” इति उक्तवान् ।

“तत् अहं जानामि । तस्य गृहस्य आम्रवृक्षे सीताफलं मिलति । तदेव किल?” इति कोटीशः पृष्टवान् ।

“अरे ! तथा वा? एतत् अन्यत् । तस्य गृहस्प उद्याने एकः सर्पः वसति । सः सर्पः फणीम् उन्नमय्य अतिथिजनान् आशीर्वचनैः अनुगृह्णाति इति श्रूयते । भवान् न जानाति इति मन्ये” इति उक्तवान् गोविन्दः ।

गोविन्दस्य वचनं श्रुत्वा कोटीशस्य आश्चर्यम् अभवत् । एवमेव कोटीशस्य वचनेन गोविन्दः मूकः एव अभवत् । एवं तर्हि कान्तेशस्य गृहे बहूनि विचित्राणि सन्ति इति कोटीशः गोविन्दः च आलोचितवन्तौ ।

अनन्तरं कोटीशः गोविन्दः च मिलित्वाकान्तेशस्य गृहं प्रस्थितौ । मार्गमध्ये नागराजः इति अन्यः कश्चित् मिलितवान् ।

सः “किम् एतत् श्रुतं वा ? कान्तेशस्य गृहे एकः पारिजातवृक्षः अस्ति । सः प्रातः आरभ्य सायंपर्यन्तं निद्रां करोति । रात्रिकाले जागरणं करोति, तथा गृहस्य रक्षणं करोति । तस्य पत्राणि स्पर्शेन हसन्ति, उत्पाटनेन रोदनं कुर्वन्ति इति वदन्ति” इति उक्तवान् ।

** “एवं वा ! एषः कान्तेशः यः कोऽपि मान्त्रिकः वा ऐन्द्रजालिकः वा स्यात् !” इति आश्चर्येण कोटीशः उक्तवान् ।**

** त्रयः अपि भाषमाणाः चलन्ति स्म । तदा मार्गे पुनः अन्ये केचन मिलितवन्तः । तेषु एकैकः अपि एकैकं विचित्रं उक्तवान् । कान्तेशस्य गृहे सम्मार्जनी स्वयमेव मार्जनकार्यं करोति इतिएकः । तस्य गृहे एकम् अक्षयपात्रं सततं धनं ददातिइति अन्यः ।**

** एवं रीत्या आहत्य दश जनाः कान्तेशस्य गृहं गतवन्तः । तस्मिन् समये कान्तेशस्य गृहस्य द्वारं पिहितम् आसीत् । कोटीशः द्वारशब्दं कृतवान् ।**

** तदा पञ्चदश-वर्षीयः कश्चित् बालकः आगतवान् । सः आश्चर्येण ‘भवन्तः सर्वे किमर्थम् आगतवन्तः ?’ इति पृष्टवान् ।**

** ‘भवतां गृहस्य विचित्राणि द्रष्टुम् आगतवन्तः’ इति कोटीशः उक्तवान् ।**

** ‘एवं वा ? भवन्तः प्रमादतः अन्यत् गृहम्आगतवन्तः इति मन्ये । अस्माकं गृहे तु तादृशं विचित्रं किमपि नास्ति’ इति बालकः**

उक्तवान् ।

** स्वयं कान्तेशः एव एतानि अद्भुतानि सन्तीति उक्तवान् आसीत् । तानि द्रष्टुम् एव वयम् आगतवन्तः’ इति कोटीशः उक्तवान् ।**

** ‘मम जनकः किमर्थं तथा उक्तवान् इति अहं न जानामि’ इति उक्त्वा बालकः पुनः गृहस्य अन्तः गतवान् ।**

** बालकस्य वचने अविश्वासं प्रकटयन्तः सर्वे स्वयमेव गृहं प्रविष्टवन्तः ।**

बालकस्य वचनं यथार्थमेव आसीत् । गृहे यत्किमपि विचित्रं न आसीत् । गृहस्य पृष्ठतः कूपः अपि न आसीत् । विविध-फलदाता आम्रवृक्षः अपि न आसीत् । एतत् सर्वंज्ञात्वा तेषां महान् क्रोधः आगतः । ते सर्वे क्रोधेन तपन्तः कान्तेशम् अन्विष्यन्तः तद्गृहतः निर्गतवन्तः । अनन्तरम् एकत्र ते कान्तेशं दृष्टवन्तः ।

** क्रोधतप्तः कोटीशः—‘कीदृशः धूर्तः भवान् ? अस्माकं समीपे असत्यम् उक्तवान् किल?’ इति पृष्टवान् ।**

** ‘आम्’ इति कान्तेशः निःसङ्कोचम् उक्तवान् ।**

** ‘किमर्थं तथा उक्तवान्?’ कोटीशस्य नेत्रद्वयतः अग्निकणाः निस्सरन्ति स्म ।**

** ‘यदा वयं नूतनतया आगत्य एकस्मिन् ग्रामे वसामः, तदा तत्र कियन्तः मूढाः मूर्खाः च सन्ति इति, एवं रीत्या एव किल वयं ज्ञातुं शक्नुमः ?’ इति उक्तवान् कान्तेशः ।**

** ‘किम्, असत्यवचनेन तत् ज्ञातुं शक्यते वा ?’ इति क्रोधाविष्टः गोविन्दः पृष्टवान् ।**

** ‘किमर्थं न शक्यते भोः ? ये ये मम असत्यवचनानि विश्वसन्ति, ते ते मूढाः मूर्खाः च किल ?’ इति उक्तवान् कान्तेशः ।**

** किञ्चित्कालानन्तरं गोविन्दः शनैः पृष्टवान् ‘असत्यवचनानि के के विश्वसन्ति इति भवान् कथं ज्ञातुं शक्नोति?’ इति ।**

** ‘ये मम असत्यवचनं विश्वसन्ति, ते मम गृहं गच्छन्ति । मम पुत्रः तान् पश्यति । एकवारं दृष्टं मुखं सः कदापि न विस्मरति । यदा अहं**

पृच्छामि, तदा सः समीचीनतया मुखवर्णनं करोति । तेन अहं मूर्खान् जानामि’ इति उक्तवान् कान्तेशः ।

** ‘इदानीं भवान् गृहं गच्छति वा ?" इति कोटीशः पृष्टवान् । ‘न, नगरमध्ये किञ्चित् कार्यान्तरम् अस्ति’ इति उक्तवान् कान्तेशः । ‘अस्तु । वयं गच्छामः’ । इति उक्त्वा ते सर्वे पुनः साक्षात् कान्तेशस्य गृहमेव गतवन्तः । कान्तेशस्य पुत्रम् उक्तवन्तः—‘भो ! अत्र अस्माकम् आगमनविचारः सम्भाषणविषयः च भवतः जनकस्य समीपे न वक्तव्यः । तदर्थं वयम् सर्वे एकैकं सुवर्णनाणकं दद्मः’ इति कोटीशः उक्तवान् ।**

** अस्तु’ इति कान्तेशस्य पुत्रः अङ्गीकृतवान् । तदा कोटीशः सर्वेषां हस्ततः दशनाणकानि सङ्गृह्य कान्तेशस्य पुत्रस्य हस्ते दत्तवान् ।**

** अनन्तरं सर्वे निश्चिन्ताः ततः निर्गताः ।**

** कान्तेशः रात्रौ गृहं प्रत्यागतवान् । तदा पुत्रः उक्तवान्—‘प्रातः आरभ्य सायङ्कालपर्यन्तम् अद्भुतविषयं द्रष्टुम् आगतेभ्यः आहत्य शतं नाणकानि मिलितानि । इदानीं भवान् ऋणादिग्रहणं विना अत्र वाणिज्यं कर्तुं शक्नोति’ इति ।**

** ‘आम्, यत्र केवलं मन्दाः,मूर्खाः च सन्ति, तदपेक्षया यत्र ते मूर्खाः स्वीय-अज्ञानस्य प्रदर्शनं कर्तुं न इच्छन्ति तत्र लाभः अधिकतरः मिलति । अस्मिन् नगरे तादृशाः बहवः जनाः सन्ति’ इति कान्तेशः उक्तवान् ।**

** कान्तेशः तेन धनेन महिषीः क्रीतवान् । क्षीरवाणिज्यस्य आरम्भं कृतवान् । तस्य वाणिज्यं प्रतिदिनं अभिवर्धते स्म । उत्तमः क्षीर-वणिक इति सः प्रसिद्धः अपि अभवत् ।**

मूर्खराजः

बोधिसत्वः देवानाम् अधिपतिः आसीत् । तस्मिन् समये ब्रह्मदत्तः काशीं परिपालयति स्म ।

ब्रह्मदत्तः बालभावं विहाय तारुण्ये पदं स्थापितवान् । बालबुद्ध्या सह यौवनमदः अधिकारमदः च वर्धितः । येन च देवान् एव सः न गणयति स्म । मानवान् तु तृणप्रायान् मन्यते स्म । देवेषु मानवेषु तिर्यग्जन्तुषु च को वा माम् अतिक्राम्यति ? इति तस्य भावना । अतः सः मूर्तिमान् अहङ्कारः एव अभवत् ।

यदृच्छया दृष्टान् जरठान् गजान् अश्वान् वृषभान् च स्वयं अन्यैः च ताडयति स्म । जीर्णान्, शकटान्, पेटिकाः आसनानि च अग्निसात्करोति स्म ।

वृद्धान् तु स्वैरं भर्त्सयित्वा अपमानयति स्म । श्मश्रुलानां श्मश्रूणि अपकृत्य पीडयति स्म ।

एवं श्मश्रुलानां सोढुम् अशक्या दुरवस्था आसीत् । दुर्बलान् तु मार्गे इतस्ततः लुण्ठयति स्म । वृद्धस्त्रीणाम् अपि एषा एव गतिः । अतः युवराजं ब्रह्मदत्तं दूरतः दृष्ट्वा एव केचित् पलायन्ते स्म, केचित् गृहान्तः विलीनाः भवन्ति स्म । साधवः, सज्जनाः, दीनाः च तस्य नामश्रवणेन एव भीत्या कम्पन्ते स्म ।

ब्रह्मदत्तस्य दुश्चेष्टाः दुरहङ्कारः च सीमाम् अतिक्रान्ताः । सः इन्द्रादीन् देवान् अपि अविगणय्य स्वैरं विहरति स्म। ‘राजकुमारस्य भवतः एतत् न उचितम्’ इति उपदेष्टा अपि कोऽपि न आसीत् । विरला हि राज्ञाम् उपदेष्टारः ।

राक्षससदृशस्य ब्रह्मदत्तस्य स्वैरवृत्या सर्वे प्रजाजनाः अतीव कष्टम् अनुभूतवन्तः ।

राजा एव स्वयं पीडयति चेत् कस्य अग्रतः रुद्यते? अनन्यगत्या सर्वे अपि सर्वं दुःखं मौनेन सोढवन्तः । केचित् वृद्धमातापितरौ राज्यान्तरं प्रेषितवन्तः । अन्ये अन्यां व्यवस्थां कृतवन्तः । ‘वृद्धमातापितृसेवातः वयं वञ्चिताः’ इति सर्वे अपि अन्तरङ्गे व्यथाम् अनुभवन्ति स्म । तथापि ‘जीवन् भद्राणि पश्यति’इति भावनया कालं यापयन्तः आसन् ।

** भूलोके एषा गतिः चेत् स्वर्गलोके अपरा समस्या उद्भूता । वृद्धमातापितृसेवातः वञ्चिताः सर्वे अपि पापेन युक्ताः अभवन् । कर्तव्यच्युतिः पापाय किल भवति ? सर्वे मरणानन्तरं नरकं प्रविष्टवन्तः । स्वर्गस्य प्रवेष्टातु कोऽपि न आसीत् । अतः स्वर्गः शून्यः संवृत्तः ।**

** स्वर्गे कर्मकराः निरुद्योगिनः अलसाः च अभवन् । देवाधिपतेः बोधिसत्वस्य चिन्ता समुत्पन्ना—‘कथम् एषा समस्या परिहरणीया?’ इति ।**

** बहुधा विचिन्त्य देवेन्द्रः दरिद्रवृद्धरूपं धृतवान् । एकस्मिन् जीर्णे शकटे तक्रेण पूर्णं घटद्वयं स्थापितवान् । शकटस्य कृशौ द्वो वृषभौ योजितवान् । तयोः वृषभयोः अस्थिपञ्जरमात्रम् आसीत् । एवं सज्जीकृत्यभूलोके मार्गे शकटेन प्रस्थितवान् इन्द्रः ।**

** तस्मिन् मार्गे एव राज्ञः शोभायात्रा आसीत् । ब्रह्मदत्तं राजपरिवारेण सह गजम् आरुह्य महता गर्वेण प्रस्थितवान्। शोभायात्रार्थं तोरणेन रङ्गवल्या च मार्गाः अलङ्कृताः आसन् ।**

** राजा ब्रह्मदत्तः शकटम् आरुह्य आगच्छन्तं वृद्धं दृष्ट्वा ‘अरे वृद्ध ! दूरम् अपसरतु ! कियान् गर्वः ! मम अभिमुखम् आगच्छति !’ इति क्रोधेन उच्चैः भर्त्सितवान् ।**

** ‘अये ! किमर्थं राजा उच्चैः एवम् आक्रोशति ?’ इति सर्वे अपि संमिलिताः आश्चर्यचकिताः अभवन् । वस्तुतः वृद्ध, शकटः, वृषभौ, तक्रघटौ च ब्रह्मदत्तेन विना केनापि**

न दृष्टाः । अत्र च देवेन्द्रस्य माया एव कारणम् आसीत् ।

** वृद्धः शकटं गजस्य उपरि नीतवान् । क्रोधेन प्रलपतः ब्रह्मदत्तस्य शिरसि तक्रघटं प्रक्षिप्तवान्, येन तक्रघटः भग्नः ।**

** भीत्या ब्रह्मदत्तः गजम् अन्यत्र धावयितुं प्रवृत्तः । तदा देवेन्द्रः द्वितीयं तक्रघटम् अपि तस्य शिरसि प्रक्षिप्तवान् । स्रुतेन तक्रेण ब्रह्मदत्तस्य शरीरम् आर्द्रम् अभवत् । ब्रह्मदत्तः क्रोधेन गर्जन् आसीत् ।**

** तत्क्षणम् एव शकटः वृषभौ च अदृश्यतां गताः । घटस्य कर्पराः अपि न दृष्टाः । इन्द्रः स्वीयरूपेण प्रत्यक्षः अभवत् ।**

** पादयोः पतितं ब्रह्मदत्तं दृष्ट्वा इन्द्रः उक्तवान्—‘राजन् ! ब्रह्मदत्त ! गर्वः कस्य ? किं भवतः उत मम ? गर्वेण अन्धः, मदेन मूर्छितः च किं भवान् अथवा अहम् ? भवतः यौवनं स्थिरम् इति भवान् किं मन्यते ? वार्धक्यं भवन्तं न स्पृशति इति किं भवान् भावयति ? येन च वृद्धान् जीर्णवस्तूनि च भवान् तिरस्करोति ।**

** भवतः दुश्चेष्टया सर्वाः अपि प्रजाः दुःखपङ्के निमग्नाः । भवतः दुर्व्यवहारतः भीताः सर्वे अपि स्वमातापितरौ राज्यान्तरं प्रेषितवन्तः । येन मातापितृसेवातः वञ्चिताः सर्वे अपि पापिनः अभवन् । पापिनः सर्वे नरकं गच्छन्तः सन्ति । अतः स्वर्गः शून्यः संवृत्तः । एतत् सर्वं भवान् किं जानाति ? गर्वेण वृथाकार्ये प्रवृत्तः भवान् । राजन् ! अप्रमत्तः भवतु । इतःपरं अपथे मा प्रवर्तताम् । एतत् विपरीते तु वज्रायुधेन शिरः शतधा भग्नं भवेत्’ इति । अनन्तरं इन्द्रः अन्तर्भूतः ।**

** ततः प्रभृति सः वृद्धान् आदरेण दृष्टवान् । राज्ये शान्तिः प्रसृता । देशान्तरं गताः वृद्धाः अपि प्रतिनिवृत्ताः । एवं ब्रह्मदत्तस्य मनःपरिवर्तनेन सर्वे निश्चिन्ताः अभवन् ।**

मूलकारणम्

** कदाचित् कश्चित् भूस्वामी स्वसभासदान् उद्दिश्य एकं प्रश्नं पृष्टवान्—“सर्वेषाम् अनर्थानां मूलं किम् इति यः वदति तस्मै शतं रूप्यकाणि ददामि” इति ।**

** कश्चित् अनर्थानां मूलं गर्वः’ इति उक्तवान् । अन्यः ‘अनृतम् एव कारणम्’ इति उक्तवान् । अपरः अज्ञानम् एव कारणम् इति उक्तवान् । एवं सर्वे स्वबुद्ध्यनुसारम् उत्तरम् उक्तवन्तः । किन्तु केनापि उत्तरेण भूस्वामीतृप्तिं न प्राप्तवान् ।**

** तदा रघुनाथनामकः एकः उत्थाय उक्तवान्—“अहम् उत्तरम् जानामि । किन्तु भवता उद्घोषितं पारितोषिकम् अल्पमूल्यकम् । अतः उत्तरकथने अहं सङ्कोचम् अनुभवामि ।”**

** भूस्वामी अविलम्बेन उक्तवान्—“यदि उत्तरं समीचीनम् इति मम मनसि भाति तर्हि अहं द्विशतं रूप्यकाणि ददामि ।”**

** तदा रघुनाथः उक्तवान्—“प्रपञ्चे सर्वेषाम् अनर्थानां मूलं धनम् एव । धनकारणतः एव अन्यायः, अत्याचारः, मारणं, युद्धम् इत्यादिकं सर्वंप्रचलति” इति । अनन्तरं सः बहु कथाः उक्त्वा स्ववादं पुष्टीकृतवान् ।**

** भूस्वामी रघुनाथस्य समग्रं विवरणं श्रुत्वा उक्तवान्—“भवतः उत्तरेण अहं तृप्तः वा न वा इति तु अन्य विषयः । किन्तु भवता स्ववादस्य पुष्ट्यर्थं याः कथाः उक्ताः ताभिः अहं सन्तुष्टः । भवान् तु समर्थः कथाकारः” इति । अनन्तरं भूस्वामी तस्मै द्विशतं रूप्यकाणि-पुरस्काररूपेण दत्तवान् ।**

** तस्यां सभायां कुत्सितः नाम कश्चित् आसीत् । तस्य वास्तविकं नाम कोऽपिन जानाति । तदीयं व्यवहारं दृष्ट्वा सर्वेकुत्सितनाम्ना व्यवहरन्ति स्म । एषः कुत्सितः सभायाम् अकस्मात् उत्थाय उक्तवान्—**

“रघुनाथः सर्वान् वञ्चयन् अस्ति। सः सर्वेषाम् अनर्थानां मूलं धनम् एव इति वदन्किमर्थं वा पुरस्काररूपेण पुनः धनं स्वीकरोति ? एतेन ज्ञायते यत्—स्वस्य उत्तरे एव तस्य विश्वासः नास्ति इति । एषा तु वञ्चना एव । सभायाम् एतादृशी वञ्चना तु महते अपराधाय” इति ।

** तदा भूस्वामी रघुनाथं पृष्टवान्—“भवान् एतद्विषये किं वदति ?” इति ।**

** रघुनाथः उत्तरितवान्—“धनम् अनर्थस्य मूलम् इति जानन् मानवः धनार्थं प्रयत्नं करोति । एतेन धनस्य अनर्थकारित्वम् एव प्रतिपादितं भवति” इति ।**

** एतत् उत्तरं श्रुत्वा कुत्सितं विना सर्वेऽपिकरताडनं कृतवन्तः । कुत्सितः रघुनाथं पृष्टवान्—“धनम् अनर्थकारि इति ज्ञात्वा अपि यः तदेव इच्छति सः मूर्खः एव । अतः भवान्मूर्खः वा ?”**

** कुत्सितं तीक्ष्णदृष्ट्या पश्यन् रघुनाथः पृष्टवान्—“मित्र ! स्वजीवनं शाश्वतं इति भवान् चिन्तयति वा ? “**

** “कदापि न” कुत्सितः उक्तवान् ।**

** रघुनाथः पुनः पृष्टवान्—“भवतः मरणं कदा भविष्यति इति भवान् जानाति वा ?”**

** “नैव, सर्वेषाम् अपि मरणं अज्ञातम् एव भविष्यति । मम अपि तथैव ।”**

** “इदानीं वदतु—भवान् इतोऽपि कानिचन दिनानि जीवितुम् इच्छति वा ? उत इदानीम् एव मरणम् इच्छति वा ?”**

** कुत्सितः प्रतिप्रश्नं कृतवान्—“भवान् किम् इच्छति ? वदतु ।”**

** “अहं तु मूर्खः । अतः अहं जीवनम् एव इच्छामि । भवान् किम् इच्छति इति ज्ञातुम् इच्छामि ।”**

** एतत् श्रुत्वा सर्वे सभासदाः हसितवन्तः । अपमानितः कुत्सितः लज्जया शिरः अवनमितवान् । भूस्वामी रघुनाथम् अधिकपुरस्कारेण सम्मानितवान् ।**

मूलधनम्

एकस्मिन् ग्रामे परमेशः इति कृषिकः । तस्य अल्पा भूमिः । वृष्टिः अपि काले काले न भवति । सः परिश्रमेण कृषिं करोति स्म । तस्य पत्नी गौरी इति । सा अपि कष्टसहिष्णुः । सा सर्वदा सर्वेषु कार्येषु पत्युः साहाय्यं कर्तुम् इच्छति स्म । तयोः चत्वारः पुत्राः सञ्जाताः । परमेशः पत्नीं पुत्रपालने नियुज्य एकाकी कृषिकार्यं करोति स्म । पुत्राणां नामानि जयेशः नरेशः उमेशः रमेशः च । परमेशः मितव्ययेन स्वकीयान् चतुरः पुत्रान् पोषितवान् । इदानीं पुत्राः प्रौढाः । परमेशः किञ्चित् धनसञ्चयम् अपि कृत्वा, तद्धनेन पुरातनगृहं निष्कास्य, एकं नवीनं गृहम् अपि निर्मितवान् । ग्रामे नगरे च तस्य नाम अपि प्रसिद्धम् आसीत् ।

** परमेशः पित्रार्जितां भूमिम् अतिरिच्य अन्यां भूमिं क्षेत्रं वा स्वयं कर्तुं न शक्तवान् । यतः सः एकाकी कुटुम्बपोषणं करोति स्म । परमेशस्य गौर्योः च सद्गुणान् दृष्ट्वा कन्यापितरः ‘यदि अस्माकं कन्या एतत् गृहं प्रविशति, तर्हि सुखं जीवति’ इति चिन्तयन्तः स्वयमेव आगत्य परमेशस्य पुत्राणां विवाहार्थं प्रार्थितवन्तः । प्राप्तवयस्कानां पुत्राणां विवाहः करणीयः एव इति कृत्वा परमेशः गौर्या सह समालोच्य विवाहम् अङ्गीकृतवान् । प्रथमं जयेशस्य विवाहः अभवत् । तस्य भार्या, धनलक्ष्मीः । सा तस्य ग्रामस्य कृषिकस्य ‘राजप्प’ इत्यस्य पुत्री । सा केवलं नाम्ना धनलक्ष्मीः । तस्याः पिता अपि परमेशवत् साधारणः कृषिकः एव । इदानीं परमेशस्य गृहे एका अधिका जाता । व्ययः अपि किञ्चिदिव अधिकः अभवत् । एतन्मध्ये चतुर्णां पुत्राणाम् अपि विवाहः जातः । वध्वः गृहम् आगताः । इतः परं कथं कुटुम्बपोषणम् ?” इति परमेशस्य चिन्ता । पुत्राः स्वस्वजीवनव्यवस्थां स्वयं पश्येयुः इति तस्यविश्वासः । किन्तु तथा**

किमपि न अभवत् ।

** एकदा सः ज्येष्ठपुत्रम् उक्तवान्—“पुत्र ! अस्माकं कृषिभूमिः विशाला नास्ति किल ? कुटुम्बस्य व्ययः तु दिने दिने वर्धते । आयव्ययं सन्तोलयितुं काचित् व्यवस्था चिन्तिता वा ? " इति ।**

** तदा ज्येष्ठपुत्रः उक्तवान्—“यदि इदानीं विद्यमानं क्षेत्रं पर्याप्तं न भवति, तर्हि अन्यस्य भूमिं कृष्यर्थं स्वीकुर्मः” इति । पुत्रस्य एतादृशम् उत्तरं श्रुत्वा खिन्नः परमेशः उक्तवान्—**

** “एतावत्पर्यन्तं वयं भूस्वामिनः इति जनाः अस्मान् गौरवेण पश्यन्ति स्म । यदि अस्मिन् एव ग्रामे वयम् इदानीम् अन्यस्य भूम्यां कृषिं कुर्मः, तर्हि अस्माकं गौरवं न्यूनं भवति । पूर्वं ये मानयन्ति स्म ते एव इदानीम् अधिकारं प्रदर्शयन्ति” इति ।**

** तदा ज्येष्ठपुत्रः किमपि न उक्तवान् । परमेशः अन्यान् पुत्रान् अपि पृष्टवान् । ते अपि ज्येष्ठपुत्रवत् एव वदन्ति स्म । “वृक्षतः पतितानि बीजानि चतुर्दिक्षु विकीर्णानि चेत् एव वृक्षाः पुष्टाः भवन्ति । वृक्षस्य पार्श्वे एव पतन्ति चेत् कथं वा पर्याप्ता वृद्धिः ? अनया नीत्या पुत्राः बोधनीयाः । तत् कथम् ?” इति परमेशः चिन्तितवान् । अन्ते एक उपायः स्फुरितः । परमेशः नगरं गतवान् । “प्रत्यागमनसमये दिनद्वयं विलम्बः स्यात्” इति उक्तवान् गृहे ।**

** अपरस्मिन् दिने एकः किरातः परमेशस्य गृहम् आगतवान् । तदा गृहे ज्येष्ठपुत्रः आसीत् । किरातः ज्येष्ठपुत्रम् उक्तवान्—“श्रीमन् ! मदीयम् एकं वेणुवनम् अस्ति । तत्र अहं गृहं निर्मातुम् इच्छामि । यः कोऽपि वेणून् कर्तयित्वा स्थलं स्वच्छीकरोति चेत् वरम् आसीत् । वेणुः तु निश्शुल्कं दीयते” इति ।**

** ज्येष्ठपुत्रस्य आशा उत्पन्ना । “वेणुविक्रयणेन इदानीं लाभः एव ! व्ययः तु केवलम् आनयनस्य” इति सः चिन्तितवान् । अनन्तरं ज्येष्ठपुत्रः किरातेन सह गत्वा, वेणून् आनीय, नगरं प्रापितवान् । तत्र यदा एषः विक्रेतुं प्रवृत्तः**

तदा परमेशस्य द्वितीयः पुत्रः तत्र आगतवान् ।

** “अग्रज ! वेणुविक्रयणम् इदानीं मास्तु । विदारिताः वेणुशलाकाः क्रेतुम् एकः वणिक् सिद्धः अस्ति’’ इति उक्तवान्। अनन्तरं ते वेणून् विदारितवन्तः । तान् नेतुं वणिक् अपि एकः आगतवान् । तदा तृतीयः पुत्रः ग्रामात् आगतः उत्साहपूर्वकम् उक्तवान्—“श्रमेण सम्पादिताः शलाकाः न्यूनमूल्येन किमर्थं विक्रीणीमः ? शलाकाभिः कण्डोलान् अन्यवस्तूनि च सज्जीकर्तुम् एकः सिद्धः अस्ति । तद्द्वारा तथा कारयामः । अनन्तरं सः एव स्वयं विक्रीय ददाति” इति ।**

** वेणुभिः कण्डोलाः अन्यवस्तूनि च सिद्धानि । तानि वस्तूनि नेतुम् एकः वणिक् अपि आगतवान् । तावति काले परमेशस्य चतुर्थः पुत्रः तत्र आगत्य उक्तवान्—“एतेषां विक्रयणं वयम् एव कुर्मः चेत् समग्रः लाभः अस्माकम् एव भवति । अहम् एव एतत् कार्यं करोमि” इति ।**

** अन्ते चत्वारः अपि मिलित्वा युक्तेन मूल्येन सर्ववस्तूनां विक्रयणं कृतवन्तः । एतेन अनुभवेन तैः ज्ञातम्—“वाणिज्यं न तथा कष्टं , यथा वयं चिन्तयामः” इति । अतः वाणिज्यम् आरब्धवन्तः । केषुचित् एव मासेषु वेणुवाणिज्ये लाभं कीर्तिं च संपादितवन्तः । अन्ते एकदा लाभ-विभजनं प्रवृत्तम् । तदा परमेशः आगत्य उक्तवान्—“लाभ-विभजनतः पूर्वं वेणोः मूल्यं पृथक् स्थापयन्तु” इति ।**

** पुत्राः आश्चर्येण—“वेणोः मूल्यं किम् ? तत्तु निश्शुल्कं प्राप्तम्” इति उक्तवन्तः । तदा परमेशः हसन् उक्तवान्— “किरातः निश्शुल्कं दत्तवान्, सत्यम् । किन्तु पुनरपि वेणुः निश्शुल्कं न लभ्यते । तदा धनं दातव्यम् एव किल ?” इति ।**

** चत्वारः अपि एतं विचारम् अङ्गीकृतवन्तः । परमेशः तेषां पुरतः एकं रहस्यं न उक्तवान् एव । आरम्भे ज्येष्ठपुत्रस्य कृते यः वेणून् दत्तवान् तस्य किरातस्य कृते परमेशः धनं दत्तवान् आसीत् । एवमेव वणिग्रूपेण आगताः सर्वेऽपि परमेशस्य मित्राणि एव आसन् ।**

यथा तथा

चन्दनपुरे भास्करः नाम तरुणः आसीत्। तस्य पत्नी अम्बिका नाम । सा पार्श्वग्रामस्थ-धनिकस्य पुत्री । पतिः पत्नी च दाम्पत्यजीवनं सानन्दं निर्वहति स्म ।

भास्करस्य मित्रं मुकुन्दः । एकदा मुकुन्दः पत्न्या सह नगरतः भास्करस्य गृहम् आगतवान् । मुकुन्दस्य पत्नी गौरी। सा सुमधुरं गायति स्म । तस्याः गानं श्रुत्वा भास्करः अम्बिका च बहुसन्तोषं अनुभूतवन्तौ । गानं श्रुत्वा श्रुत्वा एकः सप्ताहः, दिवसः इव अतीतः ।

सप्ताहानन्तरं मुकुन्दः पत्न्या सह स्वगृहं गतवान् । भास्करः पत्न्या सह वार्तालापं कुर्वन् उक्तवान्—“गौर्याः सुमधुरं गानं श्रुतं किल ? अम्बिके ! अहं चिन्तयामि, इतः परं भवती अपि सङ्गीतं किमर्थं न अभ्यस्येत्” इति । पत्युः प्रश्नेन अम्बिका आश्चर्यचकिता । सा मनसिचिन्तितवती—“सङ्गीतं, चित्रलेखनं, कवित्वं,नर्तनम् इत्यादयः कलाः बाल्ये वयसि एव अभ्यसनीयाः । प्रौढे वार्धक्ये वा वयसि कलाः अभ्यसितुं प्रायः न शक्याः । गौरी तु षष्ठे वयसि एव सङ्गीताभ्यासम् आरब्धवती । ततः आरभ्य सततं कृताभ्यासात् एव गौरी मधुरं गायति” एवं मनसि विचिन्त्य अम्बिका पतिम् उक्तवती—“मम कण्ठस्वरः न मधुरः । अतः कथं गायामि?” किन्तु भास्करः पत्न्याः उत्तरेण न सन्तृप्तः। सः सभ्रूभङ्गम् उक्तवान्—“कण्ठस्वरः तु सुमधुरः एव । प्रतिदिनं किञ्चित् किञ्चित् यदिसङ्गीताभ्यासः क्रियते, विना आयासं सङ्गीतेनैपुण्यम् सम्पादयितुं शक्यम् । किन्तु सर्वस्य अपि मूलं मनःप्रवृत्तिः । अतः प्रयत्नं करोतु” ।

कानिचित् दिनानि गतानि । ओङ्कारशर्मा नाम चित्रकारः तं ग्रामम् आगतवान् । तत्र स्वचित्राणि प्रदर्शितवान् । सर्वाणि चित्राणि

रमणीयानि आसन् । तानि चित्रकारस्य नैपुण्यस्य साक्षीभूतानि आसन् ।

** तानि चित्राणि दृष्ट्वा अम्बिका अतीव सन्तुष्टा । सा चित्राणां विषये वार्तालापं कुर्वती पतिम् उक्तवती—“कियन्ति सुन्दराणि तानि ! जीवन्ति इव सन्ति । यदि प्रयत्नः क्रियते भवता अपि तादृशानि चित्राणि लेखितुं शक्यानि । अतः सुन्दरम् एकं चित्रं भवान् अपि आलिखतु।” भास्करः आश्चर्येण उक्तवान्—किं ? मया चित्रं लेखनीयं वा ? चित्रलेखनं नाम किं कन्दुकक्रीडनं वा ?**

** “चित्रलेखनं सुलभम् इति न उक्तवती । यदि आग्रहेण रेखाः विन्यस्यन्ते, चित्रत्वेन परिणमन्ति एव । अभ्यासात् सर्वेष्टसिद्धिः किल । अतः भवान् अपि प्रयत्नं करोतु” इति अम्बिका सहासं उक्तवती ।**

** एतत् श्रुत्वा गानविषये पत्न्यै आत्मना उक्तं भास्करः स्मृतवान् । उक्तवान् च—“तद्दिने मित्रस्य पत्न्याः गौर्याः गानं श्रुत्वा भवत्यै असम्भवकार्यम् उपदिष्टवान् । निःसारः सः उपदेशः इति इदानीं ज्ञातवान् । कलासु नैपुण्यं नाम न सुलभम् । बाल्यात् आरभ्य यदि अभ्यस्यते तदा नैपुण्यं सम्पादयितुं शक्यं भवेत् । तत्रापि स्वभावतः श्रद्धा अपेक्षिता।**

** “इदानीं किल ज्ञातं ? कलासु नैपुण्य न सुलभम् इति । इदानीं भवान् यथा चित्रम् आलेखितुं न शक्नोति तथा अहमपि गातुं न शक्नोमि” इति अम्बिका उक्तवती ।**

** ‘किन्तु इतः परम् एवं कर्तुं शक्यम् । तत्तत्कलासु निपुणाः कलाविदः आमन्त्रणीयाः । ते सम्माननीयाः । तेषां कलाविषये आदरभावः प्रकटनीयः’ इति भास्करः प्रत्युत्तरं दत्तवान् ।**

** अम्बिका मनसि आनन्देन उक्तवती—‘कलायाः महत्वम् अद्य मम पतिः ज्ञातवान्’ इति ।**

यथा राजा तथा प्रजाः

जयनगर-राज्यस्य राजा वीरभद्रः । कदाचित् तस्य राज्ये अव्यवस्था व्याप्ता । प्रजाः निर्भयं राज्ञः तथा राज्यनियमानाम् विषये अनादरं प्रदर्शयितुम् आरब्धवन्तः । राजा वीरभद्रः राज्ये सुव्यवस्थां स्थापयितुं बहुधा प्रयत्नं कृतवान् । “अव्यवस्थायाः कारणं किं स्यात् ?” इति ज्ञातुम् अपि प्रयत्नं कृतवान् । किन्तु राजा असफलः एव ।

पार्श्वराज्ये प्रतापनगरे समीचीना राज्यव्यवस्था प्रचलति स्म। तस्मिन् राज्ये जनाः अपि सुखिनः आसन् । राज्ञः शासननियमानां च विषये प्रजानां मनस्सु सुतराम् आदरभावः आसीत् । अतः वीरभद्रराजः चिन्तितवान्—“अहं स्वयं प्रतापनगरराज्यं गमिष्यामि । तत्रत्यां सुव्यवस्थां परिशीलयिष्यामि” इति ।

प्रतापनगरस्य राजा धीरसेनः वीरभद्रं हृत्पूर्वकं स्वागतीकृतवान् । वीरभद्रस्य आगमनकारणं ज्ञात्वा तद्विषये स्वकीयम् अभिप्रायम् उक्तवान्—“सर्वस्य अपि राज्यस्य उन्नतिः व्यवस्था च प्रजाः आधारीकृत्य तिष्ठति । यदि मम राज्ये सुखं सुव्यवस्था च अस्ति, तत्र कारणं प्रजाः एव” इति ।

एतत् श्रुत्वा वीरभद्रः चिन्तितवान्—“मम राज्ये या अव्यवस्था दृश्यते तत्र कारणम् अहं न, अपि तु मम प्रजाः एव” इति ।

“धीरसेनः स्वप्रजानां स्तुतिं कृतवान् किल ? अतः ते जनाः द्रष्टव्याः” इति वीरभद्रस्य आशा जाता । सः धीरसेनं स्वविचारं निवेदितवान् । धीरसेनः उक्तवान्—“आवां द्वौ अपि गुप्तरूपेण राज्ये सञ्चारं कुर्वः । सर्वम् अपि परिशीलयावः” इति ।

परेद्युः उभौ अपि वेषान्तरं धृत्वा राज्यपरिशीलनार्थं प्रस्थितौ । सर्वत्र तौ भ्रमणं कृतवन्तौ । सर्वत्र धीरसेनस्य आदरपूर्वकं स्वागतं

लब्धम्। “राज्ञि छद्मवेषे स्थितेऽपि, सर्वे धीरसेनस्य परिचयं गृहीतवन्तः एव । सर्वेऽपि स्वराजस्य विषये अनन्यां श्रद्धां प्रदर्शयन्ति स्म । एतत् दृष्ट्वा वीरभद्रस्य अत्याश्चर्यम् । वीरभद्रः एकत्र एतस्य कारणं पृष्टवान् ।

** “महाराजस्य विषये अस्माकं महती श्रद्धा अस्ति । अतः येन केनापि वेषेण स्थितस्य महाराजस्य परिचयं ग्रहीतुं शक्नुमः वयम्” इति उक्तवान् सः पुरुषः ।**

** सञ्चारसमये राजा धीरसेनः अपेक्षितानि बहूनि वस्तूनि क्रीतवान् । किन्तु कोऽपि वणिक् वस्तूनां मूल्यं न स्वीकृतवान् । वणिजः उक्तवन्तः—“एतानि वस्तूनि वयम् उपायनरूपेण यच्छन्तः स्मः । राजप्रजयोः मध्ये क्रयविक्रयणं न भवेत्” इति ।**

** सञ्चारतः प्रतिनिवृत्तः वीरभद्रः धीरसेनम् उक्तवान्—“भवतः राज्यस्य जनाः वस्तुतः महान्तः । भवतः प्रजाभ्यः मम प्रजाः नीतिशिक्षणं प्राप्नुयुः ।**

** “एतदनन्तरं वीरभद्रः स्वराज्यं प्रतिनिवृत्तः ।**

** एकमासानन्तरं वीरभद्रः वेषान्तरं धृत्वा स्वराज्ये भ्रमणं कर्तुं निर्गतः । किन्तु राज्ये जनाः कुत्रापि स्वमहाराजस्य परिचयं न गृहीतवन्तः ।**

** एकत्र राजा कस्यचित् वणिजः समीपे वस्तुनः मूल्यं पृष्टवान् । ‘वणिजा उक्तं मूल्यम् अत्यधिकम्’ इति महाराजस्य मनसि भावना आगता । अतः सः वणिजं पृष्टवान्—“महाराजः एव स्वयम् आगत्य एतत् वस्तु भवतः समीपात् क्रीणति चेदपि भवान् एतावदेव मूल्यं वदति वा ?”**

** “राजा एव स्वयम् आगतः चेत् एतत् मूल्यं किम्, इतोऽपि द्विगुणीकृत्य वदामि । यतः सः धनवान् किल ?’ इति उक्तवान् वणिक् । कथनसमये आत्मनः पुरतः कः अस्ति इत्यपि सः न गणितवान् ।**

** प्रजानाम् एतादृशं व्यवहारं दृष्ट्वा महाराजः बहु खिन्नः । सः राजभवनं प्रत्यागत्य सर्वान् मन्त्रिणः आहूतवान् । तेषां समीपे प्रजानां व्यवहारं विवृण्वन् उक्तवान्—’“मम दौर्भाग्यं यत् अहम् एतादृशानां प्रजानां राजा अस्मि । प्रतापनगरे पश्यन्तु । तत्रत्याः प्रजाः सज्जनाः इति**

कृत्वा तत्रत्यं सर्वं सुव्यवस्थितं सुखपूर्णंच अस्ति । अस्मदीयाः प्रजाः अपि प्रतापनगरस्य प्रजाभिः तुल्याः भवेयुः । एतत् साधयितुं किं किं कर्तुं शक्यते इति कृपया सूचयन्तु” इति ।

** किञ्चित्कालं यावत् परस्परं सम्भाषणं कृत्वा ते उक्तवन्तः—“भवान् महाराजः भूत्वा पार्श्वदेशं गतवान् । तत्रत्यां राज्यव्यवस्थां दृष्ट्वा आगतवान् । किन्तु अस्माकं प्रजाः एतद्विषये किमपि न जानन्ति किल ? अस्मदीयाः प्रजाः तद्देशीयाः इव भवेयुः इति यदि भवान् इच्छति, तर्हि केचन प्रजाप्रतिनिधयः अपि भवता तत्र प्रेषणीयाः । अनन्तरं किमपि निर्णयं स्वीकर्तुं शक्यते” इति ।**

** वीरभद्रः मन्त्रिणाम् एतां सूचनाम् अङ्गीकृतवान् । सः कुशलतापूर्वकं शतं प्रजाप्रतिनिधीन् चितवान् । प्रतापनगरे सञ्चारं कृत्वा तत्रत्यान् जनान् मुखतः मेलितुं, तथा राज्यव्यवस्थां सुसूक्ष्मं परिशीलयितुं च तान् प्रजाप्रतिनिधीन् प्रेषितवान् । एतदर्थंधीरसेनस्य अनुमतिः अपि तेन प्राप्ता आसीत् ।**

** मासद्वयानन्तरं ते प्रतिनिधयः सञ्चारं समाप्य आगतवन्तः । स्वकीयम् अनुभवं विवृण्वन्तः ते राजानम् उक्तवन्तः—“महाराज ! यस्य कस्यापि राज्यस्य सुव्यवस्थायै समुचितविकासार्थं च योग्यः समर्थः च नायकः अपेक्षितः । प्रतापनगरस्य राजा योग्यः समर्थः च अस्ति” इति ।**

** एतत् श्रुत्वा कुपितः वीरभद्रः उक्तवान्—“राजा धीरसेनः मम समीपे उक्तवान् यत् “मम राज्यस्य समृद्ध्यै सुव्यवस्थायै च मदीयाः प्रजाः एव कारणम्” इति । किन्तु भवन्तः कथयन्ति—‘अत्र महाराजस्य योग्यता एव कारणम्’ इति । एतत् कथं भवितुम् अर्हति ?” इति ।**

** तदा प्रजाप्रतिनिधयः उक्तवन्तः—“राजा धीरसेनः गुणेन विनम्रः । अतः सः सफलतायाः कीर्तिं स्वयं न स्वीकरोति । सः प्रजाः पुत्रवत् पश्यति । सः प्रजानिमित्तं बहु त्यागं कृतवान् । अतः राज्ये सुव्यवस्थायै प्रजाः एव कारणम् इति उक्त्वा प्रजानां प्रशंसां कृतवान् ।**

एषा तु वस्तुस्थितिः” इति ।

किञ्चिदिव तृप्तः वीरभद्रः सन्देहं प्रकटितवान्—“प्रतापनगरस्य प्रजाः छद्मवेषेण स्थितम् अपि स्वराजं परिचिन्वन्ति । मम देशे तु प्रजाः पुरतः उपस्थितम् अपि राजानं न परिचिन्वन्ति । अत्र कारणं किम् ?” इति ।

महाराज ! धूलिमध्ये पङ्के वा पतितम् अपि सुवर्णं जनाः जानन्ति, स्त्रीकुर्वन्ति च । अत्र स्वीकर्तुः वैशिष्ट्यं किमपि नास्ति । वैशिष्ट्यं तु सुवर्णस्य” इति प्रतिनिधयः उक्तवन्तः ।

‘प्रजाप्रतिनिधीनां वचनं सत्यम्’ इति राजा वीरभद्रः ज्ञातवान् । अतः सः स्वकीयम् अभिप्रायं स्पष्टं प्रकटयितुं तान् प्रार्थितवान् ।

राजा धीरसेनः अहोरात्रं प्रजानां हितम् एव चिन्तयति । स्वप्रजानां समस्याः श्रद्धया शृणोति । ताः परिहरति च । एवं सर्वदां प्रजाहितं चिन्तयतः महाराजस्य सुखं दुःखं च प्रजाः पश्यन्ति एव ।

धीरसेनः राजोचितं भोगविलासादिकं त्यक्त्वा प्रजानां हितम् एव स्वजीवनस्य उद्देशं भावयति । स्वकीयं सुखं सौकर्यं च अविगणय्य प्रजानां हितार्थं कार्यं करोति ।

महाराजस्य विषये प्रजानां विश्वासः तावन् अस्ति यत् प्रजाः महाराजस्य वचनम् एकाभिप्रायेण अङ्गीकुर्वन्ति । प्रजानां विषये राजा चिन्तयति यत् कार्यसमये निर्बन्धस्य बलप्रदर्शनस्य वा आवश्यकता नास्ति इति । तस्मिन् राज्ये यथा राजा प्रामाणिकः तथा प्रजाः अपि प्रामाणिकाः । यथा राजा तथा प्रजाः” प्रजाप्रतिनिधयः स्वकीयम् अभिप्रायं स्पष्टं प्रकटितवन्तः ।

प्रतिनिधीनां वचनेन महाराजे ज्ञानोदयः जातः । तस्य विवेकः जागरितः ।

सः सद्यः एव मन्त्रिणः आहूय तान् आदिष्टवान्—

यदि राज्ये सुव्यवस्था सुखं च न भवति तर्हि राज्यशासने अस्माकं नैतिकः अधिकारः न भवति” इति ।

एतदनन्तरं अल्पे एव काले विजयनगरस्य अपि जनाः सुखिनः राजभक्ताः च अभवन् ।

युक्तिमान्

सीतापुरम् इति कश्चित् ग्रामः । तं ग्रामं प्रति एकः मान्त्रिकः आगतवान् । “मम शरीरं परोपकारार्थम् । अहं देव्याः उपासकः । सर्वेषाम् उपकारं करोमि । मन्त्रप्रभावेण अहं सर्वेषा यत्किमपि रहस्यं ज्ञातुं प्रभवामि” इति सः स्वयमेव आत्मश्लाघनं कुर्वन् आसीत् । ग्रामस्थाः सर्वे मुग्धाः सरलाः च । मान्त्रिकः सर्वान् वञ्चयन् बहुधनं सम्पादितवान् । तस्मिन् ग्रामे कनकराजः इति कश्चन आसीत् । तस्य एतादृशमान्त्रिकाणां विषये श्रद्धा एवन आसीत् । सः एवं चिन्तयति स्म “एतादृशजनाः उदरम्भरिणः कमपि वेषम् अवलम्बन्ते । मुग्धाः जनाः यावत्पर्यन्तं भवन्ति तावत्पर्यन्तं एतादृशवञ्चकाः अपि भवन्ति एव” इति ।

** एकस्मिन् दिने तद्ग्रामस्थः एकः धनिकः कमलनाथः कनकराजस्य समीपम् आगत्य उक्तवान्—“तेन मान्त्रिकेण मम बहु उपकारः कृतः । तदर्थं तस्मैमान्त्रिकाय प्रीत्या मया शतं रूप्यकाणि अद्य ससन्तोषं दीयन्ते । भवान् सर्वदा ‘सः मान्त्रिक वञ्चकः’ इति कथयति किल ? सः वञ्चकः इति यदि साधारं साधयति तर्हि भवते एव अहं शतं रूप्यकाणि ददामि” इति ।**

** कनकराजः किञ्चित् आलोच्य उक्तवान्—“अस्मिन् ग्रामे सः मान्त्रिकः एकः महान् योगी इत्येव सर्वेषाम् अभिप्रायः । अपि च अन्यग्रामस्थाः अपि तस्य मान्त्रिकस्य प्रभावेण आवृताः । बहु धनमपि तस्मै यच्छन्ति । एवं स्थिते अहम् एकाकी ‘सः वञ्चकः’ इति कथं साधयामि ? एतत् बहु कष्टकरम्” इति ।**

** कमलनाथः एकम् उपायं सूचितवान् । “भवान् एवं करोतु । पूर्वं भवान् ‘शतं रूप्यकाणि चौरेण अपहृतानि’ इति उक्त्वा मम सकाशात् शतं रूप्यकाणि ऋणत्वेन**

स्वीकृतवान् किल ? चोर्यविषयं मान्त्रिकस्य समीपे उक्त्वा ‘केन अपहृतानि’ इति पृच्छतु । यदि सः सत्यं वदति तर्हि भवान् धनं पुनः प्राप्नोति । तदेव धनं मह्यं ददातु । अहं तद्धनं मान्त्रिकाय ददामि” इति ।

“यदि मान्त्रिकः सत्यं वक्तुं न प्रभवति तर्हि किं करोति भवान् ?” इति पृष्टवान् कनकराजः ।

“तदा, भवता मह्यं यत् धनं दातव्यम् आसीत् तत् न ददातु । ‘सः मान्त्रिकः वञ्चकः’ इति ज्ञातं चेत् पुनः प्रतिफलदानस्य आवश्यकता एव न भवति । शतं रूप्यकाणि मम समीपे एव अवशिष्यन्ते । अतः अहं, भवता ऋणं प्रत्यर्पितं इति भावयामि” इति उक्तवान् कमलनाथः ।

कमलनाथस्य चातुर्यपूर्णं वचनं श्रुत्वा कनकराजः आश्चर्यचकितः । “ऋणत्वेन दत्तं धनं प्रतिस्वीकर्तुम् एषः युक्तम् उपायं चिन्तितवान्” इति सः चिन्तितवान् ।

“अस्तु, गच्छावः” इति उभावतपि मान्त्रिकस्य समीपं गतवन्तौ । तस्मिन् समये मान्त्रिकस्य समीपे बहवः जनाः आसन् । मान्त्रिकः दीर्घं कञ्चुकं धृत्वा मृगचर्मासने उपविष्टः आसीत् । तस्य पुरतः अनेकप्रकारकाणि चित्राणि लिखितानि आसन् । चित्रमध्ये अस्थिद्वयम्, एकं कपालं च आसीत् । सः मान्त्रिकः नेत्रे निमील्य तदा तदा दन्तान् निष्पीड्य बद्धभृकुटिः भूत्वा मन्त्रपठनं कुर्वन् आसीत् ।

कनकराजः तं नमस्कृत्य स्वस्य नाम उक्त्वा

“स्वामिन् ! मम एका याचना अस्ति । किन्तु भवान् मम उपकारं करोति चेदपि अहं प्रतिफलं दातुं न शक्तः । यतः अहं दरिद्रः । प्रतिफलं विना भवता दरिद्राणां उपकारः क्रियते’ इति मया श्रुतम् । अतः एव आगतवान्” इति उक्तवान् ।

** मान्त्रिकः नेत्रे उद्घाट्य उक्तवान्**

—”

सत्यम्, अहं देव्याः उपासकः । भक्ताः सन्तोषेण यद्यत् यच्छन्ति तदेन देवी सानन्दं स्वीकरोति । अपि च प्रतिफलं विना दरिद्राणां सेवा कर्तव्या इत्यपि अहं देव्या आज्ञप्तः । अतः निःसङ्कोचं पृच्छतु” इति ।

** “दशदिनेभ्यः पूर्वं मम गृहे शतं रूप्यकाणि केनचित् अपहृतनि । तद्धनम् अहं एकस्मिन् वस्त्रे बन्धयित्वा गृहे एव एकत्र पार्श्वेस्थापितवान् आसम् । ग्रामे सर्वेऽपि भवतः समीपं भक्त्या आगच्छन्ति । अहम् एकः एव भवतः सन्निधिं न आगतवान् । अद्य एषःधनिकः कमलनाथः अनुरोधपूर्वकं मां भवतः समीपम् आनीतवान् । अतः तद्धनं केन अपहृतम् इति वदतु । पुनः यथा तत् धनं प्राप्तुं शक्यं तथा करोतु” इत्युक्तवान् कनकराजः ।**

** मान्त्रिक पुनः नेत्रे निमील्य एवम् आलोचितवान्—**

"

अस्य एकस्य एव मम विषये श्रद्धा न आसीत् । एषः अपि मम भक्तः भवति चेत् तदा ग्रामे कोऽपि मम विरोधी एवन भविष्यति । अपि च अन्येषु ग्रामेषु अपिमम प्रभावः अधिकतया प्रसरति । अतः

केनापि उपायेन अस्य कनकराजस्य साहाय्यं मया करणीयम्” इति ।

मान्त्रिकः एवम् आलोच्य नेत्रे उद्घाट्य गम्भीरेण स्वरेणं उक्तवान्—“अहो ! ज्ञातम् । सर्वोऽपि देव्याः महिमा धनं केन चोरितम् इति मया ज्ञातम्” इति।

कनकराजः विनयेन पृष्टत्रान्—“स्वामिन् ! केन धनम् अपहृतम् ?”

“चोरः भवतः मित्रेषु अन्यतमः । तस्य नाम अहं न वदामि। ‘तस्य अपराधः क्षन्तव्यः’ इति देवी आज्ञापितवती । सः चोरः अस्यां रात्रौ शतं रूप्यकाणि आनीय मह्यं ददाति । भवान् श्वः अस्मिन्नेव समये आगत्य धनं स्वीकरोतु” इति मान्त्रिकः उक्तवान् ।

कनकराजः ‘अस्तु’ इति अङ्गीकृत्य पुनः साष्टाङ्गनमस्कारं कृत्वा प्रतिनिवृत्तः ।

स्वस्य वचनं श्रुत्वा चोरः धनम् आनीय ददाति इति मान्त्रिकः चिन्तितवान् । शिष्यद्वारा ग्रामे सर्वत्र एतं विषयं प्रकटीकारितवान् ।किन्तु कोऽपि धनं न आनीतवान् ।

अतः सः स्वस्य समीपे स्थितं धनमेव कनकराजाय दातुं निश्चितवान्, दत्तवान् च ।

एतत्सर्वं दृष्ट्वा धनिकः कमलनाथः ‘मान्त्रिकस्य, प्रभावेण एव कनकराजेन धनं पुनः प्राप्तम्’ इति चिन्तितवान् । अतः पूर्वं यथा निश्चितं तथैव मान्त्रिकाय शतं रूप्यकाणि दत्त्वा कनकराजस्य सकाशात् धनं स्वीकर्तुं तस्य गृहं गतवान् ।

तत्र कनकराजः उक्तवान्—‘मान्त्रिकस्य कापि शक्तिः नास्ति इति तु सिद्धं किल ? अतः मया दातव्यं किमपि नास्ति’ इति ।

तदा कमलनाथः कोपेन उक्तवान्—“किम् ? किमर्थम् एवं वदति ? तस्य शक्तिः नास्ति इति भवता साधिता वा ? मान्त्रिकः चौरेण अपहृतं धनम् अनीतवान् किल?”

‘मम धनं यदि अपहृतं स्यात् तदा मान्त्रिकस्य विषये श्रद्धा भवेत्’ इति उक्तवान् कनकराजः ।

“अये ! भवान् किम् एवं वदति ?” इति पृष्टवान् कमलनाथः ।

“अहं यदा भवतः समीपे धनं याचितुम्

आगतवान् तदा ऋणं प्रष्टुं किमपि कारणम् आवश्यकम् आसीत् । अतः भवतः समीपे अहं चोरेण धनम् अपहृतम्’ इति असत्यम् उक्तवान् । एतादृशलघुविषयम् ज्ञातुम् अपि सः मान्त्रिकः न समर्थः । ‘चोरः आगत्य धनं न दत्तवान्’ इति यदि मान्त्रिकः वदति तदा तस्य विषये सर्वेषां अनादरः भवेत् । अत एव सः भीत्या स्वीयं धनमेव मह्यं दत्तवान्” इति कनकराजः उक्तवान् ।

"

एतत् सर्वं तत्रैवसर्वेषां पुरतः वक्तव्यम् आसीत् । किमर्थं तथा न कृतम् ?" इति पृष्टवान् कमलनाथः ।

"

ग्रामे सर्वेऽपि तेन वञ्चिताः । स्वकीयमौढ्येन ते तं मान्त्रिकमेव दैवमिति भावयन्ति । अहं यदि सत्यं वदामि सर्वे ‘एषः असत्यं वदति’ इति मामेव ताडयन्ति । ये विचारं कुर्वन्ति ते एतादृशजनानां विषये श्रद्धामेव न कुर्वन्ति । मुग्धजनानां समीपे यदि वदामि तदा प्रयोजनम् अपि नास्ति । अतः एव अहं न कथितवान्" इति कनकराजः उक्तवान् ।

"

भवता सत्यं वक्तव्यम् आसीत् । सर्वे ताडयितुम् आगच्छन्ति चेत् अहं तदा निग्रहं कुर्याम्" इति कमलनाथः उक्तवान् ।

"

एतत् बहु समीचीनम् । मान्त्रिकस्य विषये सर्वेषाम् अनादरः भवतु इत्यपेक्षया अपि मम गौरवं बहु प्रधानम्। ‘धनिकस्य धनं दातुम् अशक्तः कनकराजः, धनं चोरेण अपहृतम् इति असत्यम् उक्तवान् । अतः कनकराजः अनृतं वदति’ इति सर्वे चिन्तयन्ति चेत् तदा मम अपमाननं न भवति वा ? पूर्वं भवता एकम् उक्तम् ‘मान्त्रिकस्य वञ्चकत्वं साधयति चेत् धनं मह्यं मा ददातु’ इति । अतः एव अहं धनं न ददामि इत्युक्तवान् । भवान् यदि वचनम् अन्यथा करोति तर्हि स्वीकरोतु धनम्" इति कनकराजः धनं दातुं प्रवृत्तः ।

** तदा कमलनाथः**

"

मास्तु ! मास्तु ! भवतः बुद्धेः मम पारितोषिकम् इदम्" इति उक्त्वा गतवान् ।

योग्यतापरीक्षा

रमापतिनामकस्य गृहस्थस्य सुवर्चला नाम एका पुत्री । एषा बाल्ये एक मातृविहीना अभतत् । मातृविहीनाम् एताम् अद्वितीयां पुत्रीं अत्यन्तप्रीत्या पालितवान् रमापतिः । इदानीं सवर्चला प्राप्तवयस्का । एतस्याः विवाहार्थं रमापतिः वरान्वेषणम् आरब्धवान् ।

** एवं स्थिते एकदा पार्श्वग्रामे स्थितः रमापतेः स्नेहितः वार्तां प्रेषितवान्—“भवता सह विशेषतया वार्तालापः करणीयः अस्ति । अनारोग्यकारणतः अहं तत्र आगन्तुं न शक्नोमि । अतः त्वरया भवान् एव आगच्छतु**

"

इति। ‘प्रातः प्रस्थाय रात्रौ प्रत्यागन्तुं शक्येत’ इति चिन्तयित्वा रमापतिः गन्तुम् उद्युक्तः । तद्दिने आकाशः मेघैः व्याप्तः आसीत् । अतः रमापतिः पुत्रीम् उक्तवान्—“अद्य वृष्टिः आगच्छेत् एव । मम आगमने विलम्बः अपि भवेत् । भवती द्वाराणि पिधाय तिष्ठतु” इति ।

** “भवान् मम विषये चिन्तां न करोतु। कार्यं समाप्य श्वः प्रातः अपि आगन्तुम् अर्हति भवान् । अहम् इतोऽपि बालिका न । भवान् निश्चिन्ततया गत्वा आगच्छतु” इति उक्त्वा पितरं प्रेषितवती सुवर्चला ।**

** अन्धकारः व्याप्तः । रमापतिः न आगतवान् । सुवर्चला यद्यपि द्वाराणि विधाय सुप्तवती, किन्तु निद्रां न प्राप्तवती । सामान्यतः मध्यरात्रे केनचित् क्रियमाणः द्वारशब्दः तया श्रुतः । ‘पिता एव आगतवान् स्यात्’ इति चिन्तयन्ती सुवर्चला द्वारपार्श्वे स्थितं वातायनम् उद्घाट्य बहिः दृष्टवती । बहिः मन्दं वर्षति स्म। वृष्ट्या आर्द्रः कश्चित् वृद्धः द्वारसमीपे स्थितः आसीत् ।**

** वातायनद्वारेण पश्यन्तीं सुवर्चलां सः वृद्धः दीनतया प्रार्थितवान्—“भोः ! अस्यां रात्रौ शयनार्थं किञ्चित् अवकाशं दत्त्वा उपकरोतु भवती । अज्ञातं ग्रामम् आगतवान् अस्मि ।**

अग्रे गन्तुं न शक्नोमि । अस्वस्थः अपि अस्मि अहम्” इति ।

सुवर्चला करुणया द्वारम् उद्घाटितवती । “अन्तः आगच्छतु तात !” इति वदन्ती दीपम् उद्दीपितवती च ।

वृद्धः अन्तः आगतवान् । सुवर्चला तस्मै धारणार्थं वस्त्राणि दत्तवती । शरीरमार्जनार्थं प्रोञ्छम् अपि दत्तवती । सः वृद्धः शरीरं मार्जयित्वा नूतनवस्त्राणि धृत्वा परितः पश्यन् पृष्टवान् “भवती अस्यां रात्रौ गृहे एकाकिनी तिष्ठति वा?” इति ।

सुवर्चला पितुः प्रवासवार्तां निवेद्य पृष्टवती “तात ! दाक्षिण्यं मास्तु । भवतः भोजनं समाप्तं वा ?” इति ।

सः वृद्धः मन्दस्वरेण उक्तवान्—“वस्तुतः वक्तव्यं चेत् अद्य मध्याह्ने अपि भोजनं न कृतम् । तथापि चिन्ता नास्ति । एवम् एव निद्रां करोमि” इति ।

“भोजनं विना निद्रा वा ? आगच्छतु । पितुः निमित्तं सज्जीकृतः पाकः अस्ति एव” इति वदन्ती सा तं पाकशालां नीतवती । पाकम् उष्णीकृत्य प्रीत्या परिवेषितवती । वृद्धः तृप्त्या भोजनं कृतवान् ।

सुवर्चला प्रकोष्ठे वृद्धनिमित्तं कटं प्रसार्य शय्यां सज्जीकुर्वती आसीत् । अकस्मात् शिरसि लघुताडनं तया अनुभूतम् इव । झटिति सा शिरः उन्नीय दृष्टवती । तदा वृद्धः तीक्ष्णां छुरिकां प्रदर्शयन् कोपेन गर्जितवान्—“भोः ! गृहे स्थितानि आभरणधनादीनि बद्ध्वा अत्र आनयतु । अन्यथा किमपि आचरति चेत् भवतीं निर्दयं यमसदनं प्रेषयिष्यामि” इति ।

अकस्मात् प्रवृत्तया एतया घटनया स्तब्धा सुवर्चला पदद्वयं पृष्ठतः गतवती । अनन्तरं धैर्यम् आश्रित्य—“आश्रयदात्र्याः विषये एव द्रोहम् आचरति किल ? चोरः चेदपि कृतघ्नः न भवति इति मया श्रुतम् आसीत् । भवते भोजनं दत्त्वा मया अपचारः कृतः” इति उक्तवती ।

वृद्धः असहनां प्रदर्शयन्—“किमिति महोपकारं कृतवती भवती ? यदि द्वारम् उद्घाटितं न स्यात् तर्हि भित्त्वा प्रविशेयम्

एव। भोजनं न परिविष्टं चेत् स्वयं स्वीकुर्याम् । सर्वम् उदर-निमित्तम् । वृथा वादः किमर्थम् ? मया यथा उक्तं तथा आचरतु । आभरणादीनि आनयतु अत्र’ इति पुनः उक्तवान् ।

** “भोजनं परिवेषयन्त्या मया एव अपराध कृतः । अहं भवते स्वहस्तेन किमपि न ददामि । मां मारयति चेदपि चिन्ता नास्ति । भवान् धनम् इच्छति चेत् तत्र प्रकोष्ठे पेटिकायां सर्वम् अस्ति । भवान् एव नयतु” इति उक्तवती सा कोपेन ।**

** वृद्धः उत्साहेन प्रकोष्ठं प्रविष्टवान् । सुवर्चला विद्युद्वेगेन गत्वा द्वारं पिधाय द्वारशृङ्खलया कीलितवती । वृद्धः त्वरया प्रत्यागत्य द्वारम् आकृष्टवान् । हताशया निरन्तरं द्वारं ताडितवान् ।**

** ‘वृद्धस्य दण्डनार्थं किमर्थं वा मध्यरात्रे ग्रामीणानां निद्राभङ्गः उत्पादनीयः ? सूर्योदयानन्तरं एतद्विषये चिन्तयामि’ इति विचिन्त्य सुवर्चला स्वप्रकोष्ठं गतवती । अल्पे एव काले निद्रां कृतवती च ।**

** उषःकाले पुनः द्वारताडनशब्दः श्रुतः । ‘पिता आगतवान् स्यात्’ इति द्वारम् उद्घाटितवती सुवर्चला । किन्तु द्वारे पिता न, अपि तु अमूल्यैः वस्त्राभरणादिभिः अलङ्कृतः कश्चन धनिकः युवकः स्थितः आसीत् ।**

** सुवर्चला तं दृष्ट्वा पृष्टवती—“कः भवान् ? कः अपेक्षितः ?” इति ।**

** युवकः मन्दहासं प्रकटयन्— “वृष्ट्या आर्द्रः कश्चन वृद्धः आश्रयम् इच्छन् अत्र आगतवान् वा?” इति पृष्टवान् ।**

** “आम्, आगतवान् । अहं करुणया आश्रयं दत्त्वा भोजनं परिवेषितवती । किन्तु कृतघ्नः सः छुरिकया मां भाययन् आभरणानि आनेतुम् आदिष्टवान् । अहम् उपायेन तं प्रकोष्ठे बन्धने स्थापितवती । तदस्तु । वृद्धस्य आगमनवार्ता भवता कथं ज्ञाता । वृद्धस्य भवतः च कः सम्बन्धः ?” इति पृष्टवती सुवर्चला ।**

** युवकः उच्चैः हसन्—“सः न चोरः, अपितु मम सेवकः” इति उक्तवान् ।**

** “सः भवतः सेवकः स्यात् नाम । चौर्यार्थं प्रवृत्तः चेत् चोरः एव भवति किल सः ?” इति**

कोपेन पृष्टवती सुवर्चला।

** युवकः पुनः अपि हसन्—“सः वस्तुतः चौर्यार्थं न आगतवान् एव । एतत् सर्वं एकं रूपकम् इव” इति उक्त्वा वस्तुस्थितिं निवेदितवान् ।**

** तस्य युवकस्य नाम मोहनाङ्गः इति । सप्ताहतः पूर्वं स्तेहितस्य विवाहार्थम् एतद्ग्रामम् आगतः सः सुवर्चलां दृष्ट्वा तस्याःआकारेण व्यवहारेण च आकृष्टः अभवत् । ‘लक्षाधिपस्य अद्वितीयपुत्रं मां परिणेतुंएतस्याः योग्यता अस्ति वा न वा ?’ इति सःपरीक्षितुम् इष्टवान् । आप्तद्वारा तस्याः कुलगोत्रादिकं विचार्य रमापतेः अनुपस्थितिंप्रतीक्षमाणः एवं नाटकम् आयोजितवान्आसीत् मोहनाङ्गः ।**

एतत् सर्वं श्रुत्वा आश्चर्यचकितां सुवर्चलां मोहनाङ्गः उक्तवान्—“मम परीक्षायां भवती सफलतया उत्तीर्णा” इति ।

** तत् कथम् ?” इति उद्गच्छन्तं कोपं निगृह्णन्ती सुवर्चला पृष्टवती ।**

** तदा युवकः नटः इव हावभावम् अभिनयन्—“वृद्धस्य आदरणेन भवत्याः उदारता-दया-वात्सल्यादयः, छुरिकां दृष्ट्वा अपि निर्भयेन स्थित्या भवत्याः धैर्यं, तस्य बन्धने भवत्याः चतुरता, समयस्फूर्तिः च निरूपिताः अभवन् । मम जीवनसहचरी भवितुं भवती अर्हा । भवत्याः विवाहार्थम् अहं सिद्धः अस्मि” इति उक्तवान् मोहनाङ्गः ।**

** “सेवकद्वारा एवं नाटकं किमर्थं कारितवान् ? यदि भवान् एतादृशं नाटकम् अन्यत्र स्वयम् अभिनयेत् तर्हि लक्षशः रूप्यकाणि सम्पादयेत्” इति वदन्ती सुवर्चला ततः गत्वा प्रकोष्ठस्य द्वारम् उद्घाटितवती । वृद्धः मन्दं बहिः आगत्य स्वयजमानस्य पृष्टतः स्थितवान् ।**

** तदा सुवर्चला मोहनाङ्गं पश्यन्ती—“भोः महोदय ! भवान् मम योग्यतापरीक्षां कृत्वा निर्णयम् अपि घोषितवान् । अहं चिन्तयामिएतत् मूर्खतापूर्णं कार्यम् इति । अत्र शृणोतु, एवम् अविचार्य किमपि किमपि कृतवन्तं भवन्तं ग्रामरक्षकस्य वशे यत् न अर्पितवती तत् मम औदार्यम् । लक्षाधिपतिं भवन्तं तर्जयन्ती इतः गन्तुं यत् सूचयन्ती अस्मि तत् मम धैर्यम्। भवन्तं परिणेतुं निराकुर्वती यत्**

अस्मि तत् मम बुद्धिमत्ता । ज्ञातं किल मम वास्तविकं स्वरूपम् । कृपया इतः गन्तुम् अर्हति भवान्” इति उक्त्वा हस्तेन द्वारमार्गं सूचितवती ।

** एतत् श्रुत्वा मोहनाङ्गः तस्य सेवकः च विवर्णौजातौ । किमपि वक्तुम् अशक्तौ तौ ततः प्रस्थितौ । तत्समये द्वारि स्थितं रमापतिं दृष्ट्वा अपि अदृष्टवन्तौ इव गतवन्तौ ।**

** रमापतिः पुत्र्याः वचनानि श्रुतवान् आसीत् । सः अन्तः आगत्य पुत्रीं प्रीत्या पृष्टवान्—“भवती एकाकिनी तिष्ठति इति स्मरन् रात्रेः अन्तिमयामे एव तद्ग्रामतः प्रस्थितवान् अहम्। अत्र तु विचित्रं दृष्टवान् । लक्षाधिपतिः परिणयेच्छया स्वयम् अत्र आगतवान् । तम् एवं कठोरवचनैः निन्दयित्वा प्रेषितवती किल भवती !” इति ।**

** “तात ! धनमदः एतस्य । ‘धनेन सर्वं सिध्यति’ इति चिन्तयति सः । सः वदति—‘भवत्याः योग्यतापरीक्षार्थं नाटकं कृतम् । भवती योग्यतापरीक्षायाम् उत्तीर्णा’ इति । मम इष्टानिष्टस्य प्रश्नः एव नास्ति अत्र ।धनेन किं सः मां क्रेतुं शक्नोति? अहं तावत् सुलभलभ्या न” इति उक्तवती सुवर्चला ।**

** रमापतिः किञ्चित्कालम् आलोच्य पुत्रीम् उक्तवान्—“भवती मम बाल्यस्नेहितं रामभद्रं जानाति किल? प्रायः तस्य पुत्रं प्रभाकरम् अपि दृष्टवती स्यात् एव” इति ।**

** “जानामि किल” इति उक्तवती सुवर्चला । “ह्यः ततः एव आगन्तुम् आह्वानम् आगतम् आसीत्। सः रामभद्रः भवतीं स्नुषात्वेन प्राप्तुम् इच्छति । सः भवत्याः अभिप्रायं ज्ञातुम् इच्छति अपि । प्रभाकरः गुणी, योग्यः श्रमशीलः च । विद्यमानायाम् अल्पभूमौ एव सः सुवर्णसदृशीं फलसमृद्धिं प्राप्नोति । किं तं परिणेतुम् इच्छति वा भवती?” इति पुत्रीं पृष्टवान् रमापतिः ।**

** अङ्गीकारं प्रदर्शयन्ती सुवर्चला मन्दहासपूर्वकं शिरः चालितवती । बाल्यस्नेहितस्य पुत्रः आत्मनः जामाता भविष्यति इति रमापतिः बहु सन्तुष्टः ।**

राजदर्शनम्

रामगिरिनामके ग्रामे श्रीपालः नाम कश्चित् आसीत् । श्रीः तस्य नाम्नि केवलम् आसीत्, न तु जीवने। जन्मना दरिद्रः सः अन्येषां गृहे कार्यं करोति । तैः दत्तेन धनेन उदरं पूरयन् कथञ्चित् जीवनं यापयति च । कदाचित् पूर्णोदरं भोजनम् । पुनः कदाचित् निर्जलम् उपवासः ।

एकदा तद्ग्रामीणः शिवः नाम कलाकारः राजधानीं गत्वा स्वविद्याप्रौढतां प्रदर्श्य प्रत्यागतवान् । सामान्यजनरूपेण गतः सः राजधानीतः प्रत्यागमनसमये धनिकः जातः आसीत् ।

एतत् दृष्टवतः श्रीपालस्य अत्याश्चर्यम् । सः शिवस्य गृहं गत्वा पृष्टवान् एव—“भवान् राजधानीं गत्वा महत् ऐश्वर्यं सम्पाद्य आगतवान् खलु ? राजधान्यां तादृशः कः विशेषः ?” इति ।

तदा शिवः सन्तोषं प्रकटयन् उक्तवान्—“अस्माकं महाराजस्य विषये किमिति वदामि ? सः साक्षात् अवतारी पुरुषः । शौर्येण अर्जुनः चेत् ऐश्वर्येण कुबेरः एव । दानगुणेन शिबि-बलि-कर्णादीन् अतिशेते। महाराजस्य अन्यः विशेषगुणः नाम सः प्रजानां हितम् एव सदा चिन्तयति । प्रजाः पुत्रवात्सल्येन पश्यति चः

इति ।

अल्पेषु एव दिनेषु शिवस्य आर्थिक परिस्थितिम् एव परिवर्तितवतः महाराजस्य विषये यत् एतत् श्रुतं तत्सर्वं सत्यम् एव इति अङ्गीकृतवान् श्रीपालः । महाराजविषये’ कुतूहलम् उत्पन्नं तस्य मनसि । अतः सः एतद्विषये इतरान् अपि पृष्टवान् । तेन सः राजविषये बहून् विषयान् ज्ञातवान् ।

‘राजा प्रजाहितार्थं बहूनि उत्तमानि कार्याणि करोति । यत्र फलसमृद्धिः न्यूना तत्र

करभारः अपि न अधिकः । यत्र क्षामः दृश्यते तत्र निश्शुल्कं धान्यवितरणं प्रचलति’ इत्यादयः बहवः वार्ताः श्रीपालेन श्रुताः । महाराजः द्रष्टव्यः एव इति भावना तस्य मनसि तीव्रा जाता । अतः सः प्रयाणार्थं धनं सङ्ग्रहीतुम् आरब्धवान् । धनसङ्ग्रहतत्परः सः कदाचित् उपवासम् अपि आचरति ।

एकवर्षानन्तरं श्रीपालः एकं वस्त्रग्रन्थिं स्कन्धे आरोप्य राजधानीं प्रति प्रस्थितवान् एव।

राजधानीं प्राप्य राजदर्शनं कर्तुम् इच्छामि’ इति यदा भटान् उक्तवान् तदा ते उक्तवन्तः । “भवादृशं द्रष्टुं महाराजस्य समयः एव नास्ति । राजकार्यव्यग्रः सः इदानीं दर्शनं न ददाति” इति ।

अहम् एकवारं तस्य दर्शनं प्राप्य गच्छामि । तं किमपि न प्रार्थयामि” इति सदैन्यम् उक्तवान् श्रीपालः । तथापि रक्षकभटाः अन्तः गन्तुम् अवकाशं न दत्तवन्तः । निराशः श्रीपालः ततः गन्तुम् उद्युक्तः ।

तदा एतत्सर्वं परिशीलयन् कश्चित् पौरः समीपम् आगत्य श्रीपालम् उक्तवान्—“निराशः भवान् अद्यैव ग्रामं न प्रतिगच्छतु । प्रतिदिनम् अपि एतान् द्वारपालकान् एवम् एव प्रार्थयतु । कदाचित् वा ते भवतः विषये दयां प्राप्य अन्तः गन्तुम् अवकाशं कल्पयिष्यन्ति” इति ।

‘राजदर्शनम् अकृत्वा ग्रामगमनं व्यर्थम् एव’ इति निश्चितवान् श्रीपालः ।

यदा अन्धकारः व्याप्तः तदा श्रीपालस्य पुरतः अन्या समस्या आगता ‘रात्रौ शयनं कुत्र?’ इति । ग्रामे तु सः यस्य कस्यापि गृहस्य पुरतः शयनं कृत्वा रात्रिं यापयति स्म । यतः ग्रामे सर्वे तस्य सुपरिचिताः एव । किन्तु अत्र कस्यापि परिचयः नास्ति । रक्षकभटाः तम् उक्तवन्तः—“रात्रौ मार्गे सञ्चारः न करणीयः” इति ।

तदा श्रीपालः तान् पृष्टवान्—“एवं तर्हि अहं रात्रौ कुत्र निवसामि?

इति ।

“भोः, भवादृशानाम् आगन्तुकानां वसत्यर्थम् एव नगरे धर्मशालाः सन्ति ।

किन्तु रात्रौ तासु अपि प्रवेशः न लभ्यते । नगरद्वारसमीपे एका धर्मशाला अस्ति । तत्र यदा कदापि प्रवेशः लभ्यते । अतः भवान् तत्रैव गच्छतु” इति उक्तवन्तः भटाः ।

श्रीपालः भटैः सूचितं मार्गम् अनुसरन् धर्मशालां प्रति प्रस्थितवान् । किन्तु परिचयाभावात् सः मार्गभ्रष्टः जातः । इतस्ततः अटन् सः

एकं

विशालम् अङ्गणं प्राप्तवान् ।

‘अत्रैव किञ्चित् विश्रान्तिः स्वीकरणीया’ इति चिन्तितवान् श्रीपालः। अत्रान्तरे कश्चित् तस्य समीपम् आगत्य पृष्टवान्—“कः भवान् ? रात्रिसमये भवान् अत्र किं करोति ?” इति ।

श्रीपालः आत्मनः परिचयम् आगमनकारणं च निवेदितवान् ।

“महाराजदर्शनार्थम् आगतः भवान् एवम् अटन् अस्ति । भवतः एषः व्यवहारः संशयास्पदः एव ।भवान् कथां कल्पयित्वा वदन् कश्चन चोरः स्यात् वा इति मम सन्देहः । प्रथमं भवान् तं वस्त्रग्रन्थिम् उद्घाट्य प्रदर्शयतु” इति उक्तवान् सः पुरुषः ।

श्रीपालः वस्त्रग्रन्थिम् उद्घाट्य सर्वं प्रदर्शितवान् । तत्र धनिकधारणयोग्यानि अमूल्यानि वस्त्राणि उत्तमा पादरक्षा च आसन् ।

सः पुरुषः परीक्षादृष्ट्या श्रीपालम् आपादमस्तकं दृष्टवान् ।

“एतानि वस्तूनि न भवदीयानि, अपि तु चोरितानि । सत्यं खलु ?” इति कठिनस्वरेण पृष्टवान् सः पुरुषः ।

“न चोरितानि एतानि । एकवर्षात्मकेन सम्पादनेन एतानि क्रीतानि । सत्यं वदामि, एतानि मदीयानि एव” इति सदैन्यम् उक्तवान् श्रीपालः ।

“यदि एतानि भवता एव क्रीतानि तर्हि कुतः वा न धृतानि ? किमर्थं ग्रन्थौ स्थापयित्वा अटति?” इति पृष्टवान् सः पुरुषः ।

“राजदर्शनसमये धारणार्थम् एतानि क्रीतानि । द्वारपालकानाम् अनुमतिप्राप्तेः

अनन्तरम् एतानि धृत्वा अन्तः गन्तव्यम् इति मम विचारः आसीत् । पूर्वम् एव धृतानि चेत् मलिनानि अभविष्यन् खलु ?” इति पृष्टवान् श्रीपालः ।

“राजदर्शनार्थं क्रीतानि चेत् राजभवनात् बहिः एव धृत्वा खलु अन्तः गन्तव्यम् ? राजभवनं प्रविश्य वस्त्राणि धृत्वा गमनम् इत्यस्य कः अर्थः ? किं द्वारक्रमणाभ्यन्तरे तानि मलिनानि भवेयुः वा ?” इति आश्चर्येण पृष्टवान् सः पुरुषः ।

“वस्त्रस्य सुस्थितिः थालथल्यं च अपगच्छेत् इति मम आतङ्कः” इति उत्तरितवान् श्रीपालः ।

“भवान् राजदर्शनम् इच्छति चेदपि महाराजः भवतः परिचयं न प्राप्नोति । भवतः दर्शनं क्षुल्लकं गणयेत् च । एवं स्थिते राजदर्शनार्थम् एतादृशम् उत्तमं वस्त्रं किमर्थम्?” इति श्रीपालं पुनः पृष्टवान् सः पुरुषः ।

श्रीपालः क्षणकालस्य मौनानन्तरम् उक्तवान्—“एतस्य देशस्य प्रभुः अवतारिपुरुषः । प्रजाहितार्थं सः अनेकानि कार्याणि कुर्वन् अस्ति । निर्धनानाम् उन्नत्यै सदा प्रयत्नशीलः सः । तादृशाय महात्मने अहं मम दारिद्र्यंप्रदर्शयितुं न इच्छामि । अतः एव एतानि वस्त्राणि संगृहीतवान् अहम्” इति ।

“एवं तर्हि यत् न भवितव्यम् आसीत् तदेव प्रवृत्तम् । इदानींभवान् मम पुरतः अस्ति । अहम् एव एतस्य देशस्य प्रभुः” इति उक्तवान् सः पुरुषः ।

श्रीपालः आश्चर्येण—“भवान् एव वा एतस्य देशस्य प्रभुः ? एतादृशं भाग्यं मम स्यात् इति कल्पना अपि न आसीत् । मम जन्म सार्थकं जातम् । किन्तु रात्रिसमये महाराजः भवान् किमर्थम् एवम् अटति इति तु न ज्ञातम्” इति उक्तवान् ।

“प्रजाः मम विषये किं वदन्ति इति ज्ञातुम् अहम् एवं रात्रिसञ्चारं करोमि । अत एव वेषान्तरं धरामि च । भवतः दर्शनेन अहम् अपि सन्तुष्टः अस्मि । श्वः राजभवनम् आगच्छतु । द्वारापालकाः प्रवेशार्थम् अनुमतिं

दास्यन्ति । भवतः दारिद्र्यं यथा अपगच्छेत् तथा उपायनानि दास्यामि भवते” इति वदन् तस्य स्कन्धे प्रीत्या हस्तं स्थापितवान् राजा ।

श्रीपालः शिरः अवनमय्य भूमिं पश्यन् मौनं स्थितवान् । तदा राजा एव पुन

ः—“भोः, भवतः दारिद्र्यम् अहं दृष्टवान् । एतत् मम मन्त्रिणः सभासदः च पश्येयुः । अतः भवदीयानि एतानि उत्तमवस्त्राणि अहं नयामि। श्वः भवान् भवदीयेन एतेन एव वस्त्रेण एव आगच्छतु। सर्वे अस्माकं देशस्य निर्धनस्य परिस्थितिं स्वयं जानन्तु” इति उक्त्वा तं वस्त्रग्रन्थिम् उन्नीय गतवान् ।

** अनन्तरदिने राजा सभायां श्रीपालस्य प्रतीक्षां कृतवान् । किन्तु श्रीपालः न आगतः एव । द्वारपालकाः उक्तवन्तः यत् तादृशः कोऽपि अद्य न आगतः इति । राजा भटान् सम्प्रेष्य राजसभां प्रति श्रीपालम् आनायितवान् ।**

** अनागमनस्य कारणं पृष्टः श्रीपालः महाराजं विनयेन उक्तवान्—“महाप्रभो ! अहं तु भवतः दर्शनार्थम् एव अत्र आगतवान् आसम् । किन्तु अकस्मात् प्राप्तं भवद्दर्शनम् । तेन अहं तृप्तः । अतः पुनर्दर्शनस्य का आवश्यकता ? मदीयानि उत्तमवस्त्राणि भवतः हस्ते सन्ति इति तु सत्यम् । किन्तु भवद्दर्शनानन्तरं तैः मम किं वा प्रयोजनम् ? अतः तानि प्रतिप्राप्तुं न इष्टवान् अहम्” इति ।**

** राजा तृप्त्या शिरः चालयन्—“भवति स्वार्थभावस्य लेशः अपि नास्ति । भवतः व्यवहारः अपि सरलः । भवत्कारणतः एव मम परिपालने स्थितः दोषः मया ज्ञातः । मम प्रजानां च मध्ये द्वारपालकाः भित्तिः इव आचरन्तः सन्ति । एतच्च मया इदानीं ज्ञातम् । सत्यदर्शनं कारितवन्तं भवन्तम् अतः एव सम्मानयामि” इति उक्त्वा अमूल्यानि उपायनानि दत्त्वा तं प्रेषितवान् ।**

** एवं श्रीपालस्य दारिद्र्यम् अपगतम् । अनन्तरकाले यः कोऽपि सुलभतया राजदर्शनं प्राप्तुम् अर्हति स्म ।**

राजभक्तिः

प्राचीनकाले ताराचन्द्रः नाम राजा अनङ्गदेशं परिपालयन् आसीत् । तस्य उभौ पुत्रौ । ज्येष्टः चन्द्रापीडः, अन्यः तारापीडः । यदा ताराचन्द्रः वार्धक्यकारणतः दिवङ्गतः तदा तौ कुमारौप्राप्तवयस्कौ आस्ताम् ।

** पितुः मरणानन्तरं ज्येष्ठः चन्द्रापीडः अनङ्गदेशस्य राजा जातः । अनुजः तारापीडः लक्ष्मणः इव अग्रजस्य अनुवर्ती आसीत् । राज्यपालने साहाय्यं कुर्वन् तारापीडः चन्द्रापीडस्य दक्षिणः भुजः इव आचरति स्म । सहोदरयोः अन्योन्यतां दृष्ट्वा सर्वे आश्चर्यचकिताः भवन्ति स्म—कलियुगे अपि एतादृशाः सन्ति खलु इति ।**

** चन्द्रापीडः आदिनं राजकार्ये व्यग्रः भवति । सायङ्काले मनोविनोदार्थं राजभवनसमीपस्थे उद्याने एकान्ते किञ्चित्कालम् उपविशति च । तादृशे सन्दर्भे मुख्यं कार्यं यदि स्यात् तर्हि तारापीडः तत्र आगच्छति, अग्रजेन सह विचारविमर्शं कृत्वा निर्गच्छति च ।**

** एकदा चन्द्रापीडः अनुजं तारापीडः समीपस्थं चम्पकराज्यं प्रति कार्यनिमित्तं प्रेषितवान् । तद्दिने यथापूर्वम् आदिनं कार्यं कृत्वा विश्रान्त्यर्थं सः राजोद्यानं गतवान् । तत्समये एका आकस्मिकी घटना प्रवृत्ता ।**

** सूर्यास्तानन्तरम् अपि चन्द्रापीडः एकान्ते चिन्तनमग्नः आसीत् । यदा अन्धकारः सर्वत्र व्याप्तः तदा सः प्रासादं प्रति प्रस्थितवान् । तदा कस्मात् अपि गुल्मात् आहारान्वेषणार्थम् आगतः सर्पः महाराजेन पादेन स्पृष्टः । तेन कुपितः सः सर्पः महाराजं दृष्ट्वा कुत्रापि निलीनः अभवत् ।**

** सर्पदंशनेन चन्द्रापीडः वेदनया उच्चैः आक्रन्दनं कृत्वा अधः पतितवान् । एतत्**

करुणक्रन्दनं श्रुत्वा धावन्तः आगत्य भटा

ःमहाराजम् अन्तःपुरं प्रति नीतवन्तः । आस्थानवैद्यः त्वरया आनीतः । चिकित्सा अपि आरब्धा ।

** आस्थानवैद्यस्य समयोचितचिकित्सया महाराजस्य मरणं तु निवारितं, किन्तु सम्भाषणशक्तिः लुप्ता जाता । हस्तौ पादौ च क्रियाहीनौ जातौ ।**

** उद्याने इतः पूर्वं सर्पः कदापि न दृष्टः आसीत् । अतः जनाः सन्देहेन परस्परं वदन्ति स्म यत् राजहत्यार्थं केनापि कुतन्त्रम् आश्रितं स्यात् वा ? इति । केषाञ्चित् जनानाम् एतानि सन्देहवचनानि मन्त्री श्रुतवान् ।**

** मन्त्री एतादृशं सदवकाशं प्रतीक्षमाणः आसीत् । सः राजवंशम् उन्मूलयितुम् इच्छति स्म । यदा ताराचन्द्रः दिवङ्गतः तदारभ्य ‘केनापि उपायेन सिंहासनं वशीकरणीयम्’ इति चिन्तयन् आसीत् सः । इदानीं तेन उत्तमः अवकाशः प्राप्तः । राजा निश्चलस्थितौ सम्भाषणासमर्थः अस्ति । अनुजः तु राज्यात् बहिः अस्ति ।**

** ‘एतत्सन्दर्भेकथञ्चित् युवराजः तारापीडः नाशितःचेत् विनायासं सिंहासनं मम वशे आगच्छति । शक्तिहीनस्य महाराजस्य समापनं न क्लेशाय’ इति दुरालोचनं कृतवान् मन्त्री ।**

** एतदनुगुणं सः एकं तन्त्रं निर्मितवान् । सः जनान् वदति स्म—“महाराजः अकस्मात् सर्पेण यत् दष्टः तत्र किमपि कुतन्त्रम् अस्ति इति मम अभिप्रायः । दिनद्वयाभ्यन्तरे**

वस्तुस्थितिं प्रकटीकरिष्यामि। महाराजस्य दैनन्दिनव्यवहारम् उद्यानगमनादिकं यः सम्यक् जानाति तेनैव एतत् कृतम् इति तु निश्चितम् एव। दिनद्वयाभ्यन्तरे साक्षिपुरस्सरम् अपराधिनम् अन्विष्य शूले आरोपयिष्यामि” इति ।

** चम्पकदेशे स्थितः तारापीडः ‘अग्रजः सर्पदंशनेन मृतः’ इति वार्तां श्रुतवान्। सः दुःखितः दिग्भ्रान्तः च सन् राजधानीं प्रत्यागतवान्। चन्द्रापीडस्य चिकित्सार्थम् उत्तमां व्यवस्थाम् उपकल्पितवान् । अनन्तरं राज्यस्य व्यवहारसूत्रं स्वहस्ते स्वीकृतवान् ।**

** अत्रान्तरे मन्त्री विश्वासार्ह-भटद्वारा प्रसिद्धम् अहितुण्डिकं स्वसमीपम् आहूतवान् । तं रहसि उक्तवान् च— “भोः,अद्य भवतः अदृष्टं फलितम् इति चिन्तयतु । यतः भवान् एव मया आहूतः, नान्यः” इति । अहितुण्डिकः महता विनयेन नमस्कृत्य पृष्टवान्— “श्रीमन्! मम अदृष्टं फलितम् इत्यस्य कः अर्थः ?” इति ।**

** “भवान् महाराजस्य अनुजं तारापीडं जानाति खलु ? श्वः भवता राजसभायां निस्सकोचं वक्तव्यं यत् तारापीडः साक्षान्मरणजनकं विषसर्पं मम सकाशात् पञ्चभ्यः दिनेभ्यः पूर्वं क्रीतवान् इति । अग्रिमपरिणामस्य विषये अहं चिन्तयिष्यामि । सभासमाप्तेः अनन्तरं भवान् मां रहसि पश्यतु । भवते पञ्चसहस्रं स्वर्णनाणकानि दास्यामि । भवतः दारिद्र्यम् एकदिनाभ्यन्तरे अपगमिष्यति” इति उक्तवान् मन्त्री।**

** ‘भवान् यथा वदति तथैव भवतु” इति उक्त्वा नमस्कृत्य सः अहितुण्डिकः ततः निर्गतवान् ।**

** अनन्तरदिने पूर्णायां सभायां मन्त्री सभ्यान् उद्दिश्य उक्तवान्—“महाराजःसर्पेण यत् दष्टः तत्र कुतन्त्रम् अस्ति इति मया स्पष्टं ज्ञातम्। साक्ष्याधारः अपि सम्पादितः । महाराजः आकस्मिकतया न सर्पेण दष्टः । इदानीम् अधिकारसूत्रं यः स्वीकृतवान् सः तारापीडःएव अग्रजस्य प्राणान् अपहर्तुं प्रयत्नं कृतवान् आसीत्” इति ।**

** मन्त्रिणः वचनसमनन्तरम् एव सभायां कोलाहलः समुत्पन्नः । तारापीडस्य तु आश्चर्यस्य सीमा एव नास्ति ।**

** मन्त्री मन्दहासं प्रकटयन् उक्तवान्—“भोः सभ्याः मम वचनेन भवन्तः दिग्भ्रान्ताः जाताः स्युः । ममापि आरम्भे विश्वासः न उत्पन्नः । किन्तु साक्ष्याधारः अस्तीति कारणेन विश्वासः कर्तव्यः अभवत्” इति । अनन्तरं तम् अहितुण्डिकम् आनेतुं भटान् आज्ञापितवान् ।**

** अहितुण्डिकः तां सभां प्रविश्य जनसमूहं दृष्ट्वा चकितः सन् आकाशं पश्यन् मौनं स्थितवान्। तदा मन्त्री उक्तवान्— “भोः,भीतिः मास्तु । धैर्येण वस्तुस्थितिं निवेदयतु” इति ।**

** तारापीडः एतत्सर्वं स्वप्नम् इव भावयन्तम् अहितुण्डिकं संशयदृष्ट्या दृष्टवान् । तदा अहितुण्डिकः मन्देन स्वरेण उक्तवान्—“भोः सज्जनाः! अहं सत्यम् एव वदामि । महाराजः सर्पेण यथा दष्टः भवेत् तथा तारापीडवर्यः कृतवान् वा न वा इति न जानामि । ह्यः मन्त्रिवर्यः मां रहसि आहूय, पञ्चसहस्रस्य सुवर्णनाणकानाम् आशां प्रदर्श्य, ‘तारापीडःमत्सकाशात् एकं विषसर्पं क्रीतवान् इति सभायां वदतु’ इति माम् आज्ञापितवान् । मन्त्री मम समीपं यं प्रेषितवान् सः सेवकः तत्रैव द्वारसमीपे तिष्ठति” इति ।**

** ‘अहितुण्डिकः विश्वासघातकः संवृत्तः । मम कुतन्त्रं प्रकाशितवान् एषः’ इति चिन्तयन् मन्त्री कोपेन भटान् पश्यन्—“एतस्य वञ्चकस्य शिरच्छेदं कुर्वन्तु” इति**

उच्चैः आक्रोशनं कृतवान् ।

** तदा तारापीडः झटिति सिंहासनात्उत्थाय भटान् पश्यन्—“एतं घातकं मन्त्रिणं प्रथमं कारागारे स्थापयन्तु। पलायनं कुर्वन्तं तं भटम् अपि बन्धने स्थापयन्तु” इति आज्ञां कृतवान् । सभायां क्षणकालं संक्षोभः उत्पन्नः। भटाः विद्युद्वेगेन गत्वा मन्त्रिणं तं भटं च बद्धवन्तः ।**

** तारापीडः अहितुण्डिकं दृष्ट्वा उक्तवान्—“भवान् निर्धनः सन् अपि दुराशां दूरीकृत्य वस्तुस्थितिं निवेदितवान् । भवतः राजभक्तिः अद्वितीया । भवतः कारणतः सर्वेषां पुरतः मन्त्रिणः दुर्बुद्धिः प्रकटिता अभवत्” इति ।**

** तदा अहितुण्डिकः—“महाप्रभो! मन्त्री भटद्वारा माम् आनाय्य असत्यं कथयितं यदा उक्तवान् तदा एव अहं तस्य दुष्टतां ज्ञातवान्। सः कश्चन नरसर्पः इति तदा एव प्रमाणितम् अभवत् । मम वृत्तिः तु सर्पग्रहणं खलु? अतः मन्त्रिणः वचनं तत्क्षणे अङ्गीकृत्य सभायां तस्य स्वरूपं प्रकटीकृतवान्” इति उक्तवान् ।**

** तारापीडः तस्य वचनं श्रुत्वा सन्तोषं प्रकटयन्—“भवादृशस्य राजभक्तिपरस्य एतादृशम् अहितुण्डिकजीवनम् इतः परं मास्तु । भवते मम आस्थाने उद्योगं दापयिष्यामि। भवादृशाः एव मम आस्थाने अपेक्षिताः"इति उक्त्वा तम् अहितुण्डिकम् आस्थाने उत्तमे स्थाने नियोज्य तं सत्कृतवान् ।**

** अनन्तरं सः मन्त्रिणं कारागारे स्थापितवान्। मन्त्रिणः साहाय्यकं भटम् उदारभावनया क्षान्तवान् यतः तेन विशेषापराधः न कृतः आसीत् ।**

** वैद्यानाम् उत्तमचिकित्सया दैवबलात् चचन्द्रापीडः कालान्तरे स्वस्थः जातः । अनन्तरं तारापीडः अग्रजस्य साहाय्यं कुर्वन्कर्तव्यं पालयति स्म । तयोः सहोदरयोः अन्योन्यतायाः कोऽपि विच्छेदः न जातः ।तयोः शासने देशे सुखं, शान्तिः, समृद्धिः च आसीत्। जनाः अपि सन्तोषेण आसन्।**

राजाज्ञा फलकारिणी

कदाचित् बस्राराज्यस्य राजधान्यां महत्चौर्यंप्रवृत्तम् । अत्यमूल्यानि वज्रवैदूर्याणि चोरितानि । तेन एव सह महाराजस्य प्रियतरं रत्नखचितं खड्गम् अपि चोरितम् ।

एषा वार्ता अल्पे एव काले समग्रे नगरे व्याप्ता । सर्वेषां मुखे अपि एषा एव वार्ता ।

राजा तु एतद्विषये बहु कुपितः । सः कोपेन गर्जितवान्—“राजधान्यां चौर्यं प्रवृत्तम् इत्यस्य अर्थः- अधिकारिणः अजागरूकाः, राजा च अप्रयोजकः इति । चोरः राजधानीम् एव प्रविश्य विना कष्टं चौर्यं करोति चेत् राज्ये का वा परिस्थितिः स्यात् ?”

सर्वान् रक्षकाधिकारिणः आहूय सः कठोर-स्वरेण तर्जितवान्— “अद्य रात्रितः पूर्वं चोराः चोरितवस्तुभिः सह आनेतव्याः । नो चेत्, भवतां सर्वेषां मरणदण्डनं भविष्यति ।

‘चोरम् अन्विष्यतु’ इति उक्ते भवन्तः किं कुर्वन्ति इति अहं जानामि । श्रमं सोढुम् असमर्थाः भवन्तः कञ्चित् भिक्षुकं दरिद्रं वा गृहीत्वा आनयन्ति । भवतां ताडनेन भीतः सः चौर्यम् अङ्गीकरोति । एतत् न भवेत् । अतः अहं वदन् अस्मि यत् चोरितवस्तुभिः सह चोरः अत्र आनेतव्यः इति । गच्छन्तु इदानीम् \। यथाकथञ्चित् चोरम् अन्विष्य आनयन्तु” इति ।

महाराजस्य आज्ञां श्रुत्वा सर्वे अधिकारिणः भीताः । कस्य वा प्राणाः न प्रियतमाः ?अतः सर्वे निश्चितवन्तः— “येन केनापि उपायेन चोरः ग्रहीतव्यः एव” इति ।

रक्षणप्रमुखः सर्वान् सहाधिकारिणः आहूय विविधसूचनाः दत्त्वा प्रेषितवान् । सर्वे वेषान्तरं धृत्वा नगरस्य भिन्नभिन्नभागेषु अन्वेषणम् आरब्धवन्तः ।

“सायङ्काले नगरस्य दक्षिणदिशायां प्रधानोद्यानस्य द्वारस्य समीपे सर्वैः मेलितव्यम्” इति

सूचना आसीत् ।

** रहमतनामकः कश्चित् अधिकारी भिक्षुकवेषं धृतवान् । नगरस्य उत्तरपार्खे मध्याह्नपर्यन्तं सञ्चारं कृतवान् । दीर्घसञ्चारेण सः अतीव श्रान्तः आसीत् । तीव्रतरा पिपासा तं बाधते स्म ।**

** तत्र एकम् उद्यानम् आसीत् । मध्ये लघुसरोवरः अपि आसीत् । रहमतः तत्र गत्वा जलं पातुम् आरब्धवान्।**

** जलपानम् अर्धं यदा समाप्तम् तदा उद्यान-पालकः आगत्य तस्य गलं गृहीतवान् । द्वित्रिवारंमुष्टिप्रहारं कृत्वा सः उक्तवान्—“वराक ! रे चोरः इव कथम् अत्र प्रविष्टः ? कस्य अनुमतिः स्वीकृता ? कुप्रसिद्धाः चोराः एषु दिनेषु भिक्षुकवेषं धृत्वा नगरे सञ्चरन्ति । भवान् अपि कश्चित् चोरः एव” इति ।**

** रहमतः यद्यपि उच्चः अधिकारी । किन्तु इदानीं सः वेषान्तरं धृत्वा आगतः अस्ति । यदि अधिकारदर्पः प्रदर्श्यते तर्हि रहस्यं प्रकटितं भविष्यति ।**


अतः सः दैन्यं प्रकटयन् उद्यानपालकं प्रार्थितवान् अहं चोरः वा लुण्टाकः वा न ।कश्चित् भिक्षुकः अस्मि अहम् । पिपासया मरणावस्थाम् आपन्नः अहम् अत्र आगत्य किञ्चित् जलं पीतवान् । महोदय ! शान्तःभवतु । मां न ताडयतु” इति ।

** “अहो ! एवं वा ?” इति काक्वा वदन्सः उद्यानरक्षकः पुनः अपि मुष्टिप्रहारान् अनु**

गृहीतवान् ।

** रक्षणाधिकारी प्रहारान् अपमानं च मौनं सोढवान् ।**

** एतेन उत्साहितः उद्यानपालकः पुनः अपि अधिकं ताडितवान् । यदा ताडनं सोढुं न शक्तं तदा रहमतः किञ्चिदिव उच्चस्वरेण उक्तवान्— मां किमर्थम् एवं ताडयति ? मया कः अपराधः कृतः ? जलपानम् अपि अपराधाय भवति वा ? मां ताडयितुं भवतः कः अधिकार ? यदि मां चौरं चिन्तयति भवान्, तर्हि रक्षकभटसमीपं नयतु । सत्यासत्यनिर्णयं कृत्वा ते एव उचितं दण्डयन्ति किल ?” इति ।**

** एतेन वचनेन उद्यानपालकस्य कोपः अधिकः जातः । ‘माम् एव न्यायनियमान् शिक्षयति वा ?’ इति वदन् सः ताडयन् एव रहमतम् उद्यानतः बहिः निष्कासितवान्।**

** अनन्तरं भिक्षुकवेषधारी सः रक्षणाधिकारी अन्यत्र अपि चोरस्य अन्वेषणं कृत्वा सायङ्काले पूर्वनिश्चितं स्थानं प्राप्तवान् । अन्ये अधिकारिणः अपि एकशः स्वस्थानं प्राप्तवन्तः । भिक्षुकवेषधारिणः परिस्थितिं दृष्ट्वा सर्वे अनुकम्पं प्रदर्शितवन्तः ।**

** रहमतः यदा समग्रं वृत्तान्तं निवेदितवान् तदा सर्वे कोपाविष्टाः जाताः । ते सर्वे उद्यानपालकं दण्डयितुं निर्णयं कृतवन्तः । अतः झटिति उद्योगोचितं वेषं धृत्वा तत् उद्यानं प्रति प्रस्थितवन्तः ।**

** उद्यानपालकः दशवर्षीयेण बालकेन सह**

किमपि रहस्यवार्तालापं कुर्वन् आसीत् । तदा एव तत्र आगताः सर्वे अधिकारिणः युगपत् एव तयोः उपरि आपतितवन्तः ।

** अकस्मात् प्रवृत्तेन आक्रमणेन उद्यानपालकः चकितः भीतः च । “किमर्थम् एवं क्रियते एतैः ?” इति सः न ज्ञातवान् । दशवर्षीयः पुत्रः एतत् सर्वं पश्यन् आसीत् । स्वपितुः उपरि रक्षकाधिकारिणां युगपत् आक्रमणं दृष्ट्वा भीतः सः उच्चैः रुदन् उक्तवान्— “भोः, भोः! मम पितरं न मारन्तु । तेन चौर्यं कृत्वा यानि वस्तूनि आनीय रहस्ये स्थापितानि, तानि अहं प्रदर्शयामि” इति ।**

** बालकस्य एतत् वचनं श्रुत्वा अधिकारिणः आश्चर्यचकिताः ।**

** “कुत्र सन्ति तानि वस्तूनि ? शीघ्रं प्रदर्शयतु” इति वदन् रक्षकाधिकारिणां प्रमुखः बालकम् अपि एकवारं ताडितवान् ।**

** रुदन् बालकः अधिकारिणः उद्यानस्य कोणे एकस्य गुल्मस्य समीपं नीतवान् । तत्र यदा खननं कृतं तदा सर्वाणि वस्तूनि लब्धानि । एतेन अधिकारिणः सर्वे बहु सन्तुष्टाः ।**

** रहमतः उद्यानरक्षकं तर्जयन् उक्तवान्— “यदि भवान् मध्याह्ने पिपासितं भिक्षुकं न मारयति, तर्हि भवतः चौर्यम् अपि प्रकटितं न भवेत् एव । प्रायः केनापि पिशाचेन बाधितः भवान् राजधान्यां चौर्यं कृतवान् । सः एव पिशाचः भिक्षुकं ताडयितुं भवन्तं प्रेरितवान्" इति ।**

** एतेन वचनेन उद्यानपालकः ज्ञातवान्— “मध्याह्ने एषः एव अधिकारी भिक्षुकरूपेण आगतवान् आसीत्” इति ।**

** अधिकारिणः चोरितवस्तुभिः सह चोरं महाराजस्य पुरतः नीत्वा स्थापितवन्तः । महाराजः रहमतविषये सन्तुष्टः जातः । रहमतं उपायनादिभिः सत्कृत्य उच्चपदे नियोजितवान् ।**

लोकरीतिः

** यदा ब्रह्मदत्तः काशीराज्यं परिपालयति स्म,तदा बोधिसत्त्वःकौशाम्बिनगरे कृष्णद्वैपायनः इति नाम्ना धनिकब्राह्मणकुले जन्म प्राप्तवान् । यथा यथा सः वर्धमानः प्रौढः जातः, तथा तथा लौकिकव्यवहारेषु विविधान् अनर्थान्दृष्ट्वा वैराग्यभावं प्राप्तवान् ।**

** तस्य परिणामरूपेण सः स्वीयां सम्पूर्णां चराचरसम्पत्तिं दानधर्मादिकार्येषु वितीर्यः सन्यासधर्मं स्वीकृतवान्। अनन्तरं स्वस्थानतः प्रस्थितः सः साक्षात् हिमालयपर्यन्तं गत्वा दीर्घं तपः आचरितवान्। तथापि सः कामपि सिद्धिं प्राप्तुम् असमर्थः अभवत्।**


अनन्तरं निराशया तपश्चरणं त्यक्त्वा कृष्णद्वैपायनःक्षेत्राटनं कर्तुम् आरब्धवान् । तीर्थयात्रां कुर्वन् काशीराज्यं गतवान् च ।

** तत्र एकस्मिन् ग्रामे तस्य बाल्यस्नेहितः माण्डव्यः मिलितवान् । माण्डव्यः स्वीयग्रामेएव स्थातुं कृष्णद्वैपायनं प्रीत्या प्रार्थितवान् । सः कृष्णद्वैपायनस्य निवासार्थम् एकम् उत्तमं पर्णकुटीरं निर्माय, अपेक्षितानि सर्वाणि वस्तूनि तस्मै अर्पितवान् । तादृशमित्रस्य प्रार्थनां निराकुर्तुम् असमर्थः कृष्णद्वैपायनः तस्मिन् पर्णकुटीरे स्थितवान् ।**

** कदाचित् माण्डव्यस्य पुत्रः यज्ञदत्तः नाम बालकः कन्दुकेन क्रीडति स्म । क्रीडामध्ये यदा सः कन्दुकं सरभसं दूरं क्षिप्तवान्, तदा सः कन्दुकः एकस्मिन् बल्मीके पतितः ।**

** अज्ञः सः बालकः बल्मीके सर्पः वसति इति विषयं ज्ञातुम् असमर्थः, कन्दुकं ग्रहीतुं बल्मीके हस्तं प्रसारितवान् । सद्यः सर्पेण तस्य हस्तः दष्टः । कर्कशस्वरेण आक्रोशं कुर्वन् यज्ञदत्तः अधः पतितवान् । सम्पूर्णशरीरे विषं व्याप्तम् । सः शीघ्रम् एव अचेतनः जातः ।**

** स्वीयपुत्रस्य परिस्थितिं मरणासन्नां दृष्ट्वा**

पत्नीसहितः माण्डव्यः भयेन पुत्रं स्वहस्तयोः स्थापयन् महता दुःखेन पर्णकुटीरं गत्वा कृष्णद्वैपायनस्य पादयोः पुरतः शायितवान् । कृष्णद्वैपायनः किं जातम् इति पृष्टवान् ।

“भोः तपोधन ! भवता प्रतिष्ठिते अस्मिन् प्रान्ते अतीव अनुचितघटना जाता अस्ति । भवतः तपः प्रभावेण भवान् एतं जीवयतु । आवयोः भवन्तं विना अन्या गतिः एव नास्ति । कृपया पुत्रभिक्षां ददातु” इति तौ दम्पती दीनभावेन प्रार्थितवन्तौ । अनन्तरं सर्वे वृत्तान्तं कथितवन्तौ च ।

कृष्णद्वैपायनः तु किङ्कर्तव्यतामूढः जातः । “मम विषये भवताम् अन्यथा अभिप्रायः अस्ति। मयि काऽपि विशेषशक्तिः नास्ति । यद्यपि अहं बहुकालपर्यन्तं तपः आचरितवान्, तथापि तेन तपसा कामपि सिद्धिं न प्राप्तवान् । न्यूनातिन्यूनं यत्किञ्चित् औषधमूलम् अपि न जानामि । एतादृशः अप्रयोजकः अहं किं वा साहाय्यं कर्तुं शक्नोमि ? कथं वा भवत्पुत्रं जीवयामि ?” इति दुःखेन सः उक्तवान् ।

‘“यद्यपि भवता महती तपःशक्तिः न सम्पादिता स्यात्, तथापि तावत्पर्यन्तं कृतस्य तपसः किञ्चिदपि फलं नास्ति इति वक्तुं न शक्यते । भवान् प्रतिज्ञापूर्वकं किञ्चित् सत्यवचनं वदतु, भवदनुग्रहेण बालकः निश्चयेन जीवति” इति माण्डव्यः उक्तवान् ।

कृष्णद्वैपायनः तस्य अभिप्रायम् अङ्गीकृत्य एवंरीत्या प्रतिज्ञापूर्वकं सत्यवचनं उक्तवान्—

“सत्ताहं एवाहं प्रसन्नचित्तो
पुंज्ञत्थिको अचरिं ब्रह्मचरियं
आधावरं यं चरितं मम इदम्
वस्यानि संज्ञानसमाधिकानि
अकामको वहि अहं चरामि
एतेन सच्चेन सुवत्थि होतु
हतं विसं, जीवतु यज्ञदत्तो"।

(अहं पुण्यापेक्षया किञ्चित्कालपर्यन्तं निर्मलचित्तेन ब्रह्मचर्यम् अवलम्ब्य तपः आचरितवान् । किन्तु अनन्तरं वैराग्यभावेन पञ्चाशत्वर्षपर्यन्तं यत् अहं तपः आचरितवान्, तत्र चित्तशुद्धिः वा एकग्राता वा न आसीत् ।

एतस्य मम सत्यवचनस्य शुभ फलं लभ्यताम् । विषं निर्गच्छतु । यज्ञदत्तः जीवतु ।)

** सद्यः एव वालकस्य वक्षःस्थलतः किञ्चित्विषं निर्गत्य भूमौ पतित्वा लीनम् अभवत् । बालकः नेत्रे उन्मील्य स्वमातापितरौ एकवारं दृष्टवान् । अनन्तरं ‘अम्ब’ इति बदन् पुनः अचेतनः भूत्वा पतितवान् ।**

** ‘‘दृष्टं खलु ? सम्पूर्णतया विषं निवारयितुम् अहम् असमर्थः जातः । अतः माण्डव्य ! भवान् अपि प्रमाणपूर्वकं सत्यवचनं वदतु । तेन प्रायः फलं लभ्येत । सत्यस्य सामर्थ्यम् अद्भुतं भवति" इति कृष्णद्वैपायनः उक्तवान् । एतत् अङ्गीकृत्य माण्डव्यः स्वयम् अपि प्रतिज्ञापूर्वकं सत्यवचनं एवंरीत्या उक्तवान्—**

‘“यस्मा दानं न अभिनन्दिकटाचि-
दिरवानाहम् अतिथिं वा सकाले
न चापि मे अप्पियम् अलेदुम्
बहुस्सुता समणा ब्राह्मणा च
अकामको वा हि अहं ददामि
एतेन सच्चेन सुवत्थि होतु
हतं विसं, जीवतु यज्ञदत्तो"

** “यद्यपि अहम् अतिथिजनानां सत्कारं कृतवान्, तथापि तत्सर्वम् अहम् इच्छापूर्वकं न कृतवान् । ज्ञानिनः सन्यासिनः, ब्राह्मणाः च मम आतिथ्यम् अनिच्छया कृतम् इति न ज्ञातवन्तः । तथैव दानधर्मादिकम् अपि अहम् अनिच्छया एव कृतवान् । एतत् सर्वंवञ्चनाकार्यम् इति अपि अहं जानामि । मया क्रियमाणस्य एतस्य प्रमाणवचनस्य परिणामरूपेण विषनिवारणं भवतु । यज्ञदत्तः जीवतु" इति ।**

** एवंरीत्या यदा माण्डव्यः सत्यवचनम् उक्तवान्, तदा पुनः यज्ञदत्तस्य पृष्ठतः किञ्चित्विषं बहिः निर्गत्य भूमौ विलीनम् अभवत् ।बालकः शनैः शनैः उत्थाय उपविष्टवान् ।किन्तु उपरि उत्थातुम् असमर्थः एव आसीत् ।**

** तदा माण्डव्यः स्वपत्नीं दृष्ट्वा “भवती अपि भवतः नाम ध्यात्वा भवत्याः यथार्थाभिप्रायं स्पष्टरूपेण वदतु । तेन यज्ञदत्तः सम्पूर्ण-रूपेण-स्वस्थ : भवेत्” इति उक्तवान् ।**

** “यद्यपि मया प्रकटनीयम् एकं सत्यवचनम्**

अस्ति, तथापि भवतां पुरतः वक्तुं न शाक्नोमि । किं करोमि ?’ इति पृष्टवती माण्डव्यस्य पत्नी ।

** “अयि मुग्धे ! चिन्ता मास्तु । किमर्थं सङ्कोचम् अनुभवति ? आवयोः पुत्रस्य प्राणापेक्षया अपि प्रियतरं किं वा स्यात् ? निस्सङ्कोचं सत्यवचनं वदतु” इति माण्डव्यः स्वपत्नीं प्रेरितवान् । सा मनः दृढं कृत्वा उक्तवती—**

“आसो विसो तात पहूत तेजो
ये तम् अदट्टि पदरा इदच्चि
तस्मिन् च मे अप्पियताय अज्जं
पितरि च ते न त्थि कोचि विसेसो
एतेन सच्चेन सुवत्थि होतु हतो विसं, जीवतु यज्ञदत्तो"

** (“ पुत्र ! बल्मीके स्थितः सः सर्पः भवन्तं दष्टवान् । तस्य दर्शनेन मम यादृशी जुगुप्सा भवति, तादृशी एव जुगुप्सा मम पत्युः दर्शनेन अपि भवति । द्वयोः मध्ये कोऽपि भेदः न दृश्यते । एतस्य मम सत्यवचनस्य परिणामरूपेण सम्पूर्णविषस्य निवारणं भवतु । यज्ञदत्तः जीवतु ।’ )**

** यदा तस्याः वचनसमाप्तिः अभवत्, तदा यज्ञदत्तस्य शरीरतः विषं सम्पूर्णतया बहिः निर्गत्य भूमौ विलीनम् अभवत् । सः सलीलम् उत्थाय पूर्ववत् क्रीडामग्नः अभवत् ।**

** माण्डव्यःकृष्णद्वैपायनं दृष्ट्वा “स्वामिन्, भवान् उत्तमोत्तमं तपस्विजीवनं गृहीतवान् अस्ति । तथापि तत् जीवनं किमर्थम् अनि**

च्छया यापयति” इति पृष्टवान् ।

तदा कृष्णद्वैपायनः “तस्य एकम् एव कारणम् अस्ति । यः मनुष्यः एकवारं संन्यासं स्वीकृत्य निर्गच्छति, सः पुनः कुटुम्बजीवनं प्रविशति चेत् सर्वे तं तिरस्कारदृष्ट्या पश्यन्ति। मूढः इति उपहसन्ति । अतः यद्यपि इच्छा न आसीत्, तथापि जनानां गौरवसम्पादनार्थम् अहं तपस्विजीवनम् एव यापयन् स्थितवान् । तत् अस्तु तावत् । भवान् पुनः अतिथिजनानाम् अभ्यागतानां च सत्कारं अनिच्छया

एवकरोमि इति उक्तवान् । तस्य कारणं किम् ?" इति पृष्टवान् ।

“मम पितृपितामहादयः दानशीलाः इति जगत्प्रसिद्धाः । अतः गत्यन्तराभावात् मया अपि तादृशम् एव जीवनं यापनीयम् अस्ति । नो चेत् वंशस्य कलङ्कभूतः इति मां जनाः निन्दन्ति । अतः अहम् अपि यथेष्टं दानधर्मादिकं करोमि । मम तु एतत् सर्वं कर्तुं किञ्चिदपि इच्छा नास्ति’ इति उक्त्वा माण्डव्यः पत्नीम् उद्दिश्य “भवती एतावत्पर्यन्तं मया सह जीवनं यापितवती । मद्विषये प्रीत्यभावात् भवत्याः जीवनं असहनीयम् एव अस्ति इति ज्ञातम् । एतत्सर्वं किमर्थं सोढवती ?” इति?“पृष्टवान् ।

तदा तस्य पत्नी— “अस्माकं वंशे पत्या सह एव जीवनं यापनीयम् इति सम्प्रदायः अस्ति । अतः अहम् एतत् असह्यं जीवनम् अपि सोढवती । भवन्तं त्यक्त्वा अहम् अन्येन सह यदि गच्छामि तर्हि जनाः मां कुलटा इति निन्दन्ति किल ?” इति उक्तवती । “अस्तु । इतः परम् अहं भवतीं प्रीत्या एव पश्यामि इति प्रतिज्ञापूर्वकं वदामि । एतदर्थ चिन्तां न करोतु” इति माण्डव्यः उक्तवान् ।

“भवान् अपि दानधर्मादिकं मनःपूर्वकम् एव करोतु । अनिच्छया न करोतु । अहम् अपि इतः परम् एतत् तापसजीवनं मनःपूर्वकम् एव यापयामि” इति उक्त्वा कृष्णद्वैपायनः ततः निर्गत्य तपश्चरणार्थं देशान्तरं गतवान् ।

]