लघुकथासङ्ग्रहः-५

[[लघुकथासङ्ग्रहः-५ Source: EB]]

[

पण्डितः विशारदः

पूर्वं चण्डीपुरे जगन्नाथः नाम कश्चन निवसति स्म। तस्य तिस्रः पुत्र्यः सञ्जाताः। चतुर्थतया यदा पुत्रः जातः तदा गृहसदस्याः सर्वे अतीव सन्तुष्टाः। सर्वे तं सर्वदा लालयन्ति स्म। मातापितरौ तु तं महत्या प्रीत्या लालितवन्तौ। विशारदः इति तस्य नाम निश्चितम्।

विशारदस्य रोदनं, हासः, दुष्टचेष्टाः इत्यादयः सर्वे गृहसदस्यानां प्रियकराः एव। ते अहमहमिकया शिशुं लालयन्ति स्म। एतस्य परिणामतः सः बालः विद्याभ्यासे असमर्थः जातः। विशारदः पञ्चदशवर्षीयः यावत् जातः ततः पूर्वम् एव तस्य भगिनीत्रयस्य विवाहः अपि सम्पन्नः।

इदानीं विशारदस्य मातापितरौ वार्धक्ये स्तः। तयोः एका एव चिन्ता ‘अग्रे विशारदस्य का गतिः भवेत्’ इति। विद्यायां, करकुशलकर्मसु, कृषिवृत्तौ वा सः न निपुणः। भविष्यतः विषये तस्य न काऽपि चिन्ता। भोजनम्, अटनं, निद्रा इति एतावदेव तस्य वृत्तिः।

एवं स्थिते कदाचित् कश्चन संन्यासी जगन्नाथस्य गृहस्य पुरतः स्थित्वा “भोः मातापितरः! भिक्षया अनुगृह्णन्तु। संन्यासी अहं सुदूरात् उपस्थितः अस्मि” इति उक्तवान्।

तत् श्रुत्वा जगन्नाथः त्वरया बहिः आगत्य संन्यासिनं दृष्ट्वा उक्तवान् “महात्मन्! भवतः मुखे दृश्यमानेन तेजसा आकृष्टाः वयम्। अन्तः आगच्छतु। भिक्षास्वीकरणेन अनुग्राह्याः वयम्। भवतः पादधूल्या परिशुद्धं भवतु एतद्गृहम्” इति।

संन्यासी तद्दिने तत्रैव स्थितवान्। जगन्नाथेन व्यवस्थापितेन भोजनेन सन्तुष्टः संन्यासी उक्तवान्— “भवताम् आतिथ्येन सन्तृप्तः अस्मि अहम्। भवन्तः भवतां समस्या यदि काऽपि स्यात् तर्हि वदन्तु। यदि शक्यं परिहरिष्यामि” इति।

जगन्नाथः संन्यासिने पुत्रस्य विशारदस्य परिस्थितिं निवेद्य उक्तवान्— “कियत्कालं वयं जीवेम इति न जानीमः । अस्माकम् अनुपस्थितौ एषः पुत्रः कथं जीवेत् इत्येव महती समस्या । एतत् स्मरन्तः वयं निद्रां न अनुभवामः । एकलः पुत्रः । किन्तु तस्य एतादृशी परिस्थितिः! व्यवहारं किमपि न जानाति । एषा एव अस्माकं समस्या” इति ।

संन्यासी विशारदं स्वसमीपम् आहूय उपवेशितवान् । तस्य दक्षिणहस्तस्य रेखाः स्परीक्ष्य जगन्नाथम् उक्तवान् “भोः, भवता पुत्रविषये दुःखम् अनुभोक्तव्यं नास्ति । विशारदः राजाश्रयं प्राप्स्यति । सवैभवं जीविष्यति । एतस्य जीवनौन्नत्यं भवान् स्वनेत्राभ्यां द्रक्ष्यति । अतः चिन्तां त्यक्त्वा सन्तोषेण जीवतु” इति ।

“एतस्य तु विद्यायाम् एव आसक्तिः नास्ति। कुत्रचित् प्रावीण्यं प्राप्नुयात् इत्यपि न विश्वासः मम । आहारादिविषये अपि एतस्य न स्वयंप्रवृत्तिः । एतादृशः कथं वा राजाश्रयं प्राप्नुयात् ? भवतः वचनं कथं विश्वसेयम् ?” इति सन्देहं प्रकटितवान् जगन्नाथः ।

‘भवतः वचनं सत्यम् एव । एषः महापाण्डित्यं न प्राप्नुयात् । किन्तु राजाश्रयं प्राप्स्यति इति तु निश्चितम् । दैवानुग्रहः मानवप्रयत्नम् अपेक्षते। अतः एतस्मै संस्कृतं पाठयतु । कालान्तरे प्रयत्नः फलिष्यति एव । हस्तरेखाफलं कदापि असत्यं न भविष्यति” इति उक्तवान् संन्यासी ।

“अक्षराभ्यासः एव येन न कृतः सः संस्कृतभाषां कथं वा जानीयात्? संस्कृतं तु अपरिचिता नूतना भाषा। तत्र एतस्य प्रवृत्तिः भवेत् वा?” इति आतङ्कपूर्णस्वरेण पृष्टवान् जगन्नाथः ।

विशारदः एतत्सर्वं शृण्वन् आसीत्। सः मध्ये उक्तवान्— “तात! महात्मानः असत्यं न वदन्ति । यदि राजाश्रयः प्राप्येत तर्हि अहम् अवश्यं संस्कृतं पठिष्यामि। माम् उत्तमं गुरुकुलं प्रति प्रेषयतु । श्रद्धया सर्वं पठिष्यामि” इति।

“पश्यतु । इदानीम् एव संस्कृतभाषायाः पठने भवतः पुत्रस्य आसक्तिः उत्पन्ना। इतः परम् अपि सन्देहः मास्तु । हस्तरेखाः सदा सत्यम् एव सूचयन्ति । इदानीं युक्तः

कालः प्राप्तः अस्ति” इति उक्त्वा संन्यासी ततः गतवान्।

जगन्नाथः संस्कृतभाषां किञ्चित् जानाति। अतः सः तद्दिने एव पुत्रं संस्कृतं पाठयितुम् आरम्भं कृतवान्। किन्तु मासात्मकप्रयत्नेन अपि विशारदः कानिचन पदानि अपि न ज्ञातवान्।

एतेन तीव्रं दुःखितः जगन्नाथः कदाचित् पत्नीम् उक्तवान् — “मम प्रयत्नः विफलः। पुत्रस्य पाठने अहम् असमर्थः जातः। एतादृशः कथं वा संस्कृतज्ञः भवेत् इति अहं न जानामि। ब्रह्मा एतस्य ललाटे किं वा लिखितवान् स्यात्? एतस्य जन्म किमर्थं वा जातं स्यात् ? विचित्रम् एतत् !” इति।

“भो ! भवान् कदाचित् सामान्यम् अपि विषयं माम् अवगमयितुं न शक्नोति। एवं स्थिते विशारदं कथं वा संस्कृतं समर्थतया पाठयेत् ? यत्र व्यामोहः अधिकः तत्र पाठनं सम्यक् न भविष्यति। अतः एतं विद्याभ्यासार्थं गुरुकुलं प्रेषयतु” इति सूचितवती पत्नी।

“पत्न्याः वचनेषु सत्यम् अस्ति” इति ज्ञातवान् जगन्नाथः। किन्तु तस्मिन् ग्रामे संस्कृतं पाठयितुं समर्थः कोऽपि न आसीत्।

पार्श्वग्रामे देवीदासः नाम कश्चन संस्कृतपण्डितः आसीत्। पाठने सः सिद्धहस्तः। तत्प्रदेशे तस्य कीर्तिः प्रसृता आसीत्। जगन्नाथः पुत्रम् एतस्य देवीदासस्य गृहं नीतवान्। ‘एतं पाठयतु’ इति देवीदासं प्रार्थितवान्।

तदा देवीदासः साभिमानम् उक्तवान् “भोः, भाषाशिक्षणं नाम सा एका विशिष्टा कला। तत्रापि संस्कृतस्य पाठने विशेषकौशलम् अपेक्षितम्। भवान् चिन्तां न करोतु। वर्षपञ्चकाभ्यन्तरे एतं पण्डितं करिष्यामि। एषः शास्त्रे सिद्धहस्तः यथा स्यात् तथा करिष्यामि। एतस्य पाठनभारं मयि आरोप्य भवान् निश्चिन्ततया गृहं गन्तुम् अर्हति” इति।

“श्रीमन् ! मम पुत्रः वस्तुतः अपि संस्कृतं पठितुं शक्नुयात् वा ? ज्योतिषिकः कश्चित् उक्तवान् यत् एषः संस्कृतद्वारा राजाश्रयं प्राप्स्यति इति। एतस्य भाविजीवनम् संस्कृताध्ययनम् आधारीकृत्य अस्ति” इति उक्तवान् जगन्नाथः।

“पुत्रस्य अध्ययनविषये चिन्ता एव मास्तु। एतत् मम दायित्वम्। मम समीपम् आगत्य कोऽपि तादृशः न प्रतिनिवृत्तः यश्च विद्यां न गृहीतवान् स्यात्। तादृशः यदि कश्चित् भवेत् तर्हि एतां पाठनप्रवृत्तिम् एवं त्यजेयम्। विंशतिवर्षात्मके मम पाठनानुभवे अद्यावधि तादृशः कोऽपि न लब्धः। भवतः पुत्रः अपि नामानुगुणं संस्कृतभाषायां विशारदः भविष्यति” इति उक्तवान् देवीदासः।

देवीदासस्य वचनैः तृप्तः जगन्नाथः गृहं प्रतिनिवृत्तः। देवीदासः विशारदं पाठयितुम् आरब्धवान्।अल्पे एव काले तेन अपि मनसा अङ्गीकृतं यत् विशारदस्य पाठनं न तावत् सुलभम् इति। किन्तु पराजयम् अङ्गीकर्तुं सः न सिद्धः। यतः तथा अङ्गीकृतं चेत् न केवलम् अपमाननम्, अपि. तु जीवनवृत्तेः भङ्गः भविष्यति अपि।

अतः देवीदासः पञ्चवर्षाणि यावत् महता परिश्रमेण विशारदाय संस्कृतं पाठितवान्। पाठनसमाप्तेः अनन्तरं सः विशारदम् उक्तवान् “भोः, भवतः विद्याभ्यासः समाप्तः। किन्तु भवान् आत्मनः योग्यतां जानाति एव। वादे जयं प्राप्तुं मार्गद्वयम् एकं पाण्डित्यम्, अपरं च कठिनशैल्या सधैर्यं व्यवहारः। भवान् द्वितीयं मार्गम् अनुसरतु। सर्वत्र तर्कशैल्या व्यवहरतु। नामकथनम् अपि कठिनशैल्या एव भवतु” इति।

विशारदः आचार्यं सन्तोषेण नमस्कृत्य “गुरुदेव! भवतः उपकारं कदापि न विस्मरामि। भवतः अनुग्रहेण प्रायः अहं राजाश्रयं प्राप्नुयाम् अपि। ज्योतिषिकस्य वचनम् अत्र प्रमाणम्। यदा अहं राजाश्रयं प्राप्स्यामि तदा गुरुदक्षिणारूपेण किमपि दातुम् इच्छामि। भवान् किम् इच्छति इति निर्दाक्षिण्यं वदतु” इति उक्तवान्।

“इतः परं कोऽपि भवन्तं ‘भवतः गुरुः कः?’ इति पृच्छति चेत् कदापि मम नाम न वदतु। एषा एव भवता दातव्या गुरुदक्षिणा” इति उक्तवान् देवीदासः।

विशारदः एतत् अङ्गीकृत्य गृहं प्रत्यागतवान्। पुत्रस्य आगमनेन सन्तुष्टःजगन्नाथः तदीयं पाण्डित्यं परीक्षितुम् इष्टवान्। कांश्चन प्रश्नान् संस्कृतेन पृष्टवान्। यतः जगन्नाथः अपि संस्कृतं

सामान्यतः जानाति किल?

** तदा विशारदः पितरम् उक्तवान् ‘तात ! ‘महापण्डितैः सह एव व्यवहारः करणीयः, न तु सामान्यैः सह’ इति मम गुरोः आदेशः अस्ति। अतः अहम् भवता सह संस्कृतेन न व्यवहरामि। उत्तमे मुहूर्ते दिग्विजयार्थं गन्तुम् इच्छामि च सर्वत्र सञ्चारं कृत्वा सर्वान् पण्डितान् जित्वा प्रत्यागमिष्यामि” इति ।**

** तदा सन्तुष्टः जगन्नाथः उक्तवान्— “अवश्यं दिग्विजयार्थं गच्छतु। संन्यासिनः वचनं सत्यत्वेन प्रमाणीकरोतु” इति । उत्तमे मुहूर्ते पुत्रम् आशिषा अनुगृह्य प्रेषितवान् च।**

** मार्गे विशारदः स्वर्णपुरीं प्राप्तवान् । कस्यचित् सज्जनस्य गृहे स्थितवान् च । तस्य सज्जनस्य पत्नी चण्डी। मार्गे गच्छतः सर्वान् गृहम् आनयति किल।’ इति विशारदस्य सम्मुखे एव सा पतिं तर्जितवती ।**

** तदा विशारदः शान्ततया एव उक्तवान्— “अम्ब! अहं कश्चन संस्कृतपण्डितः, न तु सामान्यः कश्चित् । मम आगमनेन भवत्याः गृहं पवित्रं जातम् । अतः भवत्या सन्तोषः अनुभोक्तव्यः” इति ।**

** तदा सा चण्डी स्त्री क्रोधेन— “किं तेन भवतः पाण्डित्येन? अहम् अपि संस्कृतविदुषी एव अस्मि” इति उक्तवती ।**

** तदा विशारदः सन्तोषेण— “एवं वा? पाण्डित्येन सर्वान् जेतुम् एव गृहतः प्रस्थितः अहम् । आगच्छतु तावत् । वादं कुर्मः” इति**

तर्कशैल्या वक्तुम् आरब्धवान्।

एतत् श्रुत्वा सा चण्डी भीता। यतः यद्यपि सा संस्कृतज्ञा, किन्तु तर्कशैल्यां तस्याः प्रभुत्वं नास्ति। यया शैल्या वादी वादम् उपस्थापयति तया एव शैल्या प्रतिवादिना उत्तरं दातव्यं किल? तथा वक्तुम् असमर्था सा आत्मनः पराजयम् अङ्गीकृत्य उक्तवती —“भोः श्रीमन्! भवतः पाण्डित्यं तु असदृशम्। भवता सह वादं कर्तुं मम सामर्थ्यं नास्ति। शास्त्रं तु बहुपूर्वम् अधीतम्। इदानीं तत्सर्वं कथं स्मरेयम् ?” इति।

‘विशारदस्य पुरतः वा एषा चण्डी पराजयम् अङ्गीकृत्य विनयेन व्यवहारं कृतवती किल?’ इति सन्तोषम् अनुभूतवान् सः सज्जनः। सः पुरस्कारादिकं दत्त्वा विशारदम् उक्तवान् — “महोदय ! स्वर्णपुर्यां कवितानन्दः नाम पण्डितः निवसति। ‘यः मां पराजयते तस्मै सहस्रं सुवर्णनाणकानि दास्यामि’ इति सः प्रकटितवान् अस्ति। अतः भवता अवश्यं सः द्रष्टव्यः” इति।

“एतत् एव किल मम कार्यम्” इति वदन् विशारदः अनन्तरदिने एव कवितानन्दस्य समीपं गतवान्। आत्मनः दिग्विजय यात्राविषयम् उक्त्वा संस्कृतेन वक्तुम् आरब्धवान्।

दौर्भाग्यवशात् कवितानन्दः अपि तर्कशैल्याम् अप्रवीणः। काव्यलेखने सामर्थ्यम् अस्तीत्यतः सः आत्मानं महाकविं मन्यते स्म। इदानीं यदा तर्कशैल्या वादः करणीयः आपतितः तदा सः वस्तुतः भीतः।

सः नम्रस्वरेण विशारदम् उक्तवान्,— “भोः, अहं यदि वादे पराजयं प्राप्नुयां तर्हि स्वर्णपुर्यां मम गौरवम् अपगच्छति। अतः आवयोः मध्ये स्पर्धा एव मास्तु। अहं भवते सहस्रं सुवर्णनाणकाणि ददामि। अस्माकं देशस्य राजा वराहसेनः महासंस्कृतपण्डितः। भवान् तस्य समीपं गत्वा भवतः पाण्डित्यं प्रदर्शयतु। तेन भवान् सुलभयता राजाश्रयं प्राप्तुं शक्नुयात्” इति।

‘तथैव अस्तु’ इति अङ्गीकृत्य विशारदः कवितानन्देन दत्तानि सहस्रं सुवर्णनाणकानि स्वीकृत्य राजधानीं प्रति प्रस्थितः। सप्तदिनानाम् अनन्तरं सः राजधानीं प्राप्तवान्।

** राजधान्यां तेन ज्ञातं यत् राजास्थाने चतुरपादः नाम पण्डितः अस्ति, एतस्य अनुमतिं विना राजाश्रयः दुर्लभः इति। अतः विशारदः साक्षात् चतुरपादस्य गृहं गतवान्। आत्मनः संस्कृतपाण्डित्यं प्रदर्शितवान् च।**

** चतुरपादः विशारदम् अनादरेण उक्तवान् — “भोः, संस्कृतं मधुरा गम्भीरा च भाषा। भवतः उच्चारणे दोषाः सन्ति। शैली अपि कर्कशा। व्याकरणदोषाः अपि यथेष्ठं सन्ति। एतत्सर्वं श्रुत्वा महाराजः निश्चयेन असन्तुष्टः भविष्यति। मम वचनं शृणोतु। राजाश्रयप्राप्तिं विस्मरतु। ग्रामं गत्वा केनचित् उद्योगेन जीवतु। मार्गव्ययार्थं धनम् आवश्यकं चेत् अहम् एव ददामि” इति, शतं सुवर्णनाणकानि दत्तवान् च।**

** विशारदः चतुरपादस्य वचनेषु न विश्वसिति। सः कोपेन भवान् मम पाण्डित्यं दृष्ट्वा असूयां प्राप्तवान्। यदि अहं राजदर्शनं प्राप्नुयां तर्हि स्वस्थानस्य च्युतिः भवेत् इति हि भवान् चिन्तयति। अन्यस्य उत्कर्षं भवान् सोढुं न शक्नोति” इति चतुरपादं निन्दितवान्।**

** चतुरपादः तु शान्तस्वरेण —“भोः, अहं तु मम अनुभवानुसारं हितम् उपदिष्टवान्। भवान् माम् एव निन्दन् अस्ति। महाराजः एषु दिनेषु अस्वस्थः। तथापि अहं तस्य दर्शनं कारयामि। ललाटे यथा लिखितं तथा फलं प्राप्स्यति भवान्” इति उक्तवान्।**

** “राजदर्शनं यदि भवेत् तर्हि अहं निश्चयेन राजाश्रयं प्राप्स्यामि एव। यदि तथा भवेत् तर्हि भवतः उपकारं कृतज्ञतापूर्वकं स्मरामि अहम्” इति उक्तवान् विशारदः।**

** तद्दिने एव चतुरपादः महाराजस्य दर्शनं कारितवान्। “कः भवान् ? किमर्थम् आगतवान् ?” इति पृष्टवान् राजा वराहसेनः।**

** “मम नाम विशारदः इति। अहं कश्चन संस्कृतपण्डितः। पाण्डित्यप्रदर्शनेन राजाश्रयं प्राप्तुम् अत्र आगतवान् अस्मि” इति सधैर्यम् उक्तवान् विशारदः।**

** “भवान् तु अल्पवयस्कः इव दृश्यते। एवम् अल्पे वयसि कथं वा संस्कृते पाण्डित्यं प्राप्तवान् भवान् ?” इति पृष्टवान् राजा।**

“गुरोः अनुग्रहेण एतत् सिद्धम्। पञ्चवर्षाभ्यन्तरे गुरुः मां पण्डितं कृतवान्” इति वदन् विशारदः संस्कृतेन सम्भाषणम् आरब्धवान्।

यद्यपि महाराजः बहुभ्यः दिनेभ्यः अस्वस्थः। तथापि सः विशारदेन सह संस्कृतेन सम्भाषणं कृतवान्। विशारदस्य भाषाप्रयोगः तावद्विनोदजनिका आसीत् यत् महाराजः उदरोपपीडं हसितवान्। सम्भाषणमध्ये महाराजः हासं निगृह्णन् पृष्टवान् —“भोः ! एतादृशस्य विशिष्टस्य भवतः गुरुः कः ?” इति।

“एतत् तु रहस्यम्। ‘तथा न वक्तव्यम्’ इति गुरोः आदेशः अस्ति। ‘गुरुदक्षिणारूपेण एतम् आदेशं पालयिष्यामि’ इति मया प्रतिज्ञा कृता अस्ति अपि” इति उक्तवान् विशारदः।

राजा एतेन वचनेन पुनः अपि हसन् विशारदस्य पूर्वापरं सर्वं पृष्टवान्। तस्यां रात्रौ तत्रैव स्थातुं सूचितवान् अपि।

अनन्तरदिने आगतः राजवैद्यः महाराजं परीक्ष्य सन्तोषेण उक्तवान् “महाराज! —एकदिनाभ्यन्तरे एव भवतः स्वास्थ्ये परिवर्तनं दृश्यते। औषधानि फलितानि अभवन्” इति उक्तवान्।

“मनः एव सर्वस्य कारणं किल? अहं तु विविधसमस्याभिः ग्रस्तः आसम्। विशारदस्य संस्कृतसम्भाषणेन अहं यथेष्टं सन्तोषं प्राप्तवान्। अतः यः सर्वाः चिन्ताः विस्मृताः अभवन्। मनः उल्लसितम् अभवत्। तेनैव कारणेन आरोग्ये परिवर्तनं दृश्यते प्रायः” इति उक्तवान् महाराजः।

विशारदः राजाश्रयं प्राप्तवान्। यदा विशारदः किमपि वदति तदा तस्य उच्चारणं भाषां च श्रुत्वा सर्वे हसन्तः सन्तोषम् अनुभवन्ति स्म। एवं जनाः यथा हसेयुः तथा करणम् एव तस्य कार्यम् आसीत्।

यदा विशारदस्य स्थानं सुभद्रम् अभवत् तदा सः ग्रामतः मातापितरौ आनीतवान्। पिता जगन्नाथः पुत्रस्य वैभवस्थितिं दृष्ट्वा सन्तोषम् अनुभवन् —“यथाकथम् अपि भवतु। संन्यासिना यत् उक्तं तत् सत्यम् एव अभवत्” इति उद्गारं प्रकटितवान्।

पतनकारणम्

पूर्वम् अरावलीपर्वतप्रान्ते कस्मिंश्चित् वने कृष्णचन्द्रः नाम पण्डितः गुरुकुलं चालयति स्म। ‘उत्तमगुरुः’ इति समग्रे देशे तस्य कीर्तिः प्रसृता आसीत्। देशस्य विविधकोणेभ्यः विद्यार्थिनः अध्ययनार्थं तस्य समीपम् आगच्छन्ति स्म। श्रेष्ठाः पण्डिताः बहवः तस्य शिष्याः एव। सः यथा सज्जनः तथैव उदारी अपि।

** एकदा सायङ्काले गुरुकुलस्य वने कश्चन कोलाहलः श्रुतः। कुतूहलेन कृष्णचन्द्रः तत्र गतवान्। तत्र सः दृष्टवान् यत् एकं विद्यार्थिनम् इतरे चत्वारः विद्यार्थिनः दण्डयन्तः आसन्।**

** “किमर्थम् एतम् एवम् दण्डयन्ति ?” इति पृष्टवान् कृष्णचन्द्रः।**

** तदा एकः विद्यार्थी अग्रे आगत्य उक्तवान् “श्रीमन् ! अस्माभिः रक्षितानि आम्रफलानि एषः खादितवान्। एतादृशं चौर्यम् एषः तदा तदा करोति। बहुवारं वयम् एतं सूचितवन्तः। अद्य तु चौर्यसमये एव एषः गृहीतः” इति।**

** कृष्णचन्द्रः विद्यार्थिनः मुखं दृष्टवान्। सः पश्चात्तापेन खिन्नः अस्ति। मुखम् अवनमय्य लज्जया भूमिं पश्यन् अस्ति।**

** “सर्वे माम् अनुसरन्तु” इति उक्त्वा कृष्णचन्द्रः ततः निर्गतवान्। यदा सर्वे विद्यार्थिनः पाठशालाम् आगत्य उपविष्टाः तदा सः तान् उद्दिश्य उक्तवान्— “प्रकृतौ अतीव चञ्चलं-जलम्। अल्पे अवकाशे प्राप्ते अपि तत् अधोमुखतया प्रवहति। अधोगतिः तस्य प्रकृतिः। पतनम् अपि एवम् एव। मानवः किञ्चिदिव दुर्बलः भवति चेदपि तदीयं मनः पतनमार्गम् अनुसरति। यथा जलस्य आघातेन पात्रस्य आकारः परिवर्तितः भवति**

तथैव मानसिकदौर्बल्येन मानवस्य सर्वनाशः अपि भवेत्। उदाहरणरूपेण श्यामनामकस्य बालकस्य कथां श्रावयामि। सश्रद्धं शृण्वन्तु

पूर्वं श्यामः नाम कश्चन बालकः आसीत्। श्यामः वस्तुतः बुद्धिमान्। किन्तु दुष्टानां सहवासेन सः सर्वथा निरुपयुक्तः जातः। मातापित्रोः ज्येष्ठानां च उपदेशेन किमपि प्रयोजनं न सिद्धम्। सः सर्वदा दुष्टैः सह अटति। धनस्य अपव्ययं करोति च। यदा व्ययार्थं गृहे धनं न लब्धं तदा सः चौर्यम् अपि आरब्धवान्। कालान्तरे सः प्रसिद्धः चोरः एव अभवत्।

श्यामः यस्मिन् देशे निवसति तस्य देशस्य राजा देवभक्तः। सः महता धनव्ययेन एकं देवमन्दिरं निर्मितवान्। तच्च मन्दिरम् अमृतशिलाभिः एव निर्मितम् आसीत्। देव्याः विग्रहः अपि अपूर्वः एव। विग्रहस्य कण्ठे अमूल्यः कश्चन हारः अपि आसीत्।

तस्य हारस्य वैशिष्ट्यम् आसीत् यत् तस्य मध्ये एकं वज्रं योजितम् आसीत्। वज्रस्य मूल्यं कोट्याधिकरूप्यकाणि। यत्र वज्रम् अस्ति तत्र सकलसौभाग्यं सिध्यति इति जनानां विश्वासः आसीत्।

तस्मिन् मन्दिरे प्रतिवर्षं नवदिनात्मकः उत्सवः सवैभवं प्रचलति स्म। एतम् उत्सवं द्रष्टुं न केवलं तद्देशस्य जनाः, अपि तु इतरदेशस्य राजानः ज्येष्ठाः अधिकारिणः च आगच्छन्ति स्म।

एवम् एकदा पार्श्वदेशस्य राजा कालनाथः एतम् उत्सवं द्रष्टुम् आगतवान्। अमूल्यस्य रत्नहारस्य उपरि तस्य दृष्टिः पतिता। ‘एतादृशः उत्तमः हारः मत्समीपे अवश्यं भवेत्’ इति सः मनसि एव निश्चयं कृतवान्।

उत्सवं समाप्य कालनाथः यद्यपि स्वदेशं गतवान्, किन्तु तस्य मनसि हारस्य विचारः कीटवत् बाधते स्म। अतः सः एतं हारम् आनेतुं विश्वासार्हम् एकं सेवकम् आदिष्टवान्। सेवकः प्रथमम् एतत् निराकृतवान्। किन्तु यदा महाराजेन विपुलधनस्य आशा प्रदर्शिता तदा सः एतत् कार्यम् अङ्गीकृतवान्।

सेवकः मन्दिरम् आगत्य पूजकाय धनस्य आशां प्रदर्शितवान्। धनेन को वा वशे न धनेन को वा वशे न आगच्छति ? पूजकः अपि कालनाथस्य अस्मिन् कुतन्त्रे सम्मिलितः अभवत्। रात्रौ हारः चोरणीयः इति तौ निश्चितवन्तौ।

तद्दिने एव श्यामः स्नेहितैः सह अटनं कृत्वा मार्गे पिपासानिवारणार्थं देवालयसमीपे स्थितस्य सरोवरस्य समीपम् आगतवान्। समीपे एव पूजकः अन्यः सेवकः च तेन दृष्टौ। ‘अस्मिन् रात्रिकाले एतयोः देवालये किं कार्यं स्यात् ? किमर्थम् एतौ चोरौ इव भीत्या पदानि स्थापयन्ति ?” इति कुतूहलः उत्पन्नः श्यामस्य मनसि।

देवालयं प्रति तयोः गमनं दृष्ट्वा श्यामः धावन् गत्वा आलयस्य अन्तः निलीय स्थितवान्। अल्पे एव काले पूजकः एकाकी देवालयं प्रविष्टवान्। द्वारम् उद्घाटय अन्तः आगतवान् च।

तदा श्यामः अपि तम् अनुसरन् गर्भगृहं प्रविश्य “श्रीमन् ! अत्र किं करोति भवान् ?” इति पृष्टवान्।

अविचिन्तितया एतया घटनया पूजकः दिग्भ्रान्तः। तस्य हस्ततः हारः पतितः।

तदा श्यामः हारम् उन्नीय परिशीलयन् उक्तवान्— “भीतिः मास्तु। हारः चौर्येण विक्रेतव्यः इति किल भवतः अभिप्रायः ? भवता सह आगतवान् अन्यः कः ?” इति।

पूजकः आत्मनि धैर्यं पूरयन् कम्पमानेन

स्वरेण वास्तविकं विषयं निवेदितवान्। तदा श्यामःपृष्टवान्— “विदेशीयाय दत्त्वा अल्पं धनं यत् स्वीक्रियते तदपेक्षया अस्माकं राज्ये एव विक्रयणं वरं किल ?” इति।

पूजकः एतं प्रस्तावं सन्तोषेण अङ्गीकृतवान्। अनन्तरं तौ हारं गृहीत्वा बहिः आगत्य गर्भगृहस्य द्वारं यथापूर्वं कीलितवन्तौ। निःशब्दतया आगत्य एतयोः आगमनं प्रतीक्षमाणं गुप्तचरं दृष्ट्या अयःशलाकया बलेन ताडितवन्तौ। गुप्तचरः विना शब्दं तत्रैव पतितवान्। एतौ गर्भगृहस्य कुञ्चिकां तस्य पार्श्वे क्षिप्त्वा बहिः आगत्य ग्रामसीमाम् अतिक्रम्य गतवन्तौ।

मार्गे उभयोः अपि समाना चिन्ता हारः मया एकेन एव स्वीकरणीयः’ इति। अनन्तरदिने तौ एकं वनं प्रविष्टवन्तौ। छायायाम् उपविश्य उपाहारगृहतः आनीतं पाथेयं खादितवन्तौ। किन्तु पाथेये अन्यः यथा न जानीयात् तथा उभाभ्याम् अपि विषं योजितम् आसीत्। तत्कारणतः तौ तत्रैव विसंज्ञौ जातो” इति कथां समापितवान् कृष्णचन्द्रः।

अनन्तरं सः शिष्यान् उद्दिश्य पुनः उक्तवान्— “वस्तुतः विचार्यमाणे श्यामः पूजकः वा न तथा दुष्टौ। तथापि अणुरूपेण पतनम् आरब्धम्। छिद्रेष्वनर्थाः बहुलीभवन्ति किल ! अतः तयोः सर्वनाशः एव सम्पन्नः” इति।

कथां श्रुत्वा भारभूतमनस्काः सन्तः सर्वे विद्यार्थिनः ततः उत्थाय गतवन्तः। यः चौर्यं कृतवान् आसीत् सः कृष्णचन्द्रस्य पादौ गृहीत्वा अश्रूणि पातयन्— “मया मम पतनकारणं ज्ञातम्। इतः परम् एतादृशं कार्यंंन करोमि” इति उक्तवान्।

यदा शिष्याः सर्वे ततः निर्गताः तदा कृष्णचन्द्रः गृहस्य अन्तः आगतवान्। तदा तस्य पत्नी व्यथया उक्तवती— “एषः विद्यार्थी इतः परं सन्मार्गम् अनुसरेत्। किन्तु श्यामस्य पूजकस्य च गतिः शोचनीया अभवत् किल? अहो दुरदृष्टम् ! एवं न भवितव्यम् आसीत्” इति।

कृष्णचन्द्रः हसन् उक्तवान्— “पूजकस्य तु दुरदृष्टम्। किन्तु श्यामस्य न दुरदृष्टम्” इति।

“तत् कथम् ?" इति कुतूहलेन आश्चर्येण च पृष्टवती तस्य पत्नी।

“श्यामः तदा न मृतः। वार्धक्यकारणतः विषसेवनेन पूजकः तत्क्षणे एव दिवङ्गतः। श्यामः न दिवङ्गतः। यदा सः वेदनाम् अनुभवन् आसीत् तदा आयुर्वेदपारङ्गतः महामन्त्रतन्त्रज्ञः कश्चन धर्मात्मा तत्र आगत्य तस्य प्राणान् रक्षितवान्। श्यामस्य पूर्वतनं वृत्तान्तं श्रुत्वा अपि दयया तं स्वकीयम् आश्रमं नीत्वा ज्ञानभिक्षया अनुगृहीतवान्" इति उक्तवान् कृष्णचन्द्रः।

“एवं तर्हि अदृष्टवशात् श्यामः प्राणान् धृतवान्। किन्तु सः द्वयोः जीविनोः मरणे कारणीभूतः आसीत् किल? तदर्थं तेन प्रायश्चित्तम् अनुभोक्तव्यम् आसीत्" इति उक्तवती पत्नी।

“वस्तुतः प्रवृत्तम् अपि एवम् एव। सः धर्मात्मा श्यामं शिष्यत्वेन अङ्गीकृतवान्, किन्तु गुरुकुलवासार्थं तस्मै अनुमतिं न दत्तवान्। श्यामः एकवर्षं यावत् समीपे अरण्ये गुहायां वसति स्म। किन्तु तस्य ज्ञानपिपासा बुद्धिमत्ता च असाधारणी आसीत्। अतः सः पाण्डित्यं प्राप्य कृष्णचन्द्रनाम्ना ख्यातः अभवत्" इति मन्दहासपूर्वकम् उक्तवान् कृष्णचन्द्रः।

’ एवं तर्हि सः श्यामः भवान् एव वा ?" इति उद्गारं प्रकटयन्ती पत्नी पृष्टवती—“रत्नहारः कुत्र गतः ?” इति।

“सः महाराजसमीपं प्रापितः। गुरोः प्रभावतः अहं दण्डनतः रक्षितः अभवम्। जलम् इव अधोमार्गम् अनुसरन्तं मां सत्मार्गे आनीय पुनर्जन्म दत्तवान् सः गुरुः \। तस्य शिष्यः अहम् इति मम अभिमानस्य विषयः यदि सः गुरुः अरण्ये मिलितः न स्यात् तर्हि न जाने, मम का गतिः अभविष्यत्" इति उक्तवान् कृष्णचन्द्रः।

परोपकारी

नारायणकूटं नाम ग्रामः । तत्र रमणः नाम परोपकारी वसति स्म । एकदा महत्या वृष्ट्या चण्डमारुतेन च वृक्षाः पतिताः, गृहाणि शिथिलानि जातानि । बहवः निर्गतिकाः अभवन् । रमणः गृहं गृहम् अटित्वा धनं सङ्गृहीतवान् । निर्गतिकानां कृते तेन धनेन कुटीरान् निर्माप्य दत्तवान् । एतत्-पुण्यकार्यार्थं ग्रामीणाः सर्वे धनं दत्तवन्तः । किन्तु धनगुप्तः नाम धनिकः एक नाणकम् अपि न दत्तवान् ।

अधिकदानं ये कृतवन्तः तेषां नामानि रमणः सर्वत्र उद्घोषयति स्म । धनगुप्तः रमणम् आहूय भर्त्सयित्वा उक्तवान्— ‘भोः ! महोपकारिन्, किमर्थं दातॄणां नामानि सदा रटति? । येषां गृहं धनं च नष्टं तेषु कश्चित् अपि भिक्षां न याचितवान् । अत्र रहस्यं किं भवान् जानाति शृणोतु ! भिक्षां याचितुम् अस्मिन् ग्रामे कोऽपि न इच्छति । भवादृशाः एव परोपकारव्याजेन धनसङ्ग्रहं कुर्वन्ति । सगृहीते धने किञ्चन अंशं भवान् गिलति इत्यपि अहं ज्ञातवान् । अतः भवादृशस्य वञ्चकस्य कृते अहं सहकारं कर्तुं न सिद्धः।

‘ग्रामे सर्वे रमणं प्रशंसन्ति स्म । तथापि तस्य न तृप्तिः । धनगुप्तः अपमानं कृतवान् । अतः यथाकथञ्चित् प्रतीकारः करणीयः एव इति तस्य सङ्कल्पः ।

एकदा रमणः धनगुप्तस्य गृहं गत्वा उक्तवान् “भवान् मां वञ्चकं मन्यते । किन्तु ग्रामीणाः सर्वे मां प्रशंसन्ति । ग्रामे सामान्यजनाः अपि कुटीरनिर्माणार्थं धनं दत्तवन्तः । भवान् एकः एव एकं नाणकम् अपि न दत्तवान् ।"

धनगुप्तः कोपेन रमणं प्रति उक्तवान्—‘ऋणार्थं बहवः जनाः अत्र आगच्छन्ति। मम सकाशतः ऋणं स्वीकृत्य मम प्रशंसां कृत्वा ते गच्छन्ति। मयि यावत्कालं धनं भवति तावत्कालं जनाः प्रशंसन्ति एव। भवादृशाः निर्गतिकाः धनिकैः दत्तं धनं सगृह्य दरिद्राणां कृते दत्वा ‘महान् परोपकारी’ इति कीर्तिं सम्पादयन्ति। मादृशस्य धनिकस्य कृते एतादृशी कीर्तिः मास्तु’। इति अवमानं कृत्वा रमणं प्रेषितवान्।

रमणः अतीव कुपितः दुःखितः च अभवत्। प्रवृत्तं सर्वं वृत्तान्तं श्रुत्वा रमणस्प पिता उक्तवान्—वत्स ! धनगुप्तः सदा बहुगर्ह्यं वदति, अन्यान् निन्दति च। सार्वजनिककार्यार्थं प्रवृत्ताः प्रशंसया सन्तुष्टाः, निन्दया खिन्नाः च न भवन्ति। अतः धनगुप्तस्य विषये मा चिन्तयतु।

पितुः उपदेशेन रमणस्य कोपः न शान्तः। सः मित्राणां समीपे स्वीयम् अपमानं निवेदितवान्। ते अपि उक्तवन्तः—‘धनगुप्तस्य वचनमात्रेण भवान् वञ्चकः मूर्खः वा न भवति। तादृशानि वचनानि श्रवणसमनन्तरम् एव विस्मरणीयानि" इति।

रमणसकाशतः उपकृताः अपि तं प्रति एवम् उक्तवन्तः— “भवान् देवसदृशः मानवः। अतः एव भर्त्सनानि श्रुत्वा अपि अस्माकं कृते उपकारं करोति" इति। एवं सर्वे रमणं प्रशंसितवन्तः एव, न तु धनगुप्तस्य प्रवृत्तिं खण्डितवन्तः।

केचित् ग्रामवृद्धाः रमणस्य धनगुप्तस्य च मध्ये प्रवृत्तं वृत्तान्तं श्रुतवन्तः। ते ग्रामवेदिकायां रमणम् आहूय उपदिष्टवन्तः—“वत्स! धनगुप्तः वाचाटः, सदा कुत्सितानि वचनानि एव रटति। एतदर्थं भवान् मा चिन्तयतु। यदि शुनकः भषति तेन लोकस्य को वा लाभः? का वा हानिः?

** सर्वेषां समानाभिप्रायं ज्ञात्वा धनगुप्तस्य विषये रमणः स्वयं चिन्तितवान्—‘धनगुप्तः महान् धनिकः। ग्रामीणानां तेन सह सम्बन्धः अस्ति एव। अतः एव तस्मै उपदेशं कर्तुं सर्वे भीताः। किन्तु धनगुप्तस्य विषये प्रतीकारः करणीयः एव’ इति।**

** एकदा सुदूरतः ग्रामतः कश्चित् मल्लः परोपकारिणः रमणस्य गृहम् आगतवान्, उक्तवान् च— “अहं मल्लविद्यानिपुणः। एतस्मिन् ग्रामे मलविद्यां प्रदर्श्य ग्रामीणान् सन्तोषयामि। ग्रामीणाः आहत्य शतं दीनारान् ददतु, तेन बहु सन्तुष्टः भविष्यामि। कृपया एतदर्थं साहाय्यं करोतु।”**

** ‘धनगुप्तस्य कृते प्रतीकारं कर्तुम् एषः एव समुचितः समयः’ इति रमणः चिन्तितवान्। मल्लं प्रति उक्तवान् च— “एतस्मिन् ग्रामे धनगुप्तः नाम महान् धनिकः अस्ति। सः मल्लविद्यां बहु आद्रियते। तस्य समीपं गत्वा प्रार्थनां करोतु। सः अवश्यं साहाय्यं करिष्यति एव”।**

** मल्लः धनगुप्तस्य गृहं गत्वा धनगुप्तं प्रार्थितवान् —“गुप्तमहाशय ! अहं मल्लः। मल्लविद्यायां भवतः अतीव आदरः इति श्रुतवान्। मम मल्लविद्याप्रदर्शनार्थं कृपया व्यवस्थां करोतु। पारितोषिकरूपेण शतं दीनाराः यदि दीयन्ते अहं बहु सन्तुष्टः भवामि” इति।**

** मल्लस्य वचनं श्रुत्वा क्रुद्धः धनगृप्तः मल्लं तिरस्कुर्वन् उक्तवान्— ‘भोः। स्वशरीरं केवलं स्थूलीकुर्वन् चत्वरवृषभः इव अटनि। किं लज्जा न भवति। भवादृशान् दृष्ट्वा मम मनः जुगुप्सितं भवति। परस्परकुट्टनं विना मल्लविद्यायां किम् अस्ति यथा आगतः तथा एव प्रतिगच्छतु’ इति।**

** एवं धनगुप्तेन अपमानितः मल्लः क्रोधेन दन्तान् निष्पीडयन् रमणस्य गृहम् आगत्य उक्तवान्— ‘भोः . किमर्थं असत्यं वदति ? धनगुप्तः मल्लविद्यां तिरस्करोति। सः मम अपमानं कृतवान्। भवतः कारणात् इदं प्रथमतया अहम् अपमानम् अनुभूतवान्”।**

** ‘‘महाशय! धनगुप्तः भवन्तं यदा तिरस्कृतवान् भर्त्सितवान् च तदा भवान् किं तूष्णीं स्थितवान्? अये! मूढ! भवतः मल्लविद्या तस्मिन् किञ्चित् प्रदर्शनीया आसीत्। इदानीम् अपि कालः न अतिक्रान्तः” इति रमणः सपरिहासम् उक्तवान्।**

** सत्यं। मल्लविद्याम् इदानीम् एव प्रदर्शयामि इति उक्त्वा मल्लः पञ्चषैः प्रहारैः कुट्टितवान्। प्रहारवेदनया रुदन् रमणः उक्तवान्– “दुष्टः धनगुप्तः भवन्तम् अपमानितवान्। किन्तु भवान् मां प्रहृतवान्। किम् एतत् न्याय्यम्”?**

** भवतः धनगुप्तस्य च मध्ये विद्वेषः स्यात्। अतः एव धनगुप्तं कुट्टयितुं भवान् मां प्रोत्साहयति। मम अपमानस्य भवान् एव कारणम्। अतः भवन्तम् एव कुट्टितवान्" इति उक्त्वा मल्लः निर्गतवान्।**

** प्रवृत्तं सर्वं वृत्तान्तं रमणस्य पिता ज्ञातवान्। सः रमणम् आहूय— “वत्स! धनगुप्तः दुष्टः। धनगुप्तेन सह व्यवहारः मास्तु। परोपकारार्थं प्रवृत्ताः मानापयानयोः तुल्याः भवन्ति। अतः कर्तव्यबुद्ध्या कार्ये प्रवृत्तः भवतु” इति उपदिष्टवान्।**

** एवं पित्रा उपदिष्टः रमणः ततः परं मनसा अपि धनगुप्तं न स्मृतवान् ॥**

पाप-परिहारः

नटवरः बाल्यतः आरभ्य स्वभावेन अतीव दुष्टः। स्वकीये अष्टमे वयसि एव तस्य दुष्टता प्रसिद्धा आसीत्। तस्य दुष्टचेष्टा समवयस्कानां विषये केवलं सीमिता न आसीत्। मूकजन्तून् अपि सः निर्दयं पीडयति स्म।

कदाचित् एकं दुर्बलं बालशुनकं नटवरः दृष्टवान्। सः शुनकः बुभुक्षया म्लानः आसीत्। अस्थीनि बहिः दृश्यन्ते स्म। इदानीं सः आहारार्थम् अन्यशुनकैः सह युद्धं कर्तुम् अपि न शक्नोति स्म। अतः नटवरस्य पिता तस्य शुनकस्य कृते प्रतिदिनं किञ्चित् आहारं ददाति स्म। तस्मिन् समये नटवरः आगत्य स्वचेष्टाभिः तं पीडयति स्म। बुभुक्षया व्याकुलः शुनकः यदा खादितुम् आरम्भं करोति, तदा नटवरः भोजनपात्रम् स्वीकृत्य उच्चस्थाने, स्थापयति। तदा शुनकः ‘कुय्ँ कुय्ँ’ इति वेदनापूर्णं शब्दं करोति। किञ्चित्कालानन्तरं नटवरः पुनः भोजनपात्रं तस्य पुरतः स्थापयति। तदा शुनकः कृतज्ञतां सूचयति।

कदाचित् नटवरः शुनकं वृक्षस्य शाखायाम् उपवेशयति। यदा शुनकः भीत्या आक्रोशनं करोति,नटवरः हस्ततालेन स्वकीयम् आनन्दं प्रकटयति। नटवरस्य एतादृशीं दुष्टचेष्टां दृष्ट्वा पिता पुनः तर्जयति, ताडयति च। तथापि नटवरस्य चेष्टाः न्यूना न भवन्ति।

क्रमशः नटवरः युवकः जातः। दुष्टचेष्टासु आसक्तः सः अधिकं विद्याभ्यासं न कृतवान्।

वृष्टेः अभावतः कदाचित् नटवरस्य ग्रामे क्षामः आपतितः। दारिद्र्येण चिन्तया च नटवरस्य पिता शय्याम् आश्रितवान्। अल्पे एव काले दिवङ्गतः च। अनाथः नटवरः जीविकासम्पादनार्थं नगरम् आगतवान्।

सौभाग्येन सः शीघ्रम् एव एकस्मिन्

धनिकस्य गृहे उद्योगं प्राप्तवान्। भोजनम् अतिरिच्य ५० रूप्यकाणां मासिकवेतनं निश्चितम्।

** धनिकः सज्जनः धार्मिकः च। सः सेवकानां विषये अतीव प्रीतिं प्रकटयति स्म।**

** धनिकस्य पुत्रः शेखरः। सः दशवर्षीयः बालकः। शेखरः सर्वदा नटवरस्य समीपम् आगत्य ‘कथां वदतु’ इति पीडयति स्म।**

** यदा नटवरः कथां वक्तुम् उद्युक्तः भवति तदा कार्यं स्थगितं भवति स्म। एतत्कारणतः धनिकः नटवरं तदा तदा तर्जयति स्म।**

** धनिकः चिन्तयति— “नटवरः उद्देशपूर्वकं कार्य न करोति” इति। अतः एकदा धनिकः नटवरं तर्जयन्— “इदमिदानीं कार्यं कर्तुं भवतः उत्साहः नास्ति इति भाति। एवम् एव भवान् करोति चेत् अहं भवन्तं गृहतः निष्कासयामि।”**

** नटवरः भीत्या, वास्तविकं कारणम् उक्तवान्। तदा धनिकः शेखरम् आहूय सम्यक् तर्जितवान्। ‘इतः परम् एवं न करणीयम्’ इति उपदेशं कृतवान्।**

** तद्दिनात् आरभ्य शेखरः नटवरं पूर्वापेक्षया अधिकं पीडयितुम् आरब्धवान्। यदा नटवरः कार्यं समाप्य विश्रान्तिम् अनुभवति तदा आगत्य शेखरः तं पीडयति स्म।**

** ग्रीष्मः कालः। शैत्यम् अत्यधिकम् आसीत्। एकस्मिन् दिने प्रातःकाले शेखरः नवीनानि ऊर्णवस्त्राणि स्वीकृत्य नटवरसमीपम् आगत्य उक्तवान्— “एतानि वस्त्राणि भवतः कृते मम पित्रा आनीतानि। एतानि निश्चयेन शैत्यं निवारयन्ति। अतः भवान् प्राचीनवस्त्राणि निष्कासयतु। अहं नवीनवस्त्राणि ददामि" इति।**

** ऊर्णवस्त्राणाम् आशया नटवरः प्राचीनवस्त्राणि सर्वाणि निष्कास्य, एकं स्नानवस्त्रं धृत्वा स्थितवान्। सः मनसि एव चिन्तितवान्— “शेखरः कीदृशः दयालुः !” इति।**

** धनिकस्य गृहे एकः क्रूरः शुनकः आसीत्। शेखरः तं शुनकम् आनीय नटवरं प्रदर्श्य ग्रहीतुम् आदिष्टवान्। नटवरम् उक्तवान् च— “भोः, जीवितुम् आशा अस्ति चेत् इतः**

धावतु। अन्यथा शुनकः भवन्तं मारयिष्यति" इति।

** नटवरः भीतः। शरीरे स्वेदः उत्पन्नः। सः ततः वेगेन धावितवान्। शुनकः तम् अनुसृतवान्। गृहस्य पृष्ठतः पुरतः सर्वत्र नटवरः धावितवान्। तथापि शुनकः तं न त्यजति। शेखरः तु पुनः पुनः शुनकम् उत्तेजयति। हस्ततालपूर्वकम् उच्चैः हसति च।**

** अन्ते शेखरः शुनकं समीपम् आगन्तुम् आदिष्टवान्। शुनकं हस्ते गृहीत्वा नटवरम् उक्तवान्“ इदानीं शरीरे यथेष्टं स्वेदः उत्पन्नः स्यात्। एतत् शीतलं वस्त्रंधारयतु कृपया”।**

** तानि वस्त्राणि इदानीं वस्तुतः आर्द्राणि आसन्। जलबिन्दवः पतन्ति स्म। वस्त्रं हिमः इव शीतलम् आसीत्। नटवरः तानि वस्त्राणि एव त्यक्तवान्। स्वकीयानि पुरातनवस्त्राणि धृतवान्।**

** शेखरविषये नटवरः अतीव कुपितः। अतः सः शेखरस्य पीडां निवेदयितुम् इच्छन् धनिकस्य समीपं गतवान्।**

** तस्मिन् समये अन्यः सेवकः शेखरम् आक्षिपन् आसीत्। तत् श्रुत्वा धनिकः उक्तवान्—“शेखरः कार्यसमये भवन्तं पीडयति चेत् अहम् अवश्यं तं दण्डयामि। किन्तु अवशिष्टसमये कदाचित् सः भवन्तं किञ्चित् इव पीडयति चेत् भवता आक्षेपः न करणीयःएव। शेखरः तु बालः। बाल्ये दुष्टचेष्टाः सहजाः। अतः शेखरम् आक्षिपन् पुनः पुनः मम समीपं न आगच्छतु। एतत् सर्वं श्रोतुं मम समयः नास्ति" इति**

** नटवरः एतत् श्रुतवान्। “अहं निवेदयामि चेत् अपि धनिकस्य उत्तरम् एतत्एव" इति चिन्तयित्वा सः प्रतिनिवृत्तः।**

** धनिकस्य गृहे बहवः सेवकाः आसन्। किन्तु शेखरः तु नटवरम् एव अधिकं पीडयति स्म। ते सर्वे एतद्विषये स्वकीयम् अनुकम्पं प्रदर्शयन्ति स्म।**

** एकस्मिन् दिने एकः सेवकः शुनकम् एकम् आनीय शेखरस्य कृते दत्तवान्। अनन्तरं सः नटवरम् उक्तवान् — “इतः परं**

शेखरः भवन्तं न पीडयति। यतः अहं तस्य कृते बालशुनकम् एकं दत्तवान् अस्मि” इति।

** मित्रस्य अनुकम्पं दृष्ट्वा नटवरः आश्चर्यं प्रकटितवान्। मित्रम् उद्दिश्य कृतज्ञतापूर्वम् धन्यवादवचनानि च उक्तवान्।**

** किन्तु बालशुनकस्य स्मरणमात्रेण बाल्ये कृतानां दुष्टचेष्टानां चित्राणि मनःपटले प्रति फलितानि। ‘एकस्य दृष्टचेष्टया अन्ये कियत्कष्टम् अनुभवन्ति’ इति सः ज्ञातवान्। सः चिन्तितवान्— “बाल्ये कृतानाम् अपराधानां फलम् इदानीम् अनुभवन् अस्मि। कृतस्य फलम् अनुभोक्तव्यम्। एतत् अनिवार्यम्।”**

** इदानीं पुनः तस्य मनसि शेखरस्य बालशुनकस्य चित्रम् आगतम्। ‘शेखरः माम् एव एतावत् पीडयति। तर्हि असहायं तं बालशुनकं कियत् वा पीडयेत् ?” अतः नटवरः निश्चितवान्— ‘अहम् एव तं बालशुनकं पालयिष्यामि। बाल्ये कृतस्य पापस्य प्रायश्चित्तं करोमि।’**

** सः तत्क्षणे एव शेखरसमीपं गतवान्। तस्मिन् समये शेखरः बालशुनकस्य उपरि आक्रमणं कर्तुं क्रूरशुनकं प्रेरयन् आसीत्। बालशुनकः तु भीत्या आक्रोशनं करोति स्म।**

** एतत् दृष्ट्वा नटवरस्य मनसि करुणा उत्पन्ना। सः शेखरं तर्जयन् उक्तवान्— “अये ! अन्यपीडनम् एव भवतः इच्छा चेत् भवान् मां यथेष्टं पीडयतु। किमर्थम् एतम् असहायम् अल्पवयस्कं शुनकं विना कारणं पीडयति ? प्रथमं शुनकं त्यजतु।’**

** “अहं न त्यजामि। मां निवारयितुं भवान् कः ? इतः अपसरतु। अहं यथा इच्छामि तथा आचरामि।" इति वदन् शेखरः बालशुनकं दृढं गृहीतवान्।**

** नटवरः शेखरहस्ततः शुनकं मोचयितुं प्रयत्नं कृतवान्। शेखरः तु न त्यक्तवान्। अन्ते कुपितः नटवरः शेखरस्य शिरसि ताडितवान्। शुनकं स्वीकृत्य ततः गतवान् च।**

** एतत् सर्वं धनिकः श्रुतवान्। “सेवकस्य एतावत् धैर्यम् ! सामान्यः सेवकः मम पुत्रं ताडयति वा ?" इति वदन् सः नटवरम् आहूत**

वान्। किमर्थम् एवं कृतम् इति कोपेन पृष्टवान् च।

नटवरः शान्तरीत्या धैर्येण स्थितवान् आसीत्। सः निर्भयम् उत्तरं दत्तवान् “स्वामिन् ! शेखरः मां सर्वदा बहु पीडयति। तथापि अहम् एतावत्पर्यन्तं कदापि आक्षेपं न प्रकटितवान्। किन्तु असहायस्य शुनकस्य पीडनम् अहं दृष्टुं न शक्तवान्। अतः कोपेन अहं शेखरं ताडितवान्।”

एवं वदतः नटवरस्य नेत्रयोः अश्रूणि आगतानि। सः स्वकीये बाल्ये कृतानां दुष्टचेष्टानां विवरणं दत्त्वा उक्तवान्— " अहं मम दुष्टचेष्टानां फलम् इदानीम् अनुभवामि। प्रायश्चित्तरूपेण एतं बालशुनकं रक्षयित्वा प्रीत्या पालयितुम् इच्छामि" इति।

नटवरस्य वचनैः धनिकः बहु प्रभावितः। सः नटवरस्य कृते शतं रूप्यकाणि दत्तवान्।

धनिकस्य एतं विचित्रव्यवहारं दृष्ट्वा तस्य पत्नी पृष्टवती— “भवान् शेखरम् उद्दिश्य हितवचनानि उक्तवान्। तथैव पुत्रं ताडितवते नटवराय पुरस्कारं दत्तवान्। एतत् उचितम् वा ?” इति।

धनिकः शान्तस्वरेण उक्तवान्— “मम व्यवहारः उचितः एव। बाल्ये नटवरः शेखरः इव दुष्टः आसीत्। इदानीं सः पूर्वकृतस्य अपराधस्य फलम् अनुभवन् अस्ति। यदि शेखरः अपि स्वदुष्टचेष्टां न त्यजति तर्हि तेन अपि कालान्तरे कष्टम् अनुभोक्तव्यं भविष्यति। नटवरः सम्भाव्यमानात् अपराधतः शेखरं रक्षितवान्। एतदर्थम् अहं नटवराय पुरस्कारं दत्तवान् । नटवरस्य आशीर्वादेन शेखरः उत्तमः भविष्यति इति मम विश्वासः।”

अनन्तरकाले नटवरस्य जीवने महत्परिवर्वनं दृष्टम् । सः पुरस्काररूपेण प्राप्तेन धनेन अल्पं वाणिज्यम् आरब्धवान्। शीघ्रम् एव प्रगतिं प्राप्तवान्। नटवरस्य गुणैः प्रभावितः प्रसिद्धवणिक् कश्चित् स्वपुत्रीं नटवराय दत्तवान्। विवाहः महता वैभवेन सम्पन्नः।

पाषाण-प्रतिमा

इन्द्रपुरे वज्रगुप्तः नाम कश्चित् कोट्यधीशः वणिक् आसीत्। वाणिज्येन सः यथेष्ठं धनं सम्पादितवान् आसीत्। तस्य पुत्रीद्वयम्। ज्येष्ठपुत्र्याः नाम वासन्ती, कनिष्ठपुत्र्याः नाम पद्मावती। उभयोः अपि पुत्र्योः वयः सामान्यतः समानम्। किन्तु तयोः स्वभावे तु महान् भेदः दृश्यते स्म। वासन्त्याः कठोरः स्वभावः। सा अन्येषां सुखं कीर्तिं वा सोढुं न शक्नोति स्म। सेवकानां पीडने सा सन्तोषम् अनुभवति स्म। सा स्वगृहे ये सेवकाः कार्यं कुर्वन्ति तान् सर्वदा बहुधा पीडयति स्म। अतः ते अपि पद्मावतीम् एव इच्छन्ति स्म। पद्मावत्याः स्वभावः तु कोमलः। अन्ये सुखिनः चेत् एतस्याः महान् सन्तोषः। सेवकानां विषये अपि एतस्याः विशेषसहानुभूतिः।

उभयोः स्वभावः यद्यपि भिन्नं तथापि रूपं समानम्। तयोः रूपे एतावत् साम्यम् आसीत् यत् अपरिचिताः परस्परभेदज्ञाने भ्रान्ताः भवन्ति स्म।

वासन्ती स्वार्थपरा कठोरमनस्का च। ‘धनिनः कुले जातानां कठोरता असहना इत्यादयः शोभन्ते’ इति तस्याः विचारः आसीत्। अतः एव सा आत्मानम् उत्तमां मन्यते स्म। किन्तु तदा तदा व्यवहारे तया अपवादवचनानि श्रूयन्ते स्म। पद्मावती सर्वत्र मृदुतया शिष्टतापूर्वकं च व्यवहरति स्म। ‘तया सह तोलयन्तः जनाः मां अशिष्टां भावयन्ति’ इति वासन्त्याः विचारः। अतः प्रतिदिनं पद्मावतीवासन्त्योः मध्ये कलहः भवति स्म एव।

एतद्विषये पद्मावती वासन्तीं वदति स्म “भगिनि ! किमर्थं वृथा आवयोः मध्ये कलहम् उत्पादयति ? यदि आवां प्रीत्या व्यवहरावः तर्हि जनाः आवयोः स्तुतिं करिष्यन्ति”

इति।

“अन्येषां स्तुतिप्राप्तिः अनन्तरम्। प्रथमं भवती मम विषये आदरं प्रदर्शयतु। अहं यथा आचरामि तथा आचरतु” इति वदति स्म वासन्ती।

किन्तु पद्मावती वासन्तीम् अनुसर्तुं न शक्नोति। वासन्ती पद्मावतीम् अनुसर्तुं न इच्छति। अतः तयोः मध्ये दिने दिने भेदः वर्धते स्म।

एवं स्थिते कदाचित् चन्द्रकान्तः नाम शिल्पी वज्रगुप्तस्य गृहम् आगतवान्। एतं दृष्ट्वा वज्रगुप्तः चिन्तितवान् यत् गृहस्य पुरतः प्राङ्गणे किञ्चन कलामन्दिरं निर्मातव्यं, मुख्यप्रकोष्ठे सुन्दरः शिल्पः प्रतिष्ठापनीयः च इति।

चन्द्रकान्तः नवयुवकः, तथापि सर्वश्रेष्ठशिल्पिषु अन्यतमः आसीत्। सः कार्ये श्रद्धावान् आसीत्। कलामन्दिरस्य कार्यं सन्तोषेण सः अङ्गीकृतवान्। वासन्ती पद्मावती च चन्द्रकान्तस्य कलानैपुण्यं द्रष्टुम् आगच्छतःस्म। तदा शिल्पशशास्त्रविषये बहुधा प्रश्नान् पृच्छतः स्म। किन्तु उभयोः प्रश्नकरणे भेदः स्फुटं दृश्यते स्म। पद्मावती विनयेन पृच्छति। किन्तु वासन्ती आत्मानं स्वामिनीं मन्यमाना अधिकारदर्पेण पृच्छति। चन्द्रकान्तः तु खेदं विना उभयोः उत्तरं ददाति स्म।

चन्द्रकान्तस्य व्यवहारेण वासन्त्याः आश्चर्यम्। यतः जनाः पद्मावत्या सह स्नेहेन व्यवहरन्ति चेदपि वासन्त्या सह व्यवहारे भीत्या व्यवहरन्ति स्म। किन्तु चन्द्रकान्तः तु प्रीत्या एव व्यवहरति। कथम् एष एकः मया सह निर्भयेन प्रीत्या च व्यवरहति इति सा आश्चर्यचकिता। तं परीक्षितुम् इच्छन्ती वासन्ती पुनः पुनः तस्य समीपं गत्वा बहुविधप्रश्नान् पृच्छति स्म।

एकदा वार्तालापमध्ये चन्द्रकान्तः वासन्तीम् उक्तवान् “अहं भवत्योः सहोदर्योः मध्ये भवतीम् एव इच्छामि” इति।

वासन्त्याः तु तस्य वचने विश्वासः नास्ति।

अतः सा उक्तवती— “भवान् असत्यं वदति ।”

“असत्यम् उक्त्वा मया किं साधनीयम् अस्ति ?” इति कार्यव्यग्रः एव चन्द्रकान्तः पृष्टवान् ।

वासन्ती चन्द्रकान्तं तीक्ष्णदृष्ट्या पश्यन्ती उक्तवती— “भवान् कलाकारः स्याम् नाम । किन्तु इदानीं भवान् अस्माकं सेवकः । वयं भवतः स्वामिनः। यतः भवान् वेतनं स्वीकृत्य अत्र कार्यं करोति । स्वामिन्या मया भवता सह यत् दर्पपूर्वकं व्यवहारः क्रियते तत् उचितम् एव । किन्तु पद्मावती भवता मृदुतया व्यवहरति । अतः तस्याः व्यवहारः भवते रोचेत” इति ।

चन्द्रकान्तः सावधानपूर्वकम् एव उक्तवान्— “तथा नास्ति । भवती रूपवती । अहङ्कारः भवत्याः सौन्दर्यं वर्धयति । अतः अहं भवत्याः सौन्दर्यस्य दासः अस्मि । भवती मां यत्किमपि वदतु । तत् मम इष्टम् एव । यतः अहं भवतीम् बहु इच्छामि । इष्टजनानां सर्वे अपि व्यवहाराः सन्तोषाय एव भवन्ति किल ?” इति ।

एतत् श्रुतवत्याः वासन्त्याः कोपः आगतः । सा असमाधानेन उक्तवती— “धनिककुले जाता अहं धनिकम् एव परिणेतुम् इच्छामि’ इति एतत् सामान्यविषयम् अपि न जानाति वा भवान् ? भवादृशं धनहीनं का वा परिणयेत्?" इति ।

“अहं तत् जानामि एव । किन्तु ‘प्रेम अन्धं भवति’ इति वचनं भवत्या श्रुतं स्यात् किल ?" इति पृष्टवान् चन्द्रकान्तः ।

वासन्त्याः मनसि सन्तोषः एव । इदम्-प्रथमतया कश्चित् पद्मावतीम् उपेक्ष्य एतस्यां प्रीतिं प्रदर्शितवान् आसीत् । अतः तस्याः अहङ्कारः प्रवृद्धः । तथाऽपि यदा यदा सा चन्द्रकान्तं द्रष्टुं गच्छति तदा तं सामान्यं मानयन्ती अगौरवेण व्यवहरति स्म ।

वासन्त्याः एतादृशव्यवहारेण व्यथितः चन्द्रकान्तः एकदा तां पृष्टवान्— “भवती किमर्थं माम् अगौरवेण पश्यति ?" इति ।

“दरिद्राः धनिकान् प्रीत्या गौरवेण पश्यन्ति इत्येतत् स्वाभाविकम्। तथैव धनिकाः दरिद्राणाम् उपेक्षां कुर्वन्ति इत्येतत् अपि स्वाभाविकम्। “भवान् मयि प्रीतिमान् भवतु नाम। किन्तु आवयोः विवाहः स्वप्ने अपि न शक्यम् इति मा विस्मरतु” इति।

कानिचन दिनानि अतीतानि। कदाचित् पद्मावती पितामहगृहं रामपुरं गतवती। रामपुरं एक सुन्दरः ग्रामः। परन्तु दुरदृष्टवशात् तत्र वर्षद्वयतः वृष्टिः न आसीत्। जनाः पिपासया श्रान्ताः आसन्।

एतत् ज्ञात्वा पद्मावती मातुलम् पृष्टवती" कूपखननपूर्वकं जलाभावः दूरीकर्तुं न शक्यते वा? इति।"

“सर्व कृतम्। किन्तु कुत्रापि जलं न प्राप्तम्" इति ते निराशया उक्तवन्तः।

अत्रान्तरे एकदा पद्मावत्या भूमौ स्थितानि रत्नानि जलस्रोतः च स्वप्ने दृष्टानि। सा समग्रे ग्रामे अटित्वा आत्मना स्वप्ने दृष्टानि स्थलानि प्रदर्शितवती। ग्रामस्थाः कुतूहलेन तया प्रदर्शितेषु स्यलेषु खननं कृतवन्तः। अहो आश्चर्यम् ! तया सूचितेषु स्थलेषु अमूल्यनिधयः जलस्रोतः च आसन् ! एतेन ग्रामस्य जलसमस्या परिहृता, यथेष्टं धनम् अपि प्राप्तम्।

इदानीं जनानां सन्तोषस्य पारः एव नास्ति। अतः ते सभायां सर्वसम्मतं निश्चितवन्तः यत् पद्मावती साधारणस्त्री न। अपि तु स्वर्गात् आगता काचित् देवता एषा। अतः तस्याः सुन्दरशिल्पः ग्रामे स्थापनीयः, तेन च कदाचित् अपि अनावृष्टिः न भवेत् इति।

ग्रामीणाः सर्वे सम्भूय पद्मावत्याः पितरं वज्रगुप्तं दृष्टवन्तः, स्वकीयं निर्णयं निवेदितवन्तः च। प्रसन्नः वज्रगुप्तः उक्तवान्— “जीवितकाले एव येषां मूर्तिः स्थाप्येत तादृशाः विरलाः एव। मम पुत्री तादृशभाग्यशालिनी इति ज्ञात्वा कस्य वा पितुः आनन्दः न भवति" इति। अनन्तरं पद्मावत्याः मूर्तिनिर्माणकार्यं चन्द्रकान्ताय समर्पितं च।

** एतत् सर्वं श्रुतवत्याः वासन्त्याः पद्मावतीविषयिणी ईर्ष्या अधिका जाता। सा कांश्चित् दुष्टान् आहूय गुप्ततया सूचनाः दत्तवती। एकत्र पद्मावत्याः विग्रहः प्रतिष्ठापितः। अपरत्र ग्रामे चौर्यं लुण्ठनं च प्रवृद्धम्।**

** तेषु दुष्टेषु एकः संन्यासिवेषं धृत्वा ग्रामे अटन्— “सर्वस्य अनर्थस्य कारणं विग्रहप्रतिष्ठापनम् एव। एतेन ग्रामः सम्पूर्णं विनश्यति" इति वार्तां प्रसारितवान्। एतेन ग्रामे प्रक्षुब्धवातावरणं निर्मितम्।**

** वज्रगुप्तः रामपुरस्य वार्तां समग्रां श्रुतवान्। सः चन्द्रकान्तस्य गुरोः समीपं गत्वा उक्तवान्—“आचार्य ! भवान् शिष्येषु उत्तमं चन्द्रकान्तं मम समीपं प्रेषितवान्। अहं तस्य प्रतिभायां विश्वासं स्थापयन् कलामन्दिरं निर्मितवान्। चन्द्रकान्तेन एव रामपुरे पद्मावत्याः मूर्तिः निर्मिता। इदानीं सा मूर्तिः अनिष्टकारिणी इति श्रूयते। पद्मावती तु सद्गुणसम्पन्ना। यदि तस्याः मूर्तिकारणतः अनिष्टं सञ्जायते तर्हि तत्र शिल्पिनः एव दोषः" इति।**

** तदा गुरुः वज्रगुप्तम् उक्तवान्— “चन्द्रकान्तः मम उत्तमशिष्यः, प्रतिभावान् अपि। तेन निर्मितायां मूर्त्यां दोषः भवितुं न अर्हति" इति।**

** अनन्तरं सः गुरुः वज्रगुप्तेन, पद्मावत्या च सह रामपुरम् आगत्य शिल्पं सूक्ष्मं परिशीलितवान्, उक्तवान् च- “वज्रगुप्त ! भवता उक्तं सत्यम् एव। पद्मावत्याम् अस्यां मूर्तौ च भेदः दृश्यते” इति।**

** तत्क्षणे एव सः गुरुः चन्द्रकान्तम् आहूय तीक्ष्णदृष्ट्या पश्यन् उक्तवान्—“मया चिन्तितम् आसीत् भवान् मम कीर्तिं वर्धयति इति। किन्तु मूर्तिदर्शनेन ज्ञायते यत् भवान् मम नाम कलुषीकृतवान्। एषा मूर्तिः दोषपूर्णा अस्ति” इति।**

** चन्द्रकान्तः गुरुं प्रणम्य विनयेन उक्तवान्— “गुरुदेव ! मम शिल्पविद्यायां कोऽपि दोषः नास्ति। अपि तु मम एव। मया पद्मावत्याः मूर्तिः न, अपि तु वासन्त्याः मूर्तिः अत्र**

निर्मिता” इति।

‘किमर्थम् एवं कृतवान् ?" इति कोपेन पृष्टवान् आचार्यः।

स्वभगिन्याः पद्मावत्याः मूर्तेः निर्माणस्य वार्तां श्रुत्वा वासन्ती दुःखिता अभवत्। तस्याः दुःखं ज्ञात्वा मम अपि खेदः सञ्जातः। यतः वासन्त्यां मम प्रेम अस्ति। वासन्ती-पद्मावत्योः रूपे कोऽपि विशेषभेदः नास्ति। अतः अहं वासन्त्याः मूर्तिं निर्मितवान्। एतत् रहस्यं कोऽपि न जानाति इति मया चिन्तितम् आसीत्। एषा वार्ता वासन्त्यै अपि न निवेदितवान्। अहं न जानामि स्म यत् येषां स्वभावे दोषः अस्ति तेषां मूर्तिनिर्माणेन ग्रामस्य एव अनिष्टं सिध्यति इति। कृपया मां क्षाम्यतु भवान्" इति वदन् चन्द्रकान्तः आचार्यस्य पादयोः पतितवान्।

प्रवृत्तं सर्वं श्रुत्वा वासन्ती आत्मग्लानिम् अनुभूतवनी। सा पद्मावतीसमीपं गत्वा उक्तवती—“भगिनि ! इदानीं मम मनः भयेन कम्पते। यदि इदानीम् अहं सन्मार्गं न अनुसरामि तर्हि ग्रामस्य किं, देशस्य एव अनिष्टं भवेत्। अद्य आरभ्य अहं भवतीम् अनुसरामि। भवती यथा वदति तथा आचरामि।”

वासन्त्यां जातं परिवर्तनं दृष्ट्वा वज्रगुप्तः सन्तुष्टः। पद्मावतीं कठोरहृदयां ज्ञात्वा अपि तस्याम् अखण्डं प्रेम प्रदर्शितवान् इति कृत्वा सः चन्द्रकान्तविषये अपि सन्तुष्टः अभवत्। अनन्तरं वासन्तीचन्द्रकान्तयोः विवाहं कारितवान्।

विवाहानन्तरं वासन्ती पद्मावत्याः मूर्तिं स्वयं निर्मापितवती। रामपुरे प्रतिष्ठापितती च।

‘वासन्त्यां यत् परिवर्तनं दृष्टं तत्र चन्द्रकान्तः एव कारणम्’ इति जानन्तः ग्रामीणाः परस्परं वदन्ति स्म- “चन्द्रकान्तः न केवलं मनुष्याणां प्रतिमां निर्माति, अपितु प्रतिमासु अपि जीवं पूरयित्वा ताः मनुष्यान् करोति" इति।

पितृद्रोहः

** पूर्वतनः कश्चन कालः । तदा बोधिसत्वः काशीराज्ये एकस्मिन् ग्रामे कृषिकपुत्ररूपेण जन्म प्राप्तवान् । तस्य नाम आसीत् कमलाकरः । तस्य पिता गणेशः । माता पार्वती ।**

** बाल्यतः आरभ्य कमलाकरस्य बुद्धिः तीक्ष्णा । बाल्ये एव सः बहून् गम्भीरविचारान् प्रतिपादयति स्म । मातापित्रोः अपेक्षया पितामहस्य विषये कमलाकरस्य प्रीतिः अधिका आसीत् ।**

** पितामहः वयसा वृद्धः । गृहे किमपि कार्यं कर्तुं न शक्नोति स्म । गृहसदस्यैः सर्वैःतस्य सेवा करणीया आसीत् । अतः कमलाकरस्य माता सर्वदा स्वकीयम् असमधानं प्रकटयति स्म ।**

** एकदा पार्वती पतिम् उक्तवती—“भवतः पितुः सेवया एव मम प्राणाः प्रायः निर्गच्छन्ति । समग्रदिनम् एतदर्थम् एव यापितं भवति । गृहे अस्माकं अन्यानि कार्याणि न सन्ति वा ? कियत्पर्यन्तम् एवं सेवा करणीया ?”**

** कृषिकः गणेशः कोपमिश्रितस्वरेण उक्तवान् —“यावत् सः जीवति तावत् तस्य सेवा अस्माकं धर्मः । सेवा कष्टम् इति कृत्वा तं वयं किं मारयेम ?’**

** “यदि मारयामः तत्र कः दोषः जीवनेन किमपि प्रयोजनं तु नास्ति । प्रतिदिनंः सः अपि कष्टम् अनुभवति । एतदपेक्षया एकवारम् एव प्राणत्यागः उचितः ।" गणेशस्य वचनस्य अपेक्षया पार्वत्याः वचनम् उच्चस्वरेण आसीत् ।**

** प्रथमं गणेशाय पार्वत्याः वचनानि न रोचन्ते स्म । पितुः विषये अगौरवं पापकरम् इति सः चिन्तयति स्म । किन्तु क्रमशः पत्न्याः वचनेन प्रभावितः सः तस्याः अभिप्रायम् अङगीकर्तुम् आरब्धवान् । इदानीं तस्य मनसि विचारः**

स्फुरति स्म यत् ‘पितुः मारणे कोऽपि दोषः नास्ति। एतेन पिता वार्धक्यजनित-शारीरकपीडातः मुक्तः भविष्यति’ इति। अतः पितुः मारणार्थं सः एकां योजनाम् उपकल्पितवान्।

एकस्मिन् दिने गणेशः पितरम् उक्तवान् “अहं क्षेत्रे एकं कूपं खातुम् इच्छामि। एतदर्थं पार्श्वग्रामस्य भूस्वामितः ऋणं स्वीकरोमि। व्यवहारपत्रे भवतः हस्ताक्षरम् अपेक्षितम् इति भूस्वामी वदति। अतः भवान् मया सह पार्श्वग्रामम् आगच्छतु" इति।

पिता गणेशेन सह प्रस्थितः। कमलाकरः अपि स्वपितामहम् अनुसृतवान्।

मार्गे एकम् अरण्यम् आसीत्। गणेशः अरण्यमध्ये शकटं स्थगितवान्। सः एकं कुद्दालं स्वीकृत्य अवतरन् पितरम् उक्तवान्— “तात ! भवान् कमलाकरेण सह अत्र एव तिष्ठतु \। अहम् इदानीम् आगच्छामि" इति। एवम् उक्त्वा सः अरण्यं प्रविष्टवान् च।

गणेशस्य गमनानन्तरं कमलाकरः अपि एकं कुद्दालं स्वीकृत्य पितामहम् उक्तवान्— “तात ! भवान् अत्र एव तिष्ठतु \। अहम् इदानीम् आगच्छामि" इति। गणेशः यस्यां दिशि गतवान् ताम् एव दिशम् उद्दिश्य कमलाकरः अपि गतवान्।

किञ्चिद्दूरं गत्वा गणेशः एकम् गर्तं खनन् आसीत्। तत्समीपे एव कमलाकरः अपि गर्तं खातुम् प्रवृत्तः।

समीपे एव खननशब्दं श्रुत्वा गणेशः स्वकार्यं स्थगितवान्। सः शब्दम् अनुसृत्य गतवान्। तत्र स्वपुत्रं दृष्ट्वा आश्चर्यचकितः सः पृष्टवान्— “अरे, कमलाकर ! भवान् अत्र किमर्थं गर्तं खनति ?” इति।

तदा कमलाकरः उक्तवान् “येन कारणेन भवान् गर्तं खनति, तेन एव कारणेन अहम् अपि गर्तं खनामि” इति।

पुत्रस्य वचनं श्रुत्वा गणेशस्य वज्राघातः जातः इव। तथापि धैर्यं धरन् सः पृष्टवान्— “अहं किमर्थं गर्तं खनन् अस्मि इति भवान् जानाति वा ?" “कारणं किम् इति अहं न जानामि। किन्तु एवं खनने कारणं तु भवति एव किल?

“अहं भवतः अनुकरणं करोमि चेत् कः दोषः?" इति मुग्धस्वरेण पृष्टवान् कमलाकरः।

रहस्यं निग्रहीतुम् असमर्थः गणेशः पुत्रम् उक्तवान् —“वृद्धः मम पिता कदा मरणं गच्छति इति अहं न जानामि। तस्य मरणानन्तरं अन्तिमसंस्कारस्य दायित्वं मम एव अस्ति।”

“पितामहः इदानीम् अपि जीवति किल?"

कः कदा मरणं प्राप्नोति इति केन वा वक्तुं शक्यते? तत्रापि सः अतीव वृद्धः।"

“कस्यापि जीवनं शाश्वतं न किल? भवतः मरणानन्तरम् अन्तिमसंस्कारस्य दायित्वं मम एव किल? यतः अहं भवतः पुत्रः अस्मि।"

पुत्रस्य वचनं श्रुत्वा गणेशः दिग्भ्रान्तः। तं कश्चित् आकाशात् पातितवान् इव। पुत्रकारणतः गणेशे ज्ञानोदयः जातः। आत्मना क्रियमाणं कर्म कियत् नीचतमम् इति सः ज्ञातवान्।

अनन्तरं सः पितापुत्राभ्यां सह स्वगृहम् आगतवान्।

गृहे तस्य पत्नी पार्वती अतीव सन्तोषेण आसीत्। सा विशेषभोजनं सज्जीकृत्य पत्युः प्रतीक्षायाम् आसीत्।

किन्तु शकटतः अवतरन्तं श्वशुरं दृष्ट्वा तस्याः प्रसन्नता निराशारूपेण परिवर्तिता।

गणेशः पत्न्यै अरण्ये प्रवृत्तं सर्वं वृत्तान्तं निवेदितवान्। तदा पार्वती आश्चर्यं प्रकटयन्ती उक्तवती“किम् एतत् ! कीदृशं युगम् आगतम्? कियत्या प्रीत्या वयं पुत्रस्य पालनपोषणादिकं कृतवन्तः ! किन्तु सः एव पुत्रः जीवतः पितुः अन्तिमसंस्कारार्थं गर्तं खनति ! एतादृशपुत्रस्य मुखदर्शनम् अपि पापकरम्” इति।

पत्नीं विशेषदृष्ट्या पश्यन् गणेशः उक्तवान् —“किन्तु अहम् अपि तदेव कार्यं कर्तुं गतवान् किल? मम पिता बाल्ये मां प्रीत्या न पालितवान् वा? न पोषितवान् वा?"

तद्दिनात् आरभ्य पार्वती श्वशुरस्य विषये कदापि अनादरं न प्रकटितवती।

पिशाचः देवता च

** पूर्वकाले वरदेश्वरग्रामस्य प्रवेशस्थाने ग्रामदेवतायाः एकः आलयः आसीत्। तस्य देवालयस्य उपायनरूपेण प्राप्ता महती सम्पत्तिः आसीत्। देवतायाः बहुमूल्यानि आभरणानि अपि बहूनि आसन्। प्रतिदिनं बहवः भक्ताः देवालयं आगच्छन्ति स्म। अतः देवालयः सर्वदा जनसमूहेन कोलाहलभरितः भवति स्म।**

** एकस्मिन् दिने सन्ध्यासमयः आसीत्। तदा ग्रामदेवता आलयतः बहिः आगत्य तत्र एकस्मिन् कोणे स्थितस्य निम्बवृक्षस्य उपरि उपविष्टवती। निम्बवृक्षतः किञ्चिद्दूरे एकं शिथिलं दुर्गम् आसीत्। दुर्गस्य पार्श्वे स्थिते तिन्त्रिणीवृक्षे एकः पिशाचः वसति स्म।**

** सः पिशाचः ग्रामस्थजनानां कदापि किमपि अहितं न करोति स्म। अतः ग्रामदेवतायाः मनसि पिशाचस्य विषये आदरभावः एव आसीत्। तेन कारणेन ग्रामदेवता पिशाचेन सह तदा तदा वार्तालापं करोति स्म।**

** अद्य अपि ग्रामदेवता तिन्त्रिणीवृक्षस्थपिशाचेन सह वार्तालापम् आरब्धवती। ‘ग्रामस्थाः भक्ताः अतिवैभवेन मां पूजयन्ति, भक्त्या प्रभूतं उपायनादिकं यच्छन्ति’ इति महता अभिमानेन सन्तोषेण च पिशाचस्य पुरतः वर्णितवती।**

** तत्सर्वं श्रुत्वा पिशाचः स्मयमानः “अम्ब, भवती अतीव मुग्धगुणान्विता। मानवाः महावञ्चकाः इति भवती न जानाति। ते न केवलं परस्परं वञ्चयन्ति अपि तु देवतानां पुरतः अपि भक्तिनटनं कृत्वा ताः अपि वञ्चयन्ति। भवत्याः नामग्रहणद्वारा भवत्याः एव सम्पत्तेः अपहर्तारः अनेके महाजनाः अस्मिन् ग्रामे सन्ति। तान् अहं जानामि" इति उक्तवान्।**

** तानि वचनानि श्रुत्वा ग्रामदेवता क्रुद्धा अभवत्। सा पिशाचं दृष्ट्वा “मानवानां विषये भवतः महान् द्वेषः अस्ति इति प्रतिभाति।**

** अत एव एवं वदति। मम भक्ताः मम आज्ञायाः उल्लङ्घनं कदापि न कुर्वन्ति इति सोदाहरणं निरूपयिष्यामि” इति उक्तवती।**

** तस्मिन् समये एकः ग्रामस्थः अञ्जलिबद्धः भूत्वा देवालयस्य प्रदक्षिणं करोति स्म। सः एकः महामान्त्रिकः भूतवैद्यः च आसीत्।**

** तं दर्शयित्वा पिशाचं प्रति “एषः बहुकालादारभ्य मां भक्त्या पूजयति। वराकः एषः अतिदरिद्रः। अद्य रात्रौ अस्य उपरि अनुग्रहं कर्तुम् इच्छामि" इति उक्तवती।**

** “अस्तु ! तथा एव करोतु। एषः कीदृशः भक्तः इति परीक्षां कर्तुं मम अपि अवकाशं ददातु। अहम् अपि यथाशक्ति एतस्य साहाय्यं करोमि" इति पिशाचः अवदत्।**

** तस्यां रात्रौ ग्रामदेवता भूतवैद्यस्य स्वप्ने प्रत्यक्षा भूत्वा “भोः भक्तवर! अहं भवतः अनुग्रहार्थम् आगता अस्मि। श्वः प्रातः भवान् मम देवालयस्य धर्मकर्तारं पश्यतु" इति उक्त्वा अदृश्या जाता। तस्मिन्नेव समये सा धर्मकर्तुः स्वप्ने अपि दर्शनं दत्त्वा भूतवैद्यं देवालयस्य आयव्ययनिर्वहण-कार्ये नियोजयतु इति आज्ञापितवती।**

** प्रातः भूतवैद्यः देवालयस्य धर्मकर्तुः दर्शनार्थं गतवान्। धर्मकर्ता तु किमपि अजानन् इव नटनं कुर्वन्, स्वप्नविचारं श्रुत्वा आश्चर्यं प्रकटयन् “अरे ! ग्रामदेवता एवं रीत्या उक्तवती वा? हन्त ! सा माता किञ्चित् पूर्वमेव मम समीपे न उक्तवती। आयव्ययनिर्वहणरूपं तम् उद्योगम् इदमिदानीम् एव कस्मैचित् ददामि इति मया प्रतिज्ञातं किल ?" इति उक्तवान्।**

** भूतवैद्यः निराशया दुःखितः स्वकीयं दौर्भाग्यं निन्दन् ततः निर्गतवान्। तस्मिन् एव सायंकाले धर्मकर्ता देवालयं गत्वा, देवतायाः पुरतः साष्टाङ्गनमस्कारं कृत्वा “मातः, रात्रौ स्वप्नकाले भवत्याः समीपे वक्तुं यावत् मया मुखम् उद्घाटितं, तावत् भवती तिरोभूता। अहं तु ह्यः एव कस्मैचित् वचनं दत्तवान् अस्मि। भवत्याः भक्ताः कदापि वचनभ्रष्टाः न भवन्ति किल ? इदानीं मया किं करणीयम् ? भवती एव वदतु !” इति अश्रूणि विमुञ्चन्**

उक्त्वा निर्गतवान्।

** तस्य अश्रूणि निर्मलानि इति भावयन्ती ग्रामदेवता अतीव आर्द्रचित्ता जाता। मया पूर्वमेव वक्तव्यम् आसीत् इति सा चिन्तितवती। धर्मकर्ता तु तस्याः पुरतः कपटनाटकम् अभिनीतवान् इति विषयं सा न ज्ञातवती। देवालयस्य सम्पत्तिम् अपहर्तुम् अवकाशः नष्टः भवति इति कारणात् सः एवं कृतवान्।**

** एतत्सर्वं तिन्त्रिणीवृक्षस्य पिशाचः लक्षयन् एव आसीत्। तस्यां रात्रौ स पिशाचः भूतवैद्यस्य स्वप्ने गत्वा “भोः तात, यद्यपि भवान् न मम भक्तः, तथापि भवतः किञ्चित् साहाय्यं कर्तुम् इच्छामि। अद्य अहं ग्राममुख्यस्य पुत्रीं प्रविशामि। न कोऽपि अन्यः मान्त्रिकः तस्याः शरीरतः मां निष्कासयितुं शक्नोति। यदा भवान् आगच्छति, तदा तत्क्षणम् एव अहं तां त्यक्त्वा निर्गच्छामि। तेन भवतः जनप्रियता तथा धनम् अपि लभ्यते। भवतः सन्तोषेण ममापि सन्तोषः भवति” इति उक्तवान्।**

** भूतवैद्यः सन्तोषेण अङ्गीकृतवान्। परेद्युः ग्राममुख्यस्य पुत्री भूतग्रस्ता जाता इति ग्रामजनाः परस्परं वदन्ति स्म। भूतवैद्यः ‘दिनद्वयानन्तरं तत्र गन्तव्यम्’ इति मनसि निश्चितवान्।**

** पिशाचः भूतवैद्यस्य साहाय्यं करोति इति ग्रामदेवता ज्ञातवती। तदा सा पुनः भूतवैद्यस्य स्वप्नं प्रविष्टवती। तां दृष्ट्वा भूतवैद्यः “अम्ब, धर्मकर्तुः द्वारा दरिद्रस्य मम अवमानं कारितवती। भवत्याः इदं कार्यं युक्तं वा ?" इति पृष्टवान्।**

** ग्रामदेवता वैद्यं प्रति “एकवारं किञ्चित् प्रमादः सञ्जातः। किन्तु अस्मिन् अवकाशे निश्चयेन भवतः कल्याणं करोमि। सः तिलकधारी गोविन्दगुप्तः मम भक्तः। श्वः सः अवश्यं प्रभूतं धनं दास्यति। किन्तु एकं विषयं सम्यक् स्मरतु। यदि भवान् मम यथार्थभक्तः अस्ति, तर्हि भवता अन्यदेवतायाः साहाय्यं न याचनीयम्" इति उक्तवती।**

** अनन्तरं ग्रामदेवता गोविन्दगुप्तस्य स्वप्ने दर्शनं दत्त्वा तेन कर्तव्यं कार्यं सूचितवती। गोविन्दगुप्तः भक्त्या नमस्कृत्य ‘यथा भवती**

आज्ञापयति, तथैव करोमि" इति उक्तवान्।

** परेद्युः भूतवैद्यः यदा आगतवान् तदा तं दृष्ट्वा क्रोधेन “आगतवान् वा? अत्र एकैकस्यापि नाणकस्य कृते मया कीदृशः परिश्रमः अनुभूतः इति ग्रामदेवता कथं जानाति? एतादृशः दानधर्मादिसम्प्रदायः अस्माकं कुले एव कदापि नास्ति। सा देवता सलीलम् आज्ञापितवती, भवान् सुखेन आगतवान्। देवतायाः आशा न उल्लङ्घनीया इति कृत्वा इदम् एकं नाणकं ददामि। सन्तोषेण गृहीत्वा गच्छतु" इति गोविन्दगुप्तः उक्त्वा भूतवैद्यस्य हस्ते एकं नाणकं दत्तवान्।**

** भूतवैद्यः रोषेण तत् नाणकं तत्रैव क्षिप्त्वा ततः निर्गतवान्।**

** अनन्तरं गोविन्दगुप्तः समीचीनतया स्नानादिकं समाप्य, ललाटे तिलकधारणमपि कृत्वा देवालयं गतवान्। तत्र देवतायाः पुरतः साष्टाङ्गनमस्कारं कृत्वा “अम्ब, किं वा वदामि? मम जीवितं तृणादपि हीनतरं जातम्। मम पत्नी महती साध्वी इति विश्वासेन मम सम्पूर्णां सम्पत्तिं तस्याः हस्ते अहं अर्पितवान्। ह्यः रात्रौ भवत्याः आज्ञां श्रुत्वा सा चण्डी इव माम् एव गृहतः निष्कासयामि इति कोलाहलं कृतवती। क्षाम्यतु अम्ब, भवत्याः आज्ञां निर्वोढुम् अपि अहम् असमर्थः अस्मि" इति उक्त्वा गृहं प्रत्यागतवान्।**

** ग्रामदेवता तस्य विषये करुणया “एतस्य तु मम विषये भक्तिः अस्ति एव। गृहे पत्नी**

एव विरोधं करोति चेत् किं वा कर्तुं शक्यते?” इति चिन्तितवती।

** भूतवैद्यः दिनचतुष्टयानन्तरं ग्राममुख्यस्य गृहं गत्वा, तस्य पुत्र्याः शरीरस्थं पिशाचं निष्कासयामि इति उक्तवान्। तावत्पर्यन्तं अनेकैः मान्त्रिकैः यत् आसाध्यम् आसीत् तत् भूतवैद्यः लीलया साधितवान्। तेन सन्तुष्टः ग्राममुख्यः प्रभूतं बहुमानं दत्त्वा भूतवैद्यं प्रेषितवान्। “महासमर्थः भूतवैद्यः” इति कीर्तिः अपि तेन सम्प्राप्ता।**

** पुनः पिशाचः भूतवैद्यस्य स्वप्ने पूर्वसूचनां दत्त्वा अन्यस्य ग्रामस्य भूस्वामिपुत्रीं प्रविष्टवान्।**

** भूतवैद्यस्य स्वविषये यादृशी भक्तिः अस्ति, तदपेक्षया पिशाचस्य विषये अधिकतरा भक्तिः अस्ति इति ज्ञात्वा असन्तुष्टा ग्रामदेवता पुनः रात्रौ भूतवैद्यस्य स्वप्ने दर्शनं दत्तवती।**

** भूतवैद्यः स्वप्ने एव तां नमस्कृत्य ‘अम्ब ! भवत्यै भवत्याः उपकाराय च अपि नमो नमः। यथाकथञ्चित् पिशाचस्य अनुग्रहेण समीचीनतया एव जीवन् अस्मि। कृपया भवत्याः प्रवेशः अत्र मास्तु” इति उक्तवान्।**

** अवहेलनयुक्तं तस्य वचनं श्रुत्वा अपि ग्रामदेवता यथाकथञ्चित् शान्तिम् अवलम्ब्य “पश्यतु भोः, एषः एव अन्तिमः अवकाशः। एषु दिनेषु सः शिवरामदासः रामनाम लिखन् अस्ति किल, तस्य समीपं गच्छतु। सः महान् धनिकः। तस्य सम्पत्तेः कोऽपि उत्तराधिकारी अपि नास्ति। तस्य समीमं गत्वा अहं सूच**

यामि। किन्तु इतः परं पिशाचस्य सम्बन्धं त्यजामि इति वचनं ददातु" इति पृष्टवती।

भूतवैद्यः अनिच्छन् अपि वचनं दत्त्वा, परेद्युः शिवरामदासस्य गृहं गतवान्। तस्मिन् समये शिवरामदासः महता एकाग्रचित्तेन रामनामलिखन् आसीत्। किञ्चित् तिष्ठतु इति मौनेन एव भूतवैद्यं सूचितवान्। किञ्चित् कालानन्तरं किमपि विचित्रं पश्यन् इव भूतवैद्यं दृष्ट्वा “रात्रौ ग्रामदेवता भवतः विषयम् उक्तवती भोः। तस्याः देवतायाः पूजया मम किञ्चिदपि प्रयोजनं न अभवत्। एतद्विषयं तस्याः समीपे वक्तुं शक्यते वा ? यदा रामनामलेखनं मया गृहीतं तदारभ्य सुखशान्तिम् अनुभवन् अस्मि। एतत् लेखनं यदा समापयामि, तदा महत् पुण्यं सम्पादितं भवति। अनन्तरं कस्यचित् मम प्रीतिपात्रस्य हस्ते मम सम्पत्तिं दत्त्वा अहं मोक्षचिन्तनं करिष्यामि। एषा एव मम इच्छा" इति कथितवान्।

इत्थं पुनः अवमानितः भूतवैद्यः दुःखेन गृहं प्रति प्रस्थितः। तस्य मार्गे भूस्वामिभृत्यः तं दृष्ट्वा, भूस्वामिपुत्र्याः विषयं कथितवान्। भूतवैद्यः तेन सह एव भूस्वामिगृहं गतवान्। तत्र भूस्वामी आदरपूर्वकं तस्य सत्कारं कृत्वा पुत्र्याः प्रकोष्ठं प्रेषितवान्।

भूस्वामी प्रकोष्टं प्रविष्य यदा द्वारं पिहितवान् तदा भूस्वामिपुत्र्याः शरीरे स्थितः तिन्त्रिणीवृक्षवासी पिशाचः करताडनं कृत्वा “नहि एनां त्यक्त्वा अहं न गच्छामि। अत्र स्वादुतमं भोजनं मृदुमधुरं शयनम् अस्ति। अहम् अत्रैव तिष्टामि। भवान् तूष्णीं गच्छतु" इत्युक्त्वा अट्टहासं कृतवान्।

पिशाचस्य वचनं श्रुत्वा भूतवैद्यस्य मस्तकस्य उपरि वज्रघातः अभवत्। यदि अहं पिशाचम् न निष्कासयामि तर्हि भूस्वामी मम शिरच्छेदनं कारयेत्। एषः पिशाचः तु न गच्छामि इति आग्रहं करोति एतेन कथं विमोचनम् इति चिन्तयन् सः अतीव भीतः अभवत्। अद्य पूजावस्तूनि आनयामि इति उक्त्वा गृहं प्रत्यागतवान्।

तस्यां रात्रौ निद्राहीनः भूतवैद्यः चिन्तया

एव बहुकालं यापितवान्। तृतीययामे यदा किञ्चित् निद्रामग्नः जाता, तदा ग्रामदेवता स्वप्ने दर्शनं दत्त्वा ‘तस्य पिशाचस्य वचने विश्वासं कृत्वा भवान् एतादृशीम् अवस्थां प्राप्तवान्। अस्तु, इदानीम् एवं करोतु" इति एकम् उपायं सूचयित्वा सा अदृश्या अभवत्।

** परेद्युः सः एकं काचकलशं गृहीत्वा भूस्वामीगृहं गतवान् काचकलशेन सह पुनः स्वसमीपम् आगतं तं दृष्ट्वा पिशाचः “किमिदं” इति पृष्टवान्। भूतवैद्यः अतीव मुग्धः इव मुखभावं प्रकटयन् “ह्यः रात्रौ मम विद्यागुरवः घोराटकाः विन्ध्यारण्यप्रान्ततः प्रत्यागताः। ममभक्त्या प्रीताः ते एतं काचकलशं बहुमानरूपेण मह्यं दत्तवन्तः। अस्य अन्तः यः आन्दोलः अस्ति, तस्मिन् यः उपविशति तेन अपेक्षितं रूपं लभ्यते। किन्तु वयं मानवाः अस्मिन् अल्पे कलशे गन्तुं कथं वा शक्नुमः? एतेन किं वा प्रयोजनं भवेत्, इति भवन्तं प्रष्टुम् अहम् अत्र आगतवान् इति" उक्तवान्।**

** तत्क्षणं पिशाचः भूतवैद्यस्य हस्तं गृहीत्वा “एतेन महत्प्रयोजनम् अस्ति। सुन्दररूपं प्राप्तुं बहुकालादारभ्य अहं सर्वदा ध्यायन् अस्मि। एकवारं अस्य काचकलशस्य अन्तः गत्वा शय्यान्दोले उपवेशनस्य अवकाशं ददातु" इति वदन् पिशाचः धूमरूपेण काचकलशे प्रविष्टवान्।**

** भूतवैद्यः सद्यः एव कलशं पिधानेन दृढ़म् आच्छादितवान्। ‘महती वञ्चना’! इति पिशाचः निन्दितवान्। भूतवैद्यः हसन् “भूस्वामिपुत्रीं न त्यजामि इति भवतापि वञ्चनाकृता। अतः भवतः मारणम् वञ्चनाया एव एतत्सर्वं ग्रामदेवतायाः अनुग्रहेण जातम्" इति उक्त्वा तं काचकलशं गर्ते स्थापयित्वा मृत्तिकया पिहितवान्। तुष्टः भूस्वामी तं बहुधनैः सम्मानितवान्। तदा ग्रामदेवता एकं वास्तववृत्तान्तं ज्ञातवती। सर्वे मानवाः न सज्जनाः किन्तु मानवेषु सज्जनता, दुर्जनता इति द्वयमपि अस्ति इति।**

पिशाचानां ज्यौतिषम्

** अम्बापुरनामके ग्रामे साम्बनामकः कश्चन युवकः आसीत्। सः स्वीयगृहस्य आवरणभागे शाकानि उत्पाद्य, तानि नगरे विक्रीय जीवनं यापयति स्म।**

** एकस्मिन् दिने सः कण्डोलेषु फलानि नीतवान्। यदा समस्तशाकानां विक्रयणं समाप्तं, तदा सूर्यः अस्तं गतः। मस्तकभारः परिहृतः, तथा कोषः भारभूतः अभवत्। तेन बहुसन्तुष्टः सः स्वीयग्रामं प्रति प्रत्यागच्छति स्म।**

** एकयामपर्यन्तं सः मार्गक्रमणं कृतवान्। तदा तत्र एकं तिन्त्रिणीवनं सम्प्राप्तम्। तत् वनं प्रविश्य सः यदा चलन् आसीत्, तदा विद्युद्विलसनं मेघगर्जनादिकम् आरब्धम्। अनन्तरं वृष्टिरपि प्रवृत्ता। साम्बः किञ्चिद्दूरं यावत् धावितवान्। किन्तु वृष्टिः तीव्रतरा अभवत्। तदा सः मार्गस्य पार्श्वे स्थितस्य कस्यचित् तिन्त्रीणीवृक्षस्य अधोभागे स्थितवान्।**

** “इदानीं का गतिः?” इति चिन्तयन् साम्बः इतस्ततः दृष्टिं पातयन् आसीत्। तदा एकत्र तीक्ष्णं ज्वलता अग्निना सहिता काचित् हसन्ती दृष्टा। आश्चर्यम् अनुभवन्, वृष्ट्याम् एव चलन् सः तम् अग्निं प्रति गतवान्।**

** अग्नेः समीपगमनसमनन्तरम् एव सः स्वप्रयत्नं विना एव आक्रोशं कृतवान्। भयेन तस्य सर्वाणि अङ्गानि कम्पितानि। किमर्थम् इति चेत्, हसन्तीं परितः तिस्रः आकृतयः आसन्। ते न मानवाः, अपि तु विकाररूपाः पिशाचाः।**

** साम्बस्य आक्रोशं श्रुत्वा पिशाचाः तं दृष्ट्वा “आगच्छतु रे मानव! भयं मास्तु, रे सधैर्यम् आगच्छतु। वयं भवन्तं न गिलामः। आगत्य अत्र उपविशतु। भवान् अम्बापुरग्रामवासी खलु? श्वः भवतः ग्रामे किं प्रचलिष्यति इति जानाति वा? जानाति चेत्**

किञ्चित् वदत् पश्यामः” इति उक्तवन्तः।

** पिशाचानां वचनानि श्रुत्वा ते न दुष्टपिशाचाः इति ज्ञात्वा साम्बः किञ्चित् धैर्यं प्राप्तवान्। सः तेषां समीपं गत्वा “अहं ‘शाकानां विक्रेता दरिद्रः सामान्यः च कश्चित् मानवः। अहं ज्यौतिषं न जानामि। विद्यावान् अपि न” इति उक्तवान्।**

** “एवं वा? तर्हि भवतः ग्रामस्य भविष्यविचारम् अहं वदामि शृणोतु” इति उक्त्वा एकः पिशाचः पुरतः किञ्चित् अवनम्य, हसन्तीतः चतुरः अङ्गारान् गृहीत्वा, मुखे संस्थाप्य, तान् गिलितवान्। “भवतः ग्रामस्य पाठशालायाः पार्श्वे एकः निम्बवृक्षः अस्ति किल? सः वृक्षः गतसप्ताहे प्रवृत्तस्य झञ्झावातस्य प्रहारेण झर्झरितः भूत्वा, किञ्चित् किञ्चित् अधः नमन् अस्ति। श्वः प्रातः सः वृक्षः पाठशालायाः उपरि महता वेगेन प्रपतिष्यति” इति उक्तवान्।**

** द्वितीयः पिशाचः अपि हसन्तीतः अङ्गारान् गृहीत्वा, एकैकम् एव स्वशिरसि निक्षिपन् “सायङ्काले भवतः ग्रामदेवतायाः रथोत्सवः भविष्यति किल? तस्मिन् समये देवालयस्य गजः अकस्मात् मदोन्मत्तः भूत्वा स्वेच्छया इतस्ततः धाविष्यति” इति उक्त्वा पुनः शिरसि स्थितान् अङ्गारान् हसन्त्यां स्थापितवान्।**

** तृतीयः पिशाचः मुखवायुना, हसन्तीं धमन् “भवतः ग्रामस्य यः बृहत्तटाकः अस्ति, तस्य आधारभागः रात्रौ छिद्रीभूतः भविष्यति। समस्तग्रामे जलं प्रवहति” इति उक्तवान्।**

** एवं वदतां पिशाचानां वचनानि शृण्वन् साम्बः भीत्या आश्चर्येण च तान् पश्यन् एव आसीत्, तदा त्रयः अपि पिशाचाः विकटस्वरेण उच्चैः हसन्तः अगोचराः अभवन्। हसन्ती अपि अदृश्या जाता।**

** वृष्टिः स्थगिता \। साम्बः तस्मात् तिन्त्रिणीवनात् निर्गत्य स्वीयं ग्रामं प्रत्यागतवान्। प्रातः पाठशालां गच्छतः बालान् वीथ्यां यदा दृष्टवान् तदा शीघ्रं शीघ्रं धावन् पाठशालां प्राप्य तत्र स्थितान् उद्दिश्य “यथाकथञ्चित् अद्य विरामघोषणं कुर्वन्तु भोः। बालाः इतः प्राधवन्तु” इति उक्तवान्।**

** काकतालीयन्यायेन इव तस्मिन् दिने प्रधानाध्यापकस्य किञ्चित् स्वीयं**

कार्यान्तरम् आसीत्। अतः सः विरामं दत्त्वा आगतान् सर्वान् बालान् पाठशालातः प्रेषितवान्। सर्वेषां गमनसमनन्तरम् एव सः महान् निम्बवृक्षः उच्चैः शब्दायमानः पाठशालायाः उपरि अपतत्। शालायाः छदिः भित्तयः च चूर्णीभूताः।

** तस्मिन् एव क्षणे पिशाचवचनानां वार्तां ग्रामस्थाः सर्वे ज्ञातवन्तः। केचन ग्रामवृद्धाः साम्बस्य समीपम् आगत्य ‘पिशाचैः अन्यत् किम् उक्तम्?’ इति पृष्टवन्तः।**

** “सायङ्काले देवालयस्य गजः मत्तः भवति इति, रात्रौ अस्माकं ग्रामस्य बृहत् तटाकस्य जलं आधारं भित्त्वा ग्रामे प्रवहति इति च पिशाचाः उक्तवन्तः” इति उक्तवान् साम्बः।**

** तां वार्तां श्रुत्वा सद्यः एव देवालयस्य धर्मकर्तारः तदानीम् एवं तं गजं ग्रामस्य बहिर्भागं नीत्वा लोहशृङ्खलाभिः एकस्मिन् वृक्षे दृढं बद्धवन्तः। तथापि यदा देवालये रथोत्सवः आरब्धः, तदा गजः भयङ्करशब्देन गर्जनं कुर्वन् शृङ्खलाः छित्त्वा अरण्यं प्रति धावितवान्।**

** एतादृशदुरन्तनिवारकं साम्बं ग्रामीणाः बहुधा प्रशंसितवन्तः। सः सर्वजनप्रियः अभवत्। तस्यां रात्रौ केचन हस्तेषु अग्निदण्डान् ज्वालयन्तः तटाकस्य उपरिभागे रक्षणकार्यमग्नाः स्थितवन्तः। मध्यरात्रे वृष्टेः प्रचुरप्रमाणकं जलं कुल्यानां द्वारा आगतम्। तटाकः पूर्णः। अन्ते एकत्र तटाकः शिथिलः अभवत्। तदा झटिति तत्र स्थिताः जनाः शिलाखण्डान् मृत्तिकां च तत्र स्थापयित्वा दृढं समीकृतवन्तः।**

** “पिशाचानां भविष्यवचनं अक्षरशः सत्यं जातं भोः। साम्ब ! अद्य रात्रौ तिन्त्रिणीवनं गत्वा, ते पिशाचाः पुनः किं किं वदन्ति इति श्रुत्वा आगच्छतु भोः” इति ग्रामवृद्धाः साम्बं प्रार्थितवन्तः।**

** परेद्युः यदा अन्धकारः सर्वत्र व्याप्तः, तदा साम्बः पिशाचानां समीपं गतवान्। दूरतः एव तं दृष्ट्वा पिशाचाः “आगच्छतु भोः अम्बापुरवासिन्! अस्माकं भविष्यवचनं यथार्थं जातं खलु?” इति उच्चैः पृष्टवन्तः।**

** “सर्वं भवद्भिः यथा उक्तं तथा एव प्राचलत् भोः ! भवतां वचनानि अद्भुतानि भोः ! अद्य रात्रौ किं किं भवतीति प्रष्टुम्**

इदानीम् आगतवान् अस्मि” इति उक्तवान् साम्बः।

** आगामिन्यां रात्रौ चोराः चौर्यार्थं भूस्वामिनः गृहं प्रविशन्ति इति, ग्रामवृद्धस्य धनञ्जयस्य पुत्र्याः विवाहदिने, पाकगृहे कूष्माण्डव्यञ्जने गृहगोधिका पतिष्यति इति च उक्त्वा पिशाचाः अदृश्याः अभवन्।**

** साम्बः ग्रामं प्रत्यागत्य तां वार्तां भूस्वामिनं धनञ्जयं च कथितवान्। अपायतः पूर्वमेव जागरूकतायाः अवलम्बनेन अपायाः परिहृताः।**

** अनन्तरं ग्रामस्य भूस्वामी अश्वशकटम् आरुह्य स्वयम् एव साम्बस्य कुटीरम् आगत्य “अद्य रात्रौ तान् पिशाचान् पृच्छतु यत् कदा मम पुत्रप्राप्तिः भविष्यति इति। भवतः श्रमस्य उचितं प्रतिफलं दास्यामि” इति उक्त्वा शतं सुवर्णमुद्रिकाः तस्मै दत्त्वा गतवान्।**

** किञ्चित्कालानन्तरं ग्रामस्य प्रधानवणिक् साम्बस्य समीपम् आगत्य “मम पत्न्याः पूर्वजाः बहुपूर्वं समुद्रवाणिज्यं कृत्वा कोट्यधींशाः अभवन्। मया अपि समुद्रवाणिज्यं कारयितुं मम पत्नी बहुदिनेभ्यः आग्रहं कुर्वती अस्ति। एतेन वाणिज्येन मम प्रयोजनं भवति वा न वा इति पिशाचान् पृष्ट्वा आगच्छतु भोः” इति उक्त्वा साम्बस्य हस्ते एकं सुवर्णनाणकम् एकं रजतनाणकं च दत्त्वा गतवान्।**

** एवंरीत्या सायङ्कालं यावत् अनेके जनाः आगत्य पिशाचानां द्वारा भविष्यविचारं ज्ञातुं साम्बस्य हस्ते धनं दत्त्वा दत्त्वा गतवन्तः। सः सर्वं गणितवान्। आहृत्य सहस्रंनाणकाणि दृष्ट्वा चकितः जातः सः।**

** सर्वेषां प्रार्थनाविषयान् एकस्मिन् पत्रे लिखित्वा तत् पत्रं, सम्पादितस्य धनस्य अर्धभागं च एकस्मिन् वस्त्रे ग्रन्थिरूपेण बद्धवा, रात्रौ पिशाचानां समीपं गतवान्।**

** पिशाचाः तं दृष्ट्वा “भोः। अम्बापुरवासिन्, आगच्छतु भोः” इति हसन्तः आहूतवन्तः। साम्बः सलीलं गत्वा तेषां पार्श्वे उपविश्य ‘भवन्तः सर्वदा अहितविचारान् एव वदन्ति। इदानीं तथा मास्तु। अद्य शुभविचारान् वदन्ति चेत् भवताम् उपरि सुवर्णवर्षणं भवति” इति उक्त्वा धनस्य ग्रन्थिं प्रदर्शित**

वान्।

** सः जातं सर्वं वृत्तन्तं कथयित्वा, ग्रामीणानां प्रार्थनानां पट्टिकां पिशाचानां पुरतः संस्थाप्य “एतेषां सर्वेषां प्रश्नानाम् उत्तराणि कथयित्वा एतानि पञ्चशतं नाणकानि स्वीकुर्वन्तु। अहम् अपि पञ्चशतं स्वीकृतवान्। एकस्मिन् दिने एतावत्धनं सम्पादितम्। इतःपरं महता श्रमेण शाकानाम् उत्पादनं, भारम् ऊढ्वा स्थानात् स्थानम् अटनं इत्यादिकं सर्वं परित्यज्य सुखं जीवितुम् इच्छामि। एतत् सर्वं भवतां कृपाफलम् !” इति उक्तवान्।**

** तस्य वचनानि शृण्वतां पिशाचानां नेत्राणि अङ्गारसदृशानि जातानि। ते प्रार्थनापट्टिकां धनस्य ग्रन्थिं च अग्नौ क्षिप्त्वा “रे मूर्ख! इतः परं कदापि अत्र न आगच्छतु। आगच्छति चेत् अपि अस्मान् द्रष्टुं न शक्नोति” इति उक्त्वा अदृश्याः अभवन्।**

** एतां घटनां दृष्ट्वा चकितः साम्बः, कयाचित् शलाकया हसन्त्याः भस्म परीक्षितवान्। तत्र किमपि न दृष्टम्। प्रातः ग्रामीणानां धनं प्रत्यर्पणीयम् आसीत्। किङ्कर्तव्यतामूढः सः दुःखितः अभवत्।**

** प्रातः तेनैव मार्गेण आगतः कश्चित् वृद्धपथिकः साम्बं दृष्ट्वा “किं भोः, किमर्थं चिन्तामग्नः अस्ति?” इति पृष्टवान्। साम्बः जातं सर्वं वृत्तान्तं तं कथितवान्।**

** “सत्यम्। तेषां पिशाचानां वचनं यथार्थम् एव अस्ति। भवान् निश्चयेन मूर्खः एव। पिशाचानां धनं किमर्थम्? पूर्वं कृतानां दृष्टकार्याणां प्रायश्चित्तरूपेण ते पिशाचाः कानिचन उत्तमकार्याणि कुर्वन्ति। तदर्थम् एव भविष्यत्कालीनान् अपायान् पूर्वमेव सूचयित्वा भवतां ग्रामं ते रक्षितवन्तः। तेषां सत्कार्यपेक्षां भवान् वाणिज्यरूपेण परिवर्तयितुं प्रयतितवान्। तेन कारणेन क्रुद्धाः ते अगोचराः अभवन्” इति उक्तवान्।**

** तद्वचनं श्रुत्वा साम्बः स्वीयं दोषं ज्ञातवान्। ‘पञ्चषमासपर्यन्तम् इतः अपि अधिकश्रमेण कार्यं कृत्वा ग्रामीणानां धनं प्रत्यर्पयितुं शक्यते’ इति आत्मविश्वासं प्राप्य गृहं प्रति प्रस्थितवान्।**

पीडापरिहारः

** गोवर्धनः कश्चित् विद्यावान् युवकः। सः नगरस्थिते सर्वकारकार्यालये उद्योगं प्राप्तवान्। गोवर्धनः अतीव सङ्कोचस्वभाववान्। अल्पे एव काले तस्य विवाहः सम्पन्नः। विवाहानन्तरं शीघ्रम् एव सः स्वपत्नीं नगरम् आनीतवान्। अत्र विचित्रं आसीत् यत् तस्य पत्नी सुनन्दा अपि सङ्कोचशीला एव।**

** सुनन्दायाः आगमनदिवसे एव कुटुम्बव्यवहारे तयोः परस्परसङ्कोचस्वभावः प्रकटितः। पाकविषये विचारविनिमयं कर्तुम् अपि तयोः महान् सङ्कोचः। गोवर्धनः आकाशं पश्यन् पत्नीम् पृष्टवान् “एतस्मिन् नूतनपरिसरे पाकं कर्तुं भवत्याः कष्टं भवेत्। अतः भोजनालयतः आनयनम् उचितम् इति प्रतिभाति। किं द्वित्रदिनानि तथा करोमि वा?” इति।**

** पाकं कर्तुम् एतानि वस्तूनि अपेक्षितानि इति पतिं वक्तुम् अपि सुनन्दायाः सङ्कोचः। सा मन्दस्वरेण “कीदृशं भोजनं भवते रोचते इति वदतु। तदर्थम् आवश्यकवस्तूनि अपि आनयतु। अहं पाककार्यं सम्यक् जानामि। तत्र किमपि कष्टं नास्ति” इति उक्तवती।**

** एवंरीत्या आरब्धं तयोः कुटुम्बजीवनं यथाकथञ्चित् प्रचलति स्म। कदाचित् तया कृतं कार्यं गोवर्धनाय न रोचते। तथापि सः तूष्णीं तिष्ठति। सा अपि तथैव। कालः गच्छति स्म।**

** एकस्मिन् सायङ्काले तौ शिवदेवालयं गत्वा शिवदर्शनानन्तरं पुनः प्रत्यागच्छतः स्म। तदा मार्गमध्ये गच्छन्, चलितुम् अपि अशक्तः एकः वृद्धः गोवर्धनं दृष्ट्वा कम्पमानेन स्वरेण “भोः महाशय, चलितुम् अपि अशक्तः अस्मि। कृपया साहाय्यं करोति वा? भवतः कल्याणं भविष्यति” इति उक्तवान्।**

** गोवर्धनः आर्द्रहृदयः सन्, तस्य वृद्धस्य**

हस्तं गृहीत्वा तं चालयन् अग्रे प्रस्थितवान्। तदा मार्गे गच्छन्तः केचन धनिकाः गोवर्धनं दृष्ट्वा क्रोधेन “किं भोः, विद्यावान् इव दृश्यते। एतावत् अज्ञानं वा? वृद्धस्य पितुः विषये सदाचरणम् अपि न जानाति वा ?” इति भर्त्सयन्तः तत्रैव गच्छन्तम् एकं भाटकशकटम् आहूतवन्तः।

** ‘एषः वृद्धः मम जनकः न’ इति वक्तुम् अपि सङ्कोचः गोवर्धनं बाधते। किङ्कर्तव्यतामूढः सः पत्न्याः मुखं दृष्ट्वा अलोचयन् आसीत्। तदा शकटचालकः वृद्धम् आरोप्य “किं चिन्त्यते भोः ? शीघ्रं शकटम् आरुह्यकुत्रगन्तव्यम् इति वदतु” इति शकटं चालयितुं प्रवृत्तः। किमपि वक्तुम् अशक्तः गोवर्धनः शकटे उपविष्टवान्। सुनन्दा तम् अनुसृतवती।**

** यदा तौ गृहं प्राप्तवन्तौ तदा वृद्धस्य शरीरं ज्वरेण तप्तम् आसीत्। सः केवलं हुँ-हुँ इति ज्वरतापं प्रकटयन् अन्यत् किमपि नैव उक्तवान्। शकटचालकः वृद्धम् आनीय गृहस्य पुरतः वेदिकायां शाययित्वा, भाटकं गृहीत्वा ततः निर्गतवान्।**

** सुनन्दा वृद्धस्य शयनार्थं शय्यां सज्जीकृतवती। गोवर्धनः शीघ्रं गत्वा वैद्यम् आनीतवान्।**

** पञ्चषदिनानन्तरं वृद्धः पूर्णरूपेण स्वस्थः जातः। किन्तु तदनन्तरम् अपि वृद्धः गमनप्रस्तावं न कृतवान् एव।**

** पुनः दिनचतुष्टयम् अतीतम्। गोवर्धनः पत्नीम् “एषः वृद्धः कदा वा निर्गच्छेत्?” इति पृष्टवान्।**

** “तम् एव पृच्छावः। तदा किमपि वदेत्” इति सुनन्दा उत्तरितवती।**

** “श्वः भोजनानन्तरं भवती एव पृच्छतु" इति उक्तवान् गोवर्धनः।**

** ‘तथा प्रष्टुम् अहं न शक्नोमि’ इति पतिं वक्तुम् अपि सुनन्दायाः सङ्कोचः। अतः सा तूष्णीं स्थितवती। एवमेव पुनः दिनद्वयम् अतीतम्। अन्ते गोवर्धनः मनः दृढं कृत्वा वृद्धं उक्तवान् “श्वः प्रातः अहं सुनन्दा च तस्याः मातृगृहं**

गमिष्यावः। प्रत्यागमनं तु दिनद्वयानन्तरम् एव" इति।

** “सन्तोषेण गच्छताम् भोः। भवतोः प्रत्यागमनपर्यन्तं मम भोजनादिविषये चिन्ता मास्तु। तदर्थम् अहं व्यवस्थां करोमि। यदि प्रत्यागन्तुं विलम्बः भवति, भवतु नाम" इति उक्तवान् वृद्धः निश्चिन्तभावेन।**

** वृद्धस्य वचनं श्रुत्वा गोवर्धनः पूर्वापेक्षया अधिकं चिन्ताव्यग्रः अभवत्। परेद्युः गत्यन्तराभावात् पत्न्या सह गृहतः प्रस्थाय नगरस्य एकस्मिन् कोणे, धर्मशालायां दिनद्वयं यावत् रहस्यरूपेण वासं कृत्वा, अनन्तरं गृहं प्रत्यागतवान्। एतेन उपायेन धनस्य दुर्व्ययः जातः, तावदेव। एतस्मात् वृद्धात् कथं विमोचनम् ? इति पतिः पत्नी च नितरां चिन्ताक्रान्तौ जातौ।**

** एका रात्रिः। यथाक्रमं सम्भाषणविषयः वृद्धस्य विचारः एव आसीत्। तदा अन्यप्रकोष्ठे सुप्तः वृद्धः उत्थाय तयोः समीपम् आगत्य “भोः, सर्वदा मम विषये भवतोः असत्यम् अयुक्तं च वार्तालापः प्रचलति। एतेन मम अपि निद्राहानिः, भवतोः अपि। एतत् गृहं त्यक्त्वा अहं कुत्रापि न गमिष्यामि। भवन्तौ माम् उज्जीवितवन्तौ। अतः इदानीं मम पोषणदायित्वम् अपि भवतोः एव। यदि न शक्यते, तर्हि उच्यताम्। इदानीम् एव गत्वा गृहस्य पृष्ठभागे स्थिते कूपे पतिष्यामि” इति उक्त्वा पुनः स्वस्थानं गत्वा सुप्तवान्।**

** वृद्धस्य मरणं यावत् तस्य पोषणभारः आवयोः शिरसि एव पतितः इति तौ निश्चितवन्तौ।**

** अनन्तरं एकदा प्रातः गोवर्धनः भोजनं समाप्य कार्यालयं गतवान्। तदनन्तरम् अकस्मात् सुनन्दायाः एका बाल्यसखी आगतवती। नन्दिनी इति तस्याः नाम सुनन्दायाः विवाहदिने एव नन्दिन्याः भ्रातुः विवाहः आसीत्। अतः सुनन्दायाः विवाहसमये नन्दिनी न आगतवती। अतः इदानीं नन्दिनी सुनन्दायाः नूतनजीवनं द्रष्टुम् आगतवती।**

** नन्दिनीं दृष्ट्वा सुनन्दायाः महान् सन्तोषः जातः। सा सख्या सह वार्तालापं कुर्वती किञ्चित्कालं यापितवती। तदा वृद्धः तयोः समीपम् आगत्य, सुनन्दां प्रति “किम् एतस्य व्यर्थजल्पनस्य अन्त्यम् एव नास्ति वा? अत्र मम उपस्थितिः अपि विस्मृता वा? किम् भोजनं परिवेषयति, उत एवमेव मां मारयति?” इति रोषेण गर्जितवान्।**

** सुनन्दा किमपि अनुक्त्वा, उत्थाय गत्वा वृद्धाय भोजनं परिवेषितवती। सः खादितुम् आरभ्य “एतत् अलाबु मह्यं न रोचते इति सहस्रवारं उक्तवान् अस्मि। तथापि पुनः पुनः तदेव आनीय पाकं करोति। एतस्य दर्शनेन मम वमनशङ्का” इति रटन् यथाकथश्चित् भोजनं समाप्य गत्वा पुनः स्वस्थाने शयितवान्।**

** एतत्सर्वं दृष्ट्वा नन्दिनी सुनन्दां पृष्टवती “भवत्याः श्वशुरः अतीव कोपशीलः इति भाति। किम् भवत्याः पतिः अपि एतादृशः एव वा?” इति।**

** “एषः वृद्धः न मम श्वशुरः, न वा कश्चित् अन्यः बन्धुः। मार्गे गच्छन् पिशाचः आगत्य अस्माकं शिरसि उपविष्टवान् अस्ति" इति आरभ्य सुनन्दा प्रवृत्तं वृत्तान्तं सविस्तरं नन्दिन्यै निवेदितवती।**

** नन्दिनी तु आश्चर्येण “कथा एवम् अस्ति वा ! भवतोः सङ्कोचस्वभावस्य परिणामः एषः इति मन्ये” इति उक्तवती।**

** “किं वा करोमि भोः? इतः निर्गच्छतु इति उच्चैः वदामः चेत्, ‘भवताम् एव कूपे पतामि’ इति वदति। यदि तथा एव करोति, तर्हि जनानां मध्ये अस्माकं गौरवस्य का वा गतिः स्यात्?" इति उक्तवती सुनन्दा।**

** “भवतोः वृथा भ्रमः। एवं कूपे पतामि इति यः भाययति तस्य वस्तुतः मरणात् महत् भयं वर्तते। इदानीं पश्यतु, अहं क्षणमात्रेण तं वृद्धम् इतः निष्कासयामि। मम सर्वेषां वचनानां उत्तररूपेण भवती केवलम् ‘अस्तु अस्तु’ इति वदतु" इति उक्तवती नन्दिनी।**

** अनन्तरं नन्दिनी किञ्चित् शर्करां सम्यक् चूर्णीकृतवती। तत् चूर्णं जले संयोज्य आतपे स्थापितवती। मध्याह्नः अतीतः। आतपः न्यूनः जातः। शीतलः सन्ध्यावायुः हितं वाति स्म। तदा वृद्धः निद्रां समाप्य उपाहारस्य इच्छया पाकगृहं प्रति प्रस्थितः। तदा पाकगृहे सुनन्दया सह उपविष्टवती नन्दिनी वृद्धम् अपश्यन्ती इव मन्दस्वरेण “पश्यतु सुनन्दे, मरणापन्नः वृद्धः भवद्भ्यां रक्षितः किल? अतः तस्य पोषणदायित्वम् अपि भवतोः एव इति तु सत्यम्। किन्तु तदर्थं भवतोः आवश्यकं सामर्थ्यं नास्ति। अतः इदानीं तस्य मरणं एव उचितम्। किन्तु सः यथा वेदनां विना मरणं प्राप्नुयात्, तथा उपायः करणीयः" इति उक्तवती।**

** “सत्यम् सत्यम्” इति उक्तवती सुनन्दा।**

** “अङ्गीकरोति किल? मत्समीपे एकं विषम् अस्ति। अस्य विषस्य अल्पः भागः अपि मरणाय पर्याप्तम्। यस्मिन् कस्मिंश्चित् खाद्यपदार्थे एतत् योजयतु। किञ्चित् अपि रुचिभेदः न ज्ञायते। सप्ताहावधौ सः स्वीय-पापपुण्यानां योग्यं नरकं वा स्वर्गं वा प्राप्स्यति। विषप्रयोगः कृतः अस्ति इति परीक्ष्य वक्तुं धन्वन्तरिसदृशः वैद्यः अपि न शक्नोति। स्वयं वृद्धः अपि किमपि क्लेशं न अनुभवति। सलीलं मरणं प्राप्नोति” इति उक्त्वा नन्दिनी पूर्वमेव सज्जीकृतं शर्कराचूर्णं सुनन्दायै दत्तवती।**

** वृद्धः भित्तेः अन्यस्मिन् पार्श्वेस्थित्वा नन्दिन्याः वचनानि सर्वाणि श्रुतवान्। भीतस्य तस्य शरीरे कम्पनम् उत्पन्नम्। सः झटिति प्रतिनिवृत्य स्वीयवस्त्रादिकं सगृह्यपुनः सुनन्दायाः समीपम् आगत्य “भोः सुनन्दे, अहं अकस्मात् गच्छन् अस्मि। किन्तु एतद्विषये चिन्ता मास्तु। अस्यां वृद्धावस्थायां वृथा कालहरणापेक्षया पुण्यक्षेत्राणां यात्रा उचिता इति मम स्वप्ने काचन देवता आगत्य जागरितवती। उत्तमकार्याणि सर्वदा झटिति एव करणीयानि। अतः इदानीं एव प्रस्थितः” इति उक्तवान्।**

** “किमर्थम् एतावती त्वरा? पत्युः आगमनं यावत् तिष्ठतु। उपाहारं ददामि" इति यदा सुनन्दा उक्तवती, तदा वृद्धस्य शरीरे पूर्वापेक्षया अधिकं कम्पनं जातम्। “मास्तु अम्ब, मध्याह्नस्य भोजनम् एव न जीर्णम्। एतं विचारं भवत्याः पतिं भवती एव वदतु” इति वदन् एव सः वृद्धः गृहं त्यक्त्वा मार्गं प्रविष्टः।**

** सायङ्काले गोवर्धनः कार्यालयतः गृहं यदा आगतवान्, तदा सुनन्दया उक्तं सर्वं वृत्तान्तं श्रुतवान्। अन्ते सुनन्दा “भाग्यवशात् नन्दिन्याः साहाय्येन पीडायाः परिहारः जातः’ इति उक्तवती।**

** गोवर्धनः नन्दिनीं दृष्ट्वा किमपि वक्तुं प्रवृत्तः। तदा नन्दिनी एव एवम् उक्तवती “प्रप्रथमतया भवद्भ्यां सङ्कोचरूपपीडा नाशनीया। परोपकारस्वभावः अतीव समीचीनः गुणः इति तु सत्यम्। परोपकारगुणेन हीनाः, मनुष्याः इति न उच्यन्ते। किन्तु औचित्यापेक्षया अधिकः परोपकारः अतीव हानिकरः” इति।**

** “इदानीम् आवाभ्यां स्वानुभवेन एव एषः विचारः ज्ञातः किल?” इति गोवर्धनः पत्न्याः मुखं पश्यन् उक्तवान्।**

** सुनन्दा मन्दहासं प्रकटयन्ती स्वीयं अङ्गीकारं सूचितवती।**

पुण्यफलम्

** पूर्वं कौमुदीराज्ये शान्तिवने जीवानन्दः नाम महर्षिः निवसति स्म। प्रबोधः जीवानन्दस्य प्रियशिष्यः। गुरुमुखात् आगतम् एकैकं वचनम् अपि अमूल्यम् इति चिन्तयति स्म सः। गुरुः जीवानन्दः अपि प्रबोधं विशेषप्रीत्या पाठयति स्म। अतः प्रबोधः वेदान्तशास्त्रे असदृशं पाण्डित्यं प्राप्तवान् आसीत्।**

** जीवानन्दः सम्भाषणसन्दर्भे तदा तदा काशीम् उल्लिखति। विश्वेश्वरदर्शनेन विशेषपुण्यफलं लप्स्यते इति सः प्रतिपादयति स्म। अतः ‘काशीविश्वेश्वरस्य दर्शनं करणीयम्’ इति इच्छा प्रबोधस्य मनसि तीव्रतरा अभवत्।**

** शिष्यस्य एतं मनोभिलाषं जीवानन्दः ज्ञातवान्। सः एकदा प्रबोधम् आहूय काशीगमनार्थम् अनुमतिं दत्त्वा आशीर्भिः तम् अनुगृह्य प्रेषितवान्।**

** प्रबोधः तद्दिने एव काशीं प्रति प्रस्थितः। केषाञ्चित् दिनानां प्रयाणानन्तरं मध्येमार्गं तस्य पादरक्षा एका छिन्ना अभवत्। तत्सन्दर्भे समीपे एव तेन कश्चन चर्मकारः दृष्टः। ‘देवदयया एव एषः समये प्राप्तः’ इति चिन्तयन् प्रबोधः चर्मकारसमीपं गतवान्। समीकरणार्थं पादरक्षां तस्य पुरतः स्थापितवान् च।**

** तस्य चर्मकारस्य नाम कालिदासः इति। सः प्रबोधस्य पादरक्षां समीकुर्वन् पृष्ठवान् “श्रीमन् ! सुदूरतः आगतवान् इति भाति। कुत्र गन्तुम् उद्युक्तः भवान्?” इति।**

** ‘अहं कौमुदीराज्यतः आगच्छन् अस्मि। काशीविश्वेश्वरस्य दर्शनार्थं प्रस्थितवान् अस्मि च” इति उक्तवान् प्रबोधः।**

** एतत् वचनं श्रुतवतः कालिदासस्य नेत्रद्वयम् आश्चर्येण प्रकाशमानम् अभवत्।**

** “अहो! भवान् काशीविश्वेश्वरस्य**

दर्शनार्थं प्रस्थितः! पुण्यस्य विषयः एषः। सामान्याः एतादृशं भाग्यं न प्राप्नुयुः एव। महाभाग्यशाली भवान्” इति सन्तोषेण उक्तवान् सः।

** समीकृतां पादरक्षां धृत्वा प्रबोधः एकं रजतनाणकं चर्मकाराय दत्तवान्। किन्तु सः चर्मकारः तत् अस्वीकुर्वन् उक्तवान् —“भोः, मम नाम कालिदासः। विश्वेश्वरदर्शनानन्तरं मम नाम्नि एतत् रजतनाणकं समर्पणभाण्डे स्थापयतु” इति।**

** प्रबोधः एतत् अङ्गीकृतवान्। तत् रजकनाणकं उत्तरीयस्य दशायां दृढं बद्ध्वा ततः अग्रे गतवान्।**

** एवं गमनसमये मध्ये अरण्यम् आगतम्। तदा अग्निशिखः नाम महाचोरः अश्वम् आरुह्य आगत्य प्रबोधस्य पुरतः स्थितवान्।**

** सः प्रबोधं तीक्ष्णदृष्ट्या पश्यन् क्रोधेन हुङ्कारं कुर्वन्—“अये! तिष्ठतु तावत्। विना विरोधं भवतः समीपे स्थितानि अमूल्यवस्तूनि मम हस्ते अर्पयतु। अन्यथा प्राणैः वञ्चितः भवेत् भवान्। अहं न सामान्यः इति स्मरतु” इति गर्जितवान्।**

** भीतः प्रबोधः मार्गव्ययार्थं स्थापितानि शतं रजतनाणकानि अपि चोराय दत्तवान्। तत्समये उत्तरीयस्य दशायां बद्धस्य नाणकस्य उपरि चोरस्य दृष्टिः पतिता। ‘तत्र किमपि अमूल्यं वस्तु स्यात् एव’ इति चिन्तितवान् सः।**

** “वस्त्रस्य अन्ते किं तत् बद्धम् अस्ति? सुवर्णं वा?” इति गर्जनपूर्वकं पृष्टवान् चोरः अग्निशिखः।**

** प्रबोधः वस्त्रबन्धनं शिथिलीकृत्य रजतनाणकं प्रदर्शयन् “भोः ! कृपया एतत् अपि न स्वीकरोतु। यतः एतत् न मदीयम्। विश्वेश्वरमन्दिरे समर्पणभाण्डे एतत् स्थापयतु इति उक्त्वा मार्गे कश्चन चर्मकारः एतत् दत्तवान्। अतः एव एतत् पृथक् बद्ध्वा स्थापितवान्” इति उक्तवान्।**

** तदा अग्निशिखः चिन्तने पतितः “पादरक्षासमीकरणेन जीवन् सामान्यः कर्मकरः विश्वेश्वराय रजतनाणकं समर्पयति। सर्वसमर्थः अहं किमेतत् आचरन् अस्मि!” इति।**

** अतः सः प्रबोधतः वशीकृतानि शतं रजतनाणकानि अपि प्रबोधस्य हस्ते अर्पयन्**

— “मम नाम अग्निशिखः। मम नाम्नि एतत् धनं विश्वेश्वराय समर्पणभाण्डे स्थापयतु’ इति उक्तवान्। स्वकीयं मार्गम् अनुसृतवान् च।

** “एतत् धनं वस्तुतः मम एव। किन्तु एषः अग्निशिखः मत्तः वशीकृत्य पुनः मम हस्ते अर्पितवान्। अतः एतस्य धनस्य उपरि मम अधिकारः नष्टः” इति चिन्तितवान् प्रबोधः।**

** पुनः एकमासं यावत् प्रबोधः प्रवासं कृतवान्। तत्सन्दर्भे सः एकं घोरारण्यं प्रविष्टवान्। तस्मिन् अरण्ये रुधिरकर्णो नाम राक्षसः निवसति स्म। सः प्रबोधं दृष्ट्वा अट्टहासं कुर्वन् सन्तोषेण करताडनं कुर्वन् च एतं गृहीतवान्।**

** प्रबोधः भीत्या कम्पमानः— “अयि भोः ! राक्षसोत्तम! क्षणं तिष्ठतु। अहं काशीविश्वेश्वरस्य दर्शनार्थं प्रस्थितः। तत् एकम् एव कार्यं मम यदि स्यात् तर्हि निश्चयेन भवतः आहारः भवेयम्। किन्तु परिस्थितिः तथा नास्ति। मार्गे कालिदासः नाम कश्चन चर्मकारः विश्वेश्वराय समर्पयितम् एकं रजतनाणकं दत्तवान् अस्ति। तथैव अग्निशिखः नाम चोरः मत्तः धनं वशीकृत्य विश्वेश्वराय समर्पयितुंं तत् धनं मम हस्ते एव दत्तवान्। यदि इदानीम् अहं भवतः आहारः भवेयं तर्हि तयोः कार्यम् अकृतं तिष्ठति। तेन अहं पापेन लिप्तः भविष्यामि। भवान् अपि पापभाक् भविष्यति। अतः इदानीं गन्तुम् अनुमतिं ददातु। प्रत्यागमनसमये निश्चयेन भवतः आहारः भवितुं सिद्धः भविष्यामि। कर्तव्यच्युतः अहं यथा न भवेयं तथा कृपया अनुगृह्णातु” इति प्रार्थितवान्।**

** ब्रह्मराक्षसः रुधिरकर्णः प्रबोधस्य वचने विश्वसितवान्। अतः अग्रे गन्तुम् अनुमतिं दत्तवान् च।**

** अनन्तरं प्रबोधं निर्विघ्नं काशीं प्राप्तवान्। गङ्गानद्यां स्नात्वा विश्वेश्वरस्य दर्शनं प्राप्य भक्तिपूर्वकं प्रदक्षिणनमस्कारं कृतवान्। कालिदासस्य अग्निशिखस्य च नामस्मरणपूर्वकं ताभ्यां दत्तानि रजतनाणकानि समर्पणभाण्डे श्रद्धया समर्पितवान् च।**

** पुनः अपि द्वित्रणि दिनानि उषित्वा प्रबोधः काशीनगरं समग्रं दृष्टवान्। प्रतिप्रयाणं कुर्वन् अरण्यं प्रविश्य ब्रह्मराक्षसस्य आहारः भवितुं सिद्धः अभवत्।**

** ‘तत्सन्दर्भे कश्चन व्याधः तस्य समीपम् आगतवान्। ‘यस्मिन् अरण्ये ब्रह्मराक्षसः निवसति तत्र एषः निर्भीकतया सञ्चरति किल!’ इति आश्चर्यम् अनुभूतवान् प्रबोधः।**

** सः व्याधः प्रबोधं दृष्ट्वा सन्तोषेण भक्त्या च नमस्कृत्य—“महानुभाव! अहम् एव रुधिरकर्णः नाम ब्रह्मराक्षसः। भवन्तम् अभक्षयन् काशीं गन्तुम् अनुमतिं यत् दत्तवान् तेन मया पुण्यं सम्पादितम्। तत्फलतः सर्वश्रेष्ठं मानवजन्म प्राप्तवान् अस्मि। भवतः सम्पर्केण अहं धन्यः जातः” इति उक्तवान्।**

** प्रबोधः रुधिरकर्णम् आशिषा अनुगृह्य अग्रे गतवान्। मार्गे केचन अटविकाः समूहरूपेण स्थिताः तेन दृष्टाः। ते विविध वाद्यानि वादयन्तः सन्तोषकूटम् आचरन्तः आसन्। प्रबोधः तेषां समीपं गतवान्। तस्य समूहस्य मध्ये कश्चित् वेणुनिर्मिते, विविधपुष्पैः अलङ्कृते उन्नतासने उपविष्टवान् आसीत्। तस्य शिरसि पुष्पैः तदितरसाधनैः च निर्मितः किरीटः विराजते स्म।**

** सः प्रबोधं दृष्ट्वा झटिति आसनात् उत्थाय नमस्कृत्य विनयेन उक्तवान् —“श्रीमन् ! अहम् एव अग्निशिखः ! एते अटविकाः स्वसम्प्रदायानुगुणं महाराजस्य चयनार्थम् एकं शुकम् उड्डायितवन्तः। सः शुकः आगत्य मम शिरसि उपविष्टवान्। अतः एते इदानीं माम् अटविकसिंहासने उपवेशितवन्तः। एतत्सर्वं काशीविश्वनाथस्य अनुग्रहेण एव सम्पन्नम्। भवत्कारणतः अहं पुण्यभाक् सञ्जातः। महापुण्यशाली भवान्” इति।**

** प्रबोधः एकदिनं यावत् अग्निशिखस्य अतिथित्वेन तत्र स्थित्वा सर्वेषाम् अनुमतिं स्वीकृत्य ततः निर्गतवान्। ततः प्रस्थाय चर्मकारस्य ग्रामं प्राप्तवान्।**

** पूर्वं चर्मकारः यत्र उपविशति स्म तत्र इदानीं कश्चन पादरक्षापणः दृश्यते स्म। उत्तमवेषभूषैः अलङ्कृतः कश्चित् यजमानत्वेन तत्र उपविष्टः आसीत्।**

** प्रबोधः तस्य समीपं गत्वा “भोः ! पूर्वम् अत्र कालिदासः नाम चर्मकारः उपविशति स्म। तस्य परिचयः अस्ति वा भवतः? सः कुत्र निवसति ?” इति पृष्टवान्।**

** सः महाजनः तत्क्षणे उत्थाय प्रबोधं साष्टाङ्गं नमस्कृत्य “श्रीमन्! कालिदासः अहम् एव! केभ्यश्चित् दिनेभ्यः पूर्वं महाराजः एतेन मार्गेण गच्छन् मयानिर्मितानां पादरक्षाणां सौन्दर्येण आकृष्टः अभवत्। एकां पादरक्षां सः क्रीतवान् च। तद्दिनतः मम सौभाग्यम्! राज्ये प्रमुखाः धनिकाः, अधिकारिणः च मया निर्मिताः पादरक्षाः एव क्रीणन्ति। वस्तुतः एतत्सर्वं मम प्रयत्नेन न सिद्धम्। काशीविश्वनाथस्य अनुग्रहभाग्येन अहं धन्यः जातः” इति उक्तवान्।**

** ‘आत्मनः कारणतः त्रयः अतिशीघ्रम् एव पुण्यफलं प्राप्तवन्तः। तेषां जीवने एव महत्परिवर्तनं जातम्।’ इति प्रबोधः अतीव सन्तुष्टः।**

** “एते त्रयः तु मम कारणतः एव भाग्यवन्तः जाताः, सत्यम्। किन्तु मम**

परिस्थितिः? काशीविश्वनाथम् अहं स्वयं दृष्टवान्। किन्तु मया तु पुण्यफलं किमपि न

प्राप्तम् एव। मया तु यथापूर्वं शान्तिवनं गत्वा श्रमपूर्वकं गुरुशुश्रूषा करणीया एव” इति खेदम् अनुभूतवान् प्रबोधः।

एवं बहुधा चिन्तयन् प्रबोधः शान्तिवनं प्राप्तवान्। गुरु जीवानन्दं प्रवृत्तं सर्वं निवेद्य स्वसन्देहम् अपि उपस्थापितवान्।

जीवानन्दः तस्य वचनानि सावधानतया श्रुत्वा पृष्टवान् “प्रबोध! भवान् मार्गव्ययार्थं किञ्चित् धनम् इतः नीतवान्। मार्गे तत्सर्वं चोरः अपहृतवान्। एवं तर्हि अनन्तरदिनेषु आहारार्थं भवान् किं कृतवान्?” इति।

“गुरुदेव! काशीप्राप्तिपर्यन्तं अग्निशिखेन दत्ते धने किञ्चित् अपि न व्ययितवान्। अरण्यमार्गे यत् कन्दमूलफलादिकं प्राप्तं तेन एव मम बुभुक्षा निवारिता भवति स्म। ग्रामप्रदेशे तु ग्रामीणाः प्रीत्या आहूय सत्कारं कुर्वन्ति स्म। अतः तावत्पर्यन्तं समस्या एव न आसीत्। काशीप्राप्तेः अनन्तरम् एव किञ्चित् धनं व्ययितम् अभवत्” इति उक्तवान् प्रबोधः।

“किमर्थं तथा करणीयम् आपतितम् ?” इति पृष्टवान् जीवानन्दः।

“नगरे केचन तीर्थयात्रिकाः मया मिलितवन्तः। ते पूर्वं यत्र स्थितं तां धर्मशालां परित्यज्य अन्यधर्मशालां

गच्छन्तः आसन्। यदा अहं कारणं पृष्टवान् तदा ते उक्तवन्तः - ‘अत्र वसत्यादिव्यवस्था सम्यक् नास्ति। समीपे एव अन्या धर्मशाला अस्ति।

तत्र किञ्चित् धनं दत्तं चेत् उत्तमसौलभ्यम्

उपकल्पयन्ति’ इति। माम् अपि आग्रहेण ते आहूतवन्तः। अतः तैः सह अहम् अपि तत्र गतवान्। तत्र अनिवार्यतया यजमानाय धनं दातव्यम् एव आपतितम्। एवम् अग्निशिखेन दत्ते धने कञ्चन भागम् अहं व्ययीकृतवान्” इति विवरणं दत्तवान् प्रबोधः।

जीवानन्दः मन्दहासं प्रकटसन्— “प्रबोध! अत्र एव भवता दोषः आचरितः। अग्निशिखः चोरः। चौर्यम् एव तस्य वृत्तिः। स्ववृत्त्यनुगुणं सः भवदीयं धनम् अपहृतवान्। तदा तस्य धनस्य उपरि स्थितः भवतः अधिकारः नष्टः। तदेव धनं सः भवतः हस्ते दत्तवान्। यत् धनं भवदीयं न तत् भवान् व्ययीकृतवान्। एवं कृत्वा अपि अन्यैः यत् पुण्यं प्राप्तं तादृशं मया न प्राप्तम् इति खेदम्

अनुभवति किल?” इति उक्तवान्।

** “धनव्ययविषये मया दोषः कृतः स्यात्। आपद्धर्मः आसीत् सः। किन्तु पुण्यफलेच्छा दोषाय कथं भवेत्?” इति विनयेन एव पृष्टवान् प्रबोधः।**

** जीवानन्दः क्षणकालं मौनं स्थित्वा उक्तवान् —“वृक्षस्य अधः उपविश्य वृष्टिं शैत्यम् आतपं च अविगणय्य कार्यं कुर्वन् कालिदासः परमदरिद्रः। सः तत्क्षणे पुण्यफलं प्राप्तवान्। अग्निशिखः तु मार्गलुण्टकः क्रूरकर्मी। ये स्वत्वं दातुं निराकुर्वन्ति तान् मारयितुम् अपि सिद्धः सः। सः अपि अचिरात् एव पुण्यफलं प्राप्तवान्। ब्रह्मराक्षसः रुधिरकर्णः तु जन्मना एव क्रूरः। बुभुक्षानिवारणम् एव तस्य लक्ष्यम्। अतः पुरतः आगतं जनं सः खादति एव। एतैः त्रिभिः पुण्यफलं शीघ्रं यत् प्राप्तं तेन लोकस्य अपि उपकारः सिद्धः। चोरस्य ब्रहराक्षसस्य च पीडातः बहवः रक्षिताः अभवन्।….. इति।**

** “तन्नाम अहं लोकपीडकः न अस्मि इति कारणतः मया पुण्यफलं न प्राप्तम् इति वा? तत् कथं भवेत्। विशेषश्रमः तु मया एव अनुष्ठितः। श्रमानुगुणं फलस्य निरीक्षा किम् अनुचिता वा?” इति पुनः पृष्टवान् प्रबोधः।**

** “तथा न। भवान् अन्यथा न चिन्तयतु। दरिद्रेण, चोरेण, ब्रह्मराक्षसेन च तत्क्षणे यथा पुण्यफलं प्राप्तं तथा। तत्क्षणे भवता अपि पुण्यफलं प्राप्तव्यं नास्ति। भवतः न दारिद्र्यम्। न वा भवान् लोककण्टकः, जनमारकः वा। इतोऽपि भवान् विद्यार्थी। विश्वेश्वरदर्शनं निष्फलं तु न। तस्य पुण्यफलं कालान्तरे भवान् निश्चयेन अनुभविष्यति” इति बोधितवान् जीवानन्दः।**

** कालान्तरे जीवानन्दस्य वचनं फलितम् अभवत्। प्रबोधः जीवानन्दतः सर्वाणि शास्त्राणि, वेदान्ततत्त्वं च सम्यक् अधीत्य कौमुदीराज्ये अद्वितीयः पण्डितः इति कीर्तिं सम्पादितवान्।**

** प्रबोधस्य पाण्डित्यं ज्ञात्वा सन्तुष्टः महाराजः तं राजगुरुपदव्यां नियोज्य योग्यैः पुरस्कारैःसत्कृतवान्।**

प्रतीकारः

पुरा पर्शियादेशं कबरिस्थानम् नाम राज्यं कश्चित् राजा परिपालयति स्म। तस्य राज्ञः मन्त्रिद्वयम् आसीत्। तयोः एकः महासचिवः. अन्यः उपसचिवः।

महासचिवस्य एका पुत्री आसीत्। सा अनुपमा सुन्दरी अपि। एकदा तां राजा दृष्ट्वा महासचिवम् आहूय उक्तवान् “सचिववर्य अहं भवतः पुत्रीं परिणेतुम् इच्छामि। अतः विवाहार्थं शुभमुहूर्तं ज्योतिषिकं पृच्छतु”।

एतत् श्रुत्वा महासचिवः क्षणकालं स्तम्भीभूतः तथापि स्थैर्यम् आपन्नः उक्तवान् “प्रभो ! मम पुत्री विद्यावती देवभक्ता च। अतः विवाहविषये तया सह चर्चा करणीया।

शीघ्रं गत्वा चर्चां करोतु। स्वविषये अनुकूलकरम् अदृष्टं शुत्वा सा आनन्दतुन्दिला भवति। शीघ्रातिशीघ्रम् एतां वार्तां विद्यावत्याः भवतः पुत्र्याः कृते निवेदयतु” इति सगर्वं राजा उक्तवान्।

महासचिवः एतं वृत्तान्तं पुत्र्याः कृते निवेदितवान्। वृत्तान्तं श्रुत्वा सा न सन्तुष्टा, प्रत्युत अतीव जुगुप्सया उक्तवती — “तात ! राज्ञा सह मम विवाहं सर्वथा न इच्छामि। तस्य अन्तःपुरस्थिताः स्त्रियः सर्वाः अपि दासीभूताः सन्ति। तथैव अहम् अपि कालं यापयितुं न इच्छामि।

महासचिवः राज्ञः कृते पुत्र्याः अभिप्रायं निवेदितवान्। अत्यन्तं कृद्धः राजा उच्चैः गर्जितवान् “बलात्कारेण वा भवतः पुत्र्या सह विवाहितः भवितुम् इच्छामि एव। राज्ञः मम अवरोधं कर्तुं कः शक्नोति?”

“इतः परं अपायः सन्निहितः एव। अतः राज्यान्तरगमनं वरम्” इति चिन्तयित्वा महासचिवः पुत्र्या सह अश्वम् आरुह्य धावितुं

** प्रवृत्तः। गुप्तचराणां द्वारा एतं वृत्तान्तं राजा ज्ञात्वा अङ्गरक्षकैः सह तयोः ग्रहाणार्थम् अश्वम् आरुह्य धावितवान्।**

** एकघण्टात्मकः कालः अतीतः। राजा महासचिवं तथा तस्य पुत्रीं गृहीतवान्। राजा निष्कणं महासचिवस्य शिरः खडगेन छिन्नवान्। तस्य पुत्रीं च बलात्कारेण स्वनगरं प्रत्यानीतवान्।**

** “अहो ! कियान् गर्वः! महाराजेन मया सह विवाहं निराकरोति !! इदानीं को वा भवतीं रक्षति” ? इति महासचिवस्य पुत्रीं राजा कोपेन पृष्टवान्।**

** “इदानीं स्वयं किमपि कर्तुं न शक्नोमि। सः परमात्मा एव मम गतिः” इति सा उक्तवती। परस्मिन् दिने एव- “तस्य राज्यस्य एकस्मिन् भागे प्रजाः राजानं विरुध्य राजधानीम् आक्रमितुं प्रस्थिताः सन्ति” इति वार्तां राजा श्रुतवान्। झटिति एव सेनया सह राजा तत् राजविरोधिकृत्यं समूलम् उत्पाटयितुं प्रस्थितवान्। महासचिवस्य पुत्री कारागृहात् पलायनं कुर्यात् इति, तस्याः रक्षणार्थम् उपसचिवं प्रस्थानसमये नियोजितवान्।**

** अन्तः पुरस्य प्रकोष्ठे बद्धां महासचिवस्य पुत्रीं उपसचिवः गवाक्षद्वारा दृष्ट्वा तस्याः सौन्दर्येण आकृष्टः। अतः विश्वासर्हां दासीम् एकां तस्याः समीपे प्रेषितवान्।**

** सा दासी गत्वा महासचिवस्य पुत्रीं प्रति उक्तवती— ‘अस्माकं स्वामी उपसचिवः भवत्याः विषये बहु आदरवान्। पार्श्वस्थे उद्याने उपसचिवेन विहारं कृत्वा भवती पुनः अत्र एव आगन्तुं शक्नोति। एतद्विषयं राजा तु सर्वथा न जानाति’।**

** एतत् श्रुत्वा महासचिवस्य पुत्री व्याकुलेन उक्तवती— ‘एतस्यां दुरवस्थायाम् उद्याने विहारं कर्तुं मम मनः प्रवर्तते वा ? मम प्रत्यक्षे एव मम पिता मारितः। अहम् अपि वलात्कारेण आनीता, अत्र बद्धा अस्मि। अतः उपसचिवं प्रति वदतु ‘इतः परम् एतादृशीं वार्तां मा श्रावयतु’ इति।**

** दासी प्रतिनिवृत्य सर्वं उपसचिवस्य कृते निवेदितवती। एतत् श्रुत्वा भीतः व्याकुलितः च सः चिन्तितवान्— ‘महासचिवस्य पुत्री एतं वृत्तान्तं यदि राज्ञे निवेदयति, तदा तस्याः पितुः गतिः एव मम अपि स्यात्’।**

** राजविरोधिकृत्यसमूलम् उन्मूल्य राजा प्रत्यागत्य उपसचिवं पृष्टवान्— ‘महासचिवस्य पुत्र्याः का वार्ता’? इति। उपसचिवःपूर्वम् एव मनसि चिन्तितं शीघ्रम् एव उक्तवान्—‘प्रभो! भवादृशस्य पत्नी भवितुं सा न अर्हा। भवान् इतः प्रस्थितवान्, ततः सा मम समीपे दासीद्वारा एतां वार्तां प्रेषितवती—‘अहं भवता सह देशान्तरं गन्तुम् इच्छामि। तत्र भवान् मां परिणीय मया सह सुखेन वसतु’ इति। एतत् श्रुत्वा ‘शान्तं पापम्’ इति असकृत् उक्त्वा दासीं च भर्त्सयित्वा प्रेषितवान्। श्रुत्वा देवः प्रमाणम्’।**

** ‘अरे दुष्टे! किं शिखाग्राहं गृहीत्वा शिरः छिन्नं करोमि ? अथवा किं प्राणैः सह गर्ते निखनामि ?” इति सकोपं साटोपं च राजा गर्जितवान्।**

** उपसचिवः किमपि वक्तुम् उद्युक्तः, किन्तु तत्रत्यः कश्चित् वृद्धः अग्रे आगत्य स्वाभिप्रायं राज्ञे निवेदितवान्— ‘प्रभो! एतादृशव्यक्तेः मरुभूमिरेव योग्या। अतः विशालमरुभूमौ एतस्याः परित्यागः एव उचितः। तत्र एतस्याः मरणं प्राणधारणं वा इति विधिः एव निर्णयं करिष्यति। एषा च मम विनम्रा सूचना’।**

** ‘मरुभूमौ एषा विसृज्यताम्’ इति राजा आज्ञापितवान्। भटाः तां नीत्वा निम्नोन्नतमरुभूमौ त्यक्त्वा प्रत्यागतवन्तः। सा बाहुद्वयम् अपि उद्धृत्य आकाशं पश्यन्ती देवं प्रार्थयितुम् एकत्र स्थितवती। तस्मिन् समये उष्ट्रान् नयमानः कश्चित् तां दृष्टवान्।**

** सः तां दृष्ट्वा समीपे आगत्य करुणया उक्तवान्—‘अम्ब! सद्यः मम गृहम् आगच्छतु। अनन्तरं सर्वं वृत्तान्तं निवेदयतु’।**

** सा कृतज्ञतां समर्प्य उक्तवती— ‘आर्य!**

अहम् अत्र एव वासं कर्तुम् इच्छामि। किन्तु भवान् कृपया पिपासानिवारणार्थं जलाशयं दर्शयतु। येन अहं बहु उपकृता भवामि।

** उष्ट्रवाहकः जलेन परिपूर्णं बृहज्जलाशयं तस्याः कृते दर्शितवान्। सा जलाशयस्य तीरे एव स्थितवती। सः उष्ट्रवाहकः समीपस्थ राज्यस्य सेवकः आसीत्। सः सेवकः युवराजस्य कृते महासचिवस्यपुत्र्याः विषयं निवेदितवान्।**

** युवराजः अनुक्षणम् एव प्रस्थाय तस्याः समीपे आगतवान्। अदृष्टपूर्वां सौन्दर्यनिधिं तादृशीं सुन्दरीं दृष्ट्वा युवराजः आश्चर्यचकितः अभवत्।**

** युवराजः स्वस्य परिचयं स्वयं कुर्वन् तां आमन्त्रितवान् — “भवति ! कृपया नगरम् आगत्य अस्माकम् आतिथ्यं स्वीकरोतु” इति।**

** सा तस्य आमन्त्रणं न स्वीकृतवती। ‘मरुभूमेः समीपे जलाशयस्य पार्श्वे एव अहं वसामि’ इति दृढनिश्चयेन उक्तवती च।**

** युवराजः नगरं प्रत्यागत्य निद्राम् अपि अकृत्वा चिन्तितवान्— “महासचिवस्य पुत्री एकाकिनी एव मरुभूमौ वसति। तत्र कदाचित् सा अपायम् अपि प्राप्नुयात्। अबला सा कथम् अपायम् निवारयेत्”?**

** अनन्तरदिने रात्रौ युवराजः तस्य सरोवरस्य समीपं गतवान्। तत्र वृक्षस्य अधः तूष्णीम् उपविष्टवान् च। प्रातःकाले महासचिवस्य पुत्री तं दृष्ट्वा आश्चर्येण उक्तवती— “युवराज ! भवान् राज्यपरिपालकः। नगरं त्यक्त्वा भवतः अत्र आगमनं न शोभते”**

** “भवत्या युक्तम् एव उक्तम्। किन्तु मया सह विवाहं यदि इच्छति, तर्हि प्रतिनिवृत्य गच्छामि” इति युवराजः प्रत्युत्तरं दत्तवान्। युवराजस्य वचनं श्रुत्वा अश्रुपरिपूर्णा सा गद्गदस्वरेण उक्तवती “माम् आरक्षितुम् एव मम पिता प्राणान् त्यक्तवान्। प्रमाणभूतः मम पिता यस्य राज्ञः अनन्यभावनया सेवां कृतवान्, सः एव राजा तं स्वहस्तेन एव हतवान्। अतः प्रतीकारं विना विवाहं मनसा अपि न चिन्तयामि”**

अनन्तरं च पूर्वं प्रवृत्तं सर्वं वृत्तान्तं सविस्तरं निवेदितवती।

** युवराजः शीघ्रम् एव नगरं प्रतिनिवृत्य सेनापतिम् आज्ञापितवान्— “भवान् महत्या सेनया सह कबरिस्थानम् आक्रामतु” इति। सः सेनापतिः कबरिस्थानम् आक्रम्य राजानम् उपसचिवं च जीवग्राहं गृहीत्वा युवराजस्य समीपे आनीतवान्।**

** युवराजः कबरिस्थानस्य राजानम् उपसचिवं च महासचिवस्य पुत्र्याः समीपे नीतवान्। “पूर्वं शिरश्छेदनतः मां यः रक्षितवान् तं वृद्धम् अपि कृपया आनाययतु” इति सा प्रार्थितवती। सैनिकाः तम् अन्विष्य सगौरवम् आनीतवन्तः।**

** अनन्तरं तैः सर्वैःसह युवराजः, महासचिवस्य पुत्री च नगरं प्रविष्टवन्तौ। तत्र महासचिवस्य पुत्र्याः अभिप्रायानुसारेण सभा आयोजिता। सभायां बहवः जनाः सम्मिलिताः। तस्यां सभायां सा उपसचिवं सकोपम् उक्तवती— “पूर्वं प्रवृत्तं सर्वं वृत्तान्तं यथार्थं वदतु” इति। सः उपसचिवः मरणभयेन उक्तवान्—“मम राज्ञे अहं भवत्याः विषये असत्यं निवेदितवान्। अतः एव एषः अनर्थः सम्पन्नः।”**

** युवराजः सैनिकान् आज्ञापितवान्– “एतं वराकं, मरुभूमौ त्यजतु” इति। अनन्तरम् “एषः राजा निरपराधिनः एव स्वमहासचिवस्य शिरश्छेदनं कृतवान्। अतः सापराधिनः एतस्य शिरश्छेदनं अत्यन्तं समुचितम्” इति निर्णयं कृत्वा युवराजः भटैः तस्य शिरः छेदितवान्। तस्मै वृद्धाय युवराजः धनं लघुराज्यं च दत्तवान्। लघुराज्यस्य राजा अपि सः वृद्धः एव इति उद्घोषितवान्।**

** प्रतीकारः कृतः। अतः महासचिवस्य पुत्र्याः मनः शान्तम् अभवत्। बहोः कालतः अनन्तरं स्मयमाना सा युवराजं दृष्टवती। विवाहसूचकः सः मन्दहासः आसीत्।**

बुद्धिमान् जामाता

पूर्वं वीरभद्रः नाम भूस्वामी आसीत्। विवाहानन्तरं बहुकालं यावत् तस्य सन्तानं न आसीत्। अन्ते दैवानुग्रहेण एका पुत्री उत्पन्ना। भूस्वामी तस्याः नाम ‘सुप्रिया’ इति निश्चित्य तां प्रीत्या लालितवान्। सुप्रिया कालानुगुणं योग्यं विद्याभ्यासं कुर्वती बुद्धिमती सञ्जाता। बाल्यात् आरभ्य अपि सा सर्वदा गूढं वदति। लघुविषयान् अपि सा व्याजोक्त्या गूढोक्त्या वा वदति। तस्याः अभिप्रायं ज्ञातुं मातापितरौ एव कदाचित् कष्टम् अनुभवतः।

पुत्री विशेषबुद्धिमती इति भूस्वामी सम्यक् जानाति सः एतेन बहु सन्तुष्टः अपि। किन्तु पुत्र्याः गूढोक्तिं श्रुत्वा सः खिन्नः भवति, कुपितः भवति, चिन्ताकुलः भवति च।

सुप्रिया प्राप्तवयस्का जाता। योग्यं वरम् अन्वेष्टुं भूस्वामी प्रयत्नम् आरब्धवान्। धनिककुले जाताः बहवः युवकाः तेन दृष्टाः। किन्तु तेषु बहवः दुर्व्यसेनवशीकृताः। द्वित्राः वरपितरः स्वयं भूस्वामिनः गृहम् आगतवन्तः। किन्तु ‘धनाशया एते अत्र आगताः’ इति चिन्तयित्वा सुप्रिया तेषां विवाहप्रस्तावं निराकृतवती।

अन्ते वरान्वेषणे श्रान्तः भूस्वामी पुत्रीम् उक्तवान्—“भवती कीदृशं परिणेतुम् इच्छति इत्येव अहं न ज्ञातवान्” इति।

“तात ! प्रामाणिकं विवेकशीलं बुद्धिमन्तं युवकम् अहं परिणेतुम् इच्छामि” इति उक्तवती सुप्रिया।

“भवत्याः इच्छा मम अपि अनुमता एव। किन्तु यः परिणेतुम् इच्छन् आगच्छति तस्मिन् भवत्या सूचिताः गुणाः सन्ति वा न वा इति कथं जानीमः ?” इति पृष्टवान् भूस्वामी।

“तत्र कः क्लेशः? यः परिणयेच्छया

आगच्छति तम् अहं कांश्चन प्रश्नान् गूढोक्त्या पृच्छामि। यः तेषां वचनानाम् अर्थ सम्यक् ज्ञातुं शक्नोति सः एव योग्यः वरः इति ज्ञातुं शक्यते” इति उक्तवती सुप्रिया।

** एवं स्थिते कदाचित् सुबुद्धिः नाम युवकः वीरभद्रस्य गृहम् आगतवान्। वस्तुतः सुबुद्धिः अपि भूस्वामिनः पुत्रः एव। किन्तु दौर्भाग्यवशात् इदानीं सः दीनावस्थायाम् अस्ति। वीरभद्रस्य कार्यालये किमपि कार्यं लभ्येत इति आशया सः आगतवान् अस्ति। तस्य रूपं वाग्व्यवहारं च दृष्ट्वा सन्तुष्टः भूस्वामी तं स्वसाहाय्यकत्वेन नियोजितवान्।**

** सुप्रिया आरम्भतः अपि सुबुद्धेः व्यवहारं सुसूक्ष्मं परिशीलयन्ती आसीत्।**

** वीरभद्रस्य कार्यालये भूसम्बन्धिनः आयव्ययस्य गणनां लेखितुं सुकेतुः नाम कश्चित् नियुक्तः आसीत्। सः गणनायां वञ्चयन् धनम् अपहरति स्म। एतं विषयं भूस्वामी जानाति, सुप्रिया अपि जानाति। किन्तु प्रमाणीकर्तुं तयोः समीपे कोऽपि आधारः न आसीत्। अतः उभौ अपि तूष्णीं स्थितवन्तौ।**

** एकदा भूस्वामी सुबुद्धिना सह पार्श्वग्रामं प्रति प्रस्थितवान्। तं ग्रामं गन्तुं मार्गः समीचीनः नास्ति इत्यतः तौ पादाभ्याम् एव प्रस्थितवन्तौ। प्रयाणार्थम् उद्युक्तौ एतौ उद्दिश्य “चिरप्रयाणिकौ इव मार्गः भाराय यथा न स्यात् तथा गच्छन्तौ पात्रे स्थितं स्वीकुरुताम्” इति वदन्ती सुप्रिया पाथेयं दत्तवती। सुबुद्धिः तं स्वीकृतवान्।**

** “प्रस्थानसमये पाथेयं यत् दत्तवती तत् उचितम् एव। किन्तु तत्सन्दर्भे सा असम्बद्धं यत् उक्तवती तस्य अर्थं न ज्ञातवान् एव अहम्” इति वदन् सोपानानि अवतीर्णवान् भूस्वामी।**

** तदा सुबुद्धिः उक्तवान्—“भवतः पुत्री असम्बद्धं किमपि न प्रलपितवती। चिरप्रयाणिको नाम सूर्यः चन्द्रः च। ‘मार्गः भाराय यथा न भवेत् तथा गन्तव्यम्’ इत्यस्य अर्थः सम्भाषणपूर्वकम् आयासः यथा न**

ज्ञायेत तथा गन्तव्यम्’ इति। एवं तया आवयोः हितम् एव उक्तम्” इति। एतत् वचनं श्रुत्वा सुप्रिया मन्दहासं प्रकटितवती। भूस्वामी अपि आश्चर्येण शिरः चालितवान्।

** अन्यस्मिन् दिने व्याधानां वसतिप्रदेशतः मधु, कस्तूरिद्रव्यम् इत्यादिकम् आनेतुं सुबुद्धिः अरण्यं प्रति प्रस्थितवान्।**

** अरण्यं गन्तुम् उद्युक्तस्य सुबुद्धेः हस्ते एकं लवित्रं दत्त्वा “एकाकी गच्छति किल? एतस्य लवित्रस्य साहाय्येन एकम् अश्वं निर्माय जागरूकतया गत्वा आगच्छतु” इति उक्तवती सुप्रिया।**

** पुत्र्याः वचनं श्रुत्वा भूस्वामी—किं वदति भवती ! सः पर्वतमार्गेण गच्छति। सः मार्गः अतीव सङ्कीर्णः कण्टकाकीर्णः च। तत्र पादाभ्यां गमनम् एव दुष्करम्। कथम् अश्वम् आरुह्य गच्छेत् ? अन्यच्च अश्वस्य लवित्रस्य च कः सम्बन्धः?” इति पृष्टवान्।**

सुप्रिया सुबुद्धेः मुखं दृष्टवती। तदा सुबुद्धिः उक्तवान्— “एतस्य अर्थःएतेन लवित्रेण वृक्षस्य दृढां शाखां कर्तयित्वा दण्डम् एकं निर्मातु। तेन गमने सौलभ्यं सिध्यति। एतादृशप्रयाणेषु दण्डः एव अश्वः इव साहाय्यकः भवति” इति।

** पुनः कदाचित् भूस्वामिनः लिपिकारः सुकेतुः स्वभगिन्याः विवाहं महता वैभवेन कारितवान्। विवाहार्थं सुप्रियायाः भूस्वामिनः च विशेषामन्त्रणम् आसीत्। ग्रामीणानां कृते भूरिभोजनं व्यवस्थापितम् आसीत्।**

** तदा सुप्रिया सुकेतुं पृष्टवती “भगिन्याः विवाहार्थं महान् व्ययः कृतः दृश्यते। एवं तर्हि गृहस्य आधारभूमिः दृढा वा ?" इति।**

** “मातः ! मम तु गृहं कुटीरः इव अस्ति। तृणैः आच्छादितं तत्। एतादृशस्य गृहस्य आधारभूमिः कथं वा दृढा स्यात् ?” इति उत्तरितवान् सुकेतुः।**

** तत्समये सुबुद्धिः तत्र न आसीत्। सुप्रिया पितरम् उक्तवती— “तात ! अहं तदीयाम् आर्थिकपरिस्थितिं पृष्टवती। एषः निश्चयेन वञ्चकः इति प्रमाणीकरिष्यामि।**

एतदर्थं कञ्चन उपायम् आयोजयिष्यामि” इति।

** एकसप्ताहानन्तरं धान्यसङ्ग्रहणकार्यम् आरब्धम्। ‘कार्यं कथं प्रचलति?" इति ज्ञातुं भूस्वामी सुबुद्धिः च केदारं प्रति गतवन्तौ। मध्याह्ने भोजनसमये सुप्रिया सुकेतुम् आहूतवती। तस्य हस्ते पाथेयपात्रं यच्छन्ती उक्तवती च— “भोः ! अट्टे पूर्णचन्द्रः अस्ति। अन्तरट्टे षट् बदरफलानि सन्ति। ग्रामे इदानीं चौरेभ्यः भीतिः अस्ति। यदि सर्वदिक्षु जागरूकतया परीक्ष्येत तर्हि चोरस्य ग्रहणं सुलभेत भवेत्। एतं वचनं सुबुद्धिं निवेदयतु” इति।**

** भोजनपात्रं स्वीकृत्य प्रस्थितस्य सुकेतोः मनसि मार्गे कश्चन संशयः उत्पन्नः। “सुप्रिया सुबुद्धयोः मैत्री दिने दिने वर्धमाना दृश्यते। यदि एतयोः विवाहः भवेत् तर्हि न तत्र आश्चर्यम्। सुप्रिया सुबुद्धिनिमित्तं विशेषभक्ष्यादिकं निर्माय मद्द्वारा प्रेषयन्ती अस्ति। ‘अहं तत् जानीयाम्’ इति दृष्टया श्लेषेण किमपि उक्तवती। अत्र तु कोऽपि नास्ति। अन्तः किम् अस्ति इति मया किमर्थं वा न परीक्षणीयम् ?" इति चिन्तितवान् सः।**

** अतः सः मार्गतः किञ्चिद्दूरं गत्वा रहसि पाथेयपात्रम् उद्घाटितवान्। पदार्थानां गन्धेन तस्य मुखे लाला उत्पन्ना। अतः सः त्वरया भोजनपदार्थान् किञ्चित् किञ्चित् स्वीकृत्य रुचिम् आस्वादितवान्। पुनः यथापूर्वं पात्राणि बद्ध्वा केदारं गतवान्। सुबुद्धेः हस्ते पाथेयम् अर्पितवान्।**

** सुबुद्धिः पात्राणि एकैकशः उद्घाटितवान्। तत्सन्दर्भे सुकेतुः सुप्रियया उक्तानि वाक्यानि सुबुद्धिम् उक्तवान्। भूस्वामी तेषां वाक्यानाम् अर्थं न ज्ञातवान् एव।**

** सुबुद्धिः तु सर्वाणि पात्राणि परीक्ष्य “भोः ‘भवतः चौर्यबुद्धिः परीक्षणीया’ इति सा गूढोक्त्या मां सूचितवती आसीत्। भवतः चौर्यबुद्धिः प्रमाणिता अभवत्। भवान् मार्गे सर्वेषां भोजनपदार्थानां रुचिं दृष्टवान् किल?**

एवम् एव गणनालेखनसमये अपि चौर्यबुद्धिः प्रदर्शिता स्यात् एव। सत्यं वदतु" इति सुकेतुं वदन् कोपं प्रदर्शयन् तीक्ष्णदृष्टया दृष्टवान्।

** सुकेतुः तु किङ्कर्तव्यतामूढः सन् मौनं स्थितवान्। तदा सुबुद्धिः एव पुनः उक्तवान्— “अट्टे पूर्णचन्द्रः अस्ति इत्यस्य अर्थः - उपरितने पात्रे कौमुदीसदृशं श्वेतवर्णकं दधि अस्ति इति। अधस्तन पात्रे षट् बदरफलाकाराः अपूपाः सन्ति इति सा सूचितवती। सर्वेषां पात्राणां परीक्षणेन चौर्यं ज्ञायते इत्यपि सा गूढोक्त्या सूचितवती" इति।**

** सुकेतोः भीतिपूर्णं मुखं, कम्पमानं शरीरं च दृष्ट्वा भूस्वामी निश्चितवान्— ‘सुकेतुः निश्चयेन चोरः’ इति।**

** अतः सः कोपेन गर्जितवान्— “आगच्छतु, भटप्रमुखस्य समीपं गच्छामः। सः एव भवतः मुखात् सत्यं वाचयति" इति।**

** भटप्रमुखस्य नामश्रवणेन एव सः भीतः। अतः भूस्वामिनः पादयोः पतित्वा अश्रूणि मोचयन्— ‘श्रीमन् ! अविवेकिनः मम अपराधः क्षन्तव्यः। असमीचीनां गणनां लिखन् भवतः धनम् अपहृतवान् इति तु सत्यम् एव। तद्धने एतावता एव किञ्चित् व्ययितम्। अवशिष्टं प्रत्यर्पयामि। मां क्षाम्यतु" इति दीनतया प्रार्थितवान्।**

** दयालुः भूस्वामी “अस्तु, इतः परं कदापि एवं न करोतु" इति उक्त्वा तं प्रेषितवान्।**

** अनन्तरं गृहं प्रत्यागतः भूस्वामी पुत्रीं प्रवृत्तं सर्वंनिवेद्य उक्तवान् —“पुत्रि ! सुबुद्धिविषये भवत्याः अभिप्रायः कः ? अहं तु चिन्तयामि सः बुद्धिमान् प्रामाणिकः अपि" इति।**

** “मम अपि अभिप्रायः तथैव अस्ति। एषः भवतः जामाता भवितुं सर्वथा अर्हः" इति सन्तोषेण उक्तवती सुप्रिया।**

** पुत्र्याः वचनेन सन्तुष्टः भूस्वामी मन्दहासं प्रकटितवान्। अनन्तरम् एकमासाभ्यन्तरे सुप्रिया-सुबुद्धयोः विवाहः सवैभवं सम्पन्नः।**

ब्रह्मराक्षसः

** वीरपुरग्रामे मनोहरः नाम निर्धनः कृषिकः आसीत्। तस्य पत्नी कमला। बहुकालानन्तरं तयोः दम्पत्योः एकः पुत्रः जातः। तौ पुत्रस्य नाम सुदर्शनः इति निश्चितवन्तौ।**

** यदा सः किञ्चित् प्रवृद्धः तदा विद्यायां विशेषासक्तिं प्रदर्शितवान्। सुदर्शने मातापित्रोः अपरिमिता प्रीतिः। पुत्रस्य आसक्त्यनुगुणं तौ तं ग्रामपण्डितस्य रामाचार्यस्य गुरुकुलं प्रति प्रेषितवन्तौ।**

** सुदर्शनः श्रद्धया विद्याभ्यासं कुर्वन् गुरुः यावत् जानाति तावत् पठितवान्। रामाचार्यस्य कवितारचनायां सामान्यं सामार्थ्यम् आसीत्। एतत् अनुकुर्वन् सुदर्शनः अपि कविताः रचयितुम् आरब्धवान्।**

** यदा गुरुकुलविद्या समाप्ता तदा रामाचार्यः सुदर्शनेन सह तदीयं गृहं गत्वा तदीयौ मातापितरौ उक्तवान्— एषः प्रयत्नेन महाकविः भवितुम् अर्हति। किन्तु तेन कः लाभः? जीवननिर्वहणे महान् क्लेशः। अन्यच्च अस्माकं देशस्य राजा अपि कविषु आदरवान् न। अतः एतं कृषिकार्ये एव नियोजयन्तु" इति।**

** किन्तु सुदर्शनः कृषिकार्ये सर्वथा अनासक्तः। सः मन्दस्वरेण किमपि गायन् प्रकृतिसौन्दर्यम् आस्वादयन् कुत्रापि उपविशति।**

** पुत्रस्य मनःक्लेशम् उत्पादयितुम् अनिच्छन् मनोहरः पत्नीम् उक्तवान्— ‘तस्य यत्र आसक्तिः तं मार्गम् अनुसरतु सः। भाविजीवने सः सम्पादनेन विना अपि सुखं जीवितुं यथा शक्नुयात् तथा वयं यथेष्टं धनं सम्पाद्य स्थापयेम" इति।**

** किन्तु दौर्भाग्यं किमिति वदेम, एकदा कृषिक्षेत्रे कार्यं कुर्वन् मनोहरः सर्पेण दष्टः**

तत्रैव मरणं गतवान्। पत्युः मरणवार्तां श्रुत्वा मूर्च्छा गता पतिता कमला अपि न उत्थितवती।

** मातापितृभ्यां विहीनं सुदर्शनं बान्धवाः कानिचन दिनानि स्वगृहं नीतवन्तः। किन्तु वञ्चनापूर्णां गणनां प्रदर्शयन्तः तदीयाम् अल्पाम् अपि भूमिं स्वायत्तीकृतवन्तः।**

** सुदर्शनः बन्धूनां निर्दाक्षिण्यव्यवहारात्खिन्नः कमपि अनुक्त्वा तद्दिने एव मौनं ततः निर्गतवान्। कुत्र गन्तव्यम् इति सः स्वयं न जानाति। अतः एकं मार्गम् अनुसृतवान्। वनमार्गेण गच्छन् सः बुभुक्षितः पिपासितः च अभवत्। श्रान्तिनिवारणार्थं सः कस्यचित् वृक्षस्य छायायाम् उपविष्टवान्। तत्रत्यं प्राकृतिकं सौन्दर्यं दृष्टवतः तस्य मुखात् अप्रयत्नेन एव कश्चन सुन्दरः श्लोकः निर्गतः।**

** यस्य वृक्षस्य अधः सुदर्शनः उपविष्टवान् तस्मिन् वृक्षे बहोः कालतः कश्चन ब्रह्मराक्षसः निवसति। सः कविताप्रियः।**

** सुदर्शनस्य मुखात् निर्गतं श्लोकं श्रुत्वा ब्रह्मराक्षसः वृक्षात् अवतीर्य सुदर्शनम् उक्तवान्— “भोः ! बहोः कालात् अनन्तरं सुन्दरं काव्यं शृण्वन् अस्मि। भवान् अद्य आरभ्य प्रतिदिनं मह्यं रमणीयं काव्यं श्रावयतु। प्रतिफलरूपेण भवान् यत् इच्छति तत् ददामि” इति।**

** सुदर्शनः ब्रह्मराक्षसस्य प्रस्तावम् अङ्गीकृतवान्।**

** कानिचन दिनानि एवम् एव अतीतानि।**

‘अहम् अरण्ये ब्रह्मराक्षसस्य समीपे अस्मि’ इत्यपि विस्मृतवान् सुदर्शनः । एवं स्थिते एकदा ब्रहमराक्षसः उक्तवान् — ‘अद्यपर्यन्तं भवान् विविधविषयकान् श्लोकान् श्रावितवान् । प्रतिफलरूपेण अहं भवतः सेवां कृतवान् । अद्य भवता माम् अधिकृत्य श्लोकः रचनीयः" इति ।

** “अहं यां प्रकृतिम् अद्यावधि वर्णितवान् सा कदापि स्वविषये श्लोकं रचयितुं मां न आदिष्टवती। यथा प्रेरणा भवति, यच्च मह्यं रोचते तदधिकृत्य अहं पद्यं रचयामि । आदेशेन बलात्कारेण वा अहं पद्यं न रचयामि” इति उक्तवान् सुदर्शनः ।**

** ‘भवता मद्विषये पद्यं रचनीयम् एव । अन्यथा एतस्मात् अरण्यतः भवतः बहिर्गमनं न भविष्यति" इति कोपेन उक्तवान् राक्षसः ।**

** ‘भवतः क्रोधः तर्जनं वा मयि काव्यप्रेरणां न जनयति । इतः परं भवतः इच्छा। भवान् यथा इच्छति तथा कर्तुम् अर्हति" इति शान्तस्वरेण एव उक्तवान् सुदर्शनः ।**

** तद्दिनतः ब्रह्मराक्षसः सुदर्शनाय तथापि सः भोजनदानं स्थगितवान् । तथापि सः ब्रह्मराक्षसविषये पद्यं न लिखितवान् । कुपितः राक्षसः तम् उपरि क्षिपन् कन्दुकेन इव क्रीडति ।**

** अन्ते नितरां क्रुद्धः ब्रह्मराक्षसः सुदर्शनस्य पादौ गृहीत्वा परितः भ्रामयन् वेगेन सुदूरं क्षिप्तवान्। भूमौ कुत्रापि सुदर्शनः यदि पतेत् तर्हि तस्य प्राणाः निर्गताः अभविष्यन् । दैवयोगः इत्येव वक्तव्यं, सः हंसतूलिकातल्पे पतितवान्, येन अल्पः व्रणः अपि तस्य न जातः ।**

** अकस्मात् आगत्य शय्यायां पतितं सुदर्शनं दृष्ट्वा राजा चकितः सन् पृष्टवान् — “कः भवान् ? कथम् अत्र आगतवान् ?” इति ।**

** सुदर्शनः प्रवृत्तं सर्वं निवेदितवान् । एतादृशी घटना कुत्रापि विश्वासयोग्या न, तथापि स्वयं दृष्टम् इत्यतः राजा अङ्गीकृतवान्। सम्भाषणसमये सुदर्शनः द्वित्राणि पद्यानि श्रावितवान् । एषः किञ्चित्कालं तिष्ठतु इति आलोच्य उक्तवान्— “भवान् कानिचिन दिनानि मम आस्थाने तिष्ठतु” इति । सुदर्शनः अङ्गीकार**

सूचितवान्।

** सुदर्शनस्य कवितां श्रुत्वा राजस्थाने स्थिताः सर्वेऽपि सन्तोषम् अनुभूतवन्तः। तेन रचितानि गीतानि जनानां मुखेषु विलसन्ति। जनाः प्रतिदिनम् अपि तस्य स्तुतिं कुर्वन्ति।**

** एकस्मिन् दिने राज्ञी महाराजम् उक्तवती— “स्वामिन्! कविः स्वकविताशक्त्या अतीव साधारणम् अपि विषयं श्रेष्ठतापदवीम् आरोपयितुं शक्नोति। सः यं कमपि जनप्रियं लोकश्रेष्ठं च कर्तुम् अर्हति। अतः भवान् राजकविं सुदर्शनम् आज्ञापयतु यत् सः मां नायिकां परिकल्प्य, भवन्तं च नायकं परिकल्प्य अत्युत्कृष्टं काव्यं रचयतु” इति।**

** एतत् वचनं राज्ञः अपि प्रियं जातम्। अतः सः राजकविसुदर्शनं स्वसमीपम् आहूय स्वकीयं विचारम् उक्त्वा काव्यं रचयितुम् आदिष्टवान्।**

** तदा सुदर्शनः विनयेन उक्तवान्— “प्रभो! क्षाम्यतु माम्। यत् सौन्दर्यं मम मनः न आकर्षति, तादृशं सौन्दर्यं मां काव्यरचनार्थं प्रेरयितुम् न अर्हति। कस्यापि अनुरोधेन आदेशेन वा अहं काव्यं रचयितुं न शक्नोमि। काव्यं तु अन्तरालात् उद्भवति खलु?” इति।**

** “एतद्विषये पुनः विचिन्त्य सप्ताहाभ्यन्तरे निर्णयं वदतु” इति उक्त्वा राजा सुदर्शनकविं प्रेपितवान्। सप्ताहानन्तरम् अपि सुदर्शनः पूर्वतनम् एव अभिप्रायं पुनः प्रकटितवान्। तदा क्रुद्धः राजा तं कारागारे स्थापितवान्।**

** एकं वर्षम् अतीतम्। कदाचित् राजा कविं**

सुदर्शनं दृष्ट्वा पृष्टवान्— “कथम् अस्ति कारागारवसतिमुखम्?" इति।

** तदा सुदर्शनः उक्तवान् “प्रभो! अत्रापि अहं सुखेन अस्मि। एकाकिता मां भगवतः विषये प्रेरितवती। अतः अहं तस्य महिमातिशयस्य वर्णनपूर्वकं पद्यानि रचयन् सन्तोषेण अस्मि। अत्र न कोऽपि क्लेशः मम” इति।**

** “दर्शनातीतं भगवन्तं स्तुवन् भवान् काव्यं रचयति किल? प्रत्यक्षदैवतं माम् उद्दिश्य कुतः वा काव्यं न रचयति? भवान् यत् इच्छति तत् अहं दातुं समर्थः अस्मि” इति।**

** तदा कविः सुदर्शनः एकाम् आशुकवितां रचयित्वा उक्तवान्। तस्य भावः एवम् आसीत् – “अहं चिन्तितवान् आसं यत् अदृष्टदेवता मां ब्रह्मराक्षसतः रक्षितवती इति। किन्तु वस्तुतः तु सा माम् अपरस्य ब्रहमराक्षसस्य समीपं प्रापितवती। एषा वस्तुस्थितिः मया विलम्बेन ज्ञाता। ब्रह्मराक्षसाः स्वदर्पेण कवीन् पीडयितुंं शक्नुयुः। किन्तु कदापि कवौ कविताप्रेरणां जनयितुं न शक्नुवन्ति इति।**

** सुदर्शनस्य कवितां श्रुतवति महाराजे विवेकः उत्पन्नः। सः ज्ञातवान् न मानवकुले जातस्य अपि मम, ब्रह्मराक्षसस्य च मध्ये कोऽपि भेदः नास्ति इति। अतः सः सुदर्शनं कारागारतः विमोचयन् उक्तवान् “कविवर! इतः परं भवान् अन्तःप्रेरणानुगुणकाव्यानि रचयन् मम आस्थाने स्थातुम् अर्हति। भवन्तं कोऽपि न निर्वध्नाति” इति।**

** एतदनन्तरं राजा राज्ञी च कवीनां विषये विशेषादरं प्रकटयितुम् आरब्धवन्तौ। अल्पे एव काले तौ काव्यकलामर्मज्ञौ जातौ। तयोः जीवने महत् परिवर्तनं जातम्।**

** इदानीं तयोः गणातिशयेन आकृष्टः सुदर्शनः राज्ञी नायिकां, राजानं नायकं च परिकल्प्य एकम् उत्तमं काव्यं रचितवान्।**

** एवं राजा स्वगुणैः कविम् आकृष्य कवितारचनायां तं प्रेरितवान्। सुदर्शनः अपि तं स्वकाव्ये उदात्ततया एव वर्णितवान्।**

भयग्रस्तः

** एकः ग्रामः। तत्र रामः इति एकः युवकः आसीत्। सः बाल्यतः एव अतीव भीरुः। इदानीं सः षोडशवर्षीयः। तथापि तस्य भीरुस्वभावः न अपगतः। सः सर्वदा किमपि किमपि चिन्तयन् भयम् अनुभवति स्म। एषः एव तस्य अभ्यासः जातः। तस्य पित्रार्जिता सम्पत्तिः किञ्चित् आसीत्। किन्तु तस्य न पिता आसीत्, न वा माता। सः अनाथः।**

** एवं भयपीडितः सः एकदा ग्रामात् बहिः विद्यमानस्य तटाकस्य तीरे उपविष्टः आसीत्। तदा एकः चोरः भूस्वामिनः चतुर्वर्षीयं पुत्रम् अपहृत्य तत्र शीघ्रं शीघ्रं गच्छति स्म। रुदन्तं बालं ताडयन् सः बलात्कारेण तं नयति स्म।**

** भयग्रस्तः चेदपि रामः दृढः बलवान् च आसीत्। सः धावन् गत्वा चोरं गृहीतवान्, तथा तस्य मस्तकं नमयित्वा सम्यक् ताडितवान्। रामस्य शरीरशक्तिं दृष्ट्वा भीतः चोरः बालं तथैव त्यक्त्वा शीघ्रं पलायितवान्।**

** रामः बालं गृहीत्वा भूस्वामिनः समीपं गतवान्, तथा सर्वंवृत्तान्तं निवेदितवान्।**

** तावत्पर्यन्तं स्वपुत्रस्य अपहरणविषयं भूस्वामी न जानाति स्म। बालः कुत्रचित् क्रीडन् अस्ति इति सः भावयन् आसीत्। अतः सः रामस्य विषये सन्तुष्टः जातः। स्वभृत्यान् किञ्चित् निन्दित्वा, रामाय एकं सुवर्णनाणकं बहुमानरूपेण दत्तवान्।**

** तेन नाणकेन किं करणीयम् इति रामस्य मनसि समस्या उत्पन्ना। किञ्चित्कालपर्यन्तं किमपि चिन्तयित्वा, अनन्तरं सः तटाकस्य तीरे एकत्र खनित्वा तत्र नाणकं स्थापितवान्। तस्य उपरि अभिज्ञानार्थम् एकं सस्यं आरोपितवान्।**

** कानिचन दिनानि अतीतानि। अनन्तरं**

तस्य देशस्य महाराजः देशसञ्चारं कुर्वन् रामस्य ग्रामं समागतवान्। ग्रामाधिकारी महाराजस्य सेवां कर्तुं रामं नियोजितवान् रामस्य श्रद्धापूर्वकसेवया महाराजः सुप्रीतः अभवत्। रामस्य सर्वकार्याणि अपि तस्य प्रियाणि जातानि।

** महाराजः रामं दृष्ट्वा “भवतः सेवया प्रीतः अस्मि। भवान् यत् इच्छति तत् पृच्छतु, ददामि” इति उक्तवान्।**

** रामः विनयेन “महाप्रभो, अहं किमपि न जानामि। मम मनः सर्वदा कयाचित् चिन्तया भयग्रस्तम् एव भवति। यथा अन्यजनाः सन्तोषेण कालं यापयन्ति तथा कालं यापयितुम् अहं न समर्थः। तादृशसन्तोषप्राप्त्यर्थं किं करणीयम् इति वदतु। अन्यत् किमपि अहं न इच्छामि" इति उक्तवान्।**

** “अल्पविषयान् अपि ये बृहद्रूपेण चिन्तयन्ति ते एवमेव क्लेशम् अनुभवन्ति। तथा भयग्रस्ताः भवन्ति। अस्मिन् प्रपञ्चे सर्वेषु प्राणिषु मनुष्यजन्म अत्युत्तमम्। तादृशेन मनुष्येण सर्वदा आनन्देन एव कालः यापनीयः। अतः भवता अपि न चिन्तयितव्यम्" इति राजा उक्तवान्।**

** रामः किञ्चित् चिन्तयित्वा पुनः ‘प्रभो, एकः लघुविषयः अस्ति। अस्माकं ग्रामे सर्वे तदा तदा ग्रामान्तरं गत्वा आगच्छन्ति। किन्तु मां न कोऽपि आह्वयति। सर्वदा अत्रैव स्थित्वा कालं यापयामि। एतत् एव मम सन्तोषराहित्यस्य कारणं स्यात् इति मम संशयः" इति उक्तवान्।**

** तस्य वचनं श्रुत्वा तद्विषये महाराजस्य अनुकम्पः जातः। सः वात्सल्यपूर्णस्वरेण “अस्तु, इतः परं भयस्य अवसरः नास्ति। भवान् अनाथः इति न चिन्तयतु। अहम् एव भवतः बन्धुः इति भाषयतु। इदानीं भवन्तं राजधानीं नयामि। तत्र भवान् यथेच्छं विहरतु। तत्र विद्यमानानि चित्रविचित्राणि दृष्ट्वा आनन्दम् अनुभवतु। तत्र एव स्थातुम् इच्छति चेत्, तिष्ठतु। नो चेत् पुनः भवन्तं ग्रामं प्रेषयामि" इति उक्तवान्। महाराजस्य वचनानि श्रुत्वा रामस्य महान् उत्साहः सञ्जातः। महाराजेन सह राजधानीं गत्वा किञ्चित्कालं तत्र स्थित्वा सन्तोषः प्राप्तव्यः इति सः आलो**

चितवान्।

** तदा सहसा तस्य सुवर्णनाणकस्य स्मरणम् अभवत्। राजधान्यां तस्य आवश्यकता भवेत् इति चिन्तयित्वा, ग्रामात् बहिः तटाकस्य तीरे गुप्तरूपेण निक्षिप्तं सुवर्णनाणकम् आनेतुं तत्र गतवान्।**

** किन्तु तत्र अभिज्ञानार्थम् आरोपितं सस्यं न दृष्टम्। केनापि पशुना तत् खादितुम् आसीत्। अतः सुवर्णनाणकस्य स्थानं ज्ञातुं सः असमर्थः जातः। सः बहुत्र खनित्वा अन्विष्टवान्। किन्तु कुत्रापि सुवर्णनाणकं न लब्धम्। तदा सः अतीव दुःखितः अभवत्।**

** तावत्पर्यन्तं सः उत्साहपूर्णः आसीत्। किन्तु इदानीं पुनः भयेन एव निर्मितः विग्रहः इव जातः। तस्य कान्तिहीनं मुखं दृष्ट्वा महाराजः “किं भोः, ग्रामं त्यक्त्वा गन्तुं दुःखं भवति वा ?" इति पृष्टवान्।**

** “तथा किमपि न प्रभो। मया किञ्चित् धनं सगृहीतम् आसीत्। तत्सर्वं तटाकस्य तीरे निक्षिप्तम्। इदानीं राजधानीगमनसमये तदपि नेतव्यम् इति चिन्तयित्वा तदर्थम् अन्विष्टवान्। किन्तु न लब्धम्। सा एव चिन्ता" इति रामः उक्तवान्।**

** “धनार्थं चिन्ता मास्तु। भवान् यावत् धनं इच्छति तावत् अहम् एव ददामि" इति महाराजः उक्तवान्।**

** “भवतः अनुग्रहेण सन्तोषः एव भवति। किन्तु परिश्रमेण सम्पादितं धनं नष्टम्। तस्य**

धनस्य प्राप्ति विना मम चिन्ता न परिहृता भवति महाप्रभो" इति उक्तवान् रामः।

** तस्य वचनं श्रुत्वा आश्चर्यचकितः महाराजः “धनार्थं भवान् एतावत् दुःखम् अनुभवति ! भवता तत्र कियत् धनं निक्षिप्तम् आसीत् ?” इति पृष्टवान्।**

** एकमेव सुवर्णनाणकम् इति वक्तुं प्रवृत्तः रामः तथा न उक्त्वा तूष्णीम् अभवत्। “तथा वदामि चेत्, अल्पस्य कृते एतावती चिन्ता वा इति महाराजः परिहासं कुर्यात्। तदपेक्षया अधिकं धनं नष्टम् इत्येव वक्तव्यम्” इति चिन्तयित्वा रामः ‘महाप्रभो, शतं सुवर्णनाणकानि" इति उक्तवान्।**

** महाराजः दयया ‘भवतु। चिन्ता मास्तु। भूम्याः अधोभागे सुवर्णं यत्र कुत्रापि अस्तु। तस्य स्थानं ज्ञातुम् अहं समर्थः अस्मि। वयं सायङ्काले तटाकस्य तीरं गच्छामः" इति उक्तवान्। महाराजस्य वचनं श्रुत्वा रामः आनन्दितः जातः।**

** अनन्तरं राजा तटाकस्य तीरे एकत्र शतसुवर्णनाणकाणि गुप्तरूपेण स्थापयित्वा आगच्छतु इति सूचयित्वा एकं भृत्यं प्रेषितवान्।**

** सायङ्काले महाराजः रामेण सह तटाकसमीपं गतवान्। अनन्तरं तीरप्रदेशे तत्र तत्र अन्वेषणस्य नटनं कृत्वा, अन्ते एकं स्थानं प्रदर्श्य ‘अत्र खनतु’ इति उक्तवान्। रामः तथैव कृतवान्। तत्र शतसुवर्णनाणकानि आसन्।**

** “गणनां करोतु भोः" इति महाराजः उक्तवान्।**

** शतसुवर्णनाणकानि दृष्ट्वा रामः पूर्वापेक्षया अपि अधिकतया भयग्रस्तः जातः। तं दृष्ट्वा महाराजः आश्चर्येण ‘किमिदं भोः ! धनं प्राप्य भवतः सन्तोषः न भवति वा ? पुनः किमर्थम् एतत् भयम्?" इति पृष्टवान्।**

** रामः महाराजस्य पादयोः उपरि पतित्वा तं नमस्कृत्य “क्षम्यताम् महाप्रभो, एतत् धनं मम न। अल्पस्य कृते एतावती चिन्ता वा इति भवान् परिहासं कुर्यात् इति भयेन अहम् असत्यम् उक्तवान्। मया केवलम् एकमेव नाणकं निक्षिप्तम् आसीत्" इति उक्तवान्।**

** “एवं वा? अस्तु। यस्य कस्यापि वा**

भवतु। इदानीं भवान् लब्धवान् खलु? महाराजः अहं वदामि। भवतः एव" इति उक्तवान् महाराजः।

** “एतत् धनम् अहं न इच्छामि प्रभो ! एकस्य एव नाणकस्य नाशेन अहम् एतावत् दुःखम् अनुभवामि। एवं हि सति शतनाणकानां नाशेन तस्य कियत् दुःखं भवेत्? परधनम् अहं सर्वथा न इच्छामि प्रभो” इति दृढस्वरेण रामः उक्तवान्।**

** रामस्य सद्बुद्धिं दृष्ट्वा महाराजस्य महान् सन्तोषः जातः। सः हसन् “राम, तत् धनं मम एव। भवतः कृते अहम् एव तत्र स्थापितवान्” इति उक्तवान्।**

** ‘‘एवं तर्हि महान् अनुग्रहः कृतः। अहं सन्तोषेण स्वीकरोमि प्रभो" इति उक्त्वा रामः तत् स्वीकृतवान्।**

** “रामः, भवान् गुणवान् अस्ति विश्वासपात्रं च। मम आस्थाने उन्नतं उद्योगं भवते इतःपरं भवतः जीवने कदापि दास्यामि। इतः परं एतत् सर्वं भयस्य लेशः अपि यथा न स्यात् तथा करिष्यामि। भवान् सर्वदा सन्तोषेण जीवतु इति एव मम अभिलाषः" इति उक्तवान् महाराजः।**

** “तथा एव अस्तु प्रभो। महान् सन्तोषः जातः" इति उक्तवान् रामः।**

** किन्तु रामस्य मुखे किञ्चित् अपि सन्तोषस्य चिह्नम् अपि न आसीत्। पूर्वापेक्षया अपि अधिकं भयं तत्र दृश्यते स्म। महाराजः ‘इदानीम् अपि भवान् भयं किमर्थं न त्यक्तवान्" इति तम् पृष्टवान्।**

** रामः शुष्कहासं प्रकटयन् ‘प्रभो, नूतनस्य भयस्य कुत्र अस्ति अवकाशः ! पूर्वतनभयम् एव न परिहृतम्। एतस्मिन् जन्मनि मम सुवर्णनाणकं न लभ्यते इति प्रतिभाति। अत्र एव अहं वसामि चेत्, प्रतिदिनं तटाकस्य तीरे तस्य अन्वेषणं कर्तुं शक्नुयाम्" इति उक्तवान्।**

** “रामस्य भयस्वभावः जन्मजातः। स कथञ्चिदपि अपरिहार्यः एव" इति महाराजः ज्ञातवान्।**

भीरुः

** बदरीप्रसादः मालवदेशस्य एकस्मिन् ग्रामे निवसति स्म। तस्य बाल्ये एव मातापितरौ दिवङ्गतौ। अतः पितामही एव तं पोषयति स्म।**

** बदरीप्रसादः द्रष्टुं सुदृढः युवकः। किन्तु स्वभावतः सः अतीव भीरुः। स्वकीयां छायाम् दृष्ट्वा अपि सः भीत्या कम्पते स्म।**

** एकदा सायङ्काले कश्चित् सन्यासी तस्य गृहम् आगतवान्। बदरीप्रसादस्य पितामही साधु-सन्यासिनां विषये श्रद्धालुः आसीत्। अतः सा भक्त्या सन्यासिनः सेवां कृतवती।**

** सन्यासी यदा भोजनं कर्तुम् उपविष्टः तदा बदरीप्रसादः समीपे एव उपविश्य सन्यासिनं कुतूहलदृष्ट्या पश्यन् आसीत्। तदा पाकशालातः एकः मूषिकः आगतः। बदरीप्रसादस्य पार्श्वे उपविष्टः मार्जारः एतत् दृष्ट्वा भीत्या ‘म्यांव् म्यांव्’ इति वदन् बहिः पलायितः।**

** विना आक्रमणं पलायमानं मार्जारं एनम् दृष्ट्वा सन्यासी आश्चर्यचकितः। पितामही बदरीप्रसादम् उक्तवती— “मूषकपीडां निवारयितुम् इच्छन् भवान् मार्जारं पालितवान्। किन्तु सः अपि भवान् इव भीरुः सञ्जातः। इदानीं सः मूषकं दृष्ट्वा पलायनं करोति ! भवतः हस्तस्पर्शेन सर्वेऽपि जन्तवः भीरवः भविष्यन्ति” इति।**

** एतत् श्रुत्वा सन्यासिनः कुतूहलः उत्पन्नः। भोजनानन्तरं सः सन्यासी हस्ते विद्यमानाः रेखाः आसक्त्या दृष्टवान्। मनसि एव सङ्कलन-व्यवकलनादिकं कृतवान्। अनन्तरं पितामहीम् एकान्ते आहूय उक्तवान्- “भवत्याः पौत्रस्य हस्तरेखा विचित्रा अस्ति। एषः भीरुः इति उक्त्वा पदे पदे न निन्दतु" इति।**

** “स्वामिन् ! अहं किं वा करोमि? एतस्य व्यवहारं दृष्ट्वा अनिच्छन्त्याः अपि मम कोपः आगच्छति। भवतः अनुग्रहेण यदि अस्य**

भीरुता निवारिता स्यात् तर्हि अहम् आजीवनं कृतज्ञा भविष्यामि” इति खेदेन उक्तवती पितामही।

** सन्यासी तां सान्त्वयन् उक्तवान्— “एतस्य भीरुता औषधेन न दूरं गच्छति। अस्य हस्ते विचित्राः रेखाः सन्ति इति मया उक्तं किल? भीरुताकारणात् एव किमपि कल्याणकारिकार्यं प्रचलिष्यति। “**

** एतस्याः घटनायाः अनन्तरं बदरीप्रसादः कदाचित् ग्रामस्य भूस्वामिनः भवनस्य पुरतः गच्छन् आसीत्। तत्र भूस्वामिना पालितः शुनकः तेन दृष्टः। शुनकः अतीव सुन्दरः आसीत्। बदरीप्रसादः तम् उन्नीय प्रीत्या आलिङ्गितवान्। भूस्वामी एतत् दृष्टवान्। कुपितः सः बदरीप्रसादं तर्जयित्वा प्रेषितवान्।**

** दौर्भाग्येण तद्दिने रात्रौ केचन चौराः भूस्वामिनः गृहं प्रविष्टवन्तः। किन्तु आश्वर्यस्य विषयः यत् शुनकः चोरान् दृष्ट्वा पलायितः। शुनकस्य विचित्रम् एतं व्यवहारं दृष्ट्वा भूस्वामी चकितः। “बदरीप्रसादः एव अत्र कारणम्” इति भूस्वामी निश्चितवान्। तद्दिने एव न्यायालयं गत्वा बदरीप्रसादस्य उपरि अपराधम् आरोपितवान्।**

** न्यायाधीशः भूस्वामिनः सर्वाणि वचनानि श्रुतवान्। “अहं यत् वदामि तत् सत्यम् एव वदामि इति वदतु" इति वदन् बदरीप्रसादस्य हस्ते भगवद्गीतां दत्तवान्।**

** सत्यप्रतिज्ञां स्वीकृत्य बदरीप्रसादः यदा गीतापुस्तकं प्रत्यर्पयितुम् प्रवृत्तः, तदा अकस्मात् न्यायाधीशस्य हस्तः तेन स्पृष्टः। एतेन न्यायाधीशस्य स्वभावे एव परिवर्तनं जातम्। मनसि अपि भीरुता प्रविष्टा।**

** तस्य इतः पूर्वम् एषः न्यायाधीशः निर्भीकः इति प्रसिद्धः आसीत्। अपराधिनः दण्डने सः अतीव निष्ठुरः। एतादृशः न्यायाधीशः बदरीप्रसादस्य हस्तस्पर्शमहिम्ना भीत्या उक्तवान्—“यदि अहं निर्णयं वदामि, तर्हि पक्षीयः विपक्षीयः वा यः कोऽपि कुपितः भवत्येव। अतः अहं निर्णयम् अनुक्त्वा एव अद्यतनं व्यवहारंसमापयामि” इति।**

** एवम् उक्त्वा सः उत्थाय गतवान् एव।**

भूस्वामी एतत् दृष्ट्वा आश्चर्यचकितः। ‘बदरीप्रसादः कीदृशः अद्भुतः पुरुषः स्यात्?’ इति सः मनसि एव चिन्तितवान्।

** तस्य राज्यस्य मन्त्री सुगुणवर्मा भूस्वामिनः परिचितः आसीत्। अतः भूस्वामी मन्त्रिणे बदरीप्रसादस्य समग्रं वृत्तन्तं निवेदितवान्। “बदरीप्रसादस्य हस्तस्पर्शस्य प्रभावः मार्जरस्य शुनकस्य न्यायाधीशस्य उपरि समानः आसीत्। अतः तस्य हस्तस्पर्शे एव विशेषप्रभावः अस्ति" इति मन्त्री निश्चितवान्। अतः भूस्वामिनम् उक्तवान् — “अद्य एव बदरीप्रसादं राजधानीं प्रेषयतु” इति।**

** यदा बदरीप्रसादः मन्त्रिणं द्रष्टुम् आगतवान् तदा मन्त्री प्रसिद्धमल्लेन एकेन सह वार्तालापं कुर्वन् आसीत्। मन्त्री मल्लाय बदरीप्रसादस्य परिचयं कारितवान्। बदरीप्रसादः मल्लं सविनयं नमस्कृत्य हस्तान्दोलनं कृतवान्। किम् आश्चर्यम् !! सुप्रसिद्धः मल्लः—यश्च मल्लाग्रेसरान् अपि सलीलं जितवान् आसीत्मुखम् अवनमय्य ततः पलायितवान्।**

** मन्त्री सैनिकान् सम्प्रेष्य तं मल्लं पुनः स्वसमीपम् आनायितवान्। “तथा पलायने किं कारणम्?" इति पृष्टवान्।**

** लज्जितः मल्लः कम्पमानेन स्वरेण उक्तवान्" किं कारणम् इति न जानामि, मम मनसि इदानीं महती भीतिः उत्पन्ना । कश्चित् मां पराजयेत इति आशङ्का मां प्रबलं बाधते" इति।**

एतेन प्रयोगेण मन्त्रिणः निष्कर्षः दृढः जातः यत् “बदरीप्रसादस्य हस्तस्पर्शे कश्चन विशेषप्रभावः अस्ति।एतत्कारणतः यः कोऽपि जन्तुः भीरुः भविष्यति" इति।

** बदरीप्रसादसम्बन्धिनीम् एताम् आश्चर्यजनकवार्तां मन्त्री महाराजाय निवेदितवान्। राजा एतत् श्रुत्वा कुपितः। सः क्रोधतप्तः एव आदेशं दत्तवान्— “एषः निश्चयेन शापग्रस्तः अस्ति। शापग्रस्तेन स्वहस्तस्पर्शेन एषः समग्रं राज्यम् एव भीरुपूर्णं कुर्यात्। अतः प्रथमम् एषः शूले आरोपणीयः” इति।**

** बदरीप्रसादस्य मरणदण्डनं श्रुत्वा तस्य पितामही अत्यतं रुदितवती। सा मन्त्रिणः पादयोः पतित्वा, पौत्रस्य प्राणभिक्षां प्रार्थितवती। मन्त्री सुगुणवर्मा ताम् उक्तवान्— “आर्ये, भवती निश्चिन्ता भवतु। तस्य शूलारोपणं निवारयितुं कमपि उपायं चिन्तयामः” इति ।**

** अनन्तरं सः राजानं निवेदितवान्— “महाराज ! त्वरया कोऽपि निर्णयः न स्वीकरणीयः। एकमासानन्तरम् एतं शूलम् आरोपयामः। तावत्पर्यन्तं, यथा अस्य दुष्प्रभावः अन्येषाम् उपरि न भवेत् तथा बन्धने स्थापयामः” इति।**

** राजा मन्त्रिणः सूचनाम् अङ्गीकृतवान्। मन्त्री बदरीप्रसादस्य कृते सुसज्जिते एकस्मिन् भवने वसतिव्यवस्थाम् उपकल्पितवान्।**

** दश-पञ्चदशदिनानाम् अनन्तरम् एका वार्ता महाराजेन प्राप्ता— “कलिङ्गराजः महत्या सेनया सह आक्रमणार्थम् आगतः अस्ति। सः मालवराज्यस्य सीमाप्रान्तं प्राप्तवान् च" इति।**

** मालवम् एकं लघु राज्यम्। कलिंगराज्येन सह युद्धं कर्तुं तस्य शक्तिः नास्ति। अतः राजा मन्त्रिणम् आहूय समस्याम् उपस्थापितवान्।**

** मन्त्री महाराजाय धैर्यवचनानि उक्तवान्— “राजन् ! भीतिः मास्तु। कलिङ्गराजः कथं निवारणीयः इति मया चिन्तितम्। अल्पे एव काले सन्तोषजनिकां वार्तां भवान् शृणोति। तावत्पर्यन्तं धैर्येण तिष्ठतु” इति।**

** अनन्तरं मन्त्री कलिङ्गराजाय लिखितम् एकं पत्रं बदरीप्रसादस्य हस्ते दत्वा उक्तवान्—**

“भवान् इतः साक्षात् कलिङ्गराज्यस्य शिबिरं गत्वा तत्र राज्ञः हस्ते एव एतत् पत्रं ददातु इति। बदरीप्रसादेन सह केचन सैनिकाः अपि प्रेषिताः।

** बदरीप्रसादः कलिङ्गराजस्य शिबिरं गत्वा राज्ञः हस्ते पत्रं दत्तवान्। कलिङ्गराजः चिन्तिवान् “अस्मिन् पत्रे सन्धिप्रस्तावः कृतः स्यात्। यतः मालवं नाम लघुराज्यम्। मम आक्रमणं सम्मुखीकर्तुं तत् न शक्नोति एव” इति। किन्तु पत्रे एतद्विपरीततया निन्दावाक्यानि लिखितानि आसन्। पत्रं पठित्वा कलिङ्गराजः कोपेण ज्वलितः। क्रोधेन सः उक्तवान्—‘‘गर्वितस्य एतस्य शिरच्छेदं कुर्वन्तुं"**

** एताम् आज्ञां श्रुत्वा बदरीप्रसादः भयेन कम्पितः। अञ्जलिं बद्ध्वा सः दीनस्वरेण राजानं प्रार्थितवान्— “महाप्रभो! अस्मिन् पत्रे किम् आसीत् इति अहं न जानामि एव। मन्त्रिणः आदेशानुसारम् अहं पत्रम् आनीय दत्तवान्, तावदेव" इति। एवम्उक्त्वा सः कलिङ्गराजस्य पादयोः पतितवान्।**

** अहो ! आश्चर्यकरं परिवर्तनम् ! पञ्चनिमेषेभ्यः पूर्वं यः सिंहः इव गर्जनं करोति स्म, सः इदानीं मार्जारः इव विभेति ! कलिंगराजः बदरीप्रसादम् उक्तवान्—“अहम् अविचार्य मालवदेशस्य उपरि आक्रमणं कृतवान्। भवतः राजानं सूचयतु यत् अहम् इदानीम् एव सेनां स्वीकृत्य प्रतिगच्छामि इति। एवमेव यत् प्रवृत्तं तद्विषये क्षमां प्रार्थये" इति।**

** तद्दिने एव कलिङ्गराजः स्वसेनाशिबिरं निष्कास्य स्वराज्यं प्रतिगतवान्।**

** बदरीप्रसादः अजानन् एव राज्यस्य उपरि आपतितां विपत्तिं दूरीकृतवान् आसीत्। एतेन सह तस्य भीरुता, तथा भीरुताजनकशक्तिः उभयम् अपि दूरं गतम्। मन्त्री एतं स्वसेनायां नियोजितवान्।**

** मालवराजः मन्त्रिणं सुगुणवर्माणं बहुधा प्रशंसितवान्। राजोचितेन सम्मानेन, तं पुरस्कृतवान् च।**

भ्रमनिवृत्तिः

पुङ्गवपुरे बहवः धनिकाः आसन्। तेषु चैतन्यः अन्यतमः। युवकस्य तस्य विवाहः जातः। तस्य पत्नी भानुमती अपि धनिकपुत्री एव। विवाहानन्तरं भानुमत्याः जन्मदिनोत्सवः सम्प्राप्तः। भानुमत्याः कृते एकम् उपायनम् आनेतुं चैतन्यः नगरं गतवान्। तत्र दशसहस्त्रदीनारान् दत्वा सः एकां मुक्तावलीं क्रीतवान्।

** अनन्तरं सः स्वकीये अश्वशकटे उपविश्य ग्रामं प्रत्यागच्छति स्म। सन्ध्यासमयः आसीत्। सः शकटचालकं हालकं प्रति ‘हालक, शीघ्रं शीघ्रं शकटं चालयतु’ इति उक्तवान्। ‘तथा एव अस्तु आर्य !’ इति उक्त्वा हालकः अश्वं किञ्चित् ताडयित्वा ‘है है’ इति प्रेरितवान्। अश्वः उत्साहेन धावति स्म। चैतन्यः किञ्चित् तन्द्रामग्नः जातः।**

** एकत्र शकटः स्थागितः। चैतन्यः जागृतिं प्राप्य ‘किमर्थं शकठः स्थगितः?’ इति पृष्टवान्।**

** हालकः मार्गस्य पार्श्वे स्थितम् एकं दर्शयित्वा “आर्य, एषः कालेयः मम पत्न्याः पितृव्यस्य पुत्रः। अस्य पितामहः मरणशय्यायाम् अस्ति। सः अस्माकं ग्रामस्य समीपे एव वसति। एषः शीघ्रं गत्वा पितामहस्य अन्तिमदर्शनं प्राप्तुम् इच्छति" इति उक्तवान्।**

** ‘‘एवं तर्हि सः अस्माकं शकटे स्थानम् इच्छति किल? अस्तु” इति चैतन्यः उक्तवान्। यद्यपि चैतन्यः स्वीयशकटे अन्यस्य प्रवेशं न इच्छति, तथापि इदानीं करुणया तूष्णीं स्थितवान्। कालेयः चैतन्यं नमस्कृत्य शकटे उपविष्टवान्।**

** पुनः शकटः अग्रे प्रस्थितः। सः मार्गः अतीव निम्नोन्नतः आसीत्। अतः एकत्र गर्ते चक्रस्य स्खलनम् अभवत्। उत्तरक्षणे एव शकटः पतितः। हालकः तु यथाकथञ्चित् शकटतः कूर्दितवान्। चैतन्यः कालेयः च**

अधः पतितवन्तौ। तयोः उपरि चैतन्येन क्रीताः फलानां कण्डोलाः अन्यानि वस्तूनि च पतितानि।

** प्रथमतः कालेयः उत्थितवान्। अनन्तरं हालकः कालेयः च मिलित्वा चैतन्यम् उत्थापितवन्तौ। चैतन्यस्य दक्षिणपादे वेदना आसीत्। ततः कालेयः हालकः च गर्ततः चक्रम् उन्नीय शकटं सुस्थितं कृतवन्तौ। मार्गे पतितानि सर्वाणि वस्तूनि पुनः शकटे स्थापितवन्तौ। पुनः शकटः प्रस्थाय अल्पकाले एव ग्रामं प्राप्तः। तत्र कालेयः शकटतः अवतीर्य गम्यस्थानं प्रति प्रस्थितवान्।**

** चैतन्यः स्वगृहस्य पुरतः शकटतः अवतीर्णवान्। अनन्तरं पादवेदनाकारणात् शनैः शनैः गृहं प्रविष्टवान्। तदा तस्य पत्नी तं दृष्ट्वा “किमर्थं भवान् मन्दं चलति? मम जन्मदिनस्य उपायनं तावत् गुरुभूतम् अस्ति वा ?" इति पृष्टवती।**

** तस्याः प्रश्नं श्रुत्वा चैतन्यः किञ्चित् विचलितः। सा प्रायः स्वीयां पादवेदनां न लक्षितवती इति मत्वा “हन्त ! मार्गे शकटः पार्श्वभागे पतितः। यथाकथञ्चित् प्राणाः रक्षिताः। देवानुग्रहात् महती विपत्तिः परिहृता।” इति उक्तवान्।**

** “अहो ! एवम् अभवत् वा? प्रथमम् अमृताञ्जनं लेपयामि" इति उक्त्वा भानुमती तस्य हस्तं गृहीतवती।**

** “लेपनम् अनन्तरं भवतु। प्रथमं मया आनीतम् उपायनं पश्यतु" इति स्यूतं तस्याः हस्ते चैतन्यः दत्तवान्।**

** चैतन्येन दत्तं स्यूतं भानुमती औत्सुक्येन गृहीत्वा तस्मिन् स्थितां मनोहरां लघुमञ्जूषां उद्घाटितवती।**

** “इदानीम् एव मम एका सखी आगतवती। तया अपि मत्कृते एकम् उपायनम् आनीतम् अस्ति। भवताम् उपायनं दृष्ट्वा अनन्तरं स्वकीयं दर्शयामि इति सा वदति। अतः इदं तस्याः कृते दर्शयामि” इति वदन्ती एव किञ्चित् सम्भ्रान्ता सा ‘किमिदं भोः ! किम् आनीतं भवता ?” इति पृष्टवती।**

** चैतन्यः अपि दृष्टवान्। मञ्जूषा रिक्ता आसीत्!**

** भानुमती चैतन्यं सक्रोधं पश्यन्ती— “भवतः उपायनं वहु मनोहरम् अस्ति!" इति उक्तवती।**

** चैतन्यस्य आश्चर्यं क्रोधः सम्भ्रमः च युगपत् एव जाताः।**

** “भवतु, भवतः उपायनं श्वः एव सर्वेषां पुरतः दास्यामि इति मम सखीं प्रति वदामि" इति उक्त्वा रिक्तां मञ्जूषां तत्रैव स्थापयित्वा सा अन्तः गतवती।**

** चैतन्यः क्रोधेन कम्पमानः कर्कशस्वरेण हालकम् आकारयन् बहिः आगतवान्। कालेयः एव चोरः इति सः चिन्तितवान्।**

** तत्र हालकः अश्वम् एकत्र बद्ध्वा तृणानि खादयन् आसीत्।**

** चैतन्यः तत्रैव गत्वा ‘‘भवतः पत्न्याः पितृव्यस्य पुत्रः इति उक्त्वा भवान् अस्माकं शकटे चोरस्य अवकाशं दत्तवान् किल? यदा शकटः मार्गे पतितः, तदा सः दशसहस्रमूल्यां मुक्तावलीं अपहृत्य रिक्तां मञ्जूषां मम स्यूते स्थापितवान् अस्ति। इदानीमेव गत्वा तस्य हस्तात् मुक्तावलीम् आनयतु। न आनयति चेत्, भवतः मम गृहे प्रवेशः एव नास्ति" इति क्रोधेन गर्जितवान्।**

** चैतन्यत्य वचनं श्रुत्वा हालकस्य वज्राघातः इव अभवत्। सः नतमस्तकः भूत्वा मूकः इव तूष्णीं स्थितवान्। चैतन्यः पुनः तं भर्त्सयित्वा “इतः निर्गच्छतु’’ इति गर्हन् प्रतिनिवृत्तः। अनन्तरं हालकः धावन् गृहं गतवान्। तत्र तस्य कुटीरस्य पुरतः आगत्य पादाघातेन भूमिं कम्पयन् “भवत्याः मातृगृहीयाः सर्वे चोराग्रेसराः इति प्रतिभाति। सः कालेयः पितामहस्य अन्तिमदर्शनार्थं साहाय्यं याचितवान् इति शकटे तस्य स्थानं दत्तम्। स तु अस्माकम् आर्यस्य बहुमूल्यां मुक्तावलीम् एव अपहृतवान्। भवती सद्यः गत्वा आभरणम् आनयतु। अन्यथा मम उद्योगः अपि नास्ति। अपकीर्तिः अपि जायते" इति उक्तवान्।**

** यदा पितामहस्य वार्तां श्रुतवती, तदा**

हालकस्य पत्नी मुक्तावलीविषयमेव विस्मृत्य “हा हन्त! मम पितामहस्य परिस्थितिः एवम् अस्ति वा!’ इति प्रलापं कुर्वती पितामहस्य गृहं प्रति धावितवती।

** चैतन्यः पादवेदनया मन्दं मन्दं यदा पुनः स्वगृहस्य समीपम् आगतवान्, तदा भानुमत्याः सखी गृहात् बहिः आगतवती। तस्याः हस्ते एका लघुमञ्जूषा आसीत्।**

** अनन्तरं भानुमती बहिः आगत्य चैतन्यस्य पार्श्वे स्थित्वा गच्छन्तीं सखीं दर्शयित्वा —“एषा एव मम सखी। सा अपि स्वीयम् उपायनं श्वः एव दर्शयिष्यामि इति उक्तवती। भवान् रिक्तां मञ्जूषाम् आनीतवान् इति वक्तुं शक्यते भवतु, तत्सर्वम् अनन्तरं चिन्तयामः। इदानीं भवतः पादे तैललेपनं करोमि। किमर्थं क्रोधेन यं कञ्चित् निन्दितवान्?" इति उक्तवती।**

** पत्न्याः मधुरवचनं श्रुत्वा चैतन्यस्य वेदना, चिन्ता, क्रोधः च न्यूनाः अभवन्। तया सह अन्तः गत्वा मार्गे जातं सर्वं वृत्तान्तं कथितवान्।**

** परेद्युः प्रातः हालकः मुक्तावलीम् आनेष्यति इति तं निरीक्षमाणः चैतन्यः गृहस्य पुरतः उपविष्टः आसीत्। तदा पूर्वेद्युः नगरे यस्य आपणे चैतन्यः मुक्तावलीं क्रीतवान्, सः आपणिकः तत्र आगत्य “भोः महाशय! क्षमा अस्तु। ह्यः अस्माकम् आपणस्य भृत्यः अजागरूकतया रिक्तां मञ्जूषां भवतः हस्ते दत्तवान्। एषः दोषः रात्रौ ज्ञातः” इति उक्त्वा मुक्तावलीमञ्जूषां चैतन्यस्य हस्ते दत्तवान्।**

** आपणिकस्य प्रामाणिकतां दृष्ट्वा चैतन्यः अतीव सन्तुष्टः। सः आपणिकं “भोजनं कृत्वा गच्छतु" इति प्रार्थितवान्। किन्तु आपणिकः कार्यान्यरम् अस्ति इति उक्त्वा तथैव प्रतिनिवृत्य गतवान्।**

** इदानीं चैतन्यः हालकं पुनः पुनः स्मरन् सन्तोषेण पत्नीम् आकारितवान्। तदा एव भयेन विवर्णः हालकः तत्र आगतवान्।**

** चैतन्यः तं दृष्ट्वा “भयं मास्तु हालक! शीघ्रम् आगच्छतु। किमर्थं एवं विलम्बं कृतवान्?" इति पृष्टवान् । तदा आश्चर्यचकितं तं**

प्रति पुनः “सा मुक्तावली कालेयस्य हस्ते नास्ति भोः। वृथा अहं तद्विषये सन्देहं प्रकटितवान्। सा मुक्तावली आपणे एव आसीत्। इदानीम् एव आपणिकः आगत्य तां मुक्तावलीं दत्तवान्। भवान् निश्चिन्तः भूत्वा पूर्ववत् स्वकीयं कार्यं करोतु" इति उक्तवान्।

** तदा हालकः अञ्जलिपूर्वक्तं चैतन्यं नमस्कृत्य “आर्य, कालेयः हारं चोरितवान् इति भवतः वचनेन अस्माकम् अपि शुभम् एव जातम्" इति उक्तवान्।**

** “कथम्? कीदृशं शुभम्?” इति चैतन्यः आश्चर्येण पृष्टवान्।**

** “अहं कुटीरं गत्वा मम पत्नीं तस्याः पितामहस्य गृहं प्रति प्रेषितवान्। मरणसमये पितामहः स्वीयां सम्पत्तिं दद्यात् इति आशया एव कालेयः तत्र गतवान् आसीत्।**

** तथा किमपि नास्ति इति यदा वृद्धः उक्तवान्, तदा तं निन्दन् कालेयः प्रतिनिवृत्तः। मम पत्नी तु तत्रैव स्थित्वा प्रातःपर्यन्तं पितामहस्य सेवां कृतवती। तदा वृद्धस्य सम्भाषणशक्तिः अपि अतीव क्षीणा आसीत्। यथाकथञ्चित् स्वीयधनस्य गुप्तस्थानं उक्तवान्। स्वस्य मरणानन्तरम् उत्तरक्रियादिसंस्कारः मया एव कर्तव्यः इति सूचितवान् अस्ति" इति हालकः उक्तवान्।**

** तदा चैतन्यः मनसि ‘अहं कालेयस्य विषये सन्देहं प्रकटितवान्। तेन हालकस्य लाभः एव जातः’ इति चिन्तयन् “भोः हालक ! भवान् भाग्यवान् अस्ति। तस्य वृद्धस्य महती सम्पत्तिः स्यात् किल?" इति पृष्टवान्।**

** “अस्ति, आर्य ! तेन धनेन स्वतन्त्ररूपेण वाणिज्यम् अपि कर्तुं शक्यते” इति हालकः उक्तवान्।**

** एतादृशं हालकं गतदिने अहं वृथा निन्दितवान् इति चैतन्यः दुःखितः अभवत्। सः हालकं प्रीत्या पश्यन्– ‘यथाकथञ्चित् मुक्ताहारेण भवतः मम च कल्याणमेव अभवत्। भवतः सम्पत्तिलाभेन मम महान् सन्तोषः जातः। भवतः वाणिज्ये यत् किमपि साहाय्यम् अपेक्षितं भवति चेत्, विना सङ्कोचं मां पृच्छतु’ इति उक्तवान्।**

]