[[लघुकथासङ्ग्रहः-२३ Source: EB]]
[
नृपनीतिः अनेकरूपा
हेमन्तपुरस्य राजा शूरसेनः। तस्य कोषस्य अध्यक्षः वीरभद्रः। जनाः वीरभद्रस्य विषये वदन्ति स्म यत् सः मिथ्यागणनां लिखन् धनं गिलन् अस्ति इति। केचन तु महाराजं दृष्ट्वा वीरभद्रस्य भ्रष्टाचारं निवेदितवन्तः।
कदाचित् राजा वीरभद्रं विचारणार्थं स्वसमीपम् आहूतवान्। तदा जनाः चिन्तितवन्तः यत् राजा वीरभद्रं पदच्युतं करिष्यति इति। किन्तु राजा— “भवता यत् कृतं तत् समग्रं ज्ञातम् अस्ति मया। इतःपरम् अपि यदि भवता एवं क्रियेत तर्हि अहं भवन्तं कठोरं दण्डयिष्यामि” इति उक्त्वा तं प्रेषितवान्। राज्ञः एतं व्यवहारं दृष्ट्वा जनाः आश्चर्यचकिताः। यतः राजा भ्रष्टाचारिणां विषये निर्दयं व्यवहरति स्म। वीरभद्रविषये किमर्थम् एवं मृदुता प्रदर्शिता इति तु केनापि न ज्ञातम्। महाराज्ञी अपि राज्ञः व्यवहारस्य आन्तर्यं न ज्ञातवती। अतः सा महाराजं पृष्टवती— “एतस्य व्यवहारस्य किम् औचित्यम्?” इति।
तदा राजा मन्दहासपूर्वकम् उक्तवान्— “वीरभद्रः स्वपुत्र्योः विवाहं निर्वर्तितवान्। वासार्थं गृहम् अपि निर्मितवान्। इदानीं सः पञ्चाशद्वर्षीयः। यदि अहं तम् उद्योगात् च्यावयेयं तर्हि सः अन्यत्र उद्योगं प्राप्तुं न शक्नुयात्। अतः तम् उद्योगच्युतं न कृतवान्। ‘भवता यद्यत् कृतं तत्सर्वं मया ज्ञातम् अस्ति’ इति स्मारयित्वा प्रेषितवान्। ‘इतः परं यदि वञ्चना क्रियेत तर्हि जीवनं कष्टकरं स्यात्’ इति जानन् सः प्रामाणिकतया व्यवहरिष्यति। यदि एतम् उद्योगात् निष्कास्य अन्यं नियोजयेयं तर्हि एतस्य कष्टम् इति एकम्, अपरं तु नूतनः पुनः भ्रष्टाचारं कर्तुम् अर्हति इति। अतः नूतनस्य स्वीकरणस्य अपेक्षया विद्यमानस्य परिष्करणं निग्रहणं च वरम् इति निर्णीतं मया” इति।
“वाराङ्गनेव नृपनीतिः अनेकरूपा” इति वदन्ती हसितवती महाराज्ञी।
नूतनः वैद्यः
रमाकान्तः नूतनतया वैद्यवृत्तिम् आरब्धवान् आसीत्। कदाचित् कश्चन कम्पनरोगपीडितः चिकित्सार्थं तस्य समीपम् आगतः। रमाकान्तः तस्मै औषधं तु दत्त्वा प्रेषितवान्, किन्तु स्वयं कम्पमानः जातः। एतत् दृष्ट्वा तदीया पत्नी सुनन्दा पृष्टवती — “किं जातं भवतः ?” इति।
“इदानीं कश्चन कम्पनरोगपीडितः आगतः आसीत्। तस्य स्पर्शतः मयि स च रोगः सङ्क्रान्तः इति भाति” इति उक्तवान्रमाकान्तः।
एतावत् सः कष्टेन उक्तवान्। तावता एव तस्य कण्ठः अवरुद्धः अभवत्। एतस्मात्भीता सुनन्दा रमाकान्तस्य मातुलस्य श्रीनाथस्य समीपं गतवती।
श्रीनाथः तु प्रसिद्धः वैद्यः। ततः एव तदीयः भागिनेयः रमाकान्तः चिकित्साशास्त्रम् अधीतवान् आसीत्। सुनन्दायाः वचनं श्रुत्वा श्रीनाथः झटिति रमाकान्तस्य गृहम् आगतवान्। रमाकान्तं सम्यक् परीक्ष्य सुनन्दाम् उक्तवान् सः —“एषः स्वस्थः एव अस्ति। एतस्य कोऽपि रोगः नास्ति। अतः दिनद्वयं यावत् भोजने केवलस्य कारवेल्लस्यउपयोगः भवतु। कारवेल्लस्य क्वथितं,तस्यैव व्यञ्जनम्, तस्यैव उपसेचनं च करोतु। कारवेल्लपर्णानि घृते भृष्ट्वा परिवेषयतु” इति।
सुनन्दा श्रीनाथस्यकथनस्य अनुगुणं पाकंसज्जीकृत्य पतिं भोजनार्थम् आहूतवती। सुनन्दया यदा परिविष्टं तदा कारवेल्लमयान्पदार्थान् दृष्ट्वा क्रुद्धः रमाकान्तः— “अये, किम् एतत् ?जीवने कदापि मया कारवेल्लनिर्मिताः पदार्थाः न खादिताः इति किं भवती न जानाति ?” इति उच्चस्वरेण पृष्टवान्।
पत्युः उच्चस्वरेण निन्दनतः सुनन्दा
किञ्चिदपि न खिन्ना।“अहो, शस्त्रचिकित्सां विना एव सम्भाषणशक्तिः पुनः प्राप्ता भवता। भवतः मातुलेन उक्तम् आसीत्— एवम् एव भविष्यति इति” इति उक्तवती सा।
‘यस्य विषये जुगुप्सा तादृशस्य वस्तुनः दर्शनतः मस्तिष्कं शस्त्रचिकित्सां विना एव सम्यक् भवति’ इति आलोचितवान् रमाकान्तः।
क्षणकालस्य अनन्तरं सः पत्नीं सुनन्दाम् उक्तवान्— ‘भवती लक्ष्मीकान्तस्य गृहं गच्छतु। तस्य पत्न्या सह जल्पनं कृत्वा उपायेन जानातु यत्लक्ष्मीकान्तपितुः अप्रियं किम् इति। लक्ष्मीकान्तस्य पिताकम्पनज्वरपीडितः सन् चिकित्सार्थं मम समीपम् आगतः आसीत्। तादृशस्य रोगस्य चिकित्साम् अजानन्, मातुलं प्रष्टुं सङ्कोचम्अनुभवन् अहं स्वयं रोगपीडितः इव अभिनयं कृतवान्। तेन चिकित्साक्रमः ज्ञातः” इति।
सुनन्दा पत्युः बुद्धिमत्तां दृष्ट्वा सन्तुष्टा अभवत्। लक्ष्मीकान्तस्य गृहं गतवती च। गमनसमये श्रीनाथः मिलितः। सः सुनन्दां पृष्टवान्— “भवत्याः पतिः कथम् अस्ति ? " इति। सुनन्दा वस्तुस्थितिं गोपयितुम् अशक्नुवती प्रवृत्तं समग्रं निवेदितवती।
एतत् श्रुत्वा श्रीनाथः हसन् उक्तवान्— “एवं किमपि स्यात् इति अहम् अपि चिन्तितवान् आसम्। वस्तुस्थितिं ज्ञातुम् अहं कारवेल्लचिकित्साम् उक्तवान्। किन्तु एतादृशस्य चिकित्सया लक्ष्मीकान्तस्य पिता स्वस्थः न भविष्यति। यतः वस्तुतः अपि सः कम्पनज्वरेण पीडितः अस्ति। एतदर्थम् अन्या एव चिकित्सा अस्ति” इति। अनन्तरं सुनन्दया सह रमाकान्तस्य गृहं गतवान्।
श्रीनाथः रमाकान्तं मृदुवचनैः तर्जयित्वा — “लक्ष्मीकान्तस्य पिता प्रथमं चिकित्सार्थं मम समीपम् आगतवान् आसीत्। अहं चिकित्सार्थम् अधिकं धनं पृष्टवान्।मम चिन्तनम् आसीत् यत् अधिकव्ययम् अनिच्छन् सः भवत्समीपम् आगमिष्यति, भवता यदि चिकित्सा क्रियते तर्हि भवतः कीर्तिः वर्धेत इति। भवतः
हितार्थम् अहम् एतावत् कुर्वन् अस्मि। किन्तु भवान् मां किमपि प्रष्टुं लज्जाम् अनुभवति। किम् एतत् उचितम् ?” इति उक्तवान्।
रमाकान्तः स्वकीयं दोषम् अङ्गीकृतवान्। अनन्तरं श्रीनाथः रमाकान्तं कम्पनज्वरचिकित्सायाः क्रमं बोधयित्वा स्वगृहं गतवान्। तदा रमाकान्तः पुनरपि कम्पमानः जातः।
“पुनः किमर्थं कम्पनम् ? पुनरपि चिकित्साप्रसङ्गः कोऽपि आगतः वा?” इति पृष्टवती सुनन्दा।
“मम कम्पनज्वरः इतोऽपि न गतः। कानिचन दिनानि मया शयनं करणीयम्। अहं लक्ष्मीकान्तपित्रे औषधं प्रेषयिष्यामि। किन्तु अन्यं कमपि रोगिणं द्रष्टुं न इच्छामि” इति उक्तवान् रमाकान्तः।
एतत् श्रुत्वा सुनन्दा हसन्ती उक्तवती— “प्रतिदिनं प्रातः सायं च हरतुलसीमूलनिर्मितं चूर्णं जले योजयित्वा दास्यामि। तदा भवान्यस्य कस्यापि साङ्क्रामिकरोगस्य चिकित्सां करोतु नाम, रोगप्राप्तेः भीतिः न भवति। व्यर्थभीत्या किमर्थं वृत्तौ अपख्यातिं सम्पादयति भवान्?” इति।
तदा रमाकान्तः आश्चर्येण पृष्टवान्— ‘अहं कम्पनज्वरात् भीतः इति कथं ज्ञातवती भवती ?” इति।“यदा वैद्यवृत्तेः आरम्भः क्रियते तदा एतादृशी भीतिः सहजा, मया अपि वृत्तेः आरम्भे एतादृशी भीतिः प्राप्ता आसीत् इति भवतः मातुलेन उक्तम्। ‘आवयोः समानः अनुभवः इत्यतः मम अनुभवस्य लाभः स्वीकृतः चेत् वरं खलु ?’ इत्यपि तेन उक्तम्” इति उक्तवती सुनन्दा ।
एतत् श्रुत्वा रमाकान्तः मौनम् आश्रितवान्। ‘मातुलस्य पुरतः गर्वप्रदर्शनं, चिकित्साविषये प्रश्नकरणे सङ्कोचः च मूर्खतायै एव’ इति चिन्तयन् रमाकान्तः स्वस्य व्यवहारस्य विषये लज्जाम् अनुभूतवान्। मातुलस्य साहाय्येन कालान्तरे ‘समर्थः वैद्यः’ इति कीर्तिं प्राप्तवान् च।
न्यायपालनम्
पूर्वतनकाले कश्चित् यवनराजः आसीत्। सः न्यायेन राज्यपालनं करोति स्म। प्रजाः सर्वाः अपि पुत्रवत् प्रीत्या पश्यति स्म सः। कस्यापि अन्याय्यं न इच्छति स्म सः।
एकस्मिन् दिने कश्चित् हस्ते स्यूतं गृहीत्वा महाराजस्य आस्थानम् आगत्य सभायां कोणे स्थितवान्। तं दृष्ट्वा पृष्टवान् राजा —“अये आगन्तुक ! भवन्तं पश्यामः चेत् किमपि वक्तुम् इच्छति इव भाति। कः विषयः ? वदतु तावत्” इति।
तदा सः आगन्तुकः उक्तवान्—“प्रभो, अहं कश्चित् वणिक्। केनचित् अधिकारिणा एव अहं वञ्चितः अस्मि” इति।
“भीतिः मास्तु। सधैर्यं वदतु— सः कः अधिकारी इति” इति उक्तवान् राजा।
तदा वणिक् उक्तवान्—“सर्वदा अहं वाणिज्यनिमित्तं प्रयाणं कुर्वन् भवामि। एवमेव कदाचित् प्रयाणसमये न्यासरूपेण द्विसहस्रं सुवर्णनाणकानि मुख्य धर्मगुरोः समीपे दत्तवान् आसम्। प्रत्यागत्य पश्यामि चेत्मया न्यासरूपेण दत्ते स्यूते सुवर्णनाणकानि न आसन्, अपि तु ताम्रनाणकानि आसन्” इति।
तदा राजा पृष्टवान्—“भवान् धर्मगुरोः हस्ततः यदा धनस्यूतं प्रतिस्वीकृतवान्, तदा स्यूतम् उद्घाट्य न दृष्टवान् वा?” इति।
“न। धर्मगुरौ मम सन्देहः न उत्पन्नः। यतः मया स्थापिता मुद्रा यथापूर्वम् आसीत्। अतः अहम्उद्घाट्य न दृष्टवान्” इति उक्तवान् वणिक्।
महाराजः किञ्चित्कालं चिन्तयित्वा उक्तवान्—“भवतु, इदानीम् एतं स्यूतम्अत्रैव स्थापयित्वा गच्छतु। अहं यदाआह्वयामि,तदा आगच्छतु। भवता यदि सत्यमेव उक्तं स्यात् तर्हि भवान् निश्चयेन
न्यायं प्राप्नोति। किन्तु भवता उक्तं यदि असत्यं, तर्हि भवतः दण्डनं निश्चितम्” इति।
राजसभायाः कार्यक्रमाः समाप्ताः। महाराजः उत्थाय स्वभवनं गतवान्। ‘यदिवणिक् सम्यक् मुद्रां स्थापितवान् स्यात्, तर्हि स्यूते कथम् सुवर्णनाणकानां स्थाने ताम्रनाणकानि भवितुं शक्यन्ते?’ इति वणिजः व्यवहारस्य विषये एवचिन्तयन् अस्ति राजा।
सुदीर्घचिन्तनस्य अनन्तरं राज्ञः मनसि कश्चन उपायः स्फुरितः। राजा झटिति सभास्थानं गतवान्। सिंहासनस्य उपरि पुरतः च स्थापितं रत्नकम्बलं नखैः छित्वा स्वभवनं गतवान्।
अनन्तरदिने उषसि एव राजा मृगयार्थं प्रासादतः निर्गतवान्। प्रातः स्वच्छतार्थं सभाभवनम् आगतः सेवकः छिन्नं रत्नकम्बलं दृष्ट्वा नितरां भीतः। सः धावन् गत्वा मुख्यव्यवस्थापकम् आनीय सर्वं प्रदर्शितवान्।
तदा सः मुख्यव्यवस्थापकः उक्तवान्— " न जाने, केन एवं कृतम् इति। अस्तु, तावत्। नगरे मोहम्मदः नाम कश्चन चतुरः सौचिकः अस्ति। तम् अत्र आनयतु। वस्त्रच्छेदः किञ्चिदपि यथा न दृश्येत तथा सीव्यति सः” इति।
सेवकः मोहम्मदस्य समीपं गत्वा प्रवृत्तं समग्रं निवेद्य— “वस्त्रच्छेदः सर्वथा यथा न दृश्येत तथा सीव्यतु कृपया। छेदं यदि राजा
जानीयात् तर्हि मम शिरच्छेदं कारयेत्” इति उक्तवान्।
“भोः, भीतिः मास्तु भवतः। रजतनाणकद्वयं ददातु। रत्नकम्बलं यथापूर्वं यथा दृश्येत, सीवनं कृतम् इति यथा न दृश्येत तथा नैपुण्येन सीवनं करिष्यामि” इति उक्तवान् सौचिकः मोहम्मदः।
सेवकः रजतनाणकद्वयं सौचिकाय दत्तवान्। अनन्तरं तौ राजप्रासादं गतवन्तौ। सौचिकः सीवनकुशलः आसीत् इत्यतः सः तथा सीवनं कृतवान् यत् परीक्ष्य दृष्टं चेदपि सीवनचिह्नं कुत्रापि न दृश्यते स्म। एतत्दृष्ट्वा सः सेवकः तृप्त्या निःश्वसितवान्।
सूर्यास्तसमये राजा मृगयां समाप्य प्रासादं प्रत्यागतवान्। अश्वात् अवतीर्य सः साक्षात्सभाभवनं प्रविष्टवान्।सिंहासनस्थं रत्नकम्बलं परीक्षितवान् सः। तच्च यथापूर्वं दृश्यते स्म। सः स्वच्छताकर्तारंसेवकम् आहूय पृष्टवान्— “एतत् कम्बलं तत्र तत्र छिन्नम् आसीत् खलु ?” इति।
सेवकः भीत्या कम्पमानः— “प्रभो, कम्बलं कुत्रापि छिन्नं न आसीत्” इति उक्तवान्।
“अये! असत्यं वदति वा भवान्? ह्यः मया एव स्वयं कम्बलं छिन्नम् आसीत्। सत्यं वदतु, एतत् सीवितवान् सौचिकः कः ?” इति कोपेन पृष्टवान् राजा।
सेवकः भीत्या कम्पमानः— “मोहम्मदः नाम सौचिकः सीवनं कृतवान्” इति वदन्प्रवृत्तं समग्रं निवेदितवान्।
राजा तत्क्षणे एव भटद्वारा सौचिकं मोहम्मदम् आनायितवान्। वणिजः व्यवहारस्य सम्बन्धिनं स्यूतं प्रदर्शयन्पृष्टवान् सः — “एतं स्यूतम् इतः पूर्वं दृष्टवान्वा भवान् ?” इति।
सौचिकः मोहम्मदः स्यूतं सम्यक् परीक्ष्य— “एषः स्यूतः मया इतः पूर्वं दृष्टः एव। प्रधानः धर्मगुरुः समीकरणार्थम् एतं स्यूतं मत्समीपम् आनीतवान् आसीत्। यत्र मुद्रया कीलितं तत्रैव सीवनं कृतं मया” इति उक्तवान्।
राजा सौचिकं प्रेषयित्वा भटद्वारा धर्मगुरुम् आनायितवान्। वणिजा कृतम् आरोपं निवेद्य—“धर्मगुरुः सन् वञ्चनं कुर्वतः भवतः लज्जा न भवति वा? धर्मस्य उपदेशकः एव वञ्चनां कर्तुम् उद्युक्तः भवति चेत् लोकस्य का वा गतिः ? एतादृशेन कृत्येन न केवलं भवतः, अपि तु ममापि अवमाननम्। मम धवलां कीर्तिं मलिनीकृतवान् भवान्” इति उक्तवान्।
तदा धर्मगुरुः—“शत्रुपक्षीयः कोऽपि भवन्तं मिथ्यावार्तां निवेदितवान् स्यात्। मया कोऽपि कदापि न वञ्चितः” इति सधैर्यम् उक्तवान्।
“अये धूर्त! वञ्चनां कृत्वा निर्लज्जम्असत्यम् अपि वदति भवान्? सर्वं परिशील्यभवान् वञ्चितवान् इति निर्णीय एव अहं भवन्तम् अत्रआनायितवान्। एतं स्यूतंपश्यतु। एतस्य स्यूतस्य सीवनं कृतवान्सौचिकः मोहम्मदः अत्र साक्षी” इति वदन्धर्मगुरोः पुरतः स्यूतं क्षिप्तवान्।
स्यूतस्य दर्शनात् मोहम्मदस्य नाम्नः श्रवणात् च धर्मगुरोः मुखं विवर्णं जातम्। सःअपराधम् अङ्गीकृत्य क्षमां प्रार्थितवान्।
राजा धर्मगुरोः बन्धनार्थं भटान्आदिष्टवान्। एवं धर्मगुरुः बन्दी जातः।
अनन्तरदिने राजा वणिजम् आनाय्य—“उच्चस्थाने स्थितं महावञ्चकं भवान्सूचितवान् इत्यतः एतत् उपायनं स्वीकरोतु कृपया” इति उक्त्वात्रिसहस्रं सुवर्णनाणकानि दत्तवान्।
पादरक्षायोगी
चन्द्रसेननामकस्य राज्ञः आस्थाने हासभूषणः नामविदूषकः आसीत्।विदूषकस्य अपूर्वं चातुर्यम्। विदूषकविषयेसन्तुष्टः राजा कदाचित् उक्तवान्— “भवान्यत् इच्छति तत् दास्यामि का अपेक्षा इति वदतु तावत्” इति।
तदा हासभूषणः विनयेन—“प्रभो, विदूषकस्य जीवनम् असिधाराव्रतम् इव। अतः यदा आवश्यकता तदा वरं स्वीकरिष्यामि। इदानीं किमपि मास्तु” इति। राजा अस्तु इति उक्तवान्।
चन्द्रसेनराजस्य पुत्रः रुद्रसेनः। रुद्रसेनः मातापितृभ्यां महत्या प्रीत्या लालितः आसीत्। शिक्षणार्थं सः गुरुकुलं प्रेषितः। गुरुकुले यदा गुरुः किमपि अप्रियं वदति तर्जयति वा, तदा रुद्रसेनः राजधानीम् आगच्छति स्म। द्वित्राणां दिनानाम् अनन्तरं राजा गुरुकुलं प्रतिप्रेषयति स्म। राजकुमारं कठोरं दण्डयितुं, राजधानीं पुनः पुनः मा गच्छतु इति वक्तुं वा गुरोः धैर्यं नास्ति। राजा कुपितः भवेत् इति भीतिः तस्य।
चन्द्रसेनस्य पुत्रविषये वात्सल्याधिक्यं, सत्यम्। तथापि पुत्रस्य अध्ययनं सम्यक् न प्रचलति इति खेदः तु तं बाधते स्म। कदाचित्सः स्वस्य मनोव्यथां विदूषकं निवेदितवान्।
तदा विदूषकः उक्तवान्— “राजकुमारस्य किम्? यदा इच्छा तदा राजप्रासादे वासः। अतः मातापित्रोः अपरिमितं वात्सल्यं प्राप्नोति सः। गुरुकुले अध्ययनम् अपि प्रचलति एव। सुखी सः” इति।
“किं सुखम्? गुरोः वचने अल्पा तीक्ष्णता दृष्टा चेदपि सः प्रासादं प्रत्यागमिष्यति। अतः सः महत् दौष्ट्यम् आचरति चेदपि, अध्ययनं सम्यक् न करोति चेदपि दण्डनं न प्राप्नोति।
अत्र वयं तं मधुरैः वचनैः बोधयित्वा पुनः प्रेषयामः। पुत्रः कथं परिष्करणीयः इत्येव न ज्ञायते मया” इति खेदेन उक्तवान् राजा।
“प्रभो, धनसम्पत्तिः, प्रभुत्वम्, अविवेकिता इति एतेषु एकैकम् अपि अनर्थकारकम्। त्रयम् अपि अस्ति चेत् अनर्थपरम्परा एव सम्भवति। एतादृशस्य बोधनेन किम्? सिकताभ्यः तैलं प्राप्तुं शक्येत, शशशृङ्गम् अपि अन्वेष्टुं शक्येत। किन्तु मूर्खंसन्मार्गे आनेतुं कोऽपि न शक्नोति” इति उक्तवान् विदूषकः।
एतत् श्रुतवतः चन्द्रसेनस्य महान् कोपः आगतः। “भोः, मम पुत्रं मूर्खशिखामणिं वदति वा भवान्? कियत् औद्धत्यं भवतः? भवन्तं कारागारे स्थापयिष्यामि” इति क्रोधेन उक्तवान् राजा।
तदा विदूषकः विनयेन—“प्रभो, अज्ञानात्किमपि उक्तम्। क्षन्तव्यः अहम्” इति प्रार्थितवान्। तदा राज्ञः कोपः चतुर्गुणितं प्रवृद्धः। अन्ते विदूषकः राज्ञा पूर्वं दत्तं वरं स्मारयित्वा — “यदि अहं दण्डनीयः एव इति भवतः आशयः तर्हि तदपि भवतु। किन्तु दण्डनप्रमाणे न्यूनता भवतु। देवालयम् आगच्छतां जनानां पादरक्षामार्जने मां नियोजयतु। एतेन ममापि किञ्चित् तृप्तिः, भवतः अभीष्टस्य अपि सिद्धिः। दण्डनार्थम् अहं तत्र स्थापितः इति तु कमपि मा वदतु’ इति प्रार्थितवान्।
पादरक्षामार्जनं तु अपमानकरं कार्यम्। अतः एतत् एव दण्डनं भवितुम् अर्हति इति निश्चित्य राजा अङ्गीकारं सूचितवान्। अनन्तरदिने एव विदूषकः देवालयस्य पुरतः उपविश्य देवालयसमीपे अटतः जनान् उक्तवान्— “भो भो आर्याः, देवालयम् आगच्छतां जनानां पादरक्षां मार्जयिष्यामि इति मया सङ्कल्पः कृतः। एतादृशं कार्यं कृत्वा अहङ्कारभावः दूरीकरणीयः इति मम इच्छा। कृपया भवन्तः सहकुर्वन्तु” इति।
आरम्भे केचन तस्य उपहासं कृतवन्तः। किन्तु विदूषकः एतत् अविगणयन् सर्वेषां पादरक्षां मार्जयति स्म। सदा शुचिः सन्गीतापारायणम् अपि करोति स्म।
धनिकनिर्धनभेदं न गणयति स्म। सदा विनयेन व्यवहरति स्म। अतः केषुचित् एव दिनेषु बहवः तद्विषये आदरवन्तः जाताः। मार्जितायाः पादरक्षायाः स्वीकारसमये केचन कृतज्ञतापूर्वकं नमस्कृतवन्तः। अन्ये केचन परमभक्ताः तं साष्टाङ्गं नमस्कृतवन्तः। एवं जनानाम् आदरं प्राप्नुवन् सः ‘पादरक्षायोगी’ इति ख्यातः अभवत्। ‘येषां पादरक्षां सः मार्जयति तेषाम् अभीष्टं सिध्यति’ इत्यपि वार्ता प्रसृता। अतः तस्य कीर्तिः सर्वत्र व्याप्ता अभवत्।
‘कश्चन पादरक्षायोगी मन्दिरसमीपे अस्ति’ इति वार्ता राज्ञा श्रुता। सः कुतूहलेन एतस्य विशिष्टस्य योगिनः दर्शनार्थम् आगतवान्। विदूषकः एव सः योगी इति। ज्ञातवतः तस्य महत् आश्चर्यम् !
विदूषकः राज्ञः पादरक्षां मार्जयित्वा सर्वान् पश्यन् उक्तवान्—“अद्य मम व्रतं समाप्तम्। मम स्थाने कोऽपि उपवेष्टुम् इच्छति चेत् अग्रे आगच्छतु” इति।
तदा अहमहमिकया बहवः अग्रे आगतवन्तः। तदा तेषु एकं चित्वा पादरक्षायोगिस्थाने उपवेश्य— “यदा अहङ्कारः गतः इति भवान् चिन्तयति तदा अन्यम् अत्र उपवेश्य गच्छतु” इति उपदिश्य राज्ञा सह राजप्रासादं गतवान् विदूषकः।
तत्र राजा विदूषकम् आश्चर्येण पृष्टवान्— “मया कोपेन पादरक्षामार्जनरूपः दण्डः विहितः। किन्तु भवान् योगी कथं सञ्जातः? " इति।
तदा विदूषकः मन्दहासपूर्वकम् उक्तवान्— “यदि ऋषिः कश्चन अधोमुखं तिष्ठति तर्हि तत् तपः इति उच्यते। चोरेण तथा क्रियमाणं दृष्ट्वा दण्डः इति उच्यते। एवं समयानुगुणम् उत्तमम् अधमं वा फलं सिद्ध्यति। भवान् दण्डः इति अनुद्घोष्ययस्मिन् कस्मिंश्चित् कार्ये मां नियोजयतु, अहं गौरवं प्राप्स्यामि। पादरक्षामार्जनं दण्डरूपेण विहितम् इति यदि भवान् प्रचारम् अकरिष्यत्तर्हि जनाः थूत्कुर्वन्तः मां पाषाणखण्डैः अताडयिष्यन्। किन्तु दण्डः इति घोषणं न कृतम् इत्यतः जनाः मां योगी इति पूजितवन्तः " इति।
“तदस्तु। एतादृशे कार्ये उद्युक्तस्य भवतः कः आशयः इति न ज्ञातं मया। आशयं विवृणोतु तावत्” इति उक्तवान् राजा।
“प्रभो! लालने बहवो दोषाः इति प्राचीनाः वदन्ति। यदा दोषः क्रियते तदा तदनुगुणं दण्डः दातव्यः। दोषसमये दण्डः न दत्तः चेत्परिष्कारः न भवति। दण्डदानेन युवराजस्य अल्पः खेदः भवेत् नाम, किन्तु तत् तेनसोढव्यम्। विना कारणं यदा सः राजभवनं प्रत्यागच्छति तदा एतत् अनुचितम् इति बोधयित्वा झटिति गुरुकुलं प्रति प्रेषणीयम्। दोषकरणप्रवृत्तिः कदापि न प्रोत्साहनीया। दण्डः परिष्कारार्थं विधीयते। स च प्रकटं विधातव्यः। तदा एव तस्य परिणामः” इति उक्तवान् विदूषकः।
राजा चन्द्रसेनः क्षणकालम् आलोच्य— “भवता सत्यम् एव उक्तम्। दोषी अवश्यं दण्ड्येत। स च दण्डः च प्रकटतया विधातव्यः। तदा एव तस्य फलं सिद्ध्यति। अतः गुरुकुलस्य आचार्यम् अद्यैव वदामि यत्राजकुमारः यदा दोषं करोति तदा सर्वेषां पुरतः एव दण्डविधानं भवतु इति” इति उक्तवान्। विदूषकं योग्यस्य पुरस्कारस्य दानेन सत्कृतवान् च।
पुनः अचिरात् एव राजकुमारे परिवर्तनं जातम्। सः सम्यक् अध्ययनं कृत्वा कालान्तरे उत्तमः राजा इति कीर्तिंप्राप्तवान्।
पक्षपातव्यवहारः
“श्यामलपुरनामके ग्रामे जानकी नाम काचित् धनिकगृहिणी आसीत्। तस्याः द्वौ पुत्रौ, एका पुत्री च। यदा जानकी त्रिंशद्वर्षीया आसीत् तदा एव तस्याः पतिः दिवङ्गतः आसीत्। अतः सा क्षेत्रादीनां रक्षणं योग्येन क्रमेण कुर्वती सम्पत्तेः वर्धनम् अपि कुर्वती पुत्रान् अपि सम्यक् पोषितवती। युक्ते काले पुत्र्याः पुत्रयोः च विवाहम् अपि निर्वर्तितवती सा।
जानक्याः ज्येष्ठपुत्रस्य द्वौ पुत्रौ, कनिष्ठपुत्रस्य एका पुत्री, एकः पुत्रः च जाताः। पुत्र्याः अपि एका पुत्री जाता। इदानीं जानकी वृद्धा।गच्छता कालेन जानक्याः पौत्राः प्रवृद्धाः। स्वपुत्राणां विद्याभ्यासस्य विषये यदा पुत्रौ चिन्तां प्राप्तवन्तौ तदा जानकी तौ उक्तवती — “अत्रत्यां भूमिं भवन्तौ रक्षितुं समर्थौ। अतः भवन्तौ अत्र कृषिकार्यं कारयताम्। अहं पौत्रैः सह नगरे वासं करिष्यामि। भाटकगृहे कस्मिंश्चित् वासं कुर्वती तान् योग्यं विद्यालयं प्रेषयिष्यामि। विरामदिनेषु तैः सह अत्र आगमिष्यामि’’ इति।
मातुः प्रस्तावं ससन्तोषम् अङ्गीकुर्वन्तौ पुत्रौ उक्तवन्तौ— “भवती यथा आवां योग्येनक्रमेण पोषितवती तथैव आवयोः पुत्रान् अपि पोषयतु। भवत्याः मार्गदर्शनं प्राप्य तेसदाचारवन्तः विनयशीलाः च भवन्तु” इति।
जानकी पौत्रैः सह नगरं गतवती। समीचीनं भाटकगृहम् अन्विष्य वासं कृतवती। योग्ये विद्यालये पौत्राणां प्रवेशम्अपि कारितवती। केषाञ्चिद्दिनानाम्अनन्तरं कदाचित् जानक्याः पुत्री जामाता च स्वपुत्र्या सह तत्र आगतवन्तौ।
पुत्री मातरम् उक्तवती— “अम्ब! भवत्याः मार्गदर्शने अग्रजयोः पुत्राः यथा विद्याभ्यासं कुर्वन्तः सन्ति तथैव मम पुत्री अपि भवत्याः मार्गदर्शने एव विद्याभ्यासं करोतु इति मम इच्छा। भवतीं प्रष्टुम् एव अहम् अत्र आगतवती” इति।
“पौत्राः यथा तथैव दौहित्री अपि मम प्रिया एव। सा एतैः सह एव अत्र निवसतु नाम” इति ससन्तोषम् उक्तवती जानकी। एवं दौहित्री अपि तत्र वासं कृतवती।
किन्तु तस्मात् दिनतः पितामह्याः व्यवहारे पक्षपातव्यवहारः दृष्टः पौत्रैः। सा सर्वान् अपि पौत्रान् प्रीत्या एव पश्यति, किन्तु दौहित्रीं किञ्चिदिव अधिकया प्रीत्या पश्यति स्म। सर्वान् अपि समानपङ्क्त्याम् उपवेश्य सर्वेभ्यः दधिघृतादिकं प्रीत्या परिवेषयति, किन्तु दौहित्र्यै अधिकं परिवेषयति। पौत्राः अनुचितं कार्यं कुर्वन्ति चेत् तर्जयति सा, किन्तु दौहित्र्याः विषये मृदुतां प्रदर्शयति। दौहित्री यत् इच्छति तत् ददाति दापयति वा। ‘नास्ति’ इति, ‘मास्तु’ इति वा तां कदापि न वदति।
पौत्राः एतत्सर्वं जानन्ति स्म। किन्तु पितामह्याः विषये स्थितायाः भक्तेः भीतेः च कारणतः च ते मौनं तिष्ठन्ति स्म। मनसि एव खेदम् अनुभवन्ति स्म च। पौत्रेषु ज्येष्ठः विवेकः। सः नाम्नः अनुगुणं विवेकी अपि। अतः सः पितामह्याः व्यवहारस्य विषये खेदं न अनुभवति स्म।
विरामसमये सर्वे ग्रामं गतवन्तः। पौत्राः पितामह्याः पक्षपातपूर्णं व्यवहारं स्वमातरं
निवेदितवन्तः।
सर्वं श्रुत्वा उभे अपि स्नुषे खिन्ने कुपिते च। ते निश्चितवत्यौ यत् एवं किमर्थं कृतम् इति श्वश्रूः साक्षात् प्रष्टव्या इति। तावता विवेकःतत्र आगतः। विवेकः तु पितामह्यां दोषं नआरोपितवान् आसीत्। अतः ते विवेकंपृष्टवत्यौ — “विवेक! नगरे पितामह्याः व्यवहारः पक्षपातपूर्णःआसीत् इत्येतत् सत्यंवा?” इति।
तदा विवेकः उक्तवान्— “मया तु पितामह्याः व्यवहारे पक्षपातः कोऽपि नदृष्टः। सा स्वदौहित्रीं प्रीत्यतिशयेन पश्यति स्म, परिवेषणसमये घृतादिकम् अधिकतयापरिवेषयति स्म इति तु सत्यम्। किन्तु तत्रगोपनं किमपि न आसीत्” इति।
“एवं तर्हि सा दौहित्र्यै घृतादिकम् अधिकं परिवेषयति स्म इति तु सिद्धम्। तथा किमर्थंकरणीयम् आसीत् तया ? सर्वेभ्यः अपि अधिकं परिवेषयितुं शक्यम् आसीत् खलु ?” इतिउक्तवती विवेकस्य माता।
तदा अनङ्गीकारपूर्वकं शिरः चालयन् उक्तवान् विवेकः— “अम्ब! वयं सर्वेपितामह्याः गृहस्य एव बालकाः। दौहित्री तुअन्यगृहतः आगताबालिका। अतः पितामहीतां किञ्चित् प्रीत्यतिशयेन दृष्टवती।अस्मान् अपि प्रीत्या दृष्टवती एव, न तुअनादरेण। अतः पितामह्याः व्यवहारः योग्यःएव आसीत् इति भावयामि अहम्” इति।
यावत् विवेकस्य माता प्रतिवचनं किमपि वक्तुम् उद्युक्ता तावता पार्श्वस्थप्रकोष्ठेस्थित्वा सर्वं श्रुतवती जानकी बहिः आगत्यउक्तवती —“विवेकः वयसा अल्पः, किन्तुतस्य चिन्तनं योग्यम् अस्ति। मम दृष्ट्या सर्वेसमानाः एव। इतः परं प्रतिमासंदधिघृतादिकम् अधिकम् एव क्रेष्यामि। सर्वेयावत् इच्छन्ति तावत् परिवेषयामि येनसमस्या परिहृता स्यात्” इति।
वस्तुस्थितेः विवेचनं सम्यक् अकृत्वा यत्चिन्तितं तद्विषये पश्चात्तापम् अनुभूतवत्यौ स्नुषे। ते श्वश्रूं क्षमां प्रार्थितवत्यौ।
पण्डितस्य आदरः
चन्दनपुरनामके ग्रामे कुशलः नाम कश्चन पण्डितः आसीत्। तस्मिन् ग्रामे कृषिकर्मनिरताः वाणिज्यनिरताः च जनाः अधिकाः। अतः कुशलस्य पाण्डित्यस्य अभिज्ञाता पुरस्कर्ता च कोऽपि न आसीत्। अतः कुशलः महता कष्टेन जीवननिर्वहणं कुर्वन् आसीत्। उद्योगान्तरस्य आश्रयणे आसक्तिः न आसीत् कुशलस्य। अतः सः राजतः धनसाहाय्यं प्राप्तुं राजधानीं प्रति गतवान्।
किन्तु राजधान्यां महता प्रयत्नेन अपि सः राजदर्शनं न प्राप्तवान्। तादृशे सन्दर्भे अकस्मात् पूर्वपरिचितः धिषणः मिलितः। धिषणः अपि चन्दनपुरे एव जन्म प्राप्तवान् आसीत्। सः कुशलस्य आत्मीयः अपि। दशभ्यः वर्षेभ्यः पूर्वं सः कृषिं वाणिज्यं वा कर्तुम् अनिच्छन् ग्रामतः निर्गत्य राजधानीं प्राप्तवान् आसीत्। मधुरैः वचनैः सः जनानां वशीकरणे समर्थः आसीत्। अतः सः अल्पे एव काले राजास्थाने उद्योगं प्राप्तवान् आसीत्। पुनः अचिरात् एव राज्ञः आत्मीयः जातः आसीत् अपि।
धिषणः कुशलम् उक्तवान्— “अहं राजदर्शनं कारयिष्यामि। किन्तु राज्ञः तोषणं तु भवतः कार्यम्” इति। एतत् श्रुत्वा कुशलः नितरां सन्तुष्टः। सः धिषणस्य प्रस्तावम् अङ्गीकृतवान्।
अनन्तरदिने राज्ञः दर्शनं प्राप्तम्। राजा कुशलस्य पाण्डित्यं दृष्ट्वा नितरां सन्तुष्टः। सः कुशलम् उक्तवान् — “भवान् राजास्थाने एव तिष्ठतु” इति।
तदा कुशलः उक्तवान्—“महाराज! जन्मस्थले चन्दनपुरे एव वासः करणीयः इति मम इच्छा। अतः भवान् यदि धनसाहाय्यं
कुर्यात् तर्हि अहं ग्रामे कृषिक्षेत्रं क्रीत्वा कृषिं कुर्वन् जीवेयम्” इति।तदा राजा पञ्चाशत् सहस्रं सुवर्णनाणकानि दत्त्वा उक्तवान्— “राजनीतिसम्बद्धः कश्चन ग्रन्थः मम समीपे अस्ति। चाणक्यनीतौ अपि अनुक्ताः केचन अपूर्वाः विषयाः अत्र निरूपिताः सन्ति इति विद्वांसः वदन्ति। किन्तु अत्र उपयुक्ता शैली प्रौढाः कठिना च। एतादृशीं शैलीं सामान्याः सर्वे ज्ञातुं न शक्नुवन्ति। अतः भवान् एतस्य ग्रन्थस्य व्याख्यानं सरलया शैल्या लिखतु। प्रतिफलरूपेण अहं पुनरपि पञ्चाशत् सहस्रं सुवर्णनाणकानि दास्यामि " इति।
राज्ञः प्रस्तावम् अङ्गीकृत्य कुशलः ग्रन्थंस्वीकृत्य स्वगृहं गतवान्। तस्य गमनस्य अनन्तरं राजा धिषणम् उक्तवान्— “मम आस्थानं प्रति आगमनानन्तरं भवता यानि कार्याणि कृतानि तेषु कुशलस्य परिचयः कारितः यत् तत् मम महते सन्तोषाय” इति। एतदनन्तरम् अपि राजा धिषणस्य पुरतः कुशलस्य प्रंशसां बहुधा कृतवान्।
राज्ञः एषः व्यवहारः धिषणस्य असूयायै अभवत्। ‘राजा कुशलस्य विषये एवं प्रसन्नः स्यात्’ इति चिन्तितं न आसीत् तेन। ‘अहं दशेभ्यः वर्षेभ्यः अत्र अस्मि।जीवननिर्वहणार्थं यावत् आवश्यकं तावत्केवलं धनं सम्पादयामि अहं, न तु ततोऽपि अधिकम्। किन्तु कुशलः प्रथमपरिचय-सन्दर्भे एव पञ्चाशत्सहस्रं रूप्यकाणि प्राप्तवान्’ इति आलोच्य धिषणः निर्णीतवान्यत् केनापि उपायेन राजा कुशलस्य विषये अनादरवान् यथा स्यात् तथा करणीयम् इति। अतः सः राजसमीपं गत्वा उक्तवान्— “प्रभो, कुशलस्य परिचयः कारणीयः इति चिन्तनं बहोः कालतः पूर्वम् एव मम मनसि आसीत्। किन्तु गर्वशीलः कुशलः मम एतं प्रस्तावं निराकृतवान् आसीत्। इदानीं तु उदरम्भरणसमस्या यदा आगता तदा सः भवतः समीपम् आगतः। भवद्विषये अनादरवान् सः” इति।
राजा सर्वं श्रुतवान्। किन्तु कामपि प्रतिक्रियां न प्रदर्शितवान्। एवम् एव षट्
मासाः अतीताः। राजा कदाचित् धिषणम् आहूय उक्तवान्— “कुशलः मया सूचितस्य ग्रन्थस्य व्याख्यानं कथं कुर्वन् अस्ति इति मया ज्ञातव्यम् इति इच्छा। भवान् वार्ता सम्प्रेष्य तम् आनाययति वा?” इति।
तदा धिषणः चिन्तितवान् यत्कुशलविषये अनादरम् उत्पादयितुम् एषः सुसमयः इति। अतः सः कुशलं प्रति कामपि वार्तांन प्रेषितवान् \। दिनद्वयस्य अनन्तरं राजानं दृष्ट्वा सः उक्तवान्—“प्रभो! कुशलः वार्तां प्रेषितवान् अस्ति यत् अहम् इदानीं राजानं द्रष्टुम् आगन्तुं न शक्नोमि इति” इति।
इदानीं राजा कुशलविषये क्रुद्ध्यति इति चिन्तितवान् धिषणः। किन्तु राजा किञ्चिदपि न कुपितः। सः क्षणकालं विचिन्त्य उक्तवान्— “एतद्विषये मया एव दोषः आचरितः। एकवर्षात्मकः अवधिः मया सूचितः आसीत्। तदभ्यन्तरे कुशलस्य दृष्टेः अन्यत्र आकर्षणम् उचितं न मया एव तस्य समीपं गन्तव्यम्। अतः श्वः एव तं द्रष्टुं गमिष्यामि अहम्” इति।
‘राजा यदि स्वयं चन्दनपुरं गच्छेत् तर्हि मया यत् कृतं तत् प्रकटितं भवेत्’ इति आलोच्य धिषणः— “प्रभो, अहम् एव अद्य गत्वा तं सम्यक् बोधयित्वा अत्र आनेष्यामि " इति उक्त्वा तस्मिन् एव दिने चन्दनपुरं गतवान्।
सः कुशलस्य गृहं गत्वा — “भवतः श्रेष्ठता अद्य मया ज्ञाता। महाराजः भवतः पाण्डित्यं
दृष्ट्वा आदरं यत् प्रकटितवान् तत् दृष्ट्वा अहम् असूयां प्राप्य महाराजम् असत्यम् उक्त्वा आपदं स्वयं स्वागतीकृतवान्” इति उक्त्वा प्रवृत्तं समग्रं निवेद्य प्रार्थितवान्— “इदानीम् अहं भवता एव रक्षणीयः। मया यत्कृतं तत् ज्ञातं चेत् महाराजः माम् उद्योगात्च्यावयेत्, कारागारे च स्थापयेत्” इति।
“भवतः रक्षणार्थम् एकः एव उपायः। भवान् राजसमीपं गत्वा तं वदतु यत्राजदर्शनं कर्तुम् अहं न अङ्गीकृतवान् इति। तदा भवता पूर्वं यत् उक्तं तत् वचनं परिपुष्टं भवति। अग्रे राजा किं वा कुर्यात् इति तु पश्याम” इति उक्तवान् कुशलः।
धिषणः मित्रस्य सज्जनत्वं प्रशंसन्कृतज्ञता वचनानि उक्त्वा ततः प्रस्थितवान्। यावत् सः ग्रामात् बहिः गतवान् तावता राज्ञः रथम् अभिमुखम् आगतम्।
धिषणः राजानं नमस्कृत्य उक्तवान्— “प्रभो, राजधानीम् आगन्तुं मम समयः नास्ति इति कुशलः उक्तवान्। श्रुत्वा देवः प्रमाणम्” इति।तदा राजा हसन् उक्तवान्— “युक्तं व्यवहृतं कुशलेन। मया यत् कार्यं दत्तं तत् असमाप्य मम समीपम् आगन्तुं न इच्छति सः। भवतः कथनतः सः न आगच्छति इति जानन् अहम् एव स्वयम् अत्र आगतः” इति।
अनन्तरं राजा कानिचन दिनानि चन्दनपुरे एव स्थितवान्। कुशलेन सह ग्रन्थविषये चर्चां कुर्वन् विषयम् अवगच्छन् तृप्तिं प्राप्य राजधानीं प्रतिगतवान्।
एतत् सर्वं दृष्ट्वा चन्दनपुरवासिनः ज्ञातवन्तः यत् धिषणसदृशः राजसमीपं गत्वाबहूनि कार्याणि करोति चेदपि सर्वाणि स्वार्थदृष्ट्या एवं करोति। कुशलसदृशः पण्डितः ग्रामे तिष्ठति चेत् अपि ग्रामस्य कीर्तिः सर्वत्र प्रसरति इति।
एतदनन्तरं चन्दनपुरीयाः कुशलम्आदरेण द्रष्टुम् उद्युक्ताः अभवन्। ततः आरभ्य चन्दनपुरे पण्डिताः कलाकाराः च आदरं प्राप्तवन्तः।
परिणयार्हः कः?
बहुभ्यः वर्षेभ्यः पूर्वं चीनादेशस्य
कस्मिंश्चित् ग्रामे कश्चन धनिकः आसीत्। तस्य एकमात्रपुत्री आसीत्। तस्याः सौन्दर्यम् अपूर्वम्। समर्थस्य गुरोः सकाशात् तया योग्यः विद्याभ्यासः कृतः आसीत्।
धनिकपुत्री प्राप्तवयस्का जाता। तस्याः विद्यानैपुण्यं सौन्दर्यं च श्रुत्वा धनिककुले जाताः त्रयः युवकाः तां परिणेतुम् अग्रे आगतवन्तः।
धनिकः विविधैः प्रश्नैः तान् त्रीन् अपि परीक्षितवान्। किन्तु त्रयाणाम् अपि बुद्धिबलं समानं दृष्टं तेन। एतेषु कः श्रेष्ठः इति कथं निर्णयः इति न जानाति धनिकः।
‘योग्यस्य वरस्य चयनं मम बुद्धिमती पुत्री एव करोतु’ इति आलोच्य धनिकः पुत्रीं सर्वं निवेदितवान्।तदा धनिकपुत्री—“अस्तु, मया एव खलुएतेषु अन्यतमः परिणीयते? अतः योग्यस्य
चयनं करिष्यामि इति उक्तवती। किन्तु दौभाग्यवशतः अनन्तरदिने एव सा अस्वस्था जाता। मासं यावत् तस्याः अस्वास्थ्यम् अनुवृत्तम्।
अस्वास्थ्यं क्रमशः व्याधिरूपेण परिवृत्तम्। वैद्यानां विविधाः चिकित्साः अपि विफलाः जाताः। धनिकपुत्री प्राणैः वियुक्ता अभवत्।
तस्याः मरणं ज्ञातवतां त्रयाणाम् अपि युवकानाम् इदानीं महत् दुःखम्। ते त्रयः अपि सम्भूय उद्याने गर्तं खनित्वा श्वेताभिः अमृतशिलाभिः अलङ्कृतम् एकं शवस्तूपं निर्मितवन्तः।
तेषु अन्यतमः तस्य शवस्तूपस्य पार्श्वे एव उपविश्य पुष्पैः शवस्तूपम् अलङ्कुर्वन् अन्तर्निहितेन दुःखेन दह्यमानः दिनानि
यापयति स्म।
अपरः युवकः पुत्रीवियोगेन नितरां खिन्नस्य धनिकस्य सेवां कुर्वन् धनिकगृहे एव वासं कृतवान्।
तृतीयः युवकः तु वैराग्यं प्राप्य संन्यासं स्वीकृत्य ज्ञानार्जनेच्छया योग्यस्य गुरोः अन्वेषणं कुर्वन् ग्रामात् ग्रामम् अटितवान्।
कदाचित् सः संन्यासी युवकः ज्ञातवान् यत्समीपस्थे ग्रामे कश्चन महापण्डितः अस्ति इति। सः पण्डितः न केवलं सर्वशास्त्रपारङ्गतः, अपि तु अपूर्वाः शक्तीः स्वाधीनीकृतवान् आसीत् अपि।अतः संन्यासियुवकः तस्य पण्डितस्य दर्शनार्थं गतवान्।
सः पण्डितः संन्यासिनं युवकम् आदरेण स्वागतीकृत्य तदीयानां संशयानां योग्यम्उत्तरं दत्तवान्। भोजनार्थम् आत्मना सह युवकम् अपि नीतवान्।
भोजनसमये पण्डितस्य दशवर्षीयः पुत्रः आगत्य ‘तत् आवश्यकम्’ ‘एतत्आवश्यकम्’ इत्येवं पितरं बहुधा पीडितवान्। अल्पे एव काले पण्डितस्य असहना प्रवृद्धा। ‘अये मूर्ख! अनुक्तग्राहिन् !” इति कोपेन, निन्दन् पार्श्वस्थे ज्वलति अग्नौ पुत्रं बलात् पातितवान् पण्डितः।
एतत् दृष्टवतः युवकस्य महत् आश्चर्यं, भीतिः जुगुप्सा च। सः पण्डितं नररूपिणं राक्षसं भावयन् उक्तवान्— “श्रीमन् ! महाशक्तिशाली पण्डितः भवान् विवेकी इति अहं चिन्तितवान् आसम्। किन्तु भवतः कृत्यतः मया निर्णीतं यत् भवान् राक्षसात् अपि अधमः इति” इति।
युवकसंन्यासिनः उद्वेगयुक्तं वचनं श्रुत्वा अपि पण्डितः शान्ततया मन्दहासपूर्वकम् उक्तवान्— “वचनानि कृत्यानि च परिशील्य कः कीदृशः इति निर्णेतव्यम् इति तु सत्यम् एव। किन्तु मम विषये तथा न। लौकिकदृष्ट्या भवान् मम कृत्यं पश्यन् अस्ति। अतः मदीयं कृत्यम् अमानुषम् इति भवान् चिन्तयति। आत्मनः योग्यतायाः अनुगुणं चिन्तितं भवता” इति।
‘अलम् आत्मसमर्थनेन। कन्दम् इव पुत्रम्
अग्नौ निर्दयं पातयतः भवतः कृत्यं किम्अमानुषं न? नरभक्षी अटविकः इव व्यवहृतवान् भवान्” इति कोपेन उक्तवान्युवकसंन्यासी।
पण्डितः उत्तरं किमपि अवदन्मन्दहासपूर्वकम् एव मन्त्रं जपन् पञ्चषाः मुद्राः कृतवान्। तावता पण्डितस्य पुत्रः पुष्पराशितः इव अग्नितः बहिः आगत्य मन्दहासपूर्वकं पितुः समीपं गत्वा पितरं प्रीत्या आलिङ्गितवान्। पुत्रस्य शरीरे अल्पः अपि व्रणः न आसीत्।
एतत् दृष्ट्वा युवकसंन्यासी महत् आश्चर्यम् अनुभवन् पण्डितं साष्टाङ्ग नमस्कृत्य— “महात्मन् ! भवतः अलौकिकं कृत्यं पामरः इव निन्दितवान् अहम्। क्षन्तव्यः अहम्” इति उक्त्वा पण्डितस्य अनुग्रहतः मृतोज्जीवनमन्त्रं ज्ञात्वा तं कृतज्ञतावचनानि उक्त्वा मन्त्रं पुनः पुनः स्मरन् ततः निर्गतवान्।
ततः निर्गतः सः धनिकपुत्र्याः शवस्तूपस्य समीपं गत्वा मन्त्रम् उच्चारयन् विविधाः मुद्राः कृतवान्। तावता धनिकपुत्री मन्दहासपूर्वकं शवस्तूपतः बहिः आगत्य स्थितवती।
एषा वार्ता धनिकेन अपि श्रुता। सः धावन्पुष्पोद्यानं प्रति आगतवान्। पुत्रीं प्रीत्या पुनः पुनः आलिङ्ग्य—“वत्से, पुनर्जन्म प्राप्य मां सन्तोषसागरे निमज्जितवती। एतेषु त्रिषु अन्यतमं परिणीय एतं मम सन्तोषं द्विगुणितं करोतु " इति उक्तवान्।
धनिकपुत्री किमपि वक्तुं यावत् उद्युक्ता तावता प्रथमः युवकः उक्तवान्— “भवतीं परिणेतुम् अर्हः अहम् एव। वृष्टिं शैत्यं तापं च अविगणयन् भवतीं स्मरन् अहम् अहोरात्रं शवस्तूपस्य पार्श्वे एव उपविष्टवान् आसम्” इति।
द्वितीयः युवकः उक्तवान्— “भवत्याः मरणस्य अनन्तरं भवत्याः पितुः सेवां कुर्वन्तस्य आरोग्यं रक्षन् अहं दिनानि यापितवान्। भवत्याः प्रियस्य पितुः योगक्षेमं दृष्टवान् अहम् एव योग्यः वरः” इति।
तृतीयः युवकः उक्तवान्—‘भवत्याः वियोगतः विरक्तिं प्राप्य संन्यासव्रतं गृहीत्वा ग्रामात् ग्रामम् अटन् महापण्डितस्य कस्यचित्सकाशात् अपूर्वं मन्त्रं प्राप्य अहं भवतीम् उज्जीवितवान्। यदि अहं भवतीम्उज्जीवितवान् न स्यां तर्हि भवती पुनर्जीवनं विवाहावकाशं वा प्राप्तवती न स्यात्। भवत्याः अभ्युदयस्य मूलं कारणम् अहम्। अतः भवतीं परिणेतुम् अर्हः अहम् एव” इति।
त्रयाणाम् अपि वचनं श्रुत्वा हसन्ती धनिकपुत्री उक्तवती —“मम मरणानन्तरं मम पितुः यः आधाररूपेण आसीत् सः पितुः पुत्रः इव। अतः मम सहोदरः इव। संन्यासं स्वीकृत्य ग्रामात् ग्रामम् अटन् अपूर्वं मन्त्रं प्राप्य मां यः उज्जीवितवान् सः परोपकारी मम जन्मदाता पिता इव। यः माम् एव स्मरन्शवस्तूपस्य पार्श्वे उपविश्य महान्तम्अनुरागं प्रदर्शितवान् सः एव मम प्रियः। तम्एव परिणेष्यामि अहम्। पितृतुल्यं सोदरतुल्यं च विनयेन प्रार्थये मत् आशीर्वादेन अहम्अनुग्रहणीया इति” इति।
धनिकः पुत्र्याः वचनं पुरस्कुर्वन् सा यम् इष्टवती तस्मै एव तां दत्तवान्। विवाहं सवैभवं निर्वर्तितवान् च।
संन्यासी पुनरपि वैराग्यंप्राप्य तपश्चरणार्थम् अरण्यं गतवान्। सोदरतुल्यः च धनिकस्य सेवां कुर्वन् धनिकस्य पुत्रः इव एव जातः।
प्रपितामहः
जयसिंहः कश्चन सैनिकः आसीत्। यदा सः सैनिकः आसीत् तदा श्रद्धया राजसेवां कृतवान् आसीत्। वयसः कारणतः सः निवृत्तिं प्राप्य ग्रामे वासम् आरब्धवान्। कदाचित् राजधानीं गतः सः पुरातनवस्तुविक्रयणस्थलं दृष्टवान्। कुतूहलेन आपणस्य अन्तः गतवान् च। तत्र मध्यवयस्कस्य कस्यचित् तैलवर्णचित्रम् आसीत्। चित्रस्थः मध्यवयस्कः गम्भीरमुखः सन् खड्गं बाणवारकं च हस्ते गृहीतवान् आसीत्। एतत् चित्रं जयसिंहाय नितराम् अरोचत।
आपणिकः जयसिंहस्य चित्रदर्शनासक्तिं दृष्ट्वा उक्तवान्— “श्रीमन् ! पञ्चषशतवर्षेभ्यः पूर्वं स्थितस्य कस्यचित् वीरस्य चित्रम् एतत्। एतस्य नाम किमिति न ज्ञायते। किन्तु एतस्य विषये एवं हि श्रूयते यत् एषः युद्धक्षेत्रं गतः चेत् सहस्रं सैनिकान् संहृत्य एव खड्गं कोषे स्थापयति स्म, न तु ततः पूर्वम्इति। एतस्य मूल्यं वस्तुतः सार्धशतं रूप्यकाणि। किन्तु भवान् परमासक्त्या एतत् चित्रं पश्यन् अस्ति इत्यतः शतरूप्यकमूल्येन एतत् दास्यामि। स्वीकरोतु। मूल्यविषये पुनः विवादः मास्तु” इति।
जयसिंहः स्वसमीपे विद्यमानं धनं गणितवान्। आहत्य नवतिः रूप्यकाणि एव आसन्। अतः सः तत् चित्रम् क्रेतुम् अशक्नुवन् ततः निर्गतवान्।
ततः मासस्य अनन्तरं सः सैनिकवृत्तितः निवृत्तिं प्राप्तवतः खड्गसिंहस्य गृहं गतवान्। तत्र तेनतदेव चित्रं दृष्टं यच्च क्रेतुं सः न शक्तवान् आसीत्।
आश्चर्यचकितं जयसिंहम् उक्तवान् खड्गसिंहः— “मित्र ! एषः मम प्रपितामहः। पूर्वं रुद्रपुरयुद्धं नाम घोरं युद्धं प्रवृत्तम्। तत्र एषः मम प्रपितामहः शत्रून् कदलीसस्यानि इव संहृत्य वीरस्वर्गंप्राप्तवान्” इति।
तदा दीर्घं निश्श्वस्य उक्तवान् जयसिंहः — “गतमासे मत्समीपे दशोनशतं रूप्यकाणि केवलम् आसन्। यदि तत्काले कोषे दश रूप्यकाणि अधिकानि अभविष्यन् तर्हि चित्रे दृश्यमानः एषः मम प्रपितामहः अभविष्यत्” इति।
पुष्पकविमानम्
दानशूरपुरं पूर्वं धीरसिंहः नाम राजा पालयति स्म। कदाचित् सः राजोद्याने शिलासने उपविश्य प्रमुखैः राजोद्योगिभिः सह वार्तालापं कुर्वन् आसीत्।
वार्तालापमध्ये सः अकस्मात् आकाशं पश्यन्— “तत्र पश्यन्तु। अहो विमानम्! विमाने प्रायः गन्धर्वाः सन्ति इति भाति” इति उक्तवान्।
तदा चन्द्रकेतुः नाम उद्योगी आकाशं पश्यन् उक्तवान्— “अहो परमाश्चर्यम्! भवतः दृष्टिशक्तिः नितरां तीक्ष्णा। तत्पुष्पकविमानं स्यात्। पुष्पकविमाने स्थिताः गन्धर्वाः, यक्षाः, देवताः वा स्युः” इति।
“सत्यम्। तत् पुष्पकविमानम् एव। विमानस्थः तु गन्धर्वः एव” इति उक्तवान्सूर्यकान्तः नाम अपरः उद्योगी।
एवं सर्वे उद्योगिनः राज्ञः वचनं समर्थितवन्तः। “नाविष्णुः पृथिवीपतिः इति प्राचीनवचनम्। राजा देवांशसम्भूतः इत्यतः तत् विमानं द्रष्टुं शक्तवान्। तावदेव न,अनुग्रहबुद्ध्या पामरेभ्यः अस्मभ्यम् अपि प्रदर्शितवान्” इति राज्ञः प्रशंसाम् अपि कृतवन्तः ते।
तत्र उपविष्टेषु राजपुरोहितस्य पुत्रः पद्मनेत्रः अपि अन्यतमः। सः तक्षशिलायां स्थित्वा उन्नतविद्याभ्यासं समाप्य आगतवान्आसीत्। सर्वेषु राज्ञः प्रशंसां कुर्वत्सु, पद्मनेत्रः मौनं स्थितवान् आसीत्।
एतत् परिशील्य राजा धीरसिंहः मन्दहासपूर्वकं पृष्टवान्— “पद्मनेत्र ! किमर्थं मौनव्रतम् आश्रितम् ? सर्वैः दृष्टं विमानं भवता न दृष्टं वा?” इति।“प्रभो, एतस्य उत्तरं भवतः अप्रियं स्यात्। अतः अभयं दत्तं चेत् अहम् उत्तरं वदेयम्’
इति उक्तवान् पद्मनेत्रः।
“काऽपि भीतिः मास्तु। निस्सङ्कोचं वदतु तावत्” इति उक्तवान् राजा धीरसिंहः।
“प्रभो, आकाशे किमपि विमानं न गतम्।विमानं गतम् इति तु भ्रमः एव” इति उक्तवान् पद्मनेत्रः।
“अत्रत्यैः सर्वेः विमानं दृष्टम् अस्ति। भवान् तु वदति—भ्रमः इति। भवतः दृष्टिदोषः स्यात् वा?” इति पृष्टवान्धीरसिंहः।
तदा पद्मनेत्रः विनयेन उक्तवान्—“प्रभो, मम दृष्टिदोषः कोऽपि नास्ति। वस्तुतः पुष्पकविमानं गन्धर्वसञ्चारः इत्यादयः काल्पनिकाः विषयाः। पामराणां तोषणार्थं ते विषयाः पुराणेषु प्रस्तूयन्ते। भवता बुद्ध्या भ्रमेण वा पुष्पकविमानं दृष्टम् इति उक्तम्। तदा अत्रत्याः एते भवतः प्रीतिं सम्पादयितुम् इच्छन्तः, भवान् देवांशसम्भूतः महात्मा इति, भवान् आश्रितानुग्राहकः इति च भवतः प्रशंसां कृतवन्तः। ‘वन्ध्यासुतः दृष्टः’ इति भवान् वदतु। तदा भवत्प्रीत्यर्थम् आश्रिताः वदन्ति— ‘आम्, अस्माभिः अपि सः दृष्टः ’ इति। स्वार्थाभिलाषुको लोकः” इति।
तदा धीरसिंहः उक्तवान्—“साधु, पद्मनेत्र साधु। अप्रियम् अपि विषयं सधैर्यं वदतः भवतः स्पष्टवादिता नितरां प्रशंसार्हा। देशे यद्यत् प्रचलति तत्सर्वं ज्ञात्वा अप्रियम् अपि सधैर्यं वक्तुं समर्थः कश्चन साहाय्यकः मम आवश्यकः आसीत्। अतः अहम् अत्रत्यानां परीक्षार्थं ‘पुष्पकविमानं दृष्टं मया’ इति उक्तवान्। मया मिथ्या उक्ता इति अत्र कैश्चित् वा ज्ञातं स्यात् एव। ते अपि मम प्रीतिं सम्पादयितुं, जानन्तः अपि मिथ्याम् उक्तवन्तः। पद्मनेत्रेण एकेन एव सधैर्यं व्यवहृतम्।स्पष्टवादिता प्रदर्शिता। एतादृशः एव मम साहाय्यकः भवितुम् अर्हति। एतादृशः अस्ति चेदेव अहं मम शासनस्य लोपदोषान् अपि ज्ञातुं शक्नोमि। अतः इतःपरं पद्मनेत्रः मम साहाय्यकपदम् अलङ्कृत्य मम साहाय्यं करिष्यति” इति।
राज्ञः पाचकः
सिंहकेतुः नाम राजा पूर्वम् आसीत्। परमेशः तस्य पाचकः आसीत्। सः राज्ञः निमित्तं केवलं पचति स्म। अतः सर्वे तं ‘राज्ञः पाचकः’ इति वदन्ति स्म। कदाचित् राज्ञ्याः अनुजः भगिनीं द्रष्टुम्
आगतः। तदा राज्ञी परमेशम् उक्तवती यत् अद्य मम अनुजाय अपि पाकं सज्जीकरोतु इति। किन्तु परमेशः एतत् स्पष्टैः वचनैः निराकृतवान्। तदा कुपिता राज्ञी भटान् आज्ञापितवती यत् एतं बद्ध्वा नीत्वा महाराजस्य पुरतः उपस्थाप्य एतस्य औद्धत्यं निवेदयन्तु इति।
राजा भटैः निवेदितं श्रुत्वा परमेशं पृष्टवान्— “किमर्थं भवान् राज्ञ्याः आज्ञां धिक्कृतवान्?” इति। तदा परमेशः उक्तवान्— “प्रभो, अहं राज्ञः भवतः पाचकः। अतः भवदर्थं केवलं पाकं करोमि, न तु अन्यस्य निमित्तम्” इति।
परमेशेन या राजभक्तिः प्रदर्शिता तां दृष्टवतः राज्ञः महान् सन्तोषः जातः। ‘परमेशेन या राजभक्तिः प्रदर्शिता सा आस्थाने सर्वेषां पुरतः वक्तव्या’ इति चिन्तयन् राजा परमेशम् उक्तवान्— “भोः, अहं भवते शतं रजतनाणकानि दास्यामि। भवान् राज्ञ्याः अनुजस्य निमित्तं पाकं करोतु " इति। अङ्गीकारपूर्वकं शिरः चालयन् उक्तवान् परमेशः “यथाज्ञापयति प्रभुः” इति।
एतत् श्रुत्वा आश्चर्येण पृष्टवान् राजा— “सद्यः एव भवता उक्तं यत् अहं राजनिमित्तं केवलं पाकं करोमि, न तु अन्यस्य निमित्तम् इति। इदानीं तु शतं रजतनाणकानि प्राप्यन्ते इति मत्वा अन्यनिमित्तम् अपि पाकं कर्तुं सिद्धः जातः। किम् एतत् उचितम् ? " इति।
तदा परमेशः उक्तवान्— “प्रभो, अहं भवतः सेवकः। अतः भवदर्थं केवलं पाकं करोमि। अतः एव अन्यस्य निमित्तं पाककरणं निराकृतवान् अहम्। इदानीं तु भवान् एव वदन् अस्ति — अन्यस्य निमित्तं पाकं करोतु इति। भवतः वचनं शिरोधार्यं मम। अतः एतत् अङ्गीकृतम्। अङ्गीकारे धनलोभः न कारणम्” इति।
सन्तुष्टः राजा सिंहकेतुः तस्मै द्विशतं रजतनाणकानि दत्तवान्।
रक्षितः मानः
पद्मपुरनामके ग्रामे नरहरिः नाम कश्चन धनिकः आसीत्। तस्य सुविशाला भूसम्पत्तिः आसीत्। पितृपरम्परया प्राप्ता धनसुवर्णादिसम्पत्तिः अपि प्रभूता आसीत्। अतः तदीयं जीवनं सुखमयम् आसीत्।
सम्पत्तिः प्रभूता अस्ति इत्यतः नरहरेः महान् धनमदः आसीत्। निर्धनानां सामान्यानां वा सहवासं न इच्छति स्म सः। आत्मनः धनिकत्वस्य प्रदर्शनार्थं महान्तं धनव्ययं करोति स्म अपि।
कदाचित् बाल्यमित्रं श्रीहरिः नरहरेः गृहम् आगतवान्। चिरकालानन्तरं तयोः मेलनं जातम् आसीत्। अतः श्रीहरिम् आदरेण स्वागतीकृतवान् नरहरिः।
श्रीहरेः वेषभूषणस्य दर्शनतः प्राथमिकवार्तालापतः च नरहरिः ज्ञातवान्यत् श्रीहरिः दारिद्र्येण पीड्यमानः अस्ति इति। ‘धनम् अन्यविधसाहाय्यं वा प्रष्टुम् एव एषः मम समीपम् आगतः अस्ति’ इति निश्चितवान् सः। अतः सः श्रीहरेः आगमनकारणं न पृष्टवान् एव। प्रत्युत आत्मना कथं धनं सम्पादितम् इति, कतीनां महतां जनानां सम्पर्कः केन रूपेण साधितः इति च निरन्तरम् उक्तवान्।
श्रीहरिः सर्वं मौनं शृण्वन् आसीत्। तावता कश्चन सेवकः तत्र आगत्य एक पत्रं नरहरये दत्त्वा प्रतिगतवान्।तत् पत्रं पठित्वा गर्वेण हसन् श्रीहरिम् उक्तवान् नरहरिः—“पश्यतु अत्र। भूस्वामिना प्रेषितं पत्रम् एतत्। ‘अद्य रात्रौ भोजनसमारम्भः अस्ति। भवता तदर्थम् अवश्यम् आगन्तव्यम्’ इति सानुरोधं पत्रं प्रेषितवान् अस्ति सः” इति।
तदा श्रीहरिः हसन् उक्तवान्—
“यतः
भवान् धनिकः, अतः अन्येषां धनिकानाम् आत्मीयसम्बन्धः भवतः सहजः एव। वस्तुतः तु एतस्य भूस्वामिनः समीपे मम किञ्चित्कार्यम् अस्ति। तदर्थं भवतः साहाय्यं प्राप्तुम् एव अहम् अत्र आगतवान्” इति।
“भूस्वामी तु कोट्यधीशः। तत्समीपे भवतः किं कार्यम्?” इति कुतूहलेन पृष्टवान्नरहरिः।
“कार्यं तु अल्पम्। भवद्ग्रामीणस्य भूस्वामिनः अल्पा भूमिः मम ग्रामे अस्ति। तत्र इदानीं कोऽपि कृषिं न करोति। सा भूमिः कृष्यर्थं प्राप्तव्या इति मम इच्छा। प्रतिवर्षम् अहं यथोचितं धान्यं धनं वा भूस्वामिने अर्पयामि। परिश्रमेण कृषिं करोमि च।
मत्परतया भवान् भूस्वामिनः पुरतः एतं विषयम् उपस्थाप्य सा च भूमिः कृष्यर्थं मया यथा प्राप्येत तथा करणीयं कृपया” इति निवेदितवान् श्रीहरिः।
तदा नरहरिः गाम्भीर्येण—“मित्र! स्पष्टवचनार्थं क्षन्तव्यः अहम्। अस्माकं ग्रामस्य भूस्वामी समनास्तरीयैः सह केवलं मैत्रीं करोति। भवादृशस्य निर्धनस्य स्नेहः मम अस्ति इति यदि सः जानीयात् तर्हि मम मैत्रीम् एव तिरस्कुर्यात्। अतः भवत्परतया तं किमपि निवेदयितुम् अहं न शक्नोमि " इति उक्तवान्।
श्रीहरिः तु आत्मनः दुःस्थितिं पुनरपि निवेद्य—‘एतद्विषये अवश्यं साहाय्यं करोतु कृपया’ इति दैन्येन प्रार्थितवान्।
नरहरिः तु पुनरपि निराकरणं प्रदर्श्य—“मया तु इदानीं भूस्वामिनः गृहं प्रति गन्तव्यम्। विलम्बेन तत्र गमनं न शोभते। भवान् श्वः आगच्छतु। विस्तरेण वार्तालापं करवाव” इति उक्तवान्। श्रीहरिः खेदेन ततः निर्गतवान्।
अनन्तरदिने श्रीहरिः नरहरेः गृहम् आगतवान्। तदा नरहरेः पार्श्वे अन्यः कश्चित् आसीत्। तं प्रदर्शयन् श्रीहरिम् उक्तवान् नरहरिः— “मित्र! एषः शरभेन्द्रः। अस्माकं ग्रामस्य प्रसिद्धः वणिक्, धनी च। प्रतिदिनम् अत्र आगत्य वार्तालापः कृतः चेदेव एतस्य तृप्तिः” इति।
तदा शरभेन्द्रः श्रीहरिं क्षणकालं दृष्ट्वा नरहरिं पृष्टवान्— “कः एषः ? गोणीवाहकस्य एतस्य, भवतः च महती मैत्री इति भासते। कथम् एतत्? कदा एषा मैत्री जाता?” इति।
तदा आश्चर्यचकितः नरहरिः— “एतस्य नाम श्रीहरिः इति। एषः अहं च बाल्ये अभिन्ने विद्यालये पठितवन्तौ। पूर्वम् आवयोः दृढा मैत्री आसीत्। तन्मैत्रीबलात् एषः तदा तदा अत्र आगच्छति। किन्तु भवान् एतं ‘गोणीवाहकः’ इति कथम् उक्तवान् इति तु न ज्ञातवान् अहम्” इति उक्तवान्।
‘ह्यः रात्रौ आपणं पिधाय मित्रेण प्रेषितम् आम्रफलकण्डोलद्वयं गृहं नेतुं भृत्यस्य प्रतीक्षायाम् आसम्। तावता भारयुक्तां गोणीं वहन् एषः दृष्टः। तदा अहम् एतं— ‘भोः, गोणीम् अत्रैव संस्थाप्य इतः समीपस्थं मम गृहम् एतत् कण्डोलद्वयं प्रापय्य गच्छति वा?’ इति पृष्टवान्। तदा एषः किमपि अवदन्मन्दहासपूर्वकं मां दृष्ट्वा अग्रे गतवान्। मया यदा साहाय्यं प्रार्थितं तदा अपि उत्तरं किमपि अवदन् प्राज्ञः इव मन्दहासं प्रदर्श्य मौनम् अग्रे गतवान् इत्यतः अहम् एतम् अभिज्ञातवान्” इति उक्त्वा पञ्चसु निमेषेषु वार्तालापं समाप्य ततः निर्गतवान् शरभेन्द्रः।
शरभेन्द्रस्य निर्गमनस्य अनन्तरं नरहरिः क्रोधेन श्रीहरिं पश्यन्— “अहो अपमाननं मम! भवत्कारणतः अद्य मम शिरः लज्जया अवनतं जातम्। गोणीवाहकस्य भवतः स्नेहः मम अस्ति इत्येतत् लज्जास्पदम्। भवतः मुखम् अपि द्रष्टुं न इच्छामि अहम्। इतः परं कदापि मम गृहं मा आगच्छतु भवान्” इति उच्चस्वरेण उक्तवान्।
तदा श्रीहरिः मन्दहासपूर्वकम् उक्तवान्— “मित्र! तत्समये तादृशं कार्यं मम अनिवार्यम् आसीत्। भवतः अपमाननं कर्तुं न, अपि तु भवतः मानस्य रक्षणार्थम् एवं मया तथा कृतम्। यतः तस्यां गोण्यां भवान् आसीत्” इति।
नरहरिः क्रोधेन— “किं वदति भवान्? गोण्याम् अहं कथं भवेयम्? किम् एतत् ?” इति पृष्टवान्।
“मित्र! क्रोधः मास्तु। शान्ततया शृणोतु। ह्यः रात्रौ अहं मम ग्रामं प्रतिगच्छन् आसम्। तदा भूस्वामिनः गृहस्य पुरतः मूर्च्छांगतः मार्गे पतितः भवान् मया दृष्टः। पार्श्वे सुराकूपिका आसीत्। भवतः मुखात् असम्बद्धानि पदानि निर्गच्छन्ति स्म। दर्शनमात्रात् मया सर्वम् अवगतम्। ‘एतादृश्यां स्थितौ स्थितः भवान् यदि ग्रामीणैः दृश्येत तर्हि भवतः मानः अपगच्छति’ इति आलोच्य भवन्तं गोण्याम् उपवेश्य गृहं प्रापितवान्। तत्समये शरभेन्द्रः मां दृष्टवान् आसीत्। अस्तु तावत्, अहम् अत्र अपरिचितः। अतः अत्र मम मानः नष्टः चेत् न काऽपि हानिः। मित्रस्य भवतः मानः मया समये रक्षितः यत् तेन तृप्तिः मम” इति उक्तवान् श्रीहरिः।
अत्रान्तरे मन्दिरं गत्वा प्रत्यागता नरहरेः पत्नी उक्तवती— “श्रीहरिणा युक्तम् उक्तम्। यदि ह्यः सः तथा न कृतवान् स्यात्तर्हि भवान् मानहीनः अभविष्यत्। भवतः दुरवस्थां दृष्टवत्याः मम रात्रौ निद्रा एव न आगता। अतः प्रातः एव मन्दिरं गत्वा ‘कुटुम्बस्य मानं रक्षतु’ इति देवीं सम्प्रार्थ्यम्आगच्छन्ती अस्मि। लोके प्रायः सुरापानव्यसनिनः सहवासं कोऽपि न इच्छति। यः रात्रौ भवान् यादृश्यां स्थितौ आसीत् तादृश्यां स्थितौ स्थितं भवन्तं यदि भूस्वामी दृष्टवान् स्यात् तर्हि सः अपि भवतः सहवासं तिरस्कृतवान् स्यात्। श्रीहरिः तु आपद्बान्धवः इव आगत्य भवतः मानं रक्षितवान्। योग्येन प्रत्युपकारेण केवलेन वयम् ऋणात् मुक्ताः स्याम” इति।
तदा नरहरिः लज्जया शिरः अवनमय्य—“मित्र! मम गर्वस्य योग्यं दण्डनं जातम्। भवान् स्वस्य अपमानम् अपि अविगणय्य मम मानं रक्षितवान्। माननाशकम् एतत्दुर्व्यसनं परित्यज्य अहम् उत्तमः भविष्यामि इति उक्त्वा तस्मिन् एव दिने श्रीहरिं भूस्वामिनः गृहं नीत्वा परिचाय्य भूमिं कृष्यर्थं दापितवान्।
साहसकार्यम्
धर्मपुरनामके ग्रामे केशवः नाम कश्चित् आसीत्। सः कदाचित् क्रूरमृगयुते घोरारण्ये आरात्रिंस्थित्वा प्रातः गृहं प्रत्यागतवान्। एतत् साहसकार्यं तद्ग्रामीणेन भूस्वामिना श्रुतम्। भूस्वामी चिन्तितवान् यत् एतादृशः साहसी अवश्यं पुरस्करणीयः इति। अतः सः केशवम् आनयतु इति आदिश्य सेवकं केशवगृहं प्रति प्रेषितवान्।
तत्समये केशवः गृहे न आसीत्। भूस्वामिसेवकः सर्वम् अपि केशवपत्नीं निवेदितवान्। सर्वं श्रुत्वा केशवपत्नी उक्तवती — “एषा वार्ता भूस्वामिना अपि ज्ञाता? मम पतिः यः सम्पादितं धनं द्यूते व्ययीकृतवान् आसीत्। मम पुरतः स्थातुं धैर्यम् अप्राप्नुवन् सः अरण्ये स्थित्वा रात्रिं यापितवान्। दिनद्वये यावत् सम्पाद्यते तावत् धनं सम्पाद्य एव अद्य भवान् गृहं प्रत्यागच्छतु इति आदिश्य तं प्रेषितवती अस्मि। अतः भूस्वामिनं वदतु यत् पुरस्कारः मह्यम् एव दातव्यः इति” इति।
सेवकः भूस्वामिनं दृष्ट्वा सर्वं निवेदितवान्। सर्वं श्रुत्वा मन्दहासपूर्वकम् उक्तवान् भूस्वामी—“साहसकार्ये या केशवं प्रेरितवती तस्यै एव पुरस्कारस्य दानम् उचितम्” इति।
सहनशीलता
दयासागरनामके ग्रामे सदानन्दः नाम धनिकः निवसति स्म। सः क्षेत्रव्यवहारस्य निर्वहणार्थं गणनालेखनार्थं च कञ्चित् समर्थं जनम् उद्योगित्वेन नियोजयितुम् इच्छति स्म। एषा वार्ता पार्श्वग्रामवासिना भूस्वामिमित्रेण विद्यानन्देन श्रुता। सः योग्यतापरिचायकं पत्रं लिखित्वा दत्त्वा स्वस्य भागिनेयं नारायणं सदानन्दस्य समीपं प्रेषितवान्।
यदा नारायणः सदानन्दगृहम् आगतः तदा सेवकद्वारा प्रकोष्ठे उपविष्टः सदानन्दः एतां वार्तां ज्ञातवान्। सः सेवकम् उक्तवान्— ‘भवान् तं वदतु यत् भूस्वामी गृहे नास्ति, द्वित्रघण्टानाम् अनन्तरम् एव तस्य प्रत्यागमनं स्यात् इति” इति।
सेवकः बहिः गत्वा तथैव उक्तवान्। ततः अर्धघण्टाअतीता। नारायणः सेवकं पृष्टवान्— “भूस्वामी आगतः वा?” इति। “न” इति उक्तवान्सेवकः। पञ्चदशनिमेषाणाम् अनन्तरं पुनः तथैव पृष्टवान् नारायणः। तदा अपि ‘न’ इति उक्तवान् सेवकः। एवं बहुवारं प्रवृत्तम्।
अन्ते नारायणः निश्चितवान् यत् अद्य सदानन्दवर्यस्य मेलनं न भविष्यति इति। अतः सः सेवकम् आहूय — “भूस्वामी यदा प्रत्यागमिष्यति तदा सः वक्तव्यः यत् अहं दीर्घकालं यावत् प्रतीक्ष्य प्रतिगतः इति। मम आगमनस्य कारणं भवान् जानीयात् एव” इति उक्त्वा ततः निर्गतवान्।
दयासागरग्रामात् नारायणेन स्वग्रामः प्राप्तव्यः चेत् नदी काचित् अतिक्रमणीया आसीत्। अतः नारायणः नदीतीरं गतवान्। नदीतीरे केचन वार्तालापं कुर्वन्तः उपविष्टवन्तः आसन्। तान् पृष्टवान्नारायणः — “इतः गमनार्थं नौका कदा प्राप्येत?” इति।
तदा तेषु कश्चित् उक्तवान्— “नौका कदा आगच्छेत् इति वयम् अपि न जानीमः। वयम् एकघण्टातः पूर्वम् अत्र आगताः। किन्तु नौका न दृश्यते” इति।
पुनः एका घण्टा अतीता। तथापि नाविकः तत्र न आगतः। तदा नारायणः असहनया उक्तवान्— “नाविकः कदा आगच्छेत् इति न ज्ञायते। अस्मासु एव कश्चित् गत्वा तम् अन्विष्य आनयति चेत् वरं स्यात्” इति।
तदा तेषु कश्चित् उक्तवान्— “किं त्वराप्रदर्शनेन? नाविकः सदा समये उपस्थितः भवति स्म। सः श्रमशीलः प्रामाणिकः। अद्य विलम्बः जायमानः अस्ति यत् तस्य विशिष्टं कारणं स्यात्। अचिरात्एव आगच्छेत् सः” इति।
पुनः अल्पः कालः अतीतः। इतः परम् अपि मौनं प्रतीक्षां कर्तुम् अशक्नुवन्नारायणः — “एवं विलम्बः जायमानः अस्ति चेदपि मौनं स्थितवन्तः भवन्तः। अहम् इदानीं गत्वा तम् अन्विष्य आनेष्यामि " इति उक्त्वा समीपे स्थितं ग्रामं प्रति प्रस्थितवान्।
ग्रामं गत्वा ग्रामीणान् पृष्ट्वा नाविकस्य गृहं गतवान् नारायणः। तदा नाविकस्य पत्नी उक्तवती — “अद्य उदरवेदनया पीडितः सः वैद्यसमीपं गतवान् आसीत्। औषधम् आनीय इदानीं नौकाघट्टं प्रति गतवान्। एतावता सः तत्र गतवान् स्यात्” इति।
नारायणः त्वरया नौकाघट्टस्य समीपं गतवान्। तावता नौका ततः निर्गता आसीत्। नद्यां दूरे नौका दृश्यते स्म। नारायणः खेदेन इतस्ततः पश्यन् आसीत्। तावता कश्चन तत्र आगतः। “भवान् नौकानिर्गमनात् पूर्वम्अत्र आगन्तुं न शक्तः इति भाति। इतः गता नौका एकघण्टाभ्यन्तरे प्रत्यागच्छेत्। अहम् अपि भवता सह आगच्छामि। नाविकं वदामि यत् आवाम् अपरतीरं प्रापयतु इति। मम वचनम् अङ्गीकुर्वन् सः द्वयोः एव निमित्तम् अपि नौकां चालयिष्यति” इति उक्तवान्सः।
किञ्चित्कालानन्तरं वार्तालापतः ज्ञातं यत् एषः एव सदानन्दः इति, यं च प्रतीक्ष्यनिराशया प्रत्यागतम् आसीत्।
एतत् ज्ञातवतः नारायणस्य मुखे प्रसन्नताभावः प्रसृतः। सः विद्यानन्देन दत्तं योग्यतापरिचायकपत्रं सदानन्दाय दातुम् उद्युक्तः। किन्तु सदानन्दः तत्र तस्य पत्रस्य स्वीकरणं निराकुर्वन् उक्तवान्— “भवतः मातुलेन पूर्वम् एव उक्तम् आसीत् यत् भागिनेयः मया प्रेषयिष्यते इति। किन्तु उद्योग— सम्बन्धी व्यवहारः एवं मार्गे न उचितः। तदर्थं पुनः कदाचित् मम गृहम् एव आगत्य एतत् पत्रं ददातु” इति।
नारायणः म्लानवदनः सन् मौनम् आश्रितवान्। ततः अल्पे एव काले नौका प्रत्यागता। नारायणः सदानन्दः च अपरं तीरं प्राप्तवन्तौ।
सदानन्दः नारायणेन सह विद्यानन्दस्य गृहम् एवआगतवान्। स्वगृहं प्रति नारायणस्य आगमनस्य अनन्तरं यद्यत् प्रवृत्तं तत्सर्वं विस्तरेण विद्यानन्दं निवेदितवान् सः। पुनः उक्तवान् च — “भवान् मत्समीपम् यम् उद्योगार्थिनं प्रेषयति सः विश्वासार्हः एव भवति इति जानामि अहम्। किन्तु अहं मम कार्याणि यस्य अधीनानि करोमि सः सहनशीलः स्यात् इति मम अपेक्षा। यतः बहुभिः सह यदा व्यवहारः क्रियते तदा परमसहना आवश्यकी भवति। अतः अहं नारायणस्य सहनाशक्तेः परीक्षां कृतवान्” इति।
एतत्श्रुत्वा लज्जितः नारायणः सदानन्दम् उक्तवान्— “मम न्यूनता भवता सम्यक् ज्ञापिता। सहनाशीलता जीवने अत्यावश्यकी इति अद्य मया सम्यक् अवगतम्। यदि भवादृशस्य मार्गदर्शनं स्यात्तर्हि अहं मम दोषान् दूरीकृत्य उत्तमत्वं प्राप्तुं प्रामाणिकप्रयत्नं कुर्याम्” इति।
तदा सदानन्दः नारायणस्य स्कन्धे प्रीत्या हस्तं स्थापयित्वा — “भवान् गुणवान् इति जानामि अहम्। श्वः आरभ्य मम उद्योगी भवान्। अस्तु, मम अत्र अन्यत् कार्यम् अस्ति। अहम् आगच्छामि तावत्” इति उक्त्वा ततः निर्गतवान्।
समर्था स्नुषा
चक्रपाणिः नाम गृहस्थः पूर्वम् आसीत्। तस्य पत्न्याः नाम भद्राम्बा। तयोः चत्वारः पुत्राः। प्राप्तवयस्काः ते विवाहिताः अभवन्। चतुर्णाम् अपि पुत्राणां पुत्रादयः अपि जाताः। एवं केषुचित् वर्षेषु चक्रपाणेः कुटुम्बं विशालं जातम्।
गृहस्य समग्रव्यवस्थायाः निर्वहणं भद्राम्बा एव करोति स्म। गच्छता कालेन भद्राम्बा वृद्धा जाता। अतः सा चिन्तयति— ‘अहं तु वृद्धा जाता। मम अनन्तरं कुटुम्बनिर्वहणं स्नुषासु का कुर्यात् ?’ इति।
भद्राम्बा पतिं स्वचिन्तां निवेदितवती। समर्थायै स्नुषायै गृहनिर्वहणभारः दत्तः चेत्वरम् इति चक्रपाणेः अपि आशयः। अतः स्नुषासु का समर्थतमा इति ज्ञातुं काचित्परीक्षा करणीया इति निश्चितवान् सः।
सः चतस्रः अपि स्नुषाः स्वसमीपम् आहूय एकैकस्यै पञ्च व्रीहीन् दत्त्वा—“यदा अहं वदामि तदा एते प्रत्यर्पणीयाः। किन्तु कदा अहं प्रतिस्वीकरिष्यामि इति न जानामि। अतः एतान् जागरूकतया रक्षन्तु भवत्यः” इति उक्तवान्।
श्वशुरस्य कथनस्य आशयः कः इति अजानत्यः स्नुषाः आश्चर्येण परस्परं मुखं दृष्टवत्यः। ‘कृषिव्यवहारव्यग्रः एषः मनसि कमपि व्यवहारक्लेशं चिन्तयन् प्रमादवशात्एवं पञ्च व्रीहीन् दत्तवान् स्यात्। मूढः श्वशुरः’ इति उपहासपूर्वकं परस्परम्उक्तवत्यः ताः।
व्रीहीन् प्राप्तवतीनां स्नुषाणां व्यवहारः परस्परं नितरां भिन्नः आसीत्। ‘गृहे कुसूले प्रभूतः व्रीहिराशिः अस्ति एव। यदा श्वशुरः सूचयिष्यति तदा व्रीहिदाने न कोऽपि क्लेशः। अतः एतेषां रक्षणार्थं परिश्रमः व्यर्थः’ इति
आलोच्य ज्येष्ठस्नुषा व्रीहीन् क्षिप्तवती।
द्वितीया स्नुषा अपि व्रीहिरक्षणं व्यर्थम् इत्येव चिन्तितवती। किन्तु श्वशुरविषयकेण आदरभावेन सा व्रीहेः तुषम् अपनीय तण्डुलान् मुखे स्थापितवती।
तृतीया तु श्वशुरेण दत्तान् व्रीहीन् कागदेन ‘बद्ध्वा पेटिकायां स्थापितवती।
चतुर्थी स्नुषा— ‘श्वशुरः व्रीहीन् कदा प्रतिप्राप्स्यति इति तु न ज्ञायते। वस्तुतः तु श्वशुरः बुद्धिमान्। सामान्येन उद्देशेन सः व्रीहीन् दत्तवान् न स्यात्। व्रिहिदाने कोऽपि विशिष्टः उद्देशः स्यात् एव। व्रीहिः क्षेत्रे आरोपितः चेत् द्विगुणितं चतुर्गुणितं वा फलं प्राप्यते। यदा श्वशुरः प्रतिपृच्छति तदा व्रीहिः हस्ते न स्यात् चेदपि क्षेत्रे अस्ति इति वदामि चेत् तस्य सन्तोषः एव स्यात्’ इति आलोच्य व्रीहीन् मातृगृहं सम्प्रेष्य तेषां पृथक् आवापं `कारितवती। प्रथमवर्षे यत् फलं प्राप्तं तत्द्वितीये वर्षे भूमौ आरोपितम्। तस्य यत् फलं तदपि समग्रतया भूमौ आरोपितम्।
ततः पञ्च वर्षाणि अतीतानि। भद्राम्बा कदाचित् पतिम् उक्तवती—“वार्धक्यकारणतः नितरां दुर्बला अस्मि। उपवेशनेन उत्थानेन चापि श्रान्ता भवामि। अतः गृहव्यवहारं कस्याः स्नुषायाः अधीनं करोमि? भवान् पूर्वम् उक्तवान् आसीत्—काञ्चित् व्यवस्थां करिष्यामि इति। किन्तु तदनन्तरं पञ्च वर्षाणि अतीतानि। इदानीं वा काञ्चित् व्यवस्थां सूचयतु कृपया " इति।
“तिष्ठतु, वदामि” इति उक्त्वा चक्रपाणिः स्नुषाः आहूय उक्तवान्—“मया पूर्वं दत्तान्व्रीहीन् प्रत्यर्पयन्तु” इति।
क्षिप्तं खादितम् इति कथनेन श्वशुरः खिन्नः भवेत्’ इति आलोच्य प्रथमा द्वितीया च स्नुषे कुसूलतः पञ्च व्रीहीन् आनीय `श्वशुराय दत्तवत्यौ। तृतीया स्नुषा पेटिकायां सुरक्षितं स्थापितान् व्रीहीन् आनीय श्वशुरस्य पुरतः स्थापितवती।
प्रथमया द्वितीयया च आनीताः व्रीहयः पीतवर्णेण शोभमानाः नूतनत्वं ज्ञापयन्ति स्म। अतः चक्रपाणिः—“एते मया दत्ताः व्रीहयः न। मया दत्तान् व्रीहीन् किं कृतवत्यौ भवत्यौ ?” इति पृष्टवान्।
तदा ते लज्जया शिरः अवनमय्य, व्रीहयः क्षिप्ताः आसन् इति, इदानीं कुसूलतः अन्याः एव व्रीहयः आनीताः इति च उक्तवत्यौ। चक्रपाणिः चतुर्थीं स्नुषां पश्यन् पृष्टवान्—“वत्से! भवत्यै मया दत्ताः व्रीहयः कुत्र ?” इति।
“ते मया मातृगृहं प्रति प्रेषिताः। दिनद्वयात्मकः अवधिः दत्तः चेत् लाभसंहितं ते आनीयन्ते” इति उक्त्वा श्वशुरस्य अनुज्ञां प्राप्य मातृगृहं गतवती चतुर्थी स्नुषा। दिनद्वयाभ्यन्तरे धान्यगोणीभिः युक्तानि `शकटानि चक्रपाणेः गृहस्य पुरतः आगत्य स्थितानि। “पञ्चानां व्रीहीणां फलम् एतानि” इति उक्त्वा कर्मकरद्वारा धान्यगोणीः अन्तः स्थापितवती चतुर्थी स्नुषा।
‘ज्ञातं खलु स्नुषाणां सामर्थ्यम् ? चतुर्थी स्नुषा एव गृहस्य समग्रं भारं वोढुं शक्नोति। अतः तस्यै एव कुञ्चिकां ददातु “इति पत्नीम् उक्तवान् चक्रपाणिः।
“अन्याः अपि अस्मदीयाः एव खलु? ताभ्यः कीदृशं दायित्वं दातव्यम्?” इति पतिं पृष्टवती भद्राम्बा।
‘या व्रीहीन् क्षिप्तवती सा ज्येष्ठा स्नुषा स्वच्छताकार्ये गृहालङ्करणकार्ये च योजनीया। या व्रीहीन् खादितवती सा द्वितीया स्नुषा पाकशालकार्याणि निर्वहतु। या व्रीहीन्पेटिकायां स्थापितवती सा तृतीया स्नुषा वस्त्रधान्यादिरक्षणं पश्यतु। अन्तिमनिर्णयः सर्वत्र अपि चतुर्थस्नुषायाः भवतु। एतेन गृहे सदा तृप्तिः शान्तिः च स्थास्यति” इति सूचितवान् चक्रपाणिः।
पत्युः सूचनायाः अनुगुणं स्नुषाभ्यः कार्याणि विभज्य दत्तवती भद्राम्बा। तासां कार्यं स्वयं परिशीलयन्ती प्रीत्या योग्यं मार्गदर्शनम् अपि कृतवती सा। एतेन स्नुषाः स्वस्वकार्यनिर्वहणे चतुराःजाताः। गृहव्यवस्था अपि सम्यक् जाता।
अनन्तरं चक्रपाणिः भद्राम्बाच वार्धक्यजीवनं तृप्त्या यापितवन्तौ।
समीचीनम् उत्तरम्
शिवरामः कश्चन कृषिकः।कस्याञ्चित् दुर्घटनायां तस्य पुत्रः स्नुषा च मरणं प्राप्तवन्तौ। अतः पौत्रयोः पोषणव्यवस्था शिवरामेण एव करणीया अभवत्। शिवरामः पौत्रौ प्रीत्या पश्यति। शिवरामस्य अन्या सम्पत्तिः न आसीत्, ऋते गृहतः। यथा यथा वार्धक्यं वर्धते तथा तथा शिवरामः अधिकां चिन्तां प्राप्नोति—मम जीवितस्य अनन्तरं मम पौत्रयोः का गतिः? इति। एषा चिन्ता तं दिवारात्रं दहति स्म।
एषु एव दिनेषु बाल्यमित्रं रामचन्द्रः शिवरामस्य गृहम् आगतवान्। शिवरामः तं स्वस्य चिन्तां निवेदितवान्।
रामचन्द्रः शिवरामस्य पौत्रौ स्वसमीपम् आहूय उक्तवान्—“भोः, अहं भवन्तौ एकं प्रश्नं पृच्छामि। चिन्तनं कृत्वा उत्तरं वक्तव्यम्। यः समीचीनम् उत्तरं वदति तस्मै पारितोषिकरूपेण दश रूप्यकाणि दास्यामि” इति।
शिवरामपौत्रौ शिरश्चालनपूर्वकम् अङ्गीकारं सूचितवन्तौ। रामचन्द्रः तौ उक्तवान्—“यदि भवतोः पुरतः देवः प्रत्यक्षः भवेत् तर्हि भवन्तौ कं वरं प्रार्थयतः? प्रार्थनया महान् लाभः यथा स्यात् तथा प्रार्थनीयं भवद्भ्याम्” इति।
किञ्चित्कालं विचिन्त्य ज्येष्ठः शिवरामपौत्रः उक्तवान्—“जीवने कोऽपि अभावः न स्यात्। अतः अहं भगवन्तम् उत्तमं क्षेत्रं प्रार्थयिष्यामि इति।
तदा कनिष्ठपौत्रः झटिति उक्तवान्—“अभावदूरीकरणार्थं क्षेत्रस्य का आवश्यकता? अहं तु तादृशम् अङ्गुलीयकं प्रार्थयिष्यामि यद्बलात् मया अभिलषितानि सर्वाणि वस्तूनि प्राप्येरन्” इति।
रामचन्द्रः हसन् शिवरामस्य कनिष्ठपौत्राय दश रूप्यकाणि दत्त्वा शिवरामम् उक्तवान्—“भवान् भवदीयं गृहं ज्येष्ठाय पौत्राय ददातु। सः अत्रैव जीवनं यापयिष्यति। कनिष्ठपौत्रस्य विषये चिन्ताम् एव मा करोतु। सः व्यवहारकुशलः। तम् अहं मया सह नेष्यामि। भाविनि काले भवतोः साहाय्यं यथा कुर्यात् तथा तं सज्जीकरिष्यामि” इति।
रामचन्द्रस्य सूचनायाः अनुगुणम् एव कृतवान् शिवरामः। अतः तस्य वार्धक्यजीवनं निश्चिन्तम अभवत्।
सौन्दर्यं क्षणिकम्
धर्मपुरस्य केशवः रामकृष्णश्च आत्मीयौ। यदा तौ प्रौढौ जातौ तदा जीवननिर्वहणार्थम् परस्परसुदूरं ग्रामम्आश्रितवन्तौ। तत्रैव तयोः वसतिः स्थिरा जाता। विरलतया यदा तौ मिलतः तदा परस्परवार्तालापेन सुखदुःखं जानीतः। गच्छता कालेन उभाभ्याम् अपि वाणिज्येन प्रभूतं धनं सम्पादितम्। केशवस्य पुत्रः विद्याधरः पदवीधरः जातः। रामकृष्णस्य पुत्री मन्दाकिनी अपि विद्याचतुरा, कलानिपुणा, गृहकर्मकुशला च जाता। केशवः रामकृष्णः च इच्छतः यत्विद्याधर-मन्दाकिन्योः विवाहं निर्वर्त्य मैत्री बन्धुत्वरूपेण परिवर्तनीया इति।
कदाचित् तौ स्वपुत्रौ एतं विचारम् उक्तवन्तौ। एतत् श्रुत्वा मन्दाकिनी नितरां सन्तुष्टा। यतः विद्याधरविषये बहोः कालतः अनुरागः तस्याः मनसि सुप्तः आसीत्। किन्तु प्रस्तावं श्रुत्वा विद्याधरः झटिति उक्तवान्यत् अहं तां न परिणेष्यामि इति। ‘मन्दाकिनीसौन्दर्येण मत्समाना न’ इति तस्य आशयः आसीत्।
“मन्दाकिनी गुणवती विद्यावती च। असुन्दरी अपि न। तस्याः परिणयेन भवतः हितम् एव सिध्यति। अस्माकम् अपि सन्तोषः भविष्यति” इति पुत्रं बहुधा उक्तवान्केशवः। किन्तु विद्याधरः मन्दाकिनीं परिणेतुं सिद्धः न जातः। “अहं तु परमसुन्दरीं तरुणीं परिणेतुम् इच्छामि। मन्दाकिन्याः तु सामान्यं सौन्दर्यम्। अतः सा मास्तु मम। देशसञ्चारं कृत्वा अहम् एव योग्यां वधूम् अन्विष्यामि” इति पितरम् उक्तवान् विद्याधरः।
“देशसञ्चारं कृत्वा वधूम् अन्वेष्टुं किं भवान् राजकुमारः? मन्दाकिनी योग्या वधूः।
जीवने बाह्यं सौन्दर्यं प्रधानं न। ‘भार्या रूपवती शत्रुः’ इति ज्येष्ठाः वदन्ति। अतः सुन्दर्याः अन्वेषणं मास्तु” इति पुत्रं बोधितवान् केशवः।“राजकुमारैः केवलं देशसञ्चारपूर्वकं वध्वाः अन्वेषणं करणीयम् इति नास्ति नियमः। सौन्दर्यप्रज्ञारहिताः अरसिकाः उक्तवन्तः स्युः—‘भार्या रूपवती शत्रुः’ इति। अहं तु रूपवतीम् एव परिणेष्यामि” इति उक्त्वा अपेक्षितानि वस्तूनि सज्जीकृत्यगृहात् निर्गतवान् विद्याधरः।
विद्याधरस्य व्यवहारेण केशवः रामकृष्णः च चकितौ। किन्तु मन्दाकिनी अल्पाम् अपि चिन्ताम् अप्राप्नुवती उक्तवती—“चिन्ता मास्तु भवतोः। विद्याधरस्य अन्तरङ्गं ज्ञातं मया। ऊहालोके सञ्चरन् वास्तविकं प्रपञ्चं विस्मृतवान् अस्ति सः। गुणेन तु सः उत्तमः एव। अतः अहं तेनैव परिणीता भविष्यामि। भवद्भ्यां मम एषः प्रयत्नः अनुमन्तव्यः इति।
केशवः रामकृष्णः च तस्याः प्रस्तावम् अङ्गीकृतवन्तौ। अनन्तरं मन्दाकिनी पुरुषवेषं धृत्वा विद्याधरेण गतं मार्गम्अनुसरन्ती कस्मिंश्चित्ग्रामे तेन मिलितवती।
अदृष्टपूर्वेण इव व्यवहरन्ती सा विद्याधरस्य नामग्रामादिकं पृष्टवती। व्यवहारसमये सा स्वरम् अपि परिवर्तितवती आसीत् इत्यतः सा का इति न ज्ञातं विद्याधरेण। स्वपरिचयं विस्तरेण निवेद्य विद्याधरः—“परमसुन्दरी एव परिणेतव्या इति मम दृढः सङ्कल्पः। तदर्थम् अहं धनव्ययं समयव्ययं वा न गणयामि। धनिकपुत्रः इव दृश्यमानः भवान् किमर्थम् एतम् अल्पं ग्रामम् आगतवान्?” इति पृष्टवान्।
मन्दाकिनी दीर्घं निःश्वस्य—“भवतः इव ममापि अन्यविधा इच्छा। मम नामवेणुगोपालः इति। सङ्गीतं मम प्राणः इव। अहं कस्याञ्चित् तरुण्याम् अनुरक्तःआसम्। सा वर्णेन तु नितरां कृष्णा, किन्तु तस्याः कण्ठः कोकिलायाः इव सुमधुरः।
किन्तु दौर्भाग्यवशात् व्याधिकारणतः तस्याः
कण्ठस्वरः नष्टः जातः। ततः खिन्नः विरक्तः च अहम् मनःशान्तेः अन्वेषणं कुर्वन्देशसञ्चारे उद्युक्तः अभवम्। प्रशान्त-स्थलानि गच्छन् एतं ग्रामम् अपि आगतः” इति उक्त्वा पुनरपि निःश्वसितवती।
“अहो दैवगतिः चित्रा ! भवान् कण्ठस्वरं प्रधानं भावयन् रूपं गौणं भावयति। अहं तु कण्ठस्वरं गौणं भावयामि। मया परिणीयमानायाः सौन्दर्यं रम्भायाः ऊर्वश्याः वा इव स्यात्” इति उक्तवान् विद्याधरः।
“एवं वा? गतवर्षे अहं पित्रा सह तीर्थयात्रार्थं गतवान् आसम्। तदा नगरे कस्याश्चित् वृद्धायाः गृहे आवयोः वसतिः आसीत्। सा वृद्धा तु निर्धना। किन्तु तस्याः पुत्री शिल्पिना निर्मितं शिल्पम् इवपरमसुन्दरी! सा हरिणनयना, बिम्बोष्ठी, चम्पकनासिका, सिंहकटिः। भवान् इच्छति चेत् अहं भवन्तं तत्र नेतुं सिद्धः। तां दृष्ट्वा यथोचितं करोतु” इति उक्तवती मन्दाकिनी।
“तर्हि मया त्वरया द्रष्टव्या सा” इति उक्त्वा गमनार्थं सिद्धः जातः विद्याधरः। अनन्तरं तौ नगरस्थायाः वृद्धायाः गृहं प्राप्तवन्तौ। वृद्धा तयोः पादादिक्षालनार्थं जलं दत्तवती, भोजनं चापि परिवेषितवती।
भोजनसमये मन्दाकिनी वृद्धाम् पृष्टवती— ‘अम्ब! वर्षात् पूर्वम् अहं यदा पित्रा सह अत्र आगतवान् आसं तदा अत्र काचित्अप्सरस्सदृशी तरुणी आसीत्। इदानींकुत्र सा? न दृश्यते खलु अत्र ?” इति।
तदा सा म्लानवदना वृद्धा— “अत्र चित्रपटे दृश्यते खलु एषा किल दृष्टा भवता? पूर्वं सा अप्सराः इव आसीत्। किन्तु इदानीं तस्याः सौन्दर्यं कथामात्रम्” इति उक्त्वा दीर्घं निःश्वसितवती।
चित्रपटं निर्निमेषं दृष्टवान् विद्याधरः। चित्रपटस्थायाः सौन्दर्यातिशयं दृष्ट्वा सः क्षणकालम् आश्चर्येण स्तब्धः। अनन्तरं सः वृद्धाम् उद्वेगेन पृष्टवान्— “अम्ब! एषा इदानीं कुत्र गता? इहलोके एव अस्ति खलु ?” इति।
वृद्धा किमपि अनुक्त्वा प्रकोष्ठं गत्वा
पुत्रीम् आनीय तयोः पुरतः स्थापितवती। तस्याः पुत्र्याः मुखे तु रोगजनिताः किणाः! नेत्रं श्वेतरोगग्रस्तम्! एतादृशं विरूपं दृष्ट्वा विद्याधरः स्तब्धः !वृद्धा सकृत् अश्रूणि मार्जयित्वा दुःखमिश्रितेन स्वरेण — “सर्वं ललाटलिखितम्! विवाहे आसन्ने, विषूचिकारोगस्य कारणतः एषा एवं कुरूपिणी जाता। एतयाएव चिन्तया एतस्याः पिता परलोकं गतः। निराश्रया अहं पथिकेभ्यः भोजनं यच्छन्ती कथमपि जीवनं निर्वहामि इति उक्त्वा अश्रूणि स्रावितवती।
वृद्धायाः वचनं श्रुतवतः सर्वं प्रत्यक्षं दृष्टवतः विद्याधरस्य महान् आघातः। ‘देवकन्या एव परिणीता चेदपि तस्याः सौन्दर्यं चिरकालं तिष्ठेत् इत्यत्र नास्ति निश्चयः। अतः बाह्यं सौन्दर्यम् अशाश्वतम्। एषा वृद्धायाः पुत्री एव अत्र प्रत्यक्षं प्रमाणम्। मन्दाकिनी यद्यपि परमसुन्दरी न, तथापि असुन्दरी अपि न। तस्याः मनः तु नितरां परिष्कृतम्। मल्लिकां विहाय केतक्याः समीपं गच्छतः भ्रमरस्य स्थितिः जाता मम। अहो मूर्खता मम’ इत्येवं खेदं पश्चात्तापं च अनुभूतवान् विद्याधरः।
विद्याधरः मन्दाकिनी च भोजनं समाप्य ततः प्रस्थितवन्तौ। मार्गे विद्याधरः — ‘नदीप्रवाहे मिलिते तृणे इव आवां मिलितवन्तौ, वियोगं प्राप्नुवन्तौ स्वः अपि। वृद्धायाः पुत्र्याः दर्शनतः मयि विवेकः उदितः। गुणसुन्दरी एवं परिणेतव्या इति निश्चितवान्अस्मि। सौन्दर्यं क्षणिकम् इति सम्यक् अवगतं मया। भवता अपि भवदिष्टा कोकिलकण्ठां प्राप्यतां भवतः जीवनं सुखमयं भवतु इति आशासे” इति मन्दाकिनीम् उक्त्वा स्वमार्गम् अनुसृतवान्।
मन्दाकिनी अपि गृहं गत्वा पितरं प्रवृत्तं सर्वं निवेदितवती। सर्वं श्रुत्वा रामकृष्णः नितरां सन्तुष्टः। पुनः अल्पे एवकाले विद्याधर-मन्दाकिन्योः विवाहः सवैभवं सम्पन्नः।
‘श्वेतः गजः’
बर्मादेशं पूर्वं होलाङ्ग् नाम राजा पालयन् आसीत्। तस्य राजधान्यां क्याङ्ग्नामकः कश्चन रजकः वसति स्म। तेन क्षालितानि वस्त्राणि स्वच्छतया शोभन्ते स्म।
राजधान्यां कश्चन कुम्भकारः अपि निवसति स्म। मृन्मयपात्रनिर्माणे सः सुनिपुणः आसीत्। कदाचित्सः क्याङ्ग्समीपम् आगत्य उक्तवान्—“राजा माम् आहूतवान् अस्ति। अस्वस्थायाः राज्ञ्याः चिकित्सार्थम् औषधानि सज्जीकरणीयानि सन्ति। तदर्थम् अपेक्षितानि पात्राणि निर्मातुं मां सूचितवान् अस्ति राजा” इति।
“भाग्यशाली भवान्। यतः सर्वे राज्ञः दर्शनं प्राप्तुं न अर्हन्ति” इति उक्तवान्क्याङ्ग्।
“भवता युक्तम् एव उक्तम्। किन्तु यदा राजदर्शनं क्रियते तदा मलिनानि वस्त्राणिधृतानि चेत् वरं न स्यात् खलु? अतः मम वस्त्राणि स्वच्छतया प्रक्षाल्य श्वः प्रातः प्रतिददातु " इति उक्तवान् कुम्भकारः।
तानि स्वीकृत्य क्याङ्गः स्वच्छीकरणार्थं क्वथति जले यदा स्थापितवान् तदा नीलवर्णीयानि तानि वर्णरहितानि जातानि। अनन्तरदिने तत्र आगतः कुम्भकारः श्वेतवर्णतां गतानि स्ववस्त्राणि दृष्ट्वा नितरां कुपितः। " भवता यत् अकार्यं कृतं तत् राजानं निवेद्य दण्डयिष्यामि” इति कोपेन उक्त्वा धनं किमपि अदत्त्वा ततः निर्गतवान् सः।
कुम्भकारः यदा राजानं दृष्टवान् तदा राजा आश्चर्येण पृष्टवान्— “अहो, भवतः वस्त्राणांस्वच्छता! वस्त्राणि एवं प्रकाशमानानि यथा स्युः तथा कः क्षालितवान्? ” इति। प्रतीकारसाधनार्थम् एषः एव सुसमयः इति
आलोच्य कम्भकारः राजानम् उक्तवान्— ‘प्रभो, अस्माकं नगरे क्याङ्गः नाम रजकः अस्ति। सः कृष्णवर्णीयं शुनकम् अपि श्वेतीकर्तुं समर्थः। प्रभो, भवान् बहोः कालतः श्वेतगजः प्राप्तव्यः इति चिन्तयन् अस्ति खलु ? तदर्थम् एषः सुसमयः। भवदीयं गजं श्वेतीकर्तुम् अर्हति क्याङ्गः” इति।
राजा दूतद्वारा क्याङ्गम् आनायितवान्। राज्ञः अपेक्षां श्रुत्वा एव क्याङ्गः ज्ञातवान् यत् मां कष्टे पातयितुं कुम्भकारः एव राजानंप्रेरितवान् इति। अतः सः राजानम् उक्तवान्—“प्रभो, एकं गजं किं, गजशालाम्एव श्वेतीकर्तुं समर्थः अहम्। किन्तु तदर्थं सुविशालं भाण्डम् आवश्यकम्। यथा वस्त्राणि क्वथति जले स्थाप्यन्ते तथैव गजः अपि स्थापनीयः। अतः मम निवेदनं यत्एतस्य कुम्भकारस्य द्वारा तादृशं भाण्डं कारयतु इति” इति।
राजा कुम्भकारं दृष्ट्वा आज्ञापितवान्— “श्वः प्रातःकालाभ्यन्तरे गजस्य स्थित्यर्थम्आवश्यकं सुविशालं भाण्डं निर्मातव्यं भवता। मम आज्ञा न परिपालिता चेत् भवन्तं देशात् निष्कासयिष्यामि " इति।
‘अहो, मया चिन्तितस्य उपायस्य विपरीतं फलं मया एव प्राप्तम्। अहो दुर्विधिः !’ इति स्वगतं वदन् ततः निर्गतवान् कुम्भकारः परिवारमित्रजनानां सहकारेण आरात्रि कार्यं कृत्वा सुविशालं भाण्डं निर्मितवान्। तत् स्वीकृत्य राज्ञः समीपं गतवान् च।
क्याङ्गः पात्रे जलं पूरितवान्। तस्य अधः अग्निः अपि ज्वालितः। अनन्तरं गजशालातः एकः गजः आनीतः। भाण्डे गजस्य आरोपणार्थं प्रयत्नः कृतः। यदा गजः भाण्डस्य अन्तः पदम् अस्थापयत् तदा भाण्डं शतधा भग्नम्।
एतत् दृष्ट्वा राजा महता कोपेन कुम्भकारं पश्यन् उक्तवान्— “भोः, दृढतरं भाण्डं निर्मातुम् अशक्नुवन् कीदृशः भवान्? महत्अपमानकरम् एतत्। श्वः प्रातःकालाभ्यन्तरे यदि भवान् दृढतरं भाण्डं निर्माय न आनयेत्तर्हि शूलारोपणदण्डः अनुभोक्तव्यः भवता। जागरूकः भवतु’ इति।
राज्ञः आज्ञां शिरसा वहन् ततः निर्गतवान्कुम्भकारः। गजभारवहनसमर्थस्य भाण्डस्य निर्माणे उपायम् अजानन् सः रात्रौ एव गृहात्निर्गत्य देशत्यागं कृतवान्। एषा वार्ता राज्ञा श्रुता। सः कोपेन ज्वलन्क्याङ्गम् आनाय्य खड्गं हस्तेन गृहीत्वा गर्जितवान्— “भवान् अपि मां वञ्चयितुम् उद्युक्तः अस्ति वा?” इति।
राजानं विनयेन नमस्कृत्य उक्तवान्क्याङ्गः— “प्रभो, मयि सन्देहः मास्तु। गजं श्वः मम गृहं प्रेषयतु। एकदिनाभ्यन्तरे भवतः एव सन्देहः भवेत् — एषः गजः मम उत, इन्द्रस्य ऐरावतः इति” इति।
राजा गजं क्याङ्गगृहं प्रति प्रेषितवान्। क्याङ्गः निश्रेण्याः साहाय्येन समग्रे गजे पञ्चवारं सुधालेपनं कृतवान्। प्रातः गजं दृष्ट्वा राजा आश्चर्यचकितः, सन्तुष्टः च। " श्वेतगजः प्राप्तव्यः इति मम इच्छा अद्य पूर्णा” इति वदन् सः लक्षं सुवर्णनाणकानि, उत्तमम् अश्वं च पारितोषिकरूपेण क्याङ्गाय दत्तवान्।
गृहम् आगतः क्याङ्गः शय्यादिवस्तूनि बद्ध्वा अश्वस्य उपरि आरोप्य स्वयम् अपि आरुह्य ततः निर्गतवान्। सायङ्कालसमये देशसीमाप्रदेशे नदीतीरं प्राप्तं तेन। नदीतीरे मलिनं छिन्नं वस्त्रं च धृतवान्कश्चित् मीनग्रहणे रतः आसीत्। तस्य समीपं गत्वा सः कः इति ज्ञात्वा पृष्टवान् क्याङ्गः— किं भोः, किं कुर्वन् अस्ति भवान्? का एषा दुर्दशा भवतः ?” इति।
क्याङ्गं दृष्ट्वा आश्चर्यं भीतिं च अनुभवन्कुम्भकारः पृष्टवान् — “भवान् अत्र किमर्थम्आगतः? एषः अश्वः कथं प्राप्तः भवता?” इति। क्याङ्गः प्रवृत्तं समग्रं निवेद्य कुम्भकारम्उक्तवान्— “यत्र अविवेकी राजा तत्रदिनमात्रम् अपि वासः न करणीयः। एषा नदी अतिक्रान्ता चेत् अन्यत् राज्यं प्राप्यते किल? अतः गच्छाव। परस्परं प्रीत्या व्यवहरन्तौ नूतनं जीवनं करिष्यावः तावत्” इति।
उदरनिमित्तम्
कदाचित् कार्यार्थं नगरं गतः सूर्यशेखरः, सुपरिचिते मार्गे नूतनतया आरब्धम् एकं छत्रापणं दृष्टवान्। आश्चर्येण सः समीपं गत्वा आपणस्य स्वामी कः इति दृष्टवान्। आश्चर्यं नाम स्वामिस्थाने उपविष्टः सुपरिचितः वीरभद्रः एव !
‘एतेन कदा एतत् वाणिज्यम् आरब्धम्? मया एषा वार्ता इतः पूर्वं न ज्ञाता एव’ इति चिन्तयन् सूर्यशेखरः अनतिदूरे एव स्थित्वा वीरभद्रस्य व्यवहारं परिशीलितवान्।
तावता कश्चन कृशकायः छत्रं क्रेतुम्आपणम् आगतवान्। तस्मै छत्रं प्रदर्शयन्उक्तवान् वीरभद्रः—“भवान् कृशः खलु ? अतः एतत् अल्पभारयुतं छत्रं स्वीकरोतु। एतत् छत्रं स्वीकृत्य योजनदूरं गतं चेदपि भारः न ज्ञायेत भवता। भवदर्थम् एव कारितम् इव अस्ति एतत्” इति।
सः कृशकायः छत्रं प्रसार्य दृष्ट्वा तृप्त्या धनं दत्त्वा छत्रं स्वीकृत्य ततः निर्गतवान्। अनन्तरं कश्चन स्थूलः छत्रं क्रेतुम्आगतः। वीरभद्रः तस्मै अपि एकं छत्रं प्रदर्शयन् उक्तवान्— “छत्रं सदापि आकारानुगुणं भवेत्। स्थूलस्य हस्ते सुदृढं छत्रम् एव शोभते। एतत् स्वीकरोतु भवान्’ इति।
सः स्थूलः पुरुषः छत्रं प्रसार्य परिशीलयन्आसीत्। तदा पुनः उक्तवान् व्रीरभद्रः— “किं परीक्षणेन? किं छत्रं कस्य हस्ते शोभते इति वयं जानीमः। अतः आगतस्य आकारं दृष्ट्वा योग्यम् एव चित्वा प्रदर्शयामः। स्थूलस्य भवतः हस्ते भारयुक्तम् एतत् छत्रं शोभते एव। आतपे वृष्टौ झञ्झावाते चापि एतत् उपकरोति। असदृशम् एतत्” इति।
एतानि वचनानि श्रुत्वा सः स्थूलः तृप्तः
सन् धनं दत्त्वा छत्रं स्वीकृत्य ततः निर्गतवान्।
एतत्सर्वं दूरतः पश्यन् स्थितः सूर्यशेखरः वीरभद्रस्य समीपम् आगतवान्। वीरभद्रः तं दृष्ट्वा सन्तोषेण—“मित्र! कुशलं खलु ? उपविशतु तावत्” इति आदरेण उक्तवान्।
तदा सूर्यशेखरः— “भवान् मधुरैः वचनैः व्यवहरन् स्थूलाय कृशाय च एकैकं छत्रं दत्तवान्। तौ तृप्त्या तत् क्रीत्वा गतवन्तौ। अहं तु न स्थूलः, न वा कृशः। मदुचितं छत्रं दातुम् अर्हति वा भवान् ?” इति पृष्टवान्।
‘कुतः न ? छत्रविक्रयणम् एव मम वृत्तिः। सर्वविधजनेभ्यः अपि योग्यं छत्रं दातुं शक्नोमि एव। ग्राहकाणांतृप्तिः एव अस्मादृशानां लक्ष्यम्। एतत् पश्यतु। दर्शनमात्रेण एव एतत् भवते रोचते” इति उक्त्वा एकं छत्रं सूर्यशेखराय दत्तवान्।
सूर्यशेखरः तत् छत्रं गृहीत्वा इतस्ततः परिवर्तयन्— “एतत् तावत् उत्तमम् इति न’ भाति” इति उक्तवान्।
“तथा किमर्थं वदति भोः? एतत् छत्रं हस्तेन गृहीतं चेत् भवान् आढ्यः इव, भूस्वामी इव दृश्यते। छत्रधारणेन भवतः मुखे अन्या एव शोभा भविष्यति। छत्रं गृहीत्वा अश्वारोहणं कृतं चेत् भवान् साक्षात्महाराजः इव भासते। एतत्सर्वम् अजानन्भवान् एतत् समीचीनं नास्ति इति वदति। अस्तु तावत्, वृष्टिकाले उपयोगार्थं तु एतत्भवत्येव इति तु सुस्पष्टम्। तदर्थं वा क्रीणातु” इति उक्तवान् वीरभद्रः।
“वर्णमयानि वचनानि भवतः " इति वदन्
छत्रं प्रसार्य परिशीलयन् स्थितवान्सूर्यशेखरः।
तदा झटिति वीरभद्रः पदद्वयं पृष्ठतः गत्वा—“मम वचनं सत्यम् एव श्रीमन्! अहो गाम्भीर्यम्! अहो शोभा ! नमस्करोमि श्रीमन् ! अद्य सुदिनं मम” इति विनयेन उक्तवान्।
तदा सूर्यशेखरः आश्चर्यं प्रकटयन्— “किं भोः, एतावान् विनयः आदरः च किमर्थम्? किं क्षणमात्रेण नटः संवृत्तः वा भवान्?” इति पृष्टवान्।
“न तथा। यदा एतत् छत्रं भवतः हस्ते भवति तदा कोऽपि धाष्टर्यम् अविनयं वा प्रदर्शयितुं न अर्हति। तादृशी शोभा दृश्यते भवतः मुखे। सर्वं छत्रधारणस्य फलम्” इति उक्तवान् वीरभद्रः।
सूर्यशेखरः वीरभद्रस्य चातुर्यपूर्णं वचनं श्रुत्वा सन्तोषं प्रकटयन् धनं दत्त्वा छत्रं स्वीकृत्य — “वीरभद्र ! आत्मीयौ खलु आवाम्। अतः पृच्छामि — कृशाय स्थूलाय मध्यमाय मादृशाय च दातुं योग्यानि छत्राणि सन्ति वा भवत्समीपे? सत्यं वदतु” इति उक्तवान्।
तदा वीरभद्रः हसन्— “मित्र! किं गोपनेन? मम समीपे विद्यमानानि छत्राणि सर्वाणि अपि समानानि एव। किन्तु आकारं दृष्ट्वा भेदं प्रकल्प्य अहं तथा वदामि। एवं न कृतं चेत् वाणिज्यं न प्रचलेत्। उदरनिमित्तं बहुकृतवेषः लोकः” इति उक्तवान्।
अहम् अपि सन्तोषेण एकं छत्रं यथा क्रीणीयाम् एव तथा कौशलेन व्यवहृतवान्भवान्। एतत् कौशलं कथं सम्पादितं भवता?” इति पृष्टवान् सूर्यशेखरः।
“बाल्ये नाटकेषु अभिनीयते स्म खलु? तत् इदानीम् उपकरोति। अन्यच्च जीवनं सर्वविधं कौशलम् अपि पाठयति। जले पतितः तरणम् अभ्यस्यति एव” इति उक्तवान् वीरभद्रः।
‘मम मित्रं वीरभद्रः अचिरात् एव वाणिज्ये प्रगतिं साधयिष्यति’ इति चिन्तयन् ततः स्वग्रामं प्रति प्रस्थितवान् सूर्यशेखरः।
उभौ चोरौ
कस्यचित् भूस्वामिनः आम्रोद्याने आम्रवृक्षेषु बहूनि फलानि फलितानि आसन्। वृक्षेषु यावन्ति पर्णानि ततोऽप्यधिकतया फलानि आसन्। अतः बहूनां दृष्टिः उद्याने पुनः पुनः पतति स्म। चौर्यम् अपि तदा तदा प्रचलति स्म। प्रतिदिनं शताधिकानि आम्रफलानि चोरितानि भवन्ति स्म। भूस्वामी उद्यानरक्षकम् आदिष्टवान् यत् रक्षणकार्ये विशेषजागरूकता आश्रयणीया इति।
कदाचित् आम्रफलानां चौर्ये रतः कश्चन दशवर्षीयः बालः उद्यानरक्षकेण दृष्टः। सः झटिति गत्वा बालकं गृहीतवान्। कोपमिश्रितेन स्वरेण पृष्टवान् च—“अरे, कः भवान्? दर्शनेन तु भाति यत्वीरसिंहस्य पुत्रः भवान् इति। सत्यं वा? वदतु रे” इति।
बालकः भीत्या कम्पमानः “आम्” इति वदन् अङ्गीकारपूर्वकं शिरः चालितवान्। तदा उद्यानरक्षकः कोपेन पुनः उक्तवान्— “अये दुष्ट! तिन्त्रिणीशलाकया सम्यक् ताडितं चेदेव विवेकः प्राप्येत भवता। अहं स्वयं ताडयामि उत,भवतः पितुः द्वारा ताडयामि ?” इति।
बालकः रोदनमिश्रितेन स्वरेण उक्तवान्— “भवान् मा ताडयतु। मम पितुः द्वारा ताडयतु” इति। “अस्तु तर्हि भवतः पितुः समीपम् एव गच्छाव तावत्” इति वदन् बालकस्य हस्तं गृहीत्वा प्रस्थितवान् उद्यानरक्षकः।
“तिष्ठतु। अहं पितरम् आह्वयामि तावत्” इति उक्त्वा सः बालः पितरम् आहूतवान्- “तात! तात!” इति। अपरक्षणे उद्यानस्थात् अन्यस्मात् वृक्षात् बालस्य पिता वीरसिंहः भीत्या अवतीर्य अधः आगतवान्। तस्य पृष्ठभागे आम्रफलैः पूर्णा गोणी अपि आसीत्!
उदारमनस्कः
रत्नपुरनामके ग्रामे कश्चन विद्यालयः आसीत्। तं विद्यालयं प्रति अध्यापकत्वेन सुदर्शनः नाम कश्चित् आगतवान्। सः एतस्य ग्रामस्य विषये, ग्रामस्थानां विषये वा किमपि न जानाति स्म। ग्रामम् आगतः सः साक्षात् भूस्वामिनः गृहं गत्वा स्वपरिचयम्उक्त्वा आगमनकारणं निवेदितवान्। भूस्वामी तत्क्षणे एव सुदर्शनस्य वासार्थं गृहादीनां व्यवस्थां कृतवान्। अल्पपरिचयतः एव सुदर्शनः ज्ञातवान् यत् भूस्वामी मितभाषी गम्भीरः च इति।
सुदर्शनस्य आगमनस्य अनन्तरं सप्ताहाभ्यन्तरे गणेशचतुर्थीपर्व आगतम्। पर्वणः पूर्वदिने आकाशे अकस्मात् कृष्णमेघाः सम्मिलिताः। धाराकारेण वृष्टिः आगता च। अतः समग्रे ग्रामे जलं स्थितं दृश्यते स्म।
मार्गपार्श्वे गणेशविग्रहाणां फलपुष्पादीनां च विक्रेतारः उपविष्टाः आसन्। ते शैत्यवशात् कम्पन्ते स्म। तदा तदा वृष्टिं निन्दन्ति स्म अपि। वृष्टिपरिणामतः ग्राहकाः विरलतया एव दृश्यन्ते स्म। अतः विक्रेतॄणां मुखे चिन्तारेखा स्फुटं दृश्यते स्म।
गणेशपूजायाः निमित्तं पूजासामग्रीः क्रेतुं सुदर्शनः अपि गृहात् निर्गतवान्। विपण्यां विविधवयस्काः विक्रेतारः विक्रयणे मग्नाः आसन्। भूस्वामी प्रत्यापणं गत्वा मूल्यं विचार्य मूल्यविषये चर्चां करोति स्म।
भूस्वामी एकस्य बालकस्य विक्रेतुः समीपं गत्वा मूल्यविषये चर्चां कृत्वा मूल्यं न्यूनीकारितवान्। अन्येषां विक्रेतॄणां समीपं गत्वा अपि तथैव कृतवान् सः। ‘अहो भूस्वामिनः कृपणता। विक्रेतारः वृष्टिकारणतः चिन्ताक्रान्ताः सन्ति एव। तन्मध्ये भूस्वामी मूल्यविषये चर्चांकुर्वन्
न्यूनमूल्येन ददातु इति वदन् अस्ति। निष्करुणः एषः’ इति चिन्तितवान् सुदर्शनः।
सर्वत्र मूल्यविषये चर्चां कृत्वा सर्वेभ्यः आपणेभ्यः अधिकांशानि वस्तूनि क्रीतवान्भूस्वामी। भूस्वामिनः सेवकाः तानि वस्तूनि ततः नीतवन्तः।
‘एतावन्ति फलपुष्पादीनि पूजासामग्रीः च क्रीत्वा भूस्वामी किं वा कुर्यात्? सेवकद्वारा अधिकमूल्येन एतेषां विक्रयणं कारयेत् सः’ इति चिन्तितवान् सः।
तस्मिन् एव समये सुदर्शनस्य सहोद्योगी कश्चित् पूजासामग्रीः क्रेतुं तत्र आगतवान्। सुदर्शनः आत्मना यत् दृष्टं तत् निवेदितवान्। उक्तवान् च—“भूस्वामितः भीताः एते निर्धनाः विक्रेतारः अल्पमूल्येन वस्तूनि विक्रीतवन्तः इति भाति मम। भूस्वामी एतेषां विषये क्रूरतां प्रदर्शितवान् इव। शैत्येन कम्पमानाः एते उदरम्भरणार्थं वाणिज्ये उद्युक्ताः सन्ति। किन्तु भूस्वामी अत्यल्पमूल्येन एतेभ्यः वस्तूनि क्रीणन्अल्पत्वं प्रदर्शितवान्। भूस्वामी मूल्यविषये चर्चां कुर्वन् आसीत् यत् तत् अहं प्रत्यक्षं दृष्टवान् अस्मि” इति।
सुदर्शनस्य वचनानि श्रुतवतःसहोद्योगिनः खेदः जातः। सः खेदेन उक्तवान्— “भवान्भूस्वामिविषये एतादृशानि अपमानकराणि वचनानि मा वदतु। सः एतस्य ग्रामस्य देवता इव। भवान् नूतनः इत्यतः एतत् प्रायः न जानाति” इति।
“एवं वा? किन्तु मम तु आश्चर्यं नाम देवतातुल्यः सन् भूस्वामी अत्यल्पमूल्येन वस्तूनि क्रेतुं किमर्थं प्रयतमानः अस्ति इति” इति उपहासमिश्रितेन स्वरेण उक्तवान्सुदर्शनः।
सहोद्योगी प्रतिवचनं किमपि न उक्तवान्। क्षणकालस्य मौनस्य अनन्तरम्—“आगच्छतु मित्र ! भूस्वामिगृहं गत्वा आगच्छाम तावत्” इति उक्त्वा भूस्वामिगृहं प्रति प्रस्थितवान्। सुदर्शनः तम् अनुसृतवान्।
यदा तौ भूस्वामिगृहं प्राप्तवन्तौ तदा भूस्वामी सेवकद्वारा पूजासामग्रीः एकत्र स्थापयन् आसीत्। यदा एतौ द्वारसमीपम्
आगतवन्तौ तदा सः महता आदरेण—“स्वागतं भवतोः। भवतोः आगमनात् नितरां सन्तुष्टः अस्मि। भवन्तौ वृष्ट्या क्लिन्नौ इव भासेते किल” इति उक्त्वा सेवकद्वारा नूतनानि वस्त्राणि आनाय्य एतयोः कृते यच्छन् उक्तवान्— “शिरः प्रथमं मार्जयताम्।ततः नूतनानि वस्त्राणि धरताम्” इति।
सुदर्शनः आश्चर्यम् अनुभवन् सहोद्योगिना सह पार्श्वस्थं प्रकोष्ठं गत्वा नूतनानि वस्त्राणि धृतवान्। यदा तौ ततः बहिः आगतवन्तौ तदा भूस्वामी पानार्थम् उष्णमधुरं क्षीरं दत्तवान्।
भूस्वामिनःऔदार्यंदृष्ट्वा आश्चर्यचकितःसुदर्शनः भूस्वामिनम् उक्तवान्— ‘‘श्रीमन्! यदि भवान् अन्यथा न चिन्तयेत् तर्हि अहं मम अल्पं सन्देहं भवतः पुरतः प्रकटयेयम्” इति।
“अन्यथा चिन्तनं किमर्थम् ? मनसि विद्यमानं सन्देहं निस्सङ्कोचं प्रकटयतु तावत्” इति उक्तवान् भूस्वामी।
तदा सुदर्शनः विपण्यां पूजासामग्रीणां फलपुष्पादीनां च विक्रेतृभिः सह भूस्वामिना कृतां मूल्यविषयिकां चर्चां स्मारयित्वा उक्तवान्— “विपण्यां तु अहम् अल्पमूल्येन वस्तूनि क्रेतुं प्रयतमानं भवन्तं दृष्टवान्। अत्र तु ततः सर्वथा भिन्नं भवन्तं पश्यामि। अतः भवतः व्यवहारे सङ्गतिं द्रष्टुं न शक्नोमि अहम्। कोपम् अकृत्वा एतस्य कारणं वक्तव्यं कृपया " इति।
तदा भूस्वामी उच्चैः हसितवान्, पृष्टवान्च — “कष्टसन्दर्भे कश्चित् अन्यस्य साहाय्यं यत् करोति तत् अनुचितम् इति भावयति वा भवान् ? " इति।
“कष्टसन्दर्भे साहाय्यदानं प्रशंसार्हम् एव। किन्तु अल्पेन मूल्येन वस्तूनां क्रयणं तु न शोभते” इति उक्तवान् सुदर्शनः।
“पश्यतु मित्र! वृष्टिकारणतः महत् कष्टम् अनुभूय ते फलपुष्पादिकं विक्रयणार्थम्आनीतवन्तः आसन्। किन्तु विक्रयणं तु न जातम् आसीत्। अतः तेषां समीपे विद्यमानानि वस्तूनि क्रीतानि मया। इतः परं निर्धनेभ्यः प्रतिवेशिभ्यः कर्मकरेभ्यः च
वितीर्यन्ते एते” इति उक्तवान् भूस्वामी।
“विक्रेतृभ्यः भवान् वस्तूनि क्रीतवान् यत्तत् तु भवतः महत् औदार्यं निरूपयति। किन्तु भवान् बालविक्रेतॄणां समीपे अपि मूल्यविषये चर्चां करोति स्म। एतस्य किम् औचित्यम्? यदि साहाय्यं करणीयम् इति इच्छा स्यात् तर्हि किञ्चित् धनं दातुं शक्नुयात् खलु भवान्?” इति उक्तवान् सुदर्शनः।
तदा भूस्वामी अनङ्गीकारपूर्वकं शिरः चालयन् उक्तवान्— “मित्र! साहाय्यव्याजेन अहं कस्यापि स्वभावं दूषयितुं न इच्छामि। भवान् अत्र नूतनः। अतः अहं मम आशयं किञ्चित् विस्तरेण एव निरूपयामि तावत्। गणेशचतुर्थीसन्दर्भे अस्माकं ग्रामे प्रायः वृष्टिः प्रतिवर्षं भवति एव। तथापि अत्र फलपुष्पादिविक्रेतारः एवं धैर्यं प्राप्नुवन्ति यत्यदि वृष्टिकारणतः फलपुष्पादीनां विक्रयणं न भवेत् तर्हि भूस्वामी वा तानि क्रीणन् साहाय्यं करोति एव इति। एवं मम व्यवहारः तान्वाणिज्ये प्रेरयति। यदि अहं तेभ्यः एवम् एव धनं दद्यां तर्हि ते सर्वे अलसाः भवेयुः। ‘वाणिज्ये प्रेरयितुं वस्तूनां क्रयणं तु भवतु। अल्पमूल्येन क्रयणार्थं प्रयत्नः किमर्थम् ?’ इति प्रश्नः भवतः मनसि स्यात् कदाचित्। वस्तुतः तु प्रतिदिनं ते येन मूल्येन विक्रयणं कुर्वन्ति तेनैव मूल्येन अहं क्रीणामि, न तु ततोऽपि न्यूनेन मूल्येन। यदा वृष्ट्यादिकं भवति तदा नष्टसम्भावनया सर्वे विक्रेतारः मूल्यं वर्धयन्ति। मम ग्रामे तु अहं क्रीणामि एव इत्यतः हानिसम्भावना नास्ति एव। अतः ‘मूल्यम् अधिकीकृत्य मा वदतु’ इति वदन् अहं योग्येन मूल्येन क्रीणामि। एतेन अन्ये ग्रामीणाः अपि योग्येन एव मूल्येन वस्तूनि प्राप्तुम् अर्हन्ति” इति।
भूस्वामिनः अन्तरङ्गं जानन् सुदर्शनः— “परमोदारः भवान्” इति कृतज्ञतापूर्वकम् उक्तवान्।
“किं मम औदार्यम्? सर्वस्य कारयिता भगवान् एव। अहं तु निमित्तमात्रम्” इति विनयेन उक्तवान् भूस्वामी।
उत्तमः सेवकः
एकस्मिन् ग्रामे श्यामः सोमः इति मित्रद्वयम् आसीत्। तौ निर्धनौ आस्ताम्। तयोः निश्चितः कोऽपि उद्योगः न आसीत्। अतः तौ प्रतिदिनम् उद्योगान्वेषणं कुरुतः। कदाचित् ताभ्यां ज्ञातं यत् पार्श्वग्रामस्थे भूस्वामिनः गृहे उद्योगावकाशः अस्ति इति।
अनन्तरम् एकस्मिन् दिने प्रातः उत्थाय तौ द्वौ अपि भूस्वामिनः गृहं गतवन्तौ। तत्र द्वारे कश्चन सेवकः आसीत्। सः सेवकः अन्तः गत्वा भूस्वामिनं दृष्ट्वा आगत्य उक्तवान्— “सोमवासरे आगन्तुं सूचितवान् भूस्वामी” इति।
तौ निराशया प्रतिगतवन्तौ। “सोमवासरे यत् वक्तव्यम् अस्ति, तत् अद्यैव उक्तं चेत् किं नष्टम् अभविष्यत्” इति सोमः उक्तवान्।
“पश्यामः— सोमवासरे किं भविष्यति इति” इति उक्तवान् श्यामः।
सोमवासरे उषःकाले एव उत्थाय श्यामः सोमस्य गृहं गतवान्। सोमः निद्रां कुर्वन्आसीत्। श्यामः— “भूस्वामिनः गृहं गन्तुं प्रस्थितः अहम्, आगच्छतु” इति सोमम् उक्तवान्।
तदा सोमः— “इदानीमेव का त्वरा ? मन्दं गच्छाव” इति उक्तवान्।
“अहं तु प्रस्थितः। भवान् मन्दम् आगच्छतु” इति उक्त्वा गतवान् श्यामः।
एकघण्टानन्तरं सोमः उत्थाय प्रातर्विधिं समाप्य भूस्वामिनः गृहं गतवान्। गमनानुक्षणं भूस्वामिनः दर्शनं भवेत् इति तस्य विश्वासः न आसीत्।
प्रातः काले एव आगतं श्यामं दृष्ट्वा तत्रत्यः सेवकः भूस्वामिनं निवेदितवान्। “एकः एव आगतवान् वा? द्वितीयः किमर्थं न आगतवान् इति पृष्ट्वा आगच्छतु” इति
सेवकम् उक्तवान् भूस्वामी।
“सोमः किञ्चित् विलम्बेन आगच्छामि इति उक्तवान्। अचिरादेव आगच्छेत् सः” इति सेवकम् उक्तवान् श्यामः।
किञ्चित्कालानन्तरं तत्र आगतः सोमः श्यामम् उक्तवान्— “मया पूर्वमेव उक्तं किल? मत्तः पूर्वमेव आगत्य भवता किं साधितम् अत्र ?” इति। श्यामः मौनं स्थितवान्।
किञ्चित्कालानन्तरं भूस्वामी बहिः आगतवान्। द्वौ अपि नमस्कृतवन्तौ।
“उद्योगं प्रष्टुम् आगतवन्तौ भवन्तौ एव वा? भवतु, इदानीं गत्वा परश्वः बुधवासरे अस्मिन् एव समये आगच्छताम्” इति उक्त्वा गृहस्य अन्तः गतवान् भूस्वामी।
आगमनस्य प्रयोजनं किमपि न जातम् इतिवदन्तौ द्वौ अपि गृहं प्रति प्रस्थितौ।
बुधवासरे प्रातः श्यामः एकः एव भूस्वामिनः गृहं गतवान्। सोमः अनिच्छन् एव मध्याह्नसमये भूस्वामिनः गृहं प्रति प्रस्थितः। भूस्वामी गृहम् आगताय श्यामाय भोजनं दत्त्वा “श्वः सायम् आगच्छतु” इति उक्त्वा प्रेषितवान्। श्यामः गृहं प्रस्थितः। मार्गे सोमः मिलितवान्। श्यामः भूस्वामिनः गृहे प्रवृत्तं सर्वम् उक्तवान्। तदा सोमः उक्तवान्— “एवमेव भवेत् इति अहं चिन्तितवान् आसम्। एतदर्थं पुनः श्वः सायं गन्तव्यम्वा?” इति।“गमनेन किं नष्टं भवति ? भवन्तम् अपि आगन्तुं सूचितवान् अस्ति भूस्वामी। आवयोः तु उद्योगः आवश्यकः। भूस्वामी एव
आह्वयति चेत् आवाभ्यां गन्तव्यम्। तत् एव उचितं भवति। मुहूर्तादिविषये तस्य विश्वासः स्यात्” इति उक्तवान् श्यामः।
“श्वः सायं पश्यावः। पुनः आगच्छतु इति भूस्वामी वदति चेत् आवाभ्यां न गन्तव्यम्” इति उक्तवान् सोमः। अनन्तरदिने सायङ्काले द्वौ अपि मिलित्वा भूस्वामिनः गृहं गतवन्तौ। तौ दृष्ट्वा सेवकः भूस्वामिनः समीपे सम्भाषणं कृतवान्, पुनः बहिः आगत्य उक्तवान्— “भवतोः कार्यविषये श्वः प्रातः सम्भाषणं करोमि। अतः अस्यां रात्रौ भवद्भ्यां द्वाभ्यामपि अत्रैव स्थातव्यम् इति
भूस्वामी उक्तवान् अस्ति” इति।
तदा कुपितः सोमः भूस्वामिनः सेवकं दृष्ट्वा —“कार्यं किमपि नास्ति। गच्छताम्इति पूर्वम् एव वक्तुं शक्यम् आसीत् किल!‘इति उक्त्वा कोपेन गृहं प्रति प्रस्थितः।
किञ्चित्कालानन्तरं सेवकः अन्तः गत्वा भूस्वामिनः सकाशात् धनम् आनीय श्यामाय दत्त्वा उक्तवान् — “वस्त्रापणं गत्वा एतेन धनेन एकं वस्त्रकटं, एकम् आच्छादकं च आनेतुम् उक्तवान् अस्ति भूस्वामी” इति। ‘श्यामः वस्त्रापणं गत्वा सेवकेन उक्तानि वस्तूनि आनीय दत्तवान्, अवशिष्टं धनमपि प्रत्यर्पितवान्। तदा सेवकः उक्तवान् — “भवतः निमित्तमेव एतानि वस्तूनि भूस्वामिना आनायितानि। अतः शयनार्थम् एतानि स्वीकरोतु भवान्” इति। अनन्तरं श्यामः तत्रैव भोजनं कृत्वा, वस्त्रकटम् आच्छादकं च स्वीकृत्य प्रातः कालपर्यन्तं सुखनिद्रां कृतवान्।
अनन्तरदिने प्रातःकाले भूस्वामी बहिः
आगत्य श्यामं उक्तवान् — “श्याम, भवतः व्यवहारेण अहं सन्तुष्टः अस्मि। परह्यः सोमवासरात् आरभ्य भवान् अत्र उद्योगित्वेन नियुक्तः। तद्दिनादारभ्य मया यथा उक्तं तथैव कृतवान् भवान्। भवते योग्यं वेतनं दास्यामि। भवतः कार्यम् किम् इत्युक्ते मम अधीने केचन ग्रामाः सन्ति। तत्र सर्वत्र गत्वा भवता करधनं सङ्ग्रह्य आगन्तव्यम्। अतीवसहनया इदं कार्यं करणीयम्। कोपः तिरस्कारः वा न प्रकटनीयः। एतत् कार्यम् उत्तमरीत्या यदि करोति, तर्हि भवतः वेतनम् अधिकं करोमि " इति।
श्यामः उद्योगं प्राप्तवान् इति ज्ञात्वा सोमः पश्चात्तापम् अनुभूतवान्। अनन्तरं श्यामः एव भूस्वामिनं प्रार्थितवान् यत् मम मित्राय सोमाय अपि कश्चन उद्योगः दातव्यः इति। तत् श्रुत्वा भूस्वामी सोमम् आहूय उक्तवान् — अद्य आरभ्य भवान् मम उद्यानरक्षणकार्यं करोतु” इति। एतेन सोमःअपि सन्तुष्टः।
वास्तविकं स्वरूपम्
श्रीपुरस्य भूस्वामिनः प्रवृत्तिः आसीत् यत् उद्योगम् अपेक्ष्य यः तस्य समीपम् आगच्छति तं त्रीन्प्रश्नान् पृच्छति सः। तृप्तिकरम् उत्तरं यः वदति तम् उद्योगे नियोजयति। कदाचित् भूस्वामिनः प्रश्नाः सुलभाः भवन्ति स्म। पुनः कदाचित् नितरां कठिनाः।
कदाचित् रुद्रः नाम बधिरः उद्योगम् इच्छन् भूस्वामिनः समीपम् आगतवान्। भूस्वामी तस्य परीक्षार्थं प्रथमं प्रश्नं पृष्टवान्—“तत् किम्, यत् नष्टं चेदपि पुनः प्राप्तुं शक्यते ? " इति।
“धनम्” इति उक्तवान् रुद्रः।
“तत् किं, यत् सकृत् नष्टं चेत् पुनः प्राप्तुं न शक्यते ?” इति पुनः पृष्टवान् भूस्वामी।
“रात्रिः दिनं च” इति उत्तरम् उक्तवान् रुद्रः।
“उपकारं प्राप्तवान् कश्चित् कियत्कालं कृतज्ञताभावेन युक्तः स्यात् ?” इति पृष्टवान् भूस्वामी।
‘आजीवनम्’ इति उत्तरं दत्तवान् रुद्रः।
सन्तुष्टः भूस्वामी रुद्रम् उद्योगे नियोजितवान्। किन्तु अल्पे एव काले तेन ज्ञातं यत् रुद्रः बधिरःइति। अतः सः आश्चर्येण उच्चस्वेण रुद्रं पृष्टवान्— “तस्मिन् दिने भवान् मम प्रश्नानाम् उत्तरं कथं दत्तवान् ? " इति।
तदा भूस्वामिना उक्तं सम्यक् अवगत्य रुद्रः उक्तवान्— “तस्मिन् दिने भवता त्रयः प्रश्नाः पृष्टाः। ‘भवान् किम् इच्छति ?’ इति भवता पृष्टम्। ‘धनम्’ इति उक्तवान् अहम्। भवान् द्वितीयं प्रश्नं पृष्टवान् — ‘भवान् कदा कदा कार्यं करोति ?’ इति। अहम् उक्तवान्— ‘दिने रात्रौ च’ इति। भवान् पुनः पृष्टवान्— ‘कियत्कालं भवान् कार्यं करिष्यति?’ इति। अहम् उक्तवान्— ‘आजीवनम्’ इति” इति।
इदानीं रुद्रस्य वास्तविकं स्वरूपं ज्ञातवान् भूस्वामी। सः हसन् उक्तवान्— “भाग्यवशात् उद्योगः प्राप्तः भवता भाग्यशाली भवान्” इति।
वायसतैलम्
सहस्राधिकवर्षेभ्यः पूर्वम् अवन्तीराज्यं अनूपवर्मा नाम राज पालयति स्म। तस्य आस्थाने कश्चन ज्योतिषिकः अपि आसीत्। सः प्रतिदिनं उषःकाले स्नानार्थं नदीं गत्वा नद्यां स्नात्वा प्रत्यागच्छति स्म।
नदीगमनमार्गे किञ्चन आम्रोद्यानम् आसीत्। कदाचित् स्नानं समाप्य ज्योतिषिकः गृहं गच्छन् आसीत्। तदा आम्रोद्याने आम्रवृक्षस्य शाखायाम् उपविष्टः कश्चन काकः ज्योतिषिकस्य उपरि विष्ठाम् अपातयत्। एतेन ज्योतिषिकस्य कोपः आगतः। सः कोपेन प्रतिज्ञां कृतवान् यत् न केवलं विष्ठां पातितवन्तम् अपि तु समग्रं काककुलम् एव नाशयिष्यामि इति।
प्रतिज्ञापूरणार्थं कश्चन अवकाशः अपितेन प्राप्तः। स च एवम्—
राज्ञः प्रासादं परितः स्थितस्य दुर्गस्य समीपेकश्चन वृद्धः कुटीरं निर्माय निवसति स्म। सः कदाचित् अङ्गणे धान्यं प्रसार्य रक्षणार्थम् उपविष्टवान् आसीत्। वृद्धः उपविष्टः एव मध्ये मध्ये निद्रां प्राप्नोति स्म।
वृद्धः यदा निद्रां प्राप्नोति तदा कश्चन गर्दभः आगत्य धान्यं खादति स्म। जागरितः वृद्धः तं गर्दभं दूरं प्रेषयति स्म। एवं द्वित्रवारं प्रवृत्तम्। तथापि गर्दभः चतुर्थवारम् अपि आगत्य धान्यम् अखादत्।
‘एषः वराकः गर्दभः सम्यक् दण्डनीयः’ इति निश्चित्य वृद्धः विना शब्दं गत्वा गर्दभं गृहीतवान्। रज्ज्वा तं पार्श्वे बद्धवान्। अनन्तरं तालपत्राणि तैलेन आर्द्रीकृत्य गर्दभस्य पुच्छे बद्धवान्। ततः अग्निं संयोज्य गर्दभं बन्धविमुक्तं कृतवान्। पुच्छे योजितम् अग्निं दृष्ट्वा भीतः गर्दभः मतिभ्रान्तः इव इतस्ततः अधावत्। सर्वत्र धावन् सः
गजशालां प्राविशत्। क्षणमात्रेण गजशाला अग्निना ग्रस्ता जाता।
अग्निं दृष्ट्वा दिग्भ्रान्ताः गजाः उच्चैः धीङ्कुर्वन्तः इतस्ततः धावितवन्तः। गजशालातः निर्गत्य मार्गे अपि केचन गजाः धावितवन्तः। केचन च अग्निना दग्धकायाः अभवन्।
जनानां मध्ये गजानां धावनतः राजधान्यां महान् कोलाहलः उत्पन्नः। तावता हस्तिपकाः एताम् आकस्मिकघटनां ज्ञात्वा गजशालासमीपं गत्वा गजान् गृहीत्वा बद्धवन्तः। घण्टानन्तरं कोलाहलः शान्तः।
गजवैद्याः व्रणितानां गजानां चिकित्सां कृतवन्तः। विविधानि तैलानि सज्जीकृत्य लेपितवन्तः। तथापि दाहात् जाताः व्रणाः न उपशान्ताः।
ज्योतिषिकः एतादृशं समयम् एव प्रतीक्षमाणः आसीत्। सः राजसमीपं गत्वा उक्तवान्— “प्रभो, सामान्येन तैलेन गजानां व्रणाः न उपशाम्यन्ति। तदर्थं काकानां मेदसा वायसतैलं सज्जीकरणीयम्। अग्निजातः गजव्रणः वायसतैलेन केवलं शाम्यति, न तु अन्येन” इति।
राजा एतस्मिन् वचने विश्वसितवान्। सः तस्मिन् एव दिने सडिण्डिमघोषं वार्तां प्रसारितवान् यत् जनैः काकाः ग्रहीतव्याः, राजप्रासादं प्रति आनेतव्याः च। काकग्रहीत्रे प्रतिकाकम् एकं ताम्रनाणकं दीयते इति।
एतां वार्तां श्रुत्वा देशे सर्वे काकान् ग्रहीतुम् उद्युक्ताः अभवन्। सहस्रशः काकाः जनैः गृहीताः। राजप्रासादसमीपे विशालं पञ्जरं निर्मितम्। तत्र ते काकाः स्थापिताः।
काकराजः काकानाम् एतां दुरवस्थां दृष्ट्वा खिन्नः। कश्चित् मानवः अविवेकी इत्यतः एषा दुरवस्था इति ज्ञातवान् सः। एतदर्थं मानवानां राज्ञः दर्शनम् एव वरम् इति आलोच्य काकराजः राजप्रासादं गतवान्। तत्समये राजसभा प्रचलन्ती आसीत्। काकराजः वेगेन सभां प्रविश्य सिंहासनस्य उपरि उपाविशत्।
काकस्य हठात् प्रवेशं सिंहासनस्य उपरि उपवेशनं च दृष्ट्वा दिग्भ्रान्ताः रक्षकभटाः काकं ग्रहीतुं मारयितुं च उद्युक्ताः। तदा
काकराजः आर्तस्वरेण— “महाराज ! रक्षतु माम्। रक्षतु माम्” इति मानवभाषया अवदत्। काकमुखात् आगतं मानववचनं श्रुत्वा आश्चर्यचकितः राजा नेत्रसङ्केतेन भटान् दूरं प्रेषितवान्।
काकराजः मानवभाषया राजानम् अवदत् — “महाराज! मम वचनं शान्ततया श्रुत्वा सारासारतां विचार्य भवान् यथोचितं निर्णयतु। राजा अन्यवचने कदापि विश्वासं न कुर्यात्। सारासारता प्रथमं चिन्तनीया। अविचार्य कृतं कार्यं बहूनां दुःखस्य कारणं भवेत्। भवतः आस्थानस्य ज्योतिषिकः काकमेदसा गजव्रणं दूरीकरोमि इति उक्तवान् खलु ? वस्तुतस्तु काकशरीरे मेदः एव न भवति। एवं स्थिते मेदसः तैलस्य सज्जीकरणं कथं शक्येत ? भवदास्थान- ज्योतिषिकः मिथ्यावादी” इति।
तदा राजा पृष्टवान्— “काकानां शरीरे मेदः किमर्थं न भवति ?” इति। “पौष्टिकाहारस्य सेवनेन खलु शरीरे मेदः वर्धते ? काकाः तु मानवेभ्यः भीताः सन्तः कष्टेन आहारं प्राप्नुवन्ति। अल्पः आहारः किं मेदः जनयेत् ? सर्वथा न खलु? एषः ज्योतिषिकः क्षुल्लकेन कारणेन काकान् द्विषन्काककुलस्य नाशं प्रतिज्ञाय इदानीं मिथ्यावचनेन भवन्तं वञ्चयित्वा पैशाचतृप्तिम् अनुभवन् अस्ति” इति उक्त्वा काकराजः पूर्वतनघटनां राजानं निवेदितवान्।
एतेन राज्ञि विवेकः उदितः। बन्धने स्थापितान् सर्वान् काकान् बन्धविमुक्तान्कृत्वा राजा नियमं कृतवान् यत् देशे केनापि काकाः न मारणीयाः इति। मिथ्यावादिनं काकद्वेषिणं ज्योतिषिकं पदवीतः च्यावितवान्सः। ‘इतः परं राजभवने प्रतिदिनं गोणीमित धान्यं काकेभ्यः अर्पणीयम्’ इति अधिकारिणः आज्ञापितवान् सः।
‘काककुलं रक्षितं भवता। तदर्थं कृतज्ञाः वयम्’ इति राजानम् उक्त्वा, राज्ञः अनुज्ञां प्राप्य काकराजः ततः सन्तोषेण निर्गतवान्।
वहनात् भारज्ञानम्
हरिणपुरनामके ग्रामे गोवर्धनः नाम कश्चन धनिकः निवसति स्म। तस्य बहुविधं वाणिज्यम् आसीत्। अतः बहवः कर्मकराः अपि आसन्। गोवर्धनः कदापि कर्मकराणां कष्ट-दुःखादिविषयं न चिन्तयति। मध्याह्ने उग्रातपे कर्मकराः पिपासया बाधिताः चेदपि जलपानार्थम् अनुमतिं न ददाति सः। जलं पातुं गतं चेत् समयः व्यर्थः भवति इति तस्य आशयः। एतादृशानि कष्टानि अपि कर्मकाराः मौनं सहन्ते स्म।
एतत्सर्वं दृष्ट्वा गोवर्धनस्य पत्नी सुजातापुत्रः गिरिधरः च नितरां दुःखितौ भवतः।गोवर्धनस्य मनसः परिवर्तनार्थं तौ बहुधाप्रयत्नं कृतवन्तौ। किन्तु तयोः सर्वे यत्नाःविफलाः। तौ अपि निराशया मौनम्आश्रितवन्तौ।गोवर्धनस्य एकं शकटम् आसीत्। नगरादीन् प्रति गमनागमनार्थं बहुधा तस्य उपयोगं करोति स्म गोवर्धनः। शकटवाहकम् अश्वं महत्या प्रीत्या पश्यति स्म सः। किन्तु शकटचालकं बादरं तु अन्यकर्मकरान् इव एव उपेक्षया एव पश्यति। बादरः वृद्धः, तथापि गोवर्धनः तस्मिन् दयां न प्रदर्शयति।
हरिणपुरतः नगरं प्रति गमनसमये किञ्चन अरण्यं क्रमणीयं भवति स्म। तस्मिन्अरण्ये क्रूराः हिंसपशवः कुख्याताः लुण्ठाकाः च निवसन्ति स्म। अतः रात्रिसमये तेन मार्गेण गन्तुं कोऽपि धैर्यं न प्राप्नोति स्म।
कदाचित् बन्धुगृहस्य विवाहार्थं पत्नीपुत्राभ्यां सह शकटे उपविश्य गोवर्धनः नगरं प्रति प्रस्थितवान्। पत्नी सुजाता आत्मना सह बहूनि वस्तूनि स्वीकृतवती आसीत्। पुत्रः गिरिधरः अपि वाणिज्यवस्तुयुक्तं पेटिकाद्वयं शकटे
स्थापितवान् आसीत्। प्रातः गृहात् प्रस्थिताः ते मध्याह्नसमये अरण्यमार्गं प्राप्तवन्तः।
अत्रान्तरे शकटचालकः बादरः हृदयं गृहीत्वा वेदनया क्रन्दमानः शकटे पृष्ठतः पतितवान्। खलीनं तस्य हस्तच्युतं जातम्। अतः स्वेच्छया धावन् अश्वः शकटात्पृथग्भूय कुत्रापि अधावत्। अश्वरहितं शकटं वृक्षेण घट्टितं सत् अतिष्ठत्। शकटे उपविष्टाः गोवर्धनः, सुजाता गिरिधरः च शकटात् अवतीर्णाः।
“दैवानुग्रहात्वयं महतः अपायात्कथमपि रक्षिताः अभवाम” इति दीर्घं निःश्वसन् उक्तवान् गोवर्धनः।
“इदानीं किं करणीयम् अस्माभिः?” इतिपृष्टवान् गिरिधरः।
“किम् अन्यत् कर्तुं शक्यते? त्रयः अपि भारं विभज्य वहन्तः गच्छाम। इदानीं न अन्यः मार्गः” इति उक्तवती सुजाता।
त्रयः अपि क्रूरपशुतः लुण्ठाकतः च नितरां भीताः आसन्। अतः भारवहनं मौनम्अङ्गीकृत्य ते भारं विभज्य स्वीकृतवन्तः। त्वरया ततः निर्गतवन्तः। भीतिकारणतः त्वरकारणतः च केनाऽपि बादरविषये न चिन्तितम् एव।
किञ्चिद्दूरं गमनानन्तरं सुजाता बादरं स्मृतवती। सा खेदेन उक्तवती— “परमस्वार्थिनः वयं बादरं तत्रैव परित्यज्य आगताः। न जाने, घोरे अरण्ये तस्य का गतिः जाता स्यात् इति” इति।
“अलं व्यर्थचिन्तया। नगरं प्राप्य कञ्चित् तत्र प्रेषयिष्यामः। तदस्तु बादरः कथञ्चित्उत्थाय नगरं गृहं वा प्राप्नुयात्। अश्वस्य शकटस्य च का गतिः ? तयोः मूल्यं किं न्यूनम् ?” इति वदन् कोपं प्रदर्शितवान्गोवर्धनः।
क्रोशार्धं यावत् गमनसमये एव तैः सम्यक्ज्ञातं यत् भारवहने कीदृशः क्लेशः अस्ति इति। घोरे आतपे वृक्षच्छायारहिते मार्गे गच्छन्तः आसन् ते। त्रयः अपि नितरां श्रान्ताः सन्ति। तत्रापि महतीं पेटिकां वहतः गोवर्धनस्य तु शोचनीया आवस्था। एकं पदम्अपि अग्रे गन्तुम् अशक्नुवन् सः पेटिकाम्अवतार्य दीर्घं निःश्वसन् पत्नीम् उक्तवान्—
“महती पिपासा! कण्ठः शुष्कः जातः। जलं ददातु किञ्चित्” इति।
तदा सुजाता आश्चर्यं प्रकटयन्ती— “जलपात्रम् अत्र कुत्र? तत्तु शकटे एवअवशिष्टम्” इति उक्तवती।
“हा हन्त!” इति खेदेन उक्तवान्गोवर्धनः। ग्रामे घोरातपे भारं वहन्तः कर्मकराः तेन स्मृताः। ‘जलपानार्थम् अपि अनुमतिम् अयच्छन् अहं घोरं पापम् आचरितवान्’ इति चिन्तितवान् गोवर्धनः। उरोवेदनया पीडितः सन् पतितः बादरः अपि तेन स्मृतः। ‘वृद्धम्, अस्वस्थम्, एकाकिनं तं घोरे अरण्ये परित्यजतः मम अहो निर्दयता! धिक् माम्” इति आत्मानं निन्दितवान्गोवर्धनः।
सः झटिति उत्थाय पृष्ठतः परिवृत्य— अहं शकटसमीपं गत्वा आगमिष्यामि। भवन्तौ अत्रैव तिष्ठताम्” इति उक्त्वा अग्रे गन्तुम् उद्युक्तः।
तदा गिरिधरः उत्थाय— “जलम् आनेतुं किल गम्यते भवता? अहं गत्वा आनयामि तावत्” इति उक्तवान्।
तदा गिरिधरस्य गमनं निराकुर्वन् उक्तवान् गोवर्धनः—“अहं जलपात्रार्थं न, उरोवेदनया पतितस्य एकाकिनः बादरस्य निमित्तं गच्छन् अस्मि। वयम् एव अश्वम् अन्विष्य शकटे संयोज्य बादरं नगरं नीत्वा वैद्याय दर्शयाम। भवान् अपि मया सह आगच्छतु” इति।
गोवर्धनस्य मुखतः निर्गतम् एतादृशं वचनं
श्रुत्वा सुजाता गिरिधरः च आश्चर्येण तदीयं मुखं पश्यतः। तदा गोवर्धनः पुनः उक्तवान्— “अद्यावधि अहं कर्मकराणां विषये निर्दयं व्यवहारं प्रदर्शयामि स्म। अद्य मया ज्ञातं यत्भारवहनं कियत् क्लेशकरम्इति। स्वानुभवः एव श्रेष्ठः गुरुः इति अभिज्ञाः वदन्ति। मया अद्य स्वानुभवात् कर्मकराणां क्लेशः अवगतः” इति।
अत्रान्तरे अश्वस्य खुरपुटध्वनिः श्रुतः, हेषारवः अपि। शकटं चालयन् बादरः तत्र उपस्थितः। गोवर्धनः झटिति शकटसमीपं गत्वा पृष्टवान्— “अहो बादर! उरोवेदनया पीडितः भवान् पुनरपि एतस्मिन् क्लेशे आत्मानं पातितवान्? अश्वः कथम् अन्विष्टः भवता? वेदनायां सत्याम् अपि कथं शकटं चालितवान् ? " इति।
“श्रीमन्, गतेभ्यः षोडशवर्षेभ्यः एषा वेदना मां पीडयन्ती अस्ति। अतः एषा वेदना अदृष्टपूर्वा न, वेदनासहनपूर्वकं कार्यकरणम्अपि अज्ञातं न। अश्वः तु अल्पे एव काले स्वयं शकटसमीपम् आगतः। तदस्तु मत्कारणतःभवता भारः वोढव्यः आपतितः। अहं क्षन्तव्यः कृपया” इति दैन्येन उक्तवान्बादरः।
एतत् श्रुतवतः गोवर्धनस्य मुखं प्रसन्नं जातम्। सः प्रीत्या बादरस्य स्कन्धे हस्तं स्थापयित्वा तं सन्तोष्य जलपात्रस्थं जलं पीत्वा उक्तवान्— “क्षमायाचना करणीया नास्ति। यतः भवता कोऽपि दोषः न कृतः। यत् प्रवृत्तं तत् हिताय एव। तत्कारणतः एव मया ज्ञातं यत् कर्मकराणां विषये निर्दयव्यवहारः न करणीयःइति। भारवहनकष्टं वोढा एव जानीयात्, न तु दूरतः द्रष्टा। एवं खलु ?” इति।
अनन्तरं गोवर्धनः सुजाता गिरिधरश्चापि शकटे उपविश्य नगरं प्राप्तवन्तः। एतदनन्तरं गोवर्धनस्य व्यवहारे महत्परिवर्तनं दृष्टम्। कर्मकरान् पुत्रवत् पश्यति सः। अतः कर्मकराः अपि तम् आदरेण पश्यन्तः सन्तोषेण प्रशंसां कुर्वन्ति स्म।
वञ्चनायाः फलम्
कस्मिंश्चित् ग्रामे पूर्वं कश्चन भूस्वामी आसीत्। ग्रामस्य पार्श्वे एव किञ्चन अरण्यम् आसीत्। तेन मार्गेण ये गच्छन्ति तेषां धनम् अमूल्यवस्तूनि च सेवकानां द्वारा लुण्ठयित्वा धनं सम्पादयति स्म सः। भूस्वामिसेवकाः कदाचित् जनान् मारयन्ति स्म अपि। अतः तेन अरण्यमार्गेण गन्तुं जनाः भीतिम् अनुभवन्ति स्म।
कदाचित् कश्चन पण्डितः राज्ञः सम्माननं प्राप्य भूस्वामिनः ग्रामस्य पार्श्वे स्थितस्य अरण्यस्य मार्गेण गच्छति स्म। अरण्यमार्गे भूस्वामिसेवकाः हठात् आक्रमणं कृत्वा पण्डितस्य सम्पत्तिं स्वायत्तीकृतवन्तः। तावदेव न, पण्डितं निर्दयं मारितवन्तः अपि। मृतस्य पण्डितस्य शवं ते अरण्ये कुत्रापि निखातवन्तः। अतः पण्डितस्य मरणस्य वार्ता केनापि न ज्ञाता एव।
मृतस्य पण्डितस्य एकः पौत्रः आसीत्।
तस्य वयः दश वर्षाणि। एषः पण्डितस्य पौत्रः कदाचित् विद्याभ्यासार्थं गुरुकुलं प्रति प्रस्थितवान् आसीत्।
मार्गे कश्चन वृद्धः तेन बालकेन मिलितः। सः बालकम् उक्तवान्— “भोः, मया सह भवान् आगच्छतु। अहं भवतः उपकारं करिष्यामि " इति।सः वृद्धः तं बालकं वृक्षाणां मध्ये किञ्चिद्दूरं नीतवान्। तम् एकत्र उपवेश्य स्वयं भूमिखनने उद्युक्तः अभवत् अपि। अल्पे एव काले गर्तस्थले एकं पित्तलपात्रं लब्धम्। पात्रस्य मुखं वस्त्रेण आच्छन्नम् आसीत्।
वृद्धः तस्मै बालकाय तत् पात्रं यच्छन् उक्तवान्— “वत्स! एतस्य अन्तः सुवर्णनाणकानि सन्ति। एतानि भवान् नयतु। यदा भवान् अरण्यस्य क्रमणं करोति तदा रात्रिः भविष्यति। अरण्यपार्श्वे स्थिते ग्रामे कश्चन भूस्वामी निवसति। तस्य गृहे भवान्
वासं करोतु। प्रातः अग्रे गच्छतु” इति।
एतावत् उक्त्वा वृद्धः ततः निर्गतवान्। वृद्धस्य गमनस्य अनन्तरं बालकः पात्रस्य वस्त्रावरणम् अपनीतवान्। पात्रस्य अन्तः वस्तुतः अपि बहूनि सुवर्णनाणकानि आसन्। तानि दृष्ट्वा वृद्धं कृतज्ञतापूर्वकं स्मरन् सः बालकः पुनरपि वस्त्रेण पात्रस्य मुखं पिधाय पात्रेण सह ततः प्रस्थितवान्।
अरण्यम् अतिक्रम्य यावत् सः ग्रामं प्राप्तवान् तावता अन्धकारः प्रसृतः आसीत्। वृद्धस्य सूचनां स्मरन् सः बालकः जनान्पृच्छन् भूस्वामिनः गृहं प्राप्तवान्। वसत्यर्थं भूस्वामिनम् अनुमतिं प्रार्थितवान्। भूस्वामी अनुमतिं दत्तवान्।
रात्रौ यदा बालकः निद्रामग्नः जातः तदा भूस्वामी मन्दम् आगत्य पित्तलपात्रस्य वस्त्रावरणम् अपनीतवान्। अन्तः बहूनि सुवर्णनाणकानि दृष्ट्वा सः नितराम्आश्चर्यचकितः। सः पात्रस्थानि सुवर्णनाणकानि नीत्वा गृहस्य अन्तः स्थापितवान्। पात्रं च यथापूर्वं वस्त्रेण पिधाय स्वप्रकोष्ठं गत्वा सुखेन निद्रां कृतवान् च।
अनन्तरदिने निद्रातः जागरितः बालकः पात्रं परिशीलितवान्। पात्रस्य भारः न्यूनः इव दृष्टः। सः झटिति वस्त्रावरणम् अपनीतवान्। पात्रं तु रिक्तम् आसीत्। खिन्नः सः भूस्वामिनः समीपं गत्वा उक्तवान्—“श्रीमन्! रात्रौ शयनसमये मम एतस्मिन्पात्रे सुवर्णनाणकानि आसन्। इदानीं तु पात्रं रिक्तं दृश्यते। मम निद्रासमये कोऽ
पि तानि सुवर्णनाणकानि चोरितवान्” इति।
एतत् श्रुत्वा भूस्वामी कोपेन —“अये, किं जल्पति भवान्? मयि चौर्यम् आरोपयति वा?कियत् औद्धत्यं भवतः? एतस्य अपराधस्य निमित्तं भवन्तं शूलम् आरोपयिष्यामि” इति उक्त्वा सेवकान् आज्ञापितवान् यत् एतं प्रकोष्ठे स्थापयित्वा कीलयन्तु इति। भटाः तं ततः बलात् नीतवन्तः।
अनन्तरं भूस्वामीग्रामवृद्धान् आनायितवान्। ते सर्वे भूस्वामितः भीताः सन्तः भूस्वामिना उक्तं सर्वम् अङ्गीकुर्वन्ति स्म। भूस्वामी ग्रामवृद्धान् सर्वं निवेद्य
उक्तवान्— “एतस्य बालकस्य शूलारोपणम् एव उचितम् इति अहं भावयामि। किम् अभिप्रयन्ति भवन्तः?” इति।
सर्वे ग्रामवृद्धाः “भवतः निर्णयः नितरां युक्तः” इति एकस्वरेण उक्तवन्तः।
सर्वानुमत्या बालकस्य शूलारोपणं निश्चितम्। एषा वार्ता ग्रामे प्रसारिता। सायं वध्यस्थाने जनाः सम्मिलिताः। बालकः वध्यस्थानं प्रति आनीतः। शूलारोपणं द्रष्टुं भूस्वामी स्वयम् उपस्थितः आसीत् अपि।
तावता कश्चन वृद्धः तत्र आगतः। सः भूस्वामिनः समीपम् आगत्य पृष्टवान् — “एतं बालकं किमर्थं शूलम् आरोपयन् अस्ति भवान्? एतेन बालकेन तादृशः कः अपराधः कृतः ?” इति।
“मम व्यवहारस्य औचित्यं पृच्छन् कः भवान्?” इति क्रोधेन पृष्टवान् भूस्वामी। तदा वृद्धः हसन् उक्तवान्— “अहम् एतस्य बालकस्य पितामहः अस्मि” इति। “एवं वा? तर्हि शृणोतु तावत्। एषः बालकः मयि चौर्यम् आरोपयितुं प्रयत्नं कृतवान्। रात्रौ शयनसमये पात्रे स्थितानि सुवर्णनाणकानि प्रातः न दृश्यन्ते इति कथयन् एषः मां चौर्यं मन्यते। मम अपमाननं कर्तुम् उद्युक्तस्य एतस्य कियत् औद्धत्यम्? औद्धत्यस्य अनुगुणं दण्डः विहितः मया” इति उक्तवान् भूस्वामी।
तदा वृद्धः उक्तवान्—“आत्मनः निरपराधित्वं प्रमाणीकरणीयं भवता। यदि भवता बालकस्य सुवर्णनाणकानि वञ्चनया स्वायत्तीकृतानि स्युः तर्हि ब्रह्मराक्षसः भवन्तं नयेत्” इति।
“ब्रह्मराक्षसात् मम न काऽपि भीतिः। यदि मया दोषः आचरितः स्यात् तर्हि सः मां नयतु नाम” इति उक्तवान् भूस्वामी।
अनन्तरक्षणे कश्चन ब्रह्मराक्षसः वेगेन तत्र आगत्य भूस्वामिनम् उन्नीय आकाशमार्गेण गच्छन् अदृश्यतां गतवान्। अनन्तरकाले केनापि न ज्ञातं यत् भूस्वामिनः का गतिः जाता इति।
विद्याभ्यासः किमर्थम्?
कुन्तलदेशं पूर्वं कुशलसेनः नाम राजा पालयन् आसीत्। कदाचित् तस्य मनसि सन्देहः उत्पन्नः यत् अध्ययनं किमर्थं करणीयम् इति।
अतः सः कदाचित् राजसभायां स्वसन्देहम् उपस्थापितवान्। “विद्याभ्यासः कृतः चेत् उच्चः उद्योगः प्राप्यते। ततः प्रभूतं धनं सम्पादयितुं शक्यते” इति उक्तवान् कश्चन पण्डितः। “विद्याभ्यासतः कीर्तिः प्राप्यते” इति उक्तवान् प्रधानमन्त्री। “विद्याभ्यासः कृतः चेत् जनाः आदरं प्रदर्शयन्ति। तेन जीवने तृप्तिः प्राप्यते” इति उक्तवान्कश्चन कविः।
“विद्यावान् सर्वत्र पूज्यते। विद्यारूपं धनं केनापि चोरयितुं न शक्यते। अतः विद्याधनं सर्वधनप्रधानम्” इति उक्तवान् कश्चन विद्वान्।किन्तु एतेषु केनापि उत्तरेण राजा न तृप्तः। राज्ञः एषः भावः विदूषकेण लक्षितः। अतः सः उत्थाय उक्तवान् — “प्रभो, समुचितम् उत्तरम् अहं वदामि। किन्तु मम भीतिः यत् मम उत्तरं श्रुत्वा भवान् क्रुद्धः भवेत् इति” इति।
“भीतिः : मास्तु। निस्सङ्कोचं वदतु तावत्। अप्रियम् अपि उत्तरं श्रोतुम् अहं सिद्धः एव” इति उक्तवान् राजा।
“इदानीं भवतः मनसि यादृशः सन्देहः, तादृशः न उत्पद्येत इति, उत्पन्नः चेदपि सभ्यान् कश्चित्न पीडयेत् इति एतदर्थं विद्याभ्यासः आवश्यकः” इति उक्तवान् विदूषकः।
विदूषकस्य उत्तरं श्रुत्वा सभासदः सर्वे उच्चैः हसितवन्तः। राजा तु एतस्य उत्तरस्य श्रवणात्क्षणकालं स्तब्धः। किन्तु अनन्तरक्षणे खेदं मनस्तः अपनीय विदूषकस्य चातुर्यं स्मरन् अन्यैः सह स्वयम् अपि हसितवान्।
]