लघुकथासङ्ग्रहः-२२

[[लघुकथासङ्ग्रहः-२२ Source: EB]]

[

आकाशचुम्बी दण्डः

पू

र्वं कश्चन भूस्वामी आसीत्। रामः श्यामः चेति विदूषकौ तम् आश्रित्य तिष्ठतः स्म। कदाचित् सायं वायुविहारार्थं भूस्वामी ग्रामात् बहिः प्रस्थितवान्। रामः श्यामः च तम् अनुसृतवन्तौ। मार्गम् उभयतः स्थितं हरिद्वर्णोपेतं क्षेत्रं प्रदर्शयन् खेदमिश्रितेन स्वरेण उक्तवान् रामः—“श्रीमन्, मार्गम् अभयतः स्थितम् एतत् सुविशालं समृद्धं क्षेत्रं पूर्वं मम प्रपितामहस्य आसीत्” इति।

तदा अपरः विदूषकः श्यामः उक्तवान्—“आं श्रीमन् ! रामः यत् वदति तत् सत्यम् एव। एतस्य प्रपितामहस्य सुविशाले क्षेत्रे मम प्रपितामहः एव वर्षणं कारयति स्म। मम प्रपितामहस्य समीपे एकः आकाशचुम्बी दण्डः आसीत्। सः तेन आकर्षणदण्डेन आकाशस्थान् मेघान् आकृष्य कम्पयन् वृष्टिं कारयति स्म” इति।

“तावद्दीर्घः आकर्षणदण्डः ! तं दण्डं कुत्र स्थापयति स्म भवतः प्रपितामहः ?” इति हसन् पृष्टवान् भूस्वामी।

“सः दण्डः इति अस्माभिः भाव्यते। किन्तु मम प्रपितामहः तं सामान्यां शलाकां भावयति स्म। अतः तं दण्डं सः एतस्य प्रपितामहस्य क्षेत्रे कुत्रापि स्थापयति स्म” इति उक्तवान् श्यामः।

“एवं तर्हि सः दण्डः इदानीं कुत्र ? " इति हसन् एव पृष्टवान् भूस्वामी।

“श्रीमन् ! क्रोधः महानर्थकारी इति उच्यते खलु ? केनचित् कारणेन कुपितः मम प्रपितामहः कदाचित् तस्य दण्डस्य साहाय्येन मेघान् सम्यक् कम्पितवान्। तस्य परिणामतः दिनत्रयं यावत् धाराकारेण वृष्टिः जाता। ततः यः प्रवाहः उत्पन्नः तेन एषः दण्डः अपि नीतः। शिलादीनां घर्षणेन स च दण्डः बहुधा छिन्नः अभवत् च” इति श्यामः उक्तवान् खेदेन।

तदा रामः उक्तवान्—“श्रीमन् ! यदा सः दण्डः नष्टः तदा वृष्टेः अभावः जातः। क्षेत्राणि शुष्काणि अभवन्। एतेन खिन्नः मम प्रपितामहः सर्वाणि क्षेत्राणि सर्वेभ्यः दत्तवान्। इदानीं किं, एकरद्वयमिता भूमिः अपि नास्ति मम” इति।

एतां विचित्रां कथां श्रुत्वा नितरां हसितवान् भूस्वामी। सन्तुष्टः सः रामाय श्यामाय च योग्यं पारितोषिकं दत्तवान् च।

आतिथ्यम्

** बा**

णाकरपुरनामके नगरे कमलानाथः नाम कश्चन वणिक् आसीत् । तस्य बहुविधं वाणिज्यम् आसीत् । प्रतिदिनं रात्रौ तस्य दिनस्य लाभं सम्यक् गणयित्वा कपाटिकायां स्थापयित्वा कीलयति स्म सः ।

कदाचित् रात्रौ लाभरूपेण प्राप्तं धनं गणयन् आसीत् कमलानाथः । तावता द्वारताडनशब्दः श्रुतः । तदा कमलानाथः कटस्य उपरि स्थापितस्य धनस्य उपरि एकं वस्त्रं प्रसार्य द्वारम् उद्घाटितवान् ।

** द्वारस्य पुरतः रामनाथः स्थितः आसीत् । रामनाथः कमलानाथस्य दूरबन्धुः आत्मीयः च । रामनाथः साक्षात् प्रकोष्ठं प्रविष्टवान् । कमलानाथेन धनस्य उपरि यत् वस्त्रं प्रसारितं तस्य पार्श्वे उपविष्टवान् च। कमलानाथः इदानीं किमपि कर्तुं वक्तुं वा अशक्नुवन् पृष्टवान्— “मित्र ! एवं मध्यरात्रे किमर्थम् आगतम् ?” इति ।**

** तदा रामनाथः उक्तवान्— “मित्र ! श्वः प्रातःकाले मया कस्मैचित् पञ्चाशत् रूप्यकाणि दातव्यानि । अतः इदानीं भवत्सकाशम् आगतवान् । भवान् अवश्यम् आत्मीयस्य मम साहाय्यं करिष्यति इत्यत्र विश्वासः अस्ति मम” इति ।**

** क्षणकालं यावत् कमलानाथस्य मुखात् किमपि न निर्गतम्। अनन्तरम् उक्तवान् सः— “मित्र ! किं करवाणि, असहायः संवृत्तः अस्मि । एषु दिनेषु वाणिज्ये मया महती हानिः अनुभूता । अद्य तु वाणिज्येन पञ्चरूप्यकात्मकः अपि आयः न प्राप्तः । कथं साहाय्यं कुर्याम् ? " इति ।**

** किन्तु रामनाथः मौनं न स्थितवान् । “भवता यावत् उच्यते तावतीं वृद्धिं दास्यामि मित्र ! ऋणं नास्ति इति मा वदतु कृपया " इति**

अनुरोधपूर्वकं प्रार्थितवान् स

। तावता वातायनत

वायु

वेगेन आगत

। प्रकोष्ठस्थ

दीप

निर्विण्ण

अभवत् । तत्र सर्वत्र अन्धकार

प्रसृत

तदा कमलानाथ

रामनाथस्य हस्तौ गृहीत्वा उक्तवान्— “मित्र ! क्षन्तव्य

अहम् । साहाय्यं करणीयम् इति इच्छा अस्ति चेदपि आनुकूल्यं नास्ति । अहम् एव ऋणं स्वीकृतवान् अस्मि। क्षन्तव्यः

अहम्” इति ।

तदा रामनाथ

उक्तवान्— “अस्तु, हस्ते धनं नास्ति चेत् भवान् वा किं कुर्यात् ? अन्यत

कुतश्चित् ऋणं प्राप्तुं प्रयत्नं करिष्यामि । आगच्छामि तावत्” इति ।

किन्तु कमलानाथ

तस्य हस्तौ अत्यजन्— “मित्र ! चिरात् आगमनं भवत

| अद्य भोजनं कृत्वा एव गन्तव्यम्” इति प्रार्थितवान् |

रामनाथ

उक्तवान् यत् मम भोजनं समाप्तम् इति । किन्तु कमलानाथ

रामनाथस्य हस्तौ अत्यजन् पुनः उक्तवान्— “मित्र ! एवं मा वदतु। मम सन्तोषार्थम् अद्य अत्र भवता भोजनं करणीयम् एव” इति ।

अत्रान्तरे कमलानाथस्य पत्नी दीपं ज्वालयित्वा तत्र आगतवती। तदा कमलानाथ

रामनाथस्य हस्तौ त्यजन् उक्तवान्— “मित्र ! भवता अन्यत

कुतश्चित् ऋणं प्राप्तुम् इदानीम् एव प्रयत्न

करणीय

खलु ? अस्तु, तर्हि, भवान् गच्छतु तावत् । पुन

कदाचित् मिलित्वा भोजनं करवाव” इति ।

“पुन

मिलाम तावत्” इति उक्त्वा तत

निर्गतवान् रामनाथ

कमलानाथस्य पत्नी न ज्ञातवती यत् पति

किमर्थं रामनाथस्य हस्तौं गृहीत्वा ‘भोजनं कृत्वा एव गच्छतु’ इति वदन् अस्ति इति । पत्न्या पृष्टः कमलानाथ

हसन् उक्तवान्— “अये ! दीप

तु निर्विण्ण

अभवत् । वस्त्रस्य अध

धनम् आसीत् । स

धनं स्वीकर्तुं हस्तं प्रसारयेत् इति भीत्या अहं तस्य हस्तौ दृढं गृहीतवान् आसम्” इति ।

पत्यु

वचनं श्रुत्वा मन्दं हसितवती पत्नी ।

आत्मगौरवहानिः

** जपरामः नाम राजोद्योगी पूर्वम् आसीत् । तेन तु प्रतिमासं पञ्चशतं रूप्यकाणि प्राप्यन्ते स्म । अतः तस्य धनमदः आसीत् ।**

** शिवरामः जयरामस्य बाल्यमित्रम्। सः परिश्रमशीलः । मार्गेषु शाकादिकं विक्रीय अन्यवाणिज्यम् अपि यथाशक्ति कुर्वन् सः अपि प्रतिमासं पञ्चशतं रूप्यकाणि सम्पादयति स्म । किन्तु जयरामः जनानाम् आदरं प्राप्नोति स्म, न तु शिवरामः ।**

** जयरामः राजास्थाने उद्योगी इत्यतः सर्वे तं नमस्कुर्वन्ति । वार्तालापसमये अपि शिरः किञ्चित् अवनमय्य विनयेन व्यवहरन्ति । कार्यक्रमादिषु तस्य निमित्तं विशेषासनं परिकल्पयन्ति । बाल्यस्नेहितः अपि शिवरामः मत्समानः न इति चिन्तयन् सः शिवरामम् उपेक्षया एव पश्यति । शिवरामेण सह वार्तालापः अगौरवकरः इति भावयति सः ।**

एतत्सर्वं दृष्ट्वा शिवरामः खेदम् अनुभवति । बाल्ये बहुधा साहाय्यं कृतवान् आसीत् शिवरामः। किन्तु जयरामः तत्सर्वम् इदानीं न स्मरति ।

** ‘जयरामेण राजास्थाने कीदृशः आदरः प्राप्यते इति द्रष्टव्यम्’ इति आलोच्य शिवरामः कदाचित् राजास्थानं गतवान् । तत्समये कश्चन अधिकारी जयरामं कठोरैः शब्दैः तर्जयन् आसीत् ।**

** शिवरामः एतत् दृष्ट्वा समीपस्थम् अन्यम् उद्योगिनं पृष्टवान्—“श्रीमन् ! जयरामवर्यम् एवं तर्जयन् सः अधिकारी कः ? सः किमर्थं तथा तर्जयन् अस्ति ?” इति ।**

** तदा सः उद्योगी मन्दस्वरेण शिवरामम् उक्तवान्—“भोः, किञ्चित् मन्दस्वरेण वदतु तावत् । एवं तर्जयिता अस्माकम् अधिकारी । कोपशीलता तस्य स्वभावः । विना कारणम् एव सर्वान् तर्जयति सः” इति ।**

“सः अधिकारी उच्चस्थानीयः स्यात्नाम । एवं तर्जनं किं शोभते ? तर्जनं श्रुत्वा कोऽपि प्रतिरोधं न आचरति वा?” इति पृष्टवान् शिवरामः ।

“प्रतिरोधः करणीयः चेत् धैर्यम्आवश्यकम् । किन्तु तादृशं धैर्यं कस्यापि न भवति । यतः कोऽपि उद्योगात् च्युतिं प्राप्तुं न इच्छति । उद्योगच्युतिः जाता चेत्जीवननिर्वहणं क्लेशाय खलु ? अतः सर्वे मौनं सहन्ते । जयरामः तु नितरां मृदुः । सर्वथा धैर्यहीनः । अतः अधिकारी तम् अधिकं तर्जयति” इति उक्तवान् राजोद्योगी।

प्रकोष्ठः अस्वच्छः अस्ति इत्यतः अधिकारी जयरामं तर्जयन् आसीत् । ‘स्वच्छताकर्ता कर्मकरः न आगतः’ इति उत्तरं दत्तवान् जयरामः । अनन्तरं स्वयं सम्मार्जनं कृतवान् सः । किञ्चित्कालानन्तरं पुनः तत्र आगतः अधिकारी—‘स्वच्छता सम्यक् न जाता । कर्मकरम् आह्वयतु तावत्’ इति आदिष्टवान् । ‘कर्मकरः इतोऽपि न आगतः’ इति उत्तरं दत्तवान् जयरामः । ‘तर्हि सः कुत्र गतः इति ज्ञात्वा अन्विष्य आनयतु’ इति आदिष्टवान् अधिकारी जयरामः ततः निर्गत्य सर्वत्र कर्मकरम् अन्विष्य कुत्रापि अप्राप्य निराशया विलम्बेन प्रत्यागतवान् । ‘वृथा विलम्बः कृतः’ इति पुनरपि तर्जितवान् अधिकारी ।

जयरामस्य परिस्थितिं दृष्ट्वा खिन्नः अभवत् शिवरामः । ‘मां दृष्ट्वा जनाः आदरेण न नमस्कुर्युः नाम, किन्तु कोऽपि माम् एवं अपमानजनकैः शब्दैः न तर्जयति । क्षुल्लकानि कार्याणि मद्द्द्वारा न कारयति अपि । अतः मम स्थितिः एवं वरम्’ इति आलोचितवान् शिवरामः । ततः मौनं निर्गतवान् च ।

शिवरामस्य आगमनं किञ्चित्कालं स्थितिं पुनर्निर्गमनं च ज्ञातवान् आसीत् जयरामः । किन्तु शिवरामः यदा आगतः तदा जयरामस्य स्थितिः शोचनीया आसीत् इत्यतः सः शिवरामेण सह वार्तालापं न कृतवान् आसीत्। ‘मया राजास्थाने यत् अपमाननम्अनुभूतं तत् सर्वत्र वदन् शिवरामः दुष्प्रचारं

कुर्यात्’ इति भीतः जयरामः तस्मिन् एव दिने सायं पत्नीपुत्रादिभिः सह शिवरामस्य गृहं गतवान्।

** यदा जयरामः शिवरामस्य गृहं गतवान् तदा शिवरामः, राजास्थाने उद्योगिनां कीदृशी दशा इति स्वपत्नीं वदन् आसीत्। तदा उपस्थितं जयरामम् उक्तवान्शिवरामः—“मित्र! समये उपस्थितं भवता। दिनद्वयतः कर्मकरी न आगता। अतः गृहे सर्वत्र अवकरः। भवान् किञ्चित् सम्मार्जयतु तावत्। योग्यां भृतिम् अहं ददामि” इति।**

** एतत् श्रुतवतः जयरामस्य महान् कोपः आगतः। सः कोपेन—“अये, गृहं प्रति आगतं मित्रम् एवम् अपमानयति वा? किं बुद्धिः अस्ति वा भवतः ?” इति पृच्छन् शिवरामं सम्यक् निन्दितवान्।**

** जयरामस्य पत्नी खेदेन शिवरामम् उक्तवती— “मित्रस्य अपि कस्यचित् एवम् उपहासः न शोभते। उपहासः व्यथाजनकं न भवेत्” इति।**

** तदा शिवरामः जयरामपत्नीम् उक्तवान्—“भगिनि ! ‘राजास्थाने ये उद्योगिनः भवन्ति ते कोपं सर्वथा विस्मरन्ति, अन्येन निर्दयं तर्जितं चेदपि ते मौनं सहन्ते’ इत्येतं विषयं सोदाहरणं मत्पत्नीपुत्राणां पुरतः निरूपयितुम् इच्छन् अहम् एतं तथा उक्तवान्। यतः मया राजास्थाने तादृशी स्थितिः दृष्टा आसीत्। किन्तु इदानीं मया ज्ञातं यत् राजास्थाने उद्योगिनः कार्यालये केवलं सर्वं सहन्ते इतरत्र तु आत्मगौरववन्तः भवन्ति इति। मम मित्रं जयरामः राजास्थाने कथमपि तिष्ठेत् नाम, अन्यत्र तु साभिमानं व्यवहरति इति ज्ञातवतः मम महान् सन्तोषः” इति।**

** एतत् श्रुतवता जयरामेण यद्यपि लज्जा अनुभूता, तथापि आत्मगौरवस्य हानिः यदा भवति तदा अपि मौनं न स्थातव्यम् इति विषयः सम्यक् अवगतः। अतः सः अनन्तरकाले आत्मगौरवं रक्षन् उत्तमां कीर्तिं प्राप्तवान्।**

अहङ्कारत्यागः

** चन्दनपुरे पूर्वं चिदानन्दः नाम महापण्डितः आसीत्। तस्य सम्पत्तिः प्रभूता आसीत् । अतः तस्य जीवननिर्वहणं सुखेन प्रचलति स्म । अतः एव सः उत्तमान् शिष्यान् कांश्चन चित्वा तान् यथाशक्ति पाठयन् काव्यानि लिखन्, यथाशक्ति परोपकारं च कुर्वन् तृप्त्या जीवनं यापयति स्म ।**

** चन्दनपुरे वागीशः नाम कविः अपि आसीत् । सः कदाचित् एकं काव्यं निर्माय राज्ञः पुरतः पठितवान् ।**

** राजा कविपोषकः काव्यमर्मज्ञः च । सः वागीशम् उक्तवान्— “भवान् प्रतिभावान् इत्यत्र सन्देहः नास्ति । तथापि भवता परिष्कारः प्राप्तव्यः अस्ति । शाणेन अनुल्लीढः मणिः इव अस्ति भवान् । अस्माकं नगरे चिदानन्दः नाम कविः अस्ति खलु ? तस्मै एतत् काव्यं प्रदर्शयतु । तेन सूचितान्परिष्कारान् करोतु। अनन्तरं पुनः मम समीपम् आनयतु” इति ।**

** वागीशः चिदानन्दसमीपं गत्वा स्वस्य काव्यं प्रदर्श्य राज्ञा यत् उक्तं तत्निवेदितवान्। तदा चिदानन्दः उक्तवान्—“भवान् भवदीयं काव्यम् अत्रैव स्थापयित्वा गच्छतु । अहं परिष्कृत्य प्रेषयिष्यामि” इति ।**

** ततः दिनद्वयाभ्यन्तरे एव चिदानन्दः वागीशस्य काव्यं परिष्कृत्य सेवकद्वारा वागीशगृहं प्रति प्रेषितवान् ।**

** तस्मिन् काव्ये चिदानन्देन यः परिष्कारः कृतः सः वागीशाय न अरोचत । वागीशः चिदानन्दस्य गृहं गत्वा उक्तवान्— “श्रीमन्! अल्पः परिष्कारः तु सह्यः एव । किन्तु भवता मम मूलभावः एव परिवर्तितः ।मम आशयस्य एवं परिवर्तनं भवान् करोति चेत् एतत् काव्यं मदीयं कथं स्यात् ?” इति ।**

** तदा चिदानन्दः मन्दहासपूर्वकम् ‘उक्तवान्— “वत्स ! प्रतिभाशाली भवान् । किन्तु प्रतिभामात्रेण उत्तमं काव्यं रचितं न भवति। रसानां परस्परविरोधो न स्यात् । रसानां पोषणं कदा करणीयं, कदा न करणीयम् इत्यादिकं सम्यक् ज्ञातव्यम्। भवता तु बहूनां रसानां योजने परिश्रमः कृतः । किन्तु अङ्गाङ्गिभावनिर्वहणे सफलता न प्राप्ता। अतः एव राजा भवन्तं मत्समीपं प्रेषितवान् । मया तु भवता निरूपितस्य एकस्य रसस्य प्राधान्यं कल्पितम् । अन्येषाम् अङ्गत्वं परिकल्पितम्। यदि एवं न क्रियेत तर्हि काव्यस्य श्रेष्ठत्वं न स्यात्” इति ।**

** तदा वागीशः पृष्टवान्— “श्रीमन्! अहं वयसा कनिष्ठः इत्यतः अनुभवस्य अपर्याप्तता मम स्यात् नाम । किन्तु कः रसः प्राधान्येन निरूपणीयः, कः अप्राधान्येन इति अहं ज्ञातुं शक्नोमि एव । एवं स्थिते एतावता परिमाणेन किं मम काव्यस्य परिष्कारः युज्यते ?” इति ।**

** चिदानन्दः मौनम् आश्रितवान्। तदा वागीशः गर्वेण उक्तवान्— “मम प्रश्नस्य उत्तरं वक्तुं भवतः सामर्थ्यं नास्ति । अतः एव मौनम् आश्रितम् । एवं ननु ? " इति ।**

** तदा चिदानन्दः— “वत्स! मम आशयः मया निरूपितः एव । किमर्थं परिष्कारः कृतः इति मया सकारणम् उक्तम् । पुनरपि भवान् तद्विषये एव प्रश्नं पृच्छति चेत् किम् उत्तरं दातव्यम्? भङ्ग्यन्तरेण एकस्य एव विषयस्य पुनः पुनः प्रश्नः भवतः प्रवृत्तिः स्यात् । उक्तस्य एव उत्तरस्य पुनः कथनम् अहं तु न इच्छामि " इति उक्तवान् ।**

** “श्रीमन् ! भवान् मद्विषये कुपितः इति भाति । भवता यः परिष्कारः कृतः स च योग्यः इति तु अहम् अङ्गीकरोमि । किन्तु तथाकरणेन मम आशयस्य भङ्गः जातः खलु इति खेदः मम । यः आशयः मम मनसि न आसीत् तादृशेन आशयेन युक्तं काव्यं मदीयम् इति कथम् अहम् अङ्गीकुर्याम् ?’ इति पृष्टवान् वागीशः ।**

** “काव्यस्य मूलकल्पना पात्राणि च**

भवदीयानि एव । अतः काव्यम् अपि भवदीयम् एव, न अन्यस्य । भवतः मनसि यः खेदः अस्ति तस्य कारणं भवतः अहङ्कारः । वयसः प्रतिभायाः च अननुगुणः अहङ्कारः अस्ति भवतः । अहङ्कारम् हृदयतः दूरीकरोतु। तदा खेदः स्वयम् अपगच्छति” इति बोधितवान् चिदानन्दः ।

** “श्रीमन् ! मयि यः आत्मविश्वासः अस्ति तं भवान् अहङ्कारं भावयति इति मन्ये अहम्” इति उक्तवान् वागीशः ।**

** “भवति आत्मविश्वासः नास्ति । यदि स्यात् तर्हि भवान् राज्ञः वचनं श्रुत्वा मम समीपं न आगमिष्यत्, अपि तु अन्यराजस्य समीपम् अगमिष्यत् । अन्यराजस्य पुरतः काव्यं पठित्वा पारितोषिकं प्राप्स्यत्” इति उक्तवान् चिदानन्दः ।**

** “इदानीं तर्हि तथैव करोमि चेत् भवान् मयि आदरवान् स्यात् वा?” इति पृष्टवान् वागीशः ।**

** “सर्वथा न । अहङ्कारकारणतः प्रतिभाविकासं निवारयन् अस्ति भवान् इति खेदं प्राप्नोमि । अहं श्रेष्ठः इति भावः आत्मगौरवलक्षणं न । ‘प्रयत्नेन श्रेष्ठत्वं प्राप्य अन्ये श्रेष्ठ इति यथा वदेयुः तथा करोमि’ इति भावना एव आत्मविश्वासः” इति उक्तवान् चिदानन्दः ।**

** वागीशः प्रतिवचनं किमपि अनुक्त्वा स्वकाव्यं स्वीकृत्य ततः निर्गतवान् । राज्ञः पुरतः पठितवान् च । तत् श्रुत्वा राजा इदानीं सन्तुष्टः। तदा वागीशः उक्तवान्—“प्रभो, चिदानन्देन यः परिष्कारः कृतः तेन एवं काव्यस्य उत्कृष्टता सिद्धा । सर्वं चिदानन्दस्य परिष्कारस्य फलम्” इति ।**

** वागीशस्य विनयं दृष्ट्वा राजा नितरां सन्तुष्टः । सः पारितोषिकदानेन वागीशं विशेषतः सत्कृतवान् ।**

** अहङ्कारत्यागतः अल्पे एव काले वागीशस्य परिपक्वता आगता। आत्मनः दोषान् सः स्वयं ज्ञातुं शक्तवान्। अतः अल्पे एव काले महाकविः इति कीर्तिः प्राप्ता तेन ।**

आकाशस्य स्तम्भाः

** कस्मिंश्चित् ग्रामे पूर्वं भीमः नाम कश्चित् आसीत् । सः नितरां मन्दमतिः, किन्तु शरीरेण सुदृढः। ग्रामीणाः यद्यत् कार्यं वदन्ति तत्तत् कुर्वन्, तैः यावत् दीयते तावत् सन्तोषेण स्वीकुर्वन् सः जीवति स्म ।**

** कदाचित् भीमः कुत्रापि आतृप्ति भोजनं कृत्वा रज्जुनिर्मितं मञ्चम् अङ्गणे प्रसार्य सुखेन उत्थानं शयनं कृतवान् । तदा सहजतया आकाशे तस्य दृष्टिः पतिता । सुखेन शयानस्य तस्य मनसि कश्चन विचित्रः विचारः उत्पन्नः— ‘आकाशः नाम देवेन प्रपञ्चस्य रक्षणार्थं निर्मितम् अपूर्वं वितानम् । लोके दृश्यते यत् सामान्यस्य वितानस्य अपि स्तम्भाः भवन्ति इति । किन्तु आकाशरूपिणः वितानस्य स्तम्भाः एव न दृश्यन्ते । आकाशः पतितः चेत् का वा गतिः ? स्तम्भरहितम् आकाशवितानं यदा कदापि पतितुम् अर्हति’ इति ।**

** भीमः आकाशपतनभीत्या झटिति उत्थितवान् । धावन् ग्रामसीमायां स्थितस्य विशालस्य वटवृक्षस्य समीपं गतवान् च । ‘अहो रक्षितः अहम्’ इति तृप्त्या निश्श्वसितवान् सः। यदि आकाशः पतेत् तर्हि वृक्षस्य शाखाः मदुपरि सन्ति इत्यतः मम काऽपि हानिः न भविष्यति इति तस्य चिन्तनम् ।**

** प्रातः कालपर्यन्तं सः वृक्षस्य अधः एव स्थितवान् । सूर्योदयानन्तरं ग्रामं गत्वा अभिमुखम् आगतान् ग्रामीणान् उक्तवान् सः— “वितानस्य स्तम्भाः बहवः भवेयुः । किन्तु आकाशवितानस्य एकः अपि स्तम्भः न दृश्यते । यदि आकाशः पतेत् तर्हि वयं सर्वे मृताः भवेम । इदानीं कोऽपि उपायः चिन्तनीयः एव । यत्र आकाशः न भवति तादृशं स्थलम् अन्वेष्टव्यम्” इति ।**

** “एतस्य तु मतिभ्रान्तिः " इति वदन्तः**

केचन हसितवन्तः। ‘अहो मूर्खता’ इति उक्तवन्तः केचन। ‘अलम् असम्बद्धप्रलापेन’ इति तर्जितवन्तः केचन । किन्तु कोऽपि योग्यं समाधानं तु न उक्तवान् ।

** यदा जनाः एतम् उन्मत्तः इति उक्तवन्तः तदा एषः—‘वस्तुतः जनाः एव उन्मत्ताः । अपायः उपस्थितः चेदपि तद्विषये अचिन्तयन्तः एते एव मूर्खाः । एतैः सह वार्तालापेन किम् ? अहं तु जीवितुम् इच्छामि । आकाशरहिते प्रदेशे निश्चिन्ततया स्थास्यामि’ इति आलोच्य भीमः ग्रामात् प्रस्थितवान् । द्वित्राः ग्रामाः अतिक्रान्ताः तेन । अरण्यमार्गः अपि प्राप्तः । तावता कश्चित् अभिमुखम् आगतः । भीमः तं स्वकीयं भयं निवेदितवान् ।**

** तदा सः— “अये, भवतः मतिभ्रान्तिः तु न खलु ? आकाशस्य स्तम्भाः कथं भवन्ति ? मूर्खः भवान्” इति उक्त्वा अग्रे गतवान् ।**

** ‘सरलः कश्चन विषयः अपि केनापि न अवगम्यते । अहो दौर्भाग्यम् !’ इति चिन्तयन् भीमः अग्रे गतवान् । बहुदूरं यावत् गतवान् सः। अरण्यं तु न अतिक्रान्तम् । कोऽपि ग्रामः अपि न प्राप्तः। सः पुनरपि अग्रे गतवान् । एवं गच्छन् उपरि दृष्टवान्। वृक्षाणाम् उपरिभागे आकाशः दृष्टः। आकाशरहितं स्थलं प्राप्तुम् इतोऽपि सुदूरं गन्तव्यम् इति आलोच्य सः अग्रे गतवान् ।**

** रात्रिः आगता । प्रातः कालपर्यन्तं प्राणान्रक्षितुं सः विशालस्य वृक्षस्य अधः स्थितवान् ।**

** वृक्षस्य अपरस्मिन् भागे कश्चन मुनिः उपविश्य नेत्रे निमील्य ध्यानमग्नः आसीत् । भीमस्य आगमनशब्दं श्रुत्वा सः नेत्रे उन्मीलितवान् । भीमः तस्य समीपं गत्वा—“अहो, सौभाग्यम् । बुद्धिमान् भवान् एकः वा मिलितः । आकाशः पतेत् इति भीत्या खलु भवान् वृक्षस्य अधः उपविष्टवान् अस्ति ?” इति पृष्टवान् ।**

** एतत् श्रुत्वा एव मुनिः ज्ञातवान् यत् एषः मन्दमतिः इति । “भोः, आकाशपतनं कथं सम्भवेत् ?“इति मन्दहासपूर्वकं पृष्टवान् सः ।**

** “वितानस्य स्तम्भाः यथा भवन्ति तथा**

विशालस्य आकाशवितानस्य बहवः स्तम्भाः भवेयुः । किन्तु एकोऽपि स्तम्भः न दृश्यते । एवं चेत् आकाशः पतेत् एव खलु ?” इति उक्तवान् भीमः ।

** “भवतः सन्देहः अवगतः मया । आकाशस्य स्तम्भाः न सन्ति इति केन उक्तम् ? स्तम्भाः तु सन्ति एव । अहं प्रदर्शयिष्यामि । इदानीं रात्रिः । श्वः प्रातः भवान् अनतिदूरे स्थितं ग्रामं गत्वा ग्रामीणान् सम्यक् भर्त्सयित्वा भिक्षां प्राप्य आगच्छतु । अनन्तरं अहम् आकाशस्य स्तम्भान् प्रदर्शयिष्यामि " इति उक्तवान् मुनिः ।**

** प्रातः भीमः अनतिदूरे स्थितं ग्रामं गतवान्। ‘दुष्टे, वञ्चिके, भिक्षां ददातु’ ‘द्वारं पिधाय तिष्ठति खलु अविवेकिनि ! शीघ्रं भिक्षां ददातु’ ‘भिक्षां ददातु वराके!’ ‘भवनं तु महत्, भिक्षा च अल्पा। धिक् भवतीम्’ इत्येवं बहुधा निन्दितवान् भीमः ।**

** भर्त्सनकारणतः तेन कुत्रापि भिक्षा न प्राप्ता । अन्ते निराशया सः प्रतिगन्तुम् उद्युक्तः । तावता काचित् गृहिणी भीमम्आहूय अञ्जलिमितं तण्डुलं दत्त्वा—“स्वीकरोतु भोः । बुभुक्षितस्य मुखतः भर्त्सनं सहजतया निर्गच्छेत्। सहजम् एतत्” इति उक्त्वा अन्तः गतवती ।**

** भीमः अरण्यं प्रतिगत्य वृक्षमूले उपविष्टं मुनिं प्रवृत्तं समग्रं निवेदितवान् ।**

** तदा मुनिःहसन्—“पश्यतु । सा गृहिणी भवता भर्त्सनं कृतं चेदपि करुणया भिक्षां दत्तवती । अल्पम् अपि कोपं न प्रदर्शितवती । एतादृशाः जनाः यद्यपि नितरां विरलाः, तथापि एते एव आकाशस्य स्तम्भाः ।
एतादृशाः स्तम्भाः लोके सन्ति केचन । अतः एव आकाशः न पतति” इति उक्तवान् ।**

** भीमः अङ्गीकारं प्रदर्शयन् शिरः चालितवान् । भयं निवारितवन्तं मुनिं साष्टाङ्गं नमस्कृत्य तस्य सेवार्थं तत्रैव स्थितवान् सः । मुनिः सरलेन क्रमेण विविधान् विषयान् सहनया बोधयन् भीमं विवेकिनं कृतवान् ।**

अनक्षरज्ञः सामन्तः

“स्पेन्देशीया जानपदकथा”

** स्पेन्देशे पूर्वं कश्चन सामन्तराजः आसीत् । सः अनक्षरज्ञः । तस्य प्रभूता सम्पत्तिः आसीत् । अतः सः चिन्तयति स्म— ‘पठनलेखनसामर्थ्यस्य का आवश्यकता? धनं दत्तं चेत् शिक्षिताः उद्योगिनः प्राप्यन्ते एव । अतः मया परिश्रमेण पठनं लेखनं च ज्ञातव्यं नास्ति’ इति ।**

** पठनलेखनादिसाहाय्यार्थं सामन्तः एकं निर्धनम् उद्योगित्वेन नियोजितवान् । यत्र यत्र सः गच्छति तत्र सर्वत्र तं लेखकं नयति स्म सः। एवं कदाचित् युद्धार्थम् अपि तं नीतवान् सः ।**

** एषः लेखकः प्रतिदिनं युद्धस्य विवरणेन युक्तं पत्रं सज्जीकरोति स्म । सामन्तः पत्रे लिखितं श्रुत्वा मुद्राम् अङ्कयित्वा दूतद्वारा राजधानीं प्रेषयति स्म । एवं दिनानि गच्छन्ति स्म ।**

** किन्तु दौर्भाग्यवशात् युद्धसमये एव सः लेखकः दिवङ्गतः। युद्धक्षेत्रे अन्यस्य लेखकस्य प्राप्तिः कष्टकरी एव खलु ? एवं कष्टे प्राप्ते अपि ‘अध्ययनं करणीयम्’ इति सामन्तः न चिन्तितवान्। ‘पठनलेखनादिकं सामान्यस्य कर्मकरस्य कार्यम् । अहं तु सामन्तराजः सामन्तस्य मादृशस्य योग्यं न’ इति भावयति स्म सः ।**

** एतस्मिन् एव काले कदाचित् कश्चन राजदूतः सामन्तस्य समीपम् आगतवान्। सः राज्ञः एकं पत्रं सामन्ताय दत्त्वा किमपि अनुक्त्वा अश्वम् आरुह्य प्रतिगतवान् । राज्ञा प्रेषिते पत्रे कः विषयः अस्ति इति न ज्ञातवान्सामन्तः । स्वयं तु पठितुं न जानाति खलु सः ? ‘युद्धम् अग्रे अनुवर्तनीयम् इति राजाज्ञा अस्ति उत युद्धं स्थगनीयम् इति’ इति न ज्ञातवान्सामन्तः ।**

** किं करणीयम् इति यावत् सः चिन्तयन्आसीत् तावता तत्र कश्चन सैनिकः**

आगतवान्। सः पठितुं लेखितुं च समर्थः आसीत्। तं स्वसमीपम् आहूय उक्तवान्— “भोः, एतस्मिन् पत्रे किं लिखितम् अस्ति इति पठित्वा वक्तव्यं भवता । अत्र यः विषयः अस्ति तम् अन्यः कोऽपि न जानीयात् । अतः अन्यः कोऽपि न वक्तव्यः भवता । पत्रे यत् अस्ति तदेव वदतु। मिथ्यां वदति चेत् भवतः दन्तान् भञ्जयिष्यामि " इति ।

** पूर्वं कदाचित् अल्पस्य दोषस्य निमित्तम्एतं सैनिकं कशया सम्यक् ताडितवान् आसीत् एषः सामन्तः । तत् प्रकरणं सामन्तः विस्मृतवान् आसीत् चेदपि सः सैनिकः तु सम्यक् स्मरति स्म । सामन्तविषये तस्य**

मनसि कोपः आसीत् ।

** अतः सः पत्रं पठित्वा - “श्रीमन् ! अप्रिया वार्ता अस्ति अत्र । कश्चित् महाराजं सूचितवान् अस्ति यत् भवान् राजद्रोहम् आचरितवान् अस्ति इति । अतः त्वरया राजधानी प्रति आगन्तव्यम् इति आज्ञां कृतवान् अस्ति राजा” इति उक्तवान् ।**

** “कः सः मां राजद्रोहिणम् उक्तवान् ? तस्य शिरच्छेदः करणीयः । परमनीचः सः” इति क्रोधेन उक्तवान् सामन्तः ।**

** राजाज्ञा न उपेक्षणीया खलु ? अतः सामन्तः तस्मिन् एव दिने ततः प्रस्थितवान् । राजधानी तु सुदूरे अस्ति। प्रयाणसमये रात्रिः जाता । समीपे कुत्रापि ग्रामः गृहं वा न आसीत् । अतः सामन्तः अश्वात् अवतीर्य कस्यचित् वृक्षस्य अधः शयनं कृतवान् । प्रातःकालः यदा जातः तदा तेन मार्गस्य पार्श्वे फलकं किमपि दृष्टम् । अनक्षरज्ञः सामन्तः फलके किं लिखितम् अस्ति इति न जानाति । निधिसूचकं किमपि स्यात् इति आलोच्य सः परीक्ष्य ज्ञातुं फलकस्य समीपं गतवान् । पादस्खलनात् पार्श्वस्थे गर्ते पतितवान् च ।**

** फलके लिखितम् आसीत् यत्— “केनापि एतत्समीपं न आगन्तव्यम्” इति । पतनात् महतीं वेदनां प्राप्तवान् सामन्तः । शरीरे तत्र तत्र व्रणाः । वस्त्रादिकं छिन्नम्। दीर्घकालं यावत् प्रयत्नं कृत्वा कथमपि गर्तात् बहिः आगतवान् सामन्तः । वेदनां सहमानः एव समीप ग्रामस्य धर्मशालायां वासं कृतवान् ।**

** तस्याम् एव धर्मशालायां कश्चन दुष्टःवणिक् अपि आसीत् । विविधैः उपायैः अन्यान्पीडयित्वा स्वयं सन्तोषम् अनुभवति स्म सः । तादृशं वणिजं स्वसमीपम् आहूय प्रवृत्तं समग्रं निवेद्य उक्तवान् सामन्तः— “भोः, दैवेन प्रेषितः इव भवान् अद्य मिलितः । पश्यति खलु भवान् मम दुःस्थितिम् ? एतादृश्यां स्थितौ, अहं कथं वा महाराजस्य पुरतः स्थातुं शक्नुयाम् ? यदा वेदना अपगमिष्यति तदा आगमिष्यामि इति पत्रे लिखित्वा ददातु कृपया” इति ।**

** ‘परपीडार्थम् एषः युक्तः समयः’ इति आलोच्य सः दुष्टः वणिक् रूक्षैः शब्दैः राजनिन्दकानि वचनानि लिखित्वा सामन्ताय दत्तवान् । सामन्तः तत्र स्वस्य मुद्राम्अङ्कयित्वा तत् पत्रं राजधानीं प्रेषितवान् ।**

** महाराजः पत्रे लिखितं पठित्वा क्रुद्धः सन्— “अहो दुष्टता एतस्य! एतम् एतत्क्षणे एव बद्ध्वा आनीय कारागारे स्थापयन्तु” इति भटान् आज्ञापितवान् ।**

** भटाः सामन्तं बद्ध्वा नीत्वा कारागारे स्थापितवन्तः । दुरभिमानकारणतः सामन्तः स्वस्य निर्दोषित्वं न प्रतिपादितवान्, राजानं क्षमां न प्रार्थितवान् वा ।**

** राजा सामान्तद्वारा कठिनानि कार्याणि प्रतिदिनं कारयति स्म। अल्पं निस्सारम्आहारं ददाति स्म। तथापि गर्वयुक्तः एषः सामन्तः ‘क्षमाप्रार्थनम् अपमानकरम्’ इति भावयन् मौनम् आश्रितवान् ।**

** अन्ते राजा—‘उद्धतस्य दुष्टस्य एतस्य शिरच्छेदः कारणीयः’ इति आलोच्य न्यायाधीशम् आनायितवान् ।**

** प्रवृत्तं सर्वं ज्ञात्वा उक्तवान् न्यायाधीशः— “प्रभो, सर्वस्य परिशीलनतः मम तु भासते यत् एषः अनक्षरज्ञः स्यात् इति । पत्रे किं लिखितम् इति अज्ञात्वा एषः मुद्राम् अङ्कितवान् स्यात् । गर्वकारणतः अविधेयतां प्रदर्शितवान् एषः इति तु सत्यम् । किन्तु तदर्थम् एतावता एव एतेन कठोरःकारागारवासः अनुभूतः एव पुनः शिरश्च्छेदनदण्डः अनुचितः एव स्यात् । दोषपरिमार्जनार्थम् एकः अवकाशः दत्तः चेत्**

युक्तं स्यात् इति भासते मम” इति ।

** तदा पार्श्वस्थः कश्चन राजोद्योगी उक्तवान्—**

“प्रभो, एषः पठितुं लेखितुं वा न जानाति इति जनाः वदन्ति स्म” इति ।

** “कथम् एतत् ? उच्चराजकुले जातः अहम् एव पञ्चषाणि वर्षाणि परिश्रमं कृत्वा विद्याभ्यासं कृतवान् अस्मि । एषः दुष्टः सामन्तः किं तावदपि कर्तुं न शक्नोति? आश्चर्यकरम् एतत्। एषः अनक्षरज्ञः इति सप्रमाणं निरूपयतु तावत्” इति उक्तवान् राजा ।**

** न्यायाधीशः—**

‘अहम् अपराधी । अतः मरणदण्डनविधानम् अहम् अङ्गीकरोमि’ इति एकस्मिन् पत्रे लिखित्वा तत् पत्रं नीत्वा कारागारस्थाय सामन्ताय दत्तवान् ।

** “अस्मिन् पत्रे किं लिखितम् अस्ति इति भवान् एव पठित्वा वदतु” इति उक्त्वा पत्रं न्यायाधीशाय दत्तवान् सामन्तः ।**

** “भवान् निर्दोषी इति, भवद्विषये कृतः आरोपः मिथ्या इति च पत्रे लिखितम् अस्ति” इति शान्तस्वरेण उक्तवान् न्यायाधीशः ।**

** एवं वा? तर्हि अहम् अत्र अङ्गीकारमुद्राम् अङ्कयामि” इति उक्त्वा**

मुद्राम् अङ्कितवान् सामन्तः ।

** सर्वं ज्ञात्वा राजा सामन्तं कारागारात्मोचितवान् ।**

“भोः, अनक्षरज्ञत्वम् अपराधाय । तथापि दयया अहं भवन्तं क्षान्तवान् अस्मि । षण्मासाभ्यन्तरे भवान्पठितुं लेखितुं च सामर्थ्यं न प्राप्नोति चेत्भवन्तं सामन्तपदवीतः च्यावयिष्यामि। अतः प्रथमं विद्याभ्यासं करोतु” इति बोधयित्वा प्रेषितवान् च ।

** दुष्टः सैनिकः, दुष्टः वणिक् च राज्ञा कारागारे स्थापितौ । अक्षरज्ञानस्य महत्त्वं स्वानुभवात् ज्ञातवान् सामन्तः योग्यं गुरुम्आश्रित्य पठितुं लेखितुं च सामर्थ्यं सम्पादितवान् । तावदेव न, केषुचित् एव वर्षेषु शास्त्रपाण्डित्यम् अपि सम्पादितवान् ।**

** ‘इदानीम् उत्तमः सामन्तः भवान्’ इति तस्य श्लाघनं कृतवान् महाराजः ।**

अप्रयोजिका दिव्यशक्तिः

** पूर्वंसीतारामः नाम कश्चित् आसीत्। मातापितृविहीनस्य तस्य स्वकीया भूमिः अपि न आसीत् । सीतारामः अतीव बलवान्आसीत्। अतः सः कष्टदायकम् अपि कार्यम् अत्यन्तं सुलभतया करोति स्म । किन्तु सीतारामस्य अतीव सङ्कोचस्वभावः । तस्य सङ्कोचस्वभावं ज्ञात्वा जनाः सीतारामद्वारा सम्यक् कार्यं कारयन्ति स्म ।**

** सीतारामः द्रष्टुं मन्मथसदृशः आसीत् । एकदा तस्य ग्रामस्य रामचन्द्रस्य पुत्री रमा सीतारामं दृष्टवती । तयोः परिचयानन्तरं क्रमशः तौ परस्परम् अनुरक्तौ ।**

** एकस्मिन् दिने रमा सीतारामं स्वकीयम् अनुरागं निवेद्य ‘मां परिणयतु’ इति साग्रहं प्रार्थितवती ।**

** तस्मिन् समये किमपि वक्तुम् अनिच्छन्सीतारामः मौनम् आश्रितवान् ।**

** सीतारामः स्वविवाहविषये परिचितानाम् अभिप्रायं पृष्टवान् । तदा ते सर्वे अपि—**

“पश्यतु सीताराम, रमा अतीव चेष्टालुबालिका । मातापितरौ एव सा बहुधा पीडयति । भवान् तु सङ्कोचशीलः । यदि भवान् तां परिणेष्यति, तर्हि भवतः जीवनं सुखमयं न भविष्यति” इति उक्त्वा सीतारामे भयं जनितवन्तः । तेषां वचनं श्रुत्वा सीतारामः विवाहचिन्तनम् एव त्यक्तवान् ।

** अनन्तरम् एकस्मिन् दिने रमायाः पिता सीतारामस्य समीपम् आगत्य उक्तवान्—**

“मम पुत्री रमा भवन्तं विना अन्यं कमपि न परिणेष्यामि इति वदति । भवान् तु भीरुः इव व्यवहरति । रमायाः बहवः आशाः सन्ति । तस्याः आशाः पूरयितुम् भवान् न शक्नोति । अहं तस्यै अन्यत्र वरान्वेषणं करोमि । किन्तु भवान् यदि अस्मिन् ग्रामे एव निवसति, तर्हि

भवतः तस्याः च पुनः पुनः मेलनं भवति एव । मार्गे गमनसमये मेलनम् अनिवार्यम् एव भवति । एवं पुनः पुनः भवतोः परस्परदर्शनेन रमा सर्वदा भवन्तं स्मरन्ती एव तिष्ठति । रात्रौ अपि भवतः स्मरणेन सा निद्रां कर्तुं न शक्नोति। अतः सा अन्यं परिणेतुं न इच्छति । अतः यदि भवान् इतः अन्यत्र गच्छति, तर्हि तस्याः विवाहः सुलभतया सम्पद्येत” इति ।

** “अस्तु” इति अङ्गीकृत्य सीतारामः तद्दिने तं ग्रामं त्यक्त्वा अरण्यमार्गम् आश्रितवान्। तत्र एकः संन्यासी लब्धः । सीतारामः संन्यासिनः पादयोः नमस्कारं कृत्वा स्वकीयं कष्टं निवेदितवान् ।**

** संन्यासी सीतारामं सान्त्वयित्वा उक्तवान्— “मया सह एव तिष्ठतु भवान् । समस्यायाः परिहारः भविष्यति” इति ।**

** सीतारामः संन्यासिनः समीपे स्थित्वा सप्ताहद्वयं सम्यक् सेवां कृतवान्। संन्यासी सीतारामद्वारा जलस्य आनयनम्, पाककार्यम् इत्यादिकं कारितवान् ।**

** सप्ताहद्वयानन्तरं सः संन्यासी सीतारामम्उक्तवान्— “अहं काशीं गमिष्यामि। भवान्अन्यत्र गन्तुम् अर्हति” इति ।**

** तदा अनन्योपायः सीतारामः ततः गन्तुम् उद्युक्तः । तदा संन्यासी अनुकम्पेन— “भवतः अतीव सङ्कोचस्वभावः सौजन्यं च । एवं चेत् जनाः एव भवन्तं वञ्चयन्ति । अतः अहं काश्चन दिव्यशक्तीः भवते दास्यामि । ताः शक्तयः अन्येषाम् उपयोगाय एव प्रयोक्तव्याः । तदा एव प्रयोजनं सिध्यति । भवतः उपयोगाय दिव्यशक्तीनाम् उपयोगः न करणीयः । यं भवान् स्वामिनं मन्यते तेन उक्तानि कार्याणि कर्तुं समर्थः भवति भवान्"इति वदन् सीतारामस्य शिरसि हस्तं संस्थाप्य किमपि मन्त्रोच्चारणं कृत्वा ततः गतवान् ।**

** अनन्तरं सीतारामः प्रयाणं कुर्वन् अग्रे गतवान्। मार्गे धनिकस्य एकं गृहं लब्धम् । सीतारामः तत्र गत्वा गृहस्य स्वामिनं सविनयं पृष्टवान्— “किमपि कार्यम् अस्ति वा?” इति ।**

** तदा अन्यमनस्कः धनिकः असहनया पृष्टवान्— “कीदृशं कार्यं कर्तुं शक्नोति**

भवान् ? मम गृहस्य पृष्टतः कश्चन तटाकः अस्ति। तत्र विद्यमानं जलं समग्रं पिबति वा?” इति ।

** धनिकेन उक्तं कार्यम् अङ्गीकृत्य सीतारामः साक्षात् धनिकस्य तटाकं गतवान् । सर्वं जलं पीतवान् च। एतत् दृष्ट्वा चकितः धनिकः उक्तवान्—**

“एतादृशीं महतीं शक्ति सम्पादितवान् भवान् शापग्रस्तः एव स्यात् । शापग्रस्तेन सह वासः, तादृशस्य साहाय्यस्य स्वीकरणं वा क्लेशाय भवेत् । अतः इतः कृपयां निर्गच्छतु भवान्” इति ।

** आत्मनः दौर्भाग्यं स्मरन् ततः निर्गतः सीतारामः अन्यं ग्रामं गत्वा तत्रत्यं धनिकम् उद्योगं प्रार्थितवान् । तस्य धनिकस्यनाम धनदेवः इति। महाकृपणः सः सीतारामाय**

उद्योगं दत्तवान्। अल्पे एव काले सः ज्ञातवान् यत् कठिनतमम् अपि कार्यं सीतारामः लीलया करोति इति । अतः यः सीतारामद्वारा बहूनि कार्याणि कारितवान् । ग्रामीणानां निमित्तं काष्ठच्छेदं कारितवान् सः । ग्रामीणानां वस्त्राणां क्षालनम् अपि कारितवान्। धनदेवः ग्रामीणेभ्यः धनं प्राप्नोति स्म । किन्तु सीतारामाय वेतनं किं, पूर्णोदरं भोजनम् अपि न ददाति स्म ।

** एतेन खिन्नः सीतारामः धनदेवम् उक्तवान्— “अधिकः आहारः विश्रान्तिः च आवश्यकी” इति ।**

** तदा धनदेवः—**

“भवान् कश्चन शापग्रस्तः । शापग्रस्तः यथा द्रष्टव्यः तथाभवान् दृष्टः मया । एतेन एव भवतः हितम्”

इति ।

** धनदेवस्य एतादृशं वचनं श्रुत्वा ‘इतः परं अत्र स्थित्वा किमपि प्रयोजनं नास्ति’ इति विचिन्त्य सीतारामः ततः स्वग्रामं गतवान् । तत्र स्वानुभवान् रमायाः पितरं रामचन्द्रम् उक्तवान् ।**

** तदा रामचन्द्रः महता सन्तोषेण दिव्यशक्तीः उक्तवान्— “एतादृशीः दिव्यशक्तीः सम्पाद्य भवान् किमर्थम् अन्येषां सेवां करोति ? मम पुत्रीं परिणीय तां स्वामिनीं भावयन् तस्याः आशाः पूरयतु । एतेन भवतः अपि सुखम् एव” इति ।**

** अनन्तरंरमा-सीतारामयोः विवाहःसम्पन्नः ।**

** विवाहानन्तरं सीतारामः पत्नीम् उक्तवान्— “भवती एव गृहस्वामिनी । कष्टदायकम् अपि कार्यम् अहं लीलया करोमि । विना सङ्कोचम् आज्ञापयतु माम् । यतः अहं भवत्याः सेवकः” इति ।**

** तदा रमा लज्जया शिरः अवनमय्य— “किं वदति भवान्? पतिः यथा आदिशति तथा व्यवहारः पत्न्याः धर्मः । एवं स्थिते अहं कथं वा आदेष्टुं शक्नुयाम् ? भवान् कस्यापि सेवकः न। भवान् एव मम स्वामी । भवान् प्रीत्या मह्यं यत् ददाति तदेव प्रियं मम । भवान् स्वातन्त्र्येण जीवति चेत् तदेव प्रियं मम । मम बुद्धिमत्तायाः साहाय्यं तु सदा अस्ति एव” इति उक्तवती ।**

** यदा रमया ‘भवान् मम स्वामी’ इति उक्तं तदा सीतारामस्य मनसि आनन्दतरङ्गाः । पत्न्याः बोधनतः सः ज्ञातवान् यत्दिव्यशक्तीः प्राप्य सेवकजीवनस्य यापनस्य**

अपेक्षया अपि परिश्रमपूर्वकम्

आत्मगौरवजीवनम् एव वरम् इति । अतः सः तस्मात् दिनतः परिश्रमेण जीवितुम् उद्युक्तः । दैवानुग्रहतः तेन प्रभूतं धनम् अपि सम्पादितम् । सः धनिकः अभवत् । सीतारामे जातं परिवर्तनं दृष्ट्वा रमा नितरां सन्तुष्टा । रमायाः सन्तोषं दृष्टवतः सीतारामस्य अपि तृप्तिः । एवं तयोः जीवनं सुखमयं जातम् ।

असन्तृप्तः शिल्पी

“चुवाङ्देशस्य जानपदकथा”

** स**

हस्रशः वर्षेभ्यः पूर्वं चुवाङ्ग्देशे महाशिल्पी कश्चन आसीत्। शिल्प-निर्माणार्थं कश्चन धनिकः तं स्वगृहम् आनायितवान् । विशालं भवनम्, अतुलम् ऐश्वर्यम्, भोगसाधनानि च तत्र दृष्टानि शिल्पिना । एतत्सर्वं दृष्ट्वा सः शिल्पी चिन्तितवान्— ‘अहो ऐश्वर्यम्! शिल्पकार्ये तु सदा कष्टम् एव । एतादृशम् ऐश्वर्यं यदि मम स्यात् तर्हि जीवनं सुखमयं भवेत्’ इति ।

** शिल्पनः अपेक्षां ज्ञात्वा काचित् देवता अपारेण ऐश्वर्येण तम् अनुगृहीतवती । एतेन शिल्पी नितरां सन्तुष्टः अभवत् ।**

** पुनः अल्पः कालः अतीतः । कदाचित् कश्चन उन्नताधिकारी सपरिवारं पर्यटनार्थं प्रस्थितः अलङ्कृतायां शिबिकायाम् उपविश्य गच्छन् आसीत् । अभिमुखम् आगताः सर्वे तं विनयेन नमस्कुर्वन्ति स्म ।**

किन्तु धनमदेन युक्तः शिल्पी तं न नमस्कृतवान्। एतेन क्रुद्धः अधिकारी भृत्यद्वारा शिल्पिनम् आनाय्य कशया सम्यक् ताडयित्वा ततः अग्रे गतवान् ।

** ‘केवलं धनम् अस्ति चेत् न पर्याप्तम् । अधिकारः अपि आवश्यकः । अतः कोऽपि उच्चाधिकारः यदि मम स्यात् तर्हि वरं भवेत्’ इति आलोचितवान् शिल्पी ।**

** देवता शिल्पिने अधिकारम् अपि दत्तवती । तदा तु धनमदेन सह अधिकारमदः अपि युक्तः अभवत् ।**

** कदाचित् शिल्पी अनुचरैः सह पर्वतमार्गेण गच्छन् तत्र काश्चन सुन्दरीः दृष्टवान् । ताभिः आकृष्टः सः ताः पीडयितुम् उद्युक्तः । तदा ताः सुन्दर्यः आक्रोशनं कृतवत्यः। तासाम् आक्रोशनं श्रुत्वा केचन अटविकाः परशु-मुसल-दण्डान् गृहीत्वा आगत्य शिल्पिनं**

सम्यक् ताडितवन्तः ।

** ‘मम महाधिकारे सत्यपि एते अटविकाः माम् एवं पीडितवन्तः । अतः अटविककुले जन्म प्राप्तं चेत् वरं भवेत्’ इति आलोचितवान् शिल्पी ।**

** देवता तत्क्षणे एव तम् अटविकं कृतवती ।**

** कदाचित् मध्याह्नसमये सः क्षेत्रे कार्यमग्नः आसीत् । सूर्यतापेन सः नितरां पीडितः जातः । तावता आकाशे नीलमेघः कश्चन सूर्यम् आवृत्य अतिष्ठत् । सूर्यतापः अपगतः ।**

** एतत् दृष्ट्वा शिल्पी अचिन्तयत्— ‘अहो, शक्तिः नाम मेघस्य एव । यदि अहं नीलमेघः भवेयं तर्हि वरं भवेत्’ इति ।**

** देवता अपरक्षणे एवं तं मेघम् अकरोत् । तावता तीव्रः वायुः वेगेन आगत्य मेघम् इतस्ततः आटयत् ।**

** ‘अहो, मेघस्य अपेक्षया अपि वायोः सामर्थ्यम् अधिकम्’ इति अचिन्तयत् मेघः । देवता तं वायुं कृतवती । अल्पे एव काले वायुः अग्रे अगच्छत् । पर्वतेन घट्टितस्य तस्य गतिः अवरुद्धा ।**

** ‘अहो, वायोः अपेक्षया पर्वतस्य सामर्थ्यम् अधिकम् । अतः अहं महाशिला यदि भवेयं तर्हि वरं स्यात्’ इति अचिन्तयत् वायुः । अपरक्षणे वायुः शिलारूपं प्राप्तवान् आसीत् ।**

** कदाचित् केचन शिल्पिनः तं प्रदेशम् आगतवन्तः । महाशिलां दृष्ट्वा ते चिन्तितवन्तः— ‘महती शिला एषा । शिल्पार्थम् उपयोगाय भवेत्। अतः एतां भञ्जयित्वा नयेम वयम्’ इति । शिलायाः भञ्जनार्थं ते उद्युक्ताः अभवन् ।**

** एतत् दृष्ट्वा शिलारूपी शिल्पी देवतां प्रार्थितवान्— “अम्ब! रक्षतु” इति ।**

** “शिल्पिन्! शिल्पिनः सामर्थ्यं ज्ञातं खलु ? पूर्वं यत् रूपम् आसीत् तदेव वरम् इति ज्ञातं खलु ? शिल्पिरूपम् एव प्राप्नोतु भवान्” इति उक्त्वा शिलां शिल्पिनं कृतवती देवता ।**

** तदनन्तरं शिल्पी असन्तृप्तिं परित्यज्य स्वकार्ये श्रद्धां प्रदर्शयन् सुखेन जीवितवान् ।**

असत्यकथनस्पर्धा

** व**

रदपुरराज्यं गरुडसेनः नाम राजा पालयन् आसीत् । कदाचित् तस्य मनसि विचारः उत्पन्नः यत् अहम् अपि विश्वासं यथा कुर्यां तथा असत्यं यः कथयति तस्मै पारितोषिकं दातव्यम् इति। अतः सः आस्थानविदूषकम् आहूय स्वकीयं विचारं निवेदितवान् ।

** विदूषकः क्षणकालं विचिन्त्य उक्तवान्—**

“प्रभो, अहं चिन्तयामि— आगामिमासे असत्यकथनस्पर्धा आयोजिता चेदेव वरं भवेत् इति। देशस्य चतुर्भ्यः कोणेभ्यः अपि असत्यकथनोत्सुकाः अत्र आगच्छेयुः” इति ।

** “योग्या सूचना भवतः । एतस्याः स्पर्धायाः व्यवस्थां भवान् एव करोतु” इति आदिष्टवान् राजा गरुडसेनः ।**

** “प्रभो, एतस्याः स्पर्धायाः निमित्तं प्रासादप्राङ्गणम् अपर्याप्तं भवेत् । अतः उद्यानस्य पार्श्वे स्थिते क्रीडाङ्गणे स्पर्धा व्यवस्थापनीया। अन्यप्रदेशेभ्यः आगन्तॄणां वसतिव्यवस्था अपि तत्रैव कल्पनीया । तदा सर्वं सुष्ठु स्यात् । व्यवस्थायाः व्ययार्थं द्विसहस्रं रूप्यकाणि इदानीं दत्तानि चेत् वरं भवेत्” इति उक्तवान् विदूषकः ।**

** राजा एतत् अङ्गीकुर्वन् कोषाधिकारिणम् आहूय आज्ञापितवान् यत् विदूषकाय द्विसहस्रं रूप्यकाणि दातव्यानि इति ।**

** रूप्यकाणि प्राप्य उक्तवान् विदूषकः—**

“प्रभो, श्वः एव असत्यकथनस्पर्धावार्तां सडिण्डिमघोषं देशे सर्वत्र प्रसारयिष्यामि । क्रीडाङ्गणे स्पर्धायाः निमित्तं व्यवस्थायाः आरम्भं करिष्यामि” इति ।

** असत्यकथनस्पर्धादिनम् आगतम् । पूर्वनिश्चयस्य अनुगुणं राजा गरुडसेनः प्रातः अष्टवादने क्रीडाङ्गणं गतवान् ।**

** क्रीडाङ्गणे स्पर्धायाः निमित्तं कोऽपि**

सन्नाहः कृतः न दृष्टः। स्पर्धार्थं तत्र कोऽपि न आगतः आसीत्। राज्ञः उपवेशनार्थम् आसनम् अपि न कल्पितम् आसीत् ।

** राजा गरुडसेनः तत्रत्यं रक्षकभटम् आहूय पृष्टवान्—**

“अद्य अत्र असत्यकथनस्पर्धा प्रचलिष्यति खलु ? कार्यक्रमार्थम् अत्र कोऽपि

सन्नाहः कृतः न दृश्यते । किमर्थम् ?” इति ।

** तदा रक्षकभटः भीत्या कम्पमानः—**

“प्रभो, क्षन्तव्यः अहम् का स्पर्धा, कां व्यवस्था इति अहं किमपि न जानामि । स्पर्धायाः विषयं मां कोऽपि किमपि न उक्तवान्"इति यावत् वदन् आसीत् तावता विदूषकः तत्र आगतवान् ।

** राजा गरुडसेनः विदूषकं कोपेन पश्वन्—**

“किं भोः इदम्? अद्य असत्यकथनस्पर्धा अस्ति इति एतं क्रीडाङ्गणरक्षकं न उक्तवान् वा? देशे वार्ता न प्रसारिता वा? कोऽपि अत्र न दृश्यते खलु ? ‘अष्टवादने स्पर्धायाः आरम्भ’ इति माम् उक्तवान् आसीत् भवान् । किन्तु उपवेशनार्थम् आसनम् अपि न दृश्यते खलु ?” इति पृष्टवान् ।

** तदा विदूषकः किमपि अजानन् इव—**

“प्रभो, भवान् किं वदन् अस्ति इति न जानामि अहम् । काऽपि स्पर्धा, काऽपि व्यवस्था इति वदन् अस्ति भवान् । का स्पर्धा ? का व्यवस्था ? केन करणीया आसीत्? भवतः आज्ञां कदाचिद् वा धिक्कुर्यां वा अहम् ? का वस्तुस्थितिः इत्येव न ज्ञायते मया” इति गाम्भीर्येण उक्तवान् ।

** एतावता विदूषकस्य तन्त्रं ज्ञातं महाराजेन। सः उच्चैः हसन्—**

“साधु विदूषकः साधु! असत्यकथने स्वसामर्थ्यं सम्यक् निरूपितं भवता । स्पर्धाप्रस्तावः भवता यदा कृतः तदा मया चिन्तितम् आसीत्—

भवान् स्पर्धाम् आयोजयिष्यति इति । इदानीं सर्वं ज्ञातम् । मत्तः द्विसहस्रं रूप्यकाणि स्वीकृतवान् खलु भवान् । तत् भवतः समीपे एव भवतु । तावदेव धनं पुनः ददामि भवते” इति उक्तवान् । विदूषकाय योग्यं पारितोषिकं दत्तवान् च ।

अविवेकिता

** ल**

म्बोदरःनाम कश्चन देवभक्तः पूर्वम् आसीt । प्रतिदिनं प्रातः उत्थाय स्नात्वा देवपूजां कृत्वा एव सः अन्यकार्यं करोति । तीर्थसेवनात् पूर्वं जलबिन्दुम् अपि न सेवते सः। रात्रौ देवं नमस्कृत्य एव तस्य शयनम् ।

** कदाचित् रात्रौ निद्रायां देवः तस्य स्वप्ने प्रादुर्भूय उक्तवान्—**

“भक्ताग्रेसर ! भवतः भक्त्या तुष्टः अस्मि । अपेक्षितं वरं प्रार्थयतु’ इति ।

** तदा लम्बोदरः सन्तोषेण—**

“भगवन्! मम गृहस्य पुरतः दामोदरः नाम कश्चन नास्तिकः निवसति । सः आस्तिकः यथा स्यात् तथा करणीयम् । मम गृहस्य पुरतः एव नास्तिकस्य स्थिति न सहे अहम्” इति उक्तवान् ।

** “अस्तु । तस्य मनसः परिवर्तनार्थं भवान् एव प्रयत्नं करोतु । भवान् यत् वदति तत् यथा सम्भवेत् तथा शक्तिं ददामि भवते । तं भक्तरूपेण परिवर्तयत” इति उक्त्वा देवः अदृश्यः अभवत् ।**

** स्वप्नदर्शनतः सन्तष्टः लम्बोदरः प्रातः उत्थाय दामोदरस्य गृहं गत्वा—**

“भोः, देवः मम स्वप्ने प्रत्यक्षः भूत्वा माम् उक्तवान् यत् भवन्तं विवेकः बोधनीयः इति। अद्य आरभ्य भवता देवपूजा करणीया । देवे यदि श्रद्धा न प्रदर्श्यते तर्हि भवतः गृहस्य नारिकेलवृक्षः ‘भस्मीभविष्यति’ इति उक्तवान् ।

** “वृथा दम्भवचनं भवतः । देवे कदापि विश्वासं न करोमि अहम्” इति उक्तवान् दामोदरः ।**

** तावता गृहस्य अन्तर्भागतः धावन्ती आगता दामोदरपत्नी- “हा हन्त! गृहस्य पुष्ठतः स्थितः नारिकेलवृक्षः दग्धः अभवत् इति रुदती पतिम् उक्तवती ।**

** ‘मम एव जयः’ इति भावं प्रदर्शयन्**

लम्बोदरः गर्वेण हसितवान् ।

** दामोदरः तत्क्षणे एव ग्रामसीमायां स्थितस्य तिन्त्रिणीवृक्षस्य समीपं गत्वा—**

“अये पिशाचवर्य! भवतः सामर्थ्यं बहुधा श्रुतं मया । अद्य भवता मम कश्चन उपकारःकरणीयः"इति उक्त्वा प्रवृत्तं समग्रंनिवेदितवान्।

** “एवं वा? मम प्रियं कार्यम् उक्तं भवता । तस्य गृहं पातयिष्यामि इदानीम् । भवान् गत्वा पश्यतु” इति अवदत् पिशाचः ।**

** गृहस्य पतनतः कुपितः अभवत् लम्बोदरः। सः अपि कोपेन दामोदरस्य गृहं मन्त्रबलेन पातितवान्। प्रतीकारसाधनार्थं दामोदरः लम्बोदरस्य क्षेत्रं नाशितवान् । लम्बोदरः अपि दामोदरस्य क्षेत्रं नाशितवान् । एवं मध्याह्नाभ्यन्तरे उभयोः अपि सर्वस्वनाशः अभवत् ।**

** पत्नीपुत्राणां रोदनतः उभाभ्याम् अपि आत्मना कृतः अविवेकः ज्ञातः । लम्बोदरः दामोदरम् उक्तवान्— “**

भवता प्रतीकारसाधनार्थं दुष्टस्य पिशाचस्य साहाय्यं प्रार्थितम्। ततः सर्वनाशः सम्पन्नः । सर्वं भवतः अविवेकस्य फलम्” इति ।

** “प्रथमं तु भवता अविवेकिता प्रदर्शिता । प्रतिक्रियारूपेण मया भवतः अहितं कृतम् एवं सर्वस्य मूलं भवान् एव” इति उक्तवान्दामोदरः ।**

** ‘सत्यम् उक्तं भवता । कस्यापि अपकारम् अकुर्वन् नास्तिकः भवान् मम गृहस्य पुरतः तिष्ठति चेत् मम काऽपि हानिः न आसीत् । मया भक्त्युन्मादेन भवतः अहितम् आदौ चिन्तितम् । तेन उभयोः अपि सर्वस्वनाशः जातः” इति खेदेन उक्तवान् लम्बोदरः ।**

** रात्रौ पश्चात्तापेन देवं स्मृतवान् सः । यदा स्वप्ने देवः प्रत्यक्षः जातः तदा सः क्षमां प्रार्थितवान्। देवः लम्बोदराय दामोदराय च पूर्वतनं गृहक्षेत्रादिकं दत्तवान् । दुष्टं पिशाचं निगृहीतवान् च।**

** एतदनन्तरं लम्बोदर-दामोदरौ परस्परं प्रीत्या व्यवहरन्तौ सुखेन जीवितवन्तौ ।**

बालकविः

न्दारपुरे कश्चन भूस्वामी आसीत्। कविषु तस्य विशेषादरः । प्रतिवर्षं सः वसन्तोत्सवम् आयोजयन् कवीनां सम्माननं करोति स्म। कवीनां पुत्राः अपि केचन सभायां पद्यानि पठन्तः सभासदः भूस्वामिनं च तोषयन्ति स्म ।

** कदाचित् भूस्वामिना आयोजिते वसन्तोत्सवे कवितागोष्ठ्यां त्रयः बालकवयः स्वरचितानि पद्यानि पठितवन्तः । तानि पद्यानि श्रुत्वा सर्वे सभासदः सन्तुष्टाः अभवन् ।**

** पद्यरचनासमर्थान् बालकवीन् पुरस्कुर्वन्महता सन्तोषेण भूस्वामी उक्तवान्—**

“वंशपारम्पर्येण कवित्वं प्राप्तवन्तः एते त्रयः मम प्रियाः” इति ।

** तदा सचिवः उक्तवान्—**

“श्रीमन् ! एते तु ज्येष्ठान् अनुकुर्वन्तः किञ्चित् उक्तवन्तः । कवितां तु प्रतिभाशालिनः केवलं रचयितुं शक्नुवन्ति । प्रतिभा तु जन्मसिद्धा भवति । एते बालकवयः कविपरिवारे जाताः इत्यतः परिसरस्य प्रभावतः कवित्वम् अल्पं प्रदर्शयेयुः नाम। किन्तु ये कल्पनाशीलाः भवन्ति ते एव वास्तविकाः कवयः । ये अन्यस्य अनुकरणं कुर्वन्ति, स्वकल्पनाशक्तेः उपयोगं न कुर्वन्ति ते भाविनि काले कविः इति प्रसिद्धिं प्राप्तुं न अर्हन्ति” इति ।

** तदा भूस्वामी उक्तवान्—**

“भवता सम्यक् उक्तम्। एते भाविनि काले कवयः भवेयुः उत न इति अहम् एव कालान्तरे परीक्ष्य ज्ञास्यामि” इति ।

** ततः मासद्वयम् अतीतम् । भूस्वामिनः जन्मदिनस्य आचरणम्आगतम् । जन्मदिनोत्सवदिने आम्रोद्याने विशेषभोजनस्य व्यवस्था कृता आसीत् । कवयः**

पण्डिताः च तस्मिन् कार्यक्रमे उपस्थिताः आसन्। भूस्वामिना पुरस्कृताः त्रयः बालकवयः अपि उपस्थिताः आसन् ।

** भोजनकार्यक्रमः समाप्तः । तत्समये चन्द्रः आकाशस्य मध्यभागम् आगतः आसीत्। भूस्वामी तान् त्रीन् बालकवीन् स्वसमीपम् आहूय पृष्टवान्—**

“पश्यन्तु तत्र! आकाशे अर्धचन्द्रः विलसति खलु? तं दृष्टवतां भवतां मनसि का भावना उत्पद्यते ?” इति ।

** त्रयः अपि क्षणकालम् अर्धचन्द्रं दृष्टवन्तः ।**

** “भगवतः शङ्करस्य जटाजूटे स्थितः अर्धचन्द्रः आकाशम् आगत्य कटाक्षवीक्षणं करोति इव भासते” इति उक्तवान् एकः बालकविः ।**

** “मम तु भाति यत् आकाशम् आगतः**

चन्द्रः जन्मदिनोत्सवार्थं ज्वालितेषु दीपेषु कान्तिं वर्धयितुं स्वकीयम् अर्धम् अर्पितवान् अस्ति इव इति” इति उक्तवान् अपरः बालकविः ।

** उभयोः बालकव्योः उत्प्रेक्षां श्रुत्वा भूस्वामी, तत्र सम्मिलिताः अन्ये च सन्तोषं प्राप्तवन्तः ।**

** भूस्वामी तृतीयं बालकविं पश्यन् उक्तवान्—**

“अर्धचन्द्रस्य दर्शनतः किं भासते? वदतु तावत्” इति ।

** तदा तृतीयः बालकविः क्षणकालम् आकाशस्थम् अर्धचन्द्रं दृष्ट्वा उक्तवान्—**

‘अहं तु बालकविः । अतः मम तु भाति यत् आकाशस्थः एषः चन्द्रः सुमधुरं भक्ष्यम् इव अस्ति इति” इति ।

** पूर्वं वर्णनं कृतवद्भ्यां बालकविभ्यां ज्येष्ठान् अनुकुर्वद्भ्यां प्रौढतया वर्णनं कृतम् आसीत् । तृतीयः बालकविः तु स्ववयोनुगुणप्रतिभया कल्पनां कृत्वा वर्णनं कृतवान् आसीत् ।**

** अतः सन्तुष्टः भूस्वामी तम् आशिषा अनुगृह्णन् उक्तवान्—**

“वत्स! वास्तविकः बालकविः भवान् । भाविनि काले उत्तमः कविः सन्कीर्तिं प्राप्नोतु” इति ।

भगवद्भक्तः

** र**

हीमः नाम कश्चन पूर्वम् आसीत्। तस्य महती सम्पत्तिः आसीत् । रहीमः यथा धनिकः तथैव महान् दैवभक्तः अपि । अतः प्रतिदिनं सः पञ्चवारं भगवद्ध्यानं करोति, प्रतिदिनं धर्मग्रन्थं पठति अपि । सदा तस्य मुखे धर्मग्रन्थवचनानि विलसन्ति स्म ।

** रहीमस्य एकमात्रपुत्री रजिया । सा अपूर्वसुन्दरी । यदा सा प्राप्तवयस्का जाता तदा उन्नतकुले जाताः बहवः तरुणाः तां परिणेतुं सिद्धाः अभवन्। किन्तु एवम् आगतेषु युवकेषु एकः अपि रहीमाय न अरोचत ।**

** पत्युः व्यवहारं दृष्ट्वा असन्तोषं प्राप्य कदाचित् रहीमस्य पत्नी उक्तवती- ‘आवयोः पुत्रीं परिणेतुम् उत्सुकेषु बहवः उच्चकुले जाताः एव आसन्। किन्तु तेषु कोऽपि भवते किमर्थं न अरोचत इति तु न जाने अहम् । एवम् एव प्रचलिष्यति चेत्पुत्र्याः विवाहः कदा प्रचलेत् ? विवाहमङ्गलस्य दर्शनसौभाग्यं मम नेत्रयोः अस्ति वा न वा इति सन्देहः मम” इति ।**

** एवं वदन्त्याः तस्याः नेत्राभ्याम् अश्रूणि आगतानि । तदा रहीमः तां सान्त्वयित्वा- “अये मन्दबुद्धे! किं रोदनेन ? अस्माकं प्रभूता सम्पत्तिः अस्ति एव । अतः आवयोः पुत्रीं यः परिणेष्यति सः धनिककुले जातः एव स्यात् इति न नियमः । किन्तु सः प्रामाणिकः स्यात्, दैवभक्तः चापि स्यात् इति मम इच्छा । तादृश्स्य अन्वेषणं कुर्वन् अस्मि एव अहम् । भगवतः इच्छा यदि स्यात् तर्हि अचिरात् एव रजियायाः विवाहः प्रचलेत् । अतः चिन्ता मास्तु भवत्याः” इति उक्तवान् ।**

** तस्मिन् एव समये नासिरः नाम कश्चन निर्धनः तरुणः, चौर्यार्थं तद् गृहं प्रविष्टवान् आसीत्। सः रहसि तिष्ठन् रहीमस्य**

तत्पत्न्याः च वचनानि श्रुतवान् आसीत् । तस्य मनसि तदा विविधाः विचाराः आगताः । मुखे मन्दहासः अपि विलसितः ।

** अनन्तरदिने रहीमः यावत् प्रार्थनामन्दिरं गतवान् ततः पूर्वम् एव नासिरः तत्र उपस्थाय ध्यानवाक्यानि पठन् आसीत् । ततः कानिचन दिनानि यावत् नासिरः प्रार्थनामन्दिरे एव निवसन् ध्यानवाक्यानि श्रद्धया पठितवान् । एतत् सर्वं परिशील्य कदाचित् रहीमः तं पृष्टवान्— “वत्स! कः भवान् ? दशभ्यः दिनेभ्यः अहं भवन्तम् अत्रैव पश्यन् अस्मि । कुतः आगतः भवान् ? " इति ।**

** मम उपायः फलितः इति भावयन् नासिरः उक्तवान्— “श्रीमन्! अहं कश्चन मन्दभाग्यः । मातापितरौ बान्धवाः वा मम न सन्ति । एवं स्थिते गृहं कुत्र ? यत्र वसामि तदेव मम गृहम्। भगवतः नाम स्मरन् दिनानि “यापयन् अस्मि” इति ।**

** “एवं चेत् बुभुक्षानिवारणं कथम्?” इति पृष्टवान् रहीमः ।**

** “भगवतः नाम यदा स्मरन् भवामि तदा मां बुभुक्षापिपासादयः न बाधन्ते । तदितरसमये यदा बुभुक्षा अनुभूयते तदा अपि न काऽपि चिन्ता। कोऽपि भगवद्भक्तः कमपि आहारं प्रेषयति । सर्वं भगवतः कृपा " इति कृतकभक्तिं प्रदर्शयन् उक्तवान् नासिरः ।**

** चोरस्य नासिरस्य वचनानि श्रुत्वा सरलः रहीमः तस्मिन् विश्वसितवान् । ‘अहो एतस्य भगवति श्रद्धा! अल्पे एव वयसि एतादृशी भक्तिः ! एषः तरुणः सुन्दरः दृढकायः च । मया अपेक्षिताः गुणाः सर्वे एतस्मिन् सन्ति । मम पुत्र्याः निमित्तं योग्यः वरः एषः । अतः एतं जामातरं करिष्यामि अहम्’ इति निश्चितवान् रहीमः । अतः तस्मात् दिनतः आरभ्य प्रतिदिनं नासिरस्य निमित्तं स्वगृहतः आहारवस्तूनि प्रेषितवान् सः ।**

** एवम् एव चत्वारिंशत् दिनानि अतीतानि । एतावता कालेन सः चोरः नासिरः वस्तुतः अपि भगवद्भक्तः जातः आसीत्। सदा भगवतः ध्यानं करोति स्म सः । मुखे सदा भगवन्नाम। धर्मग्रन्थस्य अर्थस्य चिन्तने सदा तदीयं मनः व्यग्रं भवति स्म । तत्त्वचिन्तनं**

यदा प्रवर्तते तदा एषः आसक्त्या तत्र उपविशति स्म । एवं चोरे महत् परिवर्तनं जातम्। पूर्वं चौर्यादिकम् अनुचितकार्यं यत् कृतं तत् स्मरन् सः पश्चात्तापम् अनुभवति स्म। पश्चात्तापकारणतः तस्य नेत्राभ्याम् अश्रूणि आगच्छन्ति स्म ।

** कदाचित् रहीमः नासिरम् उक्तवान्—**

‘वत्स! भवन्तं यदा यदा पश्यामि तदा सर्वदा महान्तं सन्तोषं प्राप्नोमि । भवादृशः भगवद्भक्तः एव मम जामाता स्यात् इति मम इच्छा। अतः कृपया मम पुत्रीं परिणीय मां तोषयतु” इति ।

** एतत् श्रुत्वा नासिरः झटिति रहीमस्य पादौ गृहीत्वा अश्रूणि स्रावयन् उक्तवान्—**

“श्रीमन् ! क्षन्तव्यः अहम् । अहं कश्चन चोरः । पूर्वं चौर्यार्थं भवतः गृहं प्रविष्टवान् आसम् । तदा अहं भवतः भवत्पत्न्याः च सम्भाषणं श्रुतवान् । भवतः पुत्री परिणेतव्या इति दुराशा मयि उत्पन्ना। भवतः मनः आक्रष्टुम् अहम् अत्र आगत्य मिथ्याभक्तिम् अभिनीतवान्। किन्तु दिनेषु गतेषु मयि परिवर्तनं जातम् । पूर्वं मया यानि कृत्यानि कृतानि तद्विषये पश्चात्तापम् अनुभवन्अस्मि अहम्। अग्रे परिश्रमेण जीवनं यापनीयम् इति निश्चितवान् अस्मि । भवन्तं वञ्चयितुम् उद्युक्तः अहं भवतः पुत्र्याः निमित्तं योग्यः वरः न । अतः अन्यस्य योग्यस्य वरस्य अन्वेषणं करोतु भवान् । यत् उचितं तेन दण्डेन मां दण्डयतु अपि " इति ।

** एतानि वचनानि श्रुत्वा आश्चर्यं सन्तोषं च अनुभवन् रहीमः प्रीत्या तम् उत्थाप्य—**

“वत्स नासिर! अज्ञानात् भवता पापानि आचरितानि स्युः । किन्तु पश्चात्तापेन तानि क्षालितानि अभवन् । इदानीं परिशुद्धं रत्नं भवान् । भगवता एव भवान् मत्समीपं प्रेषितः । भवान् एव मम जामाता” इति उक्तवान् ।

** ततः अल्पे एव काले रजिया-नासिरयोः विवाहः सवैभवं सम्पन्नः । नासिरःरहीमस्य योग्यः जामाता सन् कीर्तिं प्राप्तवान् ।**

चिकित्सायां त्वरा न उचिता

** रु**

द्राचार्यः कश्चन वैद्यः। शरभः नाम युवकः वैद्यशास्त्रस्य अध्ययनार्थं तेन सह निवसति स्म। रुद्राचार्यः विविधानां रोगाणां विवरणं, चिकित्साक्रमम्, औषधोपचारं च विस्तरेण बोधयति स्म । रुद्राचार्यः सर्वम् अपि पुस्तके लिखति स्म ।

** कदाचित् रुद्राचार्यः शरभम् उक्तवान्—**

“केषाञ्चित् रोगाणाम् औषधं किमपि न भवति । यथा—

हिक्का । कदाचित् हिक्का निरन्तरम् आगच्छति । तादृशे सन्दर्भे कपोले सम्यक् ताडितं चेत् हिक्का स्थगिता भविष्यति” इति ।

** अत्रान्तरे शकटात् अवतीर्य कश्चन स्थूलः पुरुषः रुद्राचार्यस्य समीपम् आगत्य— “ह्यः रात्रितः हिक्का पीडयन्ती अस्ति। केनापि उपायेन अपि सा न स्थगिता । बहिः आगत्य……” इति यावत् उक्तवान् तावता, वेगेन अग्रे आगत्य शरभः तं कपोले सम्यक् ताडयित्वा उक्तवान्— “इतः परं चिन्ता नास्ति । हिक्का अपगता” इति।”**

** तदा सः स्थूलः पुरुषः कोपेन— “अये, हिक्काबाधा न मम, अपि तु शकटे उपविष्टवतः मम अग्रजस्य” इति उक्तवान् ।**

** शिष्यस्य अविवेकितां दृष्ट्वा कुपितः रुद्राचार्यः तीक्ष्णदृष्ट्या शरभं दृष्टवान्। ‘चिकित्सायां त्वरा न उचिता’ इत्यंशम् इदानीं जानन् शरभः लज्जया शिरः अवनमय्य स्थितवान् ।**

दानशीलस्य स्वप्नः

पू

र्वं महाराजः वीरवर्मा अवन्तीदेशं पालयन् आसीत्। तस्य आप्तसाहाय्यकस्थाने योग्यः कश्चन मन्त्री आवश्यकः आसीत्। महाराजस्य पूर्वतनः आप्तसाहाय्यकःजयानन्दः । वृद्धः सः जयानन्दः अस्वस्थः इति कारणतः तत् आप्तसाहाय्यकस्थानं रिक्तम् आसीत् ।

जयानन्दः बुद्धिमान् आसीत् । उत्तमरीत्या कार्यनिर्वहणं करोति स्म सः । दूरदृष्टिः अपि तस्मिन् विशेषतः आसीत् । अतः तादृशः एव, नियोजनीयः इति महाराजस्य इच्छा। किन्तु तादृशस्य अन्वेषणं कथम् इति न जानाति सः ।

एकस्मिन् दिने राजा प्रधानमन्त्रिणं सुबुद्धिम् आहूय एतं विषयम् उपस्थापितवान् ।

एतत् श्रुत्वा सुबुद्धिः महाराजम् उक्तवान्— “महाराज! देशे य राजनीतिशास्त्रं, अर्थशास्त्रं, न्यायशास्त्रं च अभ्यस्तवन्तः तान् आह्वयामः। शास्त्रविषये तेषां परीक्षां करवाम । तेषु यः प्रतिभावान् भवति तस्य चयनं करवाम । अनन्तरम् अस्वस्थस्य जयानन्दस्य अभिप्रायानुसारं कञ्चित् आप्तमन्त्रिस्थाने नियोजयाम चेत् उत्तमं भवति” इति ।

एषः एव उत्तमः उपायः इति राजा चिन्तितवान् । मन्त्री सुबुद्धिः शीघ्रातिशीघ्रम्एतस्मिन् विषये आवश्यकाः योग्यताः सूचनाः च लेखयित्वा सडिण्डिमघोषं देशे सर्वत्र प्रचारं कृतवान् ।

एतां वार्तां श्रुत्वा देशस्य सर्वदिग्भ्यः अपि विद्यावन्तः अनेके युवकाः आगतवन्तः । शास्त्रविषये तेषां परीक्षा कृता । परीक्षायां जयः विजयः च उत्तीर्णौ। तौ द्वौ अपि समानौ ।

अतः सुबुद्धिः तौ जयानन्दसमीपं नीत्वा प्रवृत्तंसर्वम् उक्तवान् ।

** तत् श्रुत्वा जयानन्दः— “**

महाराजस्य आप्तमन्त्री यः भवति सः शास्त्रेषु पारङ्गतः भवति चेत् न पर्याप्तम् । क्लिष्टाः समस्याः अपि उपायेन परिहर्तुं समर्थः भवेत् सः । शास्त्रेषु पारङ्गतयोः एतयोः द्वयोर्मध्ये आप्तमन्त्रिस्थाने स्थातुं कः योग्यः इति अनया अन्तिमपरीक्षया ज्ञायते” इति उक्त्वा कथं परीक्षा करणीया इति सुबुद्धिं विस्तरेण बोधितवान् ।

** जयानन्दस्य सूचनानुसारं सुबुद्धिः जयं विजयं च आहूय किञ्चित्कालं वार्तालापं कर्तुम् आरब्धवान्। वार्तालापमध्ये यदा**

मैत्रीविषयः आगतः तदा सुबुद्धिः वेदनायुक्तस्वरेण उक्तवान्- “सद्यः एव मम स्नेहितः कश्चित् विषादस्य परिणामतः मृतः अभवत्। तं विषयं भवतोः समीपे वदामि। भवद्भ्यामपि तत् श्रोतव्यमेव” इति। युवकौ तु श्रद्धया शृण्वन्तौ आस्ताम् ।

** सुबुद्धिः स्वस्नेहितस्य विषये एवम् उक्तवान्— “मम स्नेहितस्य नाम दानशीलः इति । वयसा वृद्धस्य तस्य हृदयवेदना अपि आसीत् । एकस्यां रात्रौ निद्रायां दानशीलः भयङ्करं स्वप्नं दृष्टवान्। स्वप्ने सः कस्मिंश्चित् अरण्ये गच्छन् मार्गभ्रष्टः जातः । सर्वत्र वृक्षाः सस्यानि गुल्माः च । तन्मध्ये मार्गं ज्ञातुम् अशक्तः दानशीलः मध्ये मध्ये स्खलन्कथमपि किञ्चित् अग्रे गत्वा एकं**

विशालप्रदेशं प्राप्तवान्। आकाशे नक्षत्राणि विद्योतन्ते स्म । तस्मिन् मन्दप्रकाशे दानशीलः एकं चतुष्पथं दृष्टवान् । एकेन मार्गेण अग्रे गतवान् । ततोऽपि अग्रे सस्यानि गुल्माश्च बहवः आसन्। अतः मार्गः एव न दृश्यते स्म । तत्र केचन सिंहाः अटन्ति स्म । एकः सिंहः दानशीलं दृष्ट्वा भयङ्करं गर्जन् तस्य समीपमेव आगन्तुम् उद्युक्तः ।

** दानशीलः भयात् शिलाकण्टकानि अपि अविगणय्य यथा आगतवान् तथैव धावित्वा चतुष्पथं प्राप्तवान्। तत्र कुत्रापि सिंहस्य चिह्नमपि न दृष्टम् । किञ्चित् श्रमपरिहारं कुर्वन् द्वितीयमार्गम् आश्रित्य गन्तुम्**

आरब्धवान् दानशीलः। अनतिदूरे एव कश्चन प्रकाशः एतस्य दिशि एव आगच्छन् आसीत्। दानशीलः एकस्य गुल्मस्य पृष्ठतः स्थित्वा प्रकाशं दृष्टवान्। सः प्रदेशः पूर्णतया वल्मीकमयः आसीत् । तेषाम् उपरि कालसर्पाः उपविश्य फणाः चालयन्तः आसन्। फणासु विद्यमानानां मणीनाम् एव प्रकाशः तत्र आसीत्। आगतः प्रकाशः अपि कस्यचन सर्पस्य मणितः एव ।

** आश्चर्येण पश्यन्तं दानशीलं वल्मीकेषु विद्यमानः कश्चन नागराजसदृशः सर्पः दृष्टवान् एव सः झटिति फूत्कुर्वन्दानशीलस्य समीपमेव आगतवान्। भीतः दानशीलः वेगेन धावन् पुनरपि चतुष्पथमेव गत्वा स्थितवान् ।**

** अनन्तरं दानशीलः तृतीयं मार्गम् आश्रित्य गतवान्। एवं गच्छन् एकं पर्वतं प्राप्तवान् सः। ततः अग्रे गन्तुं मार्गः न दृश्यते स्म । तत्र सर्वत्र मानवानां कपालानि आस्थीनि च आसन्। ततः प्रतिगन्तुं प्रवृत्तः दानशीलः । तावति काले भयङ्कराकारः राक्षसः विकृतं स्वरं कुर्वन् आगतवान् एव । दानशीलः पुनरपि आक्रन्दनं कुर्वन् धावित्वा चतुष्पथं प्राप्तवान् ।**

** किन्तु राक्षसः अपि हूँकुर्वन् दानशीलम् अनुसृत्य एव आगतवान्। एतत् दृष्ट्वा भीतः दानशीलः चतुर्थं मार्गमाश्रित्य धावितुम् उद्युक्तः । एवं धावन् सः एकं पर्वतम् आरुह्य शिखरपर्यन्तं गतवान्। इतोऽपि अग्रे गन्तुं मार्गः न आसीत् । अपि तु गभीरः कन्दरः**

आसीत् । पृष्ठतः राक्षसः आगच्छन् अस्ति । भीत्या कम्पमानः दानशीलः गभीरं कन्दरं पश्यन् आसीत्। तदा कम्पनकारणतः पादस्य अधः विद्यमाना शिला स्खलिता अभवत् । दानशीलः उच्चैः आक्रन्दनं कुर्वन् कन्दरे पतितः” इति ।

** सुबुद्धिः एवं उक्त्वा जयविजयौ पश्यन् पुनः उक्तवान्— “कीदृशः भयङ्करः स्वप्नः! हृदयवेदनापीडितः मम स्नेहितः स्वप्नतः जागरणं प्राप्य अनुक्षणं हृदयस्तम्भनेन मृतः अभवत्” इति।**

** तदा जयः महता दुःखेन उक्तवान्— “स्वप्ने यत् दृश्यते तस्य शरीरस्य च सम्बन्धः अस्ति इति मनश्श्शास्त्रतः ज्ञातवान् अस्मि । दानशीलस्य चतुर्वारं प्राणभीतिः जाता। प्रथममेव हृदयवेदनया पीड्यमानः आसीत् सः अनन्तरं तादृशं घोरं स्वप्नं दृष्टवतः तस्य हृदयक्रिया स्थगिता जाता। सः मृतः । तदर्थम् मम अतीव दुःखं भवति” इति ।**

** सुबुद्धिः शिरः चालयन् विजयं दृष्टवान् । विजयः मन्दहासपूर्वकम् उक्तवान्— ‘क्षम्यताम्, मन्त्रिवर्य, भवता उक्तं सर्वं कल्पितम् एव” इति ।**

** मन्त्री कोपेन— “कथं कल्पिता कथा इति वदति भवान् ? प्रमाणं किमपि अस्ति वा?” इति पृष्टवान् ।**

** तदा विजयः सविनयम् उक्तवान्— “भवतः स्नेहितस्य दानशीलस्य स्वप्नतः यदा जागरणम् जातं तदा एव सः यदि मृतः स्यात् तर्हि तस्य स्वप्नस्य विचारं भवान् कथं ज्ञातवान् स्यात् ? ज्ञातुम् अवकाशः एव नास्ति किल !” इति ।**

** विजयस्य युक्तियुक्तं चिन्तनं दृष्टवतः सुबुद्धेः महान् सन्तोषः जातः । सः विजयम् अभिनन्द्य तस्मिन् एव दिने तं महाराजस्य आप्तसाहाय्यकत्वेन नियुक्तवान् । योग्यस्य साहाय्यकस्य प्राप्त्या राजा नितरां सन्तुष्टः अभवत् । योग्यस्य उपायनस्य दानेन सुबुद्धिं सत्कृतवान् सः ।**

धर्मयुद्धम्

** अ**

लकापुरीं पूर्वं विक्रमदेवः नाम राजा पालयन् आसीत् । कण्ठीरवः शूरः कश्चन सेनाधिपतिः । कदाचित् विजयदशमीदिने राजा, कण्ठीरवः, अन्ये परिवारसदस्याः च चन्द्रिकायाम् उपविश्य सन्तोषेण वार्तालापं कुर्वन्तः आसन् ।

** अत्रान्तरे कश्चन अश्वारोही पुरुषः तत्र आगतः । तदा कण्ठीरवः झटिति उत्थाय पृष्टवान्—**

“कः भवान् ? शत्रुः उत मित्रम् ?” इति ।

** तदा सः अश्वारोही—**

“न मित्रं, न वा शत्रुः । पराक्रमशाली कश्चन युद्धवीरः अहम्"इति उक्तवान् ।

** “तर्हि भवान् केन उद्देशेन अत्र आगतवान्?इति पृष्टवान् राजा विक्रमदेवः ।**

** “योधः किम् अन्यत् इच्छति, बलाबलपरीक्षायाः ऋते?” इति प्रतिप्रश्नं कृतवान् सः अश्वारोही । तत्र उपस्थिताः सर्वे तम् आश्चर्येण दृष्टवन्तः । श्मश्रुलस्य आजानुबाहोः च तस्य हस्ते कश्चन तीक्ष्णः परशुः आसीत् ।**

** “अस्तु तावत्, भवता सह युद्धं कर्तुम् अस्माकं सेनापतिः कण्ठीरवः सिद्धः अस्ति” इति उक्तवान् राजा विक्रमदेवः ।**

** राज्ञः नेत्रसङ्केतस्य अनुसारं कण्ठीरवःद्वित्राणि पदानि अग्रे स्थापितवान् ।**

** तदा सः अश्वारोही योधः हसन्—**

“युद्धार्थम् अहं न आगतः । मम हस्ते स्थितः परशुः दृश्यते खलु ? एतं स्वीकृत्य भवत्सु कश्चित् मम कण्ठे सकृत् प्रहरतु । यः मां

प्रहरति तेन अग्रिमवर्षे मम समीपम् आगत्य मया दीयमानः एकः परशुप्रहारः सोढव्यः"इति उक्तवान् ।

** विचित्राम् एताम् अपेक्षां श्रुत्वा सर्वे हसितवन्तः । ‘तीक्ष्णस्य परशोः प्रहारं प्राप्य अपि एषः योधः किं जीवेत् ? अग्रिमवर्षे प्रतिप्रहारः किं शक्येत? सर्वं विचित्रम् !’ इति चिन्तितवन्तः ते ।**

** योधः परशुप्रहारस्वीकरणार्थं सिद्धः सन् स्थितवान् । कण्ठीरवः गाम्भीर्येण अग्रे गत्वा योधस्य परशुम् उन्नीय हस्तद्वयेन दृढं गृहीत्वा बलेन कण्ठे प्रहृतवान् ।**

** अहो आश्चर्यम् ! परशोः अर्धभागः कण्ठे प्रविष्टः । किन्तु बिन्दुमात्रम् अपि रक्तं न पतितम् । योधः तु सर्वथा अव्रणितः ।**

** योधः हसन् परशुं हस्तेन स्वीकृत्य— “अग्रिमवर्षे एतस्मिन् एव दिने भवता मम वसतिं गिरिदुर्गं प्रति आगन्तव्यम्” इति उक्त्वा मार्गं निर्दिश्य अश्वम् आरुह्य ततः निर्गतवान् ।**

** तत्र उपस्थिताः सर्वे तस्य विचित्रस्ययोधस्य निर्गमनम् आश्चर्येण निर्निमेषं पश्यन्तः स्थितवन्तः ।**

** एकं वर्षम् अतीतम् । विजयदशमी अपि आसन्ना। राजा विक्रमदेवः मन्त्री च चिन्ताक्रान्तौ जातौ ।**

** ‘वचनदानस्य अनुगुणंकण्ठीरवः अरण्यस्थस्य योधस्य समीपं प्रेषणीयः एव । यदि वचनभङ्गः क्रियेत तर्हि राज्ञः राज्यस्य च अपमाननम्। यदि प्रेष्येत तर्हि परशुप्रहारं प्राप्य कण्ठीरवः कथं वा सजीवं तिष्ठेत् ? इतः परं कण्ठीरवः देशस्य सेवार्थं न भविष्यति’ इति चिन्ता तयोः । तथापि वचनपालनार्थं तौ कण्ठीरवं प्रेषितवन्तौ ।**

** कण्ठीरवः तु सन्तोषेण एव प्रस्थितवान् । योधेन सूचितं मार्गम् अनुसरन् अरण्ये दिनद्वयं यावत् प्रयाणं कृतवान् ।**

** निरन्तरेण प्रयाणेन श्रान्तः सः श्रान्तिपरिहारार्थम् अश्वात् अवतीर्य वृक्षस्य अधः उपविष्टवान्। स्वेदापनयनार्थं युतकं’ निष्कास्य अधः स्थापितवान् ।**

** तावता कस्याश्चित् स्त्रियः कण्ठात् निर्गतः आर्तनादः तेन श्रुतः । सः झटिति उत्थाय स्वरम् अनुसृत्य धावितवान् । तत्र चोरैः आवृता काचित् राजकुमारी तेन दृष्टा । खड्गं**

हस्ते गृहीत्वा आगच्छन्तं वीरगर्जनं कुर्वन्तं दृढकायं कण्ठीरवं दृष्ट्वा भीताः चोराः ततः पलायितवन्तः ।

** कण्ठीरवः राजकुमार्याः बन्धनम् अपनीय— ‘का भवती ? किं जन्मस्थलम् ?’ इत्यादिकं पृष्टवान् । राजकुमारी स्वस्य इतिवृत्तं सङ्क्षेपेण उक्त्वा— “आभरणाशया चोराः उद्याने विहरन्तीं माम् अत्र आनीतवन्तः” इति उक्तवती ।**

** अनन्तरं सा कृतज्ञतावचनानि उक्त्वा, एकं महिमान्वितम् अङ्गुलीयकं दत्त्वा— “महर्षिणा दत्तम् एतत् अङ्गुलीयकं धरतु । यावत् एतत् भवता धियते तावत् किमपि आयुधं भवन्तं व्रणितं कर्तुं न अर्हति” इति उक्तवती ।**

** तदा कण्ठीरवः अङ्गुलीयकस्य स्वीकरणं निराकुर्वन्— “राजकुमारि ! क्षन्तव्यः अहम् । अङ्गुलीयकं स्वीकर्तुं न इच्छामि अहम् । गतवर्षे अहम् कञ्चन योधं तदीयपरशुना कण्ठे प्रहृतवान् । अतः अस्मिन् वर्षे मया योधस्य प्रतिप्रहारः प्राप्तव्यः अस्ति । दत्तस्य वचनस्य पालनार्थम् अहं योधस्य समीपं गच्छन् अस्मि । प्रहारप्राप्तिसमये एतादृशस्य अङ्गुलीयकस्य धरणं युद्धनीतिविरुद्धम् । अतः एतत् मास्तु मम” इति उक्तवान् ।**

** पुनः अल्पस्य कालस्य अनन्तरं कण्ठीरवः स्नानार्थं समीपस्थां नदीं गतवान्। तदा राजकुमारी वृक्षस्य समीपं गतवती । यदा स्नानं समाप्य कण्ठीरवः प्रत्यागतः तदा सा तत्र न आसीत् ।**

** कण्ठीरवः ततः प्रस्थाय गिरिदुर्गं प्राप्तवान् । योधः परशुं हस्ते गृहीत्वा कण्ठीरवस्य प्रतीक्षां कुर्वन् आसीत् ।**

** “वचनपालनं स्मरन् समये उपस्थितः यत् तादर्थम् अहं नितरां सन्तुष्टः अस्मि” इति उक्तवान् योधः ।**

** कण्ठीरवः प्रहारं प्राप्तुं सिद्धः सन्— “मित्र ! सिद्धः अस्मि । प्रहरतु तावत् परशुना । सकृत् एव प्रहारः दातव्यः इति मा विस्मरतु” इति धैर्येण उक्तवान् ।**

** एतत् श्रुत्वा योधः उच्चैः हसन्— “सकृत् एव प्रहारः इति ? किं सकृत् प्रहारस्य अनन्तरम् अपि अहं जीवेयम् इति आशा वा**

भवतः ? मूर्खः भवान्। द्वितीयप्रहारस्य आवश्यकता न भविष्यति एव” इति उक्त्वा परशुम् उन्नीय बलेन कण्ठीरवं कण्ठे प्रहृतवान् ।

** परशुः अर्धभागं यावत् कण्ठे प्रविष्टः । किन्तु बिन्दुमात्रम् अपि रक्तं न आगतम् । कण्ठीरवः अविचलः स्थितः अस्ति। एतत्दृष्टवतः योधस्य कण्ठीरवस्य च महत्आश्चर्यम्! कण्ठीरवः परशुं कण्ठतः अपनीय कण्ठं स्पृष्टवान्। तत्र व्रणः अपि कोऽपि न आसीत् ।**

** योधः कोपं प्राप्य—**

“अये वञ्चक! अधर्मः मार्गः आश्रितः भवता” इति वदन् पुनः प्रहारार्थं परशुम् उन्नीतवान् ।

** एतत् दृष्ट्वा कण्ठीरवः अपि क्रुद्धः सन्हस्तेन खड्गं गृहीतवान् ।**

** तावता राजकुमारी पित्रा सह तत्र आगत्य तयोः युद्धं निवारितवती । “उपकृतवतः कण्ठीरवस्य प्राणानां रक्षणार्थं तेन तिरस्कृतं चेदपि अङ्गुलीयकम् अहम् एव सः यथा न जानीयात् तथा तदीये कोषे स्थापितवती” इति उक्तवती राजकुमारी ।**

** अनन्तरं सा अरण्येउपस्थितां विपदं, कण्ठीरवेण कृतम् उपकारं चापि विस्तरेण पितरं निवेदितवती ।**

** एतत् सर्वं ज्ञात्वा सन्तुष्टः योधः—**

“भवतः धर्मबुद्धिः धैर्यं च श्लाघनीयम्” इति कण्ठीरवस्य श्लाघनं कृतवान् ।

** कण्ठीरवस्य धर्मयुद्धप्रियतां,धैर्यम्,**

उपकारशीलतां च दृष्ट्वा सन्तुष्टः राजा कण्ठीरवाय स्वपुत्रीं दत्तवान् ।

** राजकुमारी-कण्ठीरवयोः विवाहः सवैभवं सम्पन्नः । नूतनौ वधूवरौ आशिषा अनुगृह्य योधः ततः निर्गतः आसीत् ।**

** योधः कश्चन गन्धर्वः आसीत् । ‘यदा धैर्यशाली कश्चित् भवतः परशुप्रहारं प्राप्य अपि सजीवं स्थास्यति तदा भवतः शापविमोचनम्’ इति शापदात्रा उक्तम् आसीत् । तदनुगुणं शापविमोचनं प्राप्य स्वलोकं गतवान् आसीत् गन्धर्वः ।**

गेहेशूरः

** स**

ङ्गमदुर्गनामके ग्रामे रोहिणी नाम काचित् गृहिणी आसीत् । तस्याः प्रतिवेशिनी सुनीता। सुनीता रोहिण्याः ननान्दा \। सुनीता-रोहिण्योः सदा कलहः भवति स्म। उभे अपि रामलिङ्गस्य आत्मीये एव इति कारणतः एकस्याः पक्षः समर्थितः चेत्अपरस्याः कोपः । अतः रामलिङ्गः तयोः कलहं शृण्वन् अपि निवारणार्थं प्रयत्नं न करोति स्म ।

** सुनीता एकं मार्जारं पालितवती आसीत् । कदाचित् स च मार्जारः रोहिण्याः गृहं प्रविश्य समग्रं क्षीरं पीत्वा अधावत्। रोहिणी मार्जारं ताडयितुं ग्रहीतुं च यद्यपि प्रयत्नं कृतवती, किन्तु सा सफला न जाता । तदा क्रुद्धा सा मार्जारं मार्जारस्वामिनीं सुनीतां च कठोरं निन्दितवती ।**

** “क्षीरस्य पानं मार्जारस्य स्वभावः । एतत्जानद्भिः अस्माभिः क्षीरं सम्यक् स्थापनीयम् । तत्र प्रमादं कृत्वा मार्जारं निन्दामः चेत् किं प्रयोजनम् ? मम मार्जारस्य न कोऽपि दोषः ।” इति उक्तवती सुनीता।**

** “एतं दुष्टं मार्जारम् अद्यैव ग्रामात् बहिः त्यक्त्वा आगच्छतु । अन्यथा विषं दत्त्वा**

मारयिष्यामि अहम्” इति उक्तवती रोहिणी ।

** “मम मार्जारः ममैव गृहे स्थास्यति । विषादिकं दत्तं चेत् अनन्तरकालीनः परिणामः घोरः स्यात्” इति गाम्भीर्येण उक्तवती सुनीता ।**

** एवं तयोः कलहः प्रवृद्धः । ते परस्परं कठोरं निन्दितवत्यौ । तदा क्षेत्रकार्यार्थं गन्तुम् उद्युक्तः रामलिङ्गः प्रतिवेशिनीं भगिनीम् उक्तवान्—**

“प्रातः एव कोऽयं कोलाहलः ? अलं कलहेन । भगिनि, भवती तूष्णीं तिष्ठतु तावत्” इति।

** तदा सुनीता क्रोधेन—**

‘किमर्थं माम् उपदिशति ? प्रथमं पत्नीम् उपदिशतु । पत्नीं

निग्रहीतुम् अशक्तः निर्वीर्यः भवान् माम् उपदिशति । हुँ, उत्तरकुमारसदृशः गेहेशूरः भवान्” इति उक्तवती।

** रामलिङ्गः एतत् श्रुत्वा अपि प्रतिवचनं किमपि अवदन् दीर्घं निश्श्वस्य ततः निर्गतवान् ।**

** किन्तु सुनीतायाः वचनैः रोहिणी नितरां क्रुद्धा । “मम पतिं गेहेशूरः इति उक्तवती वा भवती? कियत् धार्ष्ट्यं भवत्याः?द् सर्व धनादिमदस्य फलम् । भवत्याः औद्धत्यव्यवहारं ग्रामज्येष्ठान् निवेदयिष्यामि। भवती मम पादौ गृहीत्वा क्षमां यथा प्रार्थयेत् तथा करिष्यामि” इति उक्तवती सा ।**

** “अहो, महाराज्ञ्याः भवत्याः पादौ ग्रहीतव्यौ वा मया ? यत् भवेत् तत् भवतु । वस्तुस्थितिः एव उक्ता मया। अतः भवती व्यवहारं ग्रामज्येष्ठानां समीपं नयति चेत् न काऽपि भीतिः मम” इति उक्तवती सुनीता।**


रोहिणी तत्क्षणे एव ग्रामज्येष्ठस्य समीपं गत्वा सुनीतया उक्तं निवेद्य—

‘सा मम पादौ गृहीत्वा क्षमां यथा प्रार्थयेत् तथा करोतु’ इति उक्तवती ।

** रोहिणीं सुनीतां च बहोः कालतः जानाति ग्रामप्रमुखः । अतः सः उक्तवान्—**

“एतत् प्रकरणं यदा प्रवर्तते स्म तदा तत्र अन्यः कोऽपि आसीत् वा?” इति ।

** “मम अनुजः कनकराजः तत्र आसीत् । मम आवृत्तः देवराजः अपि तत्र आसीत्” इति उक्तवती रोहिणी ।**

** “तर्हि तौ आनयतु” इति उक्तवान् ग्रामप्रमुखः । तौ आनेतुं गतवती रोहिणी । सेवकद्वारा सुनीताम् अपि आनायितवान्ग्रामप्रमुखः ।**

** सर्वे यदा उपस्थिताः तदा ग्रामप्रमुखः रोहिण्याः अनुजं कनकराजं पृष्टवान्—**

“सुनीता भवतः आवृत्तं गेहेशूरः इति उक्तवती वा ? तस्य गेहेशूरत्वं दृष्टं वा भवता?” इति ।

** “सुनीतया तथा उक्तम् इति तु सत्यम् । मम आवुत्तः तु दृढकायः । सद्यः प्राकारभित्तिम् अतिक्रम्य कोऽपि चोरः यदा**

गृहसमीपम् आगतः तदा मम आवुत्तः तं स्थूलं चोरं लीलया उन्नीय प्राकारात् बहिः मार्गे क्षिप्तवान्। अन्यच्च मम आवुत्तः ऋणरूपेण दत्तं धनं प्रतिसङ्ग्रहीतुं यदा गच्छति तदा कठोरैः शब्दैः व्यवहृत्य ऋणस्वीकर्तृषु भीतिं जनयति । अतः तस्य दर्शनमात्रेण ऋणं प्रत्यर्पयन्ति ऋणस्वीकर्तारः । एतत्सर्वं गेहेशूरस्य लक्षणं न इति भाति मम” इति उक्तवान् कनकराजः ।

** ग्रामप्रमुखः देवराजं पश्यन् पृष्टवान्— “एतद्विषये भवतः आशयः कः ?” इति ।**

** “यदा रामलिङ्गवर्यः क्षेत्रे भवति तदा यानि वृद्धचनानि वदति तेभ्यः भीताः कर्मकराः शिरः अवनमय्य कार्यं कुर्वन्ति । तस्य उपस्थितौ कोऽपि आलस्यं न प्रदर्शयति । एतादृशं गेहेशूरः इति कथं वा वदेम वयम् ?” इति उक्तवान् देवराजः ।**

** एतत्सर्वं श्रुत्वा सुनीताम् उक्तवान् ग्रामप्रमुखः— “सर्वं श्रुतं खलु भवत्या ? एतादृशं समर्थं भवती गेहेशूरः इति कथं उक्तवती ?” इति ।**

** तदा सुनीता आत्मानं समर्थयन्ती उक्तवती— “एतत्सर्वं पत्न्याः अनुपस्थितौ । पत्नी उपस्थिता चेत् मार्जारः इव सः” इति ।**

** सुनीतायाः वचनं श्रुत्वा तत्र उपस्थितौ ग्रामप्रमुखस्य उभौ सेवकौ हसितवन्तौ । ग्रामप्रमुखः अपि हसन्- “गेहेशूरः इति पदस्य अर्थः अद्य मया सम्यक् अवगतः” इति उक्तवान् ।**

** अनन्तरं सः रोहिणीं सुनीतां च पृथक् आहूय बोधितवान्— “भवत्योः वचनानि श्रोतुम् अन्यः कोऽपि न आसीत् अत्र इति तु महत् सौभाग्यम् । यदि अन्ये उपस्थिताः स्युः तर्हि भवत्यौ उपहसेयुः ते। तदा भवत्योः अपमाननम् अभविष्यत् । एवं परस्परकलहः अल्पस्य कलहस्य पर्वतीकरणं वा न शोभते । परस्परनिन्दनं परित्यज्य विवेकेन व्यवहृतं चेत् भवत्योः ग्रामस्यापि शोभा” इति ।**

** सुनीता रोहिणी च लज्जया शिरः अवनमय्य मौनं ततः निर्गतवत्यौ ।**

हानिप्रस्तावः

** क**

स्मिंश्चित् ग्रामे पूर्वं सुभाषः नाम कश्चन वणिक् आसीत्। तस्य आत्मीयं मित्रं नरसिंहः। नरसिंहः सर्वथा निर्धनः । तथापि तयोः मैत्री तु दृढा आसीत् ।

** नरसिंहस्य एकमात्रपुत्रः नारायणः । नारायणः विद्याभ्यासे सुनिपुणः । एतत् जानन्, तत्पितुः आर्थिकदुस्स्थितिं च जानन् सुभाषः नारायणस्य विद्याभ्यासस्य समग्रं व्ययं स्वयं निर्वहति स्म ।**

** नारायणः यदा पदवीधरः जातः तदा नरसिंहः सुभाषम् उक्तवान्—**

“नारायणाय कञ्चित् उद्योगं ददातु” इति । सुभाषः नगरवाणिज्यसम्बन्धे गणनासमर्थं कञ्चित् इच्छति इति जानाति स्म नरसिंहः ।

** सुभाषः नारायणम् आहूय पृष्टवान्—**

“अन्तिमपरीक्षायां गणिते भवता कति अङ्काः प्राप्ताः ?” इति ।

** “९९% अङ्काः प्राप्ताः” इति उक्तवान् नारायणः ।**


“तन्नाम भवान् शते एकं दोषं कृतवान्। तन्नाम १% हानिः । सहस्रे १० दोषाः, दशसहस्रे शतं दोषाः, ……..एवं दोषपरम्परा वर्धते । मम वाणिज्ये लक्षशः रूप्यकाणां व्यवहारः प्रचलति । तदा सहस्रशः दोषाः भवेयुः । एतादृशीं हानिम् अहं न इच्छामि । भवान् गणिते समर्थः एव । अतः राजधानीं गत्वा कोषागारोद्योगार्थम् आयोज्यमानायां परीक्षायां भागं वहतु” इति उक्तवान् सुभाषः ।

** नारायणः तथैव कृतवान्। सः करसङ्ग्रहविभागे अधिकारिपदे नियुक्तः अभवत्। एतां वार्तां श्रुत्वा नरसिंहः सुभाषम् उक्तवान्—**

“नारायणः करसङ्ग्रहाधिकारिपदं यत् प्राप्तवान् तेन धनागारस्य हानिः स्यात् खलु ? भवान् बुद्धिमत्तया नारायणम् अन्यत्र सम्प्रेष्य हानिं निवारितवान् । किन्तु राजा किं वा कुर्यात् ?” इति ।

** तदा सुभाषः नरसिंहस्य स्कन्धे हस्तं स्थापयित्वा—**

“अये मित्र! कार्यालयस्य उद्योगः उत्तमः, उत धनागारोद्योगः ? नारायणेन एतादृशः एव उद्योगः प्राप्तव्यः इति मम आशयः आसीत् । अतः मिथ्याहानिप्रस्तावं कृत्वा अहं तं राजधानीं प्रेषितवान् । नारायणः बुद्धिमान्। सः कर्तव्ये कदापि लोपं न कुर्यात् । परीक्षायाम् अङ्कप्राप्तिः अन्या, कार्ये दक्षता अन्या । अतः काऽपि चिन्ता मास्तु भवतः” इति उक्तवान् ।

हिंसा

रण्यसमीपस्थे लघुग्रामे कश्चन कृषिकः निवसति स्म। सः कदाचित् सायङ्कालपर्यन्तम् अपि क्षेत्रे कार्यं कृत्वा गृहं प्रत्यागच्छन् आसीत् । मध्ये मार्गं तेन व्याघ्रगर्जनं श्रुतम् । कृषिकः तस्यां दिशि परिवृत्य दृष्टवान्। ततः अनतिंदूरे वृक्षयोः मध्ये बद्धः इव स्थितः व्याघ्रः ततः विमोचनं प्राप्तुम् इच्छन् गर्जनं कुर्वन् आसीत् ।

‘व्याघ्रः यस्मिन् कस्मिंश्चित् क्षणे ततः विमोचनं प्राप्य मम उपरि आक्रमणं कर्तुम् अर्हति। अतः कथमपि एतस्य मारणम् एव वरम्’ इति आलोच्य कृषिकः व्याघ्रसमीपं गतवान्। व्याघ्रस्य पुरतः गन्तुं तु धैर्यं नास्ति । अतः कृषिकः पृष्ठतः गत्वा लवित्रेण प्रहर्तुम् उद्युक्तः । तावता व्याघ्रः मानवस्य आगमनं ज्ञात्वा उच्चैः गर्जनं कुर्वन् पृष्ठभागस्थाभ्यां पादाभ्यां प्रहर्तुं प्रयत्नम् अकरोत् । एतस्मात् भीतस्य कृषिकस्य हस्तात् लवित्रं पतितम् । भीतः सः झटिति अग्रे गत्वा व्याघ्रस्य पादौ दृढं गृहीतवान् । इदानीम् अनतिदूरे पतितं लवित्रं स्वीकर्तुं न शक्नोति सः ।

अग्रे किं करणीयम् इति यावत् कृषिकः चिन्तयन् आसीत् तावता तेन मार्गेण कश्चन संन्यासी तत्र आगतः । कृषिकः संन्यासिनम् उक्तवान्—

“श्रीमन् ! मम परिस्थितिः दृष्टा खलु भवता ? अहं व्याघ्रस्य पादौ दृढं गृहीतवान् अस्मि । भवान् कृपया तीक्ष्णम् एतत् लवित्रं स्वीकृत्य व्याघ्रं मारयतु” इति ।

“शान्तं पापम् । शान्तं पापम् । संन्यासिना मया हिंसा न करणीया । व्याघ्रं न मारयामि अहम्” इति उक्तवान् संन्यासी ।

“तर्हि एतस्य पादौ भवान् गृह्णातु। मम उपकारं करोतु । अग्रे यत् करणीयं तत् अहं करोमि” इति उक्तवान् कृषिकः ।

संन्यासी एतत् अङ्गीकृत्य व्याघ्रस्य पादौ गृहीतवान् । कृषिकः तु लवित्रं स्वीकृत्य ततः निर्गन्तुम् उद्युक्तः । तदा संन्यासी पृष्टवान्—

“भोः, व्याघ्रम् एवम् एव त्यक्त्वा गच्छन् अस्ति खलु ? " इति ।

तदा कृषिकः—

“श्रीमन्! हिंसा न करणीया इति वचने ममापि विश्वासः आगतः अस्ति इदानीम् । अहं व्याघ्रं मारयामि चेत् साहाय्यं कृतवान् भवान् अपि पापभाक् भविष्यति । एतत् अहं न इच्छामि । व्याघ्रः अल्पे एव काले विमोचनं प्राप्य इतः निर्गमिष्यति। तदा भवान् अपि निर्गच्छतु” इति उक्त्वा स्वग्रामं गतवान् ।

ज्योतिश्शास्त्रम्

** क**

स्मिंश्चित् ग्रामे रामशास्त्री नाम कश्चन विद्वान् आसीत्। तस्य पिता अपि विद्वान् आसीत् । सः स्वपुत्रम् अपि विद्वांसं कृतवान्आसीत् । रामशास्त्री ज्योतिश्शास्त्रे यथा निपुणः तथैव काव्यनिर्माणें अपि निपुणः आसीत्।

** रामशास्त्री कदाचित् केषाञ्चित्जन्मकुण्डलीं दृष्ट्वा ग्रहगतिफलम् उक्तवान्आसीत् । तेन यद्यत् उक्तं तत्सर्वं सत्यं जातम्आसीत् । अतः ग्रामीणाः केचन रामशास्त्रिणः विषये आदरवन्तः जाताः, तस्य प्रशंसां कृतवन्तः अपि । एतत्सर्वं दृष्ट्वा रामशास्त्री निश्चितवान् यत् जन्मकुण्डलीफलकथनेन एव जीवननिर्वहणं करिष्यामि इति ।**

** पुत्रस्य आशयं ज्ञात्वा पिता तं बोधितवान्—**

“वत्स! जन्मकुण्डलीफलं यदा उच्यते तदा बहुधा ऊहा अवलम्बनीया भवति । ग्रहगतिं सम्यक् ज्ञात्वा एवम् एव भवति इति वक्तुं प्रायः ब्रह्मणा अपि न शक्यते । अतः ज्योतिश्शास्त्रम् एव अवलम्ब्य जीवनं करिष्यामि इति निश्चयः मास्तु । अन्यशास्त्रेषु अपि भवतः पाण्डित्यम् अस्ति । काव्यरचनायाम् अपि समर्थः भवान्। अतः योग्यम् आश्रयं प्राप्य शास्त्रपाण्डित्येन कवित्वेन वा जीवतु । जातकफलकथनं मास्तु इति मम आशयः न । उपवृत्तिरूपेण तदपि भवतु । सन्तोषेण यैः यावत् दीयते तावत्स्वीकरोतु । किन्तु तदेव जीवनाधारः मा भवतु"इति ।

** किन्तु रामशास्त्रिणे पितुः उपदेशः न अरोचत। जीवनार्थं ज्योतिश्शास्त्रम् एव अवलम्बनीयम् इति तस्य इच्छा।**

** कदाचित् वीरभद्रः बाहुबलिः चेति उभौ जातकफलं ज्ञातुं रामशास्त्रिणः गृहम्**

आगतवन्तौ । बाहुबलिः रामपुरात् आगतः धनिकः । वीरभद्रः कृष्णपुरात् आगतः शीघ्रकोपी । ‘कोपसमये कञ्चित् मारयेत् अपि सः’ इति जनाः तद्विषये वदन्ति स्म ।

** गृहं प्रति तयोः आगमनं दूरात् एव दृष्ट्वा रामशास्त्रिणः पिता पुत्रम् अन्तः आहूय उक्तवान्—**

“वत्स! गृहं प्रति आगच्छन्तौ एतौ कीदृशौ इति अहं जानामि । एतयोः जातकं दृष्ट्वा यदि भवान् फलं वदेत् तर्हि कदाचित् भवतः प्राणापायः अपि सम्भवेत् । अतः उपायेन एतौ प्रेषयतु । जातकफलं किमपि मा वदतु” इति ।

** किन्तु रामशास्त्रिणः तु महान् विश्वासः यत् मम ज्योतिश्शास्त्रे अपूर्वं पाण्डित्यम् अस्ति इति । अतः सः गृहम् आगतयोः बाहुबलि-वीरभद्रयोः जातकं दृष्ट्वा उक्तवान्—**

“भवतोः गृहस्य पृष्ठतः यः वल्मीकः अस्ति तस्य अधः खननं कृतं चेत्भवतोः हितं भविष्यति” इति । एतत् श्रुत्वा तौ ततः निर्गतवन्तौ ।

** ततः सप्ताहस्य अनन्तरं रामशास्त्रिण पिता कस्यचित् कार्यस्य निमित्तं नगरं गतवान् । नगरतः प्रत्यागत्य सः पुत्रम् आहूय उक्तवान्—**

“अद्य नगरे वीरभद्रः बाहुबलिः च मिलितवन्तौ । तयोः अन्यतरः उक्तवान्यत् गृहस्य पृष्ठतः स्थितस्य वल्मीकस्य स्थले खननतः दशलक्षरूप्यकमूल्यकःनिधिः प्राप्तः, अतः रामशास्त्रिणे दशसहस्रं रूप्यकाणि उपायनरूपेण दीयन्ते इति । अपरः उक्तवान् यत् गृहस्य पृष्ठतः स्थितस्य

वल्मीकस्थलस्य खननतः सर्पाः आगत्य गृहसदस्यान् दष्टवन्तः, ततः सर्वे मृताः, सजीवं स्थितः अहं रामशास्त्रिणः शिरच्छेदं कृत्वा प्रतीकारं साधयिष्यामि इति । मया यः अपायः तर्कितः आसीत् सः उपस्थितः एव इदानीम् । अतः अत्र वासः न क्षेमाय । अचिरात् एव इतः निर्गत्य ग्रामान्तरे वासः क्षेमाय” इति ।

** रामशास्त्री स्वग्रामस्य त्यागम् अङ्गीकृतवान्। किन्तु ग्रामत्यागतः पूर्वं यत्र जातकफलं फलितं ततः उपायनरूपेण प्राप्यमाणं धनं स्वीकृत्य एव गन्तव्यम् इति निश्चित्य सः पितरं स्वविचारम् उक्तवान् ।**

** “अस्तु तर्हि । तथैव करोतु” इति उक्तवान् पिता ।**

** “मम कथनतः धनं प्राप्तवान् कः इति वदतु तावत्” इति उक्तवान् रामशास्त्री ।**

** पिता क्षणकालम् आलोच्य— “उभौ अपि नगरे मिलितौ । शुभफलं केन प्राप्तम्, अशुभफलं केन प्राप्तम् इति न स्मरामि खलु अहम् । सन्तोषः भयं च सम्मिलितम् । अतः विभ्रमः जातः । इदानीं कुत्र गतं चेत् सम्मानः, कुत्र गतं चेत् हानिः इति वक्तुं न शक्नोमि एव । भवान् ज्योतिश्शास्त्रनिपुणः किल ? अतः तद्बलेन भवान् एव जानातु— कुत्र गतं चेत् लाभः इति” इति उक्तवान् पिता ।**

** रामशास्त्री प्रकोष्ठे उपविश्य गणनां कृतवान् । महता प्रयत्नेन अपि सः न ज्ञातवान् यत् कः अशुभफलं प्राप्तवान् इति । अतः सः खेदेन पितरम् उक्तवान्—**

“तात! यद्यपि मम

महत् पाण्डित्यं, तथापि अशुभं फलं कः प्राप्तवान् इति अहं ज्ञातुं न शक्तवान् । या मां कष्टे पातयति तया विद्यया किम् ? इतःपरं जातकफलं कदापि न कथयिष्यामि । नमो ज्योतिश्शास्त्राय” इति ।

** पुत्रस्य वचनं श्रुत्वा पिता हसन् उक्तवान्— “वत्स! जातकफलकथनेन लाभः यथा तथा हानिः अपि भवितुम् अर्हति । ये ये भवत्समीपम् आगच्छन्ति तेषां जातकस्य फलं वदति भवान् । कं किम् उक्तवान् इति न स्मरति भवान् । किन्तु ये भवन्मुखतः जातकफलं श्रुतवन्तः ते तु भवन्तं सम्यक्स्मरन्ति एव । ये शुभफलं प्राप्तवन्तः ते भवतः प्रशंसां कुर्युः । किन्तु ये अशुभफलं प्राप्तवन्तः ते निश्चयेन कुपिताः सन्तः भवन्तं पीडयिष्यन्ति। ऊहाबलेन अपि फलं कथनीयं भवति इत्यतः यद्यत् उक्तं तथैव सर्वदा भवति एव इति न नियमः । यदा अन्ये प्रशंसां कृतवन्तः तदा ज्योतिश्शास्त्रे भवतः विश्वासः आसीत्। किन्तु यदा अपायः उपस्थितः तदा भवान् तदेव शास्त्रं धिक्कुर्वन्अस्ति । वस्तुतः तु मया वीरभद्रः बाहुबलिः च नगरे न दृष्टौ एव । किन्तु ज्योतिश्शास्त्रनिपुणेन अपि भवता एतत् न ज्ञातम्। अथवा भवान् एतम् अंशं न चिन्तितवान् । एतादृश्यः एव घटनाः अन्याः अपि जीवने सम्भवेयुः । अतः एव वदामि— ज्योतिश्शास्त्रमात्रस्य अवलम्बनं मास्तु इति । भवतः अन्यशास्त्रपाण्डित्यं कवित्वं च अस्ति एव । राजाश्रयप्राप्तौ अपि न क्लेशः । अतः जीवननिर्वहणार्थम् अन्यस्य मार्गस्य अवलम्बनं भवतु । उपवृत्तिरूपेण जातकफलकथनम् अपि अनुवर्तताम्” इति ।**

** एतया घटनया रामशास्त्रिणा विवेकः प्राप्तः । पितुः वचनस्य अनुगुणं सः राजाश्रयं प्राप्य अल्पे एव काले कीर्तिम् अपि प्राप्तवान् । जातकफलकथनम् अपि तस्य आसीत् एव । एवं कविः इति, पण्डितः इति, ज्योतिश्शास्त्रनिपुणः इति च कीर्तिं प्राप्य सुखेन जीवितवान् रामशास्त्री ।**

कालकविषये मूढविश्वासः

रा

ज्ञः चित्रसेनस्य विश्वासः आसीत् यत् शरीरे स्थितानि कालकानि शुभाशुभफलं सूचयन्ति इति । राज्ञः एतत् दौर्बल्यं जानन्तः बहवः राज्ञः समीपम् आगत्य ‘भवतः मुखस्थं कालकम् ऐश्वर्यं वर्धयति’ ‘भवतः बाहुस्थं कालकं सुखकारकम्’ इत्येवं वदन्तः धनं प्राप्य गच्छन्ति स्म । एतत्सर्वं दृष्ट्वा मन्त्री सुवर्णदेवः खेदम् अनुभवति । केनापि उपायेन राज्ञि विवेकः उत्पादनीयः इति चिन्तितवान् सः ।

कदाचित् शिवनाथनामकः महाराजस्य समीपम् आगतवान्। ‘अहं कालकशास्त्रज्ञः’ इति स्वपरिचयम् उक्तवान् ।

राज्ञः अनुज्ञां प्राप्य स्वस्यूततः सूक्ष्मदर्शकसदृशं साधनविशेषं बहिः आनीय शिवनाथः राज्ञः शरीरे स्थितानि कालकानि सम्यक् परीक्षितुम् उद्युक्तः । एवं परीक्षणसमये राज्ञः दक्षिणहस्तस्य मणिबन्धे एकं कालकं दृष्टं तेन । तत् सुपरीक्ष्य राजानम् उक्तवान् सः— “प्रभो, भवतः मणिबन्धे यत्कालकम् अस्ति तत् यदि तिन्त्रिणीबीजसदृशं स्यात् तर्हि भवान् एतावता चक्रवर्ती अभविष्यत्” इति ।

एतत् वचनं तत्रस्थेन मन्त्रिणा सुवर्णदेवेन अपि श्रुतम् । सः झटिति स्मृतवान् यत् द्वारपालकस्य मणिबन्धे तादृशम् एव कालकम् अस्ति इति । अतः सः द्वारपालकम् आहूय उक्तवान्— “भवतः दक्षिणहस्तं प्रसारयतु तावत्” इति ।

कालकशास्त्रज्ञेन यादृशं कालकं निर्दिष्टं तादृशं द्वारपालकस्य हस्ते दृश्यते! एतत् दृष्ट्वा राजा ज्ञातवान् यत् एषः शिवनाथः मिथ्यावादी इति ।

शिवनाथस्य तु शोचनीया अवस्था । तदीयं मुखं रक्तहीनं कान्तिहीनं च जातम् । किमपि अनुक्त्वा सः ततः निर्गतवान् ।

कालकविषये राज्ञः यः मूढविश्वासः आसीत् स च तस्मिन् एव दिने अपगतः ।

कापालिका

“काश्मीरीया जनपदकथा”

का

श्मीरदेशे पूर्वं कश्चन क्षत्रियः आसीत्। तस्य एका पुत्री आसीत् । तस्याः नाम ‘सीमन्तिनी’ इति । सीमन्तिन्याः बाल्यकाले एव तस्याः पिता दिवङ्गतः आसीत्। अतः पित्रार्जितायाः सम्पत्तेः उत्तराधिकारिणी सीमन्तिनी एव जाता । अतः तस्मिन् प्रदेशे उत्तमकुले जाताः अनेके युवकाः सीमन्तिनीं परिणेतुम् इच्छन्ति स्म । तेषु गणदेवः अपि अन्यतमः । सः सीमन्तिनीं बहु इच्छति स्म ।

किन्तु सीमन्तिनी विवाहविषये न तथा आसक्ता। अतः सा विवाहविषये प्रष्टुम् आगतान् युवकान् सर्वान् अपि निराकृत्य प्रतिप्रेषयति स्म ।

अरण्यविहारे, पशुपक्षिषु च सीमन्तिन्याः विशेषासक्तिः । एवं प्रकृतिदृश्येषु लीना सीमन्तिनी कापालिकीशक्तिः साधनीया इति चिन्तितवती । वेतालवशीकरणम्, परकायप्रवेशः, अदृश्यस्थितिः, कामरूपप्राप्तिः, कामगमनम् इत्यादयः साधनीयाः इति विचिन्त्य सीमन्तिनी विचित्राः विलक्षणाः च पूजाः, विचित्रम्आहारं, पानीयं च अभ्यस्तवती ।

कदाचित् सा निश्चलदृष्ट्या चन्द्रं पश्यन्ती स्मृतिहीना सती निश्चेष्टिता भवति । पुनः कदाचित् विलक्षणाः मूलिकाः उपयुज्य कषायं कृत्वा पिबति । अन्यदा कदाचित् स्वशरीरं कठोरं दण्डयति । एवं प्रकारेण कठोरं तपः आचरन्ती सा काश्चन शक्तीः वशीकृतवती ।

एतां वार्तां श्रुत्वा सीमन्तिन्याम् अनुरक्तः गणदेवः अतीव खिन्नः । ‘पूर्वं सा सामान्या स्त्री यदा आसीत्, तदा एव मां निराकृतवती । इदानीं तु असाधारणस्त्री सा कथं मां वृणुयात्’ इति चिन्तितवान् सः । तथापि कथमपि सा सामान्यस्त्रीत्वेन परिवर्तनीया

इति निश्चितवान् गणदेवः ।

** एवं निश्चित्य गणदेवः एकस्मिन् दिने मन्त्रवादिन्याः पिङ्गलायाः समीपं गतवान् । सा स्वगृहस्य पुरतः वने विविधाः मूलिका वर्धयति । तस्मात् औषधनिर्माणम् अपि करोति । सा मन्त्रतन्त्रविद्यायां नितरा समर्था । तस्याः समीपं गत्वा गणदेवः सीमन्तिन्याः विषये साहाय्यं प्रार्थितवान् ।**

** गणदेवस्य मुखात् सर्वं श्रुत्वा पिङ्गला पृष्टवती—“यदि सीमन्तिनी कापालिनी भवितुम् इच्छति, तर्हि किमर्थम् अस्माभिः विघ्नः करणीयः ?” इति ।**

** “अहं सीमन्तिनीं परिणेतुम् इच्छामि । यदि सा कापालिनी भवति, तर्हि आवयोः विवाहः न शक्यते । भवती यावत् इच्छति, तावत् धनं दास्यामि। अतः कृपया तां सामान्यस्त्रीत्वेन परिवर्तयतु” इति उक्तवान् गणदेवः ।**

** “किमर्थम् एवं चिन्तयति ? कापालिकाजीवने सन्तोषः नास्ति इति चिन्तयति वा भवान् ?” इति पृष्टवती पिङ्गला ।**

** तदा गणदेवः उक्तवान्— “कापालिकाजीवने सन्तोषः सर्वथा नास्ति इति न वदामि अहम् । किन्तु तृप्तिः तु न भवेत् तादृशे जीवने। भवती एव अत्र प्रत्यक्षम् उदाहरणम् । एवं न वा?” इति ।**

** “तत् तु सत्यम् । यदा शरीरे तारुण्यं भवति तदा तु कापालिकाजीवनं नितरां रोचते । मम अधिकं सामर्थ्यम् अस्ति इति गर्वः अपि अनुभूयते । किन्तु वार्धक्ये पतिपुत्रादयः न सन्ति इति खेदः अनुभूयते एव । अतः वार्धक्यजीवने अतृप्तिः बाधते” इति उक्तवती पिङ्गला ।**

** “तर्हि तां सामान्यस्त्रीत्वेन परिवर्तयत” इति उक्तवान् गणदेवः।**

** तदा पिङ्गला उक्तवती— “अहं यथा वदामि तथैव करोतु । आगामिन्याम् अमावास्यायां भवान् शुनकैः सह मृगयार्थम् अरण्यं गच्छतु । कमपि प्राणिनं मा मारयतु । ‘श्वेतहरिणस्य दर्शनपर्यन्तम् अरण्यं शोधयतु । श्वेतहरिणं यदा पश्यति तदा तं**

सजीवं गृह्णातु । हरिणस्य किञ्चिदपि वेदना न करणीया। तस्य कण्ठे पाशं बद्ध्वा भवतः भवनं नीत्वा प्रकोष्ठे स्थापयतु” इति ।

** पिङ्गलया यथा सूचितं तथा कर्तुं सिद्धः अभवत् गणदेवः। अनन्तरं पिङ्गलायाः अनुज्ञां प्राप्य सः ततः प्रस्थितवान् । गमनसमये परिवृत्य दृष्ट्वा सः ज्ञातवान् यत् पिङ्गलायाः खञ्जता अस्ति इति ।**

** पिङ्गलया यथा उक्तं तदनुसारं गणदेवः अमावास्यायां शुनकैः सह मृगयार्थम् अरण्यं गतवान्। तत्र तेन श्वेतः हरिणः दृष्टः । अनुक्षणं सः हरिणस्य ग्रहणार्थं शुनकान्प्रेषितवान् ।**

** हरिणस्य समीपे यः शुनकः आसीत् सः न मदीयः इति संशयः उत्पन्नः गणदेवस्य । यतः तस्य शुनकस्य वामपादे कापि न्यूनता आसीत्। तथापि सः शुनकः महता वेगेन धावति स्म ।**

** सः शुनकः शीघ्रमेव हरिणस्य पादं मुखेन गृहीतवान्। तावति काले गणदेवः अश्वस्य उपरि आगत्य हरिणस्य कण्ठे पाशं योजितवान् ।**

** अनन्तरं तं हरिणं स्वभवनं नीत्वा एकस्मिन् प्रकोष्ठे स्थापयित्वा शयनं कृतवान् गणदेवः ।**

** प्रातःकाले शीघ्रमेव गणदेवस्य निद्राभङ्गः जातः । यतः बहिस्तात् महान् शब्दः श्रूयते स्म । भवनस्य उपरि अशनिः एवं पतति वा, भूकम्पः वा किम् इति न ज्ञातवान् गणदेवः । अनुक्षणम् उत्थाय हरिणं यत्र स्थापितवान् आसीत्, तं प्रकोष्ठं गतवान्सः । तत्र सीमन्तिनी सामान्यस्त्रीत्वेन परिवृत्ता आसीत् । तावत्पर्यन्तं सीमन्तिनीम् आक्रान्ताः पिशाचाः तां त्यक्त्वा पलायिताः आसन्। तेषां पिशाचानां गमनस्य एव शब्दः श्रुतः आसीत् गणदेवेन ।**

** अनन्तरं सीमन्तिनी गणदेवस्य परिणयम् अङ्गीकृतवती । ततः तयोः विवाहः वैभवेन सम्पन्नः । तौ उभौ अपि सुखेन बहुकालं जीवितवन्तौ ।**

मातृऋणात् मुक्तिः

** ग**

णपतिनगरे शान्तला नाम काचित् विधवा आसीत्। तस्याः द्वौ पुत्रौ । तयोः नाम रामनाथः सोमशेखरश्चेति । विवाहितौ तौ स्वगृहे निवसतः । शान्तला षट् मासान् एकस्य पुत्रस्य गृहे, पुनः षट् मासान् अपरस्य गृहे च निवसति । ज्येष्ठः पुत्रः रामनाथः प्रभूतं धनं सम्पाद्य सुखेन निवसति स्म । कनिष्ठपुत्रः सोमशेखरः सामान्ये उद्योगे तिष्ठन् अपि कुटुम्बनिर्वहणार्थं यावदावश्यकं तावत् तु सम्पादयति स्म ।

** अत्रान्तरे कदाचित् शान्तला अस्वस्था जाता। सोमशेखरस्य गृहे निवसन्ती सा प्राणान् त्यक्तवती । मातुः मरणं श्रुत्वा रामनाथः सपरिवारम् अनुजस्य गृहम् आगतवान्। अश्रूणि स्रावयन् सः अनुजम् उक्तवान्— “शेखर ! भवान् मातृऋणात् मुक्तः अभवत् । माता भवतः गृहे प्राणान् त्यक्तवती यत् तदेव अत्र प्रमाणम् । अहं मातृऋणात् मुक्तिः ज्येष्ठपुत्रः खलु ? मया अपिमातृऋणात् मुक्तिः प्राप्तव्या खलु ? अतः मातुः अपरकर्मणां समग्रं व्ययम् अहं निर्वक्ष्यामि’ इति ।**

** एतत् श्रुत्वा बान्धवाः प्रतिवेशिनः च परस्परम् उक्तवन्तः— “साधु! पुत्रः नाम एवं भवेत्। रामनाथः योग्यः पुत्रः” इति ।**

** अपरक्रियाः यथाविधि प्रवृत्ताः । ‘अपरकर्मणः समग्रं व्ययं स्वयं निर्वहता मया मूर्खता आचरिता’ इति रामनाथस्य इदानीं खेदः । किन्तु सः खेदं मनसि एव निधाय मौनम् आश्रितवान् ।**

** द्वादशे दिने रामनाथः, सोमशेखरः, बान्धवाश्च नदीतीरं गतवन्तः । एतौ शीतलजलेन स्नातवन्तौ । पुरोहितः मन्त्रान् पठन् श्राद्धकर्माणि कारितवान्। अन्ते रामनाथः पुरोहितस्य निर्देशस्य अनुगुणं काकेभ्यः पिण्डं समर्प्य श्रद्धया भक्त्या च**

नमस्कृतवान् ।

समीपस्थेषु वृक्षेषु काकाः उपविश्य पिण्डं पश्यन्ति । किन्तु एकः अपि काकः पिण्डसमीपं न आगच्छति। अतः तत्र सम्मिलिताः बान्धवाः स्वनाम उक्त्वा मृतात्मानं प्रार्थितवन्तः यत् कृपया पिण्डनैवेद्यं स्वीकरोतु इति । तथापि काकैः पिण्डं न स्पृष्टम् ।

अन्ते रामनाथस्य मातुलः अग्रे आगत्य उक्तवान्— “भगिनि! जनाः ज्येष्ठस्य पुत्रस्य केवलं, प्रशंसां कुर्वन्ति इति खेदः वा भवत्याः ? तर्हि कनिष्ठपुत्रेण सोमशेखरेणअपि यत् कृतं तत् सर्वान् निवेदयिष्यामि। भवती कृपया इदानीम् पिण्डनैवेद्यं स्वीकरोतु” इति ।

तत्समनन्तरम् एव काकाः आगत्य पिण्डपदार्थान् खादितवन्तः । तदा सर्वे आश्चर्यम् अनुभवन्तः मातुलं दृष्टवन्तः । तदा मातुलः उक्तवान्— “माता सदा अपि सर्वेषां पुत्राणां प्रगतिं कीर्तिं च इच्छति । रामनाथः मातुः उत्तरक्रियायाः व्ययं सर्वं निरूढवान् । सोमशेखरः तु ग्रामस्य अनाथालयाय शाश्वतनिधिं समर्प्य मातुः श्राद्धदिने दरिद्रेभ्यः अन्नदानव्यवस्था यथा प्रचलेत् तथा कृतवान्” इति ।

एतत् श्रुत्वा रामनाथः पश्चात्तापम् अनुभवन् अनुजम् उक्तवान्— “शेखर ! उत्तरक्रियायाः निमित्तं क्रियमाणस्य व्ययस्य विषये मम मनसि एव खेदः आसीत् । अतः अहं व्ययं यत् कृतवान् तत् न पूर्णेन मनसा । भवान् तु दानं कृत्वा अपि मौनम् आश्रितवान् । वस्तुतः मातृऋणात् भवान् एव मुक्तः । अहं तु अल्पः संवृत्तः” इति ।

तदा सोमशेखरः उक्तवान्— “अग्रज! माता परलोके सद्गतिं प्राप्नुयात् इत्यतः भवान् व्ययं कृतवान्। मातुः नाम इहलोके स्थायि भवतु इति उद्देशेन अहं व्ययं कृतवान् । अतः भवता यत् कृतं तदपि योग्यम् एव । मातृऋणात् मुक्तिः एव आवयोः उद्देशः” इति ।

मित्रपीडा

हुभ्यः वर्षेभ्यः पूर्वं राजपुरनामके ग्रामे राजेन्द्रः नाम भूस्वामी आसीत् । तस्य मित्रजनाः बहवः । ते समयासमयम् अपश्यन्तः सर्वदा राजेन्द्रस्य गृहम् आगच्छन्तः हासजल्पनादिभिः गृहे महान्तं कोलाकलं जनयन्ति स्म ।

तेषां कोलाहलतः राजेन्द्रः नितरां पीडितः भवति । किन्तु ते सर्वे आढ्यकुलजाताः इत्यतः स्पष्टवचनैः तेषाम् आगमनं निराकर्तुं न शक्नोति स्म सः । एवं दाक्षिण्यप्रवृत्तिमान्राजेन्द्रः मित्राणां पीडां निवारयितुं न शक्नोति सोढुम् अपि न शक्नोति।

दिने दिने मित्राणां पीडा वर्धमाना जाता। एतां सोढुम् अशक्नुवन् राजेन्द्रः स्वसाहाय्यकं दिवाकरम् आहूय— “पीडानिवारणार्थं कमपि उपायं चिन्तयतु कृपया” इति प्रार्थितवान्। दिवाकरः एतत् अङ्गीकृतवान् ।

अनन्तरदिने राजेन्द्रः यदा मित्रगणेन परिवृतः आसीत् तदा उत्तमां वेष्टीम्, उत्तमं युतकम्, उष्णीषं च धृत्वा श्मश्रुधारी कश्चन गम्भीरः पुरुषः स्वागतप्रकोष्ठं प्रविष्टवान् । तस्य आकृतिं गाम्भीर्यं च दृष्ट्वा सर्वे आश्चर्येण मौनम् आश्रितवन्तः ।

सर्वेषु पश्यत्सु, राजेन्द्रः झटिति उत्थाय आदरेण स्वागतीकृत्य़ स्वहस्तेन तदीयं हस्तं गृहीत्वा अग्रे आनीतवान् ।

‘भूस्वामिनः आदरपात्रम् एषः कः स्यात् ?’ इति सर्वे चिन्तयन्तः सन्ति । भूस्वामी तम् आगन्तुकं मित्रमण्डलस्य मध्ये उपवेशितवान्। सः आगन्तुकः राजेन्द्रस्य कर्णे पञ्चषाणि वाक्यानि मन्दस्वरेण उक्तवान् । अनन्तरम् उत्थाय— “गमनार्थम् अनुज्ञादानेन अहम् अनुग्रहणीयः” इति उक्त्वा ततः निर्गन्तुम् उद्युक्तः ।

** भूस्वामी राजेन्द्रः अपि तेनैव सह उत्थाय मुखद्वारपर्यन्तं तेनैव सह गत्वा हस्तं चालयन् सन्तोषेण तं प्रेषितवान् ।**

** यदा आगन्तुकेन सह भूस्वामी गच्छन्आसीत् तदा मित्रगणीयाः केचन— “कोऽयं महापुरुषः? एतस्य स्वागतार्थं भूस्वामी स्वयम् उत्थाय गतवान् । आदरेण स्वागतीकृतवान् । प्रेषणार्थं मुखद्वारपर्यन्तम् अपि गतवान् । अस्मासु केनापि एतादृशः आदरः न प्राप्तः । भूस्वामिनः व्यवहारेण ज्ञायते यत् सः महादरपात्रम् इति । एषः विशिष्टः पुरुषः कः स्यात् ?” इति परस्परम्उक्तवन्तः।**

** तदा तत्रैव स्थितः दिवाकरः उक्तवान्— ‘भूस्वामिना इतः पूर्वं कस्यापि विषये एतावान् आदरः न प्रदर्शितः आसीत् इतितु सत्यम्एव । भूस्वामी तदा तदा वार्तालापमध्ये वदति स्म— नगरे मम आदरातिशयपात्रं मित्रम् अमरेन्द्रः अस्ति इति । अहं भावयामि— इदानीम् आगत्य गतः एषः अमरेन्द्रः एव स्यात् इति” इति ।**

** “अमरेन्द्रः इति? अश्रुतपूर्वं नाम एतत् । एतस्य तादृशं वैशिष्ट्यं किं स्यात्, येन भूस्वामी एतावन्तम् आदरं प्रकटयेत् ?” इति आश्चर्येण पृष्टवन्तः मित्रजनाः ।**

** तदा दिवाकरः उक्तवान्— “अस्माकं भूस्वामी समयप्रज्ञाविषये आदरवान् । कुत्र कियत्कालं स्थातव्यम् इति कदा गन्तव्यम् इति च ये जानन्ति तान् महता आदरेण पश्यति सः । अमरेन्द्रः तु एकं क्षणम् अपि**

कुत्रापि व्यर्थं न यापयति । अतः तद्विषये अस्माकं भूस्वामिनः तावान् आदरः । व्यर्थं समयस्य यापनं न इच्छति अस्माकं भूस्वामी” इति ।

‘भवत्सु समयप्रज्ञा नास्ति । भवन्तः व्यर्थं समयं यापयन्ति। अतः भवत्सु भूस्वामी आदरवान् न’ इत्येतं विषयं परोक्षरूपेण सूचितवान् आसीत् दिवाकरः । एतत्अवगच्छन्तः मित्रजनाः म्लानवदनाः सन्तः अपि मिथ्याहासं प्रकटयन्तः ततः निर्गन्तुम् उद्युक्ताः ।

मित्रं सम्प्रेष्य प्रत्यागच्छन् राजेन्द्रः एतेषां निर्गमनं दृष्ट्वा मन्दहासपूर्वकं पृष्टवान्— “किं सर्वे अपि युगपत् प्रस्थिताः ? कः विशेषः ?” इति ।

किम् उत्तरं वक्तव्यम् इति अजानन्तः सर्वे मौनं स्थितवन्तः । तदा कश्चन ज्येष्ठः उक्तवान्— “मम बन्धुः कश्चन अद्य दूरदेशं गच्छति । तस्य प्रेषणार्थम् अस्माभिः सर्वैः गन्तव्यम् आसीत्। वयं तत् विस्मृत्य अत्र जल्पन्तः व्यर्थं समययापनं कुर्वन्तः आस्म । वार्तालापमध्ये केनचित् स च विषयः स्मारितः । अतः त्वरया गच्छन्तः स्मः” इति ।

“अस्तु तर्हि । पुनः मिलाम तावत्” इति उक्तवान् भूस्वामी । सर्वे ततः निर्गताः ।

राजेन्द्रः अन्तः आगत्य दिवाकरं पश्यन् मन्दहासपूर्वकम् उक्तवान्— “समीचीनः उपायः कृतः भवता । समयस्य महत्त्वं ज्ञात्वा इतः निर्गताः एते पुनः विना कारणं जल्पनार्थम् अत्र न आगच्छेयुः । शत्रोः निवारणं सुकरं स्यात्, किन्तु हितशत्रूणां निवारणे कौशलम् आवश्यकम् । यत्र धनं भवति तत्र दीपं परितः पतङ्गः इव एतादृशाः भवन्ति एव । भवतः उपायः फलकारी जातः । अमरेन्द्रपात्रधारिणा अपि सम्यक् एव अभिनीतम् । तस्मै योग्यम् उपायनं दातव्यम्” इति।

“मम आशयस्य अनुगुणं व्यवहरतः भवतः अभिनयः अपि उत्तमः एव आसीत्” इति हसन् साभिमानम् उक्तवान् दिवाकरः ।

नटपटुः नटेशः

** भ**

रतपुरे पूर्वं नटेशः नाम कश्चित् आसीत्। तस्य निश्चितः उद्योगः कोऽपि न आसीत्। सदा नस्यचूर्णं सेवते स्म सः । मुखनासिकाभ्यां तस्य सम्भाषणम्। पादम् उन्नीय स्थापयन् नृत्यगत्या चलति स्म सः । एतत्सर्वं दृष्ट्वा जनाः तं वदन्ति स्म यत् एषः ‘नटपटुः नटेशः’ इति ।

** नटेशस्य निश्चितः उद्योगः कोऽपि नास्ति इत्यतः आयः अपि कोऽपि नास्ति । किन्तु भोजनविषये वृकोदरः सः । परान्नभोजनेन एव तस्य जीवननिर्वहणम् ।**

** भोजनार्थम् उपविष्टः सः वदति स्म— “आहारे त्यक्तलज्जः सुखी भवति इति अभिज्ञाः वदन्ति । किन्तु अहं तु चिन्तयामिलज्जात्यागः अशिष्टव्यवहारः इति । तादृशः व्यवहारः मह्यं सर्वथा न रोचते । यत्र अनादरः तत्र भोजनं न करोमि एव मम एतं व्यवहारं जानन्तः जनाः आदरेण प्रीत्या च भक्ष्याणि अधिकतया एव परिवेषयन्ति । परिविष्टं क्षेप्तुं न इच्छामि अहम् । अतः अनिच्छन् अपि खादामि। परिवेषणकर्तृन् खेदयितुं न शक्यते खलु ?” इति एवं वदन् सः द्विगुणितं भोजनं कृत्वा गच्छति स्म ।**

** गच्छता कालेन नटेशस्य व्यवहारः सर्वैः अपि ज्ञातः एव । अतः कोऽपि तं भोजनार्थं न आह्वयति स्म । अतः नटेशः अन्यप्रदेशतः स्थानान्तरणं प्राप्य आगतान् उद्योगिनः अधिकारिणः च आश्रित्य भोजनं प्राप्नोति स्म ।**

** कदाचित् सर्वकारीये उद्योगे स्थितः साम्बशास्त्री आम्रपत्राणि कदलीपत्राणि च गृहीत्वा गच्छन् नटेशेन दृष्टः । नटेशः झटिति तस्य समीपं गत्वा तस्य नामकुलादिकम् उद्योगं च ज्ञात्वा तस्मिन् दिने तस्य गृहे**

वटसावित्रीव्रतपूजा अस्ति इत्यपि ज्ञातवान् । “व्रतपूजा अस्ति वा गृहे? एतादृशे दिने बन्धुमित्राणि गृहं प्रति आह्वातव्यानि । नूतनतया एतंग्रामम् आगतवतः भवतः बान्धवाः मित्राणि वा कथं स्युः ? अतः अहं भवद्गृहम् आगमिष्यामि । मित्राय भोजनं दत्तं चेदेव व्रतस्य फलं प्राप्यते खलु ?” इति उक्त्वा नस्यचूर्णं नासिकायां योजयित्वा उच्चैः क्षुतवान् ।

** साम्बशास्त्रिणः महान् सन्तोषः जातः । गृहस्य अभिज्ञानम् उक्त्वा “अविलम्बेन आगच्छतु” इति सूचयित्वा ततः गतवान् साम्बशास्त्री ।**

** किन्तु तस्मिन् दिने नटेशः साम्बशास्त्रिणः गृहं न गतवान् एव । यतः तावता एव तेन वार्ता श्रुता यत् ग्रामपुरोहितः सपरिवारं तिरुपतियात्रार्थं गच्छति इति। अतः एषः झटिति पुरोहितगृहं गत्वा— “अहो दाक्षिण्यं भवतः ! प्रयाणे भवतः साहाय्यम् आवश्यकम् एव खलु ? तदर्थम् अहम् अस्मि । मम कार्याणिनश्यन्ति इति चिन्तनं मास्तु भवतः । तानि आगत्य करिष्यामि इति उक्त्वा तस्मिन्दिने तेन सह प्रस्थितवान् एव । एवं सप्ताहस्य भोजनं सम्पादितं तेन ।**

** साम्बशास्त्री तु मध्याह्ने नटेशस्य प्रतीक्षां कृतवान्। नटेशस्य अनागमनेन सः खिन्नः अभवत् ।**

** ततः सप्ताहस्य अनन्तरं कदाचित् प्रातःकाले मार्गे नटेशं दृष्टवान् साम्ब शास्त्री ।**

** ‘इदानीं साम्बशास्त्री कोपेन कटुवचनानि वदिष्यति’ इति जानन् नटेशः एव कृतकहासं प्रदर्शयन्— “नमस्कारः श्रीमन्! मम विषये कोपः स्यात् भवतः । तस्मिन् दिने एवं जातम्— भवतः गृहस्य भोजनम् अङ्गीकृत्य इतः गतः खलु ? अग्रे मार्गे ग्रामपुरोहितः मिलितः । ‘तिरुपतियात्रार्थं प्रस्थितवान् अस्मि । भवतः साहाय्यम् अत्यावश्यकम्’ इति सानुरोधम् उक्त्वा मां नीतवान् सः । ग्रामपुरोहितस्य वचनं तिरस्कारयोग्यं न खलु ? अतः एवं जातम्। अद्य भोजनार्थं भवतः गृहम् एव आगमिष्यामि इति वदन् साम्बशास्त्रिणः हस्तं गृहीत्वा तदीयं गृहं प्रति**

प्रस्थितवान् नटेशः ।

** साम्बशास्त्रिणः मातुलानी लक्ष्मीदेवी। सा अन्यद्वारा कार्यकारणे नितरां दक्षा । नटपटोः नटेशस्य व्यवहारादिकं तया सम्यक् ज्ञातम् आसीत् ।**

** गृहम् आगतः नटेशः नस्यचूर्णं नासिकाया योजयित्वा यदा क्षुतवान् तदा एव लक्ष्मीदेवी ज्ञातवती यत् एषः नटेशः अद्य अत्र भोजनार्थं स्थास्यति इति । सा दर्पेण उक्तवती— “नटेशवर्य! समये उपस्थितः भवान् ! भोजनार्थं भवान् अत्र आगतः । किन्तु पाकः इतोऽपि न सिद्धः । पाकशालायां जलसङ्ग्रहः समाप्तः अस्ति। अतः भवान् झटिति स्नात्वा कूपतः सप्ताष्टघटमितं जलम् आनयतु । तदनन्तरं भोजनम्” इति ।**

** यदि जलानयनं निराक्रियेत तर्हि भोजनं न प्राप्येत । अतः अनन्यगतिकः नटेशः अतिगभीरात् कूपतः महता कष्टेन जलम् आनीय स्थापितवान्। अद्य दौर्भाग्यं मम ! अजानन् कष्टे पतितः अस्मि’ इति खेदम् अनुभूतवान् सः ।**

** यदा घटत्रयमितं जलम् आनीतं तदा एव नितरां श्रान्तः सः दीर्घं निःश्वसन् विश्रान्त्यर्थं गृहस्य पुरतः उपविष्टवान् । तदा तत्र आगता लक्ष्मीदेवी— “अये! परान्नभोजनेन शरीरं वर्धितवतः भवतः सामर्थ्यम् एतावत् एव ? भोजनानुगुणं किमपि साहाय्यं कृतं चेत् भवतः अपि हितम्, अस्माकम् अपि सन्तोषः । साहाय्यं किमपि अकृत्वा भोजनं कृत्वा गमनं पापाय । अस्तु, भोजनं कृत्वा विश्रान्तिं प्राप्य**

अनन्तरं पुनः जलम् आनयतु । इदानीं भोजनार्थम् आगच्छतु” इति उक्तवती ।

** प्रतिवचनं किमपि अवदन् भोजनार्थम्उपविष्टवान् नटेशः। महती बुभुक्षा इत्यतः बृहत् कवलं कृत्वा वेगेन भोजनं कर्तुम् उद्युक्तः सः । तदा लक्ष्मीदेवी पुनः उक्तवती— “अये! मन्दं खादतु । सम्यक्चर्वणं कृत्वा यावदावश्यकं तावदेव खादनीयम् । अन्यगृहे भोजनं प्राप्तम् इति द्विगुणितं खादितं चेत् कः लाभः ? स्थूलत्वं प्राप्यते तदा । मानवः परिश्रमेण स्वस्य आहारं स्वयं सम्पादयेत् । तदा एव गौरवम् । सर्वदा पराने एवं प्रवृत्तिः चेत् काकम् इव भवन्तम्अपि निवारयिष्यन्ति जनाः । एतादृशं जीवनं नरकप्राप्तेः हेतुः” इति ।**

** अद्यावधि कोऽपि नटेशम् एवं न बोधितवान् आसीत् । अतः परान्नसेवनं पापाय इति भावना एव न आगता आसीत् तस्य मनसि। लक्ष्मीदेव्याः वचनानि स्मरन्लज्जया शिरः अवनमय्य मौनं भोजनं समापितवान्सः । भोजनं समाप्य हस्तक्षालनार्थं यदा सः गतः तदा लक्ष्मीदेवी पुनः उक्तवती— “अये, भोजनं समाप्य तथैव निर्गन्तुम् उद्युक्तः खलु भवान्? पत्रं बहिः स्वयं क्षिप्त्वा गोमयेन उपलेपनं करणीयं भवता एव । परान्नं केवलं खादतः कार्यं किमपि अकुर्वतः भवतः भोजनपत्रम् अहं स्पृशामि चेत् अहं पापभाक् भवेयम्” इति ।**

** हितवचनश्रवणेन लज्जितः नटेशः एतानि तिरस्कारपूर्णानि वचनानि श्रुत्वा नितरां खिन्नः अभवत् । लक्ष्मीदेव्याः वचनानुगुणं सर्वं कृत्वा मौनं ततः निर्गतवान् नटेशः । सायं पुनः तद्गृहं न आगतवान् सः ।**

** पूर्वं यः नयवचनैः भोजनं प्राप्नोति स्म सः नटेशः इदानीं अन्यगृहं गत्वा ‘मया किं कार्यं करणीयम्’ इति पृष्ट्वा कार्यं कृत्वा भोजनं करोति । कार्यम् अकृत्वा कुत्रापि भोजनं न करोति सः । एतेन जनाः तस्मिन् आदरवन्तः अभवन्। ‘परोपकारी नटेशः’ इति कीर्तिः अपि प्राप्ता तेन ।**

नौकाचालकस्य चयनम्

न्द्रगिरिनामके ग्रामे कश्चन भूस्वामी आसीत्। तस्य गृहात् अनतिदूरे काचित् नदी प्रवहति स्म। नौकायाम् उपविश्य तस्यां नद्यां विहारः भूस्वामिने नितरां रोचते स्म । नदी पर्वतं परिक्रम्य वेगेन प्रवहति स्म। अतः भूस्वामी समर्थं कञ्चन नौकाचालकम् इच्छति स्म ।

नाविकोद्योगं प्राप्तुं बहवः आगतवन्तः । भूस्वामिनः साहाय्यकः विविधैः प्रश्नैः तेषां परीक्षां कृतवान्। अन्ते अर्हौ द्वौ भूस्वामिनः समीपं नीत्वा— “श्रीमन्! एषः हालकः । नौकाचालने सुनिपुणः । तरणे अपि चतुरः । अन्यः एषः धीरजः। एषः नौकाचालने सुनिपुणः चेदपि तरणे समर्थः न” इति तयोः परिचयं कारितवान् ।

“भवन्तौ श्वः आगच्छताम् । तदा मम निर्णयं श्रावयामि” इति उक्त्वा तौ प्रेषितवान् भूस्वामी। अनन्तरं साहाय्यकम् उक्तवान् सः— “श्वः यदा धीरजः आगमिष्यति तदा तं वदत् यत् भवान् उद्योंगे नियुक्तः अस्ति इति” इति ।

तदा साहाय्यक आश्चर्येण पृष्टवान्— “श्रीमन् ! तरणसमर्थं हालकं विहाय तरणे अप्रवीणं धीरजम् उद्योगे नियोजयन् अस्ति खलु ? किमर्थम् एवम्?” इति ।

तदा भूस्वामी मन्दहासपूर्वकम् उक्तवान्— “नौकाचालने तु उभौ अपि समर्थों एव । हालकः तरणे अपि समर्थः । तरणे अपि यः चतुरः भवति सः नौकाचालने विशेषावधानयुतः न भवेत् । यतः ‘अपायः यदि कदाचित् भवेत् तर्हि तरणेन आत्मरक्षणं करोमि अहम्’ इति तस्य मनसि धैर्यं भवति । धीरजः तु तरणानभिज्ञः । अतः सः नौकाचालनसमये अल्पोऽपि अपायः यथा न भवेत् तथा जागरूकताम् आश्रयति एव । एतादृशः अस्ति चेत् ममापि अपायभीतिः न भविष्यति” इति ।

“सत्यं श्रीमन्! भवता दूरालोचनं कृतम्। उभयोः अपि योग्यत्वं सम्यक् निर्णीतं भवता” इति तृप्त्या उक्तवान् साहाय्यकः।

निम्बवृक्षमहिमा

लयालराज्यं पूर्वं जामोरिन्राजः पालयन् आसीत्। तस्य धनलोभः अधिकः। अतः सः समग्रे राज्ये तिन्त्रिणीवनं निर्मातव्यम् इति निश्चित्य एतदर्थं मन्त्रिणः आज्ञापितवान् ।

तस्मिन् राज्ये नम्बियार्नामकः प्रसिद्धः वैद्यः आसीत्। वृक्षमूल-रस-पर्णादीनां साहाय्येन औषधस्य निर्माणे सः अद्वितीयः आसीत् । समग्रे भारते तस्य कीर्तिः आसीत् । तत्काले देहलीशासकस्य आस्थाने स्थितः अरबवैद्यः प्रकृतिचिकित्सायां सुविख्यातः आसीत्। नम्बियारः अरबवैद्यः च प्रायः सामर्थ्येन समानौ इति जनाः वदन्ति स्म ।

जामोरिन्राजः समग्रे देशे तिन्त्रिणीवनं संवर्धयितुं सङ्कल्पितवान् अस्ति इति ज्ञात्वा नम्बियारः राज्ञः समीपं गत्वा निवेदितवान्—

“महाप्रभो, काचित् विज्ञप्तिः मम । तिन्त्रिणीवृक्षाः लाभकारिणः स्युः । किन्तु अनारोग्यकारिणः ते। अतः आरोग्यवर्धकाः निम्बवृक्षाः देशे सर्वत्र आरोपणीयाः इति विज्ञाप्यते मया । निम्बवृक्षाणां वायुः आरोग्यं वर्धयति, साङ्क्रामिकरोगं निवारयति च” इति ।

नम्बियार्वैद्यस्य प्रार्थनां निराकुर्वन्उक्तवान् जामोरिन्राजः—

“वैद्यमहाशय ! तिन्त्रिणीवृक्षाः विविधोपयोगिनः । तिन्त्रिणीफलस्य क्रेतारः बहवः । तिन्त्रिणीकाष्ठं गृहनिर्माणार्थम् अत्युपयोगी । तिन्त्रिणीशलाका दन्तधावनार्थम्उपयुज्यते । तिन्त्रिणीपुष्पाणि किसलयाः च खादने रुचिकराः । तिन्त्रिणीवृक्षः छायादायकः अपि । अतः मार्गाणां पार्श्वे तिन्त्रिणीवृक्षस्य आरोपणम् एव वरम् । निम्बवृक्षस्य आरोपणेन न कोऽपि विशेषलाभः । एवं ननु” इति ।

नम्बियार्वैद्यः उत्तरं किमपि वक्तुम् अशक्नुवन् ततः मन्त्रिणः गृहं गतवान् । मन्त्री

तम् आदरेण स्वागतीकृत्य पानीयादिभिः सत्कृत्य कुशलप्रश्नान् पृष्टवान् ।

नम्बियार्वैद्यः उत्तरं किमपि अयच्छन्गाम्भीर्येण मन्त्रिणः नाडीं, नेत्रे, उरः, उदरं च स्पृष्ट्वा परीक्षितुम् उद्युक्तः ।

तदा मन्त्री हसन् पृष्टवान्—

“किमर्थं मम परीक्षा ? दैवानुग्रहतः मम किमपि अस्वास्थ्यं नास्ति खलु ?” इति ।

नम्बियार्वैद्यः गाम्भीर्येण एवं उत्तरं दत्तवान्—

“इदानीं किमपि अस्वास्थ्यं नास्ति इति तु सत्यम् एव । किन्तु भाविनि काले घोररोगेण भवान् पीड्यते इत्यपि सत्यम् । अतः योग्ये समये योग्या चिकित्सा अवश्यं करणीया” इति ।

तदा दिग्भ्रान्तः मन्त्री उक्तवान्—

“एवं तर्हि अद्यैव भवान् चिकित्सायाः आरम्भं करोतु” इति ।

“चिकित्सार्थं यदि मम सामर्थ्यं स्यात् तर्हि काऽपि चिन्ता न अभविष्यत् । एतस्य रोगस्य चिकित्सां कर्तुं देहलीनगरस्थः अरबवैद्यः एवसमर्थः, नअन्यः” इति उक्तवान्नम्बियार्वैद्यः ।

“चिकित्सार्थं तावद्दूरं गन्तव्यं वा मया ? इतः गतं मां सः अरबवैद्यः आदरेण पश्येत्वा? तावत्कालम् अहं जीवेयं वा?” इति सोद्वेगम् उक्तवान् मन्त्री ।

“मन्त्रिवर्य! भीतिः मास्तु । भवान्चिकित्सां प्राप्य प्रत्यागमिष्यति इत्यत्र दृढः विश्वासः मम । रोगपीडा इतोऽपि न आरब्धा इत्यतः काऽपि चिन्ता करणीया नास्ति । अरबवैद्यः तु धनिकनिर्धनभेदम् अकुर्वन्सर्वान् समानतया पश्यति । अतः चिन्तां विना भवान् अद्यैव चिकित्सार्थं निर्गच्छतु” इति सूचितवान् नम्बियार्वैद्यः ।

नम्बियार्वैद्यस्य वचनं तिरस्कारयोग्यं न इत्यतः मन्त्री राज्ञः अनुज्ञां प्राप्य देहलीनगरं प्रति प्रस्थितवान्। प्रस्थानसमये नम्बियार्वैद्यः मन्त्रिणं सूचितवान्—

“मार्गे तिन्त्रिणीवृक्षस्य अधः एव भवतः विश्रान्तिः भवतु । सर्वदा तिन्त्रिणीवने वासः भवतु । तिन्त्रिणीशलाकया एव दन्तधावनं करणीयम् । तिन्त्रिणीकाष्ठम् एव पाकार्थम्

उपयोक्तव्यम् । तिन्त्रिणीफल-किसलयादयः एव पाकार्थम् उपयोक्तव्याः” इति ।

** एताः सूचनाः अक्षरशः पालयन् मन्त्री सपरिवारं देहलीं प्रति गतवान् । देहलीप्राप्तितः पूर्वम् एव तदीयम् आरोग्यंनष्टम्। शक्तिह्रासतः सः नितरां कृशःजातः ।**

** ‘अहो, नम्बियार्वैद्यस्य करुणालुता, रोगाभिज्ञानसामर्थ्यं च ! सम्भाव्यं रोगं पूर्वम् एव ज्ञात्वा सूचयन् मां रक्षितवान् सः’ इति चिन्तयन् मन्त्री देहलीनगरं प्राप्तवान् ।**

** अल्पेन एव श्रमेण अरबवैद्यस्य दर्शनं जातम्। मन्त्रिणा उक्तं समग्रं श्रद्धया श्रुतवान्वैद्यः । तिन्त्रिणीवृक्षाणाम् आरोपणेन हानिःभवति इत्येतम् अंशं प्रमाणीकर्तुम् एव नम्बियार्वैद्यः मन्त्रिणं मम समीपं प्रेषितवान्इति अवगतवान् सः ।**

** अतः सः उक्तवान्—**

“मन्त्रिवर्य ! भवतः व्याधिः तीव्रः चेदपि एतस्य चिकित्सा न क्लेशाय । योग्ये समये भवान् अत्र आगतवान्अस्ति” इति ।

** “चिकित्सा क्लेशकरी न? तर्हिउज्जीवितः अहम्! समीचीनं चिकित्साक्रमंसूचयतु तावत्” इति उक्तवान् मन्त्री ।**

** “अविलम्बेन भवता इतः स्वराज्यं प्रति गन्तव्यम् । गमनसमये विश्रान्त्यर्थं निम्बवृक्षः एव आश्रयणीयः । निम्बवने एव रात्रौ वसतिः करणीया । निम्बपत्रव्यजनेन एव वीजनीयम् । दन्तधावनार्थं निम्बशलाका उपयोक्तव्या । गण्डूषार्थं निम्बरसयुक्तं**

जलम् उपयोक्तव्यम् । एषा चिकित्सा विना लोपं कृता चेत् भवतः व्याधिः अचिरात् एव अपगमिष्यति। स्वनगरं गत्वा नम्बियार्वैद्यं मम नमस्कारान् निवेदयतु । स्वनगरप्राप्तिसमये भवान् पूर्वापेक्षया स्वस्थः भविष्यति । भवतः प्रयाणं शुभकरं भवतु” इति उक्तवान् अरबवैद्यः ।

** अरबवैद्येन उक्तम् विनयेन अङ्गीकुर्वन्मन्त्री सपरिवारं ततः प्रस्थाय अरबवैद्येन यथा उक्तं तथैव निम्बवृक्षस्य उपयोगं कुर्वन्स्वनगरं प्राप्तवान् । एतेन तदीये मुखे विशेषकान्तिः दृश्यते स्म । अस्वास्थ्यं सर्वथा अपगतम् आसीत् । शरीरे नवचैतन्यं दृश्यते स्म । मन्त्रिणःआगमनवार्तां श्रुत्वा नम्बियार्वैद्यः तं द्रष्टुम् आगतः । मन्त्री तं स्वकीयम् अनुभवं विस्तरेण उक्तवान् ।**

** “आगच्छतु। आवां जामोरिन्राजं पश्याव । भवतः अनुभवः तेन अवश्यं श्रोतव्यः” इति उक्तवान् नम्बियार्वैद्यः ।**

** उभौ अपि मिलित्वा जामोरिन्राजस्य समीपं गतवन्तौ । मन्त्रिणः अनुभवं विस्तरेण श्रुत्वा राजा आश्चर्यचकितः ।**

** “अत्र एकं रहस्यम् उद्घाटयन् अस्मि । वस्तुतः मया अल्पः अपराधः कृतः । मन्त्रिणः कोऽपि रोगः न आसीत्। निम्बवृक्षस्य माहात्म्यं ज्ञापयितुं तिन्त्रिणीवृक्षस्य हानिकारितां निवेदयितुं च मया असत्यम् उक्त्वा मन्त्री देहलीं प्रेषितः। तिन्त्रिणीवृक्षसहवासतः देहलीप्राप्तिसमये मन्त्री अस्वस्थः जातः । अरबवैद्यः मम अन्तरङ्गं जानन् निम्बवृक्षसेवनं चिकित्सारूपेण विहितवान् । अतः मन्त्री स्वस्थः जातः । अतः तिन्त्रिणीवृक्षाणाम्आरोपणविचारंपरित्यज्य निम्बवृक्षाः आरोपणीयाः इति मम नम्र निवेदनम्” इति उक्तवान् नम्बियार्वैद्यः ।**

** जामोरिन्राजः नम्बियार्वैद्यस्य प्रार्थनां पुरस्कुर्वन् समग्रे राज्ये निम्बवृक्षारोपणार्थम् आज्ञां कृतवान् ।**

ज्ञानार्जनोपायः

** शा**

न्तिभूषणः नाम कश्चन महापण्डितः पूर्वम् उज्जयिन्याम् आसीत् । ये यत् पृच्छन्ति तस्य योग्यं समाधानं वदति स्म सः । अतः जनाः वदन्ति स्म यत् शान्तिभूषणवर्येण अपठितं शास्त्रं नास्ति, अज्ञातः विषयः अपि नास्ति इति ।

** शान्तिभूषणस्य शिष्येषु अन्यतमौ शाण्डिल्यः च्यवनः चेति । तयोः सदा जिज्ञासा— अस्माकं गुरुः एतावत् ज्ञानं कथं सम्पादितवान् स्यात् इति । यदा यदा विरामसमयः प्राप्यते तदा तौ एतद्विषये चर्चा कुरुतः स्म ।**

** एवं चर्चासमये कदाचित् शाण्डिल्यः उक्तवान्— “अस्माकं गुरोः गुरुः ब्रह्मभट्टारकः अस्ति खलु ? तस्य सकाशात्विद्यायाः प्राप्तिः नाम, भगवतः सकाशात् तपसा वरप्राप्तिः इव इति जनाः वदन्ति । अतः अहं चिन्तयामि— तादृशं कठिनं तपः कृत्वा अस्माकं गुरुः विद्यां प्राप्तवान् स्यात्” इति ।**

** “गुरोः गुरुः समर्थतमः स्यात् नाम । किन्तु सः केवलं मार्गदर्शकः । मार्गदर्शनम् उत्तमम्अस्ति चेदपि परिश्रमः नास्ति चेत् प्रयोजनं न भवति । अस्माकं गुरुणा सर्वं स्वपरिश्रमेण एव आर्जितम् इति भाति मम । सः बहूनि शास्त्राणि पठितवान् इति एतावदेव न, लक्षाधिकान् तालग्रन्थान् अपि परशीलितवान् अस्ति इति श्रूयते । यद्यत्पठितं, परिशीलितं च तस्य सर्वस्य अर्थं प्रतिपदं स्मरति सः इत्यपि श्रूयते । एवं स्थिते अपि इदानीम् अपि ग्रन्थानाम् अवलोकनं कुर्वन् भवति सः । अतः, ग्रन्थपरिशीलनतः एव पाण्डित्यं सिद्धम् इति भावयामि अहम्’’ इति उक्तवान् च्यवनः ।**


एवं बहुधा ‘चर्चा कृता चेदपि गुरोः

पाण्डित्यस्य मूलकारणम् किमिति न ज्ञातं ताभ्याम्। ‘गुरोः समीपं गत्वा एतद्विषये प्रश्नः एव वरम्’ इति निर्णीतवन्तौ तौ ।

** अनन्तरं तौ गुरोः समीपं गत्वा स्वकीयं सन्देहं निवेदितवन्तौ । तदा गुरुः शान्तिभूषणः मन्दहासपूर्वकम् उक्तवान्—**

“भवतोः एतादृशः सन्देहः युक्तः एव । भवन्तौ एतादृशं सन्देहं प्राप्तवन्तौ यत् तत्मम सौभाग्यं भावयामि । किन्तु अहम्अन्यचिन्ताव्यग्रः अस्मि इदानीम् । वेदान्तसम्बन्धिनः केचन सन्देहाः मां बाधन्ते । तेषाम् उत्तरं वक्तुं समर्थः तु मम विद्यागुरुः ब्रह्मभट्टारकः एकः एव। स तु इदानीं शतवर्षीयः वृद्धः अस्वस्थः च। काशीनगरे तस्य वासः । भवन्तौ काशीनगरं गत्वा तस्य योगक्षेमं विचार्यसः सम्भाषणसमर्थः चेत् मम सन्देहानां समाधानं प्राप्य आगच्छताम् । अनन्तरम् अहं भवतोः सन्देहस्य निवारणं करिष्यामि” इति ।

** शाण्डिल्यः च्यवनः च गुरोः आदेशस्य अनुगुणं काशीनगरं गतवन्तौ । ब्रह्मभट्टारकस्य गृहम् अन्विष्य गतवन्तौ च । ब्रह्मभट्टारकः शान्तिभूषणस्य सन्देहान्श्रुत्वा—**

“अहं लेखितुं न शक्नोमि । अहम्उत्तरं वदामि। भवन्तौ लिखताम्” इति उक्तवान् । तालपत्रं कण्टलेखनीं च ताभ्यां दत्तवान्। ब्रह्मभट्टारकेण यद्यत् उक्तं तत्सर्वं लिखितवन्तौ शिष्यौ ।

** लेखनस्य अनन्तरं तौ ततः निर्गन्तुम्उद्युक्तौ । तदा ब्रह्मभट्टारकः उक्तवान्—**

“वत्सौ, शान्तिभूषणस्य शिष्यौ भवन्तौ । अतः मया अधिकं किमपि वक्तव्यं नास्ति । शान्तिभूषणेन ये सन्देहाः उद्भाविताः तेषाम् उत्तरम् अहं मानवशास्त्रानुगुणम् उक्तवान्अस्मि । किन्तु मया यत् उक्तं तस्य पठनतः पुनः केचन सन्देहाः उद्भवन्ति । तेषां परिहारं च रसायनशास्त्रज्ञः कर्तुम् अर्हति । तादृशः समर्थः कश्चित् अवन्तीनगरे कुलालवीथ्यां निवसति । तस्य नाम चक्रधरःइति । भवन्तौ यदि तं दृष्ट्वा तस्यापि उत्तराणि प्राप्य एव गच्छतः तर्हि समग्रा प्रक्रिया सुष्ठु स्यात् । भवतोः कार्यतः शान्तिभूषणः सन्तुष्टः

भवेत्” इति।

** शाण्डिल्यः च्यवनः च अवन्तीनगरं गत्वा कुलालवीथ्यां निवसतः चक्रधरस्य गृहं गतवन्तौ । यदा तौ स्वनाम उक्त्वा आगमनकारणम् अपि उक्तवन्तौ तदा चक्रधरः महान्तं सन्तोषं प्रकट्य योगक्षेमम्अपि विचार्य—**

“ब्रह्मभट्टारकवर्यः कश्चन महात्मा । यदा अहं बालः आसं तदा काश्यां ब्रह्मभट्टारकाचार्यः स्वगृहस्य पुरतः उपविश्य स्वशिष्यान् यत् पाठयति स्म तत्दूरात् शृणोमि स्म । कदाचित् आचार्यः मां समीपम् आहूय—

‘वत्स, चक्रधर! भवतः व्यवहारतः मया ज्ञातं यत् विद्यार्जने भवतः महती इच्छा इति । भवतः वृत्तिकौशलम्अपूर्वम् इति बहूनां मुखतः मया श्रुतम् । ज्ञानसागरस्य इयत्ता ज्ञातव्या इति मम प्रबला इच्छा । एतादृशे कार्ये भवतः अपि साहाय्यम्आवश्यकं भवेत् । ज्ञानार्जनबुद्धिः साहाय्यबुद्धिः च सदा भवतु । भवतः साहाय्यं कालान्तरे स्वीकरिष्यामि’ इति उक्त्वा आशिषा अनुगृहीतवान् । इदानीं सौभाग्यवशात् साहाय्यं कर्तुं मया अवकाशः प्राप्तः” इति उक्त्वा रसायनशास्त्रसम्बन्धिनां सन्देहानाम् उत्तरम् उक्तवान् । शाण्डिल्यःच्यवनः च तत् यथावत्लिखितवन्तौ ।

** ततः गन्तुम् उद्यतौ तौ उक्तवान्चक्रधरः—**

“आर्यौ, ब्रह्मभट्टारकाचार्येण ये सन्देहाः उद्भाविताः तेषाम् उत्तरम् अहं मम अनुभवस्य बलात्, ज्येष्ठाः यत् बोधितवन्तः तस्य बलात् च उक्तवान्। किन्तु तानि सर्वाणि शास्त्रानुगुणानि एव स्युः इति विश्वासः नास्ति मम । ब्रह्मभट्टारकाचार्यस्य शिष्येषु अन्यतमः मम आत्मीयः च शान्तिभूषणः नाम पण्डितः उज्जयिन्यां निवसति । सः सकलशास्त्रनिपुणः । पठनमात्रेण एव सः निर्णेतुं शक्नोति यत् किं शास्त्रीयं किं अशास्त्रीयम् इति । अतः भवन्तौ उज्जयिनीं गत्वा तं पश्यताम् । मया उक्तं सर्वं तस्मै प्रदर्शितं चेत् सः शास्त्रानुगुणत्वम् अस्ति उत न इति निर्णीय वदेत्। मया प्रेषितम् इति भवन्तौ तं वदताम् ।

सः अवश्यं भवतोः साहाय्यं करिष्यति” इति ।

** तदा शाण्डिल्यः च्यवनः च महत्आश्चर्यम् अनुभवन्तौ— “आवां वस्तुतः शान्तिभूषणवर्यस्य एव शिष्यौ। सः आवां ब्रह्मभट्टारकाचार्यस्य समीपं प्रेषितवान्। ब्रह्मभट्टारकाचार्यः च आवां भवत्समीपं प्रेषितवान्” इति उक्त्वा चक्रधरस्य अनुज्ञां प्राप्य गुरुकुलं गतवन्तौ ।**

** उज्जयिनीं गत्वा ब्रह्मभट्टारकाचार्यस्य उत्तरं चक्रधरस्य उत्तरं च शान्तिभूषणाय दत्त्वा प्रवृत्तं समग्रं निवेदितवन्तौ ।**

** सर्वं श्रुत्वा शान्तिभूषणः मन्दहासपूर्वकं शिष्यौ उक्तवान्— “सर्वे मां महापण्डितं भावयन्तः प्रशंसन्ति इति जानीतः खलु भवन्तौ ? किन्तु मया अज्ञाताः विषयाः अपि बहवः सन्ति इति एतावता अवगतं स्यात् भवद्भ्याम् । विषयसङ्ग्रहार्थं कियान्परिश्रमः करणीयः इत्यपि भवद्भ्यां ज्ञातं स्यात्” इति।**

** शाण्डिल्यः च्यवनः च अङ्गीकारपूर्वकं शिरः चालितवन्तौ । तदा शान्तिभूषणः पुनः उक्तवान्— “भवतोः चर्चा आसीत् खलु ज्ञानप्राप्त्यर्थं गुरोः बोधनं प्रधानम् उत विषयसङ्ग्रहपरिश्रमः इति ? वस्तुतः तु उभयम् अपि समं प्राधान्यम् आवहति । ज्ञानस्य इयत्ता तु नास्ति । अतः यावत् ज्ञातं भवति ततोऽपि अधिकतया अज्ञाताः विषयाः भवन्ति लोके । एतत् मनसि निधाय सदा अपि ज्ञानार्जनार्थं प्रयत्नः करणीयः । नूतनाः सन्देहाः यदा उद्भवन्ति तदा तेषाम् उत्तरं प्राप्तुं प्रयत्नः करणीयः । एतादृशी प्रवृत्तिः यस्य भवति सः एव महापण्डितः भविष्यति” इति ।

शान्तिभूषणस्य उपदेशं श्रद्धया गृहीतवन्तौ शाण्डिल्यः च्यवनः च । अनन्तरं तौ अपि विविधान् ग्रन्थान् परिशीलयन्तौ सन्देहानां निवारणार्थं गुरोः मार्गदर्शनं प्राप्नुवन्तौ ज्ञानार्जनं कृतवन्तौ । अतः तौ कालान्तरे विख्यातौ पण्डितौ जातौ ।**

]