लघुकथासङ्ग्रहः-४

[[लघुकथासङ्ग्रहः-४ Source: EB]]

[

चोरस्य सत्कारः

मौसुल्देशस्य महाराजः कदाचित् देशपर्यटनं कुर्वन् एकस्मिन् लघुनगरे स्वकीयं सेनाशिबिरं स्थापितवान्। उषःकाले राजशिबिरस्य पुरतः कश्चन कोलाहलः समुत्पन्नः। महाराजवसतितः पलायमनः एकः चोरः राजपरिवारीयेन केनचित् दृष्टः आसीत्। निमेषणमात्रेण सः चोरः अदृश्यः जातः अपि।

कोलाहलकारततःमहाराजःजागरितः। वृत्तान्तं सर्वं श्रुत्वा सः अधिकारिणः आदिष्टवान्— “बहिः रक्षणव्यवस्था सुदृढा अस्ति। अतः चोरः बहिः धावितुं न शक्नोति। अन्तः एव कुत्रापि निलीनः अस्ति। झटिति तम् अन्विश्य मम पुरतः आनयन्तु" इति।

अधिकारिणः शिबिरस्य प्रतिकोणम् अपि अन्विष्टवन्तः। किन्तु तैः कुत्रापि चोरः न दृष्टः। तावति काले सूर्योदयः जातः। शिबिरे प्रवृत्तेन कोलाहलेन कुतूहलिनः बहवःनगरवासिनः तत्र सम्मिलिताः।

महाराजः इदानीं क्रोधतप्तः। तेन त्वरया राजधानी गन्तव्या अस्ति। तन्मध्ये एषा घटना ! चोरः कुत्रापि न दृश्यते !

एतन्मध्ये अकस्मात् एकस्य प्रकोष्ठस्य कोणतः उच्चैः क्षुतध्वनिः श्रुतः। सेनाधिकारिणः त्वरया तां दिशं गतवन्तः। तत्र एकत्र कोणे शिबिरनिर्माणे उपयुज्यमानानाम् आच्छादकानां मध्ये चोरः दृष्टः।

अधिकारिणः तं ततः आकृष्य मारयितुं प्रयत्नं कृतवन्तः। तदा चोरः उक्तवान् “भो भोः, तिष्ठन्तु तावत्। अहं महाराजम् एकान्ते किमपि निवेदयितुम् इच्छामि" इति।

एकः सेनाधिकारी महाराजसमीपं धावन् गत्वा उक्तवान्—“महाराज ! चोरः बन्धितः अस्ति। सः एकान्ते भवन्तं किमपि निवेदयितुम् इच्छति।

“चोरः मम समीपे वार्तालापं कर्तुम् इच्छति वा? अस्तु नाम, तम् अत्र आनयन्तु" इति राजा उक्तवान्। अधिकारिणः चोरं राजसमीपम् आनीतवन्तः।

चोरः महाराजं नमस्कृत्य उक्तवान् —“प्रभो ! वस्तुतः भवता मम सम्माननं करणीयम्। भवदीयाः अधिकारिणः तु मां मारयितुम् उद्युक्ताः सन्ति" इति।

“भवतः सम्माननं करणीयम्?"

“राजन् ! भवतः अधिकारिणः माम् अन्विष्यन्तः सर्वत्र गत्वा अपि असफलाः एव। भवान् राजधानीं गन्तुं सिद्धतां कुर्वन् अस्ति। शिबिरस्य पुरतः नगरवासिनः सर्वे जनाः सम्मिलिताः सन्ति। ते जनाः भवतः सेनाधिकारिणां बुद्धिमत्तायाः सामर्थ्यस्य च विषये किं चिन्तयन्तः स्युः?" इति उक्त्वा चोरः किञ्चित् स्थितवान्।

‘अग्रे वदतु’ इति संज्ञां कृतवान् महाराजः।

“चोरः सेनाशिबिरतः बहिः न गतवान्। अन्तः एव कुत्रापि अस्ति इति सर्वे नागरिकाः जानन्ति एव। एतादृशम् अपि चोरं भवदीयाः अधिकारिणः ग्रहीतुम् असमर्थाः जाताः चेत् जनानां दृष्ट्या ते अप्रयोजकाः भविष्यन्ति। तेन महाराजस्य भवतः अपि अगौरवम् ! अतः अहम् उच्चैः क्षुतशब्दं कृतवान्। मम जीवनस्य अपेक्ष्यया महाराजस्य भवतः गौरवस्य रक्षणं मम दृष्ट्या प्रधानम्" इति उक्तवान् चोरः।

“भवतः वचनं सत्यम्" इति वदन् महाराजः सम्मतिं सूचितवान्। अनन्तरं नागरिकाणां पुरतः एव चोरस्य हस्तौ शृङ्खलया बन्धितवान्। तद्दिने एव महाराजः तं नगरं त्यक्त्वा राजधानीं प्रस्थितः। मार्गे सः चिन्तितवान्—‘ चोरः यथा चिन्तियति तथैव मदीयाः सैनिकाः अपि यदि चिन्तयेयुः तर्हि समीचीनम् अभविष्यत्’ इति।

किञ्चिद्दूरगमनानन्तरं महाराजः चोरं बन्धमुक्तं कर्तुम् आज्ञापितवान्। किञ्चित् धनं दत्त्वा चोरम् अभिनन्दनपूर्वकं प्रेषितवान्।

ज्ञानोदयः

ब्रह्मदत्तः काशीं परिपालयति स्म । तस्मिन् काले एव कोसलदेशे बोधिसत्वः नाम महाराजः आसीत्। तस्य बोधिसत्वस्य पुत्रः सत्यसेनः। युक्ते समये सत्यसेनस्य यौवराज्याभिषेकः विवाहः च अभवत्। तस्य पत्नी शम्बुलादेवी। सा अनुपमा सुन्दरी।

कानिचन दिनानि अतीतानि। दौर्भाग्येण युवराजः सत्यसेनः कुष्ठरोगेण पीडितः अभवत्। बहवः वैद्याः चिकित्साः कृतवन्तः। किन्तु रोगः न शान्तः, वर्धितः एव। जुगुप्साजनकेन रोगेण पीडितः युवराजः जनानां मध्ये वासं कर्तुं न इष्टवान्। अतः सत्यसेनः अरण्ये वासं कर्तुं प्रस्थितवान्। तदा पत्नी शम्बुलादेवी अपि पत्या सह प्रस्थिता। अरण्ये पर्णशालां निर्माय तत्र पत्न्यासह सत्यसेनः वासं कृतवान्।

शम्बुलादेवी तु सूर्योदयकाले एव उत्थाय गृहकार्यं समाप्य, पत्युः दन्तधावनार्थं सज्जीकरोति। पत्युः मुखप्रक्षालनानन्तरं उपाहारार्थं फलानि ददाति। अनन्तरं स्वयमपि किञ्चित् खादित्वा खनित्रं कण्डोलं च स्वीकृत्य अरण्ये अटित्वा कन्दमूलानि आनयति। नदीतः जलम् आनीय पत्या स्नानं कारयति। पत्युः भोजनानन्तरं स्वयं भोजनं करोति। एवं रीत्या जागरूका सती सा पत्युः शुश्रूषां कुर्वती आसीत्। एकदा फलानि सङ्ग्रहीतुं नूतन-प्रदेशाभिमुखं सा प्रस्थिता। किञ्चित् दूरे एव एकः लघुसरोवरः आसीत्। तं दृष्ट्वा सा बहु सन्तुष्टा अभवत्।

अतः सरोवरे अवतीर्य स्नानं कृतवती। स्नानानन्तरम् सा उपरि आगतवती। तदा तस्याः शरीरं सुवर्णवर्णेन प्रकाशते स्म।

किन्तु एतत् परिवर्तनं सा न ज्ञातवती। स्नानेन सन्तुष्टा सा पर्णशालाभिमुखं प्रस्थिता। मार्गमध्ये गच्छन्तीं तां दृष्ट्वा कश्चित् किरातः सहसा निरुध्य उक्तवान् सुन्दरि ! कृपया मम गृहम् आगच्छतु । मां परिणयतु।

“भोः ! दुरात्मन् ! मां बलात्करोति? एतस्य फलम् अनुभवतु" इति कमण्डलुजलेन शापं दत्तवती। वज्रेण ताडितः इव सः किरातः उच्चैः आक्रोशन् भूमौपतितवान्।

किरातस्य उपरोधतः उन्मुक्ता शम्बुलादेवी जलम् अपि स्वीकृत्य पर्णशालाम् आगतवती। पतिः पृष्टवान्—‘‘किमर्थम् अद्य विलम्बः कृत?”

प्रवृत्तं सर्वं वृत्तान्तं आदितः अन्तपर्यन्तं शम्बुलादेवी निवेदितवती। किन्तु तस्याः वचने अविश्वसन् सत्यसेनः उक्तवान्—स्त्रियः स्वयं कल्पयित्वा यत्किमपि वक्तुं समर्थाः भवन्ति। यथेच्छं विहरन्तीं भवतींको वा पृच्छति?

‘“स्वामिन्! मम वचनं यदि सत्यं तर्हि एतेन जलेन भवतः कुष्ठरोगः शान्तः भवतु" इति वदन्ती शम्बुलादेवी कमण्डलुस्थेन जलेन पत्युःअभिषेकं कृतवती। अनुक्षणमेव तस्य रोगः प्रशान्तः। प्रशान्तेन रोगेण सत्यसेनः बहु सन्तुष्टः अभवत्। किन्तु पन्याः पातिव्रत्यम् एव अत्र कारणम् इति सः न ज्ञातवान्।

अनन्तरं सत्यसेनः बनवासं त्यक्त्वा गृहाभिमुखं प्रस्थितवान्।

पुत्रस्य आगमनं ज्ञात्वा महाराजः बहुसन्तुष्टवान् \। छत्रैः चामरैः च सह स्वपुत्राय स्वागतं कृतवान्। एषा शुम्बुलादेवी मम पुत्रस्य रोगम् अपनीतवती। अपि च रोगग्रस्तम् अपि मम पुत्रं रोगप्रशमनपर्यन्तं शुश्रूषितवती"

इति विचिन्त्य शम्बुलादेवीं पट्टमहिषीं कृत्वा, युवराजाय सत्यसेनाय पट्टाभिषेकं च कृत्वा महाराजः वानप्रस्थाश्रमं स्वीकृतनान्।

सत्यसेनः पितुः आज्ञाम् उल्लङ्घयितुम्असमर्थः भूत्वा शम्बुलादेवीं पट्टमहिषीत्वेन स्वीकृतवान्, न तु प्रीत्या। अतः शम्बुलादेव्यांऔदासीन्यम्, अन्यासु पत्नीषु आदरं च प्रदर्शयितुम् आरब्धवान्। पत्युः तिरस्कारेण सपत्नीनाम् असूयया ईर्ष्यया च शम्बुलादेवी चिन्ताक्रान्ता कृशा च अभवत्। कानिचित् दिनानिअतीतानि। एकदा शम्बुलादेव्याः श्वशुरः अरण्यात् नगरम् आगतवान्। भोजनार्थं शम्बुलादेव्याः गृहं गतवान्। तस्याः दीनावस्थां दृष्ट्वा आश्चर्येण पृष्टवान्- “किमर्थं भवती दुःखिता ? किम् अभवत्? "

“पत्युः आदराभावे किं जीवितेन?" इति शम्बुलादेवी निश्वसन्ती उक्तवती। वृद्वः महाराजः सर्वं वृत्तान्तं ज्ञातवान्। अनुक्षणमेव सत्यसेनम् आहूय महाराजः उपदिष्टवान्- “वत्स ! सत्यसेन ! किं पापम् आचरन् अस्ति? कृतघ्नतायाः अपेक्षया अधिकं पापं लोके नास्ति एव। एषा जुगुप्साजनकेन रोगेण युक्तस्य भवतः शुश्रूषां कृत्वा रोगस्य निवारणं कृतवती। एतां पत्नीं राज्यमदेन तृणवत् किं धिक्करोति ?राज्यं सम्पदं च सर्वे प्राप्तुं शक्नुवन्ति। पतिव्रतांपत्नीं तु भाग्यवान् एव प्राप्नोति, न तु सर्वः जनः। अतः शम्बुलादेवीं मा तिरस्करोतु। तां पतिव्रतां तिरस्कृत्य भवान् एव अधः पतति।”

पितुः उपदेशेन सत्यसेनस्य ज्ञानोदयः अभवत्। सः शम्बुलादेव्याः समीपे गत्वा क्षमां याचितवान्। शम्बुलादेवीं स्वस्य तथा इतरासां पत्नीनां च स्वामिनीं कृतवान्। अनन्तरं राहुमुक्ता चन्द्रकला इव परिशोभमाना सा सुखेन राजप्रासादे आसीत्।

‘दानपात्रम्’

काशी बहुविशालं सुन्दरं च नगरम् । नगरसमीपे एव प्रसन्नजला गङ्गानदी प्रवहति। एकदा बोधिसत्वः काशीराज्ये जन्म प्राप्तवान्। तत्र सः धर्मेण न्यायेन च राज्यं परिपालयति स्म । सः दयापरः प्रजावत्सलः च आसीत्। तं प्रति प्रजानामपि प्रीतिः गौरवं च आसीत्। तस्य राज्ये सर्वे प्रजाः सुखेन वसन्तिस्म। प्रजाः शान्तिप्रियाः परस्परस्त्रेहयुक्ताः च आसन्। बोधिसत्वः शूरः धीरः इति विख्यातः। कदाचित् सीमाप्रान्ते केचन विक्षिप्ताः विरोधम् आरब्धवन्तः। एतान् विक्षिप्तान् निग्रहीतुं राजा तत् प्रान्तं गतवान्। युद्धं प्रवृत्तम्। बहु घोरं युद्धम्। दुर्दैववशात् शत्रुपक्षीयः एकः बाणः आगत्य महाराजस्य वक्षःस्थले पतितः। तेन राजा व्रणितः। तदा भीतः राजाश्वः तं राजानं युद्धरङ्गात् दूरम् नीतवान्।

महाराजं रक्षितुम् इच्छन् सः किञ्चित्कालानन्तरं राजसहितः अश्वः एकं ग्रामं प्रविष्टः। तत्र ग्रामीणाः सर्वे एकत्र व्यवहारं चर्चयन्ति स्म! अकस्मात् खड्गकवचधारिणं योधवेषसहितं महाराजं दृष्ट्वा यः कोऽपि शत्रुः अस्मान् हन्तुं आगतः इति मत्वा भयेन सर्वेऽपि पलायिताः। किन्तु तेषु मध्ये उदारबुद्धिः नामकः सज्जनः आसीत्। सः एकः एव ग्रामस्थः धैर्येण तत्र स्थितवान् ।

स्नेहपरः सः श्रान्तस्य महाराजस्य समीपम् आगतवान्। व्रणितं महाराजं दृष्ट्वा तस्यसेवाबुद्धिः जागृता। नखशिखान्तम् एकवारं दृष्टवान्। तं युद्धादागतं ज्ञात्वा पृष्टवान् — “भवान् राजपक्षीयः वा? विक्षिप्तपक्षीयः वा?” इति ।

“आर्य \। अहं राजपक्षीयः एव,” इति राजा उक्तवान्।

एतत् श्रुत्वा ग्रामीणः सन्तोषं प्रकटयन्- “तर्हि मम गृहं गच्छामः” इति उक्तवा, राजानम् आदरसहितं स्वगृहं नीतवान्।

गृहे तस्य पत्नी स्नेहशीला पत्युः निरीक्षणे आसीत्। यथार्थनामा गृहिणी सा। गृहमागतं महाराजं दृष्ट्वा सन्तुष्टा। स्नेहशीला बहुसंभ्रमेण भोजनार्थं सज्जीकृतवती। उदारबुद्धिः महाराजं विशेषातिथिं भावयन् पत्नीसाहाय्येन विशेषोपचारं कृतवान्।

समीचीनं भोजनं भोजयित्वा व्रणस्य औषधोपचारं कृतवान्। महाराजयोग्यं सत्कारम् अपि कृतवान्।

राजाश्वस्य कृते स्वयं जलादिकं पाययित्वा पिण्याकम् अपि दत्तवान्।

राजा तस्य ग्रामीणस्य गृहे दिनचतुष्टयं वासं कृतवान्। व्रणः शान्तः। तदा सन्तुष्टः राजा ग्रामीणस्य कृते तत्पत्न्याः कृते च कृतज्ञतां समर्पयन् उक्तवान्- आर्य, अहं काशीनगरनिवासी। मम गृहं दुर्गस्य अन्तः अस्ति। मम एका पत्नी पुत्रद्वयं च अस्ति। भवान् एकवारं काशीनगरम् आगच्छतु। दुर्गस्य दक्षिणपार्श्वे, उत्तरदिशः द्वारसमीपे स्थितं द्वारपालकं “महाश्वारोहिणः गृहं कुत्र?” इति पृच्छतु । सः भवन्तं साक्षात् मम गृहं प्रापयति। यथेष्टं कालं मम अतिथिः भवतु इति।

इतः महाराजस्य प्रस्थानतः पूर्वम् एव राजसैनिकाः विक्षिप्तान् निगृह्य शान्तिं स्थापितवन्तः आसन्। राजा ग्रामतः निर्गत्य स्वसैन्यं मिलितवान्। ततः काशीनगरं गतवान् च। तत्र उत्तरदिशः द्वारस्य रक्षकम् आहूय रहसि उक्तवान्— अये, कश्चित् भवतः समीपम् आगत्य “महाश्वारोहिणः गृहं कुत्र?” इति पृच्छति चेत् तं गौरवपूर्वकं मम समीपम् आनयतु । एतत् सर्वदा स्मर्तव्यम्” इति ।

बहुदिनपर्यन्तं राजा ग्रामीणस्य प्रतीक्षां कृतवान्। किन्तु ग्रामीणः न आगतवान् एव। “येन केनापि प्रकारेण ग्रामीणः आनेतव्यः एव” इति राजा निश्चितवान्। तदर्थं मन्त्रिणः द्वारा तस्य सीमाप्रान्तस्य उपरि नवीनं करं नियोजितवान्। तदानीम् अपि ग्रामीणः न आगतवान्। पुनः किञ्चित्कालं प्रतीक्षां कृत्वा राजा पुनरपि अधिकं करं नियोजितवान्।

एवं द्वित्रिवारं यदा जातं तदा ग्रामजनाः तं उदारबुद्धिं— यः महाराजस्य उपचारं कृतवान्- उक्तवन्तः- “पुनः पुनः नियोज्यमानेन करभारेण

दानरहस्यम्

एकस्मिन् ग्रामे विष्णुदत्तः इति एकः हरिदासः (हरिकथावाचकः) अस्ति। सः ग्रामं ग्रामं गत्वा श्रोतारः यथा आनन्दं प्राप्नुवन्ति तथाहरि कथां वदति। जनाः धनं सन्तोषेण ददति। अनेन मार्गेण विष्णुदत्तः जीवननिर्वहणं करोति।

एकदा विष्णुदत्तः एकं ग्रामं प्रति गतवान्। तत्रत्याः जनाः सन्तोषेण विष्णुदत्तेन हरिकथां वाचयितुं निश्चयं कृतवन्तः। तस्मिन् ग्रामे रामगुप्तः इति एकः धनिकः आसीत्। तस्य गृहे विशालम् अङ्गणम् आसीत्। अतः “तत्रैव कार्यक्रमं कुर्मः” इति जनाः निश्चयं कृत्वा, विष्णुदत्तेन सह रामगुप्तस्य गृहं गत्वा तस्य समीपे एवम् उक्तवन्तः “भो ! एतेन विष्णुदत्तेन हरिकथां वाचयितुं वयं सर्वे निश्चयं कृतवन्तः। सः कार्यक्रमः भवतः गृहे भवतु। कार्यक्रमानन्तरं वयं यथाशक्ति धनं दत्वा सम्मानं कुर्मः।”

यद्यपि रामगुप्तः एतादृशविषये अनासक्तः, तथापि एतेन कार्यक्रमेण अहं गौरवस्य पात्रं भवामि इति आलोच्य उक्तवान् “अस्तु नाम, बहु समीचीनम्। अत्रैव कार्यक्रमः भवतु इति सर्वे निश्चयं कृतवन्तः चेत् अहं धन्यः। कार्यक्रमं चालयामः। अपि च विष्णुदत्तस्य वसतिरपि अत्रैव भवतु”।

रामगुप्तगृहस्य अङ्गणे मण्टपस्य निर्माणं कृत्वा वेदिका निर्माणम् अपि कृतवन्तः। रात्रौ वेदिकायाः मध्ये देवस्य चित्रं स्थापयित्वा दीपमपि ज्वालितवन्तः। देवस्य समीपे शरावं स्थापितवन्तः। हरिकथां श्रोतुं सर्वे मण्टपे उपविष्टवन्तः। तेषु केचित् जनाः कथायाः आरम्भे एव यथाशक्ति धनं समर्पितवन्तः। अन्ये केचित् कथायाः अन्ते समर्पयितुं निश्चयं कृत

वन्तः। धनिकः रामगृप्तः विष्णुदत्तस्य कृते दातुम् एकं राङ्कवं शतं रूप्यकाणि च सज्जीकृत्य प्रकोष्ठे स्थापयित्वा कथां श्रोतुम् आगतवान्।

तस्मिन् ‘एव ग्रामे श्यामगुप्तः इति एकः आसीत्। सः कथायाः पूर्वम् आगत्य शरावे चत्वारिं रूप्यकाणि समर्पितवान्। विष्णुदत्तस्य कृते न्यूनमूल्यम् एकं राङ्कवं च दत्तवान्। यद्यपि सः श्यामगुप्तः धनिकः एव। यदि हरिकथाकार्यक्रमः तस्य गृहे एव स्यात् तदा सः इतोऽपि अधिकधनेन सम्मानयितुं समर्थः।

धनिकः रामगुप्तः तु समीपे एव उपविश्य सर्वं पश्यन् एव आसीत्-‘सर्वे कति ददति’ इति। सर्वेषाम् अपेक्षया श्यामगुप्तः एव अधिकं दत्तवान्। एतत् दृष्ट्वा रामगुप्तस्य मनसि एकः विचारः समुत्पन्नः- मया किमर्थं शतं रूप्यकाणि अधिकमूल्य–राङ्कवं च दातव्यानि ? मयापि दश रूप्यकाणि, एक सामान्यं वस्त्रं च दीयन्ते चेत् अलम्।

विष्णुदत्तः तु बहु बुद्धिमान्। एतादृशान् बहून् कार्यक्रमान् सः दृष्टवान् । सः दृष्ट्या एव अन्येषां मनः ज्ञातुं समर्थः। तस्य कथावाचनसमये रामगुप्तः केनापि व्याजेन प्रकोष्ठं गतवान्। तत्र गत्वा पूर्वमेव सज्जीकृतानि राङ्कवं रूप्यकाणि च कपाटिकायां स्थापयित्वा अन्यत् एकं वस्त्रं दश रूप्यकाणि च पेटिकातः बहिः स्थापयित्वा पुनः आगत्य उपविष्टवान्।

विष्णुदत्तः रामगुप्तस्य मनसि कः कः विचारः आगतः इति मुखभावेन विज्ञातवान्। सः अन्तः गत्वा किं कृतवान् इत्यपि ज्ञातवान्। अतः रामगुप्तस्य आगमनानन्तरम् एतां कथां आरब्धवान्। “कर्णः महादाता। याचकानां कृते नास्ति इति कदापि न वदति। एकस्मिन् दिने कर्णः स्नानार्थं गन्तुं प्रवृत्तः। तदा ‘एकः ब्राह्मणः याचितुम् आगतवान्’ इति सेवकः उक्तवान्। कर्णः ‘तं ब्राह्मणम् आनयतु मम समीपे’ इति आज्ञापितवान्।

ब्राह्मणः यदा आगतवान् तदा कर्णः वामहस्ते सुवर्णपात्रं स्थापयित्वा तत्र स्थितेन तैलेन दक्षिणहस्तेन शरीरे लेपनं कुर्वन् आसीत्।

‘महाराज! अहं दरिद्रः ब्राह्मणः। भवते यद् रोचते तद् ददातु’ इति ब्राह्मणः उक्तवान्। तत्क्षणे एव महादाता कर्णः वामहस्ते स्थितं सुवर्णपात्रं तथैव ब्राह्मणस्य कृते दत्तवान्।

ब्राह्मणः सन्तोषेण तत् स्वीकृत्य “भोः! महादातः! भवान् किमर्थं वामहस्तेन दानं दत्तवान् ? सर्वेऽपि दक्षिणहस्तेन एव ददति ।” इति पृष्टवान्।

तदा कर्णः स्मयमानः एवम् उक्तवान् ‘एषः विषयः सर्वैः ज्ञातव्यः। सङ्कल्पितं दानम् अनुक्षणमेव कर्तव्यम्। एतत् सुवर्णपात्रं भवतः कृते दातव्यम्’ इति सङ्कल्पं कृतवान्। तदा एतत् पात्रं वामहस्ते आसीत्। एतत् दक्षिणहस्ते स्वीकृत्य दानसमयाभ्यन्तरे मम बुद्धिः अन्यथा अपि भवेत्। अतः वामहस्ते स्थितं पात्रं तेन एव हस्तेन दत्तवान्। एतदेव दानरहस्यम्।”

एवं कथां समाप्य प्रकृतकथां विष्णुदत्तः अनुवर्तितवान्। अनया कथया रामगुप्तस्य कपोलद्वयेऽपि चपेटिकानुभवः अभवत्। हरिकथासमाप्तेः अनन्तरं विष्णुदत्तस्य कृते पूर्वसङ्कल्पितापेक्षया अपि द्विगुणितं धनं, कनकं, राङ्कवञ्च दत्तवान्।

दानस्य प्रभावः

ब्रह्मदत्तः काशीराज्यं परिपालयन् आसीत्। तस्मिन् समये बोधिसत्वः कोषाधिकारी आसीत्। सः स्वजीवने अशीतिकोटि-सुवर्ण-मुद्राः सम्पादितवान्। कालक्रमेण तस्य मनसि वैराग्यभावना उत्पन्ना। ‘प्रपञ्चस्य मोहः व्यक्तव्यः, माया जेतव्या’ इति सः चिन्तितवान्। अतः, सः महाराजं निवेदितवान्— एतां समग्रां सम्पत्ति स्वीकरोतु भवान्’ इति।

तदा राजा उक्तवान्—‘मम समीपे अपि यथेष्टं सम्पत्तिः अस्ति। मम का न्यूनता ? अतः भवान् अन्यप्रकारेण सम्पत्तेः विनियोगं करोतु" इति।

अनन्तरं कोशाध्यक्षः महाराजस्य अनुमतिं सम्पाद्य नगरे तत्र तत्र धर्मशालाः उद्घाटितवान्। तत्रदरिद्राणां कृते अन्नदानस्य व्यवस्थां कृतवान्। एकैकस्याः धर्मशालायाः दैनिकव्ययः एकलक्षसुवर्णमुद्रात्मकः आसीत्।

धर्मशालाचालनपूर्वकेण धर्माचरणेन एषः कोषाध्यक्षः स्वमरणानन्तरं इन्द्रपदवीं प्राप्तवान्। तदीयः पुत्रः अपि पितुः व्यवहारम् अनुसरन् चन्द्ररूपेण जन्म प्राप्तवान्। तदीयः पुत्रः सूर्यरूपेण जन्म प्राप्तवान्। एतदनन्तरीयः मातलीरूपेण, तदनन्तरीयः पञ्चशिखाग्निरूपेण च जन्म प्राप्तवन्तौ। एवं प्रकारेण ते सर्वे देवत्वं प्राप्तवन्तः।

एते स्वमानवजीवने, यथा धनिकाः तथैव कोमलहृदयिनः दानभावप्रेरिताः च आसन्। तेषां व्यवहारे धननिमित्तकः कोऽपि लोपः न आसीत्। अतः एते देवत्वं प्राप्तवन्तः।

किन्तु तदनन्तरं यः जातः तस्य काले सदाचारः धर्मकार्याणि इत्यादीनि अदृश्यतां गतानि। दानं तु सर्वथा लुप्तम् आसीत्। अत्र कारणं-एषः पुत्रः अशीतिकोटिसुवर्णमुद्राणाम् अधिपतिः चेदपि महाकृपणः,

आसीत्। जनाः एतं ‘नश्वरकोशीयः’ इति नाम्ना आह्वयन्ति स्म।

एषः पितुः मरणस्य समनन्तरं यत्र अन्नदानं प्रचलति स्म तत्र सर्वत्र तत् स्थगितवान्। धर्मशालाः पिहिताः, अग्निसात्कृताः च। दानधर्मादिषु एतस्य श्रद्धा एव न आसीत्। सः चिन्तयति स्म यत् पूर्वजाः मूर्खाः आसन्, अतः दानधर्मादिकार्यार्थम् अपारं धनव्ययं कृतवन्तः इति। इदानीम् एषः तु दाननामश्रवणेन एव कुप्यति।

यदा अन्नशालाः स्थगिताः तदा नगरीयाः दरिद्राः नश्वरकोशीयस्य गृहम् आगत्य प्रार्थितवन्तः- “महानुभाव! अन्नशालाः पुनरपिउद्घाटिताः भवन्तु। भवतः नामस्मरणं कुर्वन्तःवयं कथञ्चित् जीवामः” इति।

तेषां प्रार्थनां श्रुत्वा अपि नश्वरकोशीयः अविचलः एव आसीत्। सः सेवकानां साहाय्येन तान् दरिद्रान् ततः निवारितवान्।

नश्वरकोशीयः पूर्वजाः इव कोट्यधीशः, राजास्थाने कोषाध्यक्षः च आसीत्। सः स्वयम् अपि उदरपूर्णं न खादति। पत्नीपुत्रेभ्यः अपि एतदर्थम् अवकाशं न ददाति। अल्पमूल्यकेन सज्जीकृतम् अन्नं सारेण सह संयोज्य सः खादति स्म। जलमयं किञ्चित् तक्रं पिबति स्म। पुरातने शकटे वृद्धौ वृषभौ संयोज्य गमनागमनं करोति स्म। एवं तदीयजीवने धनव्ययस्य अवसरः एव न आसीत्।

एकदा एषः कृपणाग्रेसरः कोषाध्यक्षः सहायककोशाध्यक्षम् आत्मना सह राजसभाम् नेतुम् इच्छन् तदीयं गृहं गतवान्। तस्मिन् समये सः सहायककोषाध्यक्षः पत्नीपुत्रैः सह उपविश्य पायसम् भुञ्जानः आसीत्। कोषाध्यक्षं दृष्ट्वा स झटिति उत्थितः। एतम् अपि पायसभोजनार्थम् आहूतवान्।

तदा नश्वरकोशीयः चिन्तितवान्—“यदि अहम् आतिथ्यम् अङ्गीकृत्य पायसभोजनंकरोमि तर्हि पुनः कदाचित् मया अपि सपरिवारस्य एतस्य सत्कारः करणीयः भविष्यति"इति। अतः सः सहायककोषाध्यक्षस्य निमन्त्रणंतिरस्कुर्वन् उक्तवान् “मित्र! इदानीं मम

बुभुक्षा एव नास्ति। इदमिदानीम् अहं आकण्ठं भुक्त्वा आगतवान्। भवन्तः भोजनं कुर्वन्तु” इति।

किन्तु तत्क्षणात् आरभ्य नश्वरकोशीयस्य मनसि ‘पायसभोजनं करणीयम्’ इति इच्छा प्रबला जाता। किन्तु मनसि सन्देहः- ‘यदि गृहे पायसं सज्जीक्रियेत तर्हि अन्ये गृहसदस्याः अपि तस्य भोजनार्थम् उपस्थिताः भविष्यन्ति किल’ इति। अतः सः स्वकीयं विचारं गृहे न प्रकटीकृतवान् एव। सर्वदा एतद्विषये एव चिन्तयन् सः रोगग्रस्तः जातः।

तदा नश्वरकोशीयस्य पत्नी पृष्टवती- “किमिदम्? भवान् अस्वस्थः? औषधं किमपि न स्वीकरोति वा?" इति।

“भवती अस्वस्था स्यात्, न तु अहम्। अहं सर्वथा स्वस्थः" इति उक्तवान् नश्वरकोशीयः।

किन्तु तस्य पत्नी एतावता न तृप्ता। सा बहुविधप्रश्नैः पत्युः मनोभिप्रायं ज्ञातवती। अतः सा उक्तवती- “एतावदेव वा? किं स्यात् इति वयं सर्वे भीताः आस्म। पायसविषये एतावती चिन्ता किमर्थम्? आवश्यकं चेत् किं भवतः, समग्रकाशीनगरे निवसतां सर्वेषां कृते पायसं कृत्वा परिवेषयिष्यामि। सर्वे पायसभोजनेन तृप्ताः भवन्तु नाम" इति।

“आम् आम्, अहं जानामि भवत्याः मातृगृहीयाः धनिकाः इति। अतः मातृगृहतः एवं धनम् आनीय काशीनगरीयेभ्यः पायसं परिवेषयतु" इति कृपणः सः कोपेन उक्तवान्।

“अथवा अस्माकं मार्गे ये निवसन्ति तेभ्यः वा पायसभोजनं दद्मः" इति उक्तवती पत्नी। तेन अपि नश्वरकोशीयः कुपितः एव। “गृहसदस्यानां कृते वा पायसं सज्जीकरोमि” इति पत्नी उक्तवती। “न, न, वृथाव्ययः तेन" इति उक्तवान् नश्वरकोशीयः।

“भवतः एकस्य कृते एव करोमि। अस्तु किल?" इति पृष्टवती पत्नी।

“वस्तुतः गृहे पायससज्जीकरणम् एव अनुचितम्। अतः भवती पायसार्थम् अपेक्षितान् तण्डुलान्, क्षीरम्, घृतं शर्करां च ददातु।

पात्राणि अपि ददातु। अहं दूरे अरण्ये गत्वा पायसं निर्माय भोजनं करिष्यामि’ इति उक्तवान् नश्वरकोशीयः।

पत्नी सर्वाणि वस्तूनि आनीय पत्युः हस्ते दत्तवती। तानि वस्तूनि स्वीकृत्य सेवकस्य स्कन्धे आरोप्य, नश्वरकोशीयः गुप्तरूपेण गच्छन् अरण्यं प्राप्तवान्। तत्र नद्याः तीरे गुल्मैः आवृते प्रदेशे चुल्लीं सज्जीकृत्य सेवकद्वारा जलम् आनायितवान्। अनन्तरं सः सेवकं आदिष्टवान्- “भवान् गत्वा मार्गे तिष्ठतु। कश्चित् इतः आगच्छति चेत् झटिति मां सूचयतु। अनिवार्यं चेत् अहम् एव भवन्तम् आह्वयामि। ज्ञातं किल ?” इति।

एतन्मध्ये इन्द्रः स्वपूर्वजन्मनः वंशे उत्पन्नस्य नश्वरकोशीयस्य विषये सर्वंज्ञातवान् आसीत्।

इन्द्रः आलोचितवान्- “इतः पूर्वम् अस्मिन् वंशे जाताः सर्वे दानशीलाः आसन्, पुण्यबलेन देवत्वं प्राप्तवन्तः च। किन्तु एषः नश्वरकोशीयः महाकृपणः सञ्जातः। वंशस्य सदाचारान् सर्वान् परित्यक्तवान्। इदानीं जिह्वाचापल्येन प्रेरितः अरण्यम् आगत्य पायसं सज्जीकुर्वन् अस्ति। यदि अहम् एतं सन्मार्गं न उपदिशामि तर्हि एषः निश्चयेन नरकं गमिष्यति" इति। अतः इन्द्रः सूर्यं चन्द्रं मातुलिं पञ्चशिखाग्निं च आहूय, तेषां पुरतः स्वविचारम् उपस्थापितवान्। ते इन्द्रस्य अभिप्रायं अङ्गीकृतवन्तः।

अनन्तरम् इन्द्रः ब्राह्मणवेषं धृत्वा नश्वरकोशीयस्य समीपं गतवान्। पृष्टवान् च “आर्य! काशीगमनार्थं कः मार्गः ?” इति।

“रे, काशीगमनार्थं मार्गं न जानाति किम् ? अत्र किमर्थं आगतवान् ? गच्छतु इतः" इति कोपेन उच्चैः उक्तवान् नश्वरकोशीयः।

“किमर्थं कोपः ? ओह! पायसं सज्जीकुर्वन् अस्ति वा ? ब्राह्मणान् भोजयितुम् इच्छति वा ?" इति हसन् उक्तवान् इन्द्रः।

“भोजनं सत्कारः किमपि नास्ति। निर्गच्छतु इतः। अपसरतु। गच्छतु, गच्छतु" इति नश्वरकोशीयः तर्जितवान्।

“पुत्र ! कुपितः मा भवतु। अहम् अतिथिः अस्मि। भवता यत् पायसं निर्मितं तत्रैव

किञ्चित् मह्यं परिवेषयतु। दानेन पुण्यं सम्पादितं भवति” इति इन्द्रः उक्तवान्।

** “अहं भवते किञ्चिदपि न परिवेषयामि। अहम् एव भिक्षायाचनेन एतत् सम्पादितवान्। अत्र भवतः अपि भिक्षा वा? गच्छतु तावत्" इति नश्वरकोशीयः स्पष्टम् उक्तवान्।**

** “यावत् अस्ति तत्रैव किञ्चित् ददातु। यदि एवं न करोति तर्हि भवान् नरकलोकं प्राप्स्यति। किन्तु दानेन भवान् उत्तमं लोकं प्राप्तुम् अर्हति" इति इन्द्रः उपदेशं कृतवान्। नश्वरकोशीयः अन्ते उक्तवान्- “अस्तु नाम। किञ्चित् पायसं परिवेषयामि’ इति।**

** एतावति काले चन्द्रः अपि ब्राह्मणवेषेण तत्र आगतवान्। सः अपि पायसं याचितवान्। विवशः नश्वरकोशीयः तम् अपि उपवेष्टुं सूचितवान्। एतदनन्तरं क्रमशः सूर्यः मातुलिः पञ्चशिखाग्निः च ब्राह्मणवेषेण आगत्य तत्र उपविष्टवन्तः।**

** शीघ्रम् एव पायसं सिद्धम्। तदा नश्वरकोशीयः सर्वान् उद्दिश्य उक्तवान्- “पत्राणि आनयन्तु। पायसं परिवेषयामि” इति। ब्राह्मणाः आकाशे हस्तं प्रसार्य चक्राणि इव विशालानि पत्राणि आनीतवन्तः।**

** “अरे ! एतावत् विशालं पत्रम्! अत्र परिवेषयितुं कष्टम्। लघूनि मन्दारपत्राणि आनयन्तु तावत्" इति उक्तवान् नश्वरकोशीयः।**

** ते मन्दारपत्राणि एव आनीतवन्तः। किन्तु तानि पत्राणि अपि कदलीपत्राणि इव विशालानि आसन्। नश्वरकोशीयः इदानीं किं वा कर्तुं शक्नोति? सः अन्ते तेषु एव पत्रेषु पायसं परिवेषितवान्। तथापि पात्रे पूर्वं यावत् आसीत् तावदेव अवशिष्टम्।**

** एतन्मध्ये पञ्चाग्निः शुनकरूपं धृत्वा आगत्य पात्रे मुखं स्थापयितुं प्रयत्नं कृतवान्। तदा नश्वरकोशीयः स्वहस्तेन पात्रम् आच्छाद्य शुनकं निवारितवान्। तथापि शुनकमुखतः लाला तस्य हस्तस्य उपरि पतिता।**

** तदा सः ब्राह्मणान् उक्तवान्- “हस्तक्षालनार्थंजलम् आनयन्तु कृपया" इति। किन्तु ते उक्तवन्तः- ‘वयं जलं न आनयामः’ इति।**

** “मया सज्जीकृतं पायसं भक्षितवन्तः**

एवं स्थिते अपि किञ्चिदपि कृतज्ञताभावः नास्ति किल ?” इति उक्तवान् नश्वरकोशीयः। एतेन तेषाम् उपरि कोऽपि परिणामः न जातः। नश्वरकोशीयः एतेन अतीव कुपितः। तथापि कोपं निगृह्णन् सः ब्राह्मणान् उक्तवान्— “भवन्तः मम पात्रस्य रक्षणं कुर्वन्तु। अहं हस्तं प्रक्षाल्य आगच्छामि" इति। अनन्तरं सः यावत् नदीम् अवतीर्णवान् तावति काले शुनकः पायसपात्रे मुखं स्थापितवान् एव।

** कुपितः नश्वरकोशीयः एकं दण्डं स्वीकृत्य ताडयितुम् इच्छन् शुनकस्य पृष्ठतः धावितवान्। तदा शुनकः अश्वरूपेण परिवृत्तः, नश्वरकोशीयम् अनुधावितवान्। क्षणे क्षणे रूपं परिवर्तयन् सः कदाचित् अल्पाकारेण कदाचित् बृहदाकारेण च दृश्यते स्म। कदाचित् अश्वः भवति, पुनः कदाचित् व्याघ्रः। इदानीं नश्वरकोशीयः मरणभयेन कम्पते ! सः ब्राह्मणान् प्रार्थितवान्- “अये महानुभावाः! एतस्मात् अपायात् मां रक्षन्तु" इति।**

** तदा ते सर्वे निजस्वरूपेण प्रत्यक्षाः भूत्वा आकाशे स्थितवन्तः। तदा नश्वरकोशीयः विनयेन “भवन्तः देवताः, न तु मनुष्याः! अहं ज्ञातुमिच्छामि यत् भवन्तः के? किमर्थम् अत्र आगतवन्तः ?" इति पृष्टवान्।**

** “वयं भवतः पूर्वजाः पितरः। मनुष्यजन्मनि यत् पुण्यं सम्पादितम् आसीत् तस्य प्रभावेण वयम् इदानीं देवतास्वरूपं प्राप्तवन्तः स्मः। भवान् तु कृपणः सन् वंशाचारान् सर्वान् परित्यज्य नरकं प्राप्तुं प्रवृत्तः आसीत्। अतः वयं भवन्तं मार्गम् उपदेष्टुम् अत्र आगतवन्तः। भवान् इतः परं स्वगृहं गत्वा पुण्यकार्याणि आचरन् देवत्वं प्राप्नोतु" इति इन्द्रः उक्तवान्।**

** इन्द्रस्य वचनं श्रुत्वा नश्वरकोशीयः चिन्तायां निमग्नः। सः पश्चात्तापं अनुभूतवान्। पश्चात्तापेन तदीयं हृदयं परिवर्तितम्। सः गृहम् आगत्य स्वकीयां सम्पत्तिं दरिद्रेभ्यः दत्तवान्।**

** तपः आचरितुम् हिमालयं गतवान् च।**

दिव्यौषधम्

कस्मिंश्चित् राज्ये एकः राजा आसीत्। सः महामूर्खः। तस्य मूर्खत्वं समग्रे राज्ये प्रसिद्धम् आसीत्। महाराजस्य पत्नी पत्युः अनुगुणा। तन्नाम सा अपि मूर्खा। एवं तयोः अनुरूपं दाम्पत्यम् !

राज्ञी प्रथमप्रसूत्या एकं स्त्रीशिशुं प्राप्तवती। जन्मसमये शिशोः शिरसि केशाः न आसन्, मुखे दन्ताः न आसन्। एतत् दृष्ट्वा जुगुप्सां प्रकटयन्ती राज्ञी उक्तवती – “हन्त ! कीदृशः शिशुः एषः ! न केशाः, न दन्ताः ! " इति।

तदा राजा उक्तवान्- “कीदृशः अमङ्गलसूचकः शिशुः एषः! यद्यपि सर्वे जनाः एतादृशशिशेाः वार्तां जानन्ति तर्हि अस्माकं मानस्य का गतिः ?" इति।

तदा मन्त्री महाराजं राज्ञींच समाश्वासयन् उक्तवान्- “भवतोः चिन्ता मास्तु। जन्मसमये सर्वे शिशवः एवम् एव भवन्ति। एषः चप्रकृतिनियमः। यथा यथा वयः वर्धते तथा तथा केशाः वर्धन्ते, दन्ताः उद्भविष्यन्ति च” इति।

“शृणोतु मन्त्रिन् !, अस्माकं मनः समाधानार्थं किमपि न जल्पतु। शीघ्रम् एव विद्यमानाः सर्वे वैद्याः यथा अत्र आगच्छेयुः तथा व्यवस्थां करोतु” इति राजा आदिष्टवान्।

देशस्य प्रसिद्धवैद्याः सर्वे राजभवने सम्मिलिताः। तान् उद्दिश्य राजा उक्तवान्- “मम एका बालिका अस्ति। सा आकारेण अतीव अल्पा। तस्याः शिरसि केशाः एव न सन्ति। एतत्सर्वं निवारयितुं भवन्तः सर्वे किमपि दिव्यम् औषधं चिन्तयन्तु। सद्यः एव तस्याः मुखे दन्ताः, शिरसि केशाः च यथा उद्भवेयुः, सा च यथा दीर्घा स्यात् तथा करणं भवतां दायित्वम्”इति।

“महाराज ! एतत् तु सर्वथाअसाध्यम्”

इति सर्वे वैद्याः एककण्ठेन उक्तवन्तः।

“रे शृण्वन्तु! अहम् अस्य देशस्य चक्रवर्ती आज्ञां कुर्वन् अस्मि। राजाज्ञा कदापि निष्फला न भवेत्। यदि भवन्तः औषधं कर्तुं न शक्ताः तर्हि देशतः भवतां सर्वेषां उच्चाटनं करिष्यामि। तत्पूर्वं एकैकस्य अपि शतं वेत्रप्रहारान् आदिशामि। पञ्चषनिमेशेषु भवताम् अभिप्रायं सूचयन्तु” इति उक्त्वा राजा ततः गतवान्।

पञ्चषनिमेशेषु प्रत्यागत्य राजा चिन्तामग्नान् सदैन्यम् उपविष्टान् वैद्यान् पृष्टवान्— “किं निर्णीतम्? पुत्र्याः योग्यव्यवस्थां कुर्वन्ति वा उत वेत्रप्रहारम् अङ्गीकुर्वन्ति वा ?” इति।

वैद्याः सर्वे मौनम् उपविष्टवन्तः।

तदा कश्चित् वृद्धः वैद्यः उत्थाय उक्तवान्- “महाराज ! भवान् त्वरां न प्रदर्शयतु ! वयं भवतः आदेशं पालयितुं सिद्धाः स्मः। वयम् एकम् सिद्धौषधं जानीमः। तस्य सेवनेन राजकुमारी शीघ्रमेव वर्धिष्यते। तस्याः मुखे दन्ताः, शिरसि केशाः च उत्पत्स्यन्ते"

“बहु समीचीनम्। तादृशं सिद्धौषधं कुत्र अस्ति !” इति पृष्टवान् राजा।

वृद्धः वैद्यः उक्तवान्- “इदानीं तत् सिद्धम् न लभ्यते। तस्य सज्जीकरणार्थं कालावकाशः अपेक्षितः"

“कालावकाशः किमर्थम्? अहम् अस्मि राजा, राजाधिराजः! चक्रवर्ती ! सम्राट् ! इदानीम् एव तत् औषधम् मम अपेक्षितम्। अल्पे काले तत् औषधं सज्जीकर्तुं न शक्यते वा ?" इति राजा पृष्टवान्।

वैद्यः सावधानेन उक्तवान्- “भवतः वचनं युक्तम् एव। किन्तु एतस्य औषधस्य निर्माणार्थं सार्धचतुःशतं मूलिकाः अपेक्षिताः। तथैव त्रिशताधिकाः धातवः अपि तत्र योजनीयाः।”

राजा सगर्वम् उक्तवान्- “अस्तु नाम, सर्वाणि वस्तूनि इदानीम् एव आनयन्तु। अद्य एव औषधं सज्जीकुर्वन्तु।”

“महाराज ! एतत् कार्यं त्वरया न सिध्यति। औषधार्थम् अपयुज्यमानेषु एकं सस्यं चतुर्षु वर्षेषु एकवारं पुष्पितं भविष्यति। एतत्,

चतुर्थवारं यदा पुष्पितं भविष्यति तदा एव तस्य मूलम् सङ्ग्रहणीयम्। एवम् एव एकः धातुः केवलं हिमपर्वततः सङ्ग्रहणीयः। किन्तु आश्चर्यस्य विषयः यत् तस्मिन् पर्वते कदाचित् एव हिमवृष्टिः भविष्यति। ततः एषः धातुः खात्वा आनेतव्यः।" इति उक्तवान् वैद्यः।

** “एवम् अपि अस्तु नाम। एकसप्ताहस्य अवधौ औषधं सज्जीकर्तुं शक्येत किल ?” इति राजा पृष्टवान्।**

** “सप्ताहाभ्यन्तरे किं, वर्षाभ्यन्तरे अपि न शक्यते एव। अतः भवान् एवं करोतु- द्वादशवर्षाणि यावत् पालनपोषणार्थं राजकुमारीं अस्माकं वशे अर्पयंतु। अस्मिन् अवधौ वयं राजकुमार्याः कृते योग्यां व्यवस्थाम् औषधोपचारं च करिष्यामः” इति वृद्धः वैद्यः उक्तवान्।**

** महाराजः राज्ञीं पृष्टवान्- “देवि ! भवती किम् अभिप्रैति ? द्वादशवर्षाणि यावत् पालनपोषणार्थम् पुत्रीम् एतेषां हस्ते दद्मः वा ? उत सर्वान् क्षेत्रप्रहारं दण्डयामः वा ?” इति। राज्ञी किञ्चित् विचार्य उक्तवती- “द्वादशवर्षाणां कालावकाशं दत्त्वा एतेषां सामर्थ्यस्य कौशलस्य च परीक्षां करिष्यामः। तावति काले अपि पुत्र्यां परिवर्तनम् आनेतुं एते न शक्ताः चेत् सर्वेषां शिरश्छेदं कारयिष्यामः” इति।**

** राजा राज्ञ्याः वचनम् अङ्गीकृतवान्। वैद्यः आत्मना सह राजकुमारीं नीतवान्। द्वादशवर्षात्मके अवधौ राजकुमारीं न केवलं पोषितवान्, योग्यं शिक्षणं दत्त्वा तां समर्थाम् अपि कृतवान्। वैद्यगृहे पालिता राजकुमारी अवधिसमाप्त्यनन्तरं स्वमातापित्रोः समीपम् आगतवती।**

** इदानीं तस्याः शिरसि कृष्णाः सान्द्राः च केशाः, मुखे विमलाः दन्ताः च विराजन्ते स्म। एतत् दृष्ट्वा सन्तुष्टौ राजा राज्ञी च अपरिमितपुरस्कारेण वैद्यं सम्मानितवन्तौ।**

** मातापित्रोः मरणानन्तरं राजकुमारी एव महाराज्ञी जाता। कुशलतापूर्वकं राज्यशासनं कुर्वती सा लोकप्रियतां प्राप्तवती।**

दुष्टपालनम्

** पूर्वतनकाले रुद्रपुरराज्यं सिंहकेतुः नाम राजा पालयति स्म। सः स्वभावेन क्रूरः। प्राजानां हितं कदापि न गणयति। शुल्कं, करः, विशेषभूशुल्कम् इति विविधव्याजेन प्रजाभ्यः धनं सङ्गृह्णाति। एतद्विषये सः न्यायान्यायं न पश्यति। ये करादिकं न यच्छन्ति तान् कशाप्रहारैः निर्दयं दण्डयति सः। विरोधं ये आचरन्ति तान् शूलम् आरोपयति। प्रजानां दुःखम् आपदः च सहजाः इति तस्य सिद्धान्तः।**

** सिंहकेतुमहाराजस्य मन्त्री धर्मचरणः विवेकी। सः महाराजं सन्मार्गे आनेतुं बहुधा प्रयत्नं करोति। तथापि सः विशेषप्रयोजनं किमपि न पश्यति।**

** एतादृशात् शासनात् प्रजानां कष्टं दिने दिने वर्धते। देशे सर्वत्र अशान्तिः। प्रजाः सिंहकेतोः पालनं राक्षसशासनम् इति भावयन्ति स्म।**

** सिंहकेतुमहाराजस्य मृगयायाम् अपि व्यसनम् आसीत्। एकदा सः दशभिः सैनिकैः सह मृगयार्थम् अरण्यं गतवान्। यं यं मृगं पश्यति तम् अनुसरति सः। एवं कुर्वन् सः क्रमशः सैनिकेभ्यः दूरं गतः। महाराजः कृत्र गतवान् स्यादिति सैनिकाः न ज्ञातवन्तः एव।**

** ‘अहम् इदानीं सैनिकेभ्यः दूरम् आगतः। इतः परम् एकाकिना एव मया नगरं गन्तव्यम्’ इति चिन्तयन् सः सिंहकेतुः ततः नगरं प्रति प्रस्थितः। तत्समये चत्वारः दृढकायाः वृक्षात् उत्प्लुत्य जालं प्रसार्य तं बद्धवन्तः। ते ‘बद्धवन्तः। ते लुण्टाकाः चोराः।**

** ते चोराः सिंहकेतोः अमूल्यानि आभरणानि वशीकृत्य तं स्वनायकस्य उग्रकण्ठस्य समीपं नीतवन्तः।**

** उग्रकण्ठः सिंहकेतुं परीक्षादृष्ट्या पश्यन्- “सत्यं वदतु कः भवान् ?” इति दर्पेण पृष्टवान्।**

“अहम् एतस्य देशस्य राजा सिंहकेतुः” इति दर्पेण एव उक्तवान् सिंहकेतुः।

एतत् वचनं श्रुत्वा उग्रकण्ठः स्वसहचरान्उग्रदृष्ट्या पश्यन्—“अयेमूर्खशिखामणयः! एषः न अन्यः।अस्मादृशः, अस्मदीयः एव। अतः एतस्यबन्धनम् अपसारयन्तु” इति गर्जितवान्।

महाराजतः वशीकृतानि आभरणादीनि महाराजाय एव प्रत्यर्पयन् उक्तवान् उग्रकण्ठः—“अज्ञानतः किमपि प्रवृत्तम्। क्षाम्यतु। वयं सर्वे समानाः इति अंशम् अजानन्तः मदनुचराः भवन्तं बद्धवन्तः। इदानीं भवान् स्वेच्छया इतः गन्तुम् अर्हति इति।

उग्रकण्ठस्य वचनं श्रुत्वा आश्चर्यम्अनुभवन् राजा ततः निर्गतवान्। अरण्यमार्गेण यदा सः किञ्चिद्दूरम् अग्रे गतवान् तदा कश्चन पिशाचः महाराजस्य पुरतः प्रत्यक्षम् अभवत्। सः आकाशे एवइतस्ततःसञ्चरन् विकटाट्टहासं प्रदर्शितवान्। सिंहकेतुः धैर्येण खड्गं हस्तेन स्वीकृत्य तं सम्मुखीकर्तुं सिद्धः अभवत्।

तत् दृष्ट्वा पिशाचः उपहासपूर्वकं हसन्— “अहो हो मूर्ख! खड्गतः मम कापि हानिः न भवति इति भवान् न जानाति वा? अहं वायुरूपः अस्मि। यदि अहम् इच्छामि तर्हि भवतः रक्तम् आकण्ठं पिबेयम्। किन्तु इदानीम् अहं तथा न करोमि, यतः मृतान् प्राणिनः एव खादामि इति मम व्रतम्। भवान् तु महाधैर्यशाली इति भाति। साधु! कः भवान्?” इति पृष्टवान्।

“अहम्! एतस्य रुद्रपुरराज्यस्य महाराजः सिंहकेतुः” इति साभिमानम् उक्तवान् सिंहकेतुः।

तत् वचनं श्रुत्वा पिशाचः"हा हन्त!” इति विकारध्वनिना आक्रोशनं कुर्वन्—“भवान् एव वा सिंहकेतुः, यश्च अस्मादृशान् पिशाचान् अपि स्वव्यवहारेण अतिशेते इति ख्यातिं प्राप्तवान्। देवो दयालुः! अन्यथा अल्पाहारेच्छया भवन्तं मारितवान् स्याम्। तदा च ‘शाश्वताहारप्राप्तौ साहाय्यकं भवन्तं मारितवान्’ इति मम निन्दनम् अकरिष्यन् सर्वे पिशाचाः” इति वदन् अदृश्यः अभवत्।

सिंहकेतुःपिशाचस्य वचनं श्रुत्वा तस्य भीतिपूर्णं व्यवहारं दृष्ट्वा च अत्याश्चर्यम् अनुभवन् अग्रे गतवान्।

यदा ततोऽपि अग्रे सः गतवान् तदा वृक्षसमूहस्य मध्यतः कश्चन भीकरः ध्वनिः श्रुतः। सिंहकेतुः आश्चर्येण पृष्ठतः दृष्टवान्। तदा कस्यचित् वृक्षस्य पृष्ठतः उपविष्टः राक्षसः पुरतः आगत्य हस्तं प्रसार्य सिंहकेतुंमुष्टौ दृढं गृहीतवान्।

“अये मानव! अहं बुभुक्षया पीड्यमानः आसम्। सुसमये अत्र आगतवान् भवान्” इति वदन् राक्षसः तं खादितुंमुखम् उद्घाटितवान्। तत्सन्दर्भे सिंहकेतोः वेषभूषादयः राक्षसस्य दृष्टिपथे आगताः। तदा सः मुखं पिधाय—“भोः, वेषभूषणेन भवान् उच्चकुले जातः इव भाति। कः भवान्?” इति पृष्टवान्।

अहम् एतस्य देशस्य महाराजः सिंहकेतुः" इति कम्पमानेन स्वरेण उक्तवान्

राजा।

तदा राक्षसः उच्चैः हसन्—“एवं वा ? भवन्तं यदि मारयामि तर्हि इतः परं प्रतिदिनम् अपि मम उपवासः एव गतिः भवेत्। भवान् यथापूर्वं व्यवहरन् चिरकालं जीवतु” इति वदन् सिंहकेतुं त्यक्तवान्।

राक्षसस्य वचनं श्रुत्वा अपि सिंहकेतोः अत्याश्चर्यम्। ‘चोराणां नायकः पिशाचः, राक्षसः च मां मारयितुं समर्थाः अपि किमर्थं न मारितवन्तः?’ इति बहुधा चिन्तयन् एकस्य वृक्षस्य अधः उपविष्टवान् सः।

महाराजस्य अन्वेषणार्थम् अरण्ये सर्वत्र अटित्वा सैनिकाः सिंहकेतुसमीपम् एव आगतवन्तः। अनन्तरं तैः सह एव गच्छन्सिंहकेतुःनगरगमनमार्गम् अन्विष्य सायङ्कालसमये राजभवनं प्राप्तवान्।

सिंहकेतुः रात्रौ मन्त्रिणं धर्मचरणम् स्वसमीपम् आहूय अरण्ये जातं स्वकीयम् अनुभवम् उक्तवान्। “ते त्रयः अपि मां मारयितुं समर्थाः आसन्। तथापि ते तथा किमर्थं न कृतवन्तः? तत्रापि चोरनायकः माम् उक्तवान् यत् भवान् मादृशः एव इति। पिशाचः माम् आहारदातारम् अवदत्। राक्षसः तु ‘यथापूर्वं व्यवहरन् चिरकालं जीवतु’ इति आशिषा अनुगृहीतवान्। एतेषां त्रयाणाम् अपि वचनस्य अर्थम् अहं न ज्ञातवान्। भवान् किमपि वक्तुं शक्नुयात् वा?” इति पृष्टवान् च।

धर्मचरणः क्षणकालं मौनं स्थित्वा—“महाराज! अहं तेषां वचनस्य अर्थं जानामि। अभयं यदि स्यात् तर्हि वदेयम्। तत् श्रुत्वा भवान् कुपितः न भवेत्। तेषां वचनस्य तत्त्वं ज्ञातुं भवता प्रयत्नः करणीयः। सावधानतया आलोचनेन तत् भवान् अपि ज्ञातुं शक्नोति” इति उक्त्वा मौनं स्थितवान्।

सिंहकेतुः मन्त्रिणे अभयं दत्तवान्। तदा मन्त्री धर्मचरणः एवं विवरणं दत्तवान्—“भवान् अस्मत्सदृशः एव इति उक्तवान् चोरनायकः। एतस्य अर्थः चोरः अरण्ये प्रयाणिकानां लुण्ठनं करोति चेत् भवान् राज्यस्थान् जनान् लुण्ठयति इति। भवतः लुण्टाकानां च मध्ये कोऽपि भेदः नास्ति इति

तात्पर्यम्।

** पिशाचः उक्तवान् यत् भवान् करादीनां व्याजेन प्रजाः शूलम् आरोपयति, तदा प्राप्तान् शवान् खादन्तः वयं जीवामः। वयं तु मृतान् केवलं खादामः। तेन कस्यापि अपायः नास्ति। भवान् जीवतां जनानां प्राणान् अपहरन् लोककण्टकः एव संवृत्तः। भवतः मारणेन पिशाचानाम् अस्माकम् आहारभूताः शवाः न उपलभ्येरन् इति।**

** राक्षसः अभिप्रैति यत्—राक्षसव्यवहारापेक्षया भवतः व्यवहारः नीचः घोरः च इति। भवतः व्यवहारतः भीताः ये अरण्यं प्रति धावन्ति ते एव तेषाम् आहारः। अतः एव सः भवन्तं त्यक्तवान्, चिरं जीवतु इति आशिषा अनुगृहीतवान् च” इति।**

** मन्त्रिणः धर्मचरणस्य वचनानि सावधानं श्रुत्वा सिंहकेतुः—“एतेन सिध्यति यत् अहं चोराणां पिशाचानां राक्षसानां च अपेक्षया अपि क्रूरः इति। एवं तर्हि एषु दिनेषु तादृशीं दुष्टताम् आचरितवान् वा अहम् ?” इति पृष्टवान्।**

** धर्मचरणः विनयेन—“महाराज! एतद्विषये भवता एव सुदीर्घम् आलोच्य सर्वंनिर्णेतव्यम्। मया यत् उक्तं तत्र किमपि अनौचित्यम् अस्ति चेत् मां क्षाम्यतु कृपया” इति उक्तवान्।**

** तदा सिंहकेतुः मन्त्रिणः पादौ नमस्कृत्य—‘भवान् मयि विवेकं जागरितवान्। अद्य आरभ्य धर्मेण राज्यपालनं करोमि। ‘उत्तमः राजा’ इति कीर्तिं सम्पाद्य एव प्राणान् त्यक्ष्यामि। भवतः साहाय्येन एतत् सिध्येत् मार्गदर्शनेन आशिषा च माम् अनुगृह्णातु इति उक्तवान्।**

** धर्मचरणः आंशिषा अनुगृह्य—“अद्य भवान् दुष्टगुणान् पराजित्य विजयं सम्पादितवान्। एतेन अहम् अतीव सन्तुष्टः अस्मि” इति उक्तवान्।**

** अनन्तरं सिंहकेतुः धर्ममार्गेण राज्यपरिपालनं कुर्वन् उत्तमैः शासनैः प्रजोपकारीणि कार्याणि कुर्वन् उत्तमां कीर्तिं सम्पादितवान्।**

देवस्य परीक्षा

** एकस्मिन् ग्रामे शिवदासनामकः महान् देशभक्तः आसीत्। सः निस्वार्थी परोपकारी च। अतः एव ग्रामं ग्रामं गत्वा जनानां कृते उपदेशं ददाति स्म। देवस्य महिमातिशयं सर्वेषां जनानां कृते बोधयति स्म।**

** एवम् एव सः एकवारं रामनगरनामकं ग्रामम् आगतवान्। तत्रस्थानाम् आस्तिकानां कृते भगवद्विषयकं विचारम् उपदिशन् सः एवम् उक्तवान्– ‘देवः सर्वप्राणिनाम् कृते अपि आहारं ददाति। अतः एव नवजातः शिशुः स्तन्यपानं करोति। पिपीलिका-सदृशानां जीविनां कृते अपि योग्यम् आहारं देवः दापयति। क्षुद्रजन्तून् अपि सः न विस्मरति। एकः अपि जन्तुः आहारं विना मृतः न भवति। देवः सर्वान् अपि रक्षति। दरिद्रस्य अपि अन्नं दापयति। एवं सर्वेषां प्राणिनां कृते यथाकथञ्चित् आहारं ददाति एव। अत्र संशयः नास्ति’ इति।**

** एवम् एव उपन्यासः प्रचलन् आसीत्। जनाः सर्वे आनन्दतुन्दिलाः आसन्। तेषां मध्ये सुदर्शनः नाम एकः वितण्डवादी आसीत्। सः एतत् अङ्गीकर्तुं सिद्धः न आसीत्। सः मध्ये एवउत्थाय उक्तवान्—“स्वामिन्! भवतः वाक्यं विचित्रम् इव भाति। एतत् अहं न अङ्गीकरोमि। ‘न खादामि अहम्’ इति प्रतिज्ञाय एकः उपविशति चेत् देवः कथं खादयति ? माता यथा बालकान् भोजयति, तथैव देवः आगत्य बलेन खादयति वा? एतत् अङ्गीकर्तुं न शक्यते” इति।**

** तदा देवभक्तः ‘देवस्य तत् कष्टं कार्यं न। दुराग्रहिणः अपि कथं भोजनीयाः इति सः जानाति। भोजनं विना जीवितुं न त्यजति’ इति उक्तवान्।**

** सुदर्शनः मनसि एव एतेन सह ‘वादेन प्रयोजनं नास्ति। अतः अहं गृहे किमपि**

न खादामि। तदा अस्य भक्तस्य देवः आगत्य खादयति वा इति पश्यामि’ इति निश्चयं कृतवान्।

यदा सः गृहं गतवान् तदा पत्नी भोजनार्थं सर्वं सिद्धं कृत्वा आहूतवती—‘आगच्छतु, भोजनं सिद्धम् अस्ति’ इति।

‘मम बुभुक्षा एव नास्ति। अहं अद्य रात्रौ भोजनं न करोमि। मम कृते उपरोधं मा करोतु’ इति उक्तवान् सुदर्शनः।

सा पुनः- ‘अस्माकं गृहे एव फलितं कारवेल्लम् आसीत्। तेन अहं व्यञ्जनं कृतवती। भवते बहुरोचते किल? किञ्चित् वा खादतु’ इति उक्तवती।

‘मम कृते भोजनं न आवश्यकम्। बुभुक्षानास्ति इति उक्तं किल? ‘वृथा तृप्तस्य भोजनम्’ इति नजानाति वा? गच्छतु’इति गर्जितवान्। सा गतवती। किन्तु बालकाः भोजनसमये बहु पीडां दत्तवन्तः। ‘गृहे तिष्ठामि चेत् वारायितुं न शक्यते। अतः एव ग्रामात् बहिः गच्छामि’ इति सः चिन्तितवान्। ग्रामतः आगत्य एकस्य वृक्षस्य अधः उपविष्टवान् च।

तस्मिन् ग्रामे एका, पिशाचग्रस्ता आसीत्। मान्त्रिकः आगत्य तस्मिन् दिने रात्रौ पिशाचस्य उच्छाटनं करोति स्म। सः बहूनि भक्ष्यभोज्यानि कारितवान्। ‘एकस्मिन् घटे स्थापयित्वा, ग्रामात् बहिः स्थितस्य एकस्य वृक्षस्य अधः स्थापयित्वा आगच्छन्तु’ इति गृहसदस्यान् उक्तवान्।

तदा तस्य गृहस्य परिचारकाः तानि भक्ष्याणि नीतवन्तः। सुदर्शनः यत्र आसीत् तत्रैव तानि भक्ष्यभोजनानि स्थापयित्वा आगतवन्तः।

सुदर्शनः तदा वस्तुतः बुभुक्षितः आसीत्। तस्मिन् समये एव भक्ष्याणां सुगन्धः नासिकां प्रविशति स्म। तस्य जिह्वातः लालारसः स्रवति स्म। ‘अद्य देवस्य परीक्षां करोमि एव’ इति चिन्तयित्वा सः बुभुक्षां बलेन निरुध्यउपविष्टवान्।

एवमेव रात्रिः अग्रे गच्छति स्म। तदा

तृतीयः यामः आसीत्। तस्मिन् समये तत्र केचन चोराः आगताः। ते ग्रामेषु चौर्यं कृत्वा धनादिकम् आनीतवन्तः आसन्। इदानीं ‘सम्पादितस्य विभागः करणीयः’ इति तत्र सम्मिलिताः च। तेषां नासिकाम् अपि भक्ष्यादीनां सुगन्धः प्रविष्टः। ते तत्रैव स्थितं भक्ष्यपूर्णं घटं दृष्टवन्तः। ते सर्वे आश्चर्यचकिताः।

“अरे ! एतावत् भक्ष्यम् अत्र कथम् आगतम्?” इति केचन उक्तवन्तः।

‘यथा कथं वा आगच्छतु! इदानीं बुभुक्षा बाधते। भोजनं तु सिद्धम् अस्ति! खादामः। अन्यत् सर्वंअनन्तरंपरिशीलयामः’ इति अन्ये केचन उक्तवन्तः।

‘रे ! रे ! त्वरा मास्तु ! येन केनापि अस्मान् मारयित्वा धनं सर्वंस्वीकर्तुम्, अन्ने विषं मेलयित्वा स्थापितं स्यात्। तथाअस्ति चेत् सः अत्रैव भवति। सम्यक् अन्वेषणं कुर्वन्तु’ इति अपरः उक्तवान्।

चोराः अन्वेषणं आरब्धवन्तः। समीपे एव वृक्षस्य अधःउपविष्टं सुदर्शनं दृष्टवन्तः। सर्वे तस्य समीपम् आगत्य ‛रे ! वराक ! अस्मान् मारयितुं जालं प्रसार्य अत्र अन्धकारे उपविष्टवान् वा ? भवान् एव खादतु तत् भक्ष्यम्’ इति उक्तवन्तः।

‘अहं किमपि भक्ष्यं न खादामि। मम व्रतम् अस्ति। अतः एव अत्र उपविष्टवान्।’ इति सुदर्शनः उक्तवान्।

सुदर्शनस्य वचनं श्रुत्वा तेषां संशयः दृढः जातः। अतः ते ‘भवान् किञ्चित् खादतु प्रथमम्’ इति बहु आग्रहं कृतवन्तः। सुदर्शनं बहु ताडितवन्तः। तथापि सुदर्शनः भोजनं कर्तुं न सिद्धः। अन्ते ते बलात्कारेण सुदर्शनस्य मुखे भक्ष्यं स्थापितवन्तः।

‘सुदर्शनः न मृतः’ इति ज्ञात्वा ते सर्वम् अपि भुक्त्वा, ततः गतवन्तः। ‘भक्तशिवदासेन यत् उक्तं तत् सत्यम् एव’ इति चिन्तयन् सुदर्शनः गृहं गतवान्।

दोहदम्


मापतिः एकः लिपिकः। सः एकस्मिन् कार्यालये कार्यं करोति स्म। तस्य पत्नी शालिनी। शालिन्यां रमापतेः प्रेम अधिकम्। यतः सा बुद्धिमती गुणवती च आसीत्। सा पत्युः इच्छानुसारं कुटुम्बं प्रचालयति स्म। अल्पव्ययेन एव ते सुखेन कालं यापयन्ति स्म। गच्छति काले शालिनी गर्भवती जाता। तत् श्रुत्वा सः बहु आनन्दितः। आगामि शिशोः कृते मम अल्पवेतनेन किं कर्तुं शक्यते। शिशूनां आवश्यकवस्तूनि बहूनि भवन्ति। तत् सर्वं आनेतुं मयि शक्तिः अस्ति वा म्? किं करोमि? इति चिन्तितः भवति। एकस्मिन् दिने कार्यालये बहु कार्यम् आसीत्। तत्सर्वं समाप्य सायंकाले सः अन्यकार्यकर्तृभिः सह गृहं प्रस्थितः। सः अतीव श्रान्तः आसीत्। तस्य कृते विश्रान्तेः आवश्यकता आसीत्। यदा गृहसमीपम् आगतवान् तदा द्वारे पत्नीं दृष्ट्वा तस्य मनः खिन्नम् अभवत्। तं दृष्ट्वा तस्याः मुखम् अपि म्लानम् अभवत्।

** रिक्तहस्तेन आगतवन्तं पतिं दृष्ट्वा सा पृष्टवती “अद्यापि उत्तमं पनसफलम् आपणे न लब्धं वा?” इति**

** “यदि लभ्यते, न आनयामि वा? ‘श्वः उत्तमं फलं लभ्यते’ इति आपणिकः उक्तवान्। श्वः अवश्यम् आनयामि” इति उक्त्वा रमापतिः गृहस्य अन्तः गतवान्।**

** रमापतिः न धनिकः। अत एव मितव्ययेन यथाकथञ्चित् जीवनं यापयति स्म। तस्य पत्नी अतीव गुणवती सा कदापि तदिदम् आवश्यकम् इति उपरोधं न कृतवती। इदानीं सा आसन्न-नवमासा। अद्यत्वे पनसफलं खादितुं तस्याः मनः बहु इच्छति स्म।**

** इच्छायाः गोपनं क्रियते चेत् शिशुः रोगग्रस्तः जनिष्यते इति हि विश्वासः अस्ति। अत एव सङ्कोचेनैव सा इच्छां प्रकटितवती।**

** किन्तु पनसफलस्य मूल्यं न्यूनातिन्यूनं षट्**

चन्द्रपुरवणिजः जनाः केवलं अभिनयं कुर्वन्ति वा? अत्र किमपि रहस्यं अस्तीति प्रतिभाति। पेटिकासु रजत-कांस्यादीनि वस्तूनि सन्ति इति उक्तम्। तत् असत्यं स्यात्। अयं विषयः चन्द्रनागस्य कृते अवश्यं वक्तव्यः इति निश्चितवान्।

कार्यसमाप्तेः अनन्तरं विशाखः चन्द्रनागसमीपं गत्वा उक्तवान्- “श्रीमन्! पेटिकाः दशाधिकशतं सन्ति। मम तु एकः संशयः। चन्द्रपुरवणिजा सह भवतः सम्बन्धः बहुकालतः स्यात्। सः विश्वासार्हः अपि स्यात्। तदहं न जानामि। किन्तु इदानीं तस्य प्रामाणिकतायां मम सन्देहः अस्ति। वस्तुस्थितिकथनं मम कर्तव्यम्…"

“किमर्थं सन्देहः आगतः?" चन्द्रनागः पृष्टवान्।

“तासु पेटिकासु रजतकांस्यादिनिर्मितानि वस्तूनि सन्ति इति भवान् उक्तवान्। किन्तु अत्र वञ्चना स्यात् इति मम मतिः। पेटिकाः आनीतवन्तः चत्वारः पुरुषाः तदीयाः किल? ते च पेटिकायाः उन्नयने श्रमम् अभिनयन्ति। अन्यथा अस्मदीयः पुरुषः कथम् एकाकी विनायासं पेटिकाः उन्नेतुं समर्थः? पेटिकासु लोहवस्तूनि न सन्ति। बहुशः तृणसदृशानि लघुवस्तूनि स्युः। अतः इदानीम् एव भवता भाण्डागारं गत्वा पेटिकाः परीक्षणीयाः। पुनः यदाकदाचित् वञ्चना ज्ञाता चेदपि सः वणिक् निराकुर्यात् किल?" इति।

एतत्वचनं श्रुत्वा चन्द्रनागः अतीव सन्तुष्टः। सः विशाखम् अभिनन्दन् उक्तवान्– “मित्र ! भवान् सूक्ष्मग्राही। ताः पेटिकाः पेटिकावाहकाः चत्वारः अपि अस्मदीयाः एव। उद्योगार्थम् आगतयोः भवतोः बुद्धिं चतुरतां च परीक्षितुं मया एवं कृतम् आसीत्। अत्र भवान् उत्तीर्णः। व्यापारे कार्यदक्षता बुद्धिचातुर्यम् एतत् द्वयमपि अपेक्षितम्। अन्यथा सञ्चितं धनं सर्वं क्षणेनैव विनश्यति। अद्य आरभ्य एव भवान् मत्समीपे उद्योगं करोतु। अहं मम मित्रम् इदानीम् एव सूचयामि” इति।

अस्यां परीक्षायां दैववशात् प्राप्तं विजयं स्मृत्वा विशाखः आश्चर्यचकितः सन्तुष्टः च।

तवान्। ते चत्वारः महता श्रमेण पेटिकाः आनयन्ति स्म। प्रकोष्ठस्थः चन्द्रनागपक्षीयः पुरुषः विनायासं ताः उन्नीय एकस्याः उपरि एकां स्थापयति स्म।

आनन्दः पेटिकाः गणयन् एतत्सर्वं परिशीलयति स्म। कार्यसमाप्तेः अनन्तरम् आनन्दः चन्द्रनागसमीपं गत्वा उक्तवान्– “सर्वाःपेटिकाः सुव्यवस्थितं स्थापिताः। आहत्य दशाधिकशतं पेटिकाः सन्ति" इति। गणनाचीटिकां च दत्तवान्। चन्द्रनागः चीटिकाम् एकवारं परिशील्य उक्तवान्– “अस्तु कार्यार्थं स्वीकरणीयः चेत् दिनद्वयानन्तरं भवन्तं सूचयामि" इति। आनन्दः ततः निर्गतः।

अपरस्मिन् दिने चन्द्रनागः विशाखम् अन्यत् भाण्डागारं नीतवान्। तत्र अव्यवस्थितं स्थिताः पेटिकाः प्रदर्श्य आनन्दाय यथा उक्तं तथैव उक्त्वा निर्गतः। तत्रापि पेटिकाः आनीतवन्तः चत्वारः कर्मकराः प्रकोष्ठे च चन्द्रनागीयः पुरुषः च आसन्।

भाण्डागारे पेटिकाः गणयतः विशाखस्य एकः सन्देहः समुत्पन्नः। चतुर्भिः पुरुषैः महता श्रमेण आनीयमानां पेटिकां चन्द्रनागीयपुरुषः निरायासम् उन्नीय एकस्याः उपरि अपरां स्थापयति। सः बलाढ्यः भीमकायः अपि न। एतत् सर्वं विशाखः सूक्ष्मं परिशीलयति स्म। यां पेटिकां महताश्रमेण चत्वारः आनयन्ति तां पेटिकां विनायासेन एकः एव स्थापयति किल? तर्हि पेटिकासु भारवस्तु किमपि न स्यात्। एते

रूप्यकाणि भवति। मासस्य अन्तिमदिनानि! अत एव रमापतेः समीपे धनं न आसीत्। ऋणयाचनमपि दुष्करम्। यतः तस्य सहोद्योगिनां परिस्थितिः अपि एवमेव। अत एव सः प्रतिदिनं यत्किमपि कारणं वदति स्म। किन्तु अद्यापि पनसफलं न आनीतवान्।

एकस्य गृहस्य अङ्गणे फलपूर्णं पनसवृक्षं सः दृष्टवान् आसीत्। इदानीं तदेव चित्रं स्मरणे आगतम्। सः चिन्तितवान् “तस्मात् गृहात् एकं फलं चौर्येण आनीय ददामि। तस्याः इच्छां सफलीकरोमि च" इति।

रमापतिः किञ्चत् कालम् चिन्तयन् आसीत्। पत्नी तू निद्रां करोति स्म। अतः रमापतिः एकं गोणीस्यूतं गृहीत्वा निःशब्दं गृहात् बहिः गतवान्।

यदा सः तत् गृहम् आगतवान् तदा सामान्यतः मध्यरात्रः। रमापतिः सावधानम् अङ्गणस्य भित्तिम् आरुह्य अधः निपत्य पनसवक्षस्य समीपं गतवान्। तस्मिन् वृक्षे बहूनि फलानि अधः एव आसन्। सः फलानि दृष्टवान्। तथैव मनसि चिन्तितवान्—“इतः पूर्वं यदा कदापि चौर्यं न कृतवान्। अतः इदानीं किं करोमि ? न न, अहं चोरः न भवामि” इति चिन्तयित्वा ततः गन्तुम् उद्युक्तः। किन्तु प्रियपत्न्याः शालिन्याः म्लानमुखं स्मरणे आगतम्। “तस्याः इमाम् एकां लघु आशाम् अपि पूरयितुं न शक्नोमि वा ? किं तादृश-कठिनहृदयी वा अहम् ? न न, कदापि न।" इति चिन्तयित्वा धैर्येण तेषु परिपक्वम् एकं फलम् अवचित्य, स्वकीये स्यूते स्थापितवान्। “यदि अङ्गणम् अतिक्रमामि तदा सर्वं सुसम्पन्नम्” इति चिन्तितवान्।

गोणीस्यूतः अतीव भारः आसीत्। अतः स्यूतं गृहीत्वा भित्तिम् उत्पतितुं रमापतिः न शक्नोति स्म। “पुरोद्वारतः एव गच्छामि" इति चिन्तयित्वा सावधानं सः बहिः आगतवान्।

तत्र तदा सः एकं विचित्रं दृष्टवान्। तत्र कश्चित् पुरुषः निबिडतया प्रवर्धितानां वृक्षाणां मध्ये उपविष्टः आसीत्। सः अन्धकारे एव एकं गर्तं खनति स्म। तस्य समीपे एकस्मिन् स्यूते किमपि वस्तु आसीत्।

उक्तवान्। “भवती तत्रापि मार्जालं नयति चेत् भवत्याः विचित्रं मार्जाल-प्रेम दृष्ट्वा सर्वे उपहासं कुर्वन्ति। अत्रैव त्यक्त्वा गच्छतु" इति।

सा किञ्चित् चिन्तयित्वा उक्तवती। “भवता यदुक्तं तत् सत्यम्। अपि च तत्र मम प्रीतिपात्रस्य मार्जालस्य उपरि दृष्टिपातः अपि भवेत्। अतः अत्रैव त्यक्त्वा गच्छामि। किन्तु मार्जालः जागरूकतया द्रष्टव्यः। अन्नं यथाकालं दातव्यम्। अन्नेन सह घृतमपि देयम्। मम आगमनसमये मार्जालः यदि कृशः भविष्यति, तदा प्रायश्चित्तरूपेण भवतः अपि एक सप्ताहम् उपवासः।

अनन्तरं मम निन्दा मास्तु। एकं मुख्यंविषयं वदामि। मार्जालस्य भोजनपात्रं सम्यक् क्षालनीयम्। क्षालनं विना पुनः पुनः तस्मिन् एव दीयते चेत् सः न खादति। आहारं विना मरणमपि प्राप्नुयात्" इति बहु उक्त्वा गतवती।

किन्तु मार्जालः तस्याः गमनानन्तरं किमपि न अखादत्। स्वस्वामिनीं स्मृत्वा, हृदयविद्रावकं क्रन्दनम् अकरोत्। ताम् अन्विष्य गृहे सर्वत्र तेन अटितम्। अन्ते अन्नं क्षीरं सर्वंत्यक्त्वा एकत्र कोणे सुप्तम्। तस्याः आगमन-समये सः शवप्रायः अभवत्। पत्नी आगत्य किं वदेत् इति भीत्या पतिः मार्जालं एकस्याः गोण्याः अन्तः निवेश्य अट्टे स्थापितवान्।

तस्य पत्नी “कुत्र मम प्रिय मार्जालः ?” इति पृच्छन्ती एव आगतवती। सर्वत्र गृहे अन्वेष्टुम् आरब्धवती च।

“मार्जालः गतः!” इति यदि वदामि इयं मां बहु पीडयति, किं वदामि? इति चिन्तयन् एव पतिः एवम् उक्तवान्, प्रिये- ‘भवत्याःगमनानन्तरं मार्जालः भवतीम् अन्विष्य अन्विष्य कुत्रापि अगच्छत्। इदानीं भवती आगतवती। सः अपि आगच्छेत्। चिन्ता मास्तु।” इति उक्तवान्।

सा मार्जालस्य चिन्तया एव भोजनम् अपि त्यक्त्वा रुदती सुप्ता आसीत्। सा यदा निद्राम् आपन्ना तदा यजमानः मार्जालं गर्तेनिखातुम् अट्टात् गोणीम् आनीतवान्।

रमापतेः साहाय्येन शीघ्रं गर्तः सिद्धः

अभवत्। किन्तु तस्मिन् समये पत्नी आगत्य “रात्रौ तत्र भवान् किं करोति ?” इति पृष्टवती।

पत्न्याः आगमनं ज्ञात्वा पतिः भयेन गोणीं गर्तेपातयित्वा पत्नीम् उक्तवान्"अहं आगच्छामि” इति। अनन्तरं रमापतिं प्रति “अहं गच्छामि, भवान् गर्ते मृत्तिकां पूरयित्वा तूष्णीं गृहं गच्छतु” इति मन्दस्वरेण उक्त्वा द्वारं पिधाय अन्तः गतवान्।

रमापतिः तस्मिन् गर्ते मृत्तिकां पूरयित्वा स्वकीयं स्यूतम् उद्धृत्य मुख्यद्वारम् अपि अतिक्रम्य मार्गम् आगतवान्।

मार्गे नगररक्षकाः तं दृष्ट्वा “कोऽत्र? तिष्ठतु” इति उक्तवन्तः।

रात्रौ रमापतिः एकः एव आसीत्। चोरः इति तेषां संशयः समुत्पन्नः। “अर्धरात्रे एकः एव कुत्र गच्छति? स्यूते किम् अस्ति ? किमपि वस्तु चोरितं वा ?” इति पृष्टवन्तः।

“किं, चौर्यम्। न हि न हि।” अहं न चोरः। मम पत्न्याः कृते पनसफलं नयन् अस्मि। विलम्बः अभवत्, तावदेव" इति रमापतिः उक्तवान्।

“अहो ! भवतः वचने विश्वासः कर्तव्यः।” इति विहस्य, एकः दण्डेन स्यूतं आहतवान्। तदा तस्मिन् स्यूते स्थितः मार्जालः “म्याव्” इति क्रन्दनम् अकरोत्। शब्दं श्रुत्वा रमापतिः व्याकुलः अभवत्। तर्हि सः यजमानः पत्न्याः भयेन मम स्यूतं गर्ते पातितवान्। अहमपि एतं स्यूतं मदीयम् इति आनीतवान्। तर्हि मार्जालःनैव मृतः। केवलं आहाराभावेन निःशक्त्या तथा पतितः इति मन्ये।

“रे रे। भवतः पत्नी मार्जालम् एव पनसफलम् इति व्यवहरति वा? भवान् कश्चित् मान्त्रिकः। मायया विद्यया किमपि कर्तुं श्मशानं गच्छन् अस्ति। प्रातः कालः भवतु भवतः निजरूपं बहिः प्रकाशितं भवति। इदानीं कारागृहं गच्छतु” इति उक्त्वा ते बलात्कारेण तं नीत्वा कारागृहे स्थापितवन्तः।

प्रातः कालः अभवत्। आरक्षक-प्रमुखः आगतवान्। तदा भटाः तस्य समीपम् आगत्य— “रात्रौ एकः अस्माभिः बन्धितः। सः चोरः वा मायावी वा इति अस्माकं संशयः अस्ति”। इति उक्त्वा अधिकारिणं रमापतेः

समीपम् एव नीतवन्तः।

रमापतिः अधिकारिणं दृष्ट्वा आश्चर्यचकितः।

रात्रौ पत्न्याः विषये बहु भयं यः प्रकटितवान् सः एव अत्र अधिकारी !

रमापतिं मार्जालं च दृष्ट्वा अधिकारी सर्वम् अवगतवान्। मृतः इति चिन्तितः मार्जालः जीवितः इति ज्ञात्वा सः बहु सन्तुष्टः अभवत्। “इदानीं भयं नास्ति। मार्जालं जीवितं दृष्ट्वा पत्नी तृप्ता भवति। “इति सः आनन्दम् अनुभूतवान्।

सः भटान् दृष्ट्वा कोपेन उक्तवान्। “रे मूर्खाः। एषः मायावी वा? अहो ! सत्पात्रे भवतां संशयः। एषः मम चिरपरिचितः। आढ्यः। भवतां मुसलाग्रबुद्धीनां सम्मार्जनीबहुमानं दातव्यम्। गच्छन्तु बहिः। भवतां मुखदर्शनम् अपि पापकरम्” इति तान् प्रेषितवान्। रमापतिं च आहूय, “अपराधः क्षन्तव्यः। भटाः बहु अविवेकं कृतवन्तः। अन्यथा मा चिन्तयतु। भवान् अस्माकं मार्जालस्य प्राणदाता। भवतः पनसफलम् अहमेव नष्टं कृतवान्। अनन्तरं तदपि ददामि। इदानीम् एतत् स्वीकरोतु” इति बहु आग्रहं कृत्वा तस्य कृते विंशति-रुप्यकाणि दत्तवान्।

रमापतिः बहुसन्तोषेण आपणं गत्वा उत्तमम् एकं पनसफलं क्रीत्वा शीघ्रं शीघ्रं गृहम् आगतवान्।

सः गृहस्य समीपम् आगतवान्। द्वारे प्रसविका वेंङ्कम्मा आसीत्। रमापतिं दृष्ट्वा ‘‘भवान् रात्रौ कुत्र गतवान्”? इति पृष्टवती।

रमापतिः परिस्थितिं ज्ञात्वा किं-कर्तव्यता-मूढः अभवत्। “कुत्रापि न गतवान्। पनसफलम् आनेतुम्” इति कथनसमये एव वेंङ्कम्मा हसित्वा उक्तवती” पत्नी पृष्टवती वा? इदानीं मास्तु। भवतः पनसफल-सदृशः पुत्रः अभवत्। शिशुः सुन्दरः पुष्टः अस्ति। पत्नी अपि स्वस्था। प्रतिवेशिनी आगत्य माम् आहूतवती” इति। तस्याः वचनं शिशोः रोदनं च श्रुत्वा रमापतेः रोमाञ्चः अभवत्।

धर्मकार्याणि

नागपुरस्थः चन्द्रगुप्तः इति कश्चित् वणिक् समुद्रमार्गेण रत्नवाणिज्यम् अपि करोति स्म। सः अतीव कृपणः। धर्मकार्यार्थं किञ्चिदपि न ददाति स्म।

एवं सत्यपि सः “अहं कृपणः इति मा भावयन्तु। दानधर्मादिसत्कार्याणि कर्तुं भविष्यत्काले मम महान् अवकाशः अस्ति एव” इति पुनः पुनः वदति स्म।

एकदा कश्चित् अर्चकः चन्द्रगुप्तस्य समीपम् आगत्य “शिथिलस्य देवालयस्य परिष्कारं कर्तुं धनसाहाय्यं करोतु" इति प्रार्थितवान्। धनं दातुं चन्द्रगुप्तस्य इच्छा न आसीत्। तथापि अर्चकस्य विषये करुणया शतदीनारान् आनीय दत्तवान्।

तस्मिन्नेव समये चन्द्रगुप्तस्य लिपिकारः धावन् तत्र आगतवान्। ‘चण्डमारुतेन भवतः नौका बहुमूल्यवस्तुभिः सह समुद्रतलं प्राप्तवती" इति दुर्वार्तां उक्तवान् च।

तदा चन्द्रगुप्तः अर्चकं दृष्ट्वा “अन्यथा न भावयतु” इति सम्प्रार्थ्य साहाय्यार्थं दत्तान् शतदीनारान् पुनः गृहीत्वा प्रकोष्ठस्य अन्तः गतवान्। इदानीं सन्दर्भः अनुकूलः नास्ति इति चिन्तयन् अर्चकः प्रतिगन्तुं उद्युक्तः। तदा चन्द्रगुप्तः पुनः बहिः आगत्य सहस्त्रदीनारयुक्तां ग्रन्थिम् अर्चकस्य हस्ते दत्वा उक्तवान्- “यदा सम्पत्तिः अस्ति तदा एव सत्कार्यम् अवश्यं करणीयम् इति भगवान् मां पाठयन् अस्ति" इति।

धर्मदेवता

पूर्वं कुण्डलिनीराज्यं सत्यानन्दः नाम राजा पालयन् आसीत्। सः धर्मनिष्ठः। धर्मार्थं प्राणान् अपि अर्पयितुं सिद्धः। धर्माचरणे स्वजनपक्षपातः बन्धुप्रीतिः वा अवरोधं न जनयति। तस्य कुलदैवं धर्मदेवता एव। धर्मदेवतायाः पूजनं विना सः जलकणम् अपि न स्वीकरोति स्म। अतः एव धर्मदेवता तस्य विषये सुप्रसन्ना आसीत्।

त्यागस्वरूपिणः सत्यानन्दस्य पुत्रः श्रवणानन्दः। आत्मनः वार्धक्यं शरीरदौर्बल्यं च दृष्ट्वा सत्यानन्दः श्रवणानन्दं सिंहासने उपवेशयितुं चिन्तितवान्।

एतदनुसारं राजा मन्त्रिभिः प्रजाप्रमुखैः च सह पर्यालोचनं कृतवान्। सर्वेषाम् हार्दिकप्रोत्साहेन श्रवणानन्दस्य पट्टाभिषेकः सम्पन्नः।

केषाञ्चित् मासानाम् अनन्तरं सत्यानन्दस्य आरोग्यं विषमितम् अभवत्। आत्मनः अन्त्यकालं जानन् सः पुत्रम् आहूय उक्तवान्- “पुत्र! धर्माचरणसन्दर्भे कोऽपि सन्देहः उत्पन्नः चेत् राज्यस्य दक्षिणदिशि स्थितं देवालयं गत्वा धर्मदेवतां प्रार्थयतु। तदा भवतः सन्देहः परिहृतः भविष्यति" इति।

अनन्तरम् अल्पे एव काले सत्यानन्दः दिवङ्गतः। पितुः मरणानन्तरं श्रवणानन्दः, पूर्वजानां परम्पराम् अनुसरन् न्यायेन राज्यं पालयन् धर्ममूर्तिः इति कीर्तिं प्राप्तवान्।

एवं स्थिते कदाचित् श्रवणानन्दस्य पुरतः काचित् धर्मसमस्या आगता।

श्रवणानन्दस्य कुमारी मालती। सा इदानीं कस्मिंश्चित् सामान्ये सामन्तराजकुमारे प्रीतिमती आसीत्। श्रवणानन्दः पुत्र्याः विरोधं कर्तुं न इच्छति। यतः सा तस्य प्रीतिपात्रम् अद्वितीया पुत्री।किन्तु वंशाचारस्य क्रमम् उल्लङ्घयितुमपि न इच्छति। राजधर्मानुसारं

मालत्याः विवाहः केनचित् उच्चकुलीनेन राजकुमारेण भवितव्यः आसीत्।

यदि पुत्र्याः इच्छां पुरस्करोति तर्हि राजधर्मः उल्लङ्घितः इति कारणेन अधर्मः उत्पद्येत। राजधर्मः पालितः चेत् पुत्री खिद्यति। तर्हि इदानीं किं करणीयम्?

धर्मसमस्यायाः परिहारोपायं चिन्तयतः श्रवणानन्दस्य मनसि पितुः वचनं स्मरणे आगतम्।

‘एषा समस्या धर्मदेवतायाः पुरतःस्थापयितुं योग्या’ इति चिन्तितवान् सः। अनन्तरं धर्मदेवतायाः मन्दिरं गत्वा भक्त्या नमस्कृत्य स्वसमस्यां निवेदितवान्।

अल्पे एव काले धर्मदेवतायाः विग्रहः अपूर्वकान्त्या प्रकाशमानः अभवत्। “श्रवण! भवान् राजपदवीप्राप्तितः पूर्वं पिता जातः? उत पितृस्थानप्राप्तितः पूर्वं राजा जातः?” इति प्रश्नः विप्रग्रहमुखात् आगतः।

“जगन्मातः! पट्टाभिषेकतः पूर्वम्एव मम विवाहः सञ्जातः। पट्टाभिषेकसन्दर्भे मालती शिशुः आसीत्" इति उक्तवान् श्रवणानन्दः।

“एवं तर्हि मालत्याः विवाहसमये राजधर्मः भवन्तं न बाधते।भवान् निश्शङ्कतयापितृधर्मं परिपालयतु। भवतः मङ्गलं भवतु"इति उक्तवती धर्मदेवता।

एतत्समनन्तरम् एव विग्रहे कान्तिः न्यूना जाता। श्रवणानन्दः विग्रहं पुनः भक्तिपूर्वकम् नमस्कृत्य स्वभवनं प्रत्यागतवान्।

अनन्तरं शुभे मुहूर्ते मालती यस्य विषये प्रीतिमती आसीत् तम् एव सामन्तराजकुमारं परिणीतवती।

एतदनन्तरं कालान्तरे तस्य पुत्रः नागानन्दः कदाचित् शस्त्रविद्यायाः अभ्याससमये खड्गं चालयन् आसीत्। तत्सन्दर्भे अजागरूकतया सहाध्यायिनः दक्षिणः हस्तः छिन्नः अभवत्। सहाध्यायी तु विरागनामकस्य ब्राह्मणस्य पुत्रः।

विरागः पूर्णायां सभायाम् आगत्य उक्तवान् “अयि भोः महाराज! ‘मां खड्गविद्यया पराजयेत’ इति आशङ्कया भवतः कुमारः मम पुत्रस्य हस्तच्छेदनं कृतवान्। एतस्य

अपराधस्य दण्डरूपेण भवतः पुत्रस्य अपि दक्षिणहस्तः छेत्तव्यः। एवं कृत्वा भवान् आत्मनः धर्ममूर्तिः इति ख्यातिं सार्थकी-करोतु" इति।

उभयसङ्कटे पतितः श्रवणानन्दः किं करणीयम् इति न ज्ञातवान्। अतः सभां व्याक्षिप्य धर्मदेवतायाः मन्दिरं गतवान्। तत्र स्वसमस्यां निवेदितवान् च।

तत्क्षणे दिव्यकान्त्या मन्दिरं व्याप्तम् अभवत्। धर्मदेवता गम्भीरस्वरेण उक्तवती- “सहाध्यायिनः दक्षिणहस्तस्य छेदनं कृतवतः भवतः पुत्रस्य अपि दक्षिणहस्तः छेत्तव्यः इति किल ब्राह्मणस्य तर्कः ? तर्हि एवं भवतु- भवतः पुत्रः येन हस्तेन सहाध्यायिनः हस्तछेदं कृतवान्, तेनैव हस्तेन सहाध्यायी अपि भवतः पुत्रस्य हस्तच्छेदनं करोतु। एषा मम आज्ञा इति ब्राह्मणं निवेदयतु। अकस्मात् प्रवृत्तस्य कृते दण्डनं न उचितम् इति भवान् स्मरतु” इति।

अपरस्मिन् दिने श्रवणानन्दः विरागाय धर्मदेवतायाः वचनानि उक्तवान्। धर्मदेवतायाः सामर्थ्यं श्रवणानन्दस्य सत्यनिष्ठतां च स्मरन् विरागः मौनम् आश्रितवान्।
तदा राजा उक्तवान्- “ब्राह्मणोत्तम! दक्षिणहस्तेन हीनः भवतः पुत्रः असहायः न भवेत्। तस्य सुखजीवनार्थं यावत् आवश्यकं तावत् धनं भूमिं च अहं ददामि। भवान् चिन्ताकुलः न भवतु” इति सान्त्वनवचनानि उक्तवान्, तथैव भूमिं धनं च दत्तवान्।

वैशालिनीराज्यं कुण्डलिनीराज्यस्य पार्श्वे अस्ति। तस्य राजा वसन्तसेनः श्रवणानन्दस्य स्नेहितः। सः कदाचित् स्नेहितं द्रष्टुम् आगतवान्। रात्रौ भोजनानन्तरं वसन्तसेनः- ‘मनोविनोदार्थं चतुरङ्गं क्रीडामः’ इति उक्तवान्। बाल्यस्नेहितस्य इच्छां निराकर्तुम् असमर्थः श्रवणानन्दः क्रीडनार्थम् उपविष्टवान्।

“पणंविना कथं क्रीडनम् ? कमपि पणंनिश्चिनोतु। तेन क्रीडायाम् उत्साहः वर्धते" इति उक्तवान् वसन्तसेनः।

श्रवणनन्दः हस्ते धृतं सुवर्णकङ्कणं निष्कास्य पुरतः स्थापितवान्। तत् दृष्ट्वा हसन् वसन्तसेनः उक्तवान्- “आवां महाराजौ। सामान्येन पणेन क्रीडावः चेत् सामान्यानाम् अस्माकं च कः भेदः अवशिष्टः? अहं तु मम राज्यं पणीकरोमि" इति। तदा श्रवणानन्दः अपि अनिवार्यतया राज्यं पणत्वेन स्थापितवान्।

अनन्तरम् ‘अन्यः पराजेतव्यः’ इति बुद्ध्या उभौ अपि क्रीडायां मग्नौ जातौ। स्पर्धाभावेन उभौ अपि क्रीडितवन्तौ। अन्ते दुरदृष्टवशात् श्रवणानन्दः पराजितः अभवत्। वचनानुसारं श्रवणानन्दः वसन्तसेनाय राज्यं दातुं सिद्धः।

किन्तु एतत् निराकुर्वन् वसन्तसेनः उक्तवान्- “क्रीडा रुचिपूर्णा भवतु इति दृष्ट्या मया पणस्य प्रस्तावः कृतः। वस्तुतः भवतः राज्यं मम किमर्थम् ? आवां सदा स्नेहितौ एव। क्रीडाव्याजेन राज्यं वशीकृत्य मित्रद्रोही भवितुम् न इच्छामि अहम्" इति।

श्रवणानन्दः एतत् न अङ्गीकरोति। “भवान् विनोदार्थम् उक्तवान् स्यात्। अहं तु वस्तुतः राज्यं पणत्वेन निश्चितवान्। अहं तु वचनपालकः। अतः इतः परं मम राज्यं भवदीयम् एव। स्वीकरोतु” इति आग्रहपूर्वकम् उक्तवान् श्रवणानन्दः।

वनन्तसेनः तु राज्यं स्वीकर्तुं सर्वथा न सिद्धः। अन्ते समस्यायाः परिहारार्थं श्रवणानन्दः धर्मदेवतायाः मन्दिरं प्रति प्रस्थितः। वसन्तसेनः तम् अनुसृतवान्।

श्रवणानन्दः धर्मदेवतायै समस्यां निवेद्यपरिहारमार्गं सूचयतु’ इति भक्तिपूर्वकंप्रार्थितवान्।

एतत्सन्दर्भे विग्रहे काऽपि कान्तिः न दृष्टा। विग्रहतः दुःखपूर्णः स्वरः आगतः - “श्रवण! राज्यम् अन्यस्मै दातुं भवान् कः? स्वीकर्तुं वसन्तसेनस्य वा का अर्हता ? राज्यं प्रजानां, न तु भवतः। राजा तु केवलं राज्यस्य योगक्षेमनिर्वाहकः। यथा देवालयस्य धर्मदर्शी भवति तथैव राजा भवति राज्यस्य।राज्यं स्वकीयं मत्वा पणत्वेन निश्चितवान्। भवान् सर्वाधिकारित्वं प्रदर्शितवान्। अतः धर्मंब्राह्यः जातः।”

धर्मदेवतायाः वचनं श्रुत्वा वसन्तसेनः देवीं नमस्कृत्य ततः निर्गतवान्। श्रवणानन्दः अपि यदा प्रस्थितः तदा देवी- “श्रवणानन्द! राज्यपणेन क्रीडन् भवान् प्रजानां योगक्षेमनिर्वहणदायित्वं विस्मृतवान्। एवं दुराचारी भवान् राजा भवितुं अनर्हः। अनर्हस्य भवतःराज्ये स्थातुम् अहम् अपि न इच्छामि” इति उक्तवती। अपरक्षणे देव्याः शिरः भूमौ पतितम्।

श्रवणानन्दः दुःखभरेण शिरः अवनमय्य राजधानीं प्रत्यागतवान्।

अनन्तरं शुभे मुहूर्ते पुत्रं नागानन्दं सिंहसेने उपवेश्य बोधितवान्- ‘पुत्र! एतत् राज्यं प्रजानां, न तु भवतः। भवान् तु केवलं परिपालकः। एतत् कदापि न विस्मरतु। धर्मदेवतां स्वहृदये प्रतिष्ठापयतु" इति।

‘धर्मदेतायाः देवालये तपः आचरणीयम्’ इति दृढं निश्चित्य अनन्तरदिने श्रवणानन्दः देवीमन्दिरं गतवान्।

मन्दिरे तेन दृष्टं यत् धर्मदेवतायाः शिरः यथास्थाने स्थितम् अस्ति। विग्रहे अपूर्वकान्तिः दृश्यते स्म। एतत् दृष्टवतः श्रवणानन्दस्य चिन्ता निश्शेषं परिहृता।

आवर्णनीयेन आनन्देन पूर्णः सः श्रद्धया साष्टापूर्वकं देवीं नमस्कृतवान्।

धर्मो रक्षति रक्षितः

एमन् देशे सानानगरं राजा मुबारकः परिपालयति स्म। तरुणः सः अविमृश्यकारी। प्रजानाम् अपराधम् अविचार्य एव दण्डयति स्म। तेन निरपराधिनः अपि दण्ड्यन्ते स्म। अतः सर्वे अपि राज्ञा सह जागरूकतया व्यवहरन्ति स्म।

एकदा राजा मृगयाविहारार्थम् अरण्यं गतवान्। तेन सह केचन भटाः, आप्तसेवकः सलीम् अपि प्रस्थितन्तः। मृगयां विहरन् राजा हरिणम् एकं दृष्टवान्। अनुक्षणम् एव हरिणं लक्ष्यीकृत्य बाणं प्रयुक्तवान्। किन्तु हरिणः उत्प्लुत्य अधावत्। तेन हरिणः बाणात् च्युतः अभवत्।

क्रुद्धः राजा भटान् आज्ञापितवान्– ‘तम् एतं हरिणं गृह्णन्तु’। भटाः वृक्षेषु निलिनाः सन्तः धावितुं प्रवृत्ताः। किञ्चित् दूरे धावन्तं हरिणं दृष्ट्वा तं राज्ञः अभिमुखं परावर्तितवन्तः। एतस्मिन् समये आप्तसेवकः सलीमः हरिणम् उद्दिश्य बाणं मुक्तवान्। लक्ष्यात् च्युतः बाणः हरिणाभिमुखं आगच्छतः राज्ञः कर्णं रन्ध्रीकृत्य अगच्छत्।

‘एतस्य शिरः छिद्यताम्’ इति क्रुद्धः राजा भटान् आज्ञापितवान्।

सलीमः राज्ञः अग्रे जानुना उपविश्य सविनयं प्रार्थितवान्- ‘महाप्रभो! क्षम्यताम्! पलायमानं हरिणम् उद्दिश्य बाणं मुक्तवान्। लक्ष्यात् च्युतः बाणः अभिमुखम् आगतस्य भवतः कर्णे पतितः। अकस्मात् एषः प्रमादः संवृत्तः। अतः दयया मां क्षाम्यतु। तेन च तृप्तः देवः कदाचित् विपत्तौ भवन्तम् अपि रक्षेत्।’

एतया प्रार्थनया राज्ञः हृदयं करुणया आर्द्रम्

अभवत्। अतः सः तस्य शिरश्छेदं न कारितवान्। सर्वे अपि आनन्देन नगरं प्रतिनिवृत्तवन्तः। किन्तु परस्मिन् दिने एव सलीमः कुत्रापि न दृष्टः।

वर्षद्वयम् अतीतम्। समुद्रमध्ये स्थितस्य कस्यचित् द्वीपस्य अपि एषः मुबारकः एव अधिपतिः आसीत्। सः प्रतिवर्षम् अपि तत्र गत्वा आगच्छति स्म। एतस्मिन् वर्षे अपि नौकया गन्तुं प्रस्थितवान्। किन्तु चण्डमारुतेन उत्पन्नैः बृहत्तरङ्गैः जलमध्ये तस्य नौका निमग्ना।

जले पतितः राजा काष्टखण्डम् गृहीत्वा एकं दिवारात्रं समुद्रे प्लवमानः आसीत्। एवं प्लवमानः अन्ते कस्यापि द्वीपस्य तीरं प्राप्तवान्।

शनैः शनैः उत्थाय राजा परितः दृष्टवान्। तत्र कोऽपि न दृष्टः। अतः सः दुर्गस्य अभिमुखं प्रस्थितवान्।

अज्ञाते एतस्मिन् राज्ये कोऽपि परिचितः न आसीत्। राज्ञः तस्य केशाः विकीर्णाः। घृतानि वस्त्राणि अपि छिन्नानि। सः भिक्षुकः इव दृश्यते स्म। अतः ‘अहं राजा’ इति स्वयम् उक्तं चेत्अपि कोऽपि तं न विश्वसिति। बुभुक्षया बहुश्रान्तः च। सद्यः किं करणीयम्’ इति चिन्तयन् दुर्गस्य पार्श्वे एकस्यां शिलायाम् शयनं कृतवान्। श्रान्त्या अनुक्षणम् एव निद्रा समागता। निद्रावस्थायाम् एव तेन पादप्रहारवेदना अनुभूता। झटिति एव उत्थाय सः परितः दृष्टवान्।

‘एषः किमर्थं मारितः’ इति शवम् एकं प्रदर्श्य भटाः राजानं पृष्टवन्तः।

राजा मुबारकः शवं दृष्ट्वा आश्चर्येण उक्तवान्- ‘एषः मया न मारितः। इदमिदानीं शवं पश्यन् अस्मि। अहम् अत्रत्यः अपि न। समुद्रे अकस्मात् पतितः, प्लवमानः तीरं प्राप्तवान्। एतस्य वधस्य मम च सम्बन्धः नास्ति’।

‘एतत् सर्वं राज्ञः अग्रे निवेदयतु’ इति वदन्तः ते स्वराजस्य समीपे तं नीतवन्तः। ‘श्वःएतस्य व्यवहारं पश्यामि’ इति उक्त्वा राजा मुबारकं कारागृहं प्रवेशितवान्।

मुबारकः चिन्तितवान्- ‘अहो! मम शिरश्छेदनार्थं राजा न आज्ञापितवान्। अहं चेत् अविचार्य शिरश्छेदनाज्ञाम् कुर्याम् एव। हन्त! पूर्वं मया कति निरपराधिनः शूलम् आरोपिताः!!’

कारागृहे एकः गवाक्षः आसीत्। गवाक्षस्य पार्श्वे एकः काकः उपविश्यरटति स्म। एतत् श्रुत्वा क्रुद्धः मुबारकः काकम् उद्दिश्य पाषाणखण्डम् एकं क्षिप्तवान्। लक्ष्यात् च्युतः पाषाणखण्डः बहिः पतितः।

‘हन्त! शीघ्रकोपतः इदानीम् अपि अहं न मुक्तः’ इति मुबारकः मनसा चिन्तितवान्।

द्वित्राः निमेषाः अतीताः। भटाः कारागृहस्य द्वारम् उद्घाट्यअन्तः आगताः। मुबारकस्य पाणिद्वयं पादद्वयं च बलात्कारेण गृहीत्वा बहिः क्षिप्तवन्तः।

क्षिप्तः मुबारकः बहिः स्थितानां तरुणानां मध्ये पतितः। तेषु युवराजः अपिआसीत्। मुबारकेण क्षिप्तः पाषाणखण्डः युवराजस्य वामकर्णे पतितः आसीत्,येनजातात् क्षतात् रक्तं स्रवति स्म।

युवराजः मुबारकं दृष्ट्वा दन्तान् निष्पीडयन् भटान् आज्ञापितत्रान्- ‘मदोन्मत्तस्य एतस्य शिरः छियताम्’।

भूमौ पतितं मुबारकं भटाः उत्थाप्य नेतुं प्रवृत्ताः। ‘तिष्ठन्तु !’ इति वदन् युवराजः मुबारकस्य समीपम् आगतवान्। मुबारकस्य वामकर्णं गृहीत्वा परीक्षमाणः युवराजः पृष्टवान्- ‘एतस्मिन् कर्णे किम् एतत् बृहत् रन्ध्रम्’ '

मुबारकः युवराजं नमस्कृत्य उक्तवान्- ‘युवराज ! काकम् उद्दिश्य क्षिप्तः पाषाणखण्डः भवतः कर्णे अकस्मात् पतितः।तथैव केनापि तरुणेन मुक्तः बाणः अकस्मात् मम कर्णे पतितः, येन एतत्

बृहत् रन्ध्रम् अभवत्’।

** ‘सः तरुणः कथंकारं दण्डितः’ इति पृष्टवान् युवराजः।**

** ‘सः तरुणः न दण्डितः, मया क्षान्तः’ इति उक्तवान् मुबारकः।**

** ‘अहम् अपि तथा एव क्षन्तव्यः इति इच्छति ननु मुबारकमहाराज!’ इति पृष्टवान् युवराजः।**

** युवराजेन उक्तं स्वकीयं नाम श्रुत्वा मुबारकः आश्चर्यचकितः भूत्वा तस्य मुखं दृष्टवान्। पूर्वं आप्तसेवकः यः सलीमः, सः एव एषः युवराजः इति अभिज्ञातवान्।**

** युवराजः मुबारकंप्रीत्या आलिङग्य उक्तवान् राजन्! मां भवान् अभिज्ञतवान् इति भवतः मुखभावेन एव ज्ञायते। भवतः आप्तसेवकः सलीमः एव अहम्। पूर्वं कदाचित् पित्रा सह अहं कलहं कृतवान्। तन्निमित्तं अहं मम देशं त्यक्त्वा भवतः राज्यंप्रविष्टवान्। तत्र सञ्चारं कुर्वन् उद्योगावकाशं प्रतीक्षमाणः आसम्। दैववशात् भवतःआस्थाने उद्योगं प्राप्तवान्, आप्तसेवकः च अभवम्। पिता मम अन्वेषणे मग्नः आसीत्। तेन सर्वत्र गुप्तचराः प्रेषिताः। तथा प्रेषिताःगुप्तचराः माम् अन्विष्य उक्तवन्तः- ‘युवराजः! भवतः पित्रा प्रेषिताः गुप्तचराः वयम्। पिता भवन्तं स्मृत्वा बहु खिद्यति। कृपया अस्माकं राज्यम् आगच्छतु। पितरं च समाश्वसितु’ इति। एतां वार्तां श्रुत्वा भवन्तम् अनिवेद्य एव त्वरया एतं देशं आगतवान्’ इति।**

** राजा मुबारकःसन्तोषस्य पारं गतवान्। युवराजः तं स्वपितुः समीपे नीत्वा प्रवृत्तं सर्वंनिवेदितवान्। अनन्तरं राजोचितं सम्माननं कृत्वा, बहुमूल्यानि उपायनानि च दत्वा महानौकया युवराजः मुबारकं नाशानगरंप्रतिप्रेषितवान्।**

नर्तनसमर्थः अजः

नागपुरे मुकुन्दः नाम कश्चित् आसीत्। सः महाधनिकः। तस्य कुसीदव्यवहारः आसीत्। येभ्यः सः धनं ददाति तेभ्यःनिर्दाक्षिण्यपूर्वकं वृद्धिं चक्रवृद्धिं च स्वीकरोति स्म। अतः एव मुकुन्दतः ये धनं स्वीकुर्वन्ति ते भिक्षुकाः भवन्ति स्म।

क्रमशः नागपुरीयाः बहवः मुकुन्दस्य सकाशात् ऋणं स्वीकृत्य आपदि पतिताः। अतः ते तं मनसा निन्दन्ति स्म। केचन तु प्रत्यक्षतः एव निन्दां कुर्वन्ति स्म। क्रमशः ग्रामे सर्वत्र तद्विषये द्वेषभावना प्रसृता। ‘इतः परम् अधिकदिनं ग्रामे तिष्ठामि चेत् अपायः आपतेत्’ इति मुकुन्दः चिन्तितवान्। अतः सः नागपुरं त्यक्त्वा अन्यं समृद्धं ग्रामं गतवान्। तत्रापि स्वकीयं कुसीदव्यवहारम् आरब्धवान् च।

मुकुन्दः नागपुरतः गमनात् पूर्वं यैः ऋणं न प्रत्यर्पितं तेषां सर्वाणि गृहवस्तूनि वशीकृत्य सघोषविक्रयणं कृतवान् आसीत्। किन्तु एतेन आगन्तव्यं यत् धनम् आसीत् तत् पूर्णतया न आगतम्। अतः मुकुन्दः एतत्कार्यार्थम् स्वपुत्रं भूपतिं नागपुरं प्रति प्रेषितवान्।

‘अहम् अतीव बुद्धिमान्’ इति भूपतेः महान् गर्वः आसीत्। मित्राणां पुरतः सः बहुधा आत्मश्लाघनं करोति स्म अपि। किन्तु भूपतेः बुद्धिमत्ताविषये मुकुन्दस्य विश्वासः सर्वथा न आसीत्।

भूपतिः नागपुरम् आगत्य प्राप्तव्यं धनं समग्रं सङ्गृहीतवान्। प्रतिप्रस्थानसमये पित्रा प्रेषिता काचित् वार्ता भूपतिना प्राप्ता- “नागपुरे उत्तमजातीयाः अजाः लभ्यन्ते। तेषां मूल्यं यावत् अपि भवतु नाम।चिन्तांविना एकः उत्तमः अजः क्रेतव्यः" इति।

भूपतिः विपणिं गतवान्। तेषु दिनेषु

एकस्य अजस्य मूल्यं पञ्चरूप्यकात्मकम्। भूपतिः एकस्य वणिजःसमीपं गत्वा एकं पुष्टम् अजं प्रदर्शयन् मूल्यं पृष्टवान्। वणिक् ‘तस्य मूल्यं दशरूप्यकात्मकम्’ इति उक्तवान्।

“किम् एषः अत्युत्तमः अजः?” इति पृष्टवान् भूपतिः।

तदा वणिक् उदासीनतां प्रकटयन्उक्तवान्- “मया ये अजाः विक्रीयन्ते ते सर्वे उत्तमजातीयाः एव। किन्तुइतोऽपि श्रेष्ठः अजः अपेक्षितः चेत् व्याधप्रमुखस्य गजपतेः समीपं गच्छतु। तत्र उत्तमाः अजाः लभ्यन्ते" इति।

“गजपतिः किं करोति? कुत्र निवसति ?”

“विपणेः पार्श्वेसरोवरस्य तीरे तस्य शिबिरम् अस्ति। सः अजविक्रयणं करोति। जनाः तं मान्त्रिकः गजपतिः इति आह्वयन्ति। तदीयवेषभूषणेन भवान् दूरतः एव तं ज्ञातुं शक्नोति" इति उक्तवान् वणिक्।

भूपतिः गजपतिसमीपं गतवान्। स्वस्य आगमनकारणं गजपतये निवेदितवान् च।

भूपतिं परीक्षादृष्ट्या एकवारं दृष्ट्वा गजपतिः उक्तवान्- “मम समीपे नटः कश्चन अजः अस्ति। यदि द्रष्टुम् इच्छति तर्हि भवता विंशतिरूप्यकाणि दातव्यानि? इति।

‘नटःअजः अवश्यं द्रष्टव्यः’ इति भावना भूपतेः मनसि तीव्रतां प्राप्ता। अतः सः तस्मैव्याधाय विंशतिरूप्यकाणि दत्तवान्, तं विशिष्टम् अजं दृष्टवान् च।

सः अजः रज्जोः उपरि गच्छति स्म। उन्नतं स्तम्भम् आरोहति स्म। एवं च सः अजः नटवरम् अपि अतिशेते स्म।

एतत्सर्वं दृष्ट्वा भूपतिः आश्चर्यचकितः अभवत्। सः व्याधप्रमुखं पृष्टवान्- एतस्य मूल्यं कियत्?” इति।

“वस्तुतः एतस्य विक्रयणं मया न चिन्तितम् एव। विक्रेतव्यम् एव चेत्प्रायः सहस्ररूप्यकाणां कृते विक्रयणं कुर्याम्” इति उक्तवान् सः व्याधः।

“अश्रुतपूर्वा वार्ता एषा। अजस्य मूल्यं सहस्ररूप्यकात्मकं भवति वा?" इति आश्चर्येण

पृष्टवान् भूपतिः।

“एतस्य मूल्यं श्रुत्वा एव भवान् आश्चर्यचकितः। एवं चेत् भवान् यदि गायनसमर्थस्य अजस्य मूल्यं शृणोति तर्हि किं वा वदेत्?” इति गजपतिः पृष्टवान्।

“गायनसमर्थः अजः! एतत् तु सर्वथा विश्वासार्हं न। भवान् मां ग्रामीणं भावयन् वञ्चयन् न अस्ति किल?" इति विस्मयं प्रकटितवान् भूपतिः।

“अहम् असत्यं न वदामि। गायनसमर्थः अजः अपि मम समीपे अस्ति। यदि तदीयं गानं भवता श्रोतव्यं तर्हि शतरूप्यकात्मकं शुल्कं दातव्यम्। किं तदीयं गानं श्रोतुम् इच्छति?" इति।

भूपतिः शतं रूप्यकाणि दातुं सिद्धः अभवत्। व्याधः भूपतेः हस्ततः शतं रूप्यकाणि स्वीकृत्य स्वकीयं शिबिरं प्रविष्टवान्। कञ्चित् अजं बहिः आनीतवान्। प्रीत्या तस्य उपरि हस्तं स्थापयन् गातुम् आदिष्टवान्।

अजः मनुष्यस्वरेण मधुरं गायनम् अकरोत्। गायने स्वरतालादीनां साङ्गत्यम् समीचीनम् आसीत्। आश्चर्यचकितः भूपतिः ‘कथम् एतत् शक्यम्’ इति चिन्तयन् मौनम् उपविष्टः आसीत्।

गायनस्य अन्ते भूपतिः पृष्टवान्- “एतस्य अजस्य मूल्यं किम्?” इति।

‘‘पञ्चसहस्रं रूप्यकाणि” इति उक्तवान् व्याधः।

‘‘पञ्चसहस्रं रूप्यकाणि! एतत् तु मूल्यम् अत्यधिकम्” इति उक्तवान् भूपतिः।

“किमर्थम्? भवान् गायनसमर्थम् अजं कुत्रपि दृष्टवान् वा? नर्तनगायनसमर्थस्य अजस्य अपेक्षया अस्य मूल्यं तु न अधिकम्” इति उक्तवान् व्याधः।

“तादृशः अपि अजः अस्ति वा? अहं तं द्रष्टुं शक्नोमि वा?" इति पृष्टवान् भूपतिः।

“किमर्थं न? अवश्यम् द्रष्टुम् अर्हति। किन्तु तदर्थं द्विशतं रूप्यकाणि दातव्यानि" इति व्याधः उक्तवान्।

भूपतिः नर्तनगायनसमर्थम् अजं द्रष्टुं द्विशतं रूप्यकाणि दत्तवान्। व्याधः शिबिरस्य अन्तः गत्वा पुनः अन्यम् अजम् आनीतवान्।तस्य अजस्य शरीरं वर्णमयैः वस्त्रैः आवृत्तम् आसीत्। पादद्वयेन नर्तनं कुर्वन् अजः सुमधुरं गायनम् अपि अकरोत्। भूपतिः चिन्तितवान्- ‘एतदतिरिच्य आश्चर्यकरः विषयः नास्ति" इति।

‘‘एतस्य अजस्य किं मूल्यम्?” इति पृष्टवान् भूपतिः। “दशसहस्रं रूप्यकाणि। मूल्ये न्यूनताम् अहं न अङ्गीकरोमि। आवश्यकं चेत् दशसहस्ररूप्यकाणि दत्त्वा इदानीम् एव एतम् अजं नयतु। अन्यथा तूष्णीम् इतः गच्छतु" इति व्याधः उक्तवान्।

“एतत् मूल्यं तु अत्यधिकम्” इति उक्तवान् भूपतिः। तदा व्याधः उक्तवान्- “तथा किमपि न। यदि एतस्य गायनस्यनर्तनस्य च प्रदर्शनं व्यवस्थापयति तर्हि इतोऽपि द्विगुणितं धनं सम्पादयितुं शक्यते किल?" इति।

भूपतिः चिन्तितवान्- “प्रायः पिता एतस्य विचित्रशक्तिशालिनः अजस्य विषये श्रुतवान् स्यात्। अतः एव उत्तमम् अजं क्रीणातु इति वार्तां प्रेषितवान्। एवं न चेत् अपि एतादृशम् अपूर्वम् अजं दृष्ट्वा सः निश्चयेन तुष्यति। एतस्य नर्तनगायनयोः प्रदर्शनेन यथेष्टं धनम् अपि सम्पादयितुं शक्यते” इति।

एवं चिन्तयित्वा भूपतिः व्याधेन सह मूल्यविषये चर्चाम् आरब्धवान्। बहुधा

चर्चाविचर्चा प्रवृत्ता।अन्ते भूपतिः अष्टसहस्ररूप्यकाणि दत्त्वा तम् अजं क्रीतवान्। तस्य समीपे यावत् धनम् आसीत् तत्सर्वं समाप्तम्। अनन्तरं भूपतिःगृहं गन्तुं भाटकशकटम् अन्विष्टवान्। किन्तु तेन सह विद्यमानम् अजं दृष्ट्वा शाकटिकः ‘अर्धं भाटकम् अग्रिमधनरूपेण दातव्यम्’ इति उक्तवान्।

इदानीं किं करणीयम् इति भूपतिः न ज्ञातवान्। एकवारं चिन्तितवान्- “ग्रामे कस्यचित् सकाशात् किञ्चित् धनं ऋणरूपेण स्वीकरोमि" इति। तदा अन्यः विचारः उत्पन्नः- ग्रामे सर्वे मम हस्ते यथेष्टं धनम् अस्ति इति जानन्ति एव। अतः ऋणं किमर्थम् इति ते पुनः पृच्छन्ति इति। समग्रं धनं दत्त्वा अजः क्रीतः इत्येतं विषयं सर्वेषां पुरतः प्रकटीकर्तुम् न इच्छति स्म सः।

अन्ते अनन्योपायः सः गृहं प्रति अजेन सह पादाभ्याम् एव प्रस्थितः। बुभुक्षयाश्रमेण च पीडाम् अनुभवन् सः स्वग्रामं प्राप्तवान्। तत्र पितरम् उक्तवान्- “पश्यतु, मया कश्चन अपूर्वः अजः क्रीतः। एतादृशः जगति अन्यः नास्ति एव। एतत् दृष्ट्वा भवान् आश्चर्येण मूकः भविष्यति" इति।

“एवं वा?" इति वदन् मुकुन्दः अजं परीक्षादृष्टया सम्यक् परिशीलितवान्। पुनः उक्तवान् च- “श्वस्तनभोजनकूटार्थंमयाभूस्वामी सचिवः च आहूतौ। तत्र एतस्य मांसस्य पाकः भवतु। पाकानन्तरम् एव एतस्य महत्त्वस्य निर्णयः भविष्यति” इति।

एतत् वचनं श्रुत्वा भूपतिः भीतः। सः त्वरया उक्तवान्- “किम् उक्तवान् भवान्? खादनम्! खादनार्थम् एषः मया न आनीतः। एतद्द्वारा वयं लक्षशः रूप्यकाणि सङ्ग्रहीष्यामः। श्वःसर्वान् प्रमुखान् अत्र आह्वयतु। ते सर्वे एतस्य विशेषसामर्थ्यंपश्यन्तु। अनन्तरम् समग्रेग्रामे अजस्य एव वार्ता! धनिकाः एतम् अजं क्रेतुम् अहमहमिकया आगच्छन्ति। कोषस्य अर्धभागम् अपि दातुं सिद्धाः भवन्तिते" इति।

पुत्रस्य मुखात् आगतानि एतानि उत्साह

पूर्णवचनानि श्रुत्वा मुकुन्दः चिन्तितवान्- ‘अजे काऽपि विशेषता अस्ति’ इति। अतः सः भोजनकूटार्थम् अन्यम् अजं क्रीत्वा तस्य मांसेन पाकंकारितवान्।

अपरस्मिन् दिने भूस्वामी, सचिवः, ग्रामप्रमुखः इत्यादयः भोजनकूटार्थम् आगतवन्तः। ‘भोजनतः पूर्वं कश्चन अपूर्वः मनोरञ्जनकार्यक्रमः व्यवस्थापितः अस्ति’ इति सर्वान् मुकुन्द सूचितवान्। भूपतिः सर्वेषाम् अतिथिजनानां पुरतः तम् अजम् आनीय आदिष्टवान्– “अये, भवतः नृत्यकौशलं गानप्रावीण्यं च प्रदर्शयतु" इति।

द्वित्राः निमेषाः अतीताः। पञ्चदशनिमेषाः अपि अतीताः। अर्धघण्टा अपि अतीता। एतत्समये भूपतिः मध्ये मध्ये करताडनपूर्वकं पुनः पुनः नृत्यार्थम् अजम् आदिष्टवान्। किन्तु अजः तत्रैव निश्चलः आसीत्।

अपमानेन लज्जितः मुकुन्दः शिरः अवनमय्य स्थितवान्। अतिथयः सर्वे उच्चैः हसितवन्तः।

भूस्वामी भूपतिं पृष्टवान्- “प्रायः सः मान्त्रिकः गजपतिः एव भवन्तं सम्यक् वञ्चितवान् स्यात्। सत्यं किल ?" इति।

“आम्! अहं तस्य सकाशात् एव एतम् अजं क्रीतवान्" इति क्षीणस्वरेण उक्तवान् भूपतिः।

“सः जन्मना एव महावञ्चकः। स्वमन्त्रबलेन सः अजान् नर्तयति गाययति च। किन्तु अजाः यदा तस्य गृहात् निर्गच्छन्ति तदारभ्य ते पूर्ववत् एव भवन्ति" इति उक्तवान् भूस्वामी।

जातां महावञ्चनां ज्ञात्वा भूपतिः मुकुन्दः च दिग्भ्रान्तौ। एतेन प्रसङ्गेन तयोः बुद्धिशक्तिः क्षीणा जाता।

तद्दिनस्य भोजनकूटार्थम् आगताः परस्परं वदन्ति स्म- “अन्यगृहाणां लुण्ठनेन यत् सम्पादितम् आसीत् तत् वञ्चकेन व्याधेन वशीकृतम्’ इति।

नाटक-व्यसनम्


कः ग्रामः। तत्र गोविन्दनामकः युवकः वसति स्म।बाल्यतः एव गोविन्दस्य नाटकव्यसनम्। सः शालां न गतवान् एव। अत्रतत्र नाटकं, यक्षगानम्, इत्यादिकं पश्यन्दिनानि यापयति स्म। यदा गोविन्दः युवकःअभवत्, तदा सः ग्रामं त्यक्त्वा नगरम् आगतवान्। नगरे एकां नाटकमण्डलीं गत्वा तत्र अभिनयस्य अवकाशम् अपि प्राप्तवान्। तस्याः नाटकमण्डल्याः नाटकप्रदर्शनं दश दिनानन्तरं भविष्यति इति निश्चितम् आसीत्। तदर्थं पूर्वाभ्यासः प्रचलति स्म।

** नाटकस्य कथा एवं आसीत्। ‘एकः युवकः स्वमात्रा सह कलहं कृत्वा गृहं परित्यज्य गच्छति। सा माता तम् एव स्मरन्ती व्याधिपीडिता भवति। तदा तस्याः सहोदरः तं युवकम् अन्विष्यन् आगच्छति। तंगृहं आगन्तुं प्रार्थयते। परन्तु युवकः न अङ्गीकरोति। अन्ते सा माता एवपुत्रं द्रष्टुम् आगच्छति। तदा तस्याः प्रीतिं ज्ञात्वा पुत्रः तया सह गृहं गच्छति।’ एतस्मिन् नाटके पुत्रस्य पात्रं गोविन्देनकरणीयम् आसीत्।**

** नाटकमण्डल्याः यजमानः राजारामः,युवकस्य मातुलस्य पात्रम् अभिनयति स्म।सः गोविन्दस्य वसतिम् आगत्य तत्रैव अभ्यासं कारयति स्म। बहु विलम्बेन अभ्यासार्थं आगच्छति स्म। गोविन्दस्य गृहस्य पृष्ठतः किञ्चित् स्थलम् आसीत्। तदनन्तरं एकः बृहत् प्राकारः। प्राकारस्य अपरस्मिन् पार्शेकस्यचित् धनिकस्य भवनम्। स च प्राकारः बहु जीर्णः। तत्र मध्ये रन्ध्राणि च आसन्।**

** तस्मिन् दिने नाटकस्य पूर्वाभ्यासः आरब्धः। राजारामः स्वकीयपात्रस्य सम्भाषणम् आरब्धवान्**

किं भोः! एवम् आग्रहः न करणीयः। भवतः माता भवतः चिन्तया एव व्याधिपीडिता अस्ति। आगच्छतु, गृहं गच्छामः’ इति।

‘न भोः, मातुल! अहं नैव आगच्छामि। माता माम् उक्तवती- ‘भवतः मुखं न प्रदर्शयतु’ इति। अहं तु तां न पश्यमि’ इति उक्तवान् गोविन्दः।

‘तथा न वक्तव्यम् भोः! सा तदा भवन्तं तथा तर्जितवती स्यात्। परन्तु इदानीम् सा पश्चात्तापम् अनुभवन्ती अस्ति। भवान् न आगच्छति चेत् सा न जीवेत्’ इति पुनः राजारामः उक्तवान्।

एवंक्रमेण नाटकस्य सम्भषणाभ्यासं कारयित्वा राजारामः ‘सम्भाषणं कण्ठस्थीकरोतु’ इति उक्त्वा गतवान्। गोविन्दः तथैव किञ्चित्कालपर्यन्तम् अभ्यासं कृत्वा अनन्तरं गृहं प्रवेष्टुं सिद्धः। तदा प्राकारस्य रन्ध्रतः हस्ततालशब्दः श्रुतः। गोविन्दः भयेन तत्रैव पश्यन् स्थितवान्।

‘भोः! अत्र पश्यतु। भवन्तम् एव आह्वयामि। समीपम् आगच्छतु। कोऽपि पिशाचः आगतः इति चिन्तितवान् वा ? अहं मनुष्यः एव’ इति कण्ठध्वनिः श्रुतः।

इदानीं गोविन्दस्य किञ्चित् धैर्यम् आगतम्। सः रन्ध्रस्य समीपं गत्वा दृष्टवान्। प्राकारस्य तस्मिन् पार्श्वे वृद्धस्य श्मश्रुपूर्णं मुखं दृष्टम्। तत् मुखं गम्भीरम् आसीत्।

वृद्धः गम्भीरस्वरेण उक्तवान्- ‘भोः, कीदृशः युवकः भवान्? भवतः माता मृत्युदशायाम् अस्ति इति मातुलः उक्तवान्। तथाऽपि भवान् किमर्थं न गच्छति? एवं न करणीयम्। सा भवतः जन्मदात्री किल? अतः प्रथमं गत्वा तां पश्यतु’ इति।

‘एषः वृद्धः नाटकस्य सम्भाषणं यथार्थम् इति चिन्तितवान् अस्ति’ इति गोविन्दः ज्ञातवान्। तथाऽपि सः उक्तवान्- ‘यत्किमपि भवतु, अहं गृहं न गच्छामि। भोः तात! मम गृहस्य परिस्थितिं भवान् किं जानाति? यथाकथमपि अहं गृहं न गच्छामि। अहं न गच्छामि चेत् भवतः का हानिः?’ इति।

वृद्धः किञ्चित्कालं चिन्तयित्वा उक्तवान्- ‘भोः! अहम् अपि बाल्ये एवम् एव कृतवान्। गृहं त्यक्त्वा दूरं गतवान्। मम माता मां सर्वदा स्मरति स्म। अन्ते यदा अहं गृहं प्राप्तवान् तदा सा मृता आसीत्। पश्यतु मम भवनं, धनं, सर्वम् अस्ति। तथाऽपि किं प्रयोजनम्? अहं मातुः प्रीत्या वञ्चितः किल!’ इति।

‘एवं सम्भाषमाणः एषः वृद्धः महान् धनिकः एव। यथाकथाञ्चित् एषः वञ्चनीयः। तद्द्वारा यथेष्टं धनं सम्पादनीयम्’ इति गोविन्दः चिन्तितवान्। तदा तस्य मनसि एकः उपायः अपि स्फुरितः।

अतीवचिन्तामग्नः इव सः उक्तवान्- ‘अहं किं करोमि? गृहे वयम् अतीव दरिद्राः। अतः धनार्जनं करणीयम् इत्येव अहं नगरम् आगतवान्। मम ग्रामः बहु दूरे अस्ति। गन्तुं महान् व्ययः अपि भवति। रिक्तहस्तेन गच्छामि चेत् मातुः कष्टम् अधिकम् एव भवति’ इति।

‘एवं वा? भवतः मातुलस्य समीपे धनम् अस्ति वा नास्ति वा इति अहं न जानामि। अतः किञ्चित् तिष्ठतु। मातुः येन सन्तोषः स्यात्, तावत् धनम् आनीय ददामि’ इति उक्त्वा सःवृद्धः स्वगृहं गतवान्। पञ्चदशनिमेषाः अतीताः। गोविन्दः चिन्तयन् आसीत् यत् सः वृद्धःमनुष्य वा पिशाचः वा इति। तदा वृद्धःपुनः तत्र आगतवान्। तस्य हस्ते एकः धनस्यूतः आसीत्। सः तं स्यूतं दत्वा उक्तवान्– ‘भोः!एतत् स्वीकरोतु।विलम्बं न करोतु। श्वः एव गच्छतु’ इति।

गोविन्दःतम् स्यूतं स्वीकृत्य गृहम् आगतवान्। स्यूतम् उद्घाट्य दीपस्य प्रकाशे पश्यति तत्र दशसुवर्णनाण्यकानि सन्ति! सः अत्यानन्देन तानि पुनः स्यूते स्थापयित्वा स्यूतं स्वपेटिकायां वस्त्राणाम् अधःस्थापितवान्।

परेद्युः समीपस्थजनानां मुखतः गोविन्दः ज्ञातवान् यत् ‘सः वृद्धः धनिकः उदारी परोपकारी च अस्ति। अन्येषां कष्टं सः द्रष्टुं न शक्नोति। अतः यथेष्टं दानधर्मादिकं करोति’ इति।

एतत् ज्ञात्वा गोविन्दस्य मनसि दुराशा उत्पन्ना। धनिकस्य हस्ततः इतोऽपि धनं प्राप्तव्यम् इति सः निश्चयं कृतवान्। तस्मिन्दिने अपि राजारामःआगतवान्।द्वौ अपि गृहस्य पृष्ठतः गत्वा अभ्यासस्य आरम्भं कृतवन्तौ।

राजारामः नाटकस्यवाक्यं उक्तवान्- ‘भोः! भवतः मातुः परिस्थितिः बहु गम्भीरा अस्ति। सा भवतः मार्गम् एवप्रतीक्षमाणा अस्ति। भवान् अद्य वा गृहम् आगच्छतु। शीघ्रं गच्छावः। भवतः दर्शनेन सा तत्क्षणे एव स्वस्था भविष्यति’ इति।

‘मातुल! मया तु निश्चयः कृतः अस्ति गृहं न आगच्छामि इति। अहं तु एतद्विषये दृढः एव। भवान् व्यर्थं प्रयत्नं न करोतु। गच्छतु’ इति गोविन्दः उक्तवान्।

‘तथा न करणीयम्। भवता आगन्तव्यम् एव। अद्य न शक्यते चेत् मास्तु। अहं दिनत्रयानन्तरम् आगमिष्यामि। सिद्धः भवतु। इदानीं तु भवान् अस्वस्थःअस्ति इति भवतः मातरं सूचयामि’ इति उक्त्वा राजारामः प्रस्थितवान्।

अद्यतनसम्भाषणम् अपि धनिकः निश्चयेन श्रुतवान् स्यात् इति गोविन्दः चिन्तयित्वा तस्य प्रतीक्षायाम् एव स्थितवान्। तदा रन्ध्रस्य अन्यपार्श्वतः धनिकः पृष्टवान्-भोः गृहं गच्छतु इति मया धनं दत्तं किल? भवान् अद्यापि किमर्थं न गतवान् ? वृथा किमर्थं सर्वान् पीडयति ?’ इति।

गोविन्दः सविनयम् उक्तवान्- ‘ह्यः अहम् एकं विषयं वक्तुं विस्मृतवान्। ग्रामे मया पूर्वं बहु ऋणं कृतम् अस्ति। इदानीं ग्रामं गच्छामि चेत् तत् सर्वंप्रत्यर्पणीयं भवति। कथं प्रत्यर्पयामि? मम समीपे तु तावत् धनं नास्ति’ इति।

** ‘तत् तु सत्यम् एव। एषः विषयः ह्यः एव वक्तव्यः आसीत्। अस्तु, किञ्चित् तिष्ठतु, आगच्छामि’ इति उक्त्वा धनिकः गृहं गत्वा पुनः स्यूतम् एकम् आनीतवान्।**

** स्यूतं दत्वा सः उक्तवान्- ‘एतत् स्वीकृत्य ग्रामं गच्छतु। ऋणं प्रत्यर्पयतु’ इति।**

** गोविन्दः गृहम् आगत्य पश्यति- स्यूते विंशतिसुवर्णनाण्यकानि सन्ति। सः तानि अपि पेटिकायां स्थापितवान्।**

** आहत्य इदानीं त्रिंशत् नाण्यकानि लब्धानि। तानि दृष्ट्वा तस्य मनसि पुनः दुराशा उत्पन्ना। धनिकं वञ्चयित्वा इतोऽपि नाण्यकानि सम्पादयामि’ इति सः निश्चयं कृतवान्।**

** सायंकाले तत्र आगतः राजारामः उक्तवान् ‘भोः! गोविन्द! इदानीं नाटकं किञ्चित् परिवर्तितम् अस्ति। तत्र माता मृता भवति। पुत्रस्य पश्चात्तापः भवति - एवं परिवर्तनं कृतम् अस्ति। तदनुगुणं सम्भाषणं पाठयामि’ इति।**

** अनन्तरम् तौ गृहस्य पृष्ठभागम् आगतवन्तौ। ‘किं वदामि भोः! सर्वम् अपि समाप्तम्! भवतः माता अतीव ज्वरपीडिता आसीत्। तथापि सा भवतः दर्शनार्थं इति प्रस्थिता। मार्गमध्ये एव दिवङ्गता। तदा अपि सा भवन्तम् एव स्मरति स्म। येन भवता मातुः सेवार्थम् आगन्तव्यम् आसीत्, तेन उत्तरक्रिया करणीया आपतिता’ इति।**

** अनन्तरम् गोविन्देन वाक्यानि वक्तव्यानि आसन्। परन्तु तत्पूर्वम् एव प्राकारस्य रन्ध्रस्य अपरपार्श्वतः गम्भीरकण्ठध्वनिः श्रुतः- ‘भोः! वराक! एवम् एव भवेत् इति मया चिन्तितम् आसीत्! तिष्ठतु, आगच्छामि’ इति।**

** ‘अहो! कः एवं वदति? कोऽपि पिशाचःवा?" इति राजारामः भीत्या उक्तवान्।**

** भयेन सम्भ्रमेण च कम्पमानः गोविन्दःगृहं प्रविष्टवान्। वृद्धः धनिकः अपि तम् अनुसृत्य अन्तःआगतवान्। तेन सह**

दण्डधारि मल्लद्वयम् अपि आगतम्।

धनिकः कोपेन गोविन्दम् उक्तवान्- वराक! ग्रामं गत्वा अस्वस्थां मातरं पश्यतु इति मया त्रिंशत्सुवर्णनाण्यकानि दत्तानि। परन्तु भवान् न गतवान् एव। मातुः मरणे भवान् एव कारणम्। दुष्ट! भवतः मुखदर्शनम् अपि पापाय भवति। भवादृशाः अस्मिन् लोके न भवेयुः। अतः यत्र माता अस्ति तत्रैव गच्छतु भवान् अपि’ इति उक्त्वा धनिकः स्वसेवकौसंज्ञया किमपि सूचितवान्।

सेवकौ गोविन्दस्य सर्वाणि वस्तूनि बहिः निष्कास्य अन्विष्टवन्तौ। तस्य पेटिकायां त्रिंशत्नाण्यकैः पूर्णः स्यूतः अपि लब्धः। धनिकः गोविन्दं तर्जयन्- ‘रे, मातृद्रोहिन्! दयया भवन्तम् एवम् एव त्यजामि’ इति उक्त्वा धनस्यूतं स्वीकृत्य ततः निर्गतः। सेवकौ अपि तम् अनुसृतवन्तौ।

अत्र किंसंवृत्तम् इति राजारामः इदानीं ज्ञातवान्। कुपितः सः उक्तवान्- ‘सः सरलहृदयी धनिकः भवतः नाटकसम्भाषणं श्रुत्वा सत्यम् इत्येव चिन्तितवान्। धनम् अपि दत्तवान् किल। परन्तु भवान् मां नं उक्तवान् एव। कीदृशः स्वार्थी भवान्। दुराशस्य भवतः अस्माकं नाटके अभिनेतुम् अवकाशः नास्ति। भवान् इदानीम् एव इतः गच्छतु’ इति।

गोविन्दस्य अतीव पश्चात्तापः अभवत्। ‘अहं मम मातरम्, एतं दयालुधनिकं च वञ्चयित्वा महापराधं कृतवान्। मम वाणिज्यार्थम् धनस्य आवश्यकता भवति इति कृत्वा माता स्वकीयकङ्कणम् एव दत्तवती। अहं तु तत् स्वीकृत्य नगरम् आगत्य नाटकव्यसनेन कालं यापयन् अस्मि। अस्तु, अहम् इदानीं गृहं गच्छामि। तेन मातुः आनन्दः भविष्यति। अनन्तरं तस्याः आदेशानुसारम् एव जीवननिर्वहणं करोमि’ इति निश्चितवान्। अनन्रतरदिने एव गोविन्दः स्वग्रामं गतवान्।

नित्यसन्तुष्टः

पूर्वं सोमशेखरः नाम राजा आसीत्। सः अपेक्षितम् अनपेक्षितम् इत्यादिकम् आलोचयन् सदा चिन्ताकुलः भवति स्म।

एकदा सोमशेखरराजः मृगयार्थम् अरण्यं गतवान्। बहुकालम् अटनानन्तरम् अपि सः मृगयार्हम् एकं प्राणिनम् अपि न दृष्टवान्। अतः चिन्ताक्रान्तः सः राजभवनं प्रत्यागतवान्।

सोमशेखरस्य मन्त्री धर्मनन्दनः वयोवृद्धः ज्ञानवृद्धः च। सः महाराजस्य चिन्ताकुलं मुखं दृष्ट्वा एव कारणं ज्ञात्वा उक्तवान्- “महाराज! मृगया नाम कश्चन मनोविनोदः। व्याधादयः तु आहारनिमित्तं मृगयार्थं गच्छन्ति। प्राणिनः अलाभात् तादृशाः यदि खिन्नाः भवेयुःतर्हि तत्र युक्तता अस्ति। मृगया अपि विहारस्य एकम् अङ्गं किल भवतः? अतः प्राणिनः अलाभात् किमर्थं दुःखम्? अरण्ये सन्तोषेण यः सञ्चारः कृतः तस्य रसम् आस्वादयतु। तेन भवतः चिन्ता दूरं गमिष्यति इति।

एतेन वचनेन महाराजस्य चिन्ता तु दूरं गता। अनन्तरदिने अपि मनसः समतोलनं तेन न प्राप्तम्। भोजनार्थम् अपि सः अन्यमनस्कः सन् एव राज्ञ्या सह उपविष्टवान्। भोजने अपि तस्य असन्तृप्तिः एव। भोजनं कुर्वन् सः सुवर्णस्थालिकायां परिविष्टं व्यञ्जनं किञ्चिदिव आस्वाद्य “अत्र लवणम् एव नास्ति” इति वदन् असमाधानेन स्थालिकां दूरे अपसार्य उत्थितवान्।

राज्ञी तु- “प्रभो! एकं व्यञ्जनम् रुचिकरं न स्यात्। इतोऽपि दशविधानि व्यञ्जनानि सिद्धानि सन्ति खलु। तेषां रुचिम् आस्वादयतु। तानि रुचिकराणि सन्ति एव। किमर्थम् असमाधानम्?” इति।

सोमशेखरः तु उत्तरं किमपि न यच्छन् मौनं हस्तं प्रक्षाल्य ततः निर्गतवान् एव।

एवं स्थिते एकदा मन्त्री धर्मनन्दनः

महाराजम् उक्तवान्- “महाराज! अस्माकं नगरप्रान्तं कश्चन महायोगीश्वरः आगतवान् इति श्रुतम्। तं वयं पश्यामः चेत् वरं भवेत् इति मम विचारः। तेन भवतः चिन्ता अपि परिहृता भवेत्” इति।

राजा एतत् अङ्गीकृतवान्। अनन्तरं राजा मन्त्री च तस्य योगीश्वरस्य दर्शनार्थं गतवन्तौ।

सोमशेखरः योगीश्वरं साष्टाङ्गं नमस्कृत्य उक्तवान्- “महात्मन्! अहम् एतस्य देशस्य राजा सोमशेखरः। अनुकूलकरी पत्नी अस्ति मम। कोषागारे धनस्य अपि न अभावः। तथापि काऽपि चिन्ता कोऽपि खेदः। सन्तोषेण स्थातुम् एव न शक्नोमि। अत्र कारणं किमिति न जानामि। सर्वदा सन्तोषेण स्थातुं मया किं करणीयम् इति कृपया उपदिशतु” इति।

योगीश्वरः मन्दहासं प्रकटयन- राजन्! भवतः समस्या मया ज्ञाता। तस्याः निवारणे न तथा क्लेषः। भवान् नित्यसन्तुष्टस्य कस्यचित् हस्ते स्थितम् अङ्गुलीयकं सम्पादयतु। तत् यदि धरेत् तर्हि भवतः सर्वाः चिन्ताः अपगताः भवन्ति। भवान् अपि सदा सन्तोषेण स्थातुंशक्ष्यति” इति।

योगीश्वरस्य मार्गदर्शकसचनाम्अङ्गीकृत्य सोमशेखरः स्वप्रासादं प्रत्यागतवान्। अनन्तरदिने वेषान्तरं धृत्वा अश्वम् आरुह्य नित्यसन्तोषिणः अन्वेषणार्थं प्रस्थितः च।

एवं गच्छन् सः एकत्र हसन्तं सन्तोषपरवशम् एकं पुरुषं दृष्टवान्। एषः सदासन्तुष्टः स्यात्’ इति चिन्तितवान् राजा।

अतः राजा तस्य समीपं गत्वा पृष्टवान्- “भोः, भवान् परमसन्तोषेण जीवति इति भाति। कः भवान् ? किं करोति ?” इति।

तदा सः उक्तवान्- “श्रीमन्! अहं पुरोहितः। अहम् एतत्प्रदेशे व्रतपूजादिकं कारयन् पौरोहितवृत्त्या जीवामि” इति।

“एतया वृत्त्या भवान् मन्तोषेण जीवति इति भाति” इति उक्तवान् महाराजः।

तदा पुरोहितः उक्तवान्- “सदा हसन्मुखी भवामि इति तु सत्यम् एव। यतः

सः मम व्यवहारधर्मः। यद्दिने यथेष्टं दक्षिणा प्राप्यते तद्दिने सन्तोषः। यदा कोऽपि आयः न भवेत् तदा खेदः। यदा निर्धनानां सङ्कटं पश्यामि तदा अपि खेदः। एतादृशे सन्दर्भे भगवतः लीलां दृष्ट्वा हसामि। मम असहायकतां स्मरन् पुनः अपि हसामि” इति।

** राजा ततः अग्रे गतवान्। तत्र सः एकं ज्योतिषिकं दृष्टवान्। एषः नित्यसन्तोषी स्यात् एव। यतः भविष्यत्काले किं किं प्रवर्तते इति एषः पूर्वम् एव जानाति। भविष्यतः काऽपि चिन्ता न भवति’ इति चिन्तितवान् राजा। अतः सः तस्य ज्योतिषिकस्य समीपं गत्वा- “भवान् नित्यसन्तोषी वा?" इति पृष्टवान्।**

** ‘अहं भविष्यत्काले जायमानं सर्वं ज्ञातुं शक्नोमि इति चिन्तयन् भवान् एवं वदति किल? किन्तु तथा नास्ति भोः। आगमिष्यमाणानां कष्टानां विषये उद्वेगः। तथैव प्रतिदिनं समीपम् आगच्छतः मरणस्य विषये तु महती भीतिः। एवं स्थिते सन्तोषः कुतः?" इति पृष्टवान् ज्योतिषिकः।**

** राजाइतोऽपि अग्रेगतवान्। कस्मिंश्चित् ग्रामे एकत्रितान् हसन्मुखिनः जनान् सः दृष्टवान्। तेषां मध्ये कश्चित् उष्णीषधारी विदूषकः, विनोदं श्रावयन् रुचिरम् अभिनयन् सर्वान् जनान् हासयन् आसीत्।**

** तस्य कार्यक्रमस्य समाप्तेः अनन्तरं राजा एकं सुवर्णनाणकं तस्य पुरतः स्थापयित्वा तंपृष्टवान्– ‘भोः, हासः एव भवतः वृत्तिः। एवं तर्हि भवान् नित्यसन्तुष्टः स्यात् खलु?" इति।**

** तदा सः आगतानि अश्रुबिन्दूनि हस्तेन मार्जयन्- “भोः, उदरम्भरणार्थम् अहं सर्वदा हसामि \। विनोदैः जनान् रञ्जयामि। एवं यदि न करोमि तर्हि मम पत्नीपुत्रैः उपवासः आचरणीयः भवेत्। पश्यतु, एतावत्पर्यन्तं जनानां मनोरञ्जनं कृतवान्। किन्तु धनं विशेषतः न प्राप्तम्। भवान् कोऽपि धर्मात्मा इति भाति। एकं स्वर्णनाणकं दत्तवान्। एतेन धनेन अद्य मम पुत्राः पूर्णोदरं भोक्तुं शक्नुवन्ति। एतत् एव जीवनम्” इति उक्त्वा खेदेन हसितवान्।**

** एतत्सर्वं पश्यतः महाराजस्य**

सन्तोषप्राप्तिः दूरे तिष्ठतु, पूर्वतनः खेदः एव अधिकः जातः। तथापि सः बहूनि दिनानि यावत् नित्यसन्तोषिणः अन्वेषणं कृतवान्।

एवं दीर्घप्रयाणेन श्रान्तः राजा एकदा वृक्षस्य अधः उपविष्टः आसीत्। तत्रैव सः निद्रां प्राप्तवान् अपि। यदा जागरणं जातं तदा तीव्रा बुभुक्षा अनुभूता तेन। सः उत्थाय परितः दृष्टवान्। समीपे एव केनचित् क्रियमाणः वृक्षच्छेदनशब्दः तेन श्रुतः। राजा अश्वं चालयन् तस्यां दिशि गतवान्। तत्र कश्चन वृक्षच्छेदने मग्नः आसीत्।

राजानं दृष्ट्वा सः उत्साहेन पृष्टवान्- “भोः श्रीमन्, जनसञ्चाररहितम् एतं प्रदेशं भवान् किन्निमित्तम् आगतवान्? कः भवान्?” इति।

“अहं कश्चन पथिकः। मार्गभ्रष्टः सन्अत्र आगतवान्” इति उक्तवान् राजा।

“एवं तर्हि भवान् श्रान्तः बुभुक्षितः चस्यात्। यतः इदानीं मध्याह्नकालः। आगच्छतु मम कुटीरम्” इति उक्त्वा सः महाराजं स्वकुटीरं नीतवान्।

राजा अश्वम् एकत्र बद्धवा हस्तौ पादौ च प्रक्षाल्य अन्तः आगतवान्। सः पुरुषः महाराजस्य पुरतः द्वित्राणि फलानि रोटिकाः च आनीय स्थापितवान्।

राजा रोटिकाः खादन् पृष्टवान्- “भवान् एकाकी एव अत्र निवसति वा?” इति।

एतत् श्रुत्वा सः हसन्- “एकाकी कथम्? मञ्जुलं कलरवं कुर्वन्तः पक्षिणः अत्र सन्ति। नर्तकाः मयूराः सन्ति। चटुलाः शशाः सन्ति। स्निग्धाः हरिणाः सन्ति। एते सर्वे मम स्नेहिताः एव। तेषां सहवासे अहम् एकाकितां कदापि न अनुभवामि। इदानीं भवान् एव वदतु- अहम् एकाकी वा?” इति प्रतिप्रश्नं कृतवान्।

एवं किञ्चित्कालं तयोः सरसः वार्तालापः प्रवृत्तः। अहम् एकस्य नित्यसन्तोषिणः पुरतः अस्मि’ इति भावना आगता महाराजस्य मनसि।

“भवान् अस्मिन् अरण्यप्रान्ते सदा सन्तोषेण कालं यापयति इति भाति। सत्यं किल?” इति पुनः पृष्टवान् राजा।

‘‘भवता सत्यम् एव उक्तम्। अत्र समयःकथं गच्छति इति अहम् एव न जानामि। न

मम कौटुम्बिकबन्धनम्। न मम कामनाः च। अतः अहं सदा सन्तोषेण एव तिष्ठामि” इति उक्तवान् सः।

‘यादृशम् अन्वेष्टुम् अहं सर्वत्र सञ्चारं कृतवान् सः एव लब्धः इदानीम्’ इति निश्चयः जातः महाराजस्य मनसि।

“भवतः एकम् अङ्गुलीयकम् आवश्यकम्। तदर्थं यावदपि मूल्यं दातुं सिद्धः अहम्” इति तम् उक्तवान् राजा।

“यदि मम अङ्गुलीयकं स्यात् तर्हि सन्तोषेण निश्शुल्कम् एव दद्याम्। किन्तु किं करोमि, मम समीपे अङ्गुलीयकं नास्ति। भौतिकसम्पदा किं मम इति तत् न सङ्गृहीतवान् अहम्” इति उक्तवान् सः।

राजा तस्य आतिथ्यार्थं कृतज्ञतां समर्प्य राजधानीं प्रत्यागतवान्। अनन्तरदिने योगीश्वरसमीपं गत्वा- “श्रीमन्, महता श्रमेण अहं नित्यसन्तुष्टम् अन्विष्टवान्। किन्तु तस्य समीपे अङ्गुलीयकम् एव न आसीत्” इति उक्तवान् च।

तदा योगीश्वरः मन्दहासं प्रकटयन्- ‘भवता दृष्टः नित्यसन्तोषी अङ्गुलीयकस्य अभावे अपि सन्तोषेण तिष्ठति। भवान् तु महतः राज्यस्य अधिपतिः सन् अपि सदा चिन्तया बाध्यते। एवं वैपरीत्यस्य कारणं किं स्यात् इति भवान् चिन्तितवान् वा?” इति पृष्टवान्।

“प्रायः सः सन्तोषस्य मूलं जानाति इति मन्ये” इति उक्तवान् राजा।

“तस्य दर्शनेन भवान् ज्ञातवान् स्यात् यत् तस्य न काऽपि कामना अस्ति इति। सन्तोषस्य कारणम् ऐश्वर्यं न। यथा यथा कामना वर्धते तथा तथा चिन्ता अपि वर्धते। यस्य कामनाः अधिकाः सः एव दरिद्रः। अतः भवान् राजा सन् अपि दरिद्रः एव। कामनाः न्यूनीकृत्य कर्तव्यबुद्ध्या यदि राजधर्मम् आचरेत् तर्हि भवान् अपि नित्यसन्तुष्टः भवितुम् अर्हति। सर्वम् अस्माकं हस्ते अस्ति” इति हितं बोधितवान् यतीश्वरः।

सोमशेखरः यतीश्वरं श्रद्धया नमस्कृत्य राजभवनं प्रत्यागतवान्। कालान्तरे तस्य चिन्ता अपि दूरङ्गता।

निधिरहस्यम्

कोसलदेशस्य राजा सूर्यसेनः। सः यदासप्ततिवर्षीयः जातः, तदा वार्धक्यसहजेन दौर्बल्येन अनारोग्येण च पीडितः अभवत्। एतेन सः पूर्ववत् राज्यकार्याणि निर्वोढुम् असमर्थः अभवत्। तेन राज्यस्य परिस्थितिः अव्यवस्थिता जाता।

** एतस्यां परिस्थितौ प्रजासु अन्तर्गताः दुर्गुणाः दुष्टशक्तयः च अङ्कुरिताः, क्रमेण प्रवृद्धाः च। देशे तत्र तत्र अराजकता दृश्यते स्म। चौर्यं, मार्गलुण्ठनादयः नित्यविषयाः। बहुदिनेभ्यः कोसलदेशं स्वाधीनीकर्तुम् अवकाशं प्रतीक्षमाणस्य विदेशराजस्य इदानीम् अत्यानन्दः जातः।**

** अद्यावधि सूर्यसेनस्य पुत्रः चतुरसेनः विद्माभ्यासार्थंदूरदेशे वसति स्म। सः इदानीम् अध्ययनं समाप्य स्वदेशम् आगतवान्। सः प्रौढः शूरः च आसीत्। तादृशं युवराजंदृष्ट्वा प्रजाः सन्सुष्टाः। प्रधानसचिवः महाराजस्य समीपं गत्वा “सद्यः एव युवराजपट्टाभिषेकं कृत्वा राज्यस्य शासनदायित्वं युवराजपुत्राय अर्पयतु" इति सूचितवान्।**

** एषा सूचना अनुचिता इति सूर्यसेनस्य अभिप्रायः। अद्यावधि दूरदेशे वसन् राजकुमारः मुग्धः अनुभवहीनः च। तस्य हस्ते सहसा राज्यस्य प्रदानेन महती विपत्तिः आपतेत् इति महाराजस्य भीतिः। अतः पट्टाभिषेकतः पूर्वं पुत्रस्य परीक्षा करणीया। तस्य विवेकः कीदृशः, लोकज्ञानं कीदृशम् इति ज्ञानानन्तरं पट्टाभिषेकः भवतु इति सः निर्णीतवान्।**

** अनन्तरं सूर्यसेनः पुत्रम् आहूय देशस्य समग्रां परिस्थितिं निवेद्य ‘इदानीम् उचितः मार्गः कः ?" इति पृष्टवान्।**

** चतुरसेनः किञ्चित् आलोच्य “प्रथमं**

दुर्गस्य भित्तयः दृढीकरणीयाः। यः भागः शिथिलः अस्ति, सः दृढं समीकरणीयः। किञ्च अस्माकं सैनिकाः आयुधैः सज्जीभूय तिष्ठेयुः। एतत् कार्यद्वयं सद्यः एव करणीयम्” इति उक्तवान्।

“तत्तु समीचीनं भोः। किन्तु अस्माकं देशस्य अन्तः एव स्थित्वा ये चौर्यं लुण्ठनं च कुर्वन्ति, अराजकतां च उत्पादयन्ति। तेषां विषयं चिन्तितवान् वा? बाह्यशत्रूणाम् अपेक्षया एतैः अन्तः स्थितैः शत्रुभिः अधिकः अपायः भवति खलु?" इति पृष्टवान् सूर्यसेनः।

तत् वचनं श्रुत्वा चतुरसेनः “तात, देशस्य अन्तर्भागे ये चौर्यलुण्ठनादयः सम्भवन्तिते तात्कालिकरूपेण प्रजानां क्लेशकारकाः विषयाः इति तु सत्यम्। किन्तु एतादृश-चौर्यादिभिः अपहृताः सम्पत्तयः अस्माकं देशतःबहिः नैव गच्छन्ति। यदा ते दुष्टाः बन्धिताः भवन्ति, तदा तेषां सम्पूर्णसम्पत्तीःस्वाधीनीकृत्य, चौर्यादिभिः पीडितेभ्यःजनेभ्यः प्रत्यर्पयितुं शक्यते। अतः तद्विषये तावती चिन्ता नास्ति" इतिउक्तवान्।

‘‘एवं तर्हि बाह्यशत्रुभ्यः एव अधिकः अपायः भवति इति भवतः अभिप्रायः। सत्यं खलु?" इति सूर्यसेनः पृष्टवान्।

“आम्, अस्माभिः इदानीं शीघ्रं रक्षणा-व्यवस्था करणीया गूढचारैः सूचितया।वार्तया बाह्यः अपायः अस्ति इति ज्ञातं किल? विदेहराजेन सह युद्धे यदि अस्माकं पराजयः भवेत्, तर्हि तस्य सैनिकाः अस्माकं प्रजानां समस्तसम्पत्तीः अपहरिष्यन्ति।अस्माकं सिंहासनम् अपि शत्रोः अधीनं भविष्यति। तदर्थम् अस्माभिः बहु जागरूकैः भवितव्यम्” इति उक्तवान् चतुरसेनः।

पुत्रस्य अभिप्रायं श्रुत्वा सूर्यसेनः दुर्गस्यभित्तीनां दृढीकरणकार्यस्य आयोजनार्थं कोशाधिकारिणं समाहूतवान्। यदा सः अधिकारिणा सह व्ययविचारम् आलोचितवान्, तदा तदर्थं पर्याप्तं धनं कोशागारे नास्ति इति ज्ञातम्। यत् किमपि वा कार्यं भवतु, धनं

खलु प्रधानम्? कोशागारं रिक्तं नाम महान् अपायःएव। इदानीं किं करणीयम् ? वृद्धराजः तीव्ररूपेण चिन्तामग्नः जातः। एतस्मिन् सन्दर्भे सेनानायकः गुप्तचरद्वयेन सह सूर्यसेनस्य समीपम् आगत्य ‘महाप्रभो, अस्माकं गुप्तचरद्वारा एका नूतनवार्ता ज्ञाता अस्ति। इदानीं दिनदिनेभ्यः एकः साधुपुङ्गवः अस्माकं नगरं समागतवान् अस्ति। सः अद्भुतमहिमावान्। तस्य दर्शनार्थं ये गच्छन्ति तेषां पूर्वजैः रक्षितानां निधीनां विचारं सः वदति। अद्यावधि अनेके जनाः लाभं प्राप्तवन्तः। भवान् अपि तस्य साधोः दर्शनार्थं गच्छति चेत्प्रयोजनं भवेत् इति विज्ञापयितुम् अहम् आगतवान्" इति उक्तवान्।

सेनानायकस्य राजभक्तिः, सामर्थ्यम् इत्यादिषु वृद्धराजस्य महान् विश्वासः आसीत्। अतः सः सद्यः एव साधोः समीपं गत्वा, स्वीयां समस्यां उक्तवान्।

साधुः नेत्रे निमील्य किश्चित् अनन्तरं पुनःउन्मील्य- “भोः महाराजः, अहं योगदृष्ट्या सर्वं परिशीलितवान्। इदानीं कस्मात् अपि महाराजतः भवतः राज्यस्य अपायः नास्ति। किन्तु एकः विशेषविचारः अस्ति। भवतः पूर्वजैः दुर्गस्य महाद्वारस्य उभयपार्श्वयोः भूमौ निधिपूर्णाः शतं कलशाः निक्षिप्ताः सन्ति। ते कलशाः सुवर्णमयाः सन्ति। तत्र खननं कारयित्वा तान् कलशान् पाप्नोति चेत्’ भवतः धनसमस्यायाः परिहारः भविष्यति” इति उक्तवान्।

तदा राजा सन्तृप्तः सन्, साधुं भक्तिपूर्वकं नमस्कृत्य स्वीयभवनं प्रत्यागतवान्।

साधुवचने जनकस्य तृतिं विश्वासं च दृष्ट्वा युवराजस्य आश्चर्यम् उत्पन्नम्। “अस्तु, साधोःवचनं कदाचित् सत्यम् एव स्यात्। तथापि इदानीं शत्रुराजस्य आक्रमणभयम् अस्ति। एतस्याम् अपायपरिस्थितौ दुर्गस्य भित्तीनां खननं तु अनुचितम् एव। निधिः अस्ति इति साधुना निर्दिष्टे दुर्गभागे भित्तिषु किञ्चित् अपि शैथिल्यं नास्ति। सः भागः अन्यस्थानापेक्षया दृढतमः अस्ति। अस्माकं

राज्ये दुर्गस्य भित्तिमूलं त्यक्त्वा अन्यत्र कुत्रापि धनं नास्ति वा? प्रथमं तस्य साधोः महात्म्यं कीदृशम् इति परीक्षां कर्तुं षण्णां दिनानाम् अवकाशं मह्यं ददातु" इति पृष्टवान् चतुरसेनः।

‘तथास्तु’ इति सूर्यसेनः अनुमतिं दत्तवान्। अनन्तरं युवराजःआस्थानविदूषकेण सह रहस्यरूपेण समालोच्य, तस्य गृहस्य पृष्ठतः पूर्वभागीयभूमिं खानयित्वा तत्र सहस्रसुवर्णदीनारान् निक्षिप्तवान्। अनन्तरं विदूषकः तस्य साधोःसमीपं गत्त्वा, साष्टाङ्गनमस्कारं कृत्त्वा ‘महास्वामिन्! भाग्यहीनः अहं बहुदरिद्रः।मम इदानीं धनस्य अत्यावश्यकता अस्तियथाकथञ्चित् सहस्रदीनाराः सन्ति चेत् कष्टपरिहारः भवेत्। भवतः अनुग्रहात् अनेके जनाः स्वीयगृहपरिसरेषु एव स्वपूर्वजैः स्थितानि धनानि लब्धवन्तः। मम पूर्वजैः अपि तथा यत्किञ्चित् निक्षिप्तम् अस्ति वा इति परीक्ष्य वदन्तु" इति दीनभावेन प्रार्थितवान्।

तदा साधुःनेत्रे निमील्य किञ्चित्कालं तूष्णीं स्थित्वा “भोः तं विषयं योगदृष्टया परिशीलयितुं योग्यः मुहूर्तः अद्य अतीतः। अतः भवान् श्वः प्रातः आगच्छतु। भवतः गृहपरिसरे निधिः अस्ति वा न वा इति वदामि” इति उक्तवान्।

युवराजः चतुरसेनः तस्यां रात्रौ रहस्यरूपेण विदूषकस्य गृहं गतवान्। तत्र अर्धरात्रान्ततरं द्वौ पुरुषौ गृहस्य पृष्ठभागीयभित्तिम् आरुह्य गृहं प्रविष्टवन्तौ। विदूषकःयुवराजः च तौ पुरुषौ दृष्ट्वा तौ कौ इत्यपि स्मृतवन्तौ। पूर्वं सेनानायकेन सह महाराजस्य समीपम् आगतौ गूढचारौ एव तौ।

तौ द्वौ अपि गृहस्य पृष्ठतः पश्चिमभागे स्थितस्य आम्रवृक्षस्य अधोभागे किञ्चित् खनित्वा एकं गर्तं कृतवन्तौ। तस्मिन् गर्ते किमपि निक्षिप्य अनन्तरं भूमिं पूर्ववत् समीकृत्य ततः निर्गतवन्तौ।

तयोः निर्गमनानन्तरं युवराजः विदूषकः च तत्र गत्वा परीक्षितवन्तौ। एकस्मिन् ताम्रकलशे सहस्रदीनाराः आसन्। दृष्ट्वा तं

तत्रैव भूमौ पुनः स्थापितवन्तौ।

परेद्युःप्रातः विदूषकः साधोः समीपं गतवान्। साधुः तं दृष्ट्वा “भोः भवतः गृहस्य पृष्टभागे पश्चिमपार्श्वेवर्तमानस्य आम्नवृक्षस्य मूले सः निधिः अस्ति। तं निधिं गृहीत्वा भवतः कष्टस्य परिहारं प्राप्नोतु" इति उक्तवान्।

विदूषकः राजभवनं प्रत्यागत्य साधुना कथितं विचारं युवराजम् उक्तवान्। अनन्तरं युवराजःविदूषकेण सह महाराजस्य समीपं गत्वा जातं वृत्तान्तं कथयित्वा “तात, यदि सः साधुः महिमावान् स्यात् तर्हि न्यूनातिन्यूनं अस्माभिः निक्षिप्तस्य धनस्य विचारं वक्तुं शक्तः अभविष्यत्। किन्तु सःकेवलम् आत्मना निक्षिप्तं धनम् एव सूचितवान्। सः नूनं शत्रोः गूढचारः एव। तत्र संशयः नास्ति एव। अस्माकं सेनापतिः, केचन गूढचाराःच सम्भूय निधीनां व्याजेन जनान् वञ्चयन्तः सन्ति। अस्माकं दुर्गस्य सुदृढं महाद्वारं निधिव्याजेन शिथिलीकर्तुं शत्रवः प्रयत्नं कुर्वन्तः सन्ति" इति उक्तवान्।

एतत् श्रुत्वा सेनानायकस्य विषये सूर्यसेनमहाराजस्य मनसि किञ्चित् संशयःउत्पन्नः। तथापि तस्य बन्धनार्थं सहसा आज्ञां दातुम् अनिच्छन्, युवराजं “सः साधुवेषधारी गूढचारःस्वीयमिथ्यामहिमप्रदर्शनेन यथा अस्माकं नगरस्य अनेकजनान् वञ्चितवान्, तथा सेनानायकम् अपि वञ्चितवान् स्यात्। सहसा तस्य उपरि राजद्रोहम् आरोपयितुं मम मनः न इच्छति भोः” इति उक्तवान्।

‘‘एवं तर्हि वयम् एवं कुर्मः। अद्य रात्रौ वयं वेषपरिवर्तनं कृत्वा तस्य साधोः निवास-स्थानं गमिष्यामः। तत्र ये ये आगच्छन्ति, तेषु अस्माकं गूढचाराः सन्ति चेत्, तान् बद्धवा आनयामः। अनन्तरं तेषां द्वारा वस्तुस्थितिं ज्ञातुं शक्नुमः" इति उक्तवान् युवराजः।

महाराजः अङ्गीकृतवान्। सः युवराजः च भिन्नभिन्नवेषं धृत्वा साधोः गृहं गतवन्तौ। तौ अनेकसैनिकान् अपि नीतवन्तौ। ते

सैनिकाः दूरे एव गुप्तरूपेण स्थितवन्तः। पितापुत्रौ साधोः गृहस्य वातायनस्य पार्श्वे स्थितवन्तौ।

किञ्चित्कालानन्तरं सेनानायकःअनुचरैःसह तत्र आगतवान्। तं दृष्ट्वा साधुः “अस्माकं योगदृष्टिविषये महाराजस्य सम्पूर्णविश्वासः जातः खलु ?" इति पृष्टवान्।

“आम्, सम्पूर्णविश्वासः जातः अस्ति। अत्र संशयः मास्तु। विदूषकस्य गृहे निधिः लब्धः खलु? तेन अन्येषां अधिकारीजनानाम् अपि भवद्विषये महान् विश्वासः जातः। श्वः वा परश्वःवा महाराजः निधिप्राप्तयर्थं दुर्गस्य महाद्वारभागं खानयिष्यति” इति उक्तवान् सेनानायकः।

सेनानायकस्य वचनश्रवणसमनन्तरं एव राजा युवराजः च सैनिकैः सह गृहं प्रविष्टवन्तौ। सैनिकाः धावन्तः गत्वा साधुं सेनापतिं अनुचरान् च बद्ध्वा नीतवन्तः। अनन्तरं ते सर्वे कारागारे स्थापिताः।

राजा युवराजः च ततः राजभवनं प्रत्यागतवन्तौ। अनन्तरं राजा सचिवं समाहूय “भोः महासचिव, भवत्सूचनानुसारं मया पूर्वमेव युवराजपट्टाभिषेकः करणीयः आसीत्। एते दुष्टाः निधिव्याजेन अस्मासु भ्रमम् उत्पाद्य दुर्गस्य भित्तिं शिथिलीकृत्य अपातयिष्यन्। तदा अस्माभिः एव विदेहराजस्य स्वागतं कृतमिव अभविष्यत्। अस्माकं भाग्यवशात् अपायः अपगतः। इदानीं शीघ्रमेव युवराजस्प पट्टाभिषेकोत्सवम् आयोजयतु" इति उक्तवान्।

अनन्तरं सप्ताहाभ्यन्तरे एव युवराजस्य चतुरसेनस्य पट्टाभिषेकोत्सवः सम्पन्नः। यदा सः राजा अभवत् तदा पूर्वविचारान् सम्यक् विचार्य गूढचारशाखां स्वाधीनां कृतवान्।

स्वीयतन्त्रस्य भङ्गेन विदेहराजः हताशःजातः। सः युद्धप्रयत्नं त्यक्तवान्।

स्वपुत्रस्य शक्तिसामर्थ्यादीनां साक्षात् दर्शनेन वृद्धराजः निश्चिन्तः भूत्वा विश्रान्तिसुखम् अनुभवन् कालं यापितवान्।

न्यायपीठम्

कुमुदपुरस्य राजा चन्दनः। चन्दनस्य अपेक्षा आसीत्- यत् न्यायनिर्णये सर्वथा शतांशाः अपि निर्दुष्टाः स्युः इति। किन्तु एतत् असम्भवम् एव असीत्। यतः न्यायनिर्णायकःमानवः किल? अतिजागरूकता आश्रिता चेदपि प्रमादः सम्भवति एव। लब्धेन साक्ष्याधारेण किल तेन न्यायनिर्णयः करणीयः? अतः निर्णये दोषः सर्वथा नास्ति इति कथं वक्तुं शक्यते?

“एतादृशः दोषः निवारणीयः” इति इच्छन् चन्दनराजःअरण्यं गत्वा बहुवर्षाणि यावत्, धर्मदेवताम् उद्दिश्य तपः आचरितवान्।

चन्दनस्य तपसा धर्मदेवता सन्तुष्टा। “अपेक्षितं वरं वृणोतु" इति सा उक्तवती। तदा राजा धर्मदेवतां प्रार्थितवान्- “देवि! मम तादृशम् एकं न्यायपीठम् अपेक्षितं यस्याः उपरि स्थितः कश्चित् असत्यं वदति चेत् सः विकाररूपं प्राप्नुयात्" इति।

धर्मदेवता तादृशम् न्यायपीठं दत्त्वा अदृश्यतां गता। राजा राजोचितगौरवं प्रदर्शयन् तत् न्यायपीठं राजधानीम् आनीय राजसभायां प्रतिष्ठापितवान्। अनन्तरं सर्वान् न्यायपीठस्य महत्वं श्रावितवान्।

किन्तु केचन न्यायपीठस्य विषये अविश्वासं प्रकटितवन्तः। परिक्षादृष्ट्या न्यायपीठम् आस्ह्य असत्यम् उक्तवन्तः। विरूपतां प्राप्तवन्तः च। तदारभ्य सर्वेषां मनसि न्यायपीठविषये विश्वासः उत्पन्नः।

कुमुदपुरस्य चन्दनराजस्य च कीर्तिः सर्वत्र प्रसृता। सर्वे न्यायपीठस्य महिमवर्णनं कृतवन्तः। बहवः राजानः तादृशं न्यायपीठं स्वराज्ये अपि अपेक्षितवन्तः।

राज्ये सर्वत्र महाराजस्य चन्दनस्य गौरवम् अधिकं जातम्। प्रजाः तं न्यायदेवतायाः

एवमेव करोति। मया विशेषेण किमपि न कृतम्” इति विनयेन उक्त्वा वीरसेनः रत्नहारं न स्वीकृतवान्। तूष्णीं गतवान् च।

स्वयंवरकार्यक्रमः स्थगितः। पुनः आरब्धुं प्रयत्नाः प्रचलिताः।

तदा राजकुमारी पितुः समीपम् एकं शरावम्, आनीतवती। तस्मिन् शरावे खड्गद्वयम् आसीत्। तत् प्रदर्श्यपितरम् उक्तवती- “तात! अस्मिन् खड्गद्वयम् अस्ति। तयोः भवान् यदिच्छति तत् स्वीकरोतु" इति।

तयोः द्वयोः खड्गयोः एकस्य खड्गस्य त्सरुः वज्रखचितः। तस्य कोशः अपि सुवर्णेन कृतः। अपरस्य खड्गस्य त्सरुः सामान्यलोहयुक्तः। अपि च तस्य कोशःचर्मणा कृतः।

राजा खड्गद्वयम् अपि सम्यक् परिशील्य चर्मकोशे स्थितं खड्गमेव स्वीकृत्य ‘अहं तु एतम् एव खड्गम् इच्छामि’ इति उक्तवान्।

“वज्रखचितत्सस्युक्तः सुवर्णकोशे स्थितश्च खङ्गःकिमर्थं भवते न अरोचत" इति पृष्टवती कलावती।

“वीरः सर्वदा खड्गस्य तीक्ष्णताम् एव परीक्षते। न तु खड्गस्य त्सरुं कोशं वा। ” इति राजा उक्तवान्।

“तर्हि मनुष्याणां सौन्दर्यम् ऐश्वर्यादिकं सर्वमपि एवमेव किल? यतः अद्य स्वयंवरमण्डपे गजस्य कोलहलः अभवत् किल? तदा सुन्दराःधनिकाःराजकुमाराःसर्वे प्राणभयेन पलायितवन्तः। वीरसेनस्तु प्राणान् अपि अविगणस्य अस्मान् सर्वान् रक्षितवान्। एतादृश- पुरुषेण सह विवाहः भविष्यति चेत् तत्र अदृष्टमेव कारणम्। एतादृशः पुरुषः अस्माकं राज्ये एव अस्ति। अतः स्वयंवरस्य आवश्यकता नास्ति इति मन्ये” इति कलावती पितरं उक्तवती।

राजा कलावत्याः वचनेन तस्याः मनोभावं ज्ञतवान्। तस्य अपि बहु सन्तोषः अभवत्। तस्याः वचनानुसारेण वीरसेनेन सहैव कलावत्याः विवाहं महता वैभवेन कृतवान्।

प्रतीकः’ इति वदन्तिस्म। एतेन राजा बहु सन्तुष्टः।

“अहम् इदानीं नेत्रे निमील्य अपि निश्चिन्ततया न्यायनिर्णयं कर्तुं शक्नोमि। न्यायपीठकारणतः मम राज्ये कदापि अन्याय्यं न भविष्यति" इति राजा मन्त्रिमाण्डलिकानां पुरतः सगर्वम् उक्तवान्।

एतत् श्रुत्वा उच्चैः हसन् महामन्त्री उक्तवान्- “महाराज! न्यायपीठविषये अन्धविश्वासः न उचितः। न्यायपीठम् वञ्चयित्वा कश्चित् अन्याय्यम् आचरितुं शक्नोति” इति।

एतेन राजा कुपितः। सः उक्तवान्- ‘“एवं रीत्या न्यायपीठस्य अवमाननम् अनुचितम्। ‘न्यायपीठं वञ्चयित्वा अन्याय्यम्आचरितुं शक्यते’इत्येतत् भवता दिनत्रये प्रमाणीकरणीयम्।अन्यथा भवतः शिरच्छेदं कारयिष्यामि” इति।

कुमुदपुरे एका हेमकुरङ्गी नाम सुन्दरी वेश्या आसीत्। “जगति मादृशी रूपवती अन्या कऽपि नास्ति" इति तस्याः अहङ्कारः आसीत्। एतेन सा सर्वान् अपमानयति स्म। अतः मन्त्री चिन्तितवान्- “महाराजः एषाहेमकुरङ्गी च युगपदेव शिक्षणीयौ" इति।

एवं विचिन्त्य मन्त्री सन्यासिनः वेषं धृत्वा हेमकुरङ्ग्याः भवनस्य पुरतः स्ववसतिम् उपकल्पितवान्। तत्र सः मार्गे गच्छतां जनानां धनं सुवर्णं च स्वीकृत्य तत् द्विगुणीकृत्य ददाति स्म। सन्यासिनः एतं व्यवहारं दृष्ट्वा हेमकुरङ्ग्याः मनसि अपि आशा समुत्पन्ना। एकदा रात्रौ सा स्वकीयानि सुवर्णरत्नाभरणानि सर्वाणि सन्यासिनः हस्ते समर्प्य ‘एतानि द्विगुणीकृत्य ददातु’ इति प्रार्थितवाती।

“श्वः प्रत्यर्पयिष्यामि" इति आश्वासनं दत्वा सः तां प्रेषितवान्। अनन्तरं तस्याः सकाशात् प्राप्तानि सुवर्णरत्नाभरणानि स्वदण्डस्य अन्तः विद्यामाने अवकाशे स्थापितवान्।

“रात्रौ सन्यासी पलायनं कुर्यात्" इति चिन्तयन्ती हेमकुरङ्गी सन्यासिनः रक्षणार्थं सेवकान् नियोचितवती। परेद्युः प्रातःकाले गत्वा सन्यासिनं द्विगुणितानि पृष्टवती।

** सन्यासी आश्चर्यं प्रकटयन् उक्तवान् “भवत्याः किमपि वस्तु मम समीपे नास्ति किल!" इति।**

** एतेन हेमकुरङ्गी कुपिता दुःखिता च। महाराजाय एतत् व्यवहारं निवेदयितुम् इच्छन्ती सा सन्यासिनम् आत्मना सह आगन्तुं उक्तवती। सन्यासी तु राजसभां प्रस्थितः।**

** हेमकुरङ्ग्याः वचनानि श्रुत्वा महाराजः, न्यायपीठम् आरुह्य उत्तरं वक्तुम् सन्यासिनम् उक्तवान्।**

** सन्यसी स्वहस्ते स्थितं दण्डं हेमकुरङ्ग्याःहस्ते दत्त्वा न्यायपीठम् आरूढवान्, उक्तवान् च- “एतस्याः हेमकुरङ्ग्याःसम्पत्तेःलेशः अपि मम समीपे नास्ति” इति। एवम् उक्त्वा सः न्यायपीठात् अवतीर्णवान्।**

** एतत् कठोरम् असत्यं श्रुत्वा कुपिता हेमकुरङ्गी क्रोधावेशेन दण्डं स्वहस्ते गृहीत्वा एव न्यायपीठम् आरूढवती। “अहं मदीयानि सर्वाणि अभरणानि सन्यासिनः हस्ते दत्तवती। सः असत्यं वदति। इदानीं अपि सः तानि आभरणानि न प्रत्यर्पितवान्" इति सा उच्चैः आक्रोशनं कृतवती।**

** वचनसमाप्तेः समनन्तरम् एव सा विकारं रूपं प्राप्तवती। एतत् दृष्ट्वा सर्वे सभासदाः उच्चैः हसितवन्तः।**

** तदा मन्त्री सन्यासिवेषं परित्यज्य, राजानं सर्वंवृत्तान्तं निवेद्य उक्तवान्- “प्रभो ! भवान् एव दृष्टवान् किल- न्यायपीठकारणतः सत्यवादिनी अपि हेमकुरङ्गी कीदृशीम् अवस्थां प्राप्तवती इति ?”**

** हेमकुरङ्गी वस्तुतः असत्यं न उक्तवती। सा न जानाति स्म यत् तस्याः हस्ते विद्यमाने दण्डे एव आभरणानि निगूहितानि सन्ति इति। वस्तुस्थितिम् उक्त्वा सा कुरूपिणी जाता।**

** एतेन प्रसङ्गेन महाराजः न्यायपीठविषये विरक्तिभावम् आपन्नः। अतः सः न्यायपीठं सभाभवनतः निष्कासितवान्।**

न्यायपूर्वकं सम्पादनम्

** गणेशः विंशतिवर्षीयः युवकः। सः अधिकं विद्याभ्यासं न कृतवान् असीत्। किन्तु कार्येषु सः दक्षः। व्यवहारः च तस्य सुमधुरः। अतः सर्वे ग्रामीणाः तद्द्द्वारा कार्यं कारयन्ति स्म। गणेशस्य दाक्षिण्यस्वभावः। अतः परिश्रमस्य प्रतिफलत्वेन ग्रामीणैः यावत् दीयते तावदेव विनाविरोधं स्वीकरोति स्म। एवं बहुत्र सः परिश्रमानुगुणं धनं न प्राप्नोति स्म। एतेन जीवननिर्वहणार्थं सः प्रतिदिनम् अपि कष्टम् अनुभवति स्म।**

** तस्मिन् ग्रामे रमा नाम एका षोडशवर्षीया युवतिः आसीत्। गणेशः तया आकृष्टः। रमा अपि गणेशं मनसा इच्छति स्म। एतयोः मनोभावं रमायाः पिता गङ्गाधरः ज्ञातवान्। सः गणेशम् आहूय उक्तवान्- “अये, भवतः तु दाक्षिण्यस्वभावः। अतः भवान् कदापि पत्नीं सुखेन न पालयिष्यति। यदि भवतः समीपेएकर-द्वयमिता भूमिः स्यात् तर्हि अहं मदीयां पुत्रीं दातुं शक्नुयाम्" इति।**

** गङ्गाधरस्य वचनं श्रुत्वा गणेशः चिन्तामग्नः। रमा गणेशम् एकान्ते दृष्ट्वा उक्तवती- “भीतिः मास्तु। वस्तुतः मम पिता न कुपितः। यदि भवान् उत्तमां वेष्टीम् आनीय दास्यति तर्हि सः सन्तुष्टः भविष्यति। विवाहार्थं अनुमतिं दास्यति च” इति।**

** गणेशः तद्दिने एव ग्रामे प्रसिद्धस्य धनिकस्य समीपं गत्वा ‘उत्तमवेष्टींददातु’ इति प्रार्थितवान्।**

** धनिकः निस्सङ्कोचम् उक्तवान्- “भवान् उत्तमवेष्टीम् इच्छति वा? अवश्यं ददामि अहम्। किन्तु तदर्थं भवता चत्वारि सुवर्णनाणकानि दातव्यानि। यदा धनं ददाति तत्क्षणे एव अहं वेष्टीं ददामि” इति।**

** इतः पूर्वं गणेशः धनिकस्य गृहे बहूनि**

कार्याणि कृतवान् आसीत्। तदर्थं योग्यं वेतनं धनिकः कदापि न दत्तवान् आसीत्। एतद्विषये गणेशः अपि विशेषध्यानं न दत्तवान् आसीत्। इदानीम् एषः एव धनिकः एकां वेष्टीम् दातुम् अपि असम्मतिं सूचयन् अस्ति।

** वराकः गणेशः किं वा कर्तुं शक्नुयात् ? अनन्तरं सः ग्रामप्रमुखान् बहून् एतद्विषये प्रार्थितवान्। किन्तु कोऽपि चत्वारि सुवर्णनाणकानि दातुं सिद्धः अभवत्। एतेन गणेशः निराशः जातः।**

** अनन्तरं गणेशः महता परिश्रमेण आहारादिकम् अपि त्यक्त्वा सप्ताहद्वयाभ्यन्तरे कथञ्चित् चत्यारि सुवर्णनाणकानि सगृहीतवान्।**

** तदनन्तरं सः तानि नाणकानि स्वीकृत्य धनिकस्य गृहं गतवान्। धनं दत्त्वा उत्तमां वेष्टीं क्रीतवान्। तां वेष्टीं स्वीकृत्य रमायाः गृहं गतवान्। उत्तमवेष्टीं दृष्ट्वा रमाया पिता। गङ्गाधरः बहु सन्तुष्टः। सः उक्तवान्- “बहोःकालात् अनन्तरं मम इच्छा पूर्णा जाता। भवतः अपि या कापि इच्छा अस्ति चेत् वदतु तां पूरयामि” इति।**

** ‘अहं रमां परिणेतुम् इच्छामि’ इति उद्वेगेन उक्तवान् गणेशः। गङ्गाधरः उक्तवान्- “गणेश! भवान् प्रशंसार्हः। भवता मदीया इच्छा पूरिता। अतः अहम् अपि भवदीयाम् इच्छां पूरयामि। सद्यः एव रमायाः भवतः च विवाहः भविष्यति। विवाहानन्तरं रमा सुखेन जीविष्यति इति मम विश्वासः अस्ति" इति।**

** एतस्मिन् एव काले ग्रामे एका विचित्रा घटना प्रवृत्ता। यः धनिकः वेष्टीं विक्रीतवान् आसीत् तस्य पुत्रः सप्ताहतः अस्वस्थः आसीत्। केनापि औषधेन तस्य रोगः न दूरङ्गतः। अन्ते धनिकः प्रसिद्धम् एकं सन्यासिनं दृष्टवान्।**

** सन्यासी बालकं परीक्ष्य उक्तवान्- “भवता यत् पापम् आचरितं, तेन इदानीं भवतः पुत्रः अस्वस्थः अस्ति। अहम् एतं रोगं निवारयितुं शक्नोमि। किन्तु तदर्थं भवता शुल्कं दातव्यम्।”**

** धनिकः सन्यासिनः वचनम् अङ्गीकृतवान्।**

सन्यासी औषधोपचारं कृत्वा ततः निर्गतः। किन्तु एकसप्ताहानन्तरम् अपि बालकः अस्वस्थः एव आसीत्। पुत्रस्य अस्वास्थ्यं वर्धितं दृष्ट्वा धनिकः चिन्ताक्रान्तः।

धनिकः पुनः अपि सन्यासिसमीपं गतवान्। सर्वंनिवेदितवान् च। तदा सन्यासी उक्तवान् “भवान् मह्यं यत् धनं दत्तवान् तत् न्यायेन सम्पादितं न। अतः मम औषधेन किमपि प्रयोजनं न जातम्" इति।

कम्पमानेन स्वरेण धनिकः पृष्टवान् “महोदयः! मया इदानीं किं करणीयम् ? वदतु" इति।

“न्यायपूर्वकं यत् धनं सम्पादितं, तस्य दानेन मदीयम् औषधं परिणामकारि भविष्यति। भवान् तु महाजनः। प्रतिदिनं बहवः भवतः समीपम् आगत्य ऋणं प्रत्यर्पयन्ति। एतादृशानाम् नामोच्चारणं कुर्वन् भवान् नाणकं मम हस्ते ददातु। यदा न्यायपूर्वकं सम्पादितं धनं मम हस्ते आगच्छति, तदा भवतः पुत्रः स्वस्थःभविष्यति" इति उक्तवान् सन्यासी।

एतेन धनिकः किञ्चित् मनः समाधानं प्राप्तवान्। सः अन्तः गत्वा धनं बहिः आनीतवान्। धनदातॄणां नामोच्चारणं कुर्वन् एकैकशH नाणकं सन्यासिनः हस्ते दत्तवान्। यदा गणेशेन दत्तं धनं सन्यासिनः हस्ते आगतं तदा, अहो आश्चर्यम्! बहुकालतः अस्वस्थः धनिकस्य पुत्रः झटिति उत्थाय उपविष्टः!

“एतत् धनं न्यायपूर्वकं सम्पादितम्।

भवान् यस्मात् पुरुषात् एतत् स्वीकृतवान् तस्मै इदानीम् एव प्रत्यर्पयतु। एतत् धनम् अन्यकार्याय उपयोगि भवेत्”इति उक्तवान् सन्यासी।

** तत्क्षणे एव धनिकः गणेशाय तानि चत्वारि सुवर्णनाणकानि प्रत्यर्पितवान्। एतन्मध्ये ग्रामप्रमुखः धनिकस्य गृहम् आगतवान्। ग्रामप्रमुखस्य पुत्रः अपि अस्वस्थः। ‘यः सन्यासी धनिकस्य पुत्राय औषधं दत्तवान् तद्द्वारा एव मम पुत्रस्य चिकित्सां कारयामि’ इति चिन्तयन् आगतवान् आसीत् सः। अतः सः सन्यासिनं स्वगृहं नीतवान्।**

** सन्यासी ग्रामप्रमुखस्य पुत्रं परीक्ष्य उक्तवान्- “भवता पूर्वं यत् पापं कृतं, तदेव इदानींभवतः पुत्रं पीडयति। भवतः समीपे न्यायपूर्वकं सम्पादितं धनम् यदि स्यात् तर्हि मम औषधं परिणामकारि भवेत्" इति। एवम् उक्त्वा सः बालकस्य मुखे किमपि चूर्णं स्थापितवान्। ग्रामप्रमुखः प्रतिफलरूपेण दश नाणकानि दत्तवान्।**

** सप्ताहः अतीतः। तथापि बालकः अस्वस्थः एव अस्ति। काऽपि प्रगतिः न दृश्यते।**

** एतेन असन्तुष्टः सन्यासी उक्तवान्- “अहं चिन्तयामि यत् ग्रामे कस्यापि समीपे न्यायपूर्वकं सम्पादितं धनं नास्ति इति। एषा तु शोचनीया परिस्थितिः" इति।**

** “साधुमहाराज ! धनिकस्य पुत्रस्य रोगः गणेशस्य धनेन दूरङ्गतः। अतः अहम् अपि गणेशस्य सकाशात् धनम् आनयामि" इति ग्रामप्रमुखः गन्तुं प्रवृत्तः।**

** तस्य गमनं निवारयन् सन्यासी उक्तवान्- “अये, तिष्ठतु तावत्। गणेशः धनिकाय चत्वारि सुवर्णनाणकानि दत्तवान् इति तु सत्यम्। तानि न्यायपूर्वकं सम्पादितानि इत्यपि सत्यम्। किन्तु तद्धनं धनिकः गणेशाय पुरस्काररूपेण प्रत्यर्पितवान् अस्ति। अतःतद्धनम् इदानीं न्यायपूर्वकं सम्पादितम् न। यदि गणेशस्य समीपे एतदतिरिच्य किमपि धनं स्यात् तर्हि तत् आनयतु" इति।**

** ग्रामप्रमुखः गणेशस्य गृहं गत्वा सन्यासिनः वचनं श्रावितवान्। खेदपूर्णेन स्वरेण गणेशः**

उक्तवान्- “महोदय! अहं किं करोमि? मम समीपे तानि सुवर्णनाणकानि विना अन्यत् किमपि नास्ति’ इति।

** “इदानीं किं करणीयम्? न्यायपूर्वकं सम्पादितं धनं प्राप्तुं कुत्र गच्छामि?” इति बहु चिन्तितवान् ग्रामप्रमुखः। अन्ते गणेशस्य समीपे विद्यमानानि तानि नाणकानि एव स्वीकृत्य गतवान्। वास्तविकं विषयं अनिवेद्य एव तानि नाणकानि सन्यासिनः हस्ते दत्तवान्।**

** यावत् सन्यासिनः हस्ते तानि नाणकानि पतितानि तावता एव ग्रामप्रमुखस्य पुत्रः मञ्चे उपविष्टवान्। तस्य मुखे अस्वास्थ्यस्य चिह्नम् अपि न दृश्यते स्म।**

** ग्रामप्रमुखः आश्चर्यं प्रकटयन् उक्तवान्- “साधुमहाराज! गणेशस्य धनं महिमान्वितम् इव भाति। धनिकतः प्राप्तं धनं विना गणेशस्य समीपे अन्यत् किमपि न आसीत्। अतः अहं तदेव धनम् आनीतवान्’ इति।**

** एतेन कोपं प्रकटयन् सन्यासी उक्तवान्-“अहं चिन्तितवान् आसम् यत् धनिकः दानभावनया प्रेरितः, धनं पुरस्काररूपेण दत्तवान् इति। किन्तु सः मां वञ्चितवान्।ये अन्यायपूर्वकं सम्पादितं स्वसमीपे स्थापयन्ति तेषां गृहे सर्वदा एतादृशाः रोगाः भविष्यन्ति एव। न्यायपूर्वकं सम्पादितं धनम् एव तान् रक्षति" इति। एवं वदन् सन्यासी ततः निर्गतः।**

** सन्यासिनः वचनानि समग्र ग्रामे प्रसृतानि। एतेन बहवः भीताः। यतः ते सर्वे गणेशेन कार्यं कारयित्वायोग्यं प्रतिफलं न दत्तवन्तः आसन्। इदानीं ते चिन्तितवन्तः यत् इतः परम् अपि यदि गणेशाय उचितं प्रतिफलं न दीयेत तर्हि विपत्तिः आगच्छेत् इति।अतः सर्वे ग्रामवासिनः परस्परं समालोच्य धनसङ्ग्रहं कृत्वा एकं भवनं एकरद्वयमितां भूमिं च गणेशाय दत्तवन्तः।**

** तद्दिनात् आरभ्यगणेशःरमा च परिश्रमेण कार्यं कुर्वन्तौ सुखेन जीवनं यापितवन्तौ।**

]