[[लघुकथासङ्ग्रहः-३ Source: EB]]
[
उद्देशपूर्वकं व्यवहारः
सीतापुरे नारायणः नाम कश्चन विवाहितः आसीत्। बहूनि वर्षाणि अतीतानि। तथापि तस्य पुत्रः न जातः। पुत्रप्राप्त्यर्थं सः अनेकपूजाः व्रतादीन् च कृतवान्।
दशवर्षानन्तरं कस्याश्चित् पूजायाः वा व्रतस्य वा फलम् इव नारायणस्य पत्नी कमला गर्भिणी जाता। एतेन सर्वेऽपि अतीव सन्तुष्टाः। नारायणः अतीव प्रीत्या श्रद्धया च पत्न्याः योगक्षेमं विचारयति।
एकस्मिन् दिने पत्नी कमला म्लानवदना आसीत्। तत् दृष्ट्वा नारायणः उक्तवान्—‘भवत्या एवं भीतया न भवितव्यम्। मनसि किमपि अस्ति चेत् वदतु। भवत्याः इच्छां पूरयामि अहम्" इति।
कमला आतङ्केन उक्तवती— रामपुरस्य नागवर्मणः हस्ततः मौक्तिकस्य हारः कारणीयः। सः हारः धर्तव्यः इति मम आशा। एतादृशी इच्छा किमर्थम् उत्पन्ना इति न ज्ञायते " इति।
रामपुरस्य नागवर्मा प्रसिद्धः सुवर्णवणिक्। तस्य आपणतः आभरणानि क्रीत्वा धियन्ते चेत् शुभदायकम् इति जनाः वदन्ति। अतः एव तस्य सकाशात् मौक्तिकहारः क्रेतव्यः, सः हारः धृतः चेत् सुखप्रसवः भवति इति तस्याः विश्वासः।
अन्यस्मिन् समये चेत् नारायणः सर्वथा एतत् न अङ्गीकरोति। इदानीं तु यथाशक्ति पत्न्याः इच्छाः पूरणीयाः इति चिन्तयन् “अस्तु, भवत्याः कृते अहं रामपुरं गत्वा नागवर्मणः हस्ततः एव मौक्तिकहार कारयित्वा आनयामि" इति उक्तवान्।
‘भवान् समीपे नास्ति चेत् मम भयं भवति। अतः भवान् अत्रैव तिष्ठतु। विश्वासयोग्यं कञ्चित् रामपुरं प्रेषयतु" इति उक्तवती कमला।
स्नेहितस्य सीतारामस्य पुत्रः गणपति
रामपुरं प्रति प्रेषणीयः इति चिन्तितवान् नारायणः।
गणपतिः विंशतिवर्षीय युवकः। सः तक्षककार्ये पितुः साहाय्यं करोति। रामपुरं द्रष्टव्यम् इति तस्य महत् कुतूहलम् आसीत्। किन्तु रामपुरे तस्य स्नेहितः वा बन्धुः वा कोऽपि न आसीत्। ‘तत्र गतं चेत् भोजनार्थम् उपाहारमन्दिरम् गन्तव्यम्। वसत्यर्थम् अपि धनं दातव्यम्। मार्गव्ययः अपि महान् भवति’ इति तस्य पिता तं न प्रेषितवान।
अतः नारायणः यदा उक्तवान् तदा गणपतिः उत्साहेन अङ्गीकृतवान्। “भवान् रामपुरं गत्वा नागवर्मणः आपणे मौक्तिकहारं कर्तुं वदतु। तत्र एव स्थित्वा हारं सज्जीकारयित्वा एव आनयत्। रामपुरे मम बन्धुः सिद्धराजः अस्ति। अहं भवन्त प्रेषितवान् इति तं वदतु। तस्य गृहे एव भवतः वसतिः। एतस्य प्रयाणस्य व्ययम् अहं ददामि” इति उक्तवान् नारायणः।
एतत् सर्वं गणपतिः सन्तोषेण अङ्गीकृतवान्। एवं रीत्या पुत्रस्य इच्छा पूरिता भवति इति गणपतेः पिता अपि सन्तुष्टः।
रामपुरं गन्तुं प्रथमतया सीतापुरस्य पार्श्वग्रामं प्रति वृषभशकटेन गन्तव्यम्। ‘ततः भाटकार्थम् अश्वशकटैःलभ्यते। गणपतिः एवं रीत्या प्रयाणं कुर्वन् रामपुरं प्राप्तवान्। तत्र अन्यान् विचार्य सिद्धराजस्य गृहं गतवान्। किन्तु गृहगमनसमये अकस्मात् मार्गे स्खलितः सः पतितवान्। वस्त्राणि मलिनानि जातानि। कथञ्चित् सिद्धराजस्य गृहं प्राप्तवान् गणपतिः स्वस्य परिचयम् आगमकारणम् इत्यादिकं सिद्धराजम् उक्तवान्।
सिद्धराजः अभिमाने “अस्माकं नारायणेन प्रेषितः भवान् इति चेत् प्रधानः अतिथिः एव। भवतः हस्ते विद्यमानं स्यूत मम समीपे ददातु। अहं सुरक्षितं स्थापयामि। गृहस्य पृष्ठतः कृपः अस्ति। भवान् तत्र स्नानादिकं समाप्य आगच्छतु” इति उक्तवान्।
सिद्धराजस्य पुत्रः गणपतिं कूपसमीपं नीतवान्। तस्मै द्रोणीं राज्जुं च दत्तवान्।
तावति काले सिद्धराजः एकं बृहत्
उदभाण्डम् आनीय तत्र स्थापितवान्।
** सः गणपतिम् उक्तवान् - “एतस्मिन् उदभाण्डे जलं पूरयित्वा स्नानं करोतु। स्नानानन्तरम् अपि एतस्मिन् जलं पूर्णं भवेत्” इति। ‘गृहम् आगतम् अतिथिं प्रति एतादृशं कार्यं वदन्ति किल’ इति गणपतिः आश्चर्यचकितः। तथापि तेन यथा उक्तं तथैव कृतवान्। प्रयाणकारणतः प्रथमएव श्रान्तः सः जलपूरणेन इतोऽपि श्रान्तः।**
** गणपतिः स्नानसमये स्वकीयं मलिनं वस्त्रं क्षालयित्वा प्रसारितवान्। एतेन कारणेन ‘सिद्धराजः मां कर्मकरं चिन्तितवान् स्यात्’ इति गणपतेः संशयः उत्पन्नः।**
** सिद्धराजस्य सर्वेऽपि गृहसदस्याः पीठस्य उपरि भोजनार्थम् उपविष्टाः। तेषां पुरतः रजतस्थालिकाः आसन्। गणपतेः कृते पीठं न स्थापितम्। भूमौः कदलीपत्रं स्थापितम् आसीत्। सर्वेभ्यः उष्णम् अन्नं परिवेषितवन्तः। किन्तु गणपतये पूर्वदिनस्य शीतलम् अन्नं परिवेषितवन्तः।**
** भोजनानन्तरं गणपतेः निद्रा आगता। सर्वेऽपि मञ्चे शयनं कृतवन्तः। गणपतये एकं कटं दत्तवन्तः। गणपतिः निश्चिन्ततया कटस्य उपरि निद्रितवान्।**
** परेद्युः प्रातः सिद्धराजस्य पत्नी निद्रातः गणपतिम् उत्थाप्य उक्तवती - " भोः, अस्माकं गोष्ठस्य कर्मकरः अद्य न आगतवान्। किमर्थम् इति न जानामि। भवान् गोष्ठं गत्वा क्षीरदोहनं कृत्वा आगच्छति वा ?" इति।**
** तस्मिन् समये गृहसदस्याः सर्वेऽपि निद्रायाम् एव आसन्। गणपतिः गृहस्य पृष्ठतः विद्यमानं गोष्ठं गत्वा महिष्याः क्षीरदोहनं कृतवान्। सिद्धराजस्य पत्नी तेन एव द्वारा कृपतः यथेष्टं जलसङ्ग्रहणम् अपि कारितवती।**
** गणपतिः किमपि प्रत्युत्तरं न दत्तवान्। तया उक्तानि सर्वाणि कार्याणि कृत्वा “अहम् इदानीं नागवर्मणः आपणं गत्वा आगच्छामि” इति उक्तवान्।**
** अहम् अपि तत्र आगच्छामि। गच्छामः" इति उक्तवान् सिद्धराजः।**
** गमनसमये सिद्धराजस्य हस्ते भारयुतः एकः स्यूतः आसीत्। तं स्यूतं गणपतेः हस्ते यच्छन् सः उक्तवान्- “एतस्मिन् स्यूते कूष्माण्डफलानि सन्ति। अस्माकं गमनमार्गे मम एकः स्नेहितः अस्ति। एतानि फलानि तस्मै देयानि” इति।**
** तं कूष्माण्डस्यूतं वोढुम् अशक्तः अपि गणपतिः सङ्कटम् अनुभवन् कथञ्चित् नीतवान्।**
** कूष्माण्डफलानि तस्मै स्नेहिताय दत्त्वा सिद्धराजः गणपतिं नागवर्मणः सुवर्णापणं नीतवान्।**
** “नागवर्मन्, नारायणः मम प्रियस्नेहितः। बहुवर्षानन्तरं तस्य पत्नी गर्भिणी जाता अस्ति। सा मौक्तिकहारं धर्तुम् इच्छति। श्रद्धया मौक्तिकहारः निर्मातव्यः भवता। मूल्यम् अपि अधिकं न भवेत्” इति सिद्धराजः नारायणस्य परतया सर्वम् उक्तवान्।**
** नागवर्मा एतत् अङ्गीकृतवान्। हारनिर्माणार्थं दिनचतुष्टयम् आवश्यकम् इत्यपि सूचितवान्।**
** दिनचतुष्टयम् अपि सिद्धराजस्य गृहसदस्याः गणपतिद्वारा सर्वाणि कार्याणि कारितवन्तः। किन्तु तेषु कोऽपि गणपतिं न निन्दितवान्। बहूनि कार्याणि कारितवन्तः इति एकम् असमाधानं विना तस्मिन् गृहे गणपतिविषये न्यूनता न दृष्टा। सः अपि स्वकीयं कष्टं तेभ्यः न प्रदर्शितवान्।**
** हारः यदा सिद्धः तदा गणपतिः ग्रामं प्रति प्रस्थितः। तदा “पुनः यदा कदापि आगच्छति**
चेत् अस्माकं गृहे एव वासः करणीयःभवता” इति सिद्धराजस्य गृहसदस्याःसर्वेऽपि अभिमानेन तम् उक्तवन्तः।
** गणपतिः सीतापुरम् आगत्य मौक्तिकहारंनारायणाय दत्तवान्। नारायणः महतासन्तोषेण तस्य प्रयाणविषयं पृष्टवान्।**
** गणपतिः प्रथमं वक्तुं किञ्चित्सङ्कोचम् अनुभूतवान्। अनन्तरम्अनुभवान् वक्तुम् आरब्धवान्। “ते सर्वेऽपिसज्जनाः एव। किन्तु अतिथिभिः सह कथंव्यवहारः करणीयः इति ते प्रायः न जानन्ति। मद्द्वारा यथेष्टं कार्याणि कारितवन्तः। एतत्अनुचितं भवेत् इति ते न जानन्ति वा इति ममविचारः” इति उक्तवान् च।**
** प्रवृत्तं वृत्तान्तं श्रुत्वा नारायणः कोपेनउक्तवान्- “तथा किमपि नास्ति। तेउद्देशपूर्वकम् एव तथा कृतवन्तः।दिनचतुष्टयं भवते भोजनं दत्तवन्तः किल ?कार्यद्वारा तस्य व्ययं स्वीकृतवन्तः। तावत्कार्पण्यम् !” इति।**
** “कार्पण्यम् अपि न स्यात्। यतः तेषां गृहे तावत् कार्पण्यं न दृष्टम्। उद्देशपूर्वकम् एवएवं कृतवन्तः इति वक्तुं किं प्रमाणम् ?अथवा एवम् अपि स्यात्– गमनसमये ममवस्त्राणि मलिनानि आसन्। तत् दृष्ट्वा ते मांकर्मकरं चिन्तितवन्तः स्यः” इति उक्तवान्गणपतिः।**
** “वस्तुस्थितिं न जानाति भवान्। अतःतथा आचरितुं प्रमाणं नास्ति इति वदति।षण्मासेभ्यः पूर्वं ते कञ्चित् अत्र प्रेषितवन्तःआसन्। तदानीं वयं यथा आचरितवन्तःतथैव इदानीं ते अपि आचरितवन्तः। एतेनसिध्यति किल– ते उद्देशपूर्वकंव्यवहृतवन्तः इति ?” इति उक्तवान्
नारायणः।**
** इदानीं गणपतिः वस्तुस्थितिं ज्ञातवान्- नारायणविषयकेन कोपेन ते मया सह तथाव्यवहृतवन्तः इति। किन्तु नारायणःइदानीम् अपि आत्मनः दोषं न जानाति।**
** ‘इतः परम् एतादृशैः सह जागरूकतयाएव व्यवहरणीयम्’ इति दृढं निश्चितवान्गणपतिः।**
उद्योगे नियुक्तिः
कनकगुप्तः महेन्द्रपुरीं परिपाव्यति स्म।तस्य कोशागारस्य अधिकारी पीताम्बरः। पीताम्बरः एकदा मन्त्रिणं निवेदितवान्– “कार्यम्अधिकम् अस्ति। अतः मम सहायकद्वयम्अपेक्षितम्” इति।
मन्त्री अनुमतिं दत्तवान्। एकैकस्य अपिद्वादश दीनारान् मासिकवेतनं निश्चिनोतु"इति अपि उक्तवान्।पीताम्बरः कुतज्ञतांसमर्प्य ततः निर्गतः।
अनन्तरं सः सहायकत्वेन त्रीन् पुरुषान्नियोजितवान्।
एतं विषयं ज्ञात्वा मन्त्री कुपितः। सःसाक्षात् राजसमीपं गत्वा उक्तवान्- ‘महाप्रभो!कोशाधिकारी प्रीताम्बरः मम वचनं अतिक्रम्यव्यवहरति। द्वयोः सहायकयोः नियुक्तिविषयेमम अनुमतिं सम्पादितवान्। किन्तु त्रयाणांकृते उद्योगं दत्तवान्” इति।
राजा कनकगुप्तः उक्तवान्— ‘एवं चेत्पीताम्बरः विचारणीयः। ज्येष्टानाम् अधिकारिणां वचनस्य उल्लङघनम् अनुचितम् एव"इति। अनन्तरं राजा पीताम्बरम् आहूय“मन्त्रिणः वचनस्य उल्लङ्घन किमर्थंकृतम् ?”इति पृष्टवान्।
“प्रभो ! द्वयोः नियुक्तिः, एकैकस्य अपिद्वादशदीनारं मासिकवेतनं च मन्त्रिमहोदयेनअनुमतम् इति तु सत्यम् एव। अहं त्रयाणांकृते उद्योगं दत्तवान्। किन्तु एकैकस्य मासिकवेतनम् अष्टदीनाराः एव। अतः व्ययः अधिकःनास्ति। कोशागारस्य अपि हानिः नास्ति” इति उक्तवान् पीताम्बरः।
तदा राजा कोपेन पृष्टवान्- “ सर्वत्रभवतः इष्टानुसारं व्यवहार वा? एतद्विषयेअधिकारिणः अनुमतिः किमर्थं न स्वीकृता ?“इति।
पीताम्बरः विनयेन उक्तवान् – “उद्योगे नियोजयितुं मन्त्रिमहोदयः जनद्वयं प्रेषितवान्।तौ दृष्ट्वा— “अत्र तृतीयः अस्ति चेत् एवयुक्तम् इति अहं चिन्तितवान्। अतः तथाकृतवान्” इति।
तदा मन्त्री मध्ये उक्तवान्— “प्रभो !मया प्रेषितो उभौ अपि विश्वासार्हो, दक्षौ च।अतः एव नियुक्तिविषये अहं आसक्तिंप्रदर्शितवान्” इति।
“एतत् युक्तम् एव। धनागारसम्बन्धिविषये भवतः आसक्तिः युक्ता।धनागारस्यकर्मकराः विश्वासार्हाः समर्थाः च भवेयुः एव"इति कनकगुप्तः उक्तवान्।
तदा पीताम्बरः ‘प्रभो ! मन्त्रिमहोदयेन प्रेषितयोःः एकः तस्य मित्रस्य पुत्रः, अपरःमहाराज्ञ्याःदूरबन्धुः” इति उक्तवान्।
तदा राजा मन्दं हसन् उक्तवान्- “एतादृशाः कोशागारे लघु-उद्योगार्थम् अनर्हाः इतिकिल भवतः अभिप्रायः ?” इति।
“प्रभो, एषा अर्हतायाः समस्या नधनिकानां पुत्राः सश्रमं कार्यं कर्तुं न शक्नुवन्ति। मम तु सश्रमकार्यार्थम् एकः अपेक्षितः।अतः तृतीयम् एकं उद्योगे नियोजितवान्। किन्तु यथा अधिकः व्ययः न भवेत् तथाजागरूकता आश्रिता मया” इति उक्तवान्पीताम्बरः।
राजा मन्त्रिणः मुखं दृष्ट्वान्। मन्त्रीलज्जया शिरः अवनमितवान्।
तदा आरभ्य राजा— “उद्योगनियुक्तिसमये पक्षपातः न करणीयः। कार्यस्य आवश्यकतांअनुसृत्य समर्थः एव उद्योगे नियोजनीयः" इति शासनं कृतवान्।
उपकारस्मरणम्
** कोणपुरे प्राणेशः नाम निर्धनः आसीत्।कदाचित् सः कार्यनिमित्तं ग्रामाधिकारिणःसमीपं गत्वा प्रार्थितवान्- “अहम् कष्टे अस्मि।कृपया साहाय्यं करोतु। अहम् आजीवनं भवतःनाम स्मरन् जीविष्यामि” इति।**
** वस्तुतः ग्रामाधिकारी महावक्रः। परोपकारस्य नाम अपि सः न स्मरति। तथापिइदानीं प्राणेशस्य अदृष्टम् इत्येव वक्तव्यम् ! ग्रामाधिकारी कष्टात् मुक्ति प्राप्तुम् उपायंसूचितवान्। प्राणेशः ग्रामाधिकारिणः मार्गदर्शनेन कष्टात् उन्मुक्तः जातः।**
** प्राणेशः यद्यपि निर्धनः तथापि अन्यैःकृतम् उपकारं सः कृतज्ञतापूर्वकं स्मरति।अतः ग्रामाधिकारिणे किमंपि दत्त्वा कृतज्ञताप्रदर्शनीया’ इति चिन्तितवान् सः।**
** एतद्विषये प्राणेशः परिचितानां मार्गदर्शनंपृष्टवान्। ते उक्तवन्तः- “भवान् किं वाददाति ? अथवा एवं करोतु भवतः समीपेआम्रफलैः निर्मितः उपदंशः अस्ति किल ?तदेव किञ्चित् ददातु” इति।**
** उपदंशस्य निर्माण प्राणेशः सिद्धहस्तः।तद्ग्रामीणस्य धनिकस्य एकः आपणः अस्ति।तदर्थं सः धनिकः प्राणेशद्वारा उपदंशंकारयति। वेतनरूपेण धनं किमपि नददाति। उपदंशम् एव किञ्चित् ददाति।एवं प्राप्तम् उपदंशं विक्रीय प्राणेशःकथञ्चित् जीवनं करोति।**
** ‘एषः एव युक्तः मार्गः’ इति चिन्तितवान्प्राणेशः। अतः सः आम्रफलस्य उपदंशं ग्रामाधिकारिणे दत्त्वा कृतज्ञतां समर्पितवान्।ग्रामाधिकारी उपदंशं स्वजनन्यै प्रदर्शयन्उक्तवान्- “अम्ब ! प्राणेशः कृतम् उपकारंस्मरन् एतम् उपदंशं दत्तवान्। तेन प्रीत्यादत्तं तिरस्कर्तुम् अशक्तः अहम् एतं स्वीकृत**
षान्। प्राणेशेन निर्मितः उपदंशः नगरेअपि प्रसिद्धः। अद्यावधि वयम् तदीयम्उपदंशं न खादितवन्तः किल ? अतः अद्यएव एतस्य उपयोगं कुर्मः” इति।
** ‘मम उपदंशस्य समानः उपदंशः अन्यःनास्ति’ इति चिन्तयति स्म प्रामाधिकारिणःमाता। अतः सा उपदंशम् आघ्राय तिरस्कारंप्रदर्शयन्ती- " कीदृशः कटुगन्धः ! वाणिज्यार्थं निर्मितम् एतत्। वयं खादामः चेत्उदरवेदना उत्पद्येत। यदि प्राणेशेन दत्तम्इति व्यामोहः अस्ति तर्हि भवान् केवलं खादतुनाम" इति उक्तवती।**
** ग्रामाधिकारी तद्दिने उपदंशस्य रुचिं दृष्टवान्। रुचिः तु असदृशी। अतः दिनद्वयंयावत् सः केवलम् उपदंशमिश्रितम् अन्नंखादितवान्। एतेन सः अजीर्णेन उदरवेदनायाच पीडितः अभवत्। तस्य माता वैद्यम्आनेतुं जनं प्रेषितवती।**
** वैद्यः ग्रामाधिकारिणं परीक्ष्य उक्तवान्-“भवान् तीब्रम् अस्वस्थः अस्ति। एतस्यनिवारणार्थं रजतभस्म निर्मातव्यं भवति। यदिदशरूप्यकाणि दीयेत तर्हि सद्यः एव औषधंसज्जीकरिष्यामि। विलम्बेन प्राणापायः अपिभवेत्” इति।**
** निरुपायः ग्रामाधिकारी वैद्याय दशरूप्यकाणिदत्तवान्।वैद्यस्य उपचारेण ग्रामधिकारी दिनद्वये स्वस्थः अभवत्।**
** ग्रामाधिकारी स्वभावेन कृपणः। ‘प्राणेशेनदत्तस्य उपदंशस्य कारणेन आरोग्यं नष्टं, धनम्अपि नष्टम्’ इति सःव्यथाम् अनुभूतवान्।**
** एकदा सः वैद्यम् आहूय सूचितवान्-“मम रोगस्य चिकित्सार्थं भवान् दशरूप्यकाणिस्वीकृतवान्। तदस्तु नाम।किन्तु सर्वेषांपुरतः ५०रूप्यकाणि स्वीकृतानि इत्येवयदि एवं न वदति तर्हि अस्मिन्ग्रामे भवतः वसतिः क्लेशकरी भवेत्” इति।**
** अनारोग्यसमये वैद्यस्य अपेक्षा आसीत्।किन्तु इदानीं एषः ग्रामाधिकारी वैद्यम् एवभीषयन् अस्ति। उपाध्यायाश्च वैद्याः चकार्यान्ते अप्रयोजकाः किल ?**
** वैद्यः ग्रामाधिकारिणः विरोधम् अनिच्छन्“अस्तु श्रीमन् ! भवान् यथा सूचितवान्तथा कथने मम कः क्लेशः ? एतत् श्रुत्वाकेचन अधिकं धनम् अपि दद्युः। तदा ममलाभः एव” इति उक्त्वा स्वगृहं गतवान्।**
** अनन्तरं ग्रामाधिकारी प्राणेशम् आहूयदर्पेण उक्तवान्- “अये ! भवता दत्तस्यउपदंशस्य खादनेन अहं रोगपीडितः जातः।चिकित्सार्थं वैद्याय ५० रूप्यकाणि दत्तवान्।एतत् धनम् भवता एव दातव्यम्” इति।**
** तदा प्राणेशः दीनतां प्रदर्शयन्- “महोदय !अहं तु निर्धनः। तावत् धनं कुतःआनयेयम् ?” इति पृष्टवान्।**
** “कुतश्चित् आनयतु भवान्। धनं तुभवता दातव्यम् एव। अन्यथा कठोरः दण्डःअनुभोक्तव्यः भविष्यति” इति कोपेन उक्तवान् ग्रामाधिकारी।**
** प्राणेशः मौनं ततः निर्गतवान्। साक्षात्वैद्यस्य गृहं गत्वा “अये वैद्यमहोदय! भवतःकारणेन मया दण्डः अनुभोक्तव्यः आपतितः।कथञ्चित् कारागारं गन्तव्यम् एव। ततः पूर्वंभवन्तं मारयित्वा तृप्तिम् अनुभवामि" इतिकोपेन उक्तवान्।**
“मां मारयति वा ? अहं कम् अपराधंकृतवान् ?" इति कम्पमानेन स्वरेण पृष्टवान्वैद्यः।
** “भवान् सामान्यरोगार्थम् अजीर्णार्थं ५०रूप्यकाणि स्वीकृतवान्। तत् धनं मयाआनीय दातव्यम् इति ग्रामाधिकारी वदति।यतः मया पूर्वं तस्मै उपदंशः दत्तः आसीत्।निर्धनः अहं कुतः धनम् आनयामि ? धनं नदत्तं चेत् कारागारप्राप्तिः तु अनिवार्या” इतिवदन् प्राणेशः प्रवृत्तं सर्वंनिवेदितवान्।**
** तदा वैद्यः आश्चर्यं प्रकटयन् –“एवं वा ?भवादृशं निर्धनम् असहायं सम्यक्पीडयतिकिल सः ? तर्हि एतस्मै नीतिः पाठनीया एव"इति उक्त्वा प्राणेशस्य कर्णे रहस्यं किमपिउक्तवान्।**
तदा प्राणेशः वैद्यं कृतज्ञतापूर्वकं नमस्कृत्यउक्तवान्- “भवता अहम् उपकृतः। पूर्वम्
अहम् अन्यथा चिन्तितवान् आसम्। अतः भवन्तं ताडयितुम् आगतवान्। क्षाम्यतुभवान्" इति।
** अनन्तरं प्राणेशः वैद्यम् अन्यग्रामप्रमुखान्च आत्मना सह नीत्वा ग्रामाधिकारिणः समीपं गतवान्।**
** तत्र प्राणेशः पूर्व प्रवृत्तं सर्वं निवेद्य ‘न्यायदानं कुर्वन्तु’ इति उपस्थितान् प्रार्थितवान्।**
** कोऽपि ग्रामप्रमुखः ग्रााधिकारिणः विरोधंकर्तुं न इच्छति स्म। अतः ते उक्तवन्तः “ग्रामाधिकारिणः रोगस्य कारणं भवता दत्तःउपदंशः एव। अतः चिकित्सार्थं यः व्ययःजातः स च भवता एवं दातव्यः" इति।**
** तदा प्राणेशः ग्रामाधिकारिणं पुनः प्रार्थितवान् “श्रीमन् ! मया तावत् धनं कथं दातुंशक्यम् ? निधनस्य मम विषये दयां प्रदर्शयतुकृपया" इति।**
“ये अपराधं कृतवन्तः तेषां विषये ममदया एव नास्ति। यतः अहं ग्रामाधिकारीअस्मि। भवता धनं दातव्यम् एव" इतिनिर्दयम् उक्तवान् ग्रामाधिकारी।
** एतत् श्रुत्वा प्राणेशः अकस्मात् मुखविकारं प्रदर्शितवान्। वक्षःस्थलं हस्तेन गृह्णन् कम्पमानः विकारध्वनिम् उत्पादयन् भूमौपतितवान्। एतत् दृष्ट्वा सर्वे स्तब्धाः।**
** वैद्यः प्राणेशस्य परीक्षां कृत्वा उक्तवान्-“अकस्मात् आगतेन भावावेगेन असहनीयकष्टेन वा एवं भवति केषाञ्चित्। दीर्घकालिकेनऔषधेन एषः रोग निवारयितुं शक्यः।सद्यः शमनार्थं तु सुवर्णभस्म अपेक्षितम्। एषःतुनिर्धनः।सुवर्णभस्म निर्माणार्थ कः वाधनं दद्यात् ?" इति।**
** ग्रामप्रमुखाः परस्परं मुखं दृष्टवन्तः। तेषुएकः धैर्येण उक्तवान्- “एतादृशसन्दर्भेषु कःमार्गः अनुसरणीयः इति ग्रामाधिकारिणापूर्वम् एव प्रदर्शितम्। यस्य कारणेन रोगःआगतः सः चिकित्साव्ययं ददाति। ग्रामाधिकारिणः वचनेन एतस्य आघातः जातः। अतः ग्रामाधिकारी एव धनं ददाति" इति।**
** ग्रामाधिकारिणः इदानीम् उभयसङ्कटम्।**
प्राणेशस्य एतत् तन्त्रं, वैद्यः अपि अत्रसम्मिलितः अस्ति इति सः ज्ञातवान् एव।
** ग्रामाधिकारी वैद्यं तीक्ष्णदृष्ट्या पश्यन्कोपेन पृष्टवान्- “आघातचिकित्सार्थं शतरूप्यकात्मकः व्ययः वा ? किं वदति भवान् ?"**
** वैद्यः विनयेन उक्तवान्- “अजीर्णरोगस्यचिकित्सार्थं भवान् एव ५० रूप्यकाणिदत्तवान्। अजीर्णरोगः तु दिनद्वये शाम्यति।एषः आघातरोगः तु आजीवनं स्थास्यति।चिकित्सा न कृता चेत् मरणं निश्चितम्।प्राणेशः निर्धनः इति कारणतः एतादृशघोररोगस्य चिकित्सार्थम् अपि अहं शतं रूप्यकाणिएवउक्तवान्। वस्तुतः एतत् केवलम् औषधस्यमूल्यम्।"**
** “इदानीं कि करणीयम् ?" इति चिन्तयन्आसीत् ग्रामाधिकारी। अत्रान्तरे प्राणेशः एव मन्दम् उत्तिष्ठन् “मम किं अभवत् ?” इतिपृष्ट्वान्।**
** तदा वैद्यः “भवान् अकस्मात् आघातेनभूमौ पतितवान्। एतस्य चिकित्सार्थं शतंरूप्यकाणि आवश्यकानि।भवता ग्रामाधिकारिणे ५० रुप्यकाणि दातव्यानि आसन्किल? तत् न्यूनीकृत्य ग्रामाधिकारी ५०रूप्यकाणि ददाति। चिकित्सायाः आरम्भार्थंभवता इतोऽपि ५० रुप्यकाणि दातव्यानि।ज्ञातवान् किल?" इति उच्चस्वरेण द्विवारम्उक्तवान्।**
** तदा प्राणेशः उत्थाय ग्रामाधिकारिणःपादयोः पतित्वा “मम मरणं भवति चेत् भवतुनाम। भवान् तु साक्षात् धर्मावतार। ममचिकित्सार्थं भवतः हस्ततः धनं स्त्रीकरोमिवा? मम चिकित्सा अपि मास्तु औपचम्अपि मास्तु” इति वदन् सः निर्गतवान् एव।**
** ग्रामाधिकारी अवमानेन शिरः अवनमय्यस्थितवान्। तद्दिनात् आरभ्य सः अन्याय्यमार्गं त्यक्तवान् एव। प्राणेशः अपि एतेन नीतिपठितवान्। सः पुनः कदापि विशेषकारणंविना कस्मै अपि उपायनं न दत्तवान्।**
उपकारी वामनः
** पूर्वं कस्मिंश्चित् ग्रामे कश्चन निर्धनःकृषिकः आसीत्। सः धनिकस्य भमिंस्वीकृत्य कृषिं करोति स्म। प्रतिवर्षंधनिकाय भूशुल्कं दातव्यम् आसीत्।**
** किन्त एतस्य निर्धनस्य भूमिः नसारयता। तथापि ‘प्रयत्नेन द्वित्रेषु वर्षेषुफलसमृद्धि प्राप्तं शक्येत’ इति भावनयातस्यां भमौ कृषिम्अङ्गीकृतवान् आसीत्सः। किन्तु यथा चिन्तितं तथा न प्रवृत्तम्।**
** एवं स्थिते एकदा तस्मिन् प्रदेशेअतिवृष्टिः सञ्जाता। क्षेत्रे आरोपितानिसस्यानि सर्वाणि नष्टानि। केवलम् एतावदेवन, कृषिकस्य एकः वृषभः अपि जलप्रवाहेणनीतः।**
** यावत् वा हानिः भवतु, कृषिकः एतावत्पर्यन्तं धनिकाय भूशुल्कं नियतरूपेणयच्छन् आसीत्। अतः तां परम्परांपालयितुम् इच्छन् कृषिकः अवशिष्टम् एकंवृषभम् अपि विक्रेतुं निश्चितवान्।**
** यदा सः विपणिं प्रति गच्छन् आसीत् तदाकश्चन वामनः तेन मार्गे दृष्टः। व्रणितः ससम्यक् गन्तं न शक्नोति स्म।**
** कृषिकं दृष्ट्वा सः पङ्गुः वामनःपृष्टवान्- “भोः, मम पादे व्रणः सञ्जातः।चलितं न शक्नोमि एव। अतःकिञ्चिद्दूरं मां वृषभस्य उपरि आरोप्यनयति वा भवान्?” इति।**
** कृषिकः वामनस्य दयनीयां परिस्थितिंदृष्ट्वा खेदं प्रदर्शयन्- “भवान् चलितुंकष्टम् अनुभवति इति अहम् अपि पश्यामिकिल? किन्तु गोजातीयस्य उपरि उपविश्यकृतं प्रयाणं पापाय इति ज्येष्ठाः वदन्ति अपिइति उक्तवान्।**
** एतत् श्रुत्वा दीनतां प्रदर्शयन् सःवामनः- “यदि एतस्मिन् अरण्यमार्गेअन्धकारः अपि भवेत तर्हि मम परिस्थितिः**
शोचनीयतां प्राप्नुयात्।” इति उक्तवान्।
** एतत् वचनं श्रुतवतः कृषिकस्य हृदये दयाउत्पन्ना। सः वामनम्— “अस्तु तर्हि।आपद्धर्मः अपि कश्चन अस्ति किल” इतिवदन् तम् उन्नीय वृषभस्य उपरिउपवेशितवान्।**
** एवं प्रयाणं किञ्चिद्दूरं प्रवृत्तम्।प्रयाणसन्दर्भे वामनः कृषिकस्य मुखात्तदीयां कष्टपरिस्थितिं श्रुतवान्। “महताश्रमेंण किमर्थं तावद्दूरं गत्वा विक्रयणंकरणीयम् ? एतं वृषभम् अहम् एव क्रेतुम्इच्छामि” इति उक्तवान् सः।**
** कृषिकः वामनस्यप्रस्तावम्अङ्गीकृतवान्। वामनः स्वकोषतः एकम्आवरणसहितं पात्रं बहिः आनीतवान्। तत् कांस्यनिर्मितं जलपात्रम्। तस्य उपरिअनेकानि वामनानां चित्राणि चित्रितानिआसन्।**
** कृषिकाय तत् कांस्यपात्रं यच्छन् वामनःउक्तवान्— “एतत् एव भवतः वृषभाय मयादीयमानं मूल्यम्। एतत् स्वीकृत्य भवान्निश्चिन्ततया गृहं गन्तुम् अर्हति” इति।**
** एतत् श्रुत्वा आश्चर्यं प्रकटयन् कृषिकःपृष्टवान्— “एतस्य कांस्यपात्रस्य ममवृषभस्य च मूल्यं समानं वा ? धनिकाय यावत्दातव्यं तावत् धन किम् एतत् कांस्यपात्रंदास्यति ?इति।**
** वामनः उच्चैः हसन्— “मम वचनेविश्वासः भवतु। एतत् कांस्यपात्रं भवतःकष्टानि निवारयति, सम्पत्तिं वर्धयति” इति**
वदन् तस्य पात्रस्य आवरणम्अपसारितवान्।
** अनन्तरक्षणे तस्य पात्रस्य अन्तर्भागतःसुमधुरः सङ्गीतध्वनिः आगतः। वामनःपात्रस्य आवरणं यथापूर्वं स्थापयित्वा— “एतादृशं सङ्गीतं श्रावयितं यक्षाः केवलंशक्नुवन्ति, न तु इतरे” इति उक्तवान्।**
** “तन्नामसङ्गीतश्रवणेन मयामत्पत्नीपुत्रैः च स्वकीयम् उदरं पूरणीयम्इति वा भवतः अभिप्रायः?” इति पृष्टवान्कृषिकः।**
** तदा सःवामनः— “अहो ! अहंविस्मृतवान् आसम्” इति वदन् तस्यकांस्यपात्रस्य उपयोगक्रमं सूचितवान्—“मुख्यः विषयः भवते वक्तव्यः मया। भवान्गृहं गत्वा शुद्धं स्नात्वा गृहस्य मध्ये किञ्चनस्थलं शुद्धीकृत्य तत्र एतत् पात्रं स्थापयतु। अनन्तरम् आवरणम् उद्घाट्य ‘कांस्यपात्र ! ‘कांस्यपात्र !भवान् यत् शक्नोति तत् करोतु’इति वदतु। तदा भवतः इष्टं पूरितं भवति।ज्ञातं किल ?” इति। अनन्तरं वृषभं प्रेरयन्कत्रापि अदृश्यः अभवत् सः।**
** कृषिकः कुतूहलेन तत् कास्यपात्रंस्वीकृत्य गृहं प्रतिगतवान्। प्रवृत्तं सर्वं श्रुत्वातस्य पत्नी आश्चर्येण उक्तवती— “एतेनपात्रेण अस्माकं किं प्रयोजनम् ? कोऽपिभवन्तं पूर्णतः वञ्चितवान” इति।**
** “सः वञ्चकः इव न भासते स्म। अस्तुतावत्, परीक्षणेन वस्तुस्थितिः ज्ञायतेकिल ?” इति वदन् कृषिकः स्नात्वा, गृहस्यमध्ये किञ्चन स्थलं शुद्धीकृत्य च**
कांस्यपात्रस्य आवरणम् उद्घाटितवान्।“कांस्यपात्र ! कांस्यपात्र ! भवान् यत्शक्नोति तत् करोतु” इति उक्तवान् च।
** अनन्तरक्षणे तस्मात् कांस्यपात्रतः उभौवामनौ खङ्ग् खङ्ग् इति शब्दं कुर्वन्तौ बहिःआगतवन्तौ। तत्रस्थस्य मञ्चस्य उपरिसुवर्णमयानि रजतमयानि च नाणकानिः राशीकृतवन्तौ। सुवर्णस्थालिकायांभक्ष्य भोज्यादीनि स्थापयित्वा अदृश्यौ जातौच।**
** कृषिकगृहसदस्याः अद्यावधि तादृशंरुचिकरं भोजनं न भुक्तवन्तः आसन्। तेसन्तोषेण भोजनं कृतवन्तः। वामनाभ्याम्अनुगृहीतैः रजतसुवर्णनाणकैः उत्तमं गृहंक्रीतवन्तः। इदानीं तस्मिन् गृहे दारिद्र्यंसर्वथा न आसीत्।**
** निर्धनेन कृषिकेण अकस्मात् ऐश्वर्यंप्राप्तम् इति वार्ताम् एकमासाभ्यन्तरेधनिकः अपि श्रुतवान्। ‘कृषिकस्य समीपेअपूर्वं कांस्यपात्रम् अस्ति’ इत्यपि सः जनानांमुखतः ज्ञातवान्।**
** एकदा सःधनिकः कृषिकस्यअनुपस्थितिसमये तदीयं गृहं सेवकैः सहप्रविश्य गृहस्थं धनं तत् कांस्यपात्रं चनीतवान्। धनिकस्य प्रभावः सर्वत्र आसीत्।सः धनबलेन यत्किमपि साधयितुं समर्थः।अतः धनिकेन कृतम् अकार्यं ज्ञात्वा अपिकिमपि कर्तुम् अशक्तः कृषिकः मौनंस्थितवान्।**
** एवं कृषिकः पुनः अपि निर्धनः सञ्जातः।एकदा तस्य पत्नी सूचितवती– “भवान्पुनः एकवारं तं वामनम् अन्विष्य विषयंनिवेदयतु” इति।**
** कृषिकः एतत् अङ्गीकृत्य अरण्यम्उद्दिश्य प्रस्थितवान्। यत्र सः वामनः पूर्वंदृष्टः आसीत् तत् स्थलं प्राप्तवान् सः। तत्रैवकस्यचित् वृक्षस्य शाखायाम् उपविष्टः सःवामनः कृषिकं दृष्ट्वा अधः उत्प्लुतवान्।कृषिकस्य समीपम् आगत्य— “किं भोःकृषिकमहोदय ! पुनः किमर्थम् आगतवान् ? मया दत्तात् कांस्यपात्रतः किमपि साहाय्यं नप्राप्तं वा ? का चिन्ता बाधते भवन्तम् ?” इतिपृष्टवान्।**
** कृषिकः प्रवृत्तं सर्वं वामनायनिवेदितवान्। वामनः वृक्षस्य समीपं गत्वा**
वृक्षकोटरतः एकं रजतपात्रम् आनीतवान्।तत् कृषिकस्य हस्ते दत्त्वा काश्चन सूचनाःसूचयित्वा च ततः निर्गतवान् सः। कृषिकःएतत् पात्रं स्वीकृत्य सन्तोषेण गृहंप्रत्यागतवान्।
** कृषिकस्यचलनवलनं परीक्षितंनियुक्तानां सेवकानां द्वारा धनिकः एतां वार्तांज्ञातवान् एव। कांस्यपात्रस्य अपेक्षयारजतपात्रम् एव श्रेष्ठम् इति चिन्तितवान्सः।**
** ‘एतत् पात्रम् अपि केनापि उपायेनवशीकरणीयम्’ इति सङ्कल्पिवान् धनिकःअतः सः एकं भोजनकूटम् आयोज्यमुख्यातिथित्वेन कृषिकम् आहूतवान्।**
** कृषिकः यदा उपस्थितः तदा धनिकःबन्धुमित्रेभ्यः कृषिकस्य परिचयम् उक्त्वा—“इदानीं मुख्यातिथित्वेन आगतः एषःकृषिकः स्वसमीपे स्थितस्य विशिष्टस्यरजतपात्रस्य माहात्म्यं प्रदर्शयति” इतिसूचितवान्।**
** कृषिकः स्ववेषेण अन्तरितं तत् रजतपात्रं सर्वेषा पुरतः स्थापितवान्। “भोः रजतपात्र ! भवान् यत् कर्तुं शक्नोति तत् करोतु” इतिउक्तवान् च।**
** तदा कुरूपिणौ कृष्णवर्णीयौ महाकायौखङ्ग् खङ्ग् इति पात्रात् बहिः आगत्यहूँकुर्वन्तौ हस्तस्थितेन दण्डेन धनिकं ताडयितुम् आरब्धवन्तौ।**
** वेदनाम् असहमानः धनिकः आक्रन्दनंकुर्वन् कृषिकं दृष्ट्वा— “भोः महोदय ! एतौपुनः पात्रे प्रवेशयतु भोः” इति प्रार्थितवान्।**
** कृषिकः तु— “प्रथमं मदीयं कांस्यपात्रंपत्यर्पयतु भवान्” इति उक्तवान्।**
** धनिकः धावन् अन्तः गत्वा तत्कांस्यपात्रम् आनीय कृषिकायप्रत्यर्पितवान्। तत्क्षणे एव तौ महाकायौरजतपात्रं प्रविश्य अदृश्यौ जातौ।**
** अनन्तरं केषुचित् एव दिनेषु कृषिकःमहाधनिकेषु अन्यतमः सञ्जातः। यदासद्यःकालीनाः अपेक्षाः सर्वाः पूरिताः तदा सःकृषिकः तत् पात्रद्वयम् अपि रहस्यरूपेण कुत्रापि गर्ते स्थापितवान्।**
ऋणस्य प्रतिसङ्ग्रहणम्
** देवपुरे वीरदासः नाम धनिकः आसीत्।यद्यपि सः कुसीदव्यवहारेण जीवति, तथापिबहुजनप्रियः। ये ऋणम् इच्छन्ति ते तस्यसमीपतः धनं स्वीकृत्य समये प्रत्यर्पयन्तिस्म। योग्या वृद्धिः अपि तैः दीयते एव।वीरदासः अपि अन्यायेन धनं सम्पादयितुं नइच्छति। समयानुगणं भागशः ऋणप्रत्यर्पणम्अपि अङ्गीकरोति सः। अतः बहवः विशेषसन्दर्भेषु वीरदासस्य साहाय्येन कार्यंनिर्वहन्ति स्म।**
** देवपुरस्य परर्श्वग्रामे नागभूषणः नामअपरः धनिकः आसीत्। नागभूषणस्यपित्रार्जिता सम्पत्तिः यथेष्टम् अस्ति। तथापितस्य धनाशा अधिका। कुसीदव्यवहारेणअधिकवृद्धिं सङ्ग्रह्णाति स्म सः। नागभूषणम् बहवः"ऋणं स्वीकुर्वन्ति। किन्तुप्रत्यर्पणसमये तु बहुधा पीडयन्ति। केचन तुसमये वृद्धिम् अपि न यच्छन्ति। प्रतिदिनं नागभूषणम् आटयन्ति।**
** एतत्कारणतः एव नागभूषणः ऋणस्यप्रतिसङ्ग्रहणार्थम् एव कांश्चन धूर्तान्पालयति स्म। एतदर्थं महान्तं व्ययम् अपिकरोति सः। कदाचित् एतेषां धूर्तानां दुराचारःअपि मौनं सोढव्यं भवति स्म तेन।**
** नागभूषणः वीरदासस्य विषयं जानाति।एकदा सः वीरदासं द्रष्टुं देवपुरम् आगतवान्।स्वागतोपचारानन्तरं सः वीरदासं पृष्टवान्–“महोदय ! भवान् कुसीदव्यवहारं करोतिकिल ? दत्तम् ऋणं कथं वा प्रतिप्राप्नोति ?”इति।**
** तदा वीरदासः उक्तवान्– “ऋृणस्यप्रतिप्राप्तौ कः क्लेशः ? ये मम समीपतः ऋणं स्वीकुर्वन्ति ते एव स्वयम् आगत्य ऋृणं प्रर्पयन्ति। अत्र स्वयम् आगत्य ऋृणं प्रत्यर्पयन्ति। अत्र ज्ञातव्यं किम् अस्ति? इति।**
“किन्तु सर्वे सज्जनाः न भवन्ति किल ?केचन दुराग्रहशीलाः भवन्ति एव। तेषांहस्ततः कथं वा ऋणं प्रतिस्वीकरोति ?” इतिपृष्टवान् नागभूषणः।
“जनः स्वभावेन यथाकथम् अपि भवतुनाम। मया सह सः विनयेन एव व्यवहरति।अद्यावधि अहं ऋणस्य प्रतिस्वीकारे विशेषकष्टं न अनुभूतवान्। यत्र अनुभवः एव नास्ति तद्विषये किं वा वदामि ?” इति उक्तवान्वीरदासः।
नागभूषणः क्षणकालं चिन्तयन् मौनंस्थितवान्। अनन्तरं पृष्टवान् च—“एवं तर्हिअहं भवतः सकाशतः द्विशतं रूप्यकाणिऋणत्वेन स्वीकरिष्यामि। षण्मासाभ्यन्तरेभवता तत् धनम् उपायेन प्रतिस्वीकरणीयम्।यदि भवान् सफलः तर्हि सहस्रं रूप्यकाणांपारितोषिकं दास्यामि। अस्तु वा ?” इति।
वीरदासः मन्दहासं प्रकटयन्—
“भवतःविषये मया इतः पूर्वम् एव श्रुतम्। तथापिऋणदाने कश्चन नियमः भवता पलनीयः।यतः अन्यग्रामीणाय ऋणदानसमये मया एषःनियमः पाल्यते। न्यासत्वेन भवान् किमपिवस्तु संस्थाप्य ऋणं स्वीकर्तुम् अर्हति” इतिउक्तवान् वीरदासः।
“एवं वा ? अस्तु नाम। अत्र मम अपिकश्चन नियमः अस्ति। ऋणप्रत्यर्पण-समनन्तरम् एव भवता न्यासत्वेन स्थापितंवस्तु प्रतिदातव्यम्” इति वदन् नागभूषणः हस्ते स्थितं सुवर्णकङ्कणं वीरदासायदत्तवान्।
पुनः उक्तवान् “एतद्वस्तु विक्रीयप्राप्तेन धनेन ऋणव्यवहारः न समापनीयः।रोकधनरूपेण एव भवता मत्सकाशतः ऋणंप्रतिस्वीकरणीयम्” इति।
वीरदासः एतं नियमम् अपि अङ्गीकृत्यनागभूषणाय द्विशतं रूप्यकाणि ॠणत्वेनदत्तवान्।
नागभूषणस्य तु कुतूहलम्—‘वीरदासःमत्सकाशतः कथं वा ऋणं प्रतिसङ्गृह्णीयात् ? कम् उपायम् आश्रयेत् ?‘इति।
षण्मासानाम् अवधिः अतीतः। वीरदासःतु ऋणस्य प्रस्तावम् अपि न कृतवान्।
‘स्पर्धायां मम एव जयः’ इति चिन्तयन्नागभूषणः वीरदासस्य समीपं गतवान्।
वीरदासः पृष्टवान्–“स्पर्धायाःपारितोषिकं धनम् आनीतवान् वा ?” इति।
आश्चर्यं प्रकटयन् नागभूषणः उक्तवान्—
“मया किं दातव्यम् ? वस्तुतः भवता किलऋणं प्रतिस्वीकरणीयम् आसीत् ? तत् भवान्स्वीकर्तुं न शक्तवान्। अतः जयः मम एवं"इति।
वीरदासः हसन् उक्तवान् —
“ऋणं मया तुपूर्वम् एव प्रतिसङ्गृहीतम्। अतः एवपारितोषिकं पृष्टवान्” इति।
“असत्यं वदति भवान्। धनंप्रतिस्वीकृतम्इत्यत्र कः आधारः ? माम् असत्यकथनेनवञ्चयन् अस्ति भवान्” इति कोपेनउक्तवान् नागभूषणः।
“अहं किमर्थं वा असत्यं वदेयम् ?” इतिपृच्छन् वीरदासः एकं सेवकम् आहूतवान्।आगतं सेवकं प्रदर्शयन् पृष्टवान् च– “एतंभवान् जानाति वा ?” इति।
एतं सेवकं दृष्ट्वा नागभूषणः पूर्वं प्रवृत्तं सर्वं स्मृतवान्।
मासचतुष्टयतः पूर्वं कस्याञ्चित् वृष्टिमयरात्रौ कश्चन ग्रामीणः वृष्ट्या आर्द्रः सन्आगत्य दीनतया प्रार्थितवान्—
“भोः श्रीमन् !भवता एव रक्षणीयः अहम्। मम पत्नीमरणावस्थायाम् अस्ति इव। एतत्क्षणे एवचिकित्सार्थं सा नगरं नेतव्या। तदर्थं द्विशतं रूप्यकाणि अत्यावश्यकानि। कृपया माम्अनुग्रह्णातु” इति।
नागभूषणः तदानीम् एव भोजनं समाप्यबहिः आगतवान् आसीत्। सः अनादरंप्रकटयन् उक्तवान्–“भोः ! भवान् कः,कुत्रत्यः, इत्यादिकं किमपि न जानामि।कुलगोत्रादिकम् अज्ञात्वा ऋणं कथं ददामि?न्यासरूपेण किमपि स्थापितं चेत् ऋणं दातुंशक्येत” इति।
‘तदर्थम् अपि आनीतवान् अस्मि’ इतिवदन् सः सेवकः वस्त्रतः सुवर्णमयं कङ्कणंबहिः आनीतवान्। उक्तवान् च—
“एतत्कङ्कणं मम पत्न्याः। एतत् न्यासत्वेनस्वीकृत्य धनं ददातु” इति।
** सुवर्णकङ्कणं दृष्ट्वा नागभूषणस्य मनःसन्तुष्टम्। सः व्यवहारपत्रं लिखित्वा तस्यग्रामीणस्य अङ्गुष्ठाङ्कनं कारयित्वा सुवर्णकङ्कणं स्वीकृत्य द्विशतं रूप्यकाणिदत्तवान्।**
** एवं वीरदासः नागभूषणतः ऋणं प्रतिस्वीकृतवान् आसीत्।**
** एतत् सर्वं स्मृत्वा तीव्रकोपेन नागभूषणःउक्तवान्— “भोः! सर्वथा वञ्चना एषा।पूर्वतननियमानुगुणं ऋण-प्रतिस्वीकरण-समनन्तरम् एव किल भवता मम वस्तुप्रत्यर्पणीयम् आसीत् ?” इति।**
** ‘अत्र का वञ्चना ? मम सेवकः न्यासरूपेण यत् सुवर्णं दत्तवान् तत् भवदीयम् एव।भवदीयं कङ्कणं द्रवीकारयित्वा रूपान्तरेण तत् निर्मितम् आसीत्। आवश्यकं चेत् तस्यभारं पश्यतु। भवता वृद्धिः अपि दातव्यानास्ति। एषः व्यवहारः समाप्तः इति अहं चिन्तयामि” इति उक्तवान् वीरदासः।**
** नागभूषणः वीरदासाय सहस्रं रूप्यकाणिदातुं न इच्छति। किञ्चित् आलोच्य सःउक्तवान्– “अहं भवते पारितोषिकत्वेनदातव्यानि सहस्रं रूप्यकाणि न ददामि। चातुर्येण भवान् सङ्ग्रहीतुं शक्नोति चेत्सङ्गृह्णातु नाम” इति।**
** तदा वीरदासः हसन् उक्तवान्– भवान्एवं कुर्यात् इति सन्देहः मम पूर्वम् एवआसीत्। अतः द्विहस्ररूप्यकात्मकं भवतःकङ्कणं मम समीपे एव स्थापितवान्।सेवकेन यत् कङ्कणं दत्तं तत् न सुवर्णस्य।ताम्रेण निर्मितं तत्। सुवर्णद्रवेण लिप्तं च।अतः तत् ताम्रकङ्कणं सहस्रं रूप्यकाणि चदत्त्वा भवदीयं कङ्कणं नेतुम् अर्हति भवान्"इति। अनन्तरं सेवकद्वारा नागभूषणस्यकङ्कणम् आनाय्य प्रदर्शितवान् च।**
** एतत् श्रुत्वा नागभूषणः निरुत्तरःअभवत्। सः मौनं गृहं गत्वा ताम्रकङ्कणंसहस्रं रूप्यकाणि च आनीय दत्त्वा स्वकीयसुवर्णकङ्कणं प्रतिस्वीकृतवान।**
** ततः प्रस्थानसमये तस्य मनसि कश्चनविचारः आगतः। सः वीरदासं उक्तवान्–“भोः ! पूर्वतन नियमानुसारं ऋणप्रति**
स्वीकरणतः पूर्वं मदीयं वस्तु प्रत्यर्पणीयम् आसीत् भवता। किन्तु भवान् ताम्रकङ्कणं दत्त्वा मां वञ्चितवान्। एतेन वचनभ्रष्टः अभवत् च’ इति।
** तदा हसन् एव वीरदासः उक्तवान्– “अहं वचनभ्रष्टः सर्वथा न जातः। भोः मित्र ! भवान् महाचतुरः इति अहं पूर्वम् एव जानामि। ‘एतादृशस्य भवतः सकाशात् ऋणं प्रतिस्वीकरणीयं चेत् विशेषोपायः आश्रयणीयः एव’ इति अहं चिन्तितवान्। अतः एव भवन्तं किञ्चिदिव सम्भ्रन्तं कृतवान्। सत्यं तु एतत् यत् मम सेवकेन दत्तं कङ्कणं सुवर्णमयम् एव, न तु ताम्रमयम्। भवतः कङ्कणस्य समानं मूल्यम् अर्हति तत्। अतः ऋणप्रतिस्वीकरणतः पूर्वं मया भवत्कङ्कणमूल्यकं कङ्कणं दत्तम् आसीत् एव। अतः भवदीयं सुवर्णं पूर्वम् एव दत्तम् आसीत्। तच्च न साक्षात्, अपि तु रूपान्तरेण। इदानीं समाहितः वा भवान् ?” इति।**
** “इतः परम् अपि कथं वा प्रतिवदामि ?तावान् मूर्खः विवेकरहितः न अहम्। ऋणप्रतिस्वीकरणविषये भवतः सकाशतः बहु ज्ञातव्यम् अस्ति मया” इति उक्त्वा नागभूषणः गन्तुम् उद्युक्तः।**
** तस्य गमनं किञ्चित्कालं स्थगयन् वीरदासः उक्तवान्– “दत्तस्य ऋणस्य प्रतिस्वीकारे काऽपि पद्धतिः मार्गः वा नास्ति एव। ऋणस्वीकर्तुः आवश्यकतायाः दुरुपयोगं स्वीकृत्य अधिकवृद्धिं स्वीकर्तुं प्रयत्नः कृतः चेत् समस्याः उद्भवन्ति। साहाय्यबुद्ध्या ऋणं दत्तं चेत् स्वीकर्तुः मनसि कृतज्ञताभावः सदा तिष्ठति। अतः सः स्वयं समये ऋणंप्रत्यर्पयिष्यति। ऋण-प्रतिस्वीकरणार्थं तदा श्रमः करणीयः एव न भवति” इति।**
** “महोदय! भवान् एतत्सर्वं स्वानुभवेन वदन् अस्ति। तथैव आचरन् अस्ति अपि। अतः अहम् एतत् न निराकरोमि। यावच्छक्यम् एतं मार्गम् अनुसर्तुं प्रयत्नं करोमि। भवता अहं बहुधा उपकृतः” इति उक्त्वा नमस्कृत्य स्वगृहं गतवान् नागभूषणः।**
एकम् एव दुर्व्यसनम्
** एकस्मिन् ग्रामे आनन्दः नाम महान् पण्डितः आसीत्। तस्यसुधामः नाम तरुणःपुत्रः। किन्तु तस्मिन् ग्रामे कोऽपि तस्मै कन्यां दातुं न सिद्धः। कदाचित् गोविन्दः नाम सहपाठी आनन्दस्य गृहम् आगतवान्। सः स्वपुत्र्याः विवाहार्थं वरान्वेषणं कुर्वन् आसीत्।**
** बहोः कालात् अनन्तरम् आगतं मित्रं दृष्ट्वा आनन्दस्य बहु सन्तोषः अभवत्। द्वावपिबाल्यदिनानि स्मृत्वा वार्तालापं कृतवन्तौ।**
** तदा गोविन्दः पुत्र्याः विषयम् उक्त्वा “भवतः पुत्रः एव मम पुत्र्याः पाणिग्रहणं करोति चेत्समीचीनम्। तथापि सुधामस्य कोऽपि कन्यां न ददाति इति वार्ता श्रुता। तत्र किं कारणम् ?सुधामस्य दुर्व्यसनादिकम् अस्ति वा ?” इति आनन्दः पृष्टवान्।**
** “भवान् एव केनापि व्याजेन तं पृष्ट्वा आगच्छतु” इति उक्तवान् आनन्दः।**
** सायङ्काले गोविन्दः सुधामम् एकान्ते पृष्टवान्– “एकः सामान्य विषयः। अन्यथा माभावयतु। भवतः यत्किमपि दुर्व्यसनम् अस्ति वा ?”।**
** “नैव, दुर्व्यसनं किमपि नास्ति” इति सुधामः उक्तवान्।**
** गोविन्दः एतं विषयम् आनन्दस्य समीपे उक्तवान्। तदा आनन्दःहसन् “मम पुत्रस्यएकमेव दुर्व्यसनं यत् असत्यकथनं नाम” इति उक्तवान्।**
औषधं तायकं च
** वल्लभपुरे ग्रामे सुधीरः नाम एकः गृहस्थः आसीत्। तस्य पत्नी विशालाक्षी। एकदासुधीरस्य पञ्चवर्षीयः पुत्रः ज्वरपीडितः अभवत्।ज्वरतापेन बालः बहु कष्टम् अनुभवति स्म।**
** तस्मिन् ग्रामे उत्तमः वैद्यः न आसीत्।अतः सुधीरः पार्श्वग्रामे स्थितस्य प्रसिद्धवैद्यस्यसमीपं गतवान्। बालस्य ज्वरविषये सर्वंनिवेदितवान्। वैद्यः सप्ताहपर्यन्तं यावत्आवश्यकं तावत् औषधं दत्त्वा प्रेषितवान्।**
** एकः सप्ताहः अतीतः। तथापि रोगशान्तेःकिमपि लक्षणं न दृष्टम्। एतेन विशालाक्ष्याःमनः प्रक्षुब्धम्। वैद्येन दत्तस्य औषधस्य विषयेतस्याः विश्वासः अपगतः।**
** तस्मिन् एव ग्रामे देव्याः उपासकः वैश्यानरः तायकद्वारा रोगनिवारणे प्रसिद्धः आसीत्।प्रतिशुक्रवासरे पूजानन्तरं दीयमानस्य सायकस्यकृते सुदूरग्रामतः अपि जनाः आगच्छन्ति स्म।**
अतः ‘वैश्वानरतः तायकम् आनयतु’ इतिविशालाक्षी पतिं सूचितवती।
** “तायकचारणं ग्रामीणानां पामराणां कार्यम्।अन्धश्रद्धायाः मूलम् तत्। औषधेन अपियस्य रोगस्य शान्तिः न जाता स च रोगः किंतायकेन शाम्यति ? तायकस्य आनयनं किमपिमास्तु एव। अहम् इदानीं वैद्यस्य समीपम् गत्वापुनरपि औषधम् आनयामि। चिन्ता मास्तु"इति उक्तवान् सुधीरः।**
** सुधीरः यदा वैद्यस्य समीपं गतवान् तदासः गृहे न आसीत्। वैद्यस्य पत्नी ज्वरपीडिताआसीत्। तदर्थं तायकम् आनेतुम् इच्छन् वैद्यःवैश्वानरस्य समीपं गतवान् आसीत्। एतांवार्तां श्रुत्वा सुधीरः आश्चर्यचकितः।**
** सुधीरः तत्क्षणे एव ग्रामं प्रत्यागतवान्।साक्षात् वैश्वानरस्य गृहं गतवान् च। वैश्वानरस्य गृहस्य पुरतः बहवः जनाः आसन्।**
तेषु वैद्यः अपि आसीत्। सुधीरः वैद्याय पुत्रस्य परिस्थितिं निवेदितवान्।
** बालकस्य आरोग्यविषये पुनरपि कांश्चनप्रश्नान् पृष्ट्वा वैद्यः स्वस्यूततः काश्चन गुलिकाःदत्तवान्। ‘औषधसमाप्तेः अनन्तरं पुत्रस्यआरोग्यविषये वार्ता प्रापणीया’ इति सूचितवान्।**
** सुधीरः औषधं स्वीकृत्य वैद्यं पृष्टवान्–“महोदय ! एकः सन्देहः। भवान् वैद्यशास्त्रंसम्पूर्णं जानन् अपि किमर्थं पुनः तायकं नेतुम्अत्र आगतवान् ?” इति।**
** तदा वैद्यः हसन् उक्तवान्– “अत्रआश्चर्यस्य विषयः कोऽपि नास्ति। तायकेमम विश्वासः अस्ति वा न वा इत्येतत् अन्यत्एव। मम पत्नी अस्वस्था अस्ति। मयादत्तेन औषधेन तस्याः अस्वास्थ्यं न दूरङ्गतम्। तस्याः तु तायके महती श्रद्धा। यद्यपि वैद्यशास्त्र विषये सा विशेषतया न जानाति।तथापि केषाञ्चित् सस्यमूलानां विषये साजानाति।सामान्यतः कस्य रोगस्य कृते किंमूलं स्वीक्रियते मया इत्यपि सा जानाति।अतः मया दीयमानस्य औषधस्य विषये साचिन्तयति– ‘एतावदेव किल ? ज्ञातानि एव एतानिमूलानि’ इति। मम औषधानां विषये तस्याःतावती श्रद्धा नास्ति। रोगनिवारणे औषधापेक्षया श्रद्धा एव अधिकं कारणम् इतिभवान् जानाति एव। अतः अहं तायकंनेतुम् अत्र आगतवान्” इति।**
** अनन्तरं सुधीरः वैद्येन दत्तम् औषधंनीत्वा पत्न्याः हस्ते दत्तवान्।**
** विशालाक्षी तु यदा सुधीरः पार्श्वग्रामंगतवान् आसीत् तदा एव वैश्वानरस्य गृहतःतायकम् आनीय बालस्य कटिसूत्रे बद्धवतीआसीत्। एतां वार्तां गोपितवती आसीत् च।**
** सप्ताहाभ्यन्तरे बालकस्य ज्वरः पूर्णतयादूरङ्गतः। औषधेन एव ज्वरः अपगतः इतिसुधीरः चिन्तितवान्। तायकमहिम्ना एवंजातम् इति विशालाक्षी चिन्तितवती।**
कर्मफलम्
** बह्मदत्तः काशीं पालयन् आसीत्। तेषुदिनेषु बोधिसत्वः वानररूपेण जन्म प्राप्तवान्।तस्य नाम आसीत् नन्दीयः। नन्दीयस्य एकःसहोदरः अपि आसीत्। नन्दीयः हिमालयपर्वतप्रदेशे निवसताम् अशीतिसहस्रवानराणानायकः आसीत्। नन्दीयस्य माता वृद्धा। तस्याः पालनपोषणं नन्दीयस्य एव।**
** नन्दीयः तदीयेन अनुजेन सह प्रतिदिनंअरण्यसञ्चारं कृत्वा मधुराणि विविधफलानिआनयति स्म। सेवकद्वारा तानि फलानिमातुः समीपं प्रेषयति स्म।**
** एकस्मिन् दिने नन्दीयः मातरं द्रष्टुम्आगतवान्। मातरं दृष्ट्वा चकितः खिन्नः च नन्दीयः उक्तवान् “अम्ब ! भवती किमर्थम्एवं दुर्बला जाता ? अहं तु प्रतिदिनं मधुराणिफलानि यथेष्टं प्रेषितवान् एव। तानि भवतीन खादति वा ? किमर्थं भवती एवं दुर्बला ?कोऽपि रोगः भवतीं न बाधते किल ?” इति।**
** “पुत्र ! भवान् प्रतिदिनं फलानि प्रेषितवान् वा ? मया कदापि तानि न प्राप्तानि एव।यदि पौष्टिकानि फलानि लभ्येरन् अहं कुतःदुर्बला भवामि स्म ? वृद्धा अहं स्वयं बहिःगत्वा आहारं सम्पादयितुम् अशक्ता” इतिउक्तवती सा माता।**
** नन्दीयः एतत् श्रुत्वा खिन्नः। कि प्रवृत्तंस्यात् ?’ इति सः ज्ञातवान्। त्वरया हिमालयंप्राप्तवान्। तत्र अनुजं समग्रं वृत्तान्तम् श्रावयित्वा उक्तवान—“अनुज ! अहं गृहे स्थित्वामातुः योगक्षेमस्य व्यवस्थां करिष्यामि। भवान्अत्र एव स्थिवा अस्माकं गणस्य व्यवस्थांपरिशीलयतु” इति।**
** “सहोदर ! अहम् अपि भवता सहआगमिष्यामि। मातुः योगक्षेमव्यवस्थायांसाहाय्यं करिष्यामि” इति उक्तवान् अनुजः।**
** एवं चिन्तयित्वा उभौ अपि गृहं प्राप्तवन्तौ।तत्र एकस्मिन् विशालवृक्षे उत्तमं गृहं निर्मायतत्र मातरं स्थापितवन्तौ। श्रद्धया तस्याः सेवांकर्तुम् आरब्धवन्तौ।**
** तेषु दिनेषु कश्चित् बाह्मणपुत्रः तक्षशिलायांप्रसिद्धस्य गुरोः समीपे विद्याभ्यसं कुर्वन्आसीत्। विद्याभ्यसं समाप्य सः स्वप्रदेशंगन्तुं गुरोः अनुमति पृष्टवान्। गुरु शिष्यम् उपदिष्टवान्– “शिष्योत्तम ! भवान् श्रद्धयाविद्याम् अर्जितवान्। एतेन अहं सन्तुष्टः अस्मि। भवता अविचार्य कदापि कार्यं न करणीयम्।अविचार्य कृतं चेत् भवतः नाशः अपिभवेत्। अतः जागरूकः भवतु। एषएवमम उपदेशः” इति। अनन्तरम् आशीर्वादपूर्वकं तं प्रेपितवान्।**
** गुरुणा अनुमतः सः युवकः काशीनगरंप्राप्तवान्। विवाहितः भूत्वा गृहस्थधर्मम्अपि आश्रितवान्। उदरपूरणार्थं सः कमपिनिश्चितं मार्गं न अनुसृतवान्। एवम् एवदिनानि अतीतानि। अन्ते सः मृगयावृत्तिम्आश्रितवान्। पशुपक्षिणां मारणं कृत्वा,मांसविक्रयणं कुर्वन्, सम्पादितेन धनेन कुटुम्बपोषणं करोति स्म। बाह्मणस्य मृगया निषिद्धा।एतत् जानन् अपि सः मृगयां वृत्तिरूपेणआश्रितवाम्। सः वा किं करोति ? कथञ्चित्उदरं पूरणीयं किल ?**
** एकस्मिन् दिने समग्रे अरण्ये अटिते अपिकुत्रापि कोऽपि पशुः न लब्धः। निराशः सःप्रत्यागमनसमये एकं वृक्षं दृष्टवान्। तदा तत्रनन्दीयः मातरं भोजयित्वा तस्याः पृष्ठतःअनुजेन सह उपविष्टः आसीत्। ते तं युवकंदृष्टवन्तः।**
** रिक्तहस्तः कथम् अहं गृहं गमिष्यमि ?इति सः युवकः चिन्तितवान्। वृद्धमातरंवानरीम् उद्दिश्यं बाणप्रयोगार्थं सिद्धः अभवत्। एतत् नन्दीयः दृष्टवान्। सः अनुजम्उक्तवान्- “अनुज ! तत्र पश्यतु सः युवकःइदानीं मातरम् उद्दिश्य बाणप्रयोगं करोति।**
** अहं बाणस्य लक्ष्यः भविष्यामि। मम मरणा**
नन्तरं भवान् मातुः पालनपोषणादिकं करोतु।” एवम् उक्त्वा सः वृक्षतः अधः आगतवान्।
** तत्र तं युवकम् उक्तवान्– “मित्र ! भवान्मम मातरं न मारयतु। सा च वृद्धा। तस्याःमारणस्य अपेक्षया भवान् माम् एव मारयतु"इति।**
** “अस्तु नाम” इति वदन् सः दुष्टःब्राह्मणयुवकः नन्दीयम् एव मारितवान्। एतावता अपि सः युवकः न तृप्तः।**
** नन्दीयस्य मारणानन्तरं सः पुनः अपिवृद्धमातरं मारयितुम् उद्युक्तः। एतत् दृष्ट्वानन्दीयस्य अनुजः अधः आगतवान्। नन्दीयेनउक्तानि वचनानि पुनरुच्चरितवान्। युवकःतस्य वचनानि अङ्गीकृतवान्। तथैव तंसहोदरं निर्दयं मारितवान् च।**
** युवकः चिन्तितवान्— ‘अद्य एतावत् एवपर्याप्तम्’ इति। किन्तु अन्यक्षणे एव तस्यविचारः परिवृत्तः। निर्दयः सः तस्याः तृतीयायाः वृद्धायाः वानर्याः उपरि अपि बाणप्रयोगं कृतवान्। तां मारितवान् च।**
** अनन्तरं सः त्रीन् अपि वानरान् एकस्मिन्दण्डे बद्ध्वा स्वगृहं गतवान्। ग्रामस्य सीमायाम् एव तेन वार्ता प्राप्ता यत् तदीयं गृहम्अग्निना ज्वलत् अस्ति। पत्नीपुत्रादयः अन्तःएव सन्ति इति।**
** सः धावन् महता धैर्येण दह्यमानं गृहंप्रविष्टवान्। तदा अकस्मात् भूमिः विभक्ता।एषः कया अपि शक्त्या अधः नीयमानः इवभूमिकुहरं प्रविष्टः। सः मनसि एव खेदम्अनुभूतवान्—“मदीयः आचार्यः उक्तवान्आसीत् यत् क्रूरं कर्म न करणीयम् इति।तथापि अहं कृतवान्। तस्य फलम् इदानींमया अनुभूयते। इदानीं पश्चात्तापेन किं प्रयोजनम् ? अहं विनाकारणं निरपराधिनां वानराणांहननं कृतवान्। एवं यदि मया न कृतं स्यात्तर्हि मम गृहं न अज्वालयिष्यत्, पत्नीपुत्राःन अमरिष्यन् च” इति।**
** एवं चिन्तयता तेन नरकलोकः प्राप्तः।**
काकतालीयम्
** रामः कृष्णः च सहोदरौ। तौ नगरेविद्याभ्यासं समाप्य ग्रामं प्रत्यागतवन्तौ।यद्यपि तौ युवकौ दृढकायौ, तथापि उद्योगप्राप्त्यर्थं कमपिप्रयत्नं न आरब्धवन्तौ।भोजनं तु गृहे भवति। भोजनानन्तरम् एतौसम्यक् निद्रां कुरुतः। पुनश्च मित्रैः सहजल्पनं, कुत्रापि कोणे उपविश्यअक्षक्रीडनम्। पित्रार्जिता सम्पत्तिः अस्तीतिकारणतः एतादृशम् अलसजीवनं तयोःप्रवृत्तिःजाता। उद्योगान्वेषणे चउदासीनता। ‘कदाचित् अन्वेषणं करवाम’इति चिन्तयन्तौ एव कालं यापयतः तौ।**
** पिता कानिचन दिनानि एतत्सर्वं पश्यन्मौनम् आसीत्। अन्ते एकदा तौ सम्यक्तर्जयित्वा विवेकं बोधितवान्।**
** तदा रामः कृष्णम् उक्तवान्—“भोः,उद्योगसम्पादनं नाम महते क्लेशाय।प्राप्तस्य उद्योगस्य रक्षणं ततोऽपिक्लेशाय। अस्माकं तु पित्रार्जिता सम्पत्तिःअस्ति। तथापि पिता आवाम् एवंतर्जितवान्। इदानीम् अहम् आत्मरक्षणार्थम्एकम् उपायं चिन्तितवान् अस्मि” इति।**
** “कः सः उपायः भोः ?” इति कुतूहलेनपृष्टवान् कृष्णः।**
** “आवां प्रातः भोजनं कृत्वा’उद्योगान्वेषणार्थं नगरं गच्छावः’ इतिउक्त्वा गृहतः निर्गच्छाव। अनन्तरं ग्रामात्बहिः कुत्रापि सायङ्कालपर्यन्तं निद्रां जल्पनंवा कृत्वा रात्रिभोजनसमये प्रत्यागच्छाव।अस्त किल?” इति पृष्टवान् रामः।**
** ‘उत्तम उपायः एषः” इति कृष्णः अपिअङ्गीकृतवान्।**
** अनन्तरदिने प्रातः तौ भोजनं कृत्वा गृहात्निर्गतौ। ‘पुत्रौ उद्योगाभिमुखौ जातौ’ इतिसन्तोषेण पिता आशिषा अनुगृह्य तौप्रेषितवान्।**
** गृहात् निर्गतौ तौ ग्रामम् अतिक्रम्यगतवन्तौ। किञ्चिद्दूरं गमनानन्तरंमार्गपार्श्वेस्थितम् एकम् अश्वत्थवृक्षंदृष्टवन्तौ तौ।**
** “पश्यतु भोः ! एतत् तु उत्तमं स्थलम्।निद्रार्थं पर्याप्तमात्रेण छाया अपि अस्ति।इतस्ततः अटनेन वृथा पादवेदना एवकिल ?” इति उक्तवान् कृष्णः।**
** “सत्यं किल ? एतत्स्थलं किञ्चित्स्वच्छीकृतं चेत् सायंपर्यन्तम् अपि गाढं निद्रांकर्तुं शक्यं स्यात्। स्निग्धा छाया” इतिउक्तवान् रामः।**
** अनन्तरं तौ वृक्षसमीपं गत्वा पतितानिपर्णानि लघुशिलाखण्डान् च दूरेक्षिप्तवन्तौ। महाशिलाः उभौ अपि मिलित्वा दूरं नीतवन्तौ।**
** तत्समये तेन मार्गेण गच्छन्ती रुद्राम्बा तौदृष्ट्वा— “किं भोः, सर्वदा ग्रामे कुत्रापिअवकरमध्ये शयानौ भवन्तौ अद्य अत्रआगत्य किम् एतत् कर्तुम् आरब्धवन्तौ ?किम् एतत् महत्कार्यम् आरब्धम् ?” इतिपृष्टवती।**
रुद्राम्बा धनिका। किन्तु तस्याःबुद्धिमत्ताविषये बहूनां सन्देहः। केचन तांमन्दबुद्धिं कथयन्ति स्म अपि।
** “ग्रामस्य हितार्थम् एव एतत् कार्यम्।अत्र एकः देवालयः निर्मातव्यः इति अस्माकंप्रयत्नः” इति उक्तवान् रामः।**
** “उत्तमकार्यम् एतत्। परोपकारः खलुपुण्याय ! ममापि अत्र भागः भवतु। एतत्सुवर्णकङ्कणं स्वीकुरुताम्। भवतोः प्रयत्नःसफलः भवतु” इति उक्त्वा रुद्राम्बा हस्ते धृतम् कङ्कणयुगलं निष्कास्य वृक्षमूलेस्थापितवती। ‘चिरं जीवताम्’ इति आशिषाअनुगृह्य ततः निर्गतवती सा।**
** प्रकाशमानं तत् सुवर्णकङ्कणयुगलंदृष्ट्वा रामकृष्णयोः मनसि दुर्भावनासमुत्पन्ना।**
** “एतस्य कङ्कणयुगलस्य मूल्यंन्यूनातिन्यूनं चतुःसहस्ररूप्यकात्मकं भवेत्एव। नगरं नीत्वा एतस्य विक्रयणं कृतं चेत्व्ययार्थं यथेष्टं धनं प्राप्यते” इति उक्तवान्रामः।**
** “आं, विलम्बः न करणीयः। यतः**
एतस्याः रुद्राम्बायाः वचनं श्रुत्वा पिता अत्रआगच्छेत्। अतः प्रथमम् एतत् विक्रीय धनंसम्पादयेम। अनन्तरं पिता यदि पृच्छेत् तर्हिसा न दत्तवती एव इति असत्यं वदेम।मन्दबुद्धेः रुद्राम्बायाः वचने को वाविश्वसेत् ?” इति उक्तवान् कृष्णः।
** यदा तौ नगरं प्राप्तवन्तौ तदामध्याह्नकालः। नगरे एकत्र ताभ्यांसुवर्णापणाः दृष्टाः।**
** रामः कृष्णम् उक्तवान्—“कृष्ण ! आवांसुवर्णस्य अद्यतनमूल्यं न जानीवः। अतःअहम् आपणात् बहिः तिष्ठामि। भवान्ग्राहकः इव अन्तः प्रविश्य सुवर्णस्य मूल्यंजानात्। अनन्तरम् अन्यत्र एतस्य विक्रयणंकुर्मः। अन्यथा विक्रयणे वयं वञ्चिताःभवेम” इति।**
** अनन्तरं रामः सुवर्णकङ्कणयुगलंवस्त्रेण गोपयित्वा आपणस्य पुरतः स्थितस्यगृहस्य वितर्दिकायाम् उपविष्टवान्।**
** कृष्णः आपणं प्रविश्य—“सुवर्णकङ्कणयुगलम् अपेक्षितम्। इदानींसुवर्णस्य किं मूल्यम् ?” इति आपणिकंपृष्टवान्।**
** तत्समये सर्वे कर्मकराः भोजनार्थं निर्गताःआसन्। अतः आपणिकः एव स्वयंविविधानि कड्कणाणि प्रदर्शयन्—“भवान्यत् इच्छति तत् सूचयतु। कङ्कणस्यकलानुगुणं मूल्यम्” इति उक्तवान्।**
** कृष्णः कङ्कणं परीक्षमाणः इव आसीत्।तत्सन्दर्भे उत्तमैः वस्त्रैः भूषितः कश्चनमहापुरुषः तत्र आगत्य— “भोः, नूतनविधःकण्ठहारः’ कोऽपि अस्ति चेत् प्रदर्शयत्।**
मूल्य दशसहस्रतः न्यूनं न भवेत्” इति दर्पेणउक्तवान्।
** आपणिकः कृष्णस्य व्यवहारं परित्यज्यसन्तोषेण विविधान् कण्ठहारान आढ्यस्यपुरतः स्थापयित्वा एकैकस्य अपिगुणवर्णनम् आरब्धवान्।**
** रुद्राम्बया यादृशं दत्तम् आसीत् तादृशम्एव कङ्कणयुगलम् आपणिकाय प्रदर्शयन्कृष्णः पृष्टवान्— “एतस्य मूल्यं किम् ?‘इति।**
** आपणिकः तत् कङ्कणयुगलं स्वहस्तेस्वीकृत्य मल्यं वक्तुंयावत् चिन्तयन् आसीत्तावता सः आढ्यः कोपेन—“अहं व्यवहारंकर्वन् अस्मि। माम् उपेक्ष्य अन्येन सहव्यवहरति वा भवान् ? एतम् अपमानम् अहंसोढुं न इच्छामि” इति उक्त्वा वेगेन ततःगतवान् एव।**
** ‘उत्तमः ग्राहकः निर्गतः’ इति व्यथयापरितप्यमानः आपणिकः खेदेन हारम् अन्तःस्थापयन् आसीत्। तत्समये तस्य मुखतःचीत्कारः श्रुतः ! यतः पेटिकायां स्थापितःएकः हारः अदृश्यतां गतः आसीत्।**
** आपणिकस्य चीत्कारं श्रुत्वा समीपेस्थिताः रक्षकभटाः धावन्तः तत्रआगतवन्तः।**
** तान् दृष्ट्वा भीतः कृष्णः निश्शब्दं ततः पलायनं कर्तुम् उद्युक्तः। तदा रक्षकभटेषुअन्यतमः कृष्णस्य हस्तं गृहीत्वा पृष्टवान्—“किंनिमित्तं भवान् अत्र आगतवान् ?” इति।**
** कृष्णस्य मुखतः किमपि उत्तरं नआगतम्।आपणिकः रक्षकभटानउक्तवान्— ‘अहम् एतस्मै कङ्कणानिप्रदर्शयन् आसम्। तदा आढ्यः इव व्यवहरन्अत्रआगत्य कश्चित् चोरःद्वादशसहस्ररूप्यकात्मकस्य मूल्यस्य हारम्अपहृत्य पलायितवान्। हारक्रयणव्याजेन आगत्य कोपं प्रदर्शयन् इव पलायितवान्सः” इति।**
** रक्षकभटाः कृष्णं संशयदृष्ट्यापश्यन्तः— “एषः अपि तस्य चोरस्यसाहाय्यकः इव भाति। सुवर्णकङ्कणं क्रेतुम्आगतस्य भवतः समीपे कियत् धनम्अस्ति ? प्रदर्शयतु” इति उक्त्वा वस्त्रेषुशोधनं कृतवन्तः।**
कृष्णस्य समीपे एकं रूप्यकम अपि नआसीत। अतः ते रक्षकभटाः कृष्णस्य कण्ठंगृहीत्वा गर्जनस्वरेण पृष्टवन्तः—“सः अपर कृत्र गतः रे ? वदतु तस्य नामकिम् ?” इति।
** कृष्णः अश्रणि स्रावयन् प्रवृत्तं सर्वं निवेदयन्— “विनोदार्थं रुद्राम्बां किमपिउक्त्वा ततः सुवर्णकङ्कणं प्राप्य अग्रजेनसह अहम् अत्र आगतवान्। अहं यदा आपणे मूल्यजिज्ञासया ग्राहकः इव व्यवहरन् आसं तदा काकतालीयम् इव चौर्यं प्रवृत्तम्।आवश्यकं चेत भवन्तः एतद्विषये मम अग्रजंपच्छन्त। अहं तु सर्वथा निरपराधी” इतिउक्तवान्।**
** तत्र रामः आपणिकस्य चीत्कारंरक्षकभटानां प्रवेश च दृष्टवान् आसीत्।कोलाहलतः भीतः सः केनचित् उपमार्गेणपलायितवान् आसीत्। अतः कृष्णः रक्षकभटैः सह आगत्य यदा दृष्टवान् तदा तत्ररामः न आसीत्। इदानी कृष्णः असहायः।**
** “भोः एतस्मिन् अल्पे वयसि एवं कथांकल्पयित्वा अस्मान् वञ्चयितुम् उद्यक्तः वाभवान?आगच्छत् आरक्षकस्थानकम्। तत्रउचित दण्डन प्राप्स्यति भवान्” इति उक्त्वाते रक्षकभटाः कृष्णेन सह रक्षकप्रमुखस्यकार्यालय प्रति प्रस्थिताः।**
** अत्रान्तरे रामः इतस्ततः अटन् राजमार्गंप्राप्तवान्। राजमार्गे एकं शकटं गच्छत्आसीत्। त्वरया गत्वा सः तत् शकटम् आरूढवान्।**
** शकटे अपरः उपविष्टः आसीत्। सः रामंपृष्टवान्— “कुत्र प्रस्थितः भवान् ?शाकटिकस्ये अनुमतिं प्राप्य एव आरूढवान्खलु ?” इति।**
** तदा रामः सम्भ्रान्तः सन्– “मम’मातुलानी तीव्रम् अस्वस्था। तस्याःचिकित्सार्थं धनं नास्ति। अतः एतत्कङ्कणयुगलं विक्रीय धनं प्राप्तव्यम् इतिअत्र नगरम् आगतवान्। मया कस्यचित्सवर्णापणस्य समीपं गन्तव्यम् इति उक्त्वारुद्राम्बया दत्तं कङ्कणद्वयं प्रदर्शितवान्।**
** शकटे स्थितः सः कङ्कणम् इतस्ततःपरिवृत्य परीक्ष्य– “रे. असत्यकथनेन मांवञ्चयितुम् इच्छति वा ? एतत् कङ्कणद्वयम्अपि कृतकम्। सुवर्णवर्णेन लिप्तयोः एतयोः**
मूल्यम्-एव नास्ति” इति उक्त्वा कोपेन तत्कङ्कणद्वयं कुल्यायां क्षिप्तवान्।
रामः क्षणकालं स्तब्धः। अनन्तरंकोपेन— “किं भोः ? मम कङ्कणं कृतकं वाभवतु, नैजं वा भवतु। किन्तु तस्य क्षेपणेभवतः कः अधिकारः ?” इति पृच्छन् तंताडितवान्।
तयोः कलहः आरब्धः। अकस्मात्उत्पन्नेन कलहेन शकटस्य समतोलनंव्यत्यस्तम् अभवत्। अतः तौ कलहायमानौमार्गे पतितौ।
तत्समये रक्षकप्रमुखस्य समीपं कृष्णंनयन्तः रक्षकभटाः तत्रैव आगतवन्तः।
कृष्णः कलहायमानयोः परिचयं प्राप्य—“पश्यन्तु। एषः एव आढ्यः इव व्यवहरन्आपणतः हारस्य चौर्यं कृतवान्। अन्यः ममअग्रजः रामः एव’ इति उक्तवान्।
रक्षकभटाः यदा परीक्षितवन्तः तदाआढ्यवेषं धृतवतः कोषे सः सुवर्णहारःलब्धः। “अपहृतस्य हारस्य विभागे प्रवृत्तःकलहः एषः। भवन्तः त्रयः अपि चोराः एव।” इति उक्त्वा ते रक्षकभटाः त्रीन् अपिआरक्षककार्यालयं नीतवन्तः।
तत्र रामः कृष्णः च पुनः अपि प्रवृत्तं सर्वंनिवेदितवन्तौ। रक्षकप्रमुखः परीक्षार्थंरामकृष्णयोः मातापितरौ रुद्राम्बां च तत्रआनायितवान्। तेषां साक्ष्येण रामकृष्णयोःनिरपराधित्वं सिद्धम् अभवत्।
कृतककङ्कणयोःदात्री रुद्राम्बारामकृष्णौ उक्तवती— “भवन्तौ मांवञ्चयितुम् इच्छतः इति ज्ञात्वा एव अहंकृतकं कङ्कणयुगलं दत्तवती। ग्रामेदेवालयाः अनेके सन्ति। किन्तु एका अपिशाला नास्ति। भवन्तौ तु विद्याभ्यासंसमापितवन्तौ। अतः भवन्तौ एकस्याःशालायाः आरम्भं कुरुताम्। तदा नैजंसुवर्णकङ्कणम् एव दास्यामि” इति।
आलस्यस्य फलं प्राप्तम् आसीत् रामेणकृष्णेन च। अतः विवेकं प्राप्य तौ तस्यअश्वत्थवृक्षस्य अधः एव शालाम्आरब्धवन्तौ। एतेन ताभ्याम् अधीता विद्याअपि प्रयोजनकारिणी अभवत्।
कुब्जः मान्त्रिकः
** शौरिराजः चतुर्विंशतिवर्षीयः सुन्दरः युवकः।पित्रार्जितम् ऐश्वर्यं तस्य किमपि नास्ति।किन्तु उत्तमे उद्योगे सः नियुक्तः आसीत्इत्यतः तदीयं जीवनं सुखमयम् आसीत्।**
** एकदा सः कार्यालयकार्यार्थं पार्श्वग्रामंगतवान्। यदा गृहं प्रत्यागतवान् तदाकर्मकरी उक्तवती— “वीणावती भवन्तं द्रष्टुम्इच्छति। मन्दिरसमीपम् आगन्तुं सूचितवती” इति।**
** वीणावती शौरिराजस्य भाविनी पत्नी सापितुः एकला पुत्री। शौरिराजस्य गृहस्य पार्श्वेएव तस्याः अपि गृहम्। शौरिराज-वीणावत्योःमैत्री बहोः कालतः अनुवर्तते। विवाहमुहूर्तस्यनिश्चयः केवलम् अवशिष्टः अस्ति।**
** ‘वीणावती मन्दिरसमीपम् आगन्तुं किमर्थम्उत्तवती ?” इति न ज्ञातवान् शौरिराजः।यदि किमपि विशेषतया वक्तव्यं स्यात् तर्हि सा एतस्य गृहम् आगत्य एव वक्तुम् अर्हति।एवं स्थिते अपि सा किमर्थं मन्दिरसमीपम्आगन्तुं सूचितवती ?**
** मन्दिरसमीपे वीणावती शिलायाः उपरिउपविष्टा आसीत्। शौरिराजम् आगच्छन्तं दृष्ट्वा उत्थाय सा समीपम् आगतवती। शिरःअवनमय्य स्थितवती च। शौरिराजः मन्दहासंप्रकटयन् पृष्टवान् – “कापि विशेषवार्ता अस्तिवा ? भवत्याः पिता किम् आवयोः विवाहमुहूर्तंनिश्चितवान् ?” इति।**
** उद्गच्छन्तं दुःखम् अन्तः निगृह्य वीणावतीभारभूतेन स्वरेण उक्तवती–“आं, परश्वः एवविवाहः भविष्यति। किन्तु वरः भवान् न,अपि तु अन्यः” इति।**
** चकितः शौरिराजः पृष्टवान्— “किम् ? किप्रवृत्तम् ? वदतु” इति।**
** वीणावती प्रवृत्तं सर्वं निवेदयन्ती उक्तवती–**
“ह्यः पितुः बाल्यस्नेहितः मम गृहम् आगतवान्। सः तु नौकावाणिज्येन कोटिशः धनं सम्पादितवान् अस्ति। तेन सह तदीयः पुत्रःअपि आगतवान्। सः पुत्रः मम सौन्दर्येणआकृष्टः अभवत्। मां परिणेतुम् इच्छांप्रकटितवान्। परश्वः उत्तमः मुहूर्तः अस्ति।अतः पिता तं मुहूर्तं निश्चितवान्। परश्वःसः युवकः मां परिणेष्यति” इति।
क्षणकालानन्तरं सा पुनः उक्तवती—“तयोः गमनानन्तरम् अहं मम असम्मतिं प्रकटीकृतवती। तदा मम पिता मां निन्दन्उक्तवान्— ‘शौरिराजस्य समीपे किम् ऐश्वर्यम्अस्ति ? उद्योगः अपि न स्थिरः। एतादृशेनउद्योगेन निराशां प्राप्तवतां बहूनां परिचयः अस्ति मम। मम मित्रस्य समीपे तु कोटिशः ऐश्वर्यम्अस्ति। भवती यदि मम मित्रस्य पुत्रं परिणेतुंनिराकरोति तर्हि अहम् एव गृहं परित्यज्यगच्छेयम्’ इति।”
‘‘एवं वा ? अहं भवत्याः पित्रा सहवार्तालापं करिष्यामि” इति क्रोधेन उक्तवान्शौरिराजः।
वीणावती तत् निराकुर्वती उक्तवती—“मास्तु भोः। मम पिता महाकोपनः।यदि एतद्विषये वादविवादः प्रवृत्तः भवेत् तर्हिसः गृहं परित्यज्य गच्छेत् एव” इति। अनन्तरंसा मौनं स्वगृहं गतवती च।
एतदनन्तरं शौरिराजः बहु कालं यावत्चिन्तामग्नः सन् तत्र एव उपविष्टः आसीत्।रात्रौ गृहं प्रतिगन्तुं तस्य इच्छा नास्ति।अन्ते सः मनसि किमपि निश्चित्य झटितिउत्थाय प्रस्थितवान् एव।
मन्दिरं पर्वतस्य उपरि अस्ति। पर्वतस्यपार्श्वे चतुर्णांयोजनानां दूरे घनारण्यम् अस्ति।जनानां विश्वासः आसीत् यत् तस्मिन् अरण्येस्वभावतः क्रूराः अटविकाः निवसन्ति इति।शौरिराजः अग्रे गच्छन् तत् अरण्यं प्रविष्टवान्।किञ्चिद्दूरं यावत् सः गतवान्। तदा एकंकर्कशं ध्वनिं श्रुतवान्— “कः भोः भवान् ?”इति। चकितः शौरिराजः तत्रेव मौनं स्थितवान्।
अटविकौ शूलायुधं प्रदर्शयन्तौ तस्य समीपम्आगत्य “कः भवान् ? अस्यां रात्रौ अरण्येअत्र भवतः किं कार्यम् ?” इति पृष्टवन्तौ।
** शौरिराजः क्षणकालं मौनं स्थित्वा उक्तवान्— “अहं महासङ्कटे पतितः अस्मि।सिंहस्य आहारः भवितुम् इच्छन् एवम् अत्रआगतवान्” इति।**
** एतत् उत्तरं श्रुत्वा तौ अटविकौ चकितौ।किञ्चिद्दूरं गत्वा परस्परं विचारविनिमयं कृत्वाप्रत्यागत्य तौ उक्तवन्तौ— “ये कष्टे सन्ति तेषांविषये वयं कृपालवः। अत्र कश्चन पिशाचपर्वतः अस्ति। तत्र सदा पिशाचाः निवसन्ति।ते पिशाचाः तदा तदा अस्मान् बहुधा पीडयन्ति स्म। तत्सन्दर्भे कश्चन कुब्जः मान्त्रिकःपिशाचपीडातः अस्मान् रक्षितवान्। सः इदानींपिशाचपर्वते एव निवसति। भवान् तं पश्यतिचेत् साहाय्यं लभ्येत” इति। शौरिराजंमान्त्रिकसमीपं नीतवन्तौ च।**
** कुब्जः मान्त्रिकः कुटीरात् बहिः अग्निंज्वालयित्वा तत्पार्श्वे उपविष्टः आसीत्।शौरिराजं दृष्ट्वा सः पृष्टवान्— “द्वादशवर्षाणाम्अनन्तरं कश्चित् मां द्रष्टुम् आगतः। कःभोः भवान् ?” इति।**
“तात ! सङ्कटे पतितः असहायः कश्चनअहम्। अतः एव भवन्तम् अन्विष्य अस्यांरात्रौ अत्र आगतवान्” इति विनयेन उक्तवान् शौरिराजः।
मान्त्रिक प्रकाशमानं ज्वलन्तम् एकं काष्ठं
स्वीकृत्य तस्य प्रभया शौरिराजं परीक्षादृष्टयादृष्ट्वा उक्तवान्—“वदतु, भवान् कीदृशेसङ्कटे पतितः ?” इति।
** शौरिराजः प्रवृत्तं सर्वं निवेद्य उक्तवान्—“यदि वीणावती मां न परिणेष्यति तर्हि एषःपिशाचपर्वतः एव मम वसतिस्थानं भविष्यति।वीणावतीम् अहं परिणेतुं यथा शक्नुयां तथाकमपि उपायं मन्त्रं तन्त्रं वा भवान् सूचयतु"इति।**
** कुब्जः मान्त्रिकः प्रकाशमानं ज्वलतःअग्नेः उपरि हस्तं प्रसारितवान्। तदा जलेनसिक्तः इव अग्निः सर्वथा शान्तः अभवत्।इदानीं तत्र कृष्णाङ्गाराः केवलं दृश्यन्ते।**
** मान्त्रिकः एकम् अङ्गारं स्त्रीकृत्य अभिमन्त्र्यउक्तवान्—“भो ! भवान् यां परिणेतुम् इच्छतितस्यै एतम् अङ्गारं ददातु। सा एतम् अङ्गारंगुडखण्डम् इव खादतु” इति।**
** शौरिराजः मान्त्रिकम् इतोऽपि किमपिप्रष्टुम् उद्युक्तः। तदा मान्त्रिकः ततः उत्थायकुटीरं, प्रविशन्— “मित्र ! व्यर्थप्रश्नेन मांन क्लेशयतु।इदानीम् इतः गच्छतु" इतिउक्तवान्।**
** शौरिराजः कृष्णाङ्गारं स्वीकृत्य ग्रामंप्रत्यागतवान्। वीणावतीगृहं गत्वा तस्याःप्रकोष्ठस्य वातायनस्य द्वारं मन्दम् अङ्गुल्याताडितवान्। वीणावती जागरिता एव आसीत्।सा तत्क्षणे वातायनद्वारम् उद्घाटितवती।**
** शौरिराजः मन्दस्वरेण ताम् उक्तवान्—“भवती एतं कृष्णाङ्गारं गुडम् इव खादतु।विलम्बं न करोतु। अधिकं किमपि न पृच्छतु च" इति।**
** वीणावती अङ्गीकारपूर्वकं शिरः चालितवती। सन्तुष्टः शौरिराजः ततः स्वगृहम्आगतवान्। अनन्तरदिने प्रातः काले वीणावत्याःगृहे कर्मकरी यदा वीणावतीं दृष्टवती तदाभीत्या चीत्कारं कृतवती। स्वर्णवर्णायाःवीणावत्याः शरीरेण इदानीं कृष्णाङ्गारस्य वर्णःप्राप्तः आसीत्।**
** अचिरात् एव समग्रे ग्रामे एषा वार्ता प्रसृता। वरपक्षीयाः एतां वार्तां श्रुत्वा वीणावतीं द्रष्टुम्**
आगतवन्तः। “कीदृशं विचित्रम् एतत् !एषा वधूः अस्मभ्यं मास्तु एव। एतस्यांवर्णपरिवर्तनसमर्थस्य पिशाचस्य अंशः प्रविष्टःअस्ति" इति उक्त्वा ततः गतवन्तः।
** वीणावत्याः पिता इदानीं किङ्कर्तव्यतामूढः।सः निराशया आकन्दनं करोति। बहुधाचिन्तनेन अपि सः न ज्ञातवान् यत् एतत्कथम् एव जातम् इति।**
** एतदनन्तरं सः वीणावत्याः पिता कार्यालयंगच्छन्तं शौरिराजं प्रार्थितवान्— “भवान् ममपुत्रीनिमित्तं प्राणान् त्यक्तुम् अपि सिद्धः इतिअहं जानामि। कश्चित् मम पुत्र्याः उपरिमन्त्रप्रयोगं कृतवान्। पूर्वं यत् प्रवृत्तं तदर्थंमां क्षाम्यतु। श्वःनिश्चिते मुहूर्ते भवान्एतां परिणयतु। माम् उद्धरतु च" इति।**
** “भवतः अपमाननं ममापि अपमाननम्एव। अवश्यम् अहं श्वः तां परिणेष्यामि”इति उक्तवान् शौरिराजः।**
** वीणावती द्वारस्य’ पृष्ठतः स्थित्वा सर्वंश्रुतवती आसीत्। सा शौरिराजम् उक्तवती—“शौरिराज ! कुरूपिणी अहं भवतः ’ अनुरूप न" इति।**
** शौरिराजः मन्दहासं प्रकटयन् मौनं स्थितवान्। सायङ्कालानन्तरम् अरण्यं प्रति गतवान्। रात्रौ मान्त्रिकसमीपं प्राप्तवान् च।**
** शौरिराजं दृष्ट्वा मान्त्रिकः उत्साहपूर्णेन स्वरेण पृष्टवान्— “अये मित्र ! अस्माकम् उपायःफलितः वा ?” इति।**
** “कुतः वा न फलेत् ? वरपक्षीयाः भीत्याधावितवन्तः। श्वः वीणावत्याः मम च विवाहःप्रचलिष्यति। ह्यः यः मन्त्रः प्रयुक्तः तस्यनिवारणार्थ कमपि उपायं सूचयति चेत् अहंकृतार्थः भवेयम्” इति उत्साहेन उक्तवान्शौरिराजः।**
** “प्रयुक्तस्य मन्त्रस्य निवारणार्थं कोऽपिउपायः मम समीपे नास्ति किल ?” इतिउक्तवान् मान्त्रिकः।**
** चकितः शौरिराजः व्यथया पृष्टवान्—“एवंतर्हि वीणावती आजीवनं कृष्णवर्णीया एवतिष्ठेत् वा ?” इति।**
“तथा अस्ति चेत् का हानिः ? भवान्तस्यां प्रीतिमान् अस्ति एव। सा न परिवृत्ता,केवलं तस्याः वर्णः परिवृत्तः। तत्कारणतःभवान् तां परिणेतुं सङ्कोचम् अनुभवति ? एवंतर्हि अन्यां काञ्चित् सुन्दरीं परिणेष्यति चेदेववरं खलु ?” इति मान्त्रिकः पृष्टवान्।
** एतत् श्रुत्वा दुःखपूर्णेन स्वरेण शौरिराजःउक्तवान्— तात ! वीणावती कुरूपिणी इतिकारणतः तां न परिणेष्यामि इति न चिन्तयतु।वस्तुस्थितिः एषा यत् वीणावती आत्मानम्अयोग्यां मत्त्वा खेदम् अनुभवन्ती अस्ति।अथवा भवान् एवं करोतु। पूर्वतनेन मन्त्रेणमाम् अपि कुरूपिणं करोतु। तदा आवयोःवर्णः समानः भविष्यति। वीणावत्याः दुःखम्अपि न्यूनीभविष्यति" इति।**
** “मित्र ! भवतः प्रेम बस्तुतः श्रेष्ठम्।परीक्षार्थम् अहम् एवम् उक्तवान्" इति उक्त्वामान्त्रिकः एकं बीजपूरफलम् अभिमन्त्र्यशौरिराजस्य हस्ते दत्त्वा उक्तवान्— “एतंफलंभवतः भाविनी पत्नी वीणावती खादतु। तेनसा पूर्वतनं वर्णं प्राप्नोति" इति।**
** फलं स्वीकुर्वन् शौरिराजः उक्तवान्— “तात ! विवाहानन्तरम् अहं पत्न्यासह अत्रआगत्य भवतः आशीर्वादं प्राप्स्यामि। भवतःउपकारम् आजीवनं स्मरिष्यामि" इति।**
** एतत् श्रुत्वा असमाधानं प्रकटयन् मान्त्रिकःउक्तवान्—“मां मम उपकारं च भवान्विस्मरतु। कस्यापि समीपे मम नामप्रस्तावम्अपि न करोतु। कदापि मम समीपं नआगच्छतु च। अस्मिन् अरण्ये मुग्धजनानांमध्ये मां निश्चिन्तं जीवितुं त्यजतु। इदानींभवान् गच्छतु” इति।**
** शौरिराजः गृहं प्रत्यागतवान्। मान्त्रिकतःप्राप्तं फलं वीणात्वत्यै दत्तवान्। तस्य फलस्य खादनेन सा पूर्वतनं सुवर्णवर्णम् एव प्राप्तवती।**
** अनन्तरदिने विवाहमण्डपे शौरिराजस्यपार्श्वे उपविष्टां अपूर्वसुन्दरीं वीणावतीं दृष्ट्वासर्वे ग्रामीणाः आश्चर्यचकिताः।**
** कुशाग्रमतिः**
** षिराजनगरस्य समीपे एकस्मिन् ग्रामे रजाकःनाम कश्चित् आसीत्। तस्य पितृपितामहाःसर्वेऽपि बहुधनिकाः आसन्। किन्तु रजाकःयदा प्राप्तवयस्कः जातः तदा पितुः सर्वस्वमपिनष्टम्। अस्यामेव चिन्तायां पिता मृतः।रजाकः दरिद्रः सञ्जातः। अन्ते तस्य एकंजीर्णं गृहं एकं लघु गृहं च अवश्ष्टिम्।**
** रजाकः एकाकी सन् पिता यस्मिन् जीर्णेगृहे आसीत् तस्मिन् जीर्णगृहे एव आसीत्।पार्श्वे स्थितं लघुगृहं भाटकार्थं दत्तवान्।तस्मिन् गृहे उषितः गृहस्थः प्रतिमासंपञ्चरजतनाणकानि ददाति स्म। रजाकःतद्धनस्य व्ययं न करोति स्म। प्रतिमासं गृहस्थेन दत्तं धनम् एकस्मिन् अश्मपात्रेसंस्थाप्य तत्पात्रं गृहसमीपे स्थितायाः वाप्याःसमीपे गर्ते निगूढं स्थापयति स्म। यतः रजाकःयस्मिन् गृहे आसीत् तस्य गृहस्य किमपि नासीत्।**
** रजाकगृहस्य किञ्चिद्दूरे एकः कुटीरःआसीत्। तस्मिन् कुटीरे कश्चित् आसीत्।सः बहुअलसः दुर्बुद्धिः च। सः स्नेहव्याजेनरजाकस्य गृहम् आगत्य रजाकः धनं कुत्रनिगूहति इति ज्ञातुं बहुधा प्रयतितवान्।बहूनि दिनानि तेन तद्रहस्यं ज्ञातुं न शक्तम्।अतः एकस्मिन् दिने सः अलसः रहस्यस्थलेस्थित्वा रात्रिसमये रजाकेन एकस्मिन् अश्मपात्रेधनं विगणय्य स्थापितं दृष्टवान्।**
** एवं ज्ञात्वा एकस्मिन् दिने रात्रौ रजाकस्यनिद्रासमये सः दुष्टः आगत्य निगूहितंधनपात्रं नीतवान्। कुटीरं गत्वा धनं गणितवान्।पात्रे षष्टि रजतनणकानि आसन्। तेन तस्यबहु सन्तोषः जातः।**
** अपरेद्युः रजाकः गृहस्थेन दत्तुं धनं पात्रेस्थापयितुं वाप्याः समीपे गत्वा पश्यति ! तत्र**
पात्रं नास्ति। “एतत् कार्यं तेन दुष्टेनैवकृतम्। यतः सः दुष्टः बहुवारम् अहं कुत्रधनं निगूहामि इति परीक्षितवान्। अतःतेनैव मम धनं अपहृतम्। केनापि उपायेनसः दण्डनीयः" इति रजाकः चिन्तितवान्।
** अलसस्तु “अहं षष्टिरजतनाणकानिसम्पादितवान्। मम विषये रजाकः संशयितःन भवेत्। अतः अद्यापि तस्य गृहं गत्वातस्य समीपे किञ्चित् वार्तालापं कृत्वाआगच्छामि। यदि अहं न गच्छामि तर्हि तस्यसंशयः भवेत्” इति विचिन्त्य रजाकस्यगृहम् आगतवान्।**
** दूरे आगच्छन्तम् अलसं दृष्ट्वा रजाकःतत्क्षणे एव स्वस्य समीपे स्थितानि** पञ्चरजतनाणकानि द्वारे विकीर्णवान्। द्वारे एवअन्तर्मुखम् उपविश्य आत्मगतं कथयन् इवआसीत्- “अद्य अश्मपात्रे एतानि पञ्चरजतनाणकानि स्थापयामि चेत् आहत्य पञ्चषष्ठिरजतनाणकानि भवन्ति। इतोऽपि पञ्चत्रिंशत्नाणकानि यदि योजयामि तदा शतं नाणकानिभवन्ति" इति।
** अलसः समीपे आगत्य तेन उक्तं सर्वंश्रुतवान्। रजाकः अलसं दृष्ट्वा सद्यः एवपञ्चनाणकानि हस्ते आदाय स्वागतं कृतावन्।**
** अलसस्य एवं चिन्ता जाता “एतानिपञ्चनाणकानि अपि अपहरणीयानि। रजाकःअश्मपात्रं तथैव अस्ति इति जानाति। एतानिपञ्चनाणकानि तस्मिन् पात्रे यदा स्थापयति तदातत्रत्यानि नाणकानि गणयति। अतः मयाअपहृतं धनपात्रं पूर्व यथा आसीत् तथैवस्थापयामि चेत्, अद्य तस्मिन् पात्रे पञ्चनाणकानिरजाकः स्थापयति। अपरेद्युः पञ्चषष्टि नाणकानिलभ्यन्ते”।**
** “किन्तु प्रातः समये तत् अश्मपात्रं मया तत्रस्थापयितुं कथं शक्यते ? रजाकः अत्रैव भवतिकिल ? केन व्याजेन तं दूरं प्रेषयामि ?” इतिक्षणं विचार्य एकम् उपायं योजितवान्।धनलोभेन एतादृशस्य अलसस्य बुद्धिरपि तीक्ष्णाजाता। अहो धनस्य शक्तिः।**
** अलसः मित्रं ‘मित्र ! आवां बहुदिनेभ्यःमित्रे। मम एका आशा अस्ति। तत् वदामि वा ?“इति पृष्टवान्। किमिति रजाकः पृष्टवान्।**
** “समीपे स्थितां भोजनशालां गत्वा तत्रउभावपि मिलित्वा भूरिभोजनं कुर्वः। भवतःअद्य रात्रौ समयः अस्ति वा ?” इति पृष्टवान्अलसः।**
** किम् ? एवं पृच्छति भवान्। भवादृशःमित्रं आह्वयति चेत् मम यत्किमपि कार्यं भवतुत्यक्त्वा आगच्छामि। महान् संतोषः" इतिराजकः उत्साहं प्रदर्शितवान्।**
** तस्यां रात्रौ उभावपि भोजनशालायांमिलिवन्तौ। अलसः भोजनशालायजमानस्यसमीपे गत्वा भक्ष्यभोज्यादि सर्वं सज्जीकर्तुम्आदिशत्।**
** अनन्तरं बहिरागत्य रजाकं प्रति “भो मित्र !किमपि मा चिन्तयतु। मया धनम् आनेतुंविस्मृतम्। अतः गृहं गत्वा शीघ्रं धनम् आनयामि" इत्युक्त्वा अलसः गतवान्। गतवन्तंतं दृष्ट्वा रजाकः मनसा एव हसितवान्।**
** अलसः कुटीरं गत्वा षष्टिनाणकयुक्तं धनपात्रम् आदाय राजकस्य गृहं गत्वा यथास्थानंस्थापयित्वा शीघ्रं भोजनशालाम् आगतवान्। भूरिभोजनं समाप्तम्। ‘मया कृतेन उपायेनरजाकः वञ्चितः’ इति अलसः, तथैव रजाकोऽपि"मया अलसः वञ्चितः" इति चिन्तयन्तौ उभावपि बहुसन्तोषेण गृहं गतवन्तौ।**
** रजाकः भोजनशालातः आगत्य तत्क्षणमेव**
अलसेन स्थापितं पात्रं अन्यत्र स्थापयित्वानिद्रितवान्।
** अलसः अपि स्वकुटीरे धन विषयकं स्वप्नंपश्यन् एव सुखेन निद्रितवान्। परेद्युःसूर्योदयात् प्रागेव अलसः सन् अपि उत्थायमुखमार्जनादिकं कृतवान्। ‘अद्य रात्रौ पञ्चषष्टिनाणकानि लभ्यन्ते’ इति मनसि आलोचयन्कुटीरं परितः सन्तोषेण अटितवान्।**
** ततः अष्टवादनसमये उपाहारमन्दिरंगतवान्। तत्र विविधानि भक्ष्याणि भक्षितवान्।मधुरं पेयं च पीतवान्। रात्रौ धनं लभ्यते इतिसर्वं धनम् अपि उपाहारमन्दिरेएव व्ययितवान्।उपाहारमन्दिरस्य यजमानस्य अपि आश्चर्यं“कथम् अद्य एषः बहुधनं व्ययीकरोति।” इति।**
** उपाहारमन्दिरतः प्रस्थाय अलसः अटन्उद्यानम् एकं प्रविश्य वृक्षस्य छायायाम् उपविष्टवान्। तत्रापि रजतनाणकानि एव चिन्तयन्अन्तः सुखम् अनुभवन् आसीत्। यदा मध्याह्नः जातः तदा ततः प्रस्थाय गृहमागत्य किञ्चित् कालं कटे शयितवान्।**
** शयितस्य लघु निद्रा आगता।यदा सःजागरितः तदा सूर्यः अस्तं गच्छन् आसीत्।अलसः शीघ्रम् उत्थाय बहिः आगत्य सम्पूर्णंसूर्यास्तं प्रतीक्षमाणः स्थितवान्।**
अनन्तरं रात्रौ अलसः अश्मपात्रं चोरयितुंरजाकस्य गृहम् आगतवान्। तदा तस्य महान्सन्तोषः। यतः अश्मपात्रे इदानीं पञ्चषष्ठि रजतनाणकानि सन्ति’ इति।
** अलसः पूर्वं यत्र अश्मपात्रम् आसीत् तत्रैवअन्वेषणं करोति स्म। तदा तस्यपृष्ठभागे कोऽपिहसितवान्। हासं श्रुत्वा अलसः परिवृत्यपश्यति, तत्र रजाकः अस्ति। ‘भूरिभोजनम्बहु समीचीनम् आसीत्। धन्यवादं वक्तुम्आगतवान्’ इति रजाकः हसन् एव उक्तवान्।**
** तत्क्षणे एव अलसः बहिः धावितवान्।अनन्तरं तम् अलसं रजाकः कदापि न दृष्टवान्।**
कृपणः गोपीनाथः
** नागवनग्रामीणस्य गोपीनाथस्य धनविषयेव्यामोहः अधिकः। एतावत्पर्यन्तंपीनसादिसामान्यरोगात्इतरे रोगाः तं नपीडितवन्तः आसन्। किन्तु एतत्सन्दर्भे सःविचित्रया उदरवेदनया पीडितः अभवत्।केनापि औषधेन रोगः न शान्तः। एतेनगोपीनाथः चिन्ताक्रान्तः जातः।**
** तदा गोपीनाथस्य माता कावेरीउक्तवती— “इदानीं स्वर्गस्थः भवतः पिताअपि पूर्वं कदाचित् एतादृश्या एवउदरवेदनया पीडितः आसीत्। तदानीम् अपिऔषधं निष्प्रयोजकम् आसीत्। अन्ते सःसद्ब्राह्मणाय गोदानं कृतवान्। तदा तु रोगःइन्द्रजालेन इव अकस्मात् शान्तः” इति।**
** ‘मम रोगस्य गोदानस्य च कः सम्बन्धः ? गोदानं किम् औषधत्वेन परिणमति वा ?" इति पृष्टवान् गोपीनाथः।**
** वस्तुतःगोपीनाथः अस्यां तीव्ररोगपरिस्थितौ अपि धनव्ययं कर्तुं नइच्छति। मातुःवचनेन सः दिग्भ्रान्तः इवआसीत्।**
** तदा माता कावेरी पुनः उक्तवती—“वत्स !अस्माभिः पूर्वं कृतानि पापानि एव रोगरूपेणबाधन्ते। आगताः रोगः इतः परं वापुण्यकार्याणिजागरयन्ति। भवतः विषये किं वक्तव्यम ? धनसञ्चय् तत्परः भवान् कस्य अपिसाहाय्यं न कृतवान्। भवतः पिता अपि एवंएव आसीत्। अन्ते सः मम आग्रहेण एवगोदानं कृत्वा रोगात् विमुक्तः आसीत्"इति।**
** गोपीनाथस्य पत्नीपुत्राः अपि मात्रा यथाउक्तं तथा आचरत् इति पुनः पुनःअनुरोधपूर्वकम् उक्तवन्तः।**
** अन्तेगोपीनाथःरामशर्मनामकब्राहमणम् आहूय आसन्नप्रसवां धेनुंदत्त्वाउक्तवान्—भोः ब्राह्मणोत्तम् ! प्रसवानन्तरं धेनुं भवान् स्थापयतु। तर्णकं च**
मह्यं प्रत्यर्पयतु। धेनुः केवलं भवते दत्ता, न तुजनिष्यमाणः तर्णकः अपि। एतत् माविस्मरतु” इति।
** तदा सम्भ्रान्तः रामशर्मा उक्तवान्—“भोः, मातापुत्रयोः वियोगसम्पादनं पापायखलु ? एवं कृतं चेत् उत्तमं फलं न लभ्यते इतिअहं चिन्तयामि” इति।**
** ‘गावः अन्याः,मानवाः अन्ये। भवान् यत्वदति तत् मानवेषु युक्तम्। पशुषु एतत् नअन्वेति। अथवा भवान् एवं करोतु– यदामातुः आवश्यकता समाप्ता भवति तदा एवतर्णकं ददातु। तदा दानपुण्यम् अवशिष्यतेएव" इति।**
** रामशर्मा प्रतिवचनं वक्तुम् अनिच्छनधेनुं स्वीकृत्य गतवान्। अनन्तरदिने एवगोपीनाथस्य उदरवेदना समूलम् अदृश्यतांगता। अल्पेषु एव दिनेषु सः यथापूर्व नित्यकार्येषु व्यापृतः अभवत् च।आरोग्यवन्तं तं दृष्ट्वा तदयिपत्नीपुत्रादयःसर्वे सन्तुष्टाः।**
** एतदनन्तरं केषुचित् दिनेषु दानरूपेणदत्ता धेनुः प्रसूतवती। तर्णकः पुमान्आसीत्।**
‘दानरूपेण दत्ता धेनुः मदीया न स्यात्।किन्तु तर्णकः तु मदीयः एव’ इतिचिन्तितवान् गोपीनाथः। अतः सः प्रतिदिनंरामशर्मणः गृहं गत्वा धेनुं तर्णकं च दृष्ट्वा’तर्णकं सम्यक् पोषयन्तु’ इति उक्त्वाआगच्छति।
** दश-द्वादशदिनानि अतीतानि। एकदागोपीनाथः रामशर्माणंपृष्टवान्"ब्राह्मणोत्तम ! धेनुः क्षीरं सम्यक् दोग्धिवा ?" इति।**
** रामशर्मा तु अतीव दाक्षिण्यशीलः।सःउक्तवान्— " भोः, देवतांशसम्भूता एषाधेनुः। प्रतिदिनं द्रोणद्वयपरिमितं क्षीरंददाति" इति।**
** वस्तुतः गौः तावत् क्षीरं न ददाति।गोपीनाथस्य सन्तोषार्थ तथा उक्तवान्आसीत् सः।**
** किन्तु तथाकथनम् एव तस्य कष्टायअभवत्। रामशर्मणः वचनं श्रुत्वागोपीनाथस्य हृदयं स्तब्धम् इव। यतःतदीयासु धेनुषु काऽपि तावत् क्षीरं न ददाति।**
** “धेनुः तावत् क्षीरं ददाति वा ? तर्हि क्षीरं**
तावत् रुचिकरं न स्यात्। तत् जलमयं स्यात्किल ?” इति पृष्टवान् गोपीनाथः।
** रामशर्मा ‘आम् सत्यम्। क्षीरं जलमयम्एव’ इति यदि वदेत् तर्हि गोपीनाथः तृप्तःअभविष्यत्। किन्तु तथा न जातम्।**
** सरलः रामशर्मा कृतज्ञताभावेनउक्तवान्—“श्रीमन् शुद्धहृदयेन महात्मनादत्तायाः धेनोः माहात्म्यं किमिति वदामि ?तस्याः क्षीरं तु अमृतसमानम्। देवैःसेव्यमानम् अमृतम् अपि एतावत् एवरुचिकरं स्यात्” इति।**
** तदा गोपीनाथः पृष्टवान् - एवं तर्हितस्याः क्षीरस्य रुचिम् अहम् अपि दृष्टुंशक्नोमि वा ?" इति।**
** “किमर्थं न ?” इति वदन् रामशर्मा अन्तःगत्वा एकचषकं क्षीरम् आनीय दत्तवान्।गोपीनाथः क्षीरं पीतवान्। क्षीरं रुचिकरं तुआसीत्।**
** खिन्नः गोपीनाथः गृहं प्रत्यागतवान्।तस्यां रात्रौ तस्य निद्रा एव नास्ति। ‘कीदृशीउत्तमा धेनुः सा। तां दत्त्वा अहं मूर्खःसञ्जातः’ इति व्यथितः सः।**
** अनन्तरदिने प्रातः एव गोपीनाथःरामशर्माणम् आहूय उक्तवान्—“भोःब्राह्मणोत्तम ! केभ्यश्चित् दिनेभ्यः अहंकेनचित् तीव्ररोगेण पीडितः अस्मि इतिभवान् जानाति एव। ह्यः क्षीरं पीतवान्किल ? तेन किञ्चित् उल्लाघता अनुभूतामया। वस्तुतः सा धेनुः देवतांशसम्भूताएव। तस्याः क्षीरम् अमृतसमानम्। साद्रोणद्वयपरिमितं क्षीरं ददाति किल ? तत्रअर्धभागं मम गृहं प्रति प्रेषयतु। यावत् ममअनारोग्यं तावत् प्रेषयति चेत् पर्याप्तम्। एतेन भवतः अपि कापि हानि न भवेत्"इति।**
** एतस्य वचनस्य उत्तरं किं वक्तव्यम् इतिन ज्ञातवान् रामशर्मा। निराकर्तुं न शक्यते।अनिवार्यतया अङ्गीकृत्य सः गृहं गतवान्।**
** गोपीनाथस्य वचनं श्रुत्वा माता कावेरीउक्तवती— " भोः कीदृशी दुर्बुध्दिः भवतः।दानरूपेण दत्ताया धेनोः क्षीरं स्वीकरोतिकिल ? तेन प्राप्तं पुण्यम् अपि नश्यति।पापसङ्ग्रहः भवति च” इति।**
** “यदि सङ्गृहीतं पुण्यं नश्येत् तर्हि पुनः**
अपि रोगः बाधेत खलु। किन्तु तथा नजातम्। अतः पापसङ्ग्रहः न भवति, न वापुण्यं नश्यति” इति उक्तवान् गोपीनाथः।
** तद्दिनतः रामशर्मा धेनोः क्षीरं समग्रंगोपीनाथाय ददाति स्म। धेनोः पोषणं केवलंतदीयम् अभवत्। दातुः सन्तोषार्थम् उक्तंवचनम् एव हानिकारकम् आसीत् इदानीम्।**
** अल्पे एव काले गोपीनाथः पुनः पूर्वतनयाउदरवेदनया पीडितः अभवत्। एतेनसम्भ्रान्तः सः इतः परं क्षीरदानं मास्तु इतिरामशर्माणं सूचितवान्। तथापि तस्य रोगःन शान्तः। वैद्यस्य औषधोपचारः अपियथापूर्व निष्फलः एव।**
** “रामशर्मणः सकाशात् इदानीं क्षीरं नस्वीकुर्वन् अस्मि। अतः मया गोदानस्य पुण्यं प्राप्तव्यम् आसीत् एव। तथापि एषः रोगः मांकिमर्थम् एवं बाधते” इति चिन्ताक्रन्तःअभवत् गोपीनाथः।**
** एकदा गोपीनाथस्य गृहस्य पुरतः स्थित्वाकश्चन संन्यासी उक्तवान्—“भोः, अस्मिन्गृहे पापसञ्चयः दृश्यते, शीघ्रं निवारयतु"इति।**
** तत् श्रुत्वा कावेरी झटिति बहिः आगत्यसन्यासिनम् अन्तः नीत्वा सत्कृत्य पुत्रंप्रदर्शितवती।**
** संन्यासी गोपीनाथं क्षणकालंपरीक्षादृष्ट्या दृष्ट्वा उक्तवान्— “भवान्गोदानेन पुण्यं तु न प्राप्तवान्। क्षीरंप्रति– स्वीकुर्वन् पापं सङ्गृहीतवान् अपि"इति।**
** तदा गोपीनाथः दीनतया पृष्टवान्—“स्वामिन् ! एवं कथं प्रवृत्तम् ? अत्र किंरहस्यम् अस्ति ? मया या धेनुः दत्ता। तस्याःक्षीरस्य उपयोगं कुर्वन् अस्ति किल इदानींरामशर्मा? तथापि किमर्थं रोगबाधा ?“इति।**
** “भोः, भवतः दुराशायाः युक्तं फलम्अनुभवन् अस्ति भवान्। पूर्वं तु गोदानेन यत्पुण्यं सम्पादितम् आसीत् तेन भवतः रोगःसम्पूर्णं शान्तः। एतेन भवान् यदि विवेकप्राप्तवान् स्यात् तर्हि पुण्यफलं तथैवअवशिष्येत। किन्तु भवान् दुराशयादानरूपेण दत्तायाः धेनोः क्षीरं प्रतिदिनंपीतवान्। तेनः पूर्वतनः रोगः पुनः आगतः।**
भवतः रोगः शान्तः चेत् भवान् पुनः अपिक्षीरं पृच्छेत् इति भीतः अस्ति रामशर्मा।सद्ब्राह्मणस्य मनसि उत्पन्नाभीतिः एवभवतः रोगस्य अपगमने विघ्नः इवआचरति” इति उक्तवान् संन्यासी।
** “एवं तर्हि इदानीं मया किं करणीयम् ?”इति भीत्या कम्पमानः गोपीनाथः पृष्टवान्।**
** “दानरूपेण दत्तायाः धेनोः क्षीरं यत्प्रति-स्वीकृतवान् तत् महते पापाय। एतस्यपापस्य निवारणार्थं पुनः अपि गोदानंकरणीयम्, तदपि सद्ब्राह्मणाय एव” इतिउक्तवान् संन्यासी।**
** “तर्हि भवते एवधेनुं ददामि” इति उक्तवान् गोपीनाथः।**
** “अहं तु संन्यासी। सर्वसङ्गपरित्यागी।अहं कदापि दानं न स्वीकरोमि” इतिउक्तवान् संन्यासी।**
“तर्हि कस्मै पुण्यपुरुषाय ददामि ? भवान्एव वदतु” इति उक्तवान् गोपीनाथः।
“अस्मिन् ग्रामे विद्यमानेषु अतीवसज्जनः रामशर्मा एव। सः क्षीरदानेन पुण्यंसम्पाद्य पुण्यवान् सञ्जातः अपि। अतःतस्मै एव ददात्” इति संन्यासी उक्तवान्।
** संन्यासिनः कथनं शृण्वतः गोपीनाथस्यहृदये द्वन्द्वम्। सः मौनं स्थितवान् आसीत्।**
** तदा संन्यासी एव पुनः उक्तवान्- “भवतः हस्ततः यः धेनुं स्वीकृतवान् आसीत्सः यदि क्षीरम् अन्यस्मै दानरूपेण दत्तवान्स्यात् तर्हि तत् पुण्यं भवान् अलभिष्यत।किन्तु भवान् एव क्षीरं रामशर्मतःस्वीकृतवान्। अतः दानपुण्यं रामशर्मणाप्राप्तम्। इतः परं वा भवान् दुराशां त्यक्त्वाधनव्यामोहेन विना जीवेत् तर्हि वरं भवेत्"इति।**
** संन्यासिनः वचनानुसारम् एव गोपीनाथःरामशर्मणे अन्यां धेनुं दत्तवान्। “तर्णकःअपि भवतः एव। पूर्णहृदयेन भवान् माम्आशिषा अनुगृह्णातु” इति प्रार्थितवान् च।**
** एतदनन्तरं गोपीनाथस्य रोगः शान्तः। सः धर्मात्मा इति कीर्तिं प्राप्य सुखेनजीवितवान्।**
कृपणस्य दानम्
** सीमापुरे प्रतापचन्द्रः नाम एकः भूस्वामीआसीत्। सः धनिकः चेदपि महा कृपणः।कृपणत्वेन एव तस्य नाम समीपग्रामेषु सर्वत्रप्रसिद्धम् आसीत्। यदा सः वृद्धः जातः तदा तस्य मनसि पापभीतिः उत्पन्ना। तथैव भगवतःसेवा करणीया इति विचारः अपि आगतः।**
** एकदा एकः सन्यासी सीमापुरम् आगतः।प्रतापचन्द्रः तस्य दर्शनं कृतवान्। तत्र सःसन्यासिनं नमस्कृत्य पृष्टवान्– ‘महात्मन् ! मरणानन्तरं स्वर्गः प्राप्तव्यः चेत् मया किं किं करणीयम् ?’ इति।**
** तदा सन्यासी उक्तवान्-‘मनः पूर्वकं यथेष्टंदानं करोतु। तेन इष्टं सिध्यति’ इति। प्रतापचन्द्रः एतत् अङ्गीकृतवान्।**
** सन्यासिनं द्रष्टुम् आगतः कश्चित् ब्राह्मणःभूस्वामिनः वचनं श्रुतवान् आसीत्। अपरस्मिन् दिने ब्राह्मणः तस्य गृहं गतवान्। तस्मिन्समये एषः भूस्वामी सुखासने उपविष्टः आसीत्।सः कौशेयवस्त्राणि धृतवान्, कण्ठे सुवर्णहारःआसीत्। अङ्गुलीषु वज्रसहितानि अङगुलीयकांनि प्रकाशन्ते ! एतत्सर्वं दृष्ट्वा ब्राह्मणाः’अद्य दानरूपेण अमूल्यं वस्तु किमपि लभ्यते’इति चिन्तितवान्।**
** भूस्वामी ब्राह्मणं दृष्ट्वा आगमनकारणंपृष्टवान्। ‘श्वः आगच्छतु’ इत्यपि उक्तवान्।**
** अपरस्मिन् दिने ब्राह्मणः पुनः भूस्वामिनःगृहम् आगतवान्। तत्र भूस्वामिनं दृष्ट्वा सःचकितः। यतः भूस्वामी इदानीं दरिद्रः इवसामान्यवस्त्राणि धृतवान् आसीत्। शरीरेकुत्रापि सुवर्णस्य नाम अपि नास्ति।**
** सःहसन् उक्तवान्— ‘एकः उच्चः अपरःनीचः इति भेदभावः मह्यं सर्वथा न रोचते।अतः अहं सर्वं त्यक्त्वा सामान्य नागरिक-जीवनंयापयितुम् इच्छामि। इदानीं भवान् अहं च**
समानौ। अतः भवतः कृते किमपि दातव्यम्इति प्रश्नः एव न उद्भवति’ इति।
** निर्धनः ब्राह्मणः विनयेन उक्तवान्— ‘वेषपरिवर्तनं कृतं चेत् सम्पत्तिः अन्यदीया भवतिवा ? सम्पत्तिः तु भवदीया एव। अतः भवान्अस्मत्तः उत्तमः। किञ्चित् वा दत्वा मां अनुगृह्णातु कृपया’ इति।**
** भूस्वामी द्विवारं शिरः कम्पयित्वा मौनम्आश्रितवान्। अन्ते ‘श्वः आगच्छतु, पश्यामः’इति उक्त्वा प्रेषितवान्।**
** अपरस्मिन् दिने पुनः अपि ब्राह्मणआगतवान्। भूस्वामिनं दृष्ट्वा पूर्वापेक्षयाअधिकं चकितः। यतः एषः भूस्वामी काषायवस्त्राणि घृतवान् अस्ति !**
** ब्राह्मणं दृष्ट्वा भूस्वामी उक्तवान्— ‘मयासन्यासः स्वीकृतः। इतः परं सम्पत्तेः मम चकोऽपि सम्बन्धः नास्ति’ इति। ‘तर्हि भवता समग्रसम्पत्तिः किं कृता ?’ इतिब्राह्मणः पृष्टवान्।**
‘मया त्यक्ता सम्पत्तिः मत्पुत्रान् एव प्राप्नोतिकिल ?’ इति उक्तवान् भूस्वामी।
** ‘तर्हि भवतः पुत्राणां एव समीप गत्वा’किमपि ददातु’ इति पृच्छामि’ इति उक्तवान्ब्राह्मणः।**
** भूस्वामी तस्य गमनं निषेधयन् उक्तवान्—‘मम सकाशात् प्राप्तायां सम्पत्तौ एका पैसाअपि तैः अन्येषां कृते न दीयते। तैः एवंप्रतिज्ञा कृता अस्ति। वचनपालकाः ममपुत्राः। अतः तत्र गमनेन अपि प्रयोजनंनास्ति’ इति।**
** दरिद्रः ब्राह्मणः दीर्घं निश्वसन् स्वगृहंगतवान्।**
** इतःपरं कोऽपि याचकः मम समीपं नआगमिष्यति’ इति भूस्वामी निश्चितवान्। अतः एव तद्दिने रात्रौ गाढनिद्रां प्राप्तवान्सः कृपणः भूस्वामी।**
कृपणाग्रेसरः
** पट्टाभिः एकः महाकृपणः। मरणानन्तरं सः साक्षात् स्वर्गद्वारसमीपं गतवान्।द्वारपालकाः तं दृष्ट्वा आश्चर्येण उक्तवन्तः— ‘भवतः अत्र आगमनं कथम् ? यमदूताःप्रायः भ्रान्त्या अत्र प्रेषितवन्तः। भवान् किं पुण्यकार्यं कृतवान् ?” इति।**
** पट्टाभिः कोपेन उक्तवान्— ‘एकवारं देवस्य उत्सवसमये मार्गे एका पैसा लब्धाआसीत्। तच्च भिक्षुकस्य कृते दत्तवान् आसम्। तस्य पुण्यकार्यस्य विवरणं सर्वं चित्रगुप्तस्यपुस्तके अस्ति। आवश्यकं चेत् तं पृच्छन्तु’ इति।**
** द्वारपालका पट्टाभिंचित्रगुप्तसमीपं नीतवन्तः। सर्ववृत्तान्तम् अपि चित्रगुप्तायनिवेदितवन्तः। चित्रगुप्तः उक्तवान्— पैसादानसम्बन्धिना पुण्येन एव भवान् स्वर्गस्यदर्शनं कृतवान्। इतः परं भवतः कृते नरकः एव’। तदा पट्टाभिः उक्तवान–‘यदि मम नरकेएव वसतिः, तर्हिसा पैसा भवतः समीपे किमर्थम् ? तदपि मम कृते एव ददातु’ इति।**
** चित्रगुप्तस्य हस्ततः पैसां स्वीकृत्यएव नरकं गतवान् पट्टाभिः।**
कृषिः सुवर्णं च
** एकस्मिन् ग्रामे रामः नाम कृषिकःआसीत्। तस्य पित्रार्जिता किञ्चित् भूमिःआसीत्। रामः अतीव अलसः। श्रमेण सम्पादयितुं तस्य मनः न प्रवर्तते स्म। अतः तस्यपत्नी सर्वदा ‘कृषिं न इच्छति चेत् मास्तुनाम। उपविश्य एव किमपि वाणिज्यं करोतु’इति तर्जयति स्म।**
** रामः तु–’ अस्मासु इदानीं का न्यूनताअस्ति ? सुखेन एव जीवनं प्रचलति किल ?“इति वदति स्म।**
** “सुखम् इत्यस्य अर्थः’ केवलं भोजनम् एव’इति वा ? ‘भवत्याः कृते हारम्, आभरणानिच कारयामि’ इति बहु दिनेभ्यः वदन् एवअस्ति। अद्यापि न कारितम्। निरीक्षणेनअहं श्रान्ता। भवतः आयेन अस्मिन् जन्मनिएतत् न शक्यते इति चिन्तयामि। किं वदामिमम अदृष्टम् ?” इति पत्नी वदति स्म। रामः सर्वं श्रुत्वा अपि मौनं तिष्ठति स्म।**
** रामस्य मनसि अपि ‘पत्न्याः कृते आभरणानि कारणीयानि’ इति आशा आसीत्।पत्नी आभरणानि धरति चेत् बन्धुषु गौरवंवर्धते इति सः अपि जानाति स्म। किन्तुस्वकीयेन आयेन केवलम् उदरम्भरणं भवतिस्म। किञ्चिदपि सञ्चयः न शक्यते स्म।**
** एकस्मिन् दिने मित्रस्य समीपं गत्वा ‘धनंसम्पादयितुं कः मार्गः सुलभः ?’ इति पृष्टवान्। सः बहु सूचनाः दत्तवान्। किन्तुरामः एकाम् अपि न अङ्गीकृतवान्।**
** ‘भवान् सर्वान् अपि क्लिष्टान् मार्गान्वदति। एते मार्गाः मह्यं न रोचन्ते। एकस्मिन् एव दिने सुलभेन बहु धनं येन लभ्यते,तादृशः एकः मार्गः मम अपेक्षितः’ इतिउक्तवान् रामः।**
‘कोऽयं विचारः भोः भवतः ? एकस्मिन्
एव दिने बहु धनम् आवश्यकं चेत् चौर्यंकरोतु। अन्यः मार्गः नास्ति’ इति उक्तवान्स्नेहितः।
** रामः मनसि एव चिन्तितवान्— ‘चौर्यम्एव समीचीनम्। अस्मिन् ग्रामे सर्वे परिचिताःसन्ति। अतः अन्यं ग्रामं गत्वा तत्र चौर्यंकरोमि’ इति।**
** अपरस्मिन् दिने प्रातः एव उत्थाय रामःपत्नीम् आहूय— ‘अहं ग्रामान्तरं गत्वा धनंसम्पाद्य आगच्छामि। आगमनानन्तरं भवत्याःकृते सुवर्णहारं कारयामि। एतत् तु सत्यम्।भवत्याः अभीष्टं पूरयामि। गृहे सावधानेनतिष्ठतु’ इति उक्त्वा गतवान्।**
** मध्याहने सः अन्यं ग्रामं गतवान्। तस्यग्रामस्य विपणिं प्राप्तवान्। विपण्यां महत्वाणिज्यं प्रचलत् आसीत्। रामः तत्र विपण्यां’यः कोऽपि धनिकः स्यात्। तम् अन्विष्यरात्रौ तस्य गृहं गत्वा चौर्यं करोमि’ इति चिन्तयित्वा एकैकम् अपि सध्यानं पश्यन् सञ्चरतिस्म।**
** सः तस्यां विपण्यां कृषिकदम्पती दृष्टवान्।तौ द्रष्टुं न धनिकौ। किन्तु तयोः सम्भाषणंश्रुत्वा रामः चकितः अभवत्। ‘सुवर्णाभरणस्यस्यूतं पृथक् स्थापयतु। अन्यवस्तुभिः सहमेलनं न करोतु। गृहं गत्वा शीघ्रं तं स्यूतम्अन्तः स्थापयतु’ इति पतिः उक्तवान्।**
** तत् वचनं श्रुत्वा रामः तत्रैव स्थितवान्।‘अद्य मम समस्या परिहृता। धनं आभनीत्वा रणानि आनयामि इति चिन्तितवान् आसम्। इदानीं तु सिद्धम् आभरणम् एव लब्धम् इव।अहो मम सौभाग्यम् !” इति चिन्तयन् सःअतीव सन्तुष्टः।**
** रामः ध्यानेन तौ दम्पती अनुसृतवान्।तयोः पृष्ठतः एव अटितवान्। सायं ताभ्यांसह एव तयोः ग्रामम् आगतवान्।**
** रात्रौ रामः तयोः गृहं गत्वा ‘भोः,अहंदूरात् आगतवान्। एषः प्रदेशः मम अपरिचितः। रात्रौ भवतः गृहे स्थातुं मम कृतेअवकाशः दातव्यः’ इति प्रार्थितवान।सःकृषिकः आदरेण-अवश्यम् अस्तु। आनन्देनतिष्ठतु। अद्य किं,यावत्पर्यन्तम् अस्मिन्**
ग्रामे भवान् तिष्ठति, तावत्पर्यन्तम् अत्र एववसतु’ इति उक्तवान्।
** तस्मिन् दिने रात्रौ कृषिकस्य पत्नी रामस्यकृते मिष्टान्नभोजनं परिवेषितवती। अधिकंखादामि चेत् रात्रौ निद्रा न आगच्छति। तदाचौर्यं कर्तुं न शक्यते’ इति चिन्तयित्वा किञ्चित् एव भुक्तवान् रामः।**
** रात्रौ निद्राकरणतः पूर्वं कृषिकः पत्नीम्आहूय उक्तवान्— सुवर्णाभरणस्य स्यूतः सुरक्षितः अस्ति किल ? अलक्ष्यं क्रियते चेत्मूषिकाः स्यूतं कर्तयेयुः’ इति।**
** तदा पत्नी उक्तवती—‘अत्रैव उपरि कपाटिकायां स्थापितवती अहम्’ इति।**
** तत् वचनं श्रुत्वा रामः मनसि एव ‘ममकार्यं फलितम्’ इति चिन्तितवान्। सः तत्स्थानं सम्यक् दृष्ट्वा शयनं कृतवान्। ध्यरात्रेसः उत्थाय तयोः कृषिकदम्पत्योः शयनगृहंगतवान्।**
** कृषिकः गाढनिद्रायां मग्नः आसीत्। तस्यपत्नी अपि आपादमस्तकं शरीरम् आच्छाद्यगाढं सुप्तवती आसीत्।**
** ‘एतौ अतीव अजागरूकौ। एतावत् सुवर्णम् एवम् एव स्थापयित्वा निर्भयेन कः वानिद्रां करोति ? तथापि मम सौभाग्येन एवएवम् अभवत्’ इति चिन्तयन् रामः कपाटिका-समीपं गतवान्। कपाटिकायाम् एकः स्यूतः आसीत्। सः स्यूतः किञ्चित् बृहदाकारकःभारयुतः च आसीत्।’ केवलम् आभरणेनस्यूतः एतावान् भारयुतः न भवति। धान्येषुआभरणं स्थापितं स्यात्’ इति चिन्तयित्वारामः स्यूतं बलेन आकृष्टवान्। किन्तु तस्मिन्साहसे सः तत्रैव स्थितम् एकम् आसनंपातितवान्।**
** अस्मिन् कोलाहले कृषिकःजागरितः।महान्तं शब्दं श्रुत्वा तस्य पत्नी अपि जागरिता।रामः तयोः पुरतः लज्जया नतमस्तकः भूत्वास्थितवान्। पलायितुम् अपि तस्य अवकाशः न आसीत्।**
** ‘रे ! भवान् वा ? भवतः तत्र किं कार्यम्आसीत् ?” इति कृषिकः पृष्टवान्।**
रामः तूष्णीं स्थितवान्। तदा कृषिकः “आभरणम् आवश्यकं वा तस्मिन् स्यूतेकिमपि नास्ति। सः स्यूतः उत्तमबीजैः पूरितःअस्ति, तावदेव। तत्र बीजान् विना अन्यत्किमपि नास्ति’ इति उक्तवा उच्चैः हसितवान्।
** ‘द्रष्टुं मान्यः इव अस्ति भवान् ! चौर्यंकरोति वा ?” इति पत्नी पृष्टवती।**
** रामः – “अहं न चोरः। भवन्तः बहुसज्जनाः। अपरिचितेषु भवन्तः एवं सौजन्यंप्रदर्शयन्ति चेत् महते कष्टाय भवति। अतःसुवर्णम् अन्यत्र स्थापयित्वा भवत्सु किञ्चित्भयम् उत्पाद्य, अनन्तरं ददामि इति चिन्तितवान् आसम्। किन्तु स्यूते आभरणानि नआसन्। अतः भवद्भिः अहं वञ्चितः” इतिउक्तवान्।**
** कृषिकः पुनः हसन् उक्तवान्— भवतःउद्देशः यः कोऽपि भवतु। अस्माकम् उद्देशः नतथा। अस्माकं गृहे सुवर्णस्य नाम अपिनास्ति। चतुर्वर्षपर्यन्तम् अहं अन्येषां भूमौकृषिं कृतवान्। धनं सङ्गृह्य अहम् किञ्चित्भूमि क्रीतवान्। अस्यां भूमौ कृषिं करोमि चेत्एकस्मिन् वर्षे एव अहं बहूनि आभरणानिक्रेतुं शक्नोमि। बहुदिनेभ्यः स्थितं तस्याः अभीष्टं साधयामि इति अस्ति विश्वासः। अतः एवभीजस्य एव आभरणम् इति नाम दत्वाव्यवहारः कृतः अस्मामिः” इति।**
** “किञ्चित् प्रदेशे कृषिः क्रियते चेत्एकस्मिन् एव वर्षे पत्न्याः कृते एषः कृषिकःबहूनि आभरणानि कारयितुं शक्नोति। ममतु अस्य अपेक्षया अधिकपरिमिता भूमिःअस्ति। आलस्यं त्यक्त्वा कार्यं करोमि चेत्अधिकं सम्पादयितुं शक्नोमि। पत्न्याः कृतेसुवर्णमालां किं, सकलानि आभरणानि कारयितुं शक्नोमि’ इति चिन्तयित्वा रामःतयोः दम्पत्योः कृतज्ञतां समर्पितवान्।**
** “भवतोः सहवासेन मम अज्ञानं दूरं गतम्इतःपरं अहं श्रमेण कृषिकार्यं करोमि।”इति उक्त्वा सः स्वगृहं गतवान्।**
गङ्गाजलम्
** धर्मपुरे पूर्णचन्द्रः नाम कश्चनकुसीदवणिक् आसीत्। सः ऋणस्य चक्रवृद्धिंस्वीकुर्वन्जनान् लुण्ठयति स्म। रामनाथःपूर्णचन्द्रस्य अद्वितीयः पुत्रः। सःअपि पितरम् एव अनुकरोति। पितुः मार्गदर्शनेनकुसीदवाणिज्यस्य अन्तरङ्गं सम्यक् जानातिसः। इदानीं सः अपि पित्रा सूचितानि तन्त्राणिप्रयुञ्जन् जनान् क्लेशयति।**
** कदाचित् पूर्णचन्द्रः पार्श्ववायुरोगेण ग्रस्तःअभवत्। एतस्य रोगस्य चिकित्सां सः नकारितवान्। यतः सः आत्मनः निमित्तकंव्ययं न इच्छति।**
** किन्तु, रामनाथः ‘पिता दीर्घकालं जीवतु’इति इच्छति। अतः सः उत्तमानां वैद्यानां द्वारापितुः चिकित्सां कारितवान्। किन्तु तेनकोऽपि लाभः न जातः।**
** तेषु एव दिनेषु दयानिधिः नाम संन्यासीधर्मपुरम् आगतवान्। सः संन्यासी ज्ञानी सिद्धपुरुषः च इति प्रसिद्धिः आसीत्। अतःसर्वे ग्रामीणाः तस्य दर्शनार्थम् उत्सुकाःजाताः।**
** रामनाथः अपि तस्य महात्मनः दर्शनंप्राप्तवान्। पितुः अवस्थां निवेद्य प्रार्थितवान्च - “महात्मन्, पितुःस्वास्थ्यलाभार्थं कमपिउपायं सूचयतु” इति।**
** दयानिधिः क्षणकालं नेत्रे निमील्य मौनंस्थितवान्। अनन्तरम् उक्तवान् च– “भवतःपिता कुसीदवाणिज्येन बहून् जनान्वञ्चितवान्। यावत् धनं सम्पादितवान्तावदेव पापम् अपि सञ्चितवान्। यदि सःकाशीं गत्वा गङ्गायां स्नात्वा विश्वनाथस्यदर्शनं प्राप्नुयात् तर्हि व्याधिः उन्मूलितःभवेत्” इति।**
** रामनाथः दीनतापूर्णस्वरेण निवेदितवान्— “भगवान् ! मम पिता चलितुम् एवअसमर्थः। तादृशः सः काशीपर्यन्तं प्रयाणं**
कर्तुं सर्वथा न शक्नोति” इति।
** तदा दयानिधिः उक्तवान्— “एवं तर्हिपितुः निमित्तं भवान् एव काशीं गच्छतु।गङ्गायां स्नात्वा विश्वनाथं भक्त्यापूजयित्वा गङ्गाजलम् आनयतु। पितरंपाययतु च। तेन भवतः पिता स्वस्थःभविष्यति” इति।**
** एतदनुसारं रामनाथः काशीप्रयाणार्थं गन्तुंसिद्धः अभवत्।**
** पुत्रस्य यात्रार्थं सिद्धतां दृष्ट्वा पूर्णचन्द्रःपृष्टवान् “पुत्र ! अहं अस्वास्थ्यकारणतःशयनम् आश्रितवान् अस्मि। भवान् तु काशींगन्तुं सिद्धः सञ्जातः। एवं तर्हि।कुसीदवाणिज्यस्य का वा गतिः ?” इति।**
** “पितः, भवतः एतां दयनीयां दशां द्रष्टुंनशक्नोमि अहम्। अतः काशीं गत्वा शीघ्रम्एव प्रत्यागमिष्यामि” इति निवेद्य रामनाथःयात्रार्थं प्रस्थितवान्।**
** सः काशीं गतवान्। गङ्गानद्या स्नात्वाश्रद्धया विश्वनाथस्य दर्शनं कृतवान्।एकस्मिन् कलशे गङ्गाजलं पूरयित्वा ततप्रतिप्रस्थितवान् च।**
** रामनाथः अरण्यमार्गेण आगच्छन्आसीत्। तदा लम्बकर्णा नाम काचित्पिशाचा तस्य पुरतः आगत्य स्थितवती। पिशाचां दृष्ट्वा भीतः रामनाथः गमनस्थगितवान्।**
** तदा लम्बकर्णा रामनाथम् उक्तवती"भोः, भीतिः मास्तु। अहं परोपकारिणीपिशाचा। हानिकारिणी न। भवान् मत्तःकिमपि साहाय्यम् इच्छति वा?” इति।**
** रामनाथः उत्तरितवान्— “भवत्याःसाहाय्यं मम किमर्थम्? अहं काशीं गत्वाविश्वनाथदर्शनं कृत्वा प्रत्यागच्छन् अस्मि। मम हस्ते पवित्रं गङ्गाजलम् अस्ति। एतेनएव मम इष्टसिद्धिः भविष्यति” इति।**
** लम्बकर्णा रामनाथं प्रणम्य विनयेनउक्तवती— “भवान् मानवश्रेष्ठः। भवतःहस्ते स्थितं गङ्गाजलं मह्यम् अपि किञ्चित्ददातु। तेन अहं पिशाचजन्मतः मुक्तिं प्राप्तुंशक्नुयाम्” इति।**
** ‘एतत् जलम् आनेतुम अहं महान्तं श्रमम्अनुभूतवान्। एतदर्थं महान् व्ययः अपिकृतः। एतादृश जलं पिशाचायै भवत्यै दातं**
न। अपसरतु इतः” इति उक्त्वा रामनाथःअग्रे प्रस्थितः।
** लम्बकर्णा रामनाथम् अनुसृत्य गच्छन्ती"गङ्गानद्यां स्नात्वा एव भवान् एतत्गङ्गाजलम्आनीतवान्। अतः भवान्पुण्यात्मा। भवतः पादरजसः स्पर्शेन अपिअहं मुक्तिं प्राप्तुं शक्नोमि” इति उक्त्वारामनाथस्य पादधूलिं भक्त्या उन्नीतवती।स्वशरीरस्य उपरि सिञ्चनं कृतवती च।**
** अनन्तरक्षणे एव लम्बकर्णा रूपान्तरंप्राप्तवती। सुन्दरमहिलायाः रूपं प्राप्य साप्रत्यक्षा अभवत्। रामनाथं कृतज्ञतावचनानिउक्त्वा ततः निर्गतवती च।**
** एतया घटनया आश्चर्यचकितः रामनाथःअग्रे गतवान्। तदा कश्चन सुदृढकायः पुरुषःतस्य पुरतः आगतवान्। सः एकं लघुशकटंचालयन् आसीत्। तेन सह एकः बालकः अपिआसीत्।**
** सः रामनाथं प्रणम्य पृष्टवान्—“महोदय !अहं भवतः साहाय्यं किमपि कर्तुं शक्नोमिवा ?” इति।**
** “मम साहाय्यम् ? कः भवान् ? किं नामभवतः ?” इति पृष्टवान् रामनाथः।**
** “श्रीमन् ! मम नाम रुधिरोष्णः इति।पूर्वम् अहं सुप्रसिद्धः चोरः आसम्। मया यत्पापम् आचरितं तस्य परिणामतः मम पुत्रःकुष्ठरोगेण पीडितः अस्ति। इदानीम् अहंदुष्टकार्याणि सर्वथा परित्यक्तवान्।भवादृशानां साहाय्यं कुर्वन् पापभारंन्यूनीकर्तुं यावच्छक्यं प्रयत्नं कुर्वन् अस्मि"इति उक्तवान् रुधिरोष्णः।**
** “इदानीं भवतः साहाय्यं किमपिअनावश्यकं मम।अहम् अतीव त्वरायाम्अस्मि। अपसरत् मम मार्गतः” इतिउक्तवान् रामनाथः।**
** रुधिरोष्णः रामनाथस्य हस्ते स्थितंताम्रपात्रं कुतूहलेन क्षणकालं दृष्टवान्।अनन्तरं पृष्टवान् च—“श्रीमन् ! एतत् पात्रंतावत्या जागरूकतया गृहीतवान् खलु ? किम्अस्ति अन्तः?” इति।**
** “एतस्मिन् ? पवित्रं गङ्गाजलम् अस्ति।एतस्य सेवनेन मम पिता पार्श्ववायुरोगतःउन्मुक्तः भविष्यति” इति। उत्तरितवान्रामनाथः।**
** ‘‘गङ्गाजलम् ! तर्हि इतः किञ्चित् ममपुत्राय अपि ददातु भोः। सोऽपि व्याधितःविमुक्तिं प्राप्नोतु” इति दैन्येन प्रार्थितवान्रुधिरोष्णः।**
** तदा क्रुद्धः रामनाथः “अहं महता कष्टेनगङ्गाजलम् आनीतवान् अस्मि। एतत् पवित्रंजलं भवादृशस्य लुण्ठकस्य सहाय्यार्थं न"इति उक्त्वा वेगेन अग्रे गतवान्।**
** एवं गमनेन रामनाथस्य हस्ते स्थितात्ताम्रकलशात् द्वित्राः गङ्गाजलबिन्दवः भूमौपतिताः।**
** एतत् दृष्ट्वा रुधिरोष्णः उक्तवान्—“एतस्य पवित्रजलस्य बिन्दुमात्रस्य स्पर्शेनअपि मम पुत्रस्य व्याधिः दूरं गन्तुम् अर्हति"इति। अनन्तरं यत्र जलं पतितं तत्प्रदेशस्य। मृत्तिकां स्वीकृत्य तया पुत्रस्य शरीरं लिप्तवान्।**
** अनन्तरक्षणे एव रुधिरोष्णस्य पुत्रस्यशरीरं सुवर्णकान्त्या शोभमानम् अभवत्।**
** रुधिरोष्णः रामनाथं कृतज्ञतापूर्वकंनमस्कृत्य— “भवतः उपकारं कदापि नविस्मरामि” इति उक्त्वा ततः निर्गतवान्।**
** रामनाथः गृहं प्रत्यागत्य पित्रेयात्रावृत्तान्तं समग्रं निवेदितवान्। “तात !‘गङ्गानद्यां स्नानेन मया महत् पुण्यं प्राप्तम्।अतः मम चरणधूलेः स्पर्शेन पिशाचा मुक्तिंप्राप्तवती। गङ्गाजलमिश्रितमृत्तिकायाःलेपनेन लुण्ठकपुत्रस्य रोगः अपगतः च।इदानीम् अहं स्वहस्तेन गङ्गाजलं पाययन्अस्मि। भवतः व्याधिः अवश्यं दरंगमिष्यति” इति उक्त्वा रामनाथः पितरंकिञ्चित् गङ्गाजलं पायितवान्।**
** गङ्गाजलपानेन पूर्णचन्द्रस्य रोगापमनंकिं वार्तालापशक्तिः अपि अपगता। बहुधाचिन्तनेन अपि एवं किमर्थं जातम् इतिरामनाथः न ज्ञातवान्।**
** रामनाथः दयानिधेः दर्शनं पुनः कृतवान्।काशीयात्रायाःअनुभवान् समग्रतयाश्रावयित्वा पुष्टवान् च– “महात्मन् !पवित्रस्य गङ्गाजलस्य पानेन मम पितुःरोगापगमनं किं, सम्भाषणशक्तिः अपिलुप्ता अभवत्। एवं किमर्थं जात स्यात ? कःलोपः अत्र ?” इति।**
** दयानिधिः गाम्भीर्येण उक्तवान्— “सापिशाचा सः लुण्ठकः च आत्मना कृतं पापं**
ज्ञात्वा पश्चात्तापम् अनुभूतवन्तौ। एतावदेवन, परेषां हितम् अपि चिन्तितवन्तौ। किन्तुभवान् केवलं स्वपितुः हितं चिन्तयन् अस्ति।स्वार्थभावनया प्रेरितः सन् मार्गे याचनांकृतवतोः प्रार्थनां तिरस्कृत्य आगतवान्।जलदानं किं, सहानुभूतिपूर्णं वचनम् अपिभवतः मुखात् न आगतम्। भवतः पिता तुकुसीदव्यवहारेण वञ्चयन् बहून् भिक्षुकान्कृतवान्। पार्श्ववायुरोगेण पीड्यमानः अपिप्रायश्चित्तं न आचरति सः। अतः गङ्गाजलंनिष्प्रयोजकं जातम्” इति।
** “महानुभाव ! कुसीदव्यवहारः अस्माकंपरम्परागता वृत्तिः। तस्यां वृत्तौ यत् सहजंतदेव कृतवान् मम पिता। एतादृशं तं किमर्थंपापिनं भावयति भवान् ?” इति पृष्टवान्रामनाथः।**
** तदा दयानिधिः मन्दहासं प्रकटयन्उक्तवान्— “वत्स ! सर्वासु वृत्तिषु न्याय्यम्अन्याय्यं च भवति एव। भवन्तः तु न्यायमार्गं परित्यज्य अन्याय्येन अधिकां वृद्धिंस्वीकुर्वन्तः सन्ति। जनानाम् अनिवार्यतायाःदरुपयोगः स्वीकतः भवद्भिः” इति।**
** इदानीं रामनाथे विवेकः उदितः। सःदयानिधिं साष्टाङ्गं नमस्कृत्य उक्तवान्—“श्रीमन् ! भवान् मां विवेकं बोधितवान्” इति।**
** अनन्तरं सः ग्रामं गत्वा अवशिष्टंगङ्गाजलं ग्रामस्थेभ्यः रोगिभ्यः वितीर्णवान्।न्याययुतेन मार्गेण पुनः अपि कुसीदव्यवहारम्आरब्धवान् च।**
** दयानिधेः उपदेशं पूर्णचन्द्रः पुत्रमुखात्श्रुतवान्। तत्प्रभावतः तस्मिन् अपि परिवर्तनंजातम्।**
** पश्चात्तापेन दग्धः सः पुत्रस्य नूतनंव्यवहारं पूर्णेन हृदयेन प्रोत्साहितवान्। एतेनसः अल्पेषु एव दिनेषु स्वस्थः सञ्जातः।**
** पूर्णचन्द्रः रामनाथः च ज्ञातवन्तौ यत्मानवतागुणः सद्व्यवहारः चगङ्गाजलापेक्षया पवित्रं महत्त्वपूर्णं च इति।अतः तौ उभौ अपि सदाचारतत्परौ जातौ।धर्मपुरग्रामे धार्मिकजनेषु अग्रगण्यौ जातौच।**
गर्वस्य चिकित्सा
** पूर्वं सुवर्णपुरे मोहिनीदेवी नाम राजकुमारीआसीत्। सा अपूर्वसुन्दरी। तस्याःसौन्दर्यातिशयः यथा, तथैव गर्वातिशयः अपि।यदा सा प्राप्तवयस्का जाता तदा राजा तस्याःविवाहार्थं बहुधा प्रयत्नं कृतवान्। सर्वदेशानांराजकुमाराणां चित्रपटम् आनीय प्रदर्शितवान्।किन्तु राजकुमारी एकम् अपि न अङ्गीकृतवती।एकैकस्मिन् अपि एकैकं दोषम् उद्भावयति।अतः महाराजः ‘एतस्याः विवाहः कथम्’ इतिसमस्यया बहुधा व्यथितः अभवत्।**
** कदाचित् राजकुमारी उद्याने विहरन्तीआसीत्। तदा अकस्मात् केचन चोराः तत्रआगतवन्तः। पाषण्डः नाम चोरनायकःराजकुमारी मोहिनीं अनायासेन उन्नीय अश्वस्य उपरि स्थापितवान्। तम् अश्वम् आस्र्ह्य पर्वतप्रान्ते स्थितां काञ्चित् गुहां प्रविष्टवान् च।सा एव गुहा तस्य तदीयसहचराणां च वासस्थानम् आसीत्। पातकी नाम तस्य पत्नीरोहिणीनाम तस्य पुत्री, तयोः सेवार्थं उभौ वृद्धौ,एका अन्या मध्यवयस्का च अपि तत्र निवसन्ति स्म।**
** पाषण्डः राजकुमारीम् अश्वतः अवतार्यउक्तवान्— “पश्यतु, एतत् मम वसतिस्थानम्।अत्र मम कुटुम्बं मम सहकारिणः च निवसन्ति।अहम् एतेषां चोराणां नायकः। मम अनुमतिं विना कोऽपि मम सहकारी अन्तः नप्रविशति। अतः भवती अत्र निश्चिन्ततयानिवसतु” इति।**
** “माम् अपहृत्य भवान् किमर्थं वा अत्रआनीतवान् ?” इति कोपेन पृष्टवती मोहिनी।पाषण्डः निरुद्विग्नः सन् उक्तवान्— “ममपत्न्या अत्र सकलसौकर्याणि सन्ति। तथापिचोरस्य मम निवासः अरण्ये अस्ति इति तस्याःमहान् खेदः। एतद्विषये सा मां सर्वदा**
निन्दति। ‘मां वृथा किमर्थं निन्दति ? किम्आवश्यकम् इति वदतु’ इति अहं कदाचित्ताम् उक्तवान्। एतद्देशस्य राजकुमारी ममसेविका भवेत्। तथा कर्तुं भवतः सामर्थ्यम्अस्ति वा ?” इति सा पृष्टवती। अतः अहंभवतीम् अपहृत्य आनीतवान्। एतेन अत्रभवत्या किं करणीयम् इति ज्ञातं स्यात् एव"इति।
** अकस्मात् आपतितया विपत्त्या चकितामोहिनी किञ्चित्कालं पाषण्डस्य मुखं तीक्ष्ण-दृष्ट्या दृष्टवती।पाषण्डः सुदृढः उन्नतः चयुवकः। शरीरं सुवर्णवर्णम्। सुपुष्टौ हस्तौपादौ च। सुन्दरं मुखम्।किन्तु तस्यपत्नी पातकी रूपेण साक्षात् विरुद्धा। साकृष्णवर्णीया वामना च। शरीराकारः अपिविकृतः। तस्याः पुत्री रोहिणी अपि आकृत्यामातरम् एव अनुकरोति।**
** यदा पाषण्डः मोहिन्या सह वार्तालापेमग्नः आसीत् तदा तत्र आगतः वृद्धः सेवकः—“अहो ! सौन्दर्यराशिः एव अत्र आगतःअस्ति ! मम नायकः एतां निश्चयेन परिणेष्यति” इति उद्गारं प्रकटितवान्।**
** तदा क्रुद्धः पाषण्ड झटिति तत्समीपंगत्वा कपोले ताडयन्— “अहम् एकपत्नीव्रतस्थःइति किं भवान् न जानाति ? इतः परम्एतादृशं वचनं वदति चेत् यमसदनं प्रेषयिष्यामि। अत्रत्यस्य कस्यचित् अपि मुखात्एतादृशानि दुर्वचनानि न आगच्छेयुः। जागरूकाः तिष्ठन्तु” इति गर्जितवान्।**
** अनिच्छन्त्या अपि मोहिन्या तत्रैव स्थातव्यम्आपतितम्। प्रथमं सा सेवां कर्तुं निराकृतवती। तदा इतरे सेवकाः– ‘भवती पाषण्डस्यवचनं तिरस्करोति चेत् सः चित्रहिंसया कठोरंदण्डयिष्यति’ इति वदन्तः भीतिम् उत्पादितवन्तः। अनन्यगत्या मोहिनी पातक्याः सेवायांनिरता अभवत्।**
** एकदा दीपकः नाम तत्रत्यः वृद्धः सेवकःवात्सल्यपूर्णेन स्वरेण सान्त्वयन् ताम् उक्तवान्- “भवती तु अप्सराः इव सुन्दरी। उन्नते कुलेउत्पन्ना च। वस्तुतः भवत्याः जन्म अन्येषां**
सेवा प्राप्तुं, न तु कर्तुम्। किन्तु किं वा कर्तुं शक्यते- दैवस्य विचित्रा गतिः ! गतस्य विषयेशोकेन प्रयोजनं नास्ति। विद्यमानैः साधनैः परिहारोपायः चिन्तनीयः। भवत्याः तु असदृशं सौन्दर्यम् अस्ति। हावभावैः भवती पाषण्डस्य मनः आकर्षयतु, येन सः भवतीं परिणेतुम् उत्सुकः स्यात्। यदि सः भवतीं परिणेष्यति तर्हि सर्वाणि कष्टानि दूरङ्गतानि इव” इति।
** “छी ! महाराज्ञी भवितुं योग्या राजकुमारी अहं किं कञ्चित् चोरं परिणयेयम् ?” इति कोपेन पृष्टवती मोहिनी।**
** ‘‘अस्माकं प्रभुः चोरनायकः स्यात् नाम। किन्तु गुणेन सौन्दर्येण औदार्येण च एतत्समः कः अन्यः राजकुमारः अस्ति जगति ? विवाहविषयं सद्यःकाले त्यजतु नाम। तस्य मनसः आकर्षणार्थं वा प्रयत्नं करोतु। इतः बहिः गन्तुम् अवविष्टः एकः एव उपायः सः” इति उक्तवान् दीपकः।**
** असहाया मोहिनी दीपकस्य वचनानुसारं ब्यवहर्तुं निश्चितवती। अनन्तरदिने सा तैलाभ्यञ्जनं समाप्य उत्तमानि वस्त्राणि धृतवती। तेन वेषेण तस्याः सौन्दर्यं द्विगुणी-भूतम् आसीत्। अनन्तरं पाषण्डस्य पुरतः कार्यव्याजेन इतस्ततः अटितवती। कार्यव्यग्रः पाषण्डः तां विशेषतया न लक्षितवान् एव।**
** किञ्चित्कालानन्तरं तां दृष्ट्वा पाषण्डः समीपम् आहूय उक्तवान्— “अद्य भवती सुन्दरतया दृश्यते। किन्तु नीलवर्णानि वस्त्राणि धरति चेत् भवत्याः सौन्दर्यं इतोऽपि वर्धते’ इति।**
** “तत् भवान् कथं जानाति ?” इति पृष्टवती मोहिनी।**
** ‘‘मम पत्नी उक्तवती। सौन्दर्यप्रज्ञा तस्याः यावत् अस्ति तावत् अन्यस्य कस्यापि नास्ति। अतः तया यत् उच्यते तत् एव प्रमाणभूतम्” इति उक्तवान् पाषण्डः।**
** आत्मनः पुरतः कृतां पातक्याः स्तुतिं श्रुत्वा मोहिनी अपमानम् अनुभूतवती इव। कुपिता अपि सा किमपि न उक्तवती।**
अनन्तरदिने नीलवस्त्राणि धृत्वा इतस्ततः सञ्चरन्ती कृष्णलीलां मन्दस्वरेण गीतवती। तस्याः कण्ठध्वनिः सुमधुरः आसीत्।
** पाषण्डः तां दृष्ट्वा— “श्रीकृष्ण विषयकं गीतं मास्तु। शिवस्तुतिपरं गीतं गायतु। मम पत्न्याः शिवे विशेष-भक्तिः। तस्याः यत् इष्टं तदेव ममापि इष्टम्” इति उक्तवान्।**
** एतत् श्रुतवत्याः मोहिन्याः गायनोत्साहः नष्टः। सा म्लानतया स्थितवती।**
** अन्यदिने सा एकान्ते नाट्याभ्यासे निरता आसीत्। तदा तत्र आगतः पाषण्डः— ‘‘एवं सर्वदा नृत्यं न करोतु। मम पत्नी यदा सूचयति तदा एव नाट्यं प्रदर्शयतु। अन्यथा सा कुपिता भवेत्” इति सूचितवान्।**
** एकदा मोहिनी पाषण्डम् उक्तवती— “भवान् सामान्यः चोरः इव स्थितः चेदपि पराक्रमेण सर्वान् राजकुमारन् अतिशेते इति भवतः सेवकाः सदा वदन्ति। अहं भवतः पराक्रमं द्रष्टुम् इच्छामि " इति।**
“एवं तर्हि तदर्थम् अरण्यमध्यं गन्तव्यम्। तथा मया सह आगन्तुं भवत्या मम पन्याः अनुमति प्राप्तव्या। तदर्थं भवती प्रथमं तां प्रीणयतु” इति उक्तवान् पाषण्डः।
** एतादृशः व्यवहारः तया अभ्यस्तः आसीत् एव। अतः सा न कुपिता। सा पातक्याः समीपं गत्वा विनयेन स्वकीयाम् इच्छां निवेद्य उक्तवती— “आर्ये ! मम सौन्दर्यातिशयेन अहं भवत्याः पति वशीकुर्याम् इति भीतिः यदि स्यात् तर्हि तं विषयं त्यजतु नाम। अन्यथा गन्तुम् अनुमतिं ददातु” इति।**
** पातकी मन्दहासं प्रकटयन्ती— “भवती आवयोः भावबन्धं न जानाति। भवती तेन सह गत्वा आगच्छतु" इति उक्तवती।**
** अरण्ये एकत्र कश्चन सर्पः आगतः। सः फणां प्रसार्य दंशनार्थम् आगतः। तदा पाषण्डः तस्य पुच्छं गृहीत्वा परितः परिवृत्य क्षिप्तवान्। धावन्तं हरिणं परितः बाणप्रयोगं कृत्वा तं शरपञ्जरे निश्चलं स्थापितवान्। एतत् सर्वं दृष्ट्वा सा आश्चर्यचकिता अभवत्।**
** “क्रूरप्राणिनः साधुप्राणिनः च शारीरक**
पीडां विना सजीवं कथं ग्रहीतव्याः इति अहं सम्यक् जानामि" इति साभिमानम् उक्तवान् पाषण्डः।
** तदा मोहिनी आश्चर्य प्रकटयन्ती उक्तवती— “वस्तुतः भवान् कस्यचित् देशस्य राजा भवितुं योग्यः। भवतः प्रतापः असदृशः एव" इति।**
** “भवती मम प्रतापस्य स्तुतिं करोति। किन्तु तेन मम तृप्तिः नास्ति। यतः मम प्रतापस्य स्तुतिं मम पत्नी अद्यावधि न कृतवती। अर्जुनः इव पातालतः गङ्गां भूमिम् आनेतुं भवान् असमर्थः इति माम् उपहसति" इति पाषण्डः चिन्तया उक्तवान्।**
** पाषण्डस्य पत्नीविषयकगौरवं दृष्ट्वा आश्चर्यं प्रकट्य मोहिनी पृष्टवती– “अहं भवतः विद्याप्रौढतां दृष्टवान्। भवान् मम विद्याकौशलं न पश्यति वा ?" इति।**
** “यदा पत्नी मम पार्श्वे भवति तदा भवत्याः विद्याकौशलं पश्यामि” इति उक्तबान् पाषण्डः।**
** तदा मोहिनी उत्पन्नं कोपम् आत्मनि निगृह्य शान्तस्वरेण एव उक्तवती— “अहम् एकं विषयं निवेदयितुम् इच्छामि। अहं सौन्दर्यवती इति विषयं न केवलम् अहं, सर्वे राजकुमाराः जानन्ति। विवाहेच्छया आगतान् तान् सर्वान् निराकृतवती अहम्। तादृशीं मां भवान् तिरस्कारदृष्ट्या पश्यति किल ? भवतः पत्न्याः निन्दनं करोमि इति मा चिन्तयतु। वस्तुतत्त्वं तु एतत् यत् पातकी महाकुरूपिणी। तादृश्या आकृष्टः भवान् सौन्दर्यवत्यां मयि औदासीन्यं प्रकटयति किल ? किम् एतत् आश्चर्यम् ?” इति।**
** तदा पाषण्डः तां परीक्षादृष्ट्या दृष्टवा मन्दहासपूर्वकम् उक्तवान्— “मम दृष्ट्या बाह्यसौन्दर्यापेक्षया अन्तःसौन्दर्यम् एव श्रेष्ठम्। अतः एव अहं पातक्यां तावत् अनुरक्तः। तावन्तम् आदरं प्रदर्शयामि च” इति।**
** गुहां प्रति आगमनानन्तरं मोहिनी दीपकाय अरण्ये प्रवृत्तं सर्वं निवेद्य— “इतः परम् इतः बहिः गन्तुं कोऽपि मार्गः नास्ति एव**
मम” इति सविषादम् उक्तवती।
** “तथा किमर्थं चिन्तयति ? केनापि उपायेन यजमानपत्नीं प्रीणयतु। यदि सा इच्छति तर्हि भवत्याः विमोचनं क्षणमात्रस्य कार्यम्” इति सूचितवान् दीपकः। तदर्थं आश्रयणीयं मार्गम् अपि सः सूचितवान्।**
** अपरस्मिन् दिने वृद्धः दीपकः पातक्याः सञ्चारमार्गे कदलीफलस्य त्वचं पातितवान्। किञ्चित्कालानन्तरं पातकी तेन मार्गेण गच्छन्ती पतिता। यावत् तस्याः पतनं न समाप्तं ततः पूर्वम् एव आगत्य मोहिनी तां रक्षितवती।**
** तदा पातकी सन्तोषेण उक्तवती— “भवती राजकुमारी चेदपि सेवकान् अपि अतिरिच्य श्रद्धया सेवां करोति। एतेन अहं तुष्टा अस्मि। वस्तुतः भवती यदर्थम् आनीता तस्य कारणम् अन्यदेव अस्ति। अहम एतस्मात् गृहाजीवनतः खिन्ना अस्मि। नगरे कुत्रापि स्वामिना सह सगौरवं जीवितुम् इच्छामि। भवती तु राजकुमारी किल ? अतः ‘तदर्थ व्यवस्थां करोमि’ इति आश्वासनं ददानि चेत् भवती स्वतन्त्रां करिष्यामि" इति।**
** राजधानी पुनः प्राप्तुम् एषः एव उचितः सन्दर्भः इति चिन्तयित्वा मोहिनी पातक्याः प्रस्तावं ससन्तोषम् अङ्गीकृतवती।**
** अनन्तरं पातकी पतिं “एतां राजधानी प्रापयतु" इति उक्तवती। पाषण्टः मोहिनीम् अश्वस्य उपरि आरोप्य राजधानी गतवान्। ‘पाषण्डः राजकुमार्याः अपहारकः’ इति जानन्तः अपि सेवकाः पाषण्डस्य उपरि हस्तं न प्रसारितवन्तः। यतः मोहिनी तथा आज्ञां कृतवती आसीत्।**
** पाषण्डः राजकुमारीं महाराजस्य पुरतः अवतार्य उक्तवान्— “महाराज ! पश्यतु भवतः पुत्रीम्। केनापि उद्देशन भवतः पुत्री मया नीता आसीत्। सः उद्देशः कः’ इत्यादीनां विषये भवान् ताम् एव पृच्छातु" इति।**
** तदा मोहिनी उद्वेगेन उक्तवती— “तात् ! केनापि उपायेन एषः अत्रैव यथा तिष्ठेत् तथा करोतु। एतस्मै सा दत्त्वा विवाहं कारयतु च। येन उद्देशेन सः मा नीतवान् तत् इदानी**
गौणम्” इति।
** एतत् वचनं श्रुत्वा पाषण्डः ततः पलायनं कर्तुं प्रवृत्तः। तदा भटाः तम् आक्रम्य तस्य पलायनं निवारितवन्तः।**
** “हन्त ! एतावत्कालानन्तरं वा भवती विवाहम् अङ्गीकृतवती किल ? देवो दयालुः" इति उद्गारं प्रकट्य महाराजः मोहिनीं पाषण्डाय दत्त्वा विवाहं निर्वर्तितवान् एव।**
** विवाहानन्तरं मोहिनी—“मां क्षाम्यतु। भवान् चोरनायकः। तत्रापि पूर्वम् एव विवाहितः। तथापि अहं भवन्तम् अनुरोधपूर्वकं परिणीतवती। भवान् मम पतिः इत्येतावता अहं तृप्ता। यदि भवान् अत्र स्थातुं न इच्छति तर्हि एतत्क्षणे एव इतः गन्तुम् अर्हति। किन्तु तथा गच्छति चेदपि अचिरात् एत्र प्रत्यागमिष्यति इति मम दृढः विश्वासः" इति उक्त्वा पाषण्डस्य पादयोः नमस्कारं कृतवती।**
** पाषण्डः प्रीत्या ताम् उत्थापयन् — “यदि अहं इतः गमिष्यामि तर्हि भवत्या सह एव। एतावत्पर्यन्तं भवती यत् दृष्टवती तत्सर्वं नाटकाङ्गभूतम्। गुहायां ये सन्ति ते सर्वे भवत्याः पित्रा प्रेषिता एव। मम नाम शूरसेनः। अहं प्रतापनगरस्य राजकुमारः। सौन्दर्यातिशयेन आकृष्टेषु अहम् अपि अन्यतमः। अहं भवत्याः गर्वातिशयम् अपि श्रुतवान्। ‘गर्वस्य औदासीन्यम् एव औषधम्’ इति चिन्तयन् भवतीं गुहां नीत्वा पदे पदे भवत्या’ विषये औदासीन्यं प्रकटितवान्। इदानीं वदतु— भवती मया सह मम राज्यम् आगच्छति वा ?" इति।**
** “सौन्दर्यस्य विभूषणं सुजनता’ इति कविना यत् उक्तं तत् सत्यम् इति गुहायाम् अहं ज्ञातवती। इतःपरं अहं भवता सह एव निवसन्ती भवतः सेवां कुर्वती च आत्मनः उन्नतिं साधयिष्यामि। भवान् मम पतिः गुरुः च” इति उक्तवती मोहिनी। अनन्तरं तौ चिरकालं सुखेन जीवितवन्ती।**
चण्डी
गोविन्दः नाम कश्चित् गृहस्थः आसीत्। सः सरलः साधुस्वभाववान् च। किन्तु तस्य पत्नी राधा धृष्टा चण्डी च। गोविन्दः पत्न्या उक्तं सर्वं शृणोति अनुतिष्ठति च। अतः सा साक्षात् कैकेयी एव अभवत्।
विवाहानन्तरं यदा मातृगृहतः राधा पतिगृहम् आगतवती, तदा गोविन्दः केवलं स्वीयं कार्यं करोति स्म। किन्तु पत्न्याः मोहपाशेन बद्धः सः तदा तदा पत्न्याः कार्ये अपि साहाय्यं करोति स्म। राधा तु तस्य कार्ये साहाय्यलेशम् अपि न कृतवती। प्रत्युत स्वीयानि कार्याणि अपि पत्युः शिरसि एव आरोपितवती। गोविन्दः एव अजाः गाः च चारयेत्, गृहे जलम् अपि पूरयेत्, वस्त्राणि अपि क्षालयेत्, गृहम् अपि सम्मार्जयेत्, चुल्लीम् अपि ज्वालयेत्। गच्छति काले एतत् सर्वं विवाहितस्य मम कर्तव्यम् एव इति गोविन्दः भावितवान्।
एवं सत्यपि राधा पतिं भर्त्सयति स्म। यदि क्षेत्रे कर्षति गोविन्दः, तत्र अपि गत्वा असन्तम् अपि दोषं प्रदर्श्य सा पतिं निन्दति। श्रान्त्या यदि विश्रान्ति स्वीकरोति, ‘अलसः’ इति वदति। कार्यं कर्तुं इतस्ततः यदि सः गच्छति, ‘केवलं अटति’ इति आक्षिपति। यदि पत्न्यासह सम्भाषणं करोति, ‘वाचालः’ इति गर्हति। यदि तूष्णीं तिष्ठति ‘किं भवान् मूकः वा’ इति पृच्छति। कार्यं कृतं चेत् किमर्थं कृतम्? इति, अकृतं चेत् किमर्थं न कृतम् ? इति च आक्षिपति। एवं पदे पदे पत्युः दोषोद्घाटनं विना तस्याः अन्यत् कार्यं किमपि न आसीत्।
** गोविन्दः तु पत्न्याः भर्त्सनं निन्दनं तर्जनम् आक्षेपं च श्रुत्वापि तूष्णीम् एव कार्यं करोति। किमपि प्रत्युत्तरं न ददाति, दातुं न इच्छति च। प्रतिवेशिनः मार्गे अटन्तः जनाः च गोविन्दं दृष्ट्वा हसन्ति स्म। तथापि गोविन्दं न कुप्यति। हसतः तान् वदति— अये ! मित्रवर्याः ! किमर्थं व्यर्थम् एव द्वात्रिंशत् दन्तान् अपि लोकाय प्रदर्शयन्ति ?’ इति।**
** एकदा राधा पतिम् उक्तवती— ‘अत्र पश्यतु, क्षीरं विकृतिम् आपन्नम्। कार्ये भवतः अश्रद्धा एव अत्र कारणम्’ इति। एतत् श्रुत्वा आश्चर्येण ‘क्षीरविकृतेः मम च कः सम्बन्धः ?" इति गोविन्द पृष्टवान्। राधा कोपेन उक्तवती— ‘यदि गोः ऊधः सम्यक् क्षालितं भवति तदा क्षीरं कथं वा विकृतिम् आपद्यते ?” इति।**
** ‘ऊधः प्रक्षाल्य दोहनं करणीयम् इति भवत्या कदा अपि न उक्तम्’ इति गोविन्दः उक्तवान्।**
** ‘एतत् अपि किं वक्तव्यम् ? हन्त ! एतत् करणीयम् एतत् अकरणीयम् इति प्रतिदिनं सर्वं वक्तुं किं शक्यम् ? मूढं भवन्तं यत् अहं परिणीतवती तत् एव मम अपराधः’ इति राधा उक्तवती।**
** ‘वाचा किं प्रयोजनम् ? मया यत् करणीयं तत् सर्वं एकस्मिन् कागदे विलिख्य ददातु। अनन्तरम् अपि यदि प्रमादः भविष्यति तदा मां भर्त्सयतु’ इति उक्तवान् गोविन्दः।**
** राधा एकैकं कार्य वक्तुम् आरब्धवती। गोविन्दः लेखितुं प्रवृत्तः। हनूमतः पुच्छम् इव कार्याणाम् आवलिः अपि वर्धिता।**
** कानिचित् दिनानि अतीतानि। मकरसङ्क्रमणोत्सवः सन्निहितः। गृहं सर्वं स्वच्छीकृतम्। गृहस्य समीपे स्थिते सरोवरे गोविन्दः वस्त्राणि प्रक्षाल्य प्रक्षाल्य, निष्पीड्य च स्थापयति स्म। राधा आतपे रज्जौ वस्त्राणि प्रसारयन्ती पतिं भर्त्सयितुम् आरब्धवती— श्वः एव पर्वदिनम्। कार्यं तु पर्वतोपमम् अस्ति। एवं शनैः शनैः यदि कार्यं क्रियते समाप्तिः**
कदा ? भवादृशः अलसः मूर्खः च प्रपञ्चे एव कोऽपि नास्ति’ इति।
** एवं पतिं भर्त्सयन्ती सा निष्पीडितं वस्त्रं स्वीकर्तुं नतवती। तदा तस्याः दक्षिणपादः शैवालेन आवृतायां शिलायां निहितः। झटिति एव सवलन्ती भर्त्सनरता सा सरोवरे पतिता।**
** ‘जले निमज्जन्ती म्रियमाणा अस्मि, माम् उद्धरतु, माम् उद्धरतु’ इति सा उच्चैः आक्रोशनं कृतवती। ‘सरोवरः आगाधः नास्ति। कण्ठपर्यन्तम् एव जलम् अस्ति। भयं मास्तु’ इति शनैः उत्तरंः दत्तवान् गोविन्दः। ‘अहो ! जलूकाः सर्वं रक्तं पिबन्ति। शीघ्रं माम् उद्धरतु’ इति उच्चैः स्वरेण पुनः पुनः आक्रोशनं कृतवती।**
** भवतीं उद्धर्तुं मम अवकाशः नास्ति। कागदे लिखितानि कार्याणि बहूनि सन्ति। तानि समापनीयानि। कार्याणाम् अवलौ तु एतत् कार्य नास्ति एव। यदि संशयः अस्ति कागदम् आनीय आवलिं पठामि। शृणोतु’ इति उक्त्वा गोविन्दः कागदम् गृहतः आनीय पठितुम् आरब्धवान्।**
** शैत्यात् जलूकेभ्यः च भीता सा कम्पमाना दीनस्वरेण उक्तवती— ‘पत्नी मृता भवतु इति भवान् इच्छति वा ? इतः परं तत् कागदं कार्यावलिः इत्यादिकं सर्वं मास्तु। तत् सर्वं एतस्मिन् सरोवरे एव क्षिपतु। भवतः पादौ गृह्णामि। कृपया माम् उद्धरतु’।**
** ‘एवं पुनः पुनः वदतु। भवतु, इतःपरं भवदीयं कार्यं भवती एव करोतु। केवलं मदीयं कार्यम् अहं करोमि। एतत् भवती अनुमन्यते वा ?" इति पृष्टवान् गोविन्दः।**
** ‘तथास्तु’ इति झटिति एवं उत्तरं दत्तवती राधा। अनन्तरं गोविन्दः पत्नीं सरोवरतः उद्धृतवान्, गृहस्य अन्तः नीतवान् च। ततः परं स्वीयं कार्यं कुर्वती राधा कदापि पतिं न भर्त्सितवती। न वा निन्दितवती।**
चतुरः दूतः
** द्वीपेषु पुष्करद्वीपः क्रौञ्चद्वीपः च बहुप्रसिद्धौ, प्रतिवेशिनौ च। द्वीपान्तराणां सर्वे अपि राजानः क्रौञ्चद्वीपराजस्य मित्राणि एव। किन्तु पुष्करद्वीपस्य राजा तु क्रौञ्चद्वीपस्य राजानं न बहुमन्यते, न आद्रियते, प्रत्युत तिरस्कारेण पश्यति च। अन्येषाम् उपहसनम्, आत्मनः गर्वप्रदर्शनं च तस्य स्वभावः। क्रौञ्चद्वीपस्य राजा तु तम् अपि मित्रं कर्तुम् इच्छति स्म। ‘तस्य मैत्रीं यदि सम्पादयामि, तदा मम मद्राज्यस्य च भीतिः नास्ति। पार्श्ववर्तिनोः आवयोः एव कलहः युद्धं च यदि भविष्यतः, तदा द्वयोः राज्ययोः अपि हानिः प्रजानां कष्टं च इति क्रौञ्चद्वीपराजस्य भावना।**
** ‘किन्तु आवयोः द्वयोः अपि कः मैत्रीम् उत्पादयेत् ? अत्र कः समर्थ ? कः प्रेषणीयः ?’ इति विचिन्त्य दूरदर्शिनामानं महामन्त्रिणम् एव पुष्करद्वीपं प्रति क्रौञ्चद्वीपराजः प्रेषितवान्।**
** प्रपञ्चे अहम् एव बुद्धिमान् इति पुष्करद्वीपराजस्य भावना। अतः आगतस्य महामन्त्रिणः अवमाननं कृत्वा प्रेषयामि इति सः चिन्तितवान्।**
** दूरदर्शी महाद्वारम् आगतवान्। द्वारपालाः झटिति एव द्वारं पिहितवन्तः। राजा अपि आगत्य उपहसन् उक्तवान्— ‘भोः ! महामन्त्रिन् ! तत्र पश्यतु। शुनकानां प्रवेशार्थं रन्ध्रम् एकं दृश्यते किल ? यदि अन्तः प्रवेष्टुम् इच्छति, तेन एव रन्ध्रेण भवान् अपि प्रविशतु’ इति।**
** दूरदर्शी राजानं दूरतः एव नमस्कृत्य उक्तवान्– ‘यथा आज्ञापयति महाप्रभो ! वयं मनुष्याणां देशे मनुष्यणां द्वारेण एव प्रविशामः, शुनकानां देशे शुनकानां द्वारेण एव प्रविशामः। अस्माकं लक्ष्यं तु मैत्री एव। अतः शुनकद्वारेणएव प्रविशामि।’**
** एतत् श्रुत्वा पुष्करराजस्य मुखं लज्जया बिवर्णं जातम्। दूरदर्शिन महाद्वारेण एव प्रवेश्य, सिंहासनस्य पार्श्वे एकस्मिन् आसन्दे उपवेशितवान्।**
** दूरदर्शी अतीव वामनः आसीत्। अतः तस्य अपेक्षया अपि आसन्दः एव महान् दृश्यते स्म। पुनः तम् अवमानयितुं राजा पृष्टवान्– ‘भोः मन्त्रिन् ! भवतः बुद्धिः इव भवतां राज्यस्य जताः अपि वामनाः किम् ?’**
** ‘राजन् ! अस्माकं देशे वामनाः अपि सन्ति, प्रांशवः अपि सन्ति। अल्पेषु वामनाः प्रेष्यन्ते, उदारेषु प्रांशवः प्रेष्यन्ते। एषः च अस्माकं राज्यस्य नियमः। अतः भवतः समीपे अहं प्रेषितः’ इति दूरदर्शी उत्तरं दत्तवान्।**
** उत्तरं श्रुत्वा राज्ञः कपोलयोः चपेटिकायाः अनुभवः अभवत्। एतं मन्त्रिणं कथं वा अवमानयामि इति चिन्तितवान् राजा।**
** तदा पुरुषम् एकं बद्ध्वा आनीय भटाः उक्तवन्तः— ‘प्रभो ! एषः क्रौञ्चदेशीयः। अत्र चौर्यं करोति स्म। तत् वयं दृष्टवन्तः। तत्क्षणे एव बद्ध्वा आनीतवन्तः’ इति।**
** ‘भोः ! क्रौञ्चमन्त्रिन् ! भवतः राज्यस्थाः सर्वे अपि किं चोराः ?’ इति पुष्करराजः सोत्साहं पृष्टवान्।**
** क्रौञ्चमन्त्री उत्तरं दत्तवान्— ‘प्रभो ! एतद्देशस्य एषः प्रभावः यत् अत्र आगतानाम् अपि एतद्देशस्था बुद्धिः उत्पन्ना भवति। अस्माकं देशे चौर्यस्य वार्ता अपि न श्रूयते। भवदीयाः यदि आगच्छन्ति ते अपि चौर्यम् सर्वथा न कुर्वन्ति। अतः भवतः मैत्रीं सम्पादयितुम् अहम् अत्र आगतवान्।’**
** पराजितः पुष्करराजः उक्तवान्— ‘भवतः स्वामी अहं च इतः परं सखायौ।’**
** एवं वामनः दूरदर्शी स्वकार्यभारं यशस्वितया निरूढवान्। ततः सन्तोषेण स्वराज्यं प्रतिनिवृत्तवान्।**
चिन्तारहस्यम्
** जगन्नाथः एकः निर्धनः। तथापि सः सर्वदा प्रसन्नः उत्साही च। किन्तु एषु दिनेषु सः उदासीनः चिन्तामग्नः च दृश्यते स्म।**
** एतत् दृष्ट्वा आश्चर्यचकितः स्नेहितः सोमनाथः पृष्टवान्—“किं भोः मित्र ? अकस्मात् भवान् एवं परिवर्तितः” इति।**
** जगन्नाथः दीर्घं निश्वसन् उक्तवान्– ‘भवन्तं प्रति एतत् विषयं निवेदयामि’ इति चिन्तितवान् आसम्। किन्तु विस्मृतवान्। एतावत्पर्यन्तम् अहं निर्धनः आसम्। अतः काऽपिचिन्ता न आसीत्। किन्तु एतन्मध्ये मम मातुलः मृतः। तस्य पुत्रादयः न सन्ति। अतः तस्य द्विलक्षमिता सम्पत्तिः मम वशे आगता। दशदिनेभ्यः पूर्वं समीपग्रामवासिनी अन्या मातुलानी अपि मृतां। तस्याः पतिः पूर्वम् एव दिवङ्गतः। पुत्राः अपि तस्याः न सन्ति। अतः तस्याः लक्षमिता सम्पत्तिः अपि मम एव वशे आगता" इति।**
** तदा सोमनाथः आश्चर्येण पृष्टवान्— “एतावती सम्पत्तिः निरायासं प्राप्ता इति सन्तोष्टव्यम्। भवान् तु पुनः किमर्थं चिन्तामग्नः ?” इति। जगन्नाथः दीर्घं निश्वसन् पुनः उक्तवान्– ‘‘इतः परं मम बान्धवेषु निस्सन्तादः कोऽपि नास्ति किल ?" इति।**
चेष्टालवः पिशाचाः
** कस्मिंश्चित् ग्रामे अवतारः नाम कश्चित् युवकः आसीत्। सः स्वीयं विद्याभ्यासं समाप्य उद्योगस्य अन्वेषणार्थं कदाचित् नगरं गतवान्। सायङ्कालपर्यन्तं नगरे अटित्वा यदा सः गृहं प्रत्यागतवान् तदा तस्य माता तं दृष्ट्वा “किं भोः भवतः मातुलस्य पुत्री आदिलक्ष्मीः अस्ति किल। तस्याः विवाह श्वः प्रातः खलु ? किं विस्मृतवान् वा ? मम अस्वास्थ्यं तु जानाति एव। तत्र गन्तुम् अहं सर्वथा न शक्नोमि। अतः भवता एव अवश्यं गन्तव्यम्" इति उक्तवती।**
** “अम्ब ! अहं विस्मृतवान् आसम्। सकाले स्मारितवती। बाल्यात् आरभ्य तया सह क्रीडितवान्। एवं स्थिते विलम्बेन गमनं न उचितम्। अतः अहम् इदानीम् एव मातुल गृहं गच्छामि" इति उक्तवान् अवतारः।**
** “अस्मिन् अन्धकारे इदानीम् एव गच्छति वा ? मास्तु भोः। श्वः प्रातः गच्छतु। तावती त्वरा किमर्थम् ?" इति पृष्टवती माता।**
** “पश्यतु, अम्ब ! कीदृशी मनोहरा ज्योस्ना प्रसृता अस्ति ! अस्माकं ग्रामकुल्यायाः उपरि यः सेतुः अस्ति तेन मार्गेण गच्छामि चेत् मातुलगृहं प्राप्तुं घण्टाद्वयं पर्याप्तम्। किमपि भयं नास्ति" इति उक्त्वा अवतारः शीघ्रं शीघ्रं किञ्चित् भोजनं कृत्वा उत्तमवस्त्राणि घृत्वा प्रस्थितवान्।**
** सः कुल्यां प्राप्य सेतुम् आरुह्य शीघ्रं शीघ्रं गच्छन् अन्यस्मिन् पार्श्वे अवतीर्णवान्। तदनन्तरं तालवृक्षाणां एका वाटिका। वाटिकायाः मध्ये गमनार्थं काचित् एकपदी अस्ति। तदनन्तरम् अस्ति मातुलस्य ग्रामः।**
** अवतारः तालवृक्षाणां वाटिकायाः मध्ये गच्छन् आसीत्। तदा अकस्मात् पार्श्वस्थवृक्षतः त्रयः पिशाचाः अवप्लुल्य तस्य पुरतः**
आगत्य मार्गं निरुध्य स्थितवन्तः।
** अवतारस्य सर्वाणि अङ्गानि कायितानि। तदा पिशाचेषु अन्यतमः “भोः मानव ! भवतः आकारं पश्यामः चेत् धैर्यवान् इव प्रतीयते। एवं हि सति किमर्थं कम्पते भवान् ? भयं किमर्थम् ? एतस्यां रात्रौ कुत्र प्रस्थितवान् ?" इति पृष्टवान्।**
** अवतारः पूर्वापेक्षया अधिकं कम्पमानः “मम मातुलपुत्र्याः आदिलक्ष्म्याः विवाहार्थं गच्छन् अस्मि" इति उक्तवान्।**
** तस्य वचनं श्रुत्वा पिशाचाः ‘साधु ! साधु !" इति उच्चैः कोलाहलं कुर्वन्तः, नृत्यन्तः च “आदिलक्ष्म्याःवा भवतु, अनन्तलक्ष्म्याः वा भवतु। किं तेन अस्माकं भवेत् ? वयम् अपि तत्र आगच्छामः" इति उक्तवन्तः।**
** तेषां वचनानि श्रुत्वा अवतारः किञ्चित् धैर्यम् अवलम्ब्य “एतं वृत्तान्तं मम मातुलः जानाति चेत् मम मारणहोमं कुर्यात्। विवाहार्थं यः कोऽपि पिशाचान् नयति वा ?" इति पृष्टवान्।**
** “भवान् अस्मान् न नेष्यति चेत् इदानीम् एव वयं भवतः मारणहोमं कुर्मः। किं वदति ?” इति पृष्टवन्तः पिशाचाः।**
** एतेभ्यः पिशाचेभ्यः विमोचनं नास्ति इति ज्ञात्वा अवतारः “अस्तु तावत्। भवतां द्वारा मारणहोमापेक्षया मम मातुलद्वारा एव मारणहोमः भवतु। ततः पूर्वं आदिलक्ष्म्याः विवाहः निर्विघ्नं समाप्तः भवतु। यदि मया सह भवन्तः अदृश्यरूपेण आगच्छन्ति तर्हि समीचीनं भवति। नो चेत् भवतां दर्शनेन अनावश्यकः कोलाहलः भवेत्” इति उक्तवान्।**
“तस्मिन् विषये चिन्ता मास्तु।भवान् गच्छतु" इति उक्तवन्तः पिशाचाः।
** अवतारः अग्रे प्रस्थितवान्। पुनः पिशाचाः न दृष्टाः। किन्तु ते मायारूपेण अनुसरन्तः सन्ति इति सः ज्ञातवान्।**
** अवतारः मातुलगृहस्य समीपम् आगतवान्। ततः पूर्वम् एव तत्र उपस्थिताः पिशाचाः बहुमूल्यवस्त्राभरणादिभिः अलङ्कृताः**
अवतारस्य पुरतः एव विवाहगृहं प्रविष्टवन्तः। अवतारः एतत्सर्वं दृष्टवान्। तत्र कस्य अपि कोऽपि संशयः न उत्पन्नः।
** किन्तु अवतारः महता भयेन पुनः कम्पमानः विवाहवितानम् अतीत्य यदा गृहस्य द्वारसमीपं गतवान् तदा तस्य मातुलः तत्र आगत्य तं दृष्ट्वा “किं भोः ? किं जातं भवतः ? किमर्थम् एवं कम्पते ? कुशलं खलु ? आगमनेन श्रान्तः वा ? पार्श्वस्थं प्रकोष्टं गत्वा किञ्चित् विश्रान्तिं स्वीकरोतु" इति वदन् शीघ्रं शीघ्रं अन्यत्र गतवान्।**
** अवतारः प्रकोष्टं प्रविष्टवान्। तत्र एकं कटं तदुपरि एकम् उपधानं च स्थापयित्वा शयितवान्। अन्यत्र पिशाचाः स्त्रीयचेष्टाःआरब्धवन्तः।**
** वधूपक्षीयजनैः वरपक्षीयजनानां वासार्थम् एकं पृथक् गृहं तज्जीकृतम् आसीत्। पिशाचेषु एकः वरस्य माता इव स्त्रीयरूपं परिवर्त्य वधूप्रकोष्ठं प्रविष्टवान्।**
** तत्र आगच्छन्तीं वरजननीं दृष्ट्वा आदिलक्ष्म्याः माता उत्थाय आदरपूर्वकम् “आगच्छतु भगिनि, आगच्छतु" इति स्वागतं कृतवती।**
“भवद्भिः दीयमानं भक्ष्यभोज्यादिकं कीदृशम् अस्ति इति द्रष्टुम् आगतवती" इति उक्तवान् पिशाचः।
** तत्रैव एकस्मिन् कोणे कण्डोलेषु लड्डुकाः शष्कुल्यः मोदकानि इत्यादयः स्थापिताः आसन्। तान् सर्वान् आदिलक्ष्म्याः माता**
प्रदर्शितवती।
** पिशाचः एकम् अपूपं हस्तेन गृहीत्वा तं भक्षयन् “एतस्य अपूपस्य वर्णः भवत्याः पुत्र्याः वर्णसदृशः एव अस्ति। एतादृशं पुरातनं गुडं कुत्र लब्धवती भोः ?” इति पृष्टवान्। तस्य वचनं श्रुत्वा आदिलक्ष्मीः तस्याः माता च खेदम् अनुभूतवत्यौ।**
** अनन्तरं पिशाचः लड्डुकांदिसर्वेभ्यः भक्ष्येभ्यः किञ्चित् किञ्चित् गृहीत्वा खादन् तिरस्करवचनानि वदन् “अस्तु तावत्, इदानीं भाण्डद्वये शर्करान्नं दध्यन्नं च प्रेषयतु" इति उक्तवान्।**
** तदा आदिलक्ष्म्याः माता “इदानीं का त्वरा ? शीतलं भवति चेत् खादितुं समीचीनं न भवात किल ? सकाले सर्वं वयं प्रेषयामः " इति उक्तवती।**
** “अस्माकं गृहं या बाला आगमिष्यति तया पुरातनं पर्युषितं सर्वं खादितुम् अभ्यासः करणीयः। एताः लड्डुकाः दशद्वादशदिनेषु समीचीनं दुर्गन्धं प्राप्नुवन्ति। तावत्पर्यन्तं भवत्याः पुत्री शर्करान्नं दध्यन्नं च खादति। एतत् भवत्याः पुत्र्याः भक्षणार्थम् एव पृच्छन्ती अस्मि" इति उक्तवान् पिशाचः !**
** तत्रैव आदिलक्ष्मीः गौरीदेव्याः पूजार्थं सिद्धता कुर्वती आसीत्। पिशाचस्य वचनानि श्रुत्वा तस्याः वमनशङ्का उत्पन्ना। सा धावन्ती गृहस्य पृष्ठभागं गत्वा वमनं कृतवती।**
** तस्याः माता भयग्रस्ता भूत्वा सम्भ्रमेण पुत्र्या सह धावितवती। तदा झटिति पिशाचः। रूपपरिवर्तनं कृत्वा प्रकोष्ठतः बहिः गतवान्।**
** आदिलक्ष्मीः शीतजलेन मुखं क्षालयन्ती “अहं सर्वथा एतं विवाहं न इच्छामि” इति रोदनं कुर्वती मातरम् उक्तवती।**
** तस्याः वचनं श्रुत्वा पूर्वापेक्षया अधिकतरं भ्रान्ता तस्याः माता पतिम् अन्विष्यन्ती धावितवती।**
** अन्यत्र द्वितीयः पिशाचः वरस्य प्रकोष्ठं प्रति गतवान्। वरः गृहस्य अट्टे मशकानां बाधया पीडितः शयितवान् आसीत्।**
** पिशाचः वधूः इव रूपं परिवर्त्य हस्ते**
एकं व्यजनं गृहीत्वा वरस्य समीपं गतवान्।
** तां दृष्ट्वा वरः आश्चर्यचकितः भूत्वा “किमर्थं आगतवती ? किं जातं भवत्याः ? यः कोऽपि पश्यति चेत् न हसेत् वा ?" इति पृष्टवान्।**
** “हसतु नाम। अहम् अपि हसितुं जानामि। अत्र भवतः मशकैः महती पीडा भवति इति चिन्तया आगतवती। अस्माकं ग्रामस्य मशकान् दृष्ट्वा व्याघ्राः अपि भीत्या दूरं घावन्ति” इति वदन् पिशाचः व्यजनस्य त्सरुणा वरस्य हस्तं तीक्ष्णं ताडितवान्।**
** वरः ‘हा ! हा !’ इति हाहाकारं कृत्वा तूष्णीं स्थितवान्। किन्तु पुनः पिशाचः “ अत्र एकः मशकः अस्ति। तत्र अन्यः, अत्र अपरः, इति वदन् वरस्य सर्वाणि अङ्गानि ताडयितुम् आरब्धवान्।**
** तदा क्रुद्धः वरः “इदानीम् एतावता अलम्। तूष्णीं तिष्ठतु" इति वदन् पिशाचस्य हस्तस्थितं व्यजनम् आकृष्य गृहीतवान्।**
** पिशाचः अश्रूणि स्रावयन् “मशकानां निवारणार्थं प्रवृत्तम् अल्पं ताडनम् अपि सोढुम् असमर्थः भवान् क्रुद्धः भवति किल ? विवाहानन्तरं मम ताडनं कथं सह्यते भवता" इति पृष्टवान्।**
** “किम् उक्तम् ? विवाहानन्तरं मां ताडयिष्यति वा ?” इति आश्चर्येण वरः पृष्टवान्। “भवतः पाकः मह्यं न रोचते चेत्, अहं तूष्णीं स्थास्यामि वा ?" इति पृष्टवान् पिशाचः।**
** “मया पाकः अपि करणीयः वा?” इति वरः क्रोधेन पृष्टवान्।**
** “अथ किम् ? केवलम् उच्छिष्टपात्राणि शुद्धीकृत्य तूष्णीम् उपविशति वा ? तथा कर्तुं न शक्यते भोः ! गृहस्य मार्जनं, वस्त्राणां क्षालनं, पाककार्यम् इत्यादीनि सर्वाणि कार्याणि करणीयानि। इदानीम् एव वदामि" इति उक्तवान् पिशाचः।**
** तदा वरः उत्थाय" भवत्याः कर्मकरः अपेक्षितः, न पतिः !” इति उक्त्वा शीघ्रं शीघ्रं अट्टतः अवतीर्य, जननीजनकयोः समीपं**
गत्वा, सर्वंवृत्तान्तं श्रावयित्वा “अहं सर्वथा तां वधूम्, न इच्छामि” इति उक्तवान्।
** अपरक्षणे एव एकत्र वधूः, अन्यत्र वरः च एतं विवाहं न अङ्गीकुरुतः इति वार्ता सर्वत्र व्याप्ता अभवत्। महान् कोलाहलः च सञ्जातः।**
** तदा तत्र उपस्थिताः उभयपक्षीयाः बन्धु जनाः “किमिदं भोः ? किं पाञ्चालिकाक्रीडा इति चिन्तितं वा ? इदानीं किं जातम् ? स्पष्टं वदन्तु" इति उभयपक्षीयान् आहूय आग्रहं कृतवन्तः। तदा वधूपक्षीयाः वरपक्षं वरपक्षीयाः वधूपक्षं च निन्दितवन्तः। सर्वत्र महान् कोलाहलः श्रूयते स्म। एतस्य एतस्य अनर्थस्य कारणीभूतौ पिशाचौ, तयोः प्रेरकः तृतीयः पिशाचः च एकत्र सम्भूय स्वीयनाटकं समीचीनतया अभिनीतम् इति सन्तोषेण हसन्तः नृत्यन्तः च आसन्। अन्यत्र विवाहगृहस्य कोलाहलेन व्यथितः आदिलक्ष्म्याः पिता अकस्मात् अवतारं स्मृतमान्।**
** सः अवतारम् अन्विष्यन् तस्य प्रकोष्ठं प्रविश्य स्वेदप्रवाहेण क्लिन्नं तस्य शरीरं दृष्ट्वा अन्यान् आकारितवान्। “कः तत्र भोः ? यः कोऽपि गत्वा वैद्यम् आञ्जनेयम् आनयतु शीघ्रम्" इति उक्तवान् च। तत्र आगताः केचन “सः अत्रैव विवाहमण्डपे अस्ति। आनयामः” इति वदन्तः बहिः गतवन्तः।**
** तस्मिन् ग्रामे आञ्जनेयः एव प्रसिद्धः वैद्यः। आञ्जनेयस्य नामश्रवणसमनन्तरम् एव वस्त्राभरणादिभिः अलङ्कृताः पिशाचाः विकारस्वरेण आक्रोशं कुर्वन्तः कृष्णवर्णीयाः मार्जालाः भूत्वा अन्धकारे कुत्रचित् धावितवन्तः। एतत् सर्वं दृष्ट्वा केचन आश्चर्येण स्तम्भिताः। अन्ये केचन उच्चैः हसितवन्तः।**
** अनन्तरम् अवतारद्वारा सर्वं वृत्तान्तं सर्वे ज्ञातवन्तः। सर्वेषाम् अनर्थानां कारणीभूताः ते पिशाचाः एव इत्येतत् स्पष्टम् अभवत्। अनन्तरम् आदिलक्ष्म्याः विवाहः निर्विघ्नं सम्पन्नः।**
चोरस्य अन्वेषणम्
** कदाचित् रत्नगुप्तनामकस्य गृहे चौर्यम् अभवत्। गृहे स्थितानि दशसहस्रं सुवर्णनाणकानि अदृश्यतां गतानि। यस्मिन् प्रकोष्ठे धनपेटिका आसीत् तस्य पार्श्वे स्थिते प्रकोष्ठे चत्वारः सेवकाः शयनं कुर्वन्ति स्म। ‘चौर्ये एतेषां हस्तकौशलं स्यात् एव’ इति चिन्तितवान् रत्नगुप्तः।**
** रत्नगुप्तस्य स्वभावः अतीव मृदुः। सःकमपि दण्डयितुं किं, कठोरैः शब्दैः निन्दितुम्अपि न शक्नोति।**
** तस्य आत्मीयस्नेहितः सोमचन्द्रः। एषः तु अतीव बुद्धिमान् व्यवहारचतुरः च। तदा तदा रत्नगुप्तस्य साहाय्यं करोति अपि। रत्नगुप्तः एतस्मै सोमचन्द्राय प्रवृत्तं सर्वं निवेद्यउक्तवान्–“भोः ! कस्यापि खेदः यथा नस्यात् तथा एतेषु चतुर्षु चोरः कः इतिनिर्णेतव्यम्। तत् कथम् ?” इति।**
** “तद्विषये अहं व्यवस्थां करोमि” इति उक्त्वा सोमचन्द्रः तान् सेवकान् एकं प्रकोष्ठं नीतवान्। उक्तवान् च– “भोः पश्यन्तु। भवन्तः चत्वारः अपि धनपेटिका यत्र स्थापिता तस्य प्रकोष्ठस्य पार्श्वे एव शयनं कुर्वन्ति। चौर्यं तु कथञ्चित् पृवृत्तम्। रत्नगुप्तः सज्जनः इति कारणतः भवन्तः कारागारं न प्रेषिताः। यत् प्रवृत्तं तत् त्यजाम। अद्य सायङ्कालतः पूर्वं चोरितं धनं स्वस्थानम् आगच्छेत्। अन्यथा भवन्तः महासङ्कटे पतिताः भवन्ति। अतः जागरूकाः भवन्तु। एतदपि स्मरणे भवतु यत् यः स्वयं स्वकीयम् अपराधम् अङ्गीकरोति तम् उदारतया क्षाम्यति रत्नगुप्तः” इति।**
** सायङ्कालः अतीतः। धनं स्वस्थानं नआगतम्**
अनन्तरदिने सोमचन्द्रः एकस्मिन्प्रकोष्ठे उपविश्य एतान् सेवकान् एकैकशः आहूतवान्। प्रथमं धर्मवीरः प्रकोष्ठं प्रविष्ट
वान्।
** सोमचन्द्रः धर्मवीरम् उक्तवान्—“अये ! भवान् एव चौर्यं कृतवान्। एतद्विषये मम समीपे यथेष्ठं प्रमाणानि सन्ति। यदि भवान् प्रामाणिकतया चौर्यम् अङ्गीकृत्य चोरितं धनं प्रत्यर्पयति तर्हि भवन्तं क्षाम्यामि अहम्” इति।**
** धर्मवीरः आघातम् अनुभूतवान् इव स्तब्धः अभवत्। क्षणकालानन्तरं सः “दशवर्षेश्यः अहम् अत्र कार्यं कुर्वन् अस्मि। अद्यावधि एतादृशः अपवादः मया न श्रुतः। इदानीं तु कृतघ्नतायाः आरोपः श्रुतः। इतः परं मम जीवितेन किं प्रयोजनम् ? एतत्क्षणे एव प्राणाः यदि निर्गच्छेय्ः तर्हि वरं भवेत्” इति।बहुधा विलापं कृतवान्।**
** सोमचन्द्रः धर्मवीरं प्रेषितवान्। द्वितीयं सेवकं रङ्गम् अन्तः आहूतवान्। धर्मवीरं यानि वचनानि उक्तवान् तानि एव एतम् अपि उक्तवान्।**
** तदा रङ्गः भीत्या कम्पमानः– “श्रीमन् ! भवता एव रक्षणीयः अयं जनः। वस्तुतः अहं चौर्यविषये किमपि न जानामि” इति वदन् सोमचन्द्रस्य पादयोः पतितवान्।**
** “यदि भवान् वस्तुतः चौर्यं न कृतवान् तर्हि भीतिः किमर्थम् ? भवतः चौर्यं प्रमाणीकर्तुं मम समीपे स्थितान् आधारान् श्वः कथयिष्यामि। इदानीं गच्छतु भवान्” इति उक्त्वा तं प्रेषयित्वा तृतीयं रामनाथम् अन्तः आहूतवान् सोमचन्द्रः।**
** यदा सोमचन्द्रः रामनाथस्य उपरि चौर्यम् आरोपितवान् तदा क्रुद्धः रामनाथः “श्रीमन् ! युक्तायुक्ततां विचार्य वदतु भवान्। भवान् तु धनिकः। अहं सेवकः स्याम्। ममपि स्वाभिमानम् अस्ति। मिथ्यारोपं सोढुम् अहं कदापि न सिद्धः” इति गर्जितवान्।**
** “किं गर्जनेन मां भापयितुम् इच्छति ? भवादृशान् बहून् दृष्टवान् अहं मम जीवने। पार्श्वप्रकोष्ठे एव चौर्यं जातम्। यदि भवान् चोरः न स्यात् तर्हि भवान् तत् कथं न ज्ञातवान् ? रक्षणार्थम् इत्येव किल भवतः शयनव्यवस्था तत्र कृता ? गच्छतु इतः। श्वः पश्यामि भवतः विचारम्” इति उक्त्वा तंप्रेषितवान् सोमचन्द्रः।**
** अन्ते आगतः चन्द्रनाथः अपि चौर्यस्य आरोपं श्रुत्वा रामनाथः इव क्रोधेन गर्जितवान्। तदा सोमचन्द्रः पृष्ठवान् “यदा चोराः सर्वं चोरयन्तः आसन् तदा भवान् गाढनिद्रायाम् आसीत्। एतत् अपि अपराधाय किल ?” इति।**
** चन्द्रनाथः कोपेन एव–“श्रीमन् ! वयं गृहकार्यार्थं नियुक्ताः, न तु गृहरक्षणार्थम्। आदिनं परिश्रमेण कार्यं कुर्मः। अतः रात्रौ गाढनिद्रा सहजा। यदि अस्माभिः रक्षणाकार्यं करणीयं तर्हि तदर्थम् एव अस्मान् नियोजयन्तु। तदा वयं दिने विश्रान्तिं स्वीकृत्य रात्रौ रक्षणं कुर्मः। तत्सन्दर्भे यदि चौर्यं भवेत् तर्हि वयम् अपराधम् अङ्गी करिष्यामः” इति।**
** सोमचन्द्रः तम् अपि प्रषितवान्। ततः साक्षात् रत्नगुप्तस्य समीपं गत्वा—“एतत् चौर्यं चतुर्भिः अपि सम्भूय न कृतम्। धर्मवीरः रामनाथः च सर्वथा निर्दोषणौ। मम तु सन्देहः रङ्गस्य विषये एव। चन्द्रनाथः अपि साहाय्यं कृतवान् स्यात्। अनयोः गृहशोधनेन वस्तुस्थितिः स्पष्टीभविष्यति” इति उक्तवान्।**
** रत्नगुप्तः स्वगृहस्य पृष्ठभागे एतेषां सेवकानां कृते गृहाणि निर्माय दत्तवान् आसीत्। तेषां कुटुम्बसदस्याः तत्र सन्ति। एते तु रात्रौ केवलं रत्नगुप्तस्य गृहे शयनं कुर्वन्ति।**
** बहु अन्वेषणानन्तरम् अपि रङ्गस्य गृहे चन्द्रनाथस्य गृहे वा किमपि न लब्धम्। तदा सोमचन्द्रः रत्नगुप्तम् उक्तवान्—“इदानीं सिद्धं यत् चन्द्रनाथः निर्दोषी इति। रङ्गः एव वास्तविकः अपराधी। सः स्वयं चौर्यं कृतवान् स्यात्। अथवा चोराय साहाय्यम् आचरितवान् स्यात् अपि” इति।**
** “रङ्गस्य मुखतः सत्यं कथं बहिः आनाययामः” इति पृष्टवान् रत्नगुप्तः।**
** ‘सः यथा न जानीयात् तथा तस्य अनुसरणं सदा करणीयम्। एषः एव अवशिष्टः मार्गः” इति उक्तवान् सोमचन्द्रः।**
** रत्नगुप्तः एतदर्थं योग्यव्यवस्थां कृतवान्। एतदनन्तरं दशमे दिने रङ्गः विपण्यां कौशेयशाटिकां क्रीणानः अस्ति इति वार्ता श्रुता। तत्क्षणे सोमचन्द्रः तत्र गतवान्। अन्वेषणेन रङ्गस्य वस्त्रेषु शतं सुवर्णनाणकानि लब्धानि।**
** सोमचन्द्रः तर्जनस्वरेण तर्जनस्वरेण पृष्टवान्– “एतावन्ति सुवर्णनाणकानि भवतः समीपे कथम् आगतानि ?” इति।**
** रङ्गः किमपि वक्तुं न शक्नोति। भीत्या सः कम्पमानः अस्ति। सोमचन्द्रः तं रत्नगुप्तसमीपं नीतवान्।**
** ‘यथा सोमचन्द्रेण उक्तं तथा रङ्गः एव चोरः’ इति ज्ञात्वा रत्नगुप्तः आश्चर्यचकितः। अवशिष्टं धनम् आनेतुं सः रङ्गम् आदिष्टवान्।**
** रङ्गः कम्पमानस्वरेण उक्तवान्— “स्वामिन् ! वस्तुतः अहं चौर्यं न कृतवान्” इति।**
** “तर्हि कः चौर्यं कृतवान् ?” इति पृष्टवान् रत्नगुप्तः।**
** “यदि इदानीम् अहं सत्यं वदामि तर्हि धनगुप्तः मां मारयिष्यति” इति उक्तवान् रङ्गः।**
** धनगुप्तस्य नामश्रवणेन रत्नगुप्तः क्षणकालं स्तब्धः। धनगुप्तः तस्य पत्न्याः सहोदरः। गृहे वृथा अटति इति कारणतः तस्य श्वशुरः धनगुप्तम् अत्र प्रेषितवान् आसीत्।**
** “किं प्रवृत्तम् इति निर्भयेन वदतु। अहं भवतः रक्षणं करोमि” इति उक्तवान् रत्नगुप्तः।**
** तदा रङ्गः उक्तवान्— “श्रीमन् ! वयं यत्र प्रकोष्ठे शयनं कुर्मः तत्पार्शप्रकोष्ठे धनपेटिका अस्ति इति वयं जानीमः। अतः रात्रौ पर्यायक्रमेण अस्मासु कश्चित् जागरूकतया तिष्ठति। अन्ये शयनं कुर्वन्ति। तद्दिने एवं मम पर्यायः यदा आसीत् तदा धनगुप्तः मन्दं तत्र आगतवान्। तस्य हस्ते तीक्ष्णा छुरिका आसीत्। छुरिकां प्रदर्श्य ‘कमपि वदति चेत् भवन्तं मारयिष्यामि’ इति उक्त्वा कृतक-कुञ्चिकया प्रकोष्ठस्य द्वारम् उद्घाटितवान्।**
चोरिते धने मह्यं द्विशतं सुवर्णनाणकानि दत्तवान्। अहं तत् धनं धनगुप्तस्य प्रकोष्ठे एव रहस्यरूपेण स्थापितवान्” इति।
** सर्वं श्रुत्वा रत्नगुप्तः धनगुप्तस्य प्रकोष्ठस्य अन्वेषणं कारितवान्। तत्र अष्टशतं सुवर्णनाणकानि लब्धानि। धनगुप्तः सुलभतया एव स्वकीयम् अपराधम् अङ्गी-कृतवान्। रत्नगुप्तस्य पत्नी अनुजं सम्यक् तर्जयन्ती तं पितृगृहं प्रेषितवती।**
** अनन्तरं रत्नगुप्तः सोमचन्द्रम् आहूय पृष्टवान्– “भवतः प्रयत्नेन समस्या सुलभतया परिहृता। रङ्गः एव चोरः, अन्ये निर्दोषिणः इति भवान् कथं वा ज्ञातवान् ?”इति।**
** सोमचन्द्रः मन्द हसन् उक्तवान्— “अत्र मया विशेषपरिश्रमः कोऽपि न कृतः।निर्दोषिणः उपरि दोषारोपणं कुर्मः चेत् सः अत्यन्तं दुःखम् अनुभवति। धर्मवीरस्य उपरि यदा चौर्यारोपः कृतः तदा सः अतीवव्याकुलितः अभवत्। ‘एषः चोरः न’ इति तेन निश्चितम्। विशेषस्वाभिमानं नास्तीत्यतः धर्मवीरः विरोधं न कृतवान्। रामनाथः तु साक्षात् विरोधं कृतवान्। कर्तव्यच्युतिः यदा आरोपिता तदा मौनं स्थितवान्। चन्द्रनाथः तु चौर्यारोपं श्रुत्वा न केवलं क्रुद्धः अभवत्, अपि तु ‘गृहरक्षणम् अस्माकं दायित्वं न’ इत्यपि उक्तवान्। एतादृशेषु दोषित्वं निर्दोषित्वम् उभयम् अपि भवितुम् अर्हति। रङ्गः तु चौर्यारोपेण कम्पितः अभवत्। यः दोषी सः एव एवं भीतः भवति। अतः अहं निश्चितवान् यत् एषः चौर्यं न कृतवान् चेदपि चौर्यविषये सर्वं जानाति इति। अन्ते वस्तुस्थितिः अपि तथैव आसीत् किल ?” इति।**
** रत्नगुप्तः सोमचन्द्रस्य बुद्धिमत्तां विशेषतया प्रशंसितवान्।**
** “भवतः साहाय्येन चोरितं धनं पुनः प्राप्तम्। निर्दोषी कोऽपि पीडितः न अभवत्। अपराधी अपि इतः परं सन्मार्गे गच्छेत् इति मम विश्वासः। भवतः साहाय्यं सर्वदास्मरिष्यामि इति उक्तवान् च।**
]