[[लघुकथासङ्ग्रहः-८ Source: EB]]
[
शम्भुनाथस्य कथा
कथाकथने शम्मुनाथस्य महान् उत्साहः। ‘आगच्छतु, कथां शृणोतु’ इति सः पौत्रं सदा पीडयति स्म। पौत्रस्य शिवरामस्य तु क्रीडायाम् अभिरुचिः। अतःशम्भुनाथः शिवरामं तर्जयति स्म— “सर्वदा किम् एतत् क्रीडनम् ?" इति। तथापि शिवरामः कथञ्चित् गृहात् निर्गत्य सायम् एव गृहं प्रत्यागच्छति स्म।
कदाचित् शम्भुनाथः पौत्रम् अनुरोधपूर्वकम् उपवेशयति स्म, कथां कथयति स्म च। तथापि एषः यदा कथाकथनव्यग्रः भवति तदा एव शिवरामः उत्थाय पलायते स्म।
कथासु रुचिम् उत्पादयितुं शम्भुनाथः बहुधा प्रयत्नं करोति स्म। स्वसमीपे मिष्टभक्ष्याणि, लड्डुकानि इत्यादीनि स्थापयति स्म। तथापि कथानामश्रवणेन एव शिवरामः धावति स्म।
“शिवरामः किमर्थं कथाः श्रोतुं न इच्छति ? अत्र किं कारणम् स्यात् ?” इति शम्भुनाथः बहुधा चिन्तितवान्। अतः सः स्वपत्नीं पुत्रं स्नुषां च आहूय पृष्टवान्- “मम कथायाः श्रवणे भवन्तः नीरसताम् अनुभवन्तः सन्ति वा ?" इति।
ज्येष्ठानां तु कथाश्रवणे न तथा आसक्तिः भवति किल ! तथापि ते शम्भुनाथम् अप्रसन्नं कर्तुम् अनिच्छन्तः वदन्ति स्म- “भवतः कथाः बहु रोचकाः भवन्ति। कथां श्रोतुम् अस्माकम् अपि महती इच्छा। किन्तु दुष्टः शिवरामः किमर्थं कथाः श्रोतुं न इच्छति इति न जानीमः वयम्।"
तदा शम्भुनाथः अनुरोधपूर्वकम् उक्तवान्- “तर्हि भवन्तः एव कथां शृण्वन्तु। भवतां कार्येषु विघ्नः यथा न भवेत् तथा अहं कथां श्रावयामि " इति।
एतदनन्तरं सः वर्तिकानिर्माणसमये पत्नीं कथां श्रावयति। यदा स्नुषा पाककार्यंकरोति
तदा तत्र गत्वा सः कथां वदति। यदा पुत्रः वाटिकायां जलसेचनं करोति तदा तत्र गत्वा कथां वदति।
वस्तुतः ज्येष्ठाः अपि शम्भुनाथस्य कथां श्रोतुम् न इच्छन्ति स्म। अतः अस्याः आपदः मोक्षं प्राप्तुं ते शिवरामं कथञ्चित् आनीय शम्भुनाथस्य वशे स्थापयन्ति। तदा शम्भुनाथः शिवरामम्उद्दिश्य कथां कथयितुम् आरम्भं करोति।
एवम् एव बहूनि दिनानि अतीतानि। अन्ते शिवरामः शम्भुनाथः च एकं सन्धिनियमम् अङ्गीकृतवन्तौ- “शिवरामेन प्रतिदिनं पितामहमुखतः एका कथा श्रोतव्या। अनन्तरं शम्भुनाथेन शिवरामस्य क्रीडनार्थम् अवकाशः दातव्यः" इति।
शम्भुनाथः यद्यपि एतं नियमम् अङ्गीकृतवान्, तथापि सः स्वबुद्धिमत्तया शिवरामं वञ्चयति स्म। कदाचित् सः तादृशीं दीर्घकथां श्रावयति, यस्याः अन्तः एव न भवति। तदा शिवरामस्य नेत्रयोः अश्रूणि आगच्छन्ति स्म।
कदाचित् शम्भुनाथः पञ्चषाः कथाः मेलयिवा दीर्घरूपेण कथां विरचयति। एवं शिवरामः क्रीडनार्थम् अवकाशम् एव न प्राप्नोति स्म। ‘समाप्तिपर्यन्तं कथां शृणोमि’ इति पूर्वं तेन एव अङ्गीकृतम् आसीत् किल?
तेषु एव दिनेषु तं ग्रामम् एकः बालकः इदम्प्रथमतया आगतवान्। तस्य बालकस्य, शिवरामस्य च मध्ये मैत्री समुत्पन्ना।
एकदा नवीनः बालकः शिवरामं पृष्टवान्— “किमर्थं भवान् प्रतिदिनं विलम्बेन आगच्छति? यदि पूर्वम् एव आगच्छति, तर्हि अधिकं क्रीडितुं शक्यते किल?" इति ।
तदा शिवरामः पितामहस्य कथाकथनप्रसङ्गं समग्रं निवेदितवान्।
बालकः उत्साहेन पृष्टवान्- ‘भवतः पितामहः कथां श्रावयति वा? मम तु कथाश्रवणे महती आसक्तिः” इति ।
“तर्हि भवान् मम पितामहस्य सकाशात् कथां शृणोतु। अहम् अन्येन केनचित् बालकेन सह क्रीडामि" इति उक्तवान् शिवरामः।
“युक्ता आलोचना एषा। मम गृहे कोऽपि मां कथां न श्रावयति। इदानीं कथां श्रोतुम् अवकाशः प्राप्तः इत्येतत् मम भाग्यम्” इति उक्तवान् सः बालकः।
अनन्तरदिने शिवरामः नवीनं बालकं पितामहसमीपं नीत्वा उक्तवान्— “तात! एषः मम स्नेहितः। कथाः श्रोतुम् एतस्य महान् उत्साहः।"
शम्भुनाथः बहु सन्तुष्टः। सः शिवरामाय क्रीडितुम् अनुमतिं दत्त्वा नवीनं बालकम् उपवेश्य कथां वक्तुम् आरब्धवान्।
तस्यां कथायां नायकः राजकुमारः। नायिका राजकुमारी। कश्चित् मान्त्रिकः राजकुमारीम्अपहरति। राजकुमारीम् आनेतुम् इच्छन् राजकुमारः बहुकालपर्यन्तं तपः आचरति। अद्भुतविद्यां सम्पादयति। अन्ते मान्त्रिकं मारयित्वा राजकुमारीं बन्धनात् मोचयति। तयोः विवाहः भवति।
एतां कथां श्रुत्वा बालकः शम्भुनाथं पृष्टवान्- “एतदनन्तरम्अन्यदेशेषु कश्चित् मान्त्रिकः राजकुमारीं न अपहृतवान् वा?"
“अपहरतु नाम, तेन अस्माकं का हानिः?” इति हसन् पृष्टवान् शम्भुनाथः।
बालकः उक्तवान्— “अहं एतदर्थं पृष्टवान् यत् अस्माकं राजकुमारः सज्जनः परोपकारी च। यदि अन्यः कष्टे अस्ति, तर्हि एषः अवश्यं तत्र गत्वा साहाय्यं करिष्यति। एवं कुत्रापि सः गतवान् वा?” इति।
एतं प्रश्नं श्रुत्वा शम्भुनाथः सन्तुष्टः। “भवान् योग्यं प्रश्नं पृष्टवान्’ इति वदन् सः अन्यां कथाम् आरब्धवान्। “तेषु दिनेषु मिथिलाराज्ये एकः दुष्टः मान्त्रिकः आसीत्। सः शतं राजकुमारान् एकोत्तरशतं राजकुमारीः च देव्यै बलिरूपेण दातुं निश्चितवान्” इत्येवं कथायाः आरम्भं कृत्वा, “एतं मान्त्रिकम् अपि पूर्वोक्तः राजकुमारः एव मारितवान्। बहुकालानन्तरं सः गृहं प्रत्यागतवान्” इति कथां समापितवान्।
तदा सः बालकः पुनः पृष्टवान्- “तात ! तावद्दिनपर्यन्तं राजकुमारी तूष्णीम् एव स्थितवती
वा? प्रायः सा राज्यभारं मन्त्रिणां हस्ते दत्त्वा पत्युः अन्वेषणार्थं गतवती स्यात् किल?" इति।
“आम्, आम्" इति वदन् शम्भुनाथः पुनः कथां वक्तुम् आरब्धवान्। कथायाः अन्त्ये बालकस्य मनसि काऽपि समस्या उद्भवति एव। तत्समाधानार्थं वृद्धः पुनः कथां कथयति। एवं समाप्तिरेव न भवति!
एवं कथाम् उक्त्वा उक्त्वा शम्भुनाथः श्रान्तः। अतः सः उक्तवान्- “अवशिष्टाः कथाः श्वःकथयिष्यामि’ इति।
तदा बालकः उक्तवान्- “श्वः पर्यन्तं मया प्रतीक्षा करणीया वा! तत् न शक्यते, तात! इदानीम् एव कथयतु" इति।
शम्भुनाथः दीर्घं निश्वसन् उक्तवान् “बालक! अन्तः गत्वा जलम् आनयतु। प्रथमम् अहं मम पिपासां निवारयामि। पुनः कथां कथयामि" इति।
बालकः जलम् आनेतुं गृहस्य अन्तः गतवान्। “एषः एव युक्तः समयः “इति चिन्तयन् वृद्धः गृहतः निर्गतवान्, धावितुम् आरब्धवान् च। कश्चित् मार्गे धावनकारणं पृच्छति चेत् वृद्धः वदति स्म-“अहं मम पौत्रम् अन्विष्यन् अस्मि” इति।
शिवरामः एतं विषयं ज्ञातवान्। ‘पितामहः मिलितः चेत् कष्टम्’ इति चिन्तयन् शिवरामः अपि धावितवान्। अन्ते कश्चित् शिवरामं गृहीत्वा शम्भुनाथस्य वशे समर्पितवान्।
दीर्घं निश्वसन् शम्भुनाथः उक्तवान्- “पुत्र शिवराम! भीतिः मास्तु। अहम् इदानीं भवन्तं कथां न श्रावयामि। अद्य भवान् यं बालकं गृहम् आनीतवान् सः इतः परम् अस्माकं गृहं यथा न आगच्छेत् तथा करोतु। एवं चेत् पुनः कदापि कथां श्रावयितुं भवन्तं न आह्वयामि " इति।
एतेन शिवरामः सन्तुष्टः। सः पितामहस्य वचनम् अङ्गीकृतवान्।
एतदनन्तरं शम्भुनाथः कमपि उद्दिश्य कथां न उक्तवान्।
शापोऽपि वस्तुत्यः
पुरा धर्माङ्गणनगरे सीतारामः इति कश्चित् वणिक् आसीत्। सः फलवाटिकासु गत्वा विविधफलानि क्रीत्वा नगरस्य मार्गे मार्गे प्रातःकालतः सायं पर्यन्तं सञ्चरन् तेषां विक्रयणं करोति स्म। तदा तदा फलविक्रयणार्थं नगरं परितः स्थितान् ग्रामान् अपि गच्छति स्म। एवंरीत्या सः जीवननिर्वहणं करोति स्म।
एकदा सीतारामः फलानि गृहीत्वा रामपुरं गतवान्। तद्दिने तत्र साप्ताहिकं वाणिज्यम् आसीत्। महान् जनसम्मर्दः आसीत्। अतः सर्वाणि फलानि सलीलं विक्रीतानि। सायङ्काले सीतारामः रिक्तं फलकण्डोलं मस्तके स्थापयित्वा गृहं प्रति प्रस्थितवान्।
रामपुरतः धर्माङ्गणपर्यन्त एवम् अरण्यम् आसीत्। सर्वत्र सान्द्रः अन्धकारः जातः। तदा मस्तके स्थितः रिक्तकण्डोलः सहसा गुरुभूतः जातः। अये ! किमिदं जातम् !
** एतत् विचित्रं दृष्ट्वा भीत्या सः किञ्चित् कम्पितः। किन्तु उत्तरक्षणे धैर्यम् अवलम्ब्य कण्डोलं मस्तकतः अवतार्य भूमौ स्थापितवान्। कण्डोलः रिक्तः एव आसीत्।**
** “अहो ! प्रायः अहमेव भ्रान्तः !" इति चिन्तयन् सीतारामः पुनः कण्डोलं मस्तके स्थापयित्वा अग्रे प्रस्थितः।**
** तदा कण्डोलः पुनः पूर्ववत् भारभूतः जातः। “का इयं माया! नूनं कस्यचित् पिशाचस्य उपद्रवः एषः” इति चिन्तयन् सीतारामः भयग्रस्तः अभवत्। “वत्स सीताराम ! किं भीतः !?" इति एकः सुमधुरः कण्ठस्वरः श्रुतः।**
** तत् वचनं श्रुत्वा सीतारामः धैर्यं प्राप्य “कुतः भीतिः? मया कः अपराधः कृतः? भयं किमपि नास्ति। कः भवान्? कस्मात् स्थानात् वदति ? मम कण्डोलस्य भारस्य**
भवान् एव कारणं वा?" इति पृष्टवान्।
“भवतः संशयः यथार्थः एव। किन्तु न अहं पिशाचो वा भूतो वा। अहं वनदेवता अस्मि। मानवस्य मस्तके उपविश्य किञ्चित् दूरं सुखेन गन्तव्यम् इति चिरात् मम महती आशा आसीत्। अद्य भवता मम आशा सफलीकृता। इदानीं भवतः किमपि उपकारं कर्तुम् इच्छामि। तत्र दृश्यते खलु अश्वत्थवृक्षः, तत्रैव मम वासस्थानम् अस्ति। माम् एवमेव वहन् तावत्पर्यन्तं नयतु” इति वनदेवता उक्तवती।
‘अस्तु’ इति उक्त्वा सीतारामः महता कष्टेन अश्वत्थवृक्षपर्यन्तं वनदेवतां वहन् गतवान्।
“अलम् एतावता। महान् प्रमोदः जातः। कण्डोलम् अधः अवतारयतु" इति वनदेवता सन्तोषेण उक्तवती।
सीतारामः कण्डोलं शनैः अधः स्थापितवान्। वनदेवता कण्डोलतः अवतीर्य दृष्टिगोचरा भूत्वा ‘भवान् यत् इच्छति, तत् पृच्छतु’ इति उक्तवती।
“अहं किमपि न इच्छामि। एतावता एव विमोचनं दत्तवती खलु, तदेव मम भाग्यम्" इति दीर्घंनिश्वसन् सीतारामः उक्तवान्।
‘संशयः मास्तु सीताराम ! धैर्येण पृच्छतु’ इति पुनः वनदेवता आग्रहपूर्वकं पृष्टवती।
“एवं तर्हि मम रिक्तः कण्डोलः मधुरैः आम्रफलैः यथा पूर्णः भवेत्, तथा करोतु। श्वः अन्यं ग्रामं गत्वा विक्रयणं करोमि" इति उक्तवान् सीतरामः।
एतावत् अल्पं प्रयोजनं पृच्छति वा? अस्तु, यदा भवान् स्वीयग्रामसमीपं गच्छति, तदा कण्डोलः फलैः पूर्णः भविष्यति" इति वनदेवता उक्तवती।
सीतारामः स्वीयम् असन्तोषं प्रकटयन् उक्तवान् “भवतीयत् दातुम् इच्छति तत् अत्र एव ददातु। विलम्बः किमर्थम्? भवती प्रायः मां वञ्चयति" इति।
तस्य वचनं श्रुत्वा वनदेवता उच्चैः हसन्ती “नूनं भवान् अतीव मुग्धः। भवतः ग्रामः इतः बहुदूरे अस्ति। तावत्पर्यन्तं फलयुक्त-
कण्डोलवहनं क्लेशदायकं भवति इति अहं तथा उक्तवती। भवतु, भवतः इच्छानुसारेण इदानीम् एव भवतः कण्डोलः मधुरैः आम्रैः पूर्णः भवति" इति उक्त्वा वनदेवता अगोचरा अभवत्।
सीतारामः फलकण्डोलं मस्तके वहन् गृहं गतवान्। फलपूर्णं कण्डोलं दृष्ट्वा तस्य पत्नी नागाम्बा ‘हन्त हन्त। किमिदं भोः? अद्य विपण्यां न कोऽपि फलानि क्रीतवान् वा?" इति पृष्टवती।
सीतारामः सर्वं वृत्तान्तं तस्याः पुरतः कथितवान्।
तत्सर्वं श्रुत्वा सा क्रोधेन दुःखेन च ‘हा हन्त, कीदृशी मन्दबुद्धिः भवतः। एतादृशः सुवर्णावकाशः नष्टः किल? महाशक्तिसम्पन्नायाः वनदेवतायाः पुरतः केवलं फलानां प्रार्थना वा? यथा अस्माकं दारिद्र्यस्य नाशः भवेत्, तथा बहुमूल्यानि रत्नानि वा माणिक्यानि वा प्रष्टुम् अपि विवेकः न आसीत् वा? कीदृशी मूर्खता!" इति प्रलपितवती।
अनन्तरं नागाम्बा कण्डोलतः एकं गृहीत्वा छुरिकया तस्य एकं शकलं छित्वा खादितवती। तदा महता आश्चर्येण ‘अहो! कीदृशी स्वादुता! मम जन्मनः आरभ्य एतादृशं स्वादुफलं न खादितवती। भवान् अपि खादतु! एकैकस्य फलस्य दशरूप्यकाणि इति वदतु। जनाः अहमहमिकया क्रीणन्ति" इति उक्तवती।
परेद्युः सीतारामः वेङ्कटपुरं गत्वा तत्र विपण्याम् एकैकस्य फलस्य दशरूप्यकाणि इति वदन् उपविष्टवान्। तस्य वचनं श्रुत्वा जनाः हसन्तः तथैव गतवन्तः। अन्ते एकः धनवान् एकं फलं क्रीत्वा तस्य स्वादुताम् आस्वाद्य महता आनन्देन पुनः दशफलानि क्रीतवान्। तं दृष्ट्वा अन्ये जनाः उत्तरक्षणे एव अवशिष्टानि सर्वाणि फलानि क्रीतवन्तः। सीतारामः तस्मिन् दिने दशगुणितं लाभं प्राप्तवान्। तेन अतीव सन्तुष्टः सः गृहं गतवान्।
अनन्तरं सीतारामः यथाक्रमम् एकां फलवाटिकां गत्वा उत्तमानि आम्रफलानि क्रीत्वा वेङ्कटपुरस्य पार्श्वे स्थितं ग्रामं गतवान्। किन्तु तत्र तस्य फलानि न कोऽपि क्रीतवान्। “ह्यः
वेङ्कटपुरे यादृशानि फलानि अनीतानि, तादृशानि एव आनयतु" इति उक्त्वा गतवन्तः। तेन सीतारामः चिन्ताग्रस्तः जातः।
सायङ्कालानन्तरं सीतारामः वनदेवतायाः अश्वत्थवृक्षस्य समीपं गत्वा उच्चस्वरेण “भोः! वनदेवते! भवती शुभकामनया मह्यं यत्दत्तवती, तेन इदानीं मम महत् अनिष्टं जातमस्ति।" इति आक्रोशं कर्तुम् आरब्धवान्।
तदा वनदेवता तस्य पुरतः प्रत्यक्षा भूत्वा “वत्स, कुतः? किं जातम्?” इति पृष्टवती।
सीतारामः जातां घटनां कथितवान्। वनदेवता तस्य विषये दयार्द्रा भूत्वा “एवं जातं वा? भवतु, अन्यत् किमपि पृच्छतु, दास्यामि” इति उक्तवती।
तर्हि मह्यं एतत्कण्डोलपूरं सुवर्णमेव ददातु" इति पृष्टवान् सीतारामः।
“इदं गृह्णातु। किन्तु जागरूकतया एतत् नयतु” इति उक्त्वा वनदेवता तिरोभूता।
सीतारामः सुवर्णपूर्णं कण्डोलं मस्तके स्थापयन् गृहं प्रति प्रस्थितवान्। किन्तु मार्गे वीरभद्रः इति कश्चित् कुख्यातः चोरः सहसा तस्य पुरतः आगत्य “आम्रफलानां कण्डोलं अधः स्थापयित्वा तूष्णीं धावतु। किमपि प्रत्युत्तरं मास्तु" इति आग्रहात् उक्तवान्।
किन्तु बलिष्ठः सीतारामः धैर्येण तत्रैव दृढं स्थित्वा “भवान् वीरभद्रापेक्षया अपि बलवान् भवतु। मम भयं नास्ति। प्राणान् त्यजामि, किन्तु कण्डोले स्थितं वस्तु कदापि न ददामि " इति उक्तवान्।
आम्रफलानां कृते प्राणान् अपि त्यजामि इति वचनं श्रुत्वा वीरभद्रः आश्चर्येण “अहमेव वीरभद्रः, जानाति वा !” इति उक्त्वा कटिप्रदेशे स्थितं खड्गं गृहीतवान्। द्वयोः मध्ये परस्परम् आक्रमणं सञ्जातम्। महाबलिष्टः चोरः वीरभद्रः सीतारामं हन्तुं न अपेक्षितवान्। केवलं तं भापयीतुं/भाययितुंतस्य भुजे खड्गेन एकं क्षतं कृतवान्।
सीतारामः उच्चैः आक्रोशं कुर्वन् रे वीरभद्र ! एतावत् सुवर्णम् अपहृय भवान् कदापि सुखेन न जीवति इति उक्त्वा ततः धावितवान्।
वीरभद्रस्य सम्पूर्णविषयं महाराजः जानाति स्म। तं हत्वा वा जीवन्तम् एव वा यः आनयति तस्मै लक्षरूप्यकाणि बहुमानरूपेण दीयन्ते इति सः उद्घोषणं कारितवान् आसीत्। परेद्युः सीतारामः अश्वत्थवृक्षस्य समीपं गत्वा, वनदेवताम् आहूय जातं सर्वं वृत्तान्तम् उक्तवान्।
तस्य कथनं श्रुत्वा वनदेवतायाः मुखं क्रोधेन आरक्तं जातम्। “भवान् अतीव मन्दभाग्यः। इतःपरं कदापि अस्य अश्वत्थवृक्षस्य छायामपि न स्पृशतु” इति सा उक्तवती।
तस्याः वचनं श्रुत्वा सीतारामः अपि क्रोधेन “यदा भवती मम मस्तकस्थिते कण्डोले उपविष्टवती, तदारभ्य मम दुष्कालस्य आरम्भः अभवत्।" इति निन्दितवान्।
तत्वचनं श्रुत्वा वनदेवता पूर्वापेक्षया अधिककोपेन “रे क्षुद्रमानव ! माम् एवं भवान् भाययति वा? भवतः दुर्लक्षणं मुखं अत्र पुनः कदापि न प्रदर्शयतु। अपि च, अद्य भवतः वनदेवता क्रोधेन शापं दत्तवती। किन्तु मुखं प्रथमतया यः द्रक्ष्यति सः रक्तं वमन् मरिष्यति। गच्छतु इतः” इति शापं दत्त्वाअगोचरा जाता।
दुःखेन चिन्तयन् अधोमुखः भूत्वा सीतारामः गच्छति स्म। तदा पार्श्वस्थवृक्षतः महान् अट्टहासशब्दः श्रुतः।
सीतारामः तस्मिन् पार्श्वे दृष्टवान्। “किं रे ! पुनः सुवर्णं न आनीतवान् वा” इति पृच्छन् चोरः वीरभद्रः तस्य पुरतः आगतवान्। तत्क्षणमेव ‘हा!’ इति आक्रोशनं कुर्वन् रक्तं वमन् तत्रैव पतित्वा प्राणान् त्यक्तवान्।
तदा सहसा सीतारामः महाराजस्य उद्घोषण स्मृतवान्। सः चोरस्य शवं भुजे आरोप्य नगरं गतवान्। “तेन सह सम्यक् मुष्टामुष्टिकलहं कृत्वा तम् अहं हतवान्" इति ग्रामस्थान् कथितवान्।
अनन्तरं सप्ताहाभ्यन्तरे महाराजः सीतारामम् आहूय वीरभद्रस्य नाशनेन सन्तुष्टः सन् लक्षरूप्यकाणि बहुमानरूपेण दत्तवान्।
वनदेवता क्रोधेन शापं दत्तवती।किन्तु सः शापः अपि अनुग्रहरूपः एव जातः इति सीतारामःमहान्तं सन्तोषं प्राप्तवान्।
]