लघुकथासङ्ग्रहः-२

[[लघुकथासङ्ग्रहः-२ Source: EB]]

[

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

[TABLE]

अपात्रे दानम्

श्रावस्तीराज्यस्य राजा सुकेतुसेनः। यदा राजकार्यतः विरामः लभ्यते तदा सः मृगयार्थं गच्छति। एकदा सः एवम् एव मृगयाविहारार्थं गतः वने, नदीतीरे, पर्वते च विहरन्परिजनेभ्यः पृथक् जातः। अग्रे गच्छन् सः दृष्टवान् यत् कश्चन कलाकारः शिलायाः उपरि निश्चिन्ततया सुप्तस्य अजपालस्य सुन्दरं चित्रं लिखन् अस्ति।

सः अजपालः वृक्षच्छायायां शिलायाः उपरिसुप्तः आसीत्। राजा शब्दं विना मन्दं चित्रकारस्य पृष्ठतः गत्वा स्थित्वा चित्रं परिशीलितवान्। चित्रम् अतीव सुन्दरम् आसीत्। वर्णयोजनं तु अपूर्वम्। अजपालस्य मुग्धतास्फुटं दृश्यते स्म। राजा एतेन ‘तुष्टः सन् चित्रकारं वचनैः अभिनन्दितवान्।

चित्रकारः महाराजस्य परिचयं प्राप्य विनयेन नमस्कृत्य उक्तवान्– “महाराज ! मम नाम अनन्तः। तं युवकम् अजपालं पश्यत। अजापालनार्थम् आगतः सः वृकव्याघ्रादीनां सञ्चारयोग्ये अस्मिन् स्थलेअजपालनम् आत्मरक्षणं च विस्मृत्य सुखेन स्वपिति। न कापि चिन्ता तस्य। निद्रादेव्याः अपूर्वः महिमा” इति।

राजा सुकेतुसेनः स्वकण्ठे स्थितं रत्नहारं चित्रकारस्य कण्ठे स्थापयन् उक्तवान्–“अनन्त ! एतत् चित्रम् अहं स्वीकरोमि। पुरस्काररूपेण एतं हारं भवते दत्तवान् अस्मि अपि” इति।

चित्रकारः निद्रायां मग्नम् अजपालम् उत्थाप्य तस्मै तं हारं दत्त्वा महाराजम् उक्तवान्– “महाप्रभो !चित्रलेखने मम किञ्चित् प्रावीण्यं स्यात् नाम। तथापि एतस्यचित्रस्यउत्कृष्टतायाः कारणम् एषः अजपालः एव। वनस्य चित्रं लेखितुम् अहम्

अत्र आगतवान्। एतस्य युवकस्य चित्रणेन वनचित्रे अपि अपूर्वता सिद्धा। अतः भवता दत्तं हारं एतस्मै दत्तवान्। भवान् माम् अन्यथा न चिन्तयति इति अहं भावयामि” इति।

चित्रकारस्य वचनं श्रुत्वा राजा सुकेतुसेनः अङ्गुल्यां स्थितम् अङ्गुलीयकं चित्रकाराय यच्छन् उक्तवान्– “अनन्त ! भवता मह्यम् एतादृशम् एव अपूर्वम् अपरं चित्रं लिखित्वा दातव्यम्। तस्यस्मरणार्थम् एतत् अङ्गुलीयकं दत्तम्। तादृशस्य दिनस्यप्रतीक्षायाम् अहं भवामि यद्दिने भवान् अपूर्वां कलाकृतिं मह्यं प्रदर्शयिष्यति” इति।

अत्रान्तरे महाराजस्य अन्वेषणं कुर्वन्तः परिवारजनाः तत्र आगतवन्तः। महाराजः तैः सह राजधानीं प्रतिगतवान्।

एतदनन्तरं पञ्चविंशतिः वर्षाणि अतीतानि। एकदा चित्रकारः अनन्तः महाराजस्य आस्थानम् आगतवान्।

तत्समये राजा शृङ्खलाभिः बद्धस्य महाचोरस्य शूलारोपणं दण्डयन् आसीत्। “श्वः एतं शूलम् आरोपयन्तु” इति भटान् आज्ञापितवान् राजा।

अनन्तः कलाकारदृष्ट्या महाचोरस्य अन्तरङ्गं परिशीलयन् आसीत्। तदा महाराजः अनन्तस्य आगमनं ज्ञात्वा “स्वागतं कलाकाराय ! अपूर्वा कलाकृतिः कापि आनीता वा?” इति पृष्टवान्।

भटैः कारागारं प्रति नीयमानं महाचोरं प्रदर्शयन् महाराजम् उक्तवान् अनन्तः–

“महाराज ! क्रौर्यस्य, काठिन्यस्य, पशुत्वभावनायाः च प्रत्यक्षम् उदाहरणम् अस्ति एषः चोरः। एतस्य जीवच्चित्रं लेखितुम् इच्छामि अहं, यदि भवता अनुमतिः दीयते” इति।

राजा चित्रलेखनार्थम् अनुमतिं दत्तवान्। अनन्तः कारागारं गतवान्। अन्यस्य आगमनं दृष्ट्वा सः चोरः मुखं परिवर्त्य स्थितवान्।

अनन्तः स्वस्य आगमनकारणं निवेदितवान्। एतत् श्रुत्वा चोरः किमपि उत्तरम् अयच्छन् निश्चलस्थित्या किञ्चित्कालं स्थितवान्। अतः अनन्तः अधिकश्रमेण विना एव चोरस्य चित्रं लिखितवान्।

चित्रलेखनसाफल्येन तृप्तः अनन्तः चोरस्य सहकार कृतज्ञतापूर्वकं स्मरन् पञ्चविंशितिवर्षेभ्यः पूर्वं महाराजेन दत्तम् अङ्गुलीयकं चोराय परितोषिकरूपेण दातुम् उद्युक्तः।

तदा चोरः अङ्गुलीयकदानं तिरस्कृर्वन् अनन्तम् पृष्टवान्–" किं भवान् इतोऽपि मम परिचयं न प्राप्तवान्?” इति।

चोरस्य प्रश्नं श्रुत्वा आश्चर्यं प्रकटयन् अनन्तः चोरः परीक्षादृष्ट्या दृष्ट्वा निराकारपूर्वकं शिरः चालितवान्।

तदा सः चोरः विकटाट्टहासं प्रकटयन् उक्तवान्– “भवान् मम परिचयं न प्राप्तवान्। महाराजः अपि तथैव। एतत् तु मम दौर्भाग्यम्” इति।

चोरस्य कथनस्य आशयम् अजानन्

अनन्तः आश्चर्येण पृष्टवान्– “यदा महाराजः शूलारोपणम् आज्ञापयन् आसीत् तदा एव अहं तत्र उपस्थितः। महाराजस्य परिचयः भवतः यदि स्यात् तर्हि भवान् तत्समये किमर्थं न स्मारितवान्?” इति।

“परिचयलाभप्राप्तेः समयः अतीतः इति भावयित्वा अहं तदा मौनं स्थितवान्। किम् इदानीं भवान् मां महाराजसमीपं नेतुम् अर्हति?” इति पृष्टवान् चोरः।

चोरस्य कथनस्य पृष्टभूमौ कापि महत्त्वपूर्णा घटना अस्ति इति भावयन् अनन्तः महाराजं दृष्ट्वा प्रवृत्तं सर्वं निवेद्य चोरस्य अपेक्षां श्रावितवान्। महाराजस्य मनसि अपि कुतूहलम् उत्पन्नम्। सः भटद्वारा तं चोरं स्वसमीपम् आनायितवान्।

महाचोरः अनन्तं महाराजाय प्रदर्शयन् उक्तवान्– " महाप्रभो ! मम एतस्याः दुर्दशायाः मूलं कारणम् एषः चित्रकारः एव। सः मम एतां दुर्दशां दृष्ट्वा अपि न सन्तुष्टः इति भाति। पुनः अपि मयि धनलोभम् उत्पादयितुं प्रयत्नं कुर्वन् अस्ति। भवता पञ्चविंशतिवर्षेभ्यः पूर्वं दत्तम् अङ्गुलीयकं मह्यं दातुम् उद्युक्तः अस्ति एषः” इति।

राजा पुनः अपि आश्चर्यं प्राप्नुवन् चोरं पृष्टवान्– “मया पूर्वम् एतस्मै चित्रकाराय अङ्गुलीयकं यत् दत्तं तत् भवता कथं वा ज्ञातम्? " इति।

चोरः विचित्रं हासं प्रदर्श्य क्षणकालस्य मौनानन्तरम् उक्तवान्– ‘महाप्रभो ! पञ्चविंशतिवर्षेभ्यः पूर्वं कश्चन मुग्धः अजपालः आसीत्। एकदा यदा सः अजपालः गम्भीरे अरण्ये वृक्षस्य अधः निश्चिन्ततया सुप्तः आसीत् तदा एषः चित्रकारः तस्यं चित्रं लिखितवान्। तत्र आगतः भवान् तत्चित्रं दृष्ट्वा सन्तोषेण कण्ठहारं चित्रकाराय दत्तवान्। तं च हारं चित्रकारः अजपालाय दत्तवान्। सः हारः मम विषये शूलयते। यतः अहम् एव सः अजपालः आसम्” इति।

‘इदानीं राजा सुकेतुसेनः चित्रकारः अनन्तः च पञ्चविंशतिवर्षेभ्यः पूर्वं प्रवृत्तां तां घटनां स्मृतवन्तौ। किन्तु एवं परिवर्तने किं कारणम् इति तौ न ज्ञातवन्तौ। अतः ‘तां घटनां वदतु’

इति राजा साग्रहम् उक्तवान्।

तदा चोरः स्वजीवनवृत्तान्तं निरूपितवान्– “महाप्रभो ! भवता उपायनरूपेण दत्तं कण्ठहारं चित्राकरः मह्यं दत्तवान् खलु? अहं तं हारं विक्रेतुम् इच्छन् नगरं गत्वा कस्मैचित् वणिजे प्रदर्शितवान्। सः वणिक् मम वेषाभूषादिकं रत्नहारं च दृष्ट्वा मांचोरं मत्वा नगररक्षकसमीपं नीतवान्। नगररक्षकः मम वचनं कल्पितकथां मन्यमानः मां कारागारे स्थापितवान्। कारागारे तुबहवः चोराः आसन्। तेषां सहवासेन अहम् अपि चौर्यमार्गम् अनुसृतवान्। चौर्यं, हननं, लुण्ठनं सर्वं मया कृतम्” इति।

राजा आलोचयति– “अरण्ये अजान् पालयन् स्थितः मुग्धः युवकः कथम् एवं महाचोरः संवृत्तः। तत्रापि उपायनरूपेण दत्तः रत्नहारः कारणम् ! अहो विधिविलासः !’ इति।

राजाचोरं पृष्टवान्– “भवान् यत् हिंस्रकार्यं कृतवान् तद्विषये पश्चात्तापं न अनुभवति वा?” इति।

चोरः शिरः अवनमय्य क्षीणस्वरेण उक्तवान्– “कुतःन?पूर्वम् अपिअनुभूतवान्। किन्तु एकवारं सा वृत्तिःआश्रिता चेत् ततः मोक्षः एव नास्ति खलु? चोरे कः वा विश्वसिति? श्वः मरणं प्राप्स्यतःमम पश्चात्तापेन किं प्रयोजनम्? " इति।

“अहं भवति विश्वसिमि। भवान् मरणदण्डनतः बन्धनतः च इदानीं मुक्तः भवन्तं मम पशुशालायाःनिरीक्षकत्वेन नियोजयिष्यामि। उत्तमव्यवहारेणशिष्टम् आयुः।सार्थकीकरोतु” इति उक्त्वा स्वकण्ठे स्थितम् अमूल्यं रत्नहारं चित्रकाराय अनन्ताय यच्छन् राजा हसन् उक्तवान्– “अपात्रे दानम् अनर्थाय इति प्राचीनाः युक्तम् एव उक्तवन्तः। देशं कालं च परिशील्य सत्पात्रे दत्तं चेदेव फलम्। एतं हारम् अपि अन्यस्मैअपात्राय दत्त्वा तम् आपदि न पातयतु” इति।

अपूर्वः व्यवहारः

बाग्दादनगरस्य समीपे एकः ग्रामः। तस्य ग्रामस्य अन्ते च एकः विशालः वृक्षः। एकदा केचन जनाः तस्य वृक्षस्य छायायाम् उपविश्य परस्परं जल्यन्तिस्म। तदा एकः मध्यवयस्कः पुरुषः तेषां समीपम् आगतवान् तस्य मलिनानि वस्त्राणि धूलिभरितानि आसन्। मस्तके केशाः अस्तव्यस्ताः आसन्। एतादृशः सः उन्मत्तः इव दृश्यते स्म।

सः वृक्षस्य समीपम् आगत्य, छायायाम् उपविष्टानां सर्वेषां मुखानि परीक्षादृष्ट्या अवलोकयन् “सर्वदा सुखम् अनुसृत्य दुःखं भवति। विजयस्य पश्चाद्भागे एव पराजयः अपि सिद्धः अस्ति। यत्र प्रकाशः अस्ति, तत्र छाया वर्तते एव। एतत् सर्वम् असत्यं वा?” इति पृष्टवान्।

ग्रामस्थेषु एकः तं दृष्ट्वा “अयि भोः, तत् अस्तु तावत्। अत्र एतत्सर्वं किमर्थं वदति? वस्तुतः किं वक्तुं भवान् अत्र आगतवान्?” इति पृष्टवान्।

“मम जीवनानुभवेन ज्ञातं सत्यम् एव इदानीम् अहम् उक्तवान्। सविस्तारवर्णनस्य जिज्ञासा अस्ति चेत् शृण्वन्तु, वदामि” इति स्वीयां कथां प्रोक्तवान्।

सः पुरुषः बाग्दादनगरद्वारस्य रक्षकभटः आसीत्। रात्रिसमयः। पूर्णिमायाः प्रकाशेन दिशः व्याप्ताः। सः द्वारस्य समीपे उपविश्य तन्द्रामग्नः जातः। तदा अकस्मात् सः कस्यचित् मृदुहस्तस्य स्पर्शेन जागरितः। नेत्रे उन्मील्य यदा पश्यति तदा तस्य पुरतः काचन सुन्दरयुवती समयमाना स्थिता आसीत्। तया सह अन्यः कोऽपि न आसीत्। तेन तस्य आश्चर्यं, विविधाः संशयाः च सञ्जाताः।

सः तां दृष्ट्वा उत्थाय “का भवती? अस्मिन् रात्रिसमये किमर्थम् आगतवती? मम

समीपे किम् अस्ति कार्यम्?” इति पृष्टवान्।

सा स्त्री किमपि उत्तरम् अनुक्त्वा तस्य हस्ते कानिचन रजतनाणकानि स्थापितवती। पुनः एकवारं मन्दहासं प्रकटितवती च।

“अहं न उत्कोचग्राहकः।” इति उक्तवान् रक्षकभटः।

सा मञ्जुलस्वरेण “एषः न उत्कोचः। दुष्टकार्यार्थं यदि धनं दीयते, तर्हि उत्कोचः इति वदन्ति। इदानीम् अहम् एकम् उत्तमकार्यं साधयितुं भवतः साहाय्यं याचितुम् आगतवती। तदर्थं एतत् धनम्” इति उक्तवती।

‘‘कीदृशम् उत्तमकार्यंतत् ?” इति पृष्टवान् रक्षकभटः।

अस्य नगरस्य न्यायाधीशस्य पुत्री अहं च प्रियसख्यौ। किन्तु केनापि कारणेन सः न्यायाधीशः आवयोः परस्परदर्शनं, सम्भाषणं वा न इच्छति। न्यायाधीशस्य पुत्री तु माम् अदृष्ट्वा अतीव दुःखिता अस्ति। अतः अद्य रात्रौ न्यायाधीशस्य गृहे स्थातुं यथा अहं शक्नोमि, तथा भवता साहाय्यं करणीयम्” इति सा सुन्दरी उक्तवती।

“तत् कथं वा स्यात् ?” इति आश्चर्येण ताम् एव पश्यन् रक्षकभटः पृष्टवान्।

“यदि भवान् सम्मतिं ददाति, तर्हि न तत्क्लिष्टं कार्यम्” इति उक्त्वा सा सविवरणं कार्यसाधनप्रकारं सूचितवती।

रक्षकभटः तां न्यायाधीशस्य गृहं नीत्वा हस्तेन द्वारं ताडितवान्। यदा न्यायाधीशः द्वारम् उद्घाटितवान् तदा “श्रीमन्, एषा भगिनी ग्रामान्तरतः आगतवती। अस्याः कश्चित् बन्धुः अस्मिन् नगरे वसति। किन्तु तस्य बन्धोः गृहस्य सङ्केतचिटिका कुत्रचित् नष्टा। अतः एषा भवतः गृहस्य बहिर्भागे रुदती उपविष्टा आसीत्। एतस्याः जनकम् अहं जानामि। सः महान् सज्जनः गौरवार्हः च। अस्याः शरीरे बहुमूल्यानि सुवर्णाभरणानि अपि सन्ति। रात्रिसमये एकाकिनी एषा बहिः तिष्ठति चेत् महान् अपायः अस्ति एव। अतः अद्य भवतः गृहे शयनार्थम् अवकाशं कल्पयतु” इति उक्तवान् रक्षकभटः।

सःन्यायाधीशः नगरप्रमुखः अपि आसीत्। अतः रक्षकभटस्य वचनं निराकर्तुम् असमर्थः सः तां गृहस्य अन्तः नीतवान्।

अनन्तरं सः रक्षकभटः स्वीयानि कर्तव्यकर्माणि समाप्य गृहं गतवान्। अल्पे एव काले केचन भटाः तस्य गृहसमीपम् आगत्य तम् आहूतवन्तः।

रक्षकभटः क्रोधेन द्वारम् उद्घाट्य ‘कः विशेषः’ इति पृष्टवान्। “शीघ्रं नगराधिकारिणः कार्यालयम् आगच्छतु” इति ते उक्तवन्तः। सः तैः सह नगराधिकारिणः समीपं प्रस्थितवान्।

तत्र नगराधिकारिणा सह न्यायाधीशः अपि उपविष्टः आसीत्। रक्षकभटं दृष्ट्वा न्यायाधीशः क्रोधेन “किं रे दुरात्मन् ! कीदृशः चोरः अस्ति भवान् ! भवतः सा चोरसखी कुत्र अस्ति?” इति भर्त्सयन् उच्चैः पृष्टवान्।

तस्य प्रश्नं श्रुत्वा रक्षकभटः आश्चर्यचकितः किङ्कर्तव्यतामूढः च जातः। अनन्तरं तेषां वचनैः सः ज्ञातवान् यत्, रात्रौ तस्य वचनप्रभावेण न्यायाधीशस्य गृहे आश्रयं प्राप्तवती सा स्त्री, न्यायाधीशस्य सर्वाणि आभरणानि धनादिकं च अपहृत्य पलायितवती इति।

“रे रे चोरसहचर ! भवतः मरणदण्डः एव योग्यः ! " इति न्यायाधीशः उच्चैः आक्रोशं कृतवान्।

रक्षकभटः भीत्या कम्पमानः “स्वामिन्, शासनानुसारेण अपराधी अपि दिनत्रयप्रमाणकम् अवधिं प्राप्तुम् अर्हः अस्ति। तस्मिन् समये तेन स्वीयं निरपराधित्वं निरूपणीयम्, अथवा परिहारधनं सम्पाद्य अर्पणीयं भवति। अतः कृपया मह्यम् अपि तादृशम् अवधिं ददातु। धर्मात्मा भवान् निराकरणं न करोतु” इति प्रार्थितवान्।

तदा नगराधिकारी न्यायाधीशः च परस्परं किञ्चित् समालोच्य दिनत्रयात्मकम् अवधिं दत्त्वा तं त्यक्तवन्तौ। अनन्तरं सः रक्षकभटः दिनद्वयं यावत् नगरस्य सर्वेषु मार्गेषु तस्याः अन्वेषणं कृतवान्। कुत्रापि सा न दृष्टा।

किन्तु तृतीये दिने एकस्यां वीथ्यां एकस्य

गृहस्य वातायनद्वारा तस्याः स्त्रियः मुखं तेन दृष्टम्। तं दृष्ट्वा स्मयमाना सा अन्तः आगच्छतु इति हस्तचालनेन सूचितवती।रक्षकभटः धावन् तस्याः समीपंगत्वा– “रे रेचोरनारि ! कथम् अदृश्यतां गता आसीत्?“इति कर्कशस्वरेण पृष्टवान्।

सा तु निश्चला निर्भीता च– “अहं कुत्र वा गतवती? भवतः प्रतीक्षां कुर्वती अस्मि। इदानीं मम अन्वेषणं सफलं जातम्” इति हसन्ती उक्तवती।

“रे दुष्टे ! भवत्याः कारणेन मम उपरि कीदृशं कष्टम् आपतितम् इति जानाति वा?” इति पृष्टवान् रक्षकभटः।

“भवद्द्वारा अहम् अपि किं न्यूनं कष्टम् अनुभूतवती वा ?” इति सा पुनः पृष्टवती।

“मत्कारणतः भवत्याः कष्टं वा?” इति रक्षकभटः आश्चर्येण पृष्टवान्।

सा किञ्चित् हसन्ती क्षणद्वयं तूष्णीं स्थित्वा अनन्तरं “भवान् तु कीदृशः मुग्धः भोः ! अहं वातायनसमीपे एव एतावत्पर्यन्तं स्थित्वा किमर्थं प्रतीक्षां कृतवती इति जानाति वा? भवान् अत्र आगच्छति एव इति अहं निश्चयेन जानामि स्म” इति उक्तवती।

“किमपि किमपि असम्बद्धप्रलापं न करोतु। मम साहाय्यतः न्यायधीशस्य गृहं प्रविश्य तत्र स्थितानि समस्तवस्तूनि अपहृतवती। इतः परम्अपि मम समीपे भवत्याः किं वा कार्यं स्यात्?” इति पृष्टवान् रक्षकभटः।

“न्यायाधीशः अधर्ममार्गेण यत् सम्पादितवान्, तत् धनम् अहम् अपहृतवती इति तु सत्यम् एव। किन्तु तादृशं कार्यम् अहं किमर्थं कृतवती इति भवान् जानाति वा? आवां विवाहद्वारा दम्पती भूत्वा एतेन धनेन सुखेन जीवनं यापयावः इति आशया एव। अत्र पश्यतु !” इति उक्त्वा सा तत्रत्याम् एकां कपाटिकाम् उद्घाटितवती। तत्र बहूनि आभरणानि सुवर्णनाणकानि च आसन्।

तत्सर्वं दृष्ट्वा रक्षकभटः लोभेन तत् धनं पुनः पुनः पश्यन् ‘सत्यमेव एतत् सर्वं रमणीयम् अस्ति। किन्तु इदानीम् अहं विपत्तौ पतितः

अस्मि। न्यायाधीशस्य गृहे यत् चौर्यं जातं तस्मिन् चौर्ये मम अपि सहभागित्वम् अस्ति इति मम उपरि अपराधः आरोपितः’ इति उक्तवान्।

“एतावदेव खलु ! भयं मास्तु। सः न्यायाधीशः एव अपराधी इति समर्थयितुम् एकः समीचीनः उपायः अस्ति” इति उक्त्वा सा रक्षकभटस्य कर्णे किमपि उक्तवती।

अनन्तरं रक्षकभटः ततः निर्गत्य नगराधिकारिणः समीपं गत्वा “श्रीमन्, सा चोरनारी इदानीम् अपि तस्य न्यायाधीशस्य गृहे एव अस्ति। सूक्ष्मरूपेण अन्वेषणानन्तरम् एतं विषयम् अहं ज्ञातवान्। अतः कृपया न्यायाधीशस्य गृहे सर्वत्र अन्वेषणं कर्तुम् अवकाशं कल्पयतु" इति याचितवान्।

‘तथा अस्तु’ इति अङ्गीकृत्य नगराधिकारी स्वयमपि रक्षकभटेन सह न्यायाधीशस्य गृहं गतवान्। नगराधिकारिणः वचनं निराकर्तुम् असमर्थः न्यायाधीशः अन्वेषणार्थं सम्मतिं दत्तवान्।

रक्षकभटः गृहं प्रविश्य सर्वेषु प्रकोष्ठेषु अन्वेषणं कृतवान्। एकस्मिन् प्रकोष्ठे एका बृहती काष्ठपेटिका आसीत्। तस्याः पश्चाद्भागं दृष्ट्वा रक्षकभटः न्यायाधीशं ‘श्रीमन्, तस्याः स्त्रियः वस्त्रस्य वर्णः कः आसीत्?" इति पृष्टवान्।

“सा हरितवर्णीयं वस्त्रं धृतवती आसीत् इति स्मरामि। किमर्थम् एवं पृच्छति?” इति पृष्टवान्।

तदा झटिति रक्षकभटः तस्याः पेटिकयाः पश्चादभागतः स्त्रीधारणयोग्यम् एकं वस्त्रं बहिः निष्कासितवान्। तत् वस्त्रं हरितवर्णीयम् आसीत्। किञ्च तत् रक्तयुक्तम् अपि आसीत्।

तत् दृष्ट्वा नगराधिकारी न्यायाधीशः च आश्चर्यचकितौ जातौ।

अनन्तरं नगराधिकारी क्रूरदृष्ट्या न्यायाधीशं पश्यन् उच्चस्वरेण “किं भोः ! न्यायाधीशमहाशय ! भवान् तां स्त्रीं हत्वा शवं कुत्र स्थापितवान्? किमर्थं भवान् तां हतवान्?” इति पृष्टवान्।

“स्त्रीहत्या वा? तत्रापि मया? अहमेव तां

हतवान् इति भवतः अभिप्रायः वा?” इति वदन् न्यायाधीशः तत्र एव अधः पतितवान्।

नगराधिकारी तं कृपादृष्ट्या पश्यन् समाश्वासयन् च “भयं मास्तु। एषः वधः भवतः गृहजनेषु अन्येन केनापि कृतः स्यात्। परिशीलयामः। भवतः विषये अहम् उदाररूपेण एवं व्यवहरामि। भवतः उपरि कापि विपत्तिः यथा न आपतेत्, तथा अहं व्यवस्थां करोमि। तावत्पर्यन्तम् एतं विषयं गुप्तरूपेण स्थापयामः” इति उक्त्वा, अनन्तरं रक्षकभटं “इदानीं भवतः निरपराधित्वं सिद्धं जातम्। किन्तु एतं विषयं कुत्रापि मा वदतु” इति आज्ञारूपेण उक्तवान्।

“स्वामिन् ! भवतः आज्ञां मम शिरसि धरामि” इति रक्षकभटः निरातङ्कभावेन उक्त्वा तस्याः स्त्रियः वसति गृहं प्रतिप्रस्थितः।

तस्याः सौन्दर्यं, बुद्धिमत्ताम्, अत्यद्भुतचातुर्यं च दृष्ट्वा सः आश्चर्येण भ्रान्तः आसीत्।

यदा रक्षकभटः तस्याः गृहसमीपं गतवान्, तदा द्वारं पिहितं तथा द्वारशृङ्खला बद्धा आसीत्। कार्यान्तरेण कुत्रापि गता स्यात्। इदानीम् एव आगच्छेत् इति चिन्तयन् बहुसमयपर्यन्तं तत्रैव स्थित्वा सः तस्याः प्रतीक्षणं कृतवान्। अनन्तरं सः प्रातिवेशिकगृहं गत्वा सा स्त्री कुत्र गतवती इति पृष्टवान्।

“किं भोः, सा तस्य गृहस्य गृहस्वामिनी वा? तत् जीर्णगृहस्य समीकरणार्थं शून्यम् स्थापितम् आसीत्। काचित् अपरिचिता स्त्री केवलं दिनत्रयतः तत्र आसीत्। अद्य सा स्वीयवस्तूनि गृहीत्वा कुत्रचित् गतवती” इति प्रातिवेशिकाः उक्तवन्तः।

तदारभ्य रक्षकभटः मतिभ्रष्टः भूत्वा तत्र तत्र अटन् कालं यापयन् अस्ति।

एवंरीत्या उक्तां रक्षकभटस्य कथां श्रुत्वा वृक्षस्य छायायाम् उपविष्टाः ग्रामस्थाः करुणया ‘हन्त ! हन्त ! वराकः एषः !’ इति उद्गारवचनं उक्तवन्तः। तं समाश्वासितवन्तः च।

अम्बापुरम्

पूर्वम् अनङ्गराज्यम् चक्रधरमहाराजः परिपालयति स्म। तदीयं राजभवनम् अतीव पुरातनम् आसीत्। सहस्रशवर्षेभ्यः पूर्वम् एतत् भवनं निर्मितम् आसीत्।

महाराजः चिन्तितवान्– “गृहस्य समीकरणं अपव्ययाय एव। महता व्ययेन समीकृतं चेत् अपि एतत् शोभायमानं न दृश्यते” इति।

चक्रधरः एतस्य पुरातनभवनस्य विषये एव सर्वदा चिन्तयति। आत्मग्लानिम् अनुभवति। अन्ते सः मनसि एकंनिर्णयम् अङ्गीकृतवान्– “पुरातनभवने निवासः महाराजस्य मम अगौरवकरम्। अतः अहम् एतत्क्षणे एव एतत् गृहं त्यक्त्वा निर्गच्छामि। यत्र सुन्दरं स्थलं दृश्यते तत्र नवीनं राजभवनं निर्मापयिष्यामि" इति।

एतत्समनन्तरम् एव सः स्वपरिवारेण सह ततः निर्गतवान्। सुन्दरं स्थलं अन्विश्य गच्छन् एकस्याः नद्याः तीरं प्राप्तवान्।

नदीतीरप्रदेशस्य सौन्दर्यं दृष्ट्वा राजा परमानन्दितः। अवर्णनीयेन आनन्देन सः पुलकितः। नदीतीरे सर्वत्र हरिद्वर्णः दृश्यते स्म। उन्नताः वृक्षाः, शीतलः सुगन्धयुतः च वायुः ! पक्षिणां मधुरः कलरवः एतस्य प्रदेशस्य रमणीयतां वर्धयति स्म। नद्याः कलकलनिनादः मञ्जुलतया श्रूयते स्म।

एतं प्रदेशम् आगतः महाराजः नवोत्साहं प्राप्तवान्। राजा निश्चितवान्– “एषः प्रदेशः अतीव रमणीयः अस्ति। जलविहारार्थं पार्श्वेएव नदी अपि अस्ति। अस्मिन्नेव विशालप्रदेशे मदीयं राजभवनं निर्मापयामि" इति।

अतः ‘एषः प्रदेशः कस्य? इति विचार्य आगच्छन्तु’ इति सेवकान् आज्ञापितवान्।

सेवकाः तस्य प्रदेशस्य स्वामिनम् अन्विष्यन्तः ततः निर्गताः। समीपे एव तैः

एकःकुटीरः दृष्टः। सर्वे कुटीरस्य समीपं गतवन्तः। राजा अपि तान् अनुसृतवान्।

गृहस्य अन्तः नवतिवर्षीया एका वृद्धा उपविष्टा आसीत्। ‘स्वयं महाराजः, तदीयाः परिवारजनाः च मम कुटीरम् आगतवन्तः’ इति ज्ञात्वा सा सन्तुष्टा। आदरपूर्वकं सर्वेषां सत्कारं कृत्वा सा पृष्टवती “महानुभावाः ! भवन्तः किमर्थम् अत्र आगताः इति अहं न जानामि। मत्तः किमपि अपेक्षन्ते वा !” इति।

तदा मन्त्री उक्तवान्– “आर्ये! एतं प्रदेशं दृष्ट्वा अस्माकं प्रभुः आकृष्टः अस्ति। अत्र एकं राजभवनं निर्मातव्यम् इति महाराजस्य इच्छा। एतदर्थं विशालः प्रदेशःअपेक्षितः किल? अतः वयं भवत्याः कुटीरम् इतः निष्कासयितुम् इच्छामः। भवती प्रतिफलरूपेण किम् इच्छति? वदतु” इति।

तदा वृद्धा उक्तवती– “मन्त्रिमहोदय ! महाराजस्य भवननिर्माणे अहं किं विरोधं प्रकटयामि वा? राजभवननिर्माणं, मम अपि सन्तोषाय एव। किन्तु, पश्यतु, एषः कुटीरःमम प्रपितामहस्य प्रपितामहेन ततोऽपि पूर्वजेन वा निर्मितः। इदानीम् अहं वृद्धा अस्मि। दारिद्र्यपीडिता अहं कुटीरस्य समीकरणे अपि असमर्था। तथाऽपि अहम् इतः अन्यत्र न गच्छामि। दैवम् अनुकूलं चेत् कदाचित् अहं कुटीरस्य समीकरणं कारयिष्यामि एव। मरणतः पूर्वम् एतत् साधयित्वा गृहं मम पुत्र्यैदातुम् इच्छामि अहम्। अतः कृपया क्षाम्यतु, एतत् कुटीरम् अहं न त्यजामि।”

मन्त्री वृद्धां पुनः बोधितवान्– “आर्ये! भवत्याः वचनम् अहम् अङ्गीकरोमि। किन्तु अशक्यस्य विषये भवत्या आशा न प्रदर्शनीया। भवती एतत् लघुप्रदेशं त्यजतु। प्रतिफलरूपेण राज्ये भवती यत्र इच्छति तत्र दशगुणिता भूमिः दीयते। अथवा धनम् एव आवश्यकं चेत् भवती यावत् इच्छति तावत् दीयते। भवत्याः इच्छां निस्सङ्कोचं वदतु। एतत्क्षणे एव तां पूरयिष्यामः वयम्।"

एतत् श्रुत्वा वृद्धा निर्भयपूर्वकम् उक्तवती– “महोदय ! अहं विशालं प्रदेशं वा धनराशिं वा

न इच्छामि। पूर्वजैः निर्मितम् एतं कुटीरं त्यक्त्वा गन्तुम् अहं न इच्छामि एव। यदि इच्छति, भवदीयः महाराजः अस्मिन् विशाले प्रदेशे अन्यत्र कुत्रापि राजभवनस्य निर्माणं करोतु नाम। महाराजं वदतु– पुनः कुटीरत्यागविषये आग्रहः न करणीयः इति।”

वृद्धायाः एतत् वचनं श्रुत्वा राजपरिवारस्य सर्वे सदस्याः कुपिताः। मन्त्री कोपेन उक्तवान्– “वृद्धे ! भवती केन सह वार्तालापं कुर्वती अस्ति इति स्मरति किल? अल्पः कुटीरः कुत्र? राजा कुत्र? कीदृशम् औद्धत्यम् एतत् ! रे भटाः ! इदानीम् एव एतत् कुटीरम् उन्मूलयन्तु" इति।

तदा राजा अग्रे आगत्य सर्वान् शान्तं स्थातुम् उक्तवान्। यतः सः एकः एव वृद्धायाः वचनानि सश्रद्धं श्रुतवान् आसीत्। वचनस्य मर्म अपि ज्ञातवान् आसीत्। वृद्धायाः वचनेन महाराजस्य अज्ञानं दूरङ्गतम् आसीत्।

जन्मस्थानविषये वृद्धायाः ममतां, पूर्वजानां विषये श्रद्धां भक्तिं च दृष्ट्वा राजा विस्मितः। एतेन, आत्मना यः सङ्कल्पः कृतः आसीत् सः कीदृशः दोषपूर्णः इति राजा ज्ञातवान्। “वृद्धायाः यावान् विवेकः अस्ति तावान् विवेकः मम नास्ति किल?” इति राजा खेदम् अनुभूतवान्।

अनन्तरं राजा मन्त्रिणं परिवारसदस्यान् च समीपे आहूय उक्तवान् “एतया वृद्धया अम्बया अहं सम्यक् शिक्षितः। पुरातनस्य राजभवनस्य जीर्णोद्धारपूर्वकं मया पूर्वजानां गौरवं रक्षणीयम् आसीत्। किन्तु अहं मदीयं कर्तव्यं विस्मृतवान्। भाग्यवशात् वयम् अत्र आगतवन्तः। एषा अम्बा मदीयं कर्तव्यं स्मारितवती।

इदानीम् अहं राजभवनं न प्रविशामि। अस्य वृक्षस्य अधः एव निवसामि। अत्र एव स्थित्वा राजभवनस्य जीर्णोद्धारं करिष्यामि। एवं पूर्वजैः निर्मितं भवनं यदा नवीकृतं भविष्यति तदा एव राजभवने मम प्रवेशः भविष्यति। तावत्पर्यन्तं मम वासः अत्र एव।" एवं राजा स्वकीयं निर्णयम् उद्घोषितवान्।

महाराजस्य वचनस्य तात्पर्यं कैश्चित् एव

ज्ञातम्। अवशिष्टाः सर्वे महाराजः मतिविकलः इति चिन्तितवन्तः। राजा तु तद्दिनात् एव वृक्षस्य अधः स्वकीयां वसतिम् आरब्धवान्।

राजा एव स्वयं वृक्षस्य अधः निवसति किल ! अतः नगरप्रमुखाः, शासकमुख्याः, सर्वेऽपि तत्र आगतवन्तः। तं प्रदेशम् उत्तमं मन्यमानाः तत्र एव वसतिम् आरब्धवन्तः। एतेन सर्वे नागरिकाः अपि तत्र आगत्य, लघुकुटीरान् निर्माय स्वस्वजीवनकार्यम् आरब्धवन्तः।

अल्पे एवकाले सः प्रदेशः नगररूपेण परिवर्तितः। अस्मिन् नगरे यथेष्टं सस्यसमृद्धिः अपि अस्ति। अतः नगरस्य आधुनिकता, ग्रामस्य सौकर्यम्उभयम् अपि तत्र सम्मिलितम् आसीत्।

अस्मिन् नगरे कुटीराः निर्मिताः। प्रासादाः राजभवनानि च निर्मितानि। तथापि वृद्धायाः सः पुरातनः कुटीरः अबाधितम् आसीत्। यतः राजाज्ञा एव तथा आसीत् यत् केनापि वृद्धायाः कुटीरः न निष्कासनीयः इति।

वृद्धायाः विषये कृतज्ञतां प्रकटयन् राजा तस्याः कुटीरं नवीकारितवान्। एतावदेव न, तत्परिसरे यत् नगरं निर्मितं तस्य नाम ‘अम्बापुरम्’ इत्येव निश्चितवान्।

एतदनन्तरं महाराजः चक्रधरः वंशपरम्परातः प्राप्तं प्राचीनं राजभवनम् अपि नवीकारितवान्। स्वयम् एव कार्यं परिशीलयन् तत् भवनं सुन्दरं सुदृढं च कारितवान्। इदानीं तत् भवनं सद्योनिर्मितमिव शोभते !

चक्रधरः तत् राजभवनं स्वकीयराजकार्याणां केन्द्रं कृतवान्। किन्तु वसतिः तु अम्बापुरे निर्मिते स्वभवने एव। प्रतिदिनं पूर्वजनिर्मितं तत् राजभवनं गत्वा राजकार्याणि सर्वाणि समाप्य प्रत्यागच्छति स्म सः।

एवम् अम्बापुरे निवसन् राजा सुखेन जीवति स्म। तस्य प्रजाः अपि सुखेन जीवन्ति स्म।

अर्हता

पूर्वं कोसलदेशस्य राजधान्याः समीपे एकम् अरण्यम् आसीत्। तत्र विमलानन्दनामकः मुनिः निवसति स्म। सः पाठप्रवचनादिना लोकोपकारं करोति स्म। तस्मिन् गुरुकुले इन्द्रजालपण्डिताः मीमांसकाः वैयाकरणाः च आसन्। कोसलदेशस्य राजा एव गुरुकुलस्य कृते आर्थिकसाहाय्यं करोति स्म। अध्यापकानां कृते वेतनादिकं यथाकाले महाराजः एव ददाति स्म।

एकदा तस्मिन् गुरुकुले अभ्यासं कर्तुं नगरतः उभौ विद्यार्थिनौ आगतवन्तौ। एकः सुदासः। अपरः मोहनः। तौ विमलानन्दस्वामिनं दृष्ट्वा स्वकीयम् उद्देशं निवेद्य आश्रमे अवकाशं प्रार्थितवन्तौ।

तयोः निवासार्थं व्यवस्थां कृत्वा विमलानन्दः उक्तवान्– “किञ्चित्कालम् अत्र एव निवासः भवतु। भवतोः विद्यार्हतां विचार्य अनन्तरंयत्किमपि शास्त्रं पाठनीयम्। तदर्थं अल्पः कालः अपेक्षितः। तावत्पर्यन्तं गुरुकुलस्य नियमान् अनुसृत्य अत्रैव स्थीयताम्” इति। ‘अस्तु’ इति तौ अङ्गीकृतवन्तौ।

एकः सप्ताहः अतीतः। एकस्मिन् दिने काष्ठानाम् आनयनकार्यंतयोः उपरि आपतितम्। सुदासः तथा मोहनः च परशुं गृहीत्वा अरण्ये शुष्कवृक्षम् अन्विश्य अटितवन्तौ। बहुदूरगमनानन्तरम् एकः वृक्षः दृष्टः।

उभौ अपि मिलित्वा तस्य वृक्षस्य छेदनं कृतवन्तौ। अनन्तरं भोजनं कृत्वा किञ्चित्कालं विश्रान्तिम् अनुभूतवन्तौ। पुनः पतितं वृक्षं खण्डयितुं आरब्धवन्तौ। तस्य वृक्षस्य काण्डस्य मध्ये कोटरे सुवर्णनाण्यकानाम् एकः स्यूतः आसीत्। तावत् धनं दृष्ट्वा मोहनस्य नेत्रद्वयम् अपि कान्त्या प्रज्वलितम्।

सः किञ्चित् विचार्य सुदासं प्रति “सुदास,

अद्य अस्माकं दारिद्र्यम् दूरं गतम्। एतानि नाण्यकानि विभज्य उभौ अपि स्वीकुर्वः। एतेन धनेन सुन्दरं गृहम्, विशालां भूमिं च क्रीत्वा बहुकालं सुखेन जीवितुं शक्यते। अस्मिन् अरण्ये महता कष्टेन विद्यार्जनं किमर्थं करणीयम्? विद्यया अपि धनार्जनम् एव किल अस्माकं उद्देशः? अतः एव एतत् धनं स्वीकृत्य ग्रामान्तरं गत्वा सुखेन जीवनं कुर्वः। गुरुकुलं प्रति गमनम् एव मास्तु।” इति उक्तवान्।

सुदासः तस्य वचनं न अङ्गीकृतवान्। “अहं विद्यार्जनं कर्तुं गुरुकुलम् आगतवान्। केवलं धनार्जनं विद्यायाः उद्देशः न। धनं सम्पादयितुम् अन्ये अपि मार्गाः सन्ति। विद्याविहीनाः अपि धनं सम्पादयन्ति। धनेन विद्याम् अर्जयितुं न शक्यते। किन्तु विद्यया धनं यशः च लभ्यते। विद्यया धनार्जनम् एव उचितम्। धनं कालान्तरे अस्मान् त्यजति, न तु विद्या। अतः एव ज्ञानिनः वदन्ति “विद्याधनं सर्वधन-प्रधानम्" इति। इदानीं वयं गुरुकुलनियमानुसारं सर्वं धनं गुरूणां सन्निधाने समर्पयामः। आश्रमनियमाः अनुसरणीयाः खलु? अन्यथा गुरूणाम् कोपपात्रं भवावः। अतः एव गुरूणां सन्निधाने सर्वं निवेदयावः। एतदेव साधु इति मम अभिप्रायः" इति सुदासः उक्तवान्।

मोहनः सुदासस्य वचनं न अङ्गीकृतवान्। सः सर्वाणि सुवर्णनाण्यकानि गणयित्वा अर्धभागं कृत्वा सुदासस्य समीपे दत्वा, स्वकीयं भागं कोषे स्थापितवान्। अनन्तरं “सुदास, अहं गृहं गच्छामि। भवान् गुरुकुलं गत्वा स्वेच्छया विद्यार्जनं करोतु। अहम् उपरोधं न करोमि। किन्तु मम कार्यं दुष्टम् इति अहं न चिन्तयामि” इति उक्त्वा सः एकः एव गृहमार्गम् अनुसृत्य गतवान्।

मार्गे एकां नदीं तर्तुं सः प्रवृत्तः। किन्तुसः यदा पादं निक्षिप्तवान् तदा केनापि जन्तुना दष्टः। तत्क्षणम् एव पादे महती वेदना आरब्धा। क्षणे क्षणे अपि वेदना वर्धते स्म।

भीतः मोहनः पादम् उपरि उद्धृत्य दृष्टवान्। पादं परितः एकः सर्पः वलयः इव

आक्रान्तः आसीत्। अस्य पादाघानेन दूरे पतितः सः कस्मिंश्चित् गह्वरे प्रविष्टः।

भीतः मोहनः तीरम् आगत्य पादं दृष्टवान्। तत्र सर्पस्य दन्तचिह्नम् आसीत्। तत् दृष्ट्वा सः प्राणभीत्या “हन्त ! हन्त ! अहं सर्पेण दष्टः ! साहाय्यं कुर्वन्तु !” इति आक्रन्दनं कृत्वा मार्गे धावितुं आरब्धवान्।

मोहनः किञ्चिद्रूरं धावितवान्। मार्गे एकः अटविकः मिलितः। तस्य समीपं गत्वा मोहनः ‘भोः ! अहं सर्पेण दष्टः अस्मि। यत्किमपि औषधम् अस्ति चेत् दत्वा उपकरोतु’ इति दीनस्वरेण प्रार्थितवान्।

तदा अटविकः उक्तवान्– “एवं वा? मम समीपे औषधम् अस्ति। सर्पविष-निवारणम् एव अस्माकं कुलकार्यम्। प्रथमं भवान् कोषे विद्यमानानि तानि सुवर्णनाण्यकानि मम कृते ददातु। अनन्तरम् एव अहम् औषधं ददामि। नो चेत्, न शक्यते।” इति।

‘मम कोषे धनम् अस्ति इति एषः कथं ज्ञातवान्?’ इति मोहनः आश्चर्यचकितः अभवत्। किन्तु चिन्तयितुम् अवकाशः न आसीत्। तस्य प्राणाः गच्छन्ति इव। अतः सः प्राणरक्षणं प्रधानम् इति मत्वा सर्वंधनं दत्वा “यत् किमपि स्वीकरोतु, मम प्राणान् रक्षतु” इति उक्तवान्।

सः अटविकः अरण्ये कुत्रचित् गत्वा कानिचन पत्राणि आनीय, तैः रसं सङ्गृह्य पादस्य उपरि लेपनं कृतवान्। तम् एव रसं

किञ्चित् मुखे नासिकायाम् अपि स्थापितवान्। कमपि मन्त्रं कर्णे पठितवान्।

अनन्तरं मोहनस्य शरीरे सर्पदंशनजातानि यानि चिह्नानि आसन् तानि सर्वाणि अपगतानि। अटविकः पुनः अरण्यं गतवान्।

‘लब्धं सर्वं धनं विनष्टम्’ इति मोहनः बहु दुःखम् अनुभूतवान्। सः किञ्चित् कालपर्यन्तं तत्रैव उपविश्य चिन्तितवान्। “अहम् इदानीं पुनः प्राथमिकीं स्थिति प्राप्तवान्। अतः पुनः गुरुकुलं गत्वा विद्याभ्यासं करोमि” इति निश्चित्य कानिचन काष्ठानि सङ्गृह्य गुरुकुलं गत्वा गुरोः अग्रेस्थितवान्।

मोहनं दृष्ट्वा विमलानन्दमुनिः एवम् उक्तवान् “वत्स, मोहन ! भवतोः परीक्षा कृता। तस्यां परीक्षायां सुदासः उत्तीर्णः। सः विद्याम् अभ्यसितुं समर्थः इति निश्चितम्। अतः सः अत्र एव तिष्ठति। भवान् विद्याभ्यासं कर्तुं योग्यः न इति सिद्धम् अभवत्। भवान्परीक्षायां अनुत्तीर्णः। अतः वृथा परिश्रमः

मास्तु। गृहे सुखेन तिष्ठतु भवान्" इति।

गुरोः वचनं श्रुत्वा खिन्नमनस्कः मोहनः ‘मया एव अपराधः कृतः’ इति मत्वा प्रतिनिवृत्तः।

मार्गे सः अटविकः तेन दृष्टः। सः वृक्षस्य अधः गुरुकुलस्य समीपे एव आसीत्। “अटविकः अत्र किं कार्यं करोति?" इति एक विद्यार्थिनं पृष्टवान् मोहनः।

तदा विद्यार्थी उक्तवान्– “सः न अटविकः। अस्मिन् गुरुकुले सः ऐन्द्रजालपाठकः। अद्य भवतः परीक्षां कर्तुं तं वेषं धृतवान्” इति।

विद्यार्थिनः वचनं श्रुत्वा मोहनः स्वकीयं पादं पुनः दृष्टवान्। तत्र सर्पदंशनचिह्नमपि न आसीत्। ‘आचार्यस्य ऐन्द्रजालेन सर्पदर्शनभ्रमः मयि उत्पादितः स्यात्’ इति मोहनः चिन्तितवान्। विमलानन्दमुनेः परीक्षारीतिं ज्ञात्वा मोहनः मनसि महान्तं पश्चात्तापम् अनुभूतवान्।

अविवेकः

बस्रा-नगरे अब्दुल्रजाकः नाम महान् व्यापारी आसीत्। तस्य यमलौ पुत्रौ स्तः। एकदा अब्दुल्रजाकः व्यापारं कर्तुं बहूनि वस्तूनि स्वीकृत्य नौकया प्रयाणं कृतवान्। बहुकालानन्तरम् एकं द्वीपं प्राप्तवान्।

तस्य समीपे अत्युत्कृष्टवस्तूनि आसन्। अतः व्यापारः सम्यक् अभवत्। महान् लाभः अपि प्राप्तः। रजाकस्य पण्यवस्तूनि दृष्ट्वा द्वीपस्य राजा बहु सन्तुष्टः। सः स्वयं नौकायाः समीपम् आगत्य बहूनि अमूल्य-वस्तूनि क्रीतवान्।

रजाकः समुद्रव्यापारे निष्णातः। सः व्यापारार्थं बहूनि द्वीपानि अटितवान्’ इति राजा ज्ञातवान्। अतः सः रजाकं सादरं राजगृहम् आहूय वैभवोपेतम् आतिथ्यं दत्तवान्। अनन्तरं रजाकतः अनेकानां द्वीपानां विशेषविचारान् श्रुतवान्। ‘रजाकः अनुभवी। रजाकतः बहु विषयाः ज्ञातव्याः’ इति चिन्तयित्वा राजा– ‘भवान् अत्रैव किञ्चित् कालं तिष्ठतु’ इति बहु आग्रहं कृतवान्। रजाकः अङ्गीकृतवान्। तत्र एव स्थितवान् च।

एवम् एव न केवलं मासाः, अनेकानि वर्षाणि अपि अतीतानि। रजाकस्य पत्नी ‘बहुकालः अतीतः। पतिः नआगतवान्’ इति चिन्ताकुला अभवत्। अन्ते अतीवव्याकुला सा पुत्राभ्यां सह रजाकेन यदुक्तं तदेव द्वीपम् अनुसृत्य गन्तुम् आरब्धवती।

कानिचित् दिनानि अतीतानि। एतेषां नौका अपि एक नौकानिस्थानं प्राप्तवती। रजाकः यत्र आसीत्, तस्मात् द्वीपात् एका नौका आगच्छन्ती अस्ति इति पत्नी ज्ञातवती। सा पुत्रद्वयम् आहूय ‘नाविकान् विचार्यपितुः समाचारं सङ्गृह्णातु’ इति उक्तवती।

तौ यमलौ तस्याः नौकायाः समीपं गतवन्तौ। सा नौका साक्षात् पितुः नौका एव आसीत्। रजाकः महाराजस्य अनुज्ञां सम्पाद्य अमूल्यैः उपायनैः सह स्वदेशं प्रतिनिवृत्तः आसीत्। तौ यमलौ यदा नौकां प्रविष्टवन्तौ तदा रजाकः स्वकीयं विनष्टं धनस्यूतम् अन्विष्यमाणः आसीत्। वस्तुतः नाविकः एव धनस्यूतम् अपहृतवान् आसीत्। किन्तु सः आत्मानं गोपयितुम् इच्छति स्म। अतः सः तदा एव आगच्छन्तौ यमलौ दर्शयित्वा ‘एतौ एव धनस्यूतम् अपहृतवन्तौ। अहं साक्षात् दृष्टवान्’ इति उक्तवान्।

अत्यन्तं कुपितः रजाकः तौ बालौ स्वकीय पुत्रौ इति अज्ञात्वा ‘एतौ समुद्रे क्षिपन्तु’ इति नाविकान् आज्ञप्तवान्। ते नाविकाः तत्क्षणम् एव तौ बालौ समुद्रजले क्षिप्तवन्तः।

रजाकस्य पत्नी नौकां गतवन्तौ पुत्रौ न आगतवन्तौ इति चिन्तयन्ती एव रात्रिं यापितवती। प्रातःकाले स्वयमेव नौकां गतवती। रजाकः आकस्मिकतया तत्र पत्नीं दृष्ट्वा अतीव आनन्दितः अभवत्। किन्तु पुत्रयोः विषयं ज्ञात्वा सः अतीव खिन्नः। रजाकः स्वकीयम् अपराधं ज्ञात्वा शिरोघट्टनपूर्वकम् अरुदत्।

तथापि यदा कदा वा पुत्रद्वयम् अपि आगच्छेत्’ इति काचित् आशा तयोः मनसि आसीत्। अतः एव समुद्रप्रान्ते सर्वत्र अन्वेषणं कृतवन्तौ। अनन्तरं तौ रिक्तहस्तेन गृहम् आगतवन्तौ च। क्रमेण सा आशा अपि क्षीणा।

एवम् एव कालचक्रं परिवर्तितम्। रजाकदम्पती ‘दत्तकरूपेण एकं बालकं स्वीकुर्वः’ इति निश्चयं कृतवन्तौ। एकस्मिन् दिने रजाकः विपणितः एकं बालकं क्रीत्वा गृहम् आगतवान्। पत्नीं तं बालकं दृष्ट्वा ‘हन्त ! अस्य परिचयः न लब्धः वा? एषः न अन्यः ! अस्माकम् एव पुत्रः ! एषः एव कनिष्ठः। बहुकालतः भवान् एतं न दृष्टवान् किल? अतः परिचयः न लब्धः।" इति उक्त्वा

सा बालकम् आलिङ्गितवती। बालकः अपि मातरं दृष्ट्वा सन्तोषेण ‘अम्ब !’ इति उद्गारं कृतवान्। रजाकस्य असीमः आनन्दः अभवत्। सः कनिष्ठं पुत्रम् आलिङ्ग्य ‘भवतः अग्रजस्य का वार्ता?’ इति पृष्टवान्। सः ‘अहं अग्रजस्य विषयं न जानामि। समुद्रे पतितं मां तु कश्चन नाविकः संरक्ष्य कस्यचन भृत्यविक्रयव्यापारिणः कृते विक्रीतवान्’ इति उक्तवान्।

एवम् एव षण्मासाः अतीताः। पितापुत्रौ मिलित्वा पुनः कानिचन पण्यवस्तूनि सङ्गृह्य व्यापारार्थम् नौकया एकं द्वीपं प्राप्तवन्तौ। कनिष्ठः पुत्रः तस्य द्वीपस्य महाराजाय दातुं कानिचन वस्तूनि गृहीत्वा राजभवनं गतवान्।

सः राजा तानि उपायनानि दृष्ट्वा अतीव सन्तुष्टः। ‘किञ्चित्-कालं मम अतिथिः भूत्वा तिष्ठतु।’ इति आग्रहं कृतवान्। एवं तयोः मध्ये स्नेहः वर्धितः। एतत् दृष्ट्वा राजपरिवारे केषाञ्चित् मनसि असूया उत्पन्ना। यथाकथञ्चित् तस्य कनिष्ठपुत्रस्य कामपि हानिं कर्तुं ते तन्त्रं कुर्वन्ति स्म। एकस्मिन् दिने सायंकाले महाराजं कश्चित् रोगः सप्राप्तः। कनिष्ठस्य मनसि एव चिन्ता समुद्भूता। “राजगृहे केचन दुष्टाः अवकाशं प्रतीक्षमाणाः सन्ति। राजा इदानीं अस्वस्थः। एषः एव समयः इति कृत्वा ते महाराजस्य हननम् अपि कुर्युः। अतः अहं जागरूकः भवामि’ इति संशयग्रस्तः सः खड्गं गृहीत्वा प्रातःकालपर्यन्तं महाराजस्य रक्षणं कृतवान्। प्रातःकाले महाराजस्य स्वास्थ्यं किञ्चित् उत्तमम् अभवत्।

प्रातः ते दुष्टबुद्धयः सर्वे मिलित्वा महाराजस्य समीपम् आगत्य तं कनिष्ठं दर्शयित्वा ‘महाराज ! एषः वणिक्पुत्रः रात्रौ खड्गं गृहीत्वा भवतः शयनगृहम् आगतवान्। अस्मान् दृष्ट्वा तूष्णीं स्थितवान्। नो चेत् भवन्तं मारयति स्म। अतः एव एतं शूलम् आरोपयतु ! सः एव समीचीनः दण्डः एतस्य’ इति उक्तवन्तः।

राजा किञ्चित्कालं चिन्तयित्वा ‘अविवेकः कारागृहे बहु अनर्थाय भविष्यति’ इति अहं जानामि। एनं प्रथमं कारागृहं प्रेषयन्तु। अनन्तरं किं कर्तव्यम् इति अहं वदामि।’ इति उक्तवान्।

रजाकः अपि वार्तां ज्ञातवान्। सः महाराजस्य समीपम् आगत्य ‘प्रभो ! मम पुत्रः अपराधी वा न वा इति सम्यक् विचारयतु। त्वरया किञ्चिदपि न करणीयम्। तत् महान्तम् अनर्थम् उत्पादयति। अहम् एकम् अविवेकं कृत्वा यावज्जीवं दुःखम् अनुभवन् अस्मि। मया कृतस्य पापस्य परिहारः एव नास्ति’ इति उक्तवान्। एतत् श्रुत्वा राजा ‘कम् अपराधं कृतवान् भवान्?’ इति पृष्टवान्।

“किं वदामि प्रभो ! श्रुते अपि मम वचसि विश्वासः न भवति। साक्षात् मम द्वौ पुत्रौ, मया एव जले पातितौ” इति स्वकीयां कथाम् उक्तवान्।

राजा तत् श्रुत्वा “अहो ! तर्हि कारागृहेनिक्षिप्तः युवकः मम अनुजः एव।अहो मम सौभाग्यम् ! अनुजःइति अज्ञाते अपि मम मनसि अभिमानः समुद्भूतः !” इति उक्त्वा पितरं गाढम्आलिङ्गितवान्।

ज्येष्टः पुत्रः अपि जीवितः अस्ति इति ज्ञात्वा रजाकस्य आनन्दस्य सीमा एव न आसीत्। राजा अपि तत्क्षणमेव अनुजस्य बन्धविमोचनं कृतवान्।

एषः च संवृत्तः समाचारः– समुद्रे पतितः ज्येष्टः कुमारः एकस्य काष्ठदण्डस्य साहाय्येन जले तरणं कृत्वा एतत् द्वीपम् प्राप्तवान्। द्वीपस्य राजा तु वृद्धः सन्तानहीनः च आसीत्। सः एनं दत्तकरूपेण स्वीकृतवान्। वृद्धराजस्य मरणानन्तरं एषः एव राजा अभवत्।

एवं तेषां जीवनं सुखान्तम् अभवत्। तस्मिन् एव द्वीपे रजाकः पत्नीपुत्रैः सह बहुकालं सानन्दं जीवनं यापितवान्।

असत्यपरम्परा

माधवपुरस्य भूस्वामिनः गृहे गोविन्दः सेवकः आसीत्। गोविन्दस्य पिता अपि तस्मिन् एव गृहे सेवकः आसीत्।

गोविन्दस्य बाल्ये पिता मृतः। मातरं विना समीपबन्धुः तस्य कोऽपि नास्ति। अतः दयालुः भूस्वामी एव गोविन्दं पोषितवान्। तथैव पितुः स्थाने एव गोविन्दं नियोजितवान्। गोविन्दः युवकः अभवत्। भूस्वामी गोविन्दं पुत्रम् इव वात्सल्येन पोषयति स्म।

एकदा भूस्वामी गोविन्दम् एकं कार्यम् उक्तवान्। “आगामिपूर्णिमायां पार्श्वग्रामस्य भूस्वामिनः पुत्रेण सह, मम पुत्र्याः विवाहस्य निश्चयकार्यक्रमः चिन्तितः आसीत्। कारणान्तरेण सः कार्यक्रमः अग्रे नीतः। एतं विषयं पार्श्वग्रामस्य भूस्वामिनं सूचयतु” इति उक्त्वाभूस्वामी नगरगतः।

गोविन्दः यदा प्रस्थातुम् उद्युक्तः तदा कार्यभारी किमपि अन्यत् कार्यं आदिष्टवान्। ततः स्वामिनी, यजमानस्य पुत्री च अन्यत् कार्यम् उक्तवत्यौ। सूर्यास्तपर्यन्तम् अपि एतादृशकार्याणि एव आपतितानि।

पार्श्वग्रामस्य मार्गः बहु निम्नोन्नतः वक्रः च आसीत्। रात्रेः पूर्वंग्रामतः प्रत्यागमनंबहु कष्टम्। किन्तु यजमानस्य कार्यं, तत् अवश्यं करणीयम् एव। अतः गोविन्दः किं करणीयम्?’ इति चिन्तयन् आसीत्।

तदा वृद्धः सेवकः उक्तवान् ‘गमनकाले एव रात्रिः भविष्यति। रात्रौ सर्पादिजन्तवः सञ्चरन्ति। अतः इदानीं न गच्छतु। कार्यक्रमार्थम् इतोऽपिचतुर्णांदिनानां अवकाशः

अस्ति। श्वः अनारोग्यव्याजेन विरामं स्वीकृत्य ग्रामं गत्वा आगच्छतु। अद्य रात्रौ एव यजमानः पृच्छति चेत् ‘गत्वा आगतवान्’इति वदतु।’

गोविन्दः अपि एतम् उपायम् अङ्गीकृतवान्। रात्रौ यजमानः आगत्य पृष्टवान्– ‘गोविन्द ! पार्श्वग्रामं गत्वा आगतवान् वा?

‘आम्, गत्वा आगतवान्’ इति उक्तवान् गोविन्दः।

यजमानः पुनः पृष्टवान्–‘वार्तांयजमासमीपे उक्तवान् वा? अथवा अन्यस्य कस्यचित् समीपे?’

‘भूस्वामी एव गृहे आसीत्। तस्य समीपे एव उक्तवान्।’

‘एतां वार्तां श्रुत्वा भूस्वामी किम् उक्तवान्?’

‘विशेषं किमपि न उक्तवान्। तथैव अस्तु इति अङ्गीकृतवान्।’

भूस्वामी पुनः पृष्टवान्– ‘गोविन्द ! मार्गे नद्यां प्रवाहःआसीत् इति श्रुतवान् अहम्। भवान् कथं गतवान्?’

गोविन्दः शीघ्रम् एव उक्तवान्– ‘श्रीमन्। अहं बाहुतरणं जानामि किल? गमनसमये बाहुतरणं कृतवान्। आगमनसमये नौकया आगतवान्।’

भूस्वामी गोविन्दस्य उत्तरं श्रुत्वा शिरः इतस्ततः चालयति स्म। गोविन्दः चिन्तितवान्– ‘मम उत्तरतः यजमानस्य संशयः न उत्पन्नः एव’ इति। यजमानः पुनः पृष्टवान्– ‘भूस्वामिनः पुत्रेण ह्यः तस्य मातुलगृहतः स्वगृहम् अगन्तव्यम् आसीत्। सः आगतवान् वा?”

‘आम् श्रीमन् ! पुत्रः गृहे एव आसीत्सः कदा प्रत्यागतवान् इति अहं न जानामि’ इति गोविन्दः सलीलम् उक्तवान्।

‘अस्तु, तस्य गृहस्य पुरतः एकः आम्रवृक्षः आसीत्। सः वृक्षः इदानीं पुष्पितः वा?’

गोविन्दः सधैर्यम् उत्तराणि वदन् आसीत् किल? गोविन्दः इदानीं चिन्तितवान्– ‘इदानीं वसन्तसमयः। अतः बहुशः वृक्षः पुष्पितः एव स्यात्’ इति। अतः गोविन्दः उक्तवान्– ‘इदमिदानीं किञ्चित् पुष्पितः।’

एकस्य अनन्तरम् अपरम् असत्यं वक्तव्यम् आपतितम् इति कृत्वा, गोविन्दस्य मनसि एव भीतिः। कार्यव्याजेन ततः निर्गन्तुं सः चिन्तितवान्। तदा भूस्वामी तम् आहूय पृष्टवान्– ‘गोविन्द ! तस्य गृहे कृष्णा गौः अस्वस्था आसीत् किल? सा इदानीं कथम् अस्ति?"

‘किं वक्तव्यम्’? इति गोविन्दः झटिति न ज्ञातवान्। ‘भूस्वामी गोः चिकित्सां तु करोति एव ! एवं चेत् गौः स्वस्था अपि स्यात् एव’ इति चिन्तयित्वा गोविन्दः उक्तवान्– ‘कृष्णा गौः वा? सा इदानीं स्वस्था एव।’

भूस्वामी गोविन्दस्य परीक्षां कर्तुं इच्छतिस्म। अतः सः मन्दं हसन् पृष्टवान्– ‘गोविन्द ! तत्र भोजनं कृतवान् किल?"

‘भोजनं न कृतवान्’ इति वदामि चेत् भूस्वामिनः अपमाननं कृतमिवभवति।’ इति चिन्तयित्वा गोविन्दः उक्तवान्– ‘बहु समीचीनं भोजनं परिवेषितवन्तः, श्रीमन् !’ इति।

पदे पदे असत्यम् उक्त्वा व्याकुलः गोविन्दः यजमानं पृष्टवान्– ‘अहं गच्छामि वा?’

तीक्ष्णदृष्ट्या गोविन्दस्य मुखंपश्यन् भूस्वामी उक्तवान्– ‘अरे गोविन्द ! कदा आरभ्य एवम् असत्यं वक्तुम् अभ्यस्तवान्?’ इति।

‘उक्तम् असत्यं सर्वम् अपि यजमानः ज्ञातवान् एव’ इति गोविन्दः आलोचितवान्। अतः सः इदानीं भीत्या कम्पते स्म।

भूस्वामी मन्दं हसन् शान्तस्वरेण उक्तवान्– ‘केनापि कारणेन गन्तुं न शक्तं चेत् तथैव वक्तव्यम् आसीत्। भवन्तं श्वः प्रेषयामि स्म। सत्यं वक्तुं भीतः भवान् असत्यम् उक्तवान्। एकस्य असत्यस्य गोपनार्थम् असत्यपरम्परायाः सृष्टिं कृतवान्। इदानीं वस्तुस्थितिं ज्ञातवान्किल?" इति।

गोविन्दः लज्जया कम्पमानः शिरः नमयित्वा तूष्णीं स्थितवान्।

“अद्य सायंकाले नगरे सः भूस्वामीं मिलितवान्। अहं मुहूर्तपरिवर्तनविषये तं निवेदितवान्। किन्तु भवान् ‘सः गृहे एव आसीत्’ इति असत्यम् उक्तवान्। तदानीम् एव ‘भवान् असत्यं वदति’ इति अहं ज्ञातवान्। ‘नद्यां प्रवाहः अस्ति ’ इत्यपि असत्यम् उक्तवान् भवान्। वस्तुतः सा नदी शुष्का अस्तीति भवान् न जानाति एव किल?” इति पृष्टवान् यजमानः।

‘न हि श्रीमन् ! बहुकालतः तस्यां दिशि अहं न गतवान्’ इति दीनस्वरेण उक्तवान् गोविन्दः।

यजमानः उच्चैः हसन् उक्तवान्– ‘तस्य पुत्रः इदानीम् अपि गृहं न प्रत्यागतवान्। तस्य गृहस्य पुरतः आम्रवृक्षः अपि नास्ति। केवलम् एकः निम्बवृक्षः अस्ति। एवमेव कृष्णवर्णायाःगोः विषयः अपि कल्पितः एव। तस्य गृहे किदृशी गौः अस्ति इति अहमपि न जानामि’ इति। गोविन्दः अवनतं शिरः न उन्नीतवान् एव।

यजमानः आसन्दतः उत्तिष्ठन् उक्तवान्– ‘अस्तु, इतः परं असत्यं न वदतु, उक्तं असत्यं कदाचित् प्रकाशितं भविष्यति एव इति न विस्मरतु।’

‘क्षाम्यन्तु भवन्तः। अत्रत्यकार्याणां समापने एव विलम्बः सञ्जातः। ‘सत्यं वदामि चेत् भवन्तः कुपिताः भवन्ति’ इति चिन्तयित्वा अहम् असत्यम् उक्तवान्। इतः परं जन्मनि कदापि असत्यं न वदामि’ इति गोविन्दः नमस्कृत्य उक्तवान्।

नगरात् आनीतं मधुरं भक्ष्यं गोविन्दस्य हस्ते दत्वा वात्सल्यपूर्णेन स्वरेण यजमानः उक्तवान्– ‘अस्तु, एतत् स्वामिन्याः हस्ते ददातु, भवान् अपि किञ्चित् खादतु’ इति।

अहम् एव मूर्खः

पूर्वम् एकस्मिन् नगरे एकः धनिकः आसीत्। तस्य नाम शिलामुखः इति। सः वाणिज्ये कुशलः। सः फलविक्रयणेन बहुधनं सम्पादितवान्। तस्य एकम् आम्रवृक्षणां वनम् आसीत्।

शिलामुखः तस्मिन् उपवने एकस्मिन् कोणे एकं कुटीरं निर्माय तत्र वसति स्म। प्राणधारणार्थं यावत् आवश्यकं तावत् एव धनम् व्ययीकरोति स्म। अवशिष्टं भूमौ स्थापयति स्म। पत्नीपुत्राणां अशनवसनादिविषये अपि कृपणतां दर्शयति स्म। शिलमुखः महान् कृपणः। वने फलितानि फलानि स्वयम् अपि न खादति, अन्येषां कृते अपि न ददाति। पुत्रादयः खादन्ति चेत् सः तस्य मूल्यं गणयति स्म। दानधर्मादीनां नाम अपि सः न जानाति।

एकदा सः फलानां सञ्चयनं कर्तुं कर्मकरान् आज्ञापितवान्। सर्वे कर्मकराः मिलित्वा फलचयनं, विभजनम् इत्यादिकं कुर्वन्ति स्म।

शिलामुखः जागरूकतया चयनकार्यं पश्यति स्म। गणनकार्ये सः कदापि प्रमादं न करोति स्म। पादरूप्यकमृल्यकानि, अर्धरूप्यकमूल्यकानि, पादोनरूप्यकमूल्यकानि, एकरूप्यकमूल्यकानि इति सः फलेषु विभागं करोति स्म। सर्वेषु अपि गणेषु कति फलानि सन्ति इति समीचीनतया गणयति स्म।

तस्मिन् समये एकः कर्मकरः आत्मानं निग्रहीतुम् असमर्थः भूत्वा फलं खादितवान्। शिलामुखः एतत् दृष्टवान्।

कुपितः शिलामुखः– “किं रे ! अनुक्त्वा एव फलं खादति वा? तस्य मूल्यम् एकं रूप्यकम्। भवतः दैनिकं वेतनं तु अर्धरूप्यकात्मकम्। अतः भवता अद्य श्वः च अत्र आगत्य विना वेतनं कार्य करणीयम्” इति उक्तवान्।

कर्मकरः एतत् न अङ्गीकृतवान्। ‘प्रातः आरभ्य कार्यंकृत्वा अपि एकं फलं खादितुं अवकाशः नास्ति वा?’ इति तस्य वादः। एवमेव आरब्धः कलहः क्रमेण परस्परताडनपर्यन्तं गतः। अन्ते बलवान् सः कर्मकरः, शिलामुखस्य शरीरं शिथिलयित्वा गतवान्। अन्ये अपि कर्मकराः तेन सह प्रतिनिवृत्ताः।

“एकं लघुफलं चेत् तस्य मूल्यं पादरूप्यकं भवति। एषः कर्मकरः, तावत् बृहत् फलं खादति चेत् किं कुर्मः? एतावत् एव न। सः माम् अपि ताडयितुं प्रवृत्तः। एतादृशानां दुष्टानां कृते किं कर्तुम् शक्यते” इति चिन्तयन् बहुखिन्नः अभवत् शिलामुखः।

एवमेव दिनानि अतीतानि। शिलामुखः पुनः आगत्य फलानि दृष्ट्वा दृष्ट्वा तत्रैव अटति स्म। यः कोऽपि शिलामुखं दृष्ट्वा “किं भोः श्रीमन् ! शिलामुखमहोदय ! एतावन्ति फलानि व्यर्थानि भवन्ति। शीघ्रं विक्रयणं करोतु। कुतः एवं विलम्बः क्रियते?” इति पृच्छति चेत् सः तम् एव तर्जयति स्म।

“अहं सर्वं जानामि। गच्छतु भवान्। एते कर्मकराः उद्धताः। फलचयनं कुर्वन्तु इति उक्ते, यथेच्छं खादन्ति ! किमर्थम् इति न प्रष्टव्यम् ! माम् एव ताडयितुं आगच्छन्ति। कलिकालः ! ते वा किं कुर्वन्ति? वृष्ट्या वा, वातेन वा, आतपेन वा सर्वाणि फलानि नष्टानि इति भावयामि। किन्तु कस्यापि साहाय्यं न इच्छामि" इति किमपि रटति स्म।

एकस्मिन् दिने एवमेव खिन्नः सः वने अटति स्म। तदा एकस्य आम्रवृक्षस्य उपरि उपविश्य गायन्तं एकं सुन्दरं पक्षिणं सः दृष्टवान्।

सः पक्षी चटकसदृशः आसीत्। तस्य पुच्छे सप्तवर्णाः अपि आसन्। सः पक्षी एकवारं मन्दस्वरेण पुनः एकवारं तारस्वरेण सुमधुरं गायति स्म।

तत् मधुरं गानं श्रुत्वा शिलामुखः आनन्देन तस्य समीपं गतवान्। पक्षी वृक्षस्य अधोभागे एव आसीत्। अतः एव सः तस्य

समीपं गत्वा झटिति तं पक्षिणं हस्ते गृहीतवान्। सः पक्षी न भीतः। किन्तु गानं स्थगयित्वा तूष्णीम् अभवत्।

तदा शिलामुखः तं पक्षिणं “हे पक्षिन् ! भवान् मया सह सम्भाषणं इकर्तुम् इच्छति वा? मम कृते फलानि विक्रेतुं सुलभं मार्गंवक्तुं शक्नोति वा? यथा सम्यक् गायति तथैव एकांसुलभां लाभयुक्तिं वदति वा?” इति पृष्टवान्।

सः पक्षी मनुष्यभाषया अवदत्– “प्रथमं मां त्यजतु। अनन्तरं लाभदायकं वचनत्रयं वदामि” इति।

पक्षिणः मानवभाषां श्रुत्वा शिलामुखः आश्चर्यचकितः। सः पुनः पृष्टवान्– “सत्यं वा? मम कृते लाभकरं मार्गंवदति वा?’ इति।

“सत्यं वदामि” इति पक्षी अवदत्।

शिलामुखः पक्षिणं त्यक्तवान्। सः पक्षी एकस्मिन् वृक्षे उपविश्य अवदत्– “अहं भवन्तं लाभदायकं वाक्यत्रयम् वदामि। तेषु प्रथमं वाक्यम् शृणोतु– “अविद्यमानस्य वस्तुनः विषये चिन्ता न करणीया” इति।

शिलामुखः तत् वचनं श्रुत्वा “एतत् वाक्यं बाल्ये एव गुरुभिः पाठितम्। अत्र कः विशेषः?” इति पृष्टवान्।

पक्षी पुनः अवदत् “शिलामुख ! भवान् मूर्खः। नो चेत् मम शरीरे यत् सुवर्णं आसीत् तत् भवान् जानाति स्म। किञ्चित् कालपर्यन्तम् अहं भवतः हस्ते एव आसम्। तथापि भवान् एतत् न ज्ञातवान् किल?” इति।

“हन्त ! हन्त ! भवतः शरीरे सुवर्ण आसीत् वा? भवन्तं त्यक्त्वा मया अपराधः कृतः।”

पक्षी पुनः मन्दहासेन अवदत् “शिलामुख, भवान् खलु मूर्खः? मम शरीरे सुवर्णम् अस्ति इति उक्ते, सत्यम् इत्येव चिन्तितवान्। अल्पभारयुतस्य मम शरीरे कथं वा सुवर्ण भवितुम् अर्हति? एतं लघुविषयम् अपि भवान् न ज्ञातवान्। भवान् निश्चयेन मतिहीनः” इति।

कुपितः शिलामुखः “रे असत्यवादिन् ! भवन्तं मारयामि’ इति गर्जनं कृतवान्।

“मम वचनं सत्यम् इति अनन्तरं ज्ञायते।

इदानीं द्वितीयं वाक्यं शृणोतु–

“अन्यैःयदुक्तं तत् सर्वम् अपि सत्यं न भवति।”

“तत् पुनः भवता वक्तव्यं वा? इदानींभवद्वचनेन एव तत् ज्ञातं किल?”

“सर्वज्ञः अपि भवान् मूर्खः इव कार्यं करोति। मम तृतीयं वाक्यं शृणोतु ! मम समीपे अधिकप्रमाणं सुवर्णम् अस्ति इति उक्तम् किल? तत् न मम समीपे। किन्तु भवतः वने एव तत् अस्ति। भवान् एकस्य फलस्य लोभेन सर्वाणि अपि फलानि व्यर्थं कृतवान्। भूमौ विद्यमानम् ऐश्वर्थं विहाय भवान् तत् अन्यत्र अन्विषति। भवान् खलु मूर्खः?” इति पक्षी पुनः भर्त्सनं अकरोत्।

तत् वचनं श्रुत्वा शिलासुखः उन्मत्तः इव “सत्यम्, अहम् एव मूर्खः। कर्मकराः फलं खादन्ति इति बुद्ध्याफलचयनम् एव निराकृतवान्। इदानीं तु सर्वाणि फलानि नष्टानि। भाग्यहीनस्य मम सर्वनाशः समुप्तन्नः" इतिशिरोघट्टनपूर्वकं रोदनं कृतवान्।

तावति एव काले कुतश्चित् झञ्झावातः समागतः। सर्वाणि वृक्षपत्राणि गगनं गतानि।इदानीं वृक्षाः समूलं पतिताः। किञ्चित्काले एव प्रलयः संवृत्तः इव।

शिलामुखः बहु भीतः। नेत्रं निमील्य एकत्र उपविष्टवान्। यदा झञ्झावातः स्थतितः तदा एषः पुनः नेत्रम् उन्मीलितवान्। तदा पक्षी अपि न आसीत्। स्वकीयं गृहम् अपि विनष्टम् आसीत्।

तदा तस्य ज्ञानोदयः अभवत्। “अहं खलु मूर्खः। हतभाग्यः। यदा सम्पत्तिः आसीत् तदा न अनुभूता। पत्नीपुत्राणां कृते अपि निर्बन्धः कृतः। दानधर्मादिना पुण्यम् अपि न सम्पादितवान्। इदानीं किम् अस्ति?” इति महान्तं पश्चात्तापम् अनुभूतवान्।

अनन्तरं निगूढं धनं स्वीकृत्य तेन धनेन सुष्ठुरीत्या जीवनं कृतवान्।

आत्मश्लाघनं

वामनपल्ल्यां नागेन्द्रः नाम गृहस्थः आसीत्। तस्य पन्याः नाम सुशीला।नागेन्द्रः ग्रामे धनिकेषु अन्यतमः आसीत्। तस्य गोविन्दः नाम एकः पुत्रः। गोविन्दः विद्याभ्यासे निपुणः। किन्तु गृहकार्येषु तस्य सर्वथा अनासक्तिः। सर्वदा सः मित्रः सह इतस्ततः अटन् समयं व्यर्थं यापयति स्म।

एवं स्थिते कदाचित् गोविन्दस्य मातुलः नटेशः स्वभगिनीं द्रष्टुम् आगतवान्। भागिनीपुत्रः व्यर्थ कालयापनं करोति इति ज्ञात्वा सः खिन्नः।

‘मातापित्रोः भवतोः कारणेन एव सः एवं दुष्टः जातः’ इति स्वभगिनीं भगिनीपतिं च तर्जितवान् नटेशः।

तदा नागेन्द्रः खेदेन उक्तवान्– “अस्माभिः किं वा कर्तुं शक्यम्? यावत् वदामः चेदपि सः न शृणोति एव” इति।

गोविन्दस्य मातुलः गोविन्दम् आहूय पृष्टवान्– “किं भोः गोविन्द ! भवतः मातापितरौ भवत्सम्मुखे निन्दतः। स्नैहिताः तु भवतः असन्निधाने निन्दन्ति। कः एषः व्यवहारः भवतः?” इति।

“मम स्नेहिताः तादृशाः न” इति उक्तवान् गोविन्दः।

“एवं वा? तर्हि भवान् भवतः स्नेहितानां स्वभावं सम्यक् न जानाति। तत् ज्ञातुम् एकः उपायः अस्ति। स्नेहितानां पुरतः आत्मनः सामर्थ्यस्य श्रेष्ठतायाः च श्लाघनं करोतु। तदानीं ते किं वदन्ति इति पश्यतु" इति उक्तवान् नटेशः।

गोविन्दः तथैव कृतवान्। अरम्भे तु स्नेहिताः चिन्तितवन्तः यत् विनोदार्थंं एषः एवं करोति इति। किन्तु ‘विनोदार्थम् एवं न करोति’ इति यदा तैः ज्ञातं तदा ते असमा

धानेन उक्तवन्तः–“भवतः वैशिष्ट्यं वयं न जानीमः वा? सर्वदा भवता सह एव भवामः किल। पुनः किमर्थम् आत्मश्लाघनं करोति अस्माकं पुरतः?” इति।

तथापि गोविन्दः आत्मनः प्रवृत्तिं न त्यजति। सः वदति– “मम गृहे मदीयं किं स्थानम् इति भवन्तः न जानन्ति। सर्वकार्येषु अपि पिता मम सूचनां पालयति। मम अङ्गीकारं विना सः किमपि न करोति। यदि मम वचनेषु विश्वासः नास्ति तर्हि मम पितरं मातरं मातुलं वा पृच्छन्तु भवन्तः" इति।

‘आत्मश्लाघनं एषः न त्यजति एव’ इति स्नेहिताः यदा ज्ञातवन्तः तदा ते क्रमशः गोविन्दस्य सम्पर्कम् एव त्यक्तवन्तः।

तदा गोविन्दः मातुलसमीपं गत्वा उक्तवान्– “भवतः वचनं सत्यम्। मम स्नेहिताः असूयापराः। अन्येषां श्रेष्ठतां ते न सहन्ते। तैः सह सञ्चरन् अहं मम कालं व्यर्थं यापितवान्। इदानीं मया किं करणीयम् इति भवान् एव वदतु” इति।

“भवान् भवतः मातापित्रोः वचनानि पालयन् तयोः प्रीतिं सम्पादयतु। एतेन एव भवतः हितं सिध्यति” इति उक्तवान् नटेशः।

“माता पिता च स्नेहिताः इव न आचरतः इत्यत्र कः विश्वासः?” इति सन्देहं प्रकटीकृतवान् गोविन्दः।

“कुपुत्रः जायेत क्वचिदपि कुमाता न भवति इति श्रुतवान् किल? पुत्रः यत्किमपि करोतु, मातापित्रोः सन्तोषः एवः” इति उक्तवान् नटेशः।

अनन्तरं सः स्वभगिनीं सुशीलां नागेन्द्रं च सूचितवान् यत् गोविन्दः भवतोः पुरतः यावत् आत्मश्लाघनं करोति चेदपि तत्सर्वं सोढव्यम् इति।

तद्दिनात् आरभ्य गोविन्दः स्वमातापित्रोः पुरतः आत्मश्लाघनं यथेष्टं कृतवान्। तथापि ते सहनया अभिमानेन च तत्सर्वंश्रुतवन्तः।

एतेन मातापित्रोः विषये गोविन्दस्य प्रीतिः विश्वासः च प्रवृद्धः। अतः सः मातापित्रोः वचनानि शृण्वन् गृहकार्येषु आसक्तिं प्रदर्शित

वान्। कृषिकार्येषु अपि साहाय्यं कर्तुम् आरब्धवान्।

गोविन्दे जातं परिवर्तनं दृष्ट्वा नटेशः सन्तुष्टः। सः स्वग्रामं प्रति गमनसमये गोविन्दम् आहूतवान्– “अये ! सर्वदा एकया एव रीत्या श्लाघनं करोति चेत् तस्य श्रवणे अन्ये रुचिंन प्रदर्शयन्ति। अतः भवान् महाकाव्यानि कथापुस्तकानि च पठतु। तत्र स्तुतिपराणि बहुविधानि वर्णनानि भवन्ति। तानि भवान् स्वाधीनानि करोतु। निरन्तरेण अध्ययनेन एतत् कर्तुं शक्नोति” इति।

मातुलस्य सूचनानुसारं गोविन्दः अध्ययने प्रवृत्तः अभवत्। एतत् दृष्ट्वा माता पिता च सन्तुष्टौ। किन्तु कालान्तरे गोविन्दः विविध विशेषणैः आत्मनः मातापित्रोः च श्लाघनं कर्तुम् आरब्धवान्। एतेन निरन्तरश्लाघनेन मातापितरौ खिन्नौ। अतः बहिः सञ्चारं कृत्वा आगच्छतु’ इति तदा तदा तौ वक्तुम् आरब्धवन्तौ। ‘ग्रामे सर्वे जनाः गोविन्दस्य स्वभावं जानन्ति’ इत्यतः ग्रामीणाः तं दृष्ट्वादूरतः एव पलायनं कुर्वन्ति स्म।

अन्ते सुशीला पतिम् उक्तवती– “किमिदम्? पुत्रस्य एषाश्लाघनपीडा दिने दिने वर्धते किल? कथम् एतत् परिहरामः? एतदर्थं कोऽपि उपायः चिन्तनीयः एव” इति।

“एतन्निवारणार्थम् एकः एव उपायः। यावच्छीघ्रम् एतस्य विवाहः करणीयः। तदानीं सर्वं सम्यक् भविष्यति” इति उक्तवान् नागेन्द्रः।

एतदनन्तरं गोविन्दस्य विवाहार्थं प्रयत्नः आरब्धः। किन्तु ‘गोविन्दः आत्मश्लाघनपरः। केवलं वचने शूरः। अतिभाषणेन सर्वान् पीडयति’ इति ग्रामीणाः जानन्ति स्म एव। अतः कोऽपि तस्मै कन्यां दातुं सिद्धः न आसीत्।

एतत्सन्दर्भे नटेशः तत्र आगतवान्। “कीदृशाः भवन्तः? गृहे एव नवनीते विद्यमाने घृतस्य अन्वेषणं कुर्वन्ति किल? मम पुत्री राधा विवाहयोग्या इति विस्मृतवन्तः

वा? अथवा सा भवतां गृहस्य स्नुषा भवितुम् अनर्हा इति चिन्तयन्ति वा?” इति पृष्टवान् सः।

राधायाः यद्यपि व्रतपूजादिषु विश्वासः नास्ति, दैवभक्तिः अपि सर्वथा नास्ति, तथापिसा गुणसम्पन्ना एव। एतादृशी गोविन्दं परिणयेत् इत्यत्र नागेन्द्रस्य सुशीलायाः वा विश्वासः न आसीत्। अतः तौ उक्तवन्तौ– “सर्वे आवयोः पुत्राय कन्यां दातुं सङ्कोचम् अनुभवन्ति। एवं स्थिते भवान् सिद्धः स्यात् इति आवयोः कल्पना अपि न आसीत्। किन्तु भवान् सिद्धः चेत् आवाम् अपि सिद्धौ एव” इति।

राधागोविन्दयोः विवाहः सम्पन्नः। गोविन्दः पत्न्याः पुरतः आत्मश्लाघनं आरब्धवान्। एतेन मातापित्रोः कष्टंनिवृत्तम् अभवत्। किन्तु राधायाः कष्टं प्रवृद्धम्।

राधायाः श्वशुरः श्वश्रूः वा प्रीत्या एव व्यवहरति स्म। गोविन्दः अपि तथैव। किन्तु केवलं तदीयम् आत्मश्लाघनं सोढुम् अशक्यम् आसीत्। एतत् निवारयितुम् इच्छन्ती राधा पूजाव्रतादीनां शरणं गतवती। प्रतिदिनं सा किमपि व्रतम् आचरति स्म। दिने बहुकालं पूजायां निरता भवति स्म। तादृशसन्दर्भेषु गोविन्दस्य पीडा न भवति स्म।

एवं प्रथमं पूजाव्रतादिकम् अश्रद्धया आरब्धं चेदपि क्रमशः पूजादिषु राधायाः श्रद्धा उत्पन्ना। एतेन नागेन्द्रः सुशीला च बहु सन्तुष्टौ। आत्मनः सन्तोषं तौ पत्रद्वारा तस्याः पितरं सूचितवन्तौ।

‘पुत्री एवम् अल्पे एव काले देवपूजादिषुश्रद्धावती भवेत्’ इति नटेशस्य कल्पनाअपि न आसीत्। अतः सः नागेन्द्रस्यपत्रप्राप्तेः समनन्तरम् एव पुत्रीं द्रष्टुं गृहात्प्रस्थितः।

नागेन्द्रस्य गृहे नटेशः पुत्रीम् एकान्ते आहूय सर्वंपृष्टवान्। पुत्री प्रवृत्तं सर्वम् उक्तवती। ‘आत्मश्लाघनेन महान् लाभः एव जातः। सर्वेषां हितम् एव सिद्धम्’ इति चिन्तितवान् नटेशः। किन्तु तस्य मनसि अन्या

अपि चिन्ता आसीत् यत् पुत्री स्वपतिविषये न तथा प्रीतिं प्रदर्शयति इति। यतः सा पत्युः सम्पर्कात् भीता आसीत्।

‘गोविन्दः कथञ्चित् सन्मार्गे आनेतव्यः’ इति चिन्तयित्वा नटेशः गोविन्दं कदाचित् ग्रामात् बहिःनीतवान्, उक्तवान् च– “गोविन्द ! दुष्टस्नेहितानां सम्पर्कः निवारणीयः इति दृष्ट्या मया सूचितम् आसीत्– ‘आत्मश्लाघनं करोतु’ इति। किन्तु तत् भवतः व्यसनम् एव जातम्। तेन च कोऽपि भवतः सहवासं न इच्छति इति भवान् अपि जानाति एव। अतः एतस्य दुरभ्यासस्य त्यागः एव उचितः किल?” इति।

“आत्मश्लाघनं मम प्रवृत्तौ रूढम्। अत्र भवान् एव कारणम्। अतः एतस्य विवारणोपायम् अपि भवान् एव सूचयतु” इति उक्तवान् गोविन्दः।

नटेशः किञ्चित् आलोच्य उक्तवान्– “तर्हि एवं करोतु। इतः परं अन्येषां गुणं सूक्ष्मं परिशीलयतु। सम्भाषणसमये अवकाशं प्राप्य तेषां गुणानां स्तुतिं करोतु। तदानीं सर्वे भवतः विषये तुष्टाः भवन्ति” इति।

गोविन्दः मातुलस्य वचनम् अङ्गीकृतवान्। तथैव आचरणम् अपि आरब्धवान्। एतेन अल्पे एव काले तस्य मित्राणां सङ्ख्या प्रवृद्धा। गृहसदस्याः अपि सन्तुष्टाः।

किन्तु गोविन्दस्य इदानीं नूतना समस्या। एतावत्पर्यन्तं सः आत्मश्लाघनं कुर्वन् आसीत्। अतः इदानीम् अन्येषां श्लाघने तस्य न तथा उत्साहः। अतः सः क्रमशः सम्भाषणम् एव न्यूनीकर्तुम् इष्टवान्। कार्यं विना तूष्णीम् उपविष्टं चेत् सम्भाषणे प्रवृत्तिः भवति। अतः अधिकाधिकं गृहकार्येषु व्यापृतः भवति स्म सः।

एवं कालान्तरे गोविन्दः ‘कार्यदक्षः’ इति कीर्तिं सम्पादितवान्। इदानीं बान्धवाः मित्राणि च ‘अस्मदीयः गोविन्दः’ इति साभिमानं कथयन्ति स्म।

आशाःअनन्ताः

कश्चित् ग्रामः। तत्र कश्चित् वृद्धः। श्रीनाथः तस्य पौत्रः। श्रीनाथस्य बाल्यकाले एव तस्य मातापितरौ दिवङ्गतौ ! अतः वृद्धः पितामहः एव तस्य पालनपोषणादिकं कृतवान्। तत्र तत्र अल्पाल्पकार्याणि कृत्वा किञ्चित् किञ्चित् सम्पादयति स्म सः। यदा अल्पकार्यार्थं गन्तुम् अपि न शक्तं तदा भिक्षाटनं कृतवान्। एवंरीत्या पौत्रपितामहयोः उदरपूरणं भवति स्म।

एवं स्थिते कदाचित् वृद्धः अकस्मात् दिवङ्गतः। तदा विंशर्तिवर्षीयः श्रीनाथः निर्गतिकः जातः। सः किमपि कार्यं न जानाति। भिक्षाटनस्य अपि अभ्यासः नास्ति।

पितामहस्य लघुपेटिकायां किञ्चित् धनम् आसीत्। तत् धनं गृहीत्वा सः मासत्रयं यापितवान्। अनन्तरम् उद्योगस्य अन्वेषणं कुर्वन् ग्रामे सर्वत्र अटितवान्। किन्तु सर्वे जनाः “अलसः भवान् किं वा कार्यं करोति भोः? गच्छतु, गच्छतु" इति तर्जितवन्तः।

एतादृशवचनानि श्रुत्वा श्रीनाथः निर्विण्णः अभवत्। गृहं विक्रीय, धनं गृहीत्वा सः ग्रामान्तरं गतवान्। तत्र एकम् अल्पं भाटकगृहं सम्पाद्य पुनः उद्योगस्य अन्वेषणम् आरब्धवान्। किन्तु तत्र अपि तस्य आशाभङ्गः एव जातः। ‘अत्र किमपि कार्यं नास्ति’ इत्येव सर्वे उक्तवन्तः।

हस्तस्थितस्य धनस्य अपि समाप्तिकालः सन्निहितः। एतया चिन्तया पीडितः सः रात्रिसमयम् अपि निद्राहीनः सन् एव यापयति स्म।

तादृशी एका रात्रिः। निद्राहीनः चिन्तामग्नः च श्रीनाथः शयनात् उत्थाय, प्रकोष्ठतः बहिः आगतवान्। तदा गृहस्य यजमान्याः पुत्री प्रमीला मौनं बहिः आगत्य अङ्गणं

तीर्त्वा कूपसमीपं गतवती। पतितुम् उद्युक्ता च।

तां दृष्ट्वा सम्भ्रान्तः श्रीनाथः धावन् गत्वा तस्याः हस्तं गृहीत्वा “किमिदंभोः? मतिभ्रान्ता जाता वा?” इतिक्रोधेन पृष्टवान्।

प्रमीला रोदनं कुर्वती, मन्दं मन्दंस्वीयकष्टं निवेदितवती। तस्याः माता नास्ति। विमाता या अस्ति तस्याः विवाहयोग्यं पुत्रीद्वयम् अस्ति। इदानीं प्रमीलां कस्मैचित् धनिकाय वृद्धाय दत्त्वा विवाहं कर्तुम् इच्छति सा विमाता। वृद्धतः यत् धनं लभ्यते तेन स्वीयपुत्रीद्वयस्य विवाहं साधयितुं तस्याः एषः प्रयत्नः।

“तादृशवृद्धेन सह विवाहापेक्षया मरणं वरम्।मां मुञ्चतु” इति उक्तवती प्रमीला।

“कष्टानां परिहारार्थं किञ्चित् सहनम् आवश्यकम्। एवंरीत्या अदूरदर्शितया कूपे पतनेन किमपि प्रयोजनं नास्ति। एतेन मार्गेण प्रयोजनं यदि स्यात् तर्हि अहम् अपि तं मार्गं अनुसरेयम्। किन्तु मानवजीवितम् अमूल्यम् अस्ति। जानातु” इति उक्तवान् श्रीनाथः।

प्रमीला किञ्चित्कालपर्यन्तं तस्य मुखं पश्यन्ती" अहम् इदानीं साक्षात् अपायानां गर्भे अस्मि। अस्मिन् समये नीतिवाक्यैः किं प्रयोजनम्? एवमेव तूष्णीं स्थास्यामि चेत् सप्ताहावधौ वृद्धेन सह जायमानं मम विवाहं कोऽपि न निवारयति" इति उक्त्वा क्षणानन्तरं पुनः “भवान् एव मां परिणीय एतस्मात् कष्टात् माम् उद्धतुं शक्नोति किल?” इति मन्दस्वरेण पृष्टवती।

तस्मिन् समये तस्याः आत्महत्याप्रयत्नं स्थगयितुम् इच्छन् श्रीनाथः ‘तथास्तु’ इति अङ्गीकृत्य तां गृहस्य अन्तः प्रेषितवान्। परेद्युः प्रातः तस्याः विमातुः समीपं गत्वा विवाहप्रस्तावं कृत्वा “अहं प्रमीलां परिणेतुम् इच्छामि इति उक्तवान्।

“इच्छा कथं न भवेत् भोः? कोऽपि उद्योगः नास्ति। खादितुम् अन्नं नास्ति। धनस्य नामापि कदाचित् श्रुतवान् वा न वा ! विवाहप्रस्तावं कर्तुं लज्जा न भवति वा भवतः?”

इति क्रोधेन पृक्ती प्रमीलायाः विमाता।

श्रीनाथः अवमानेन मौनं ततः निर्गतवान्। अनन्तरं सायङ्कालपर्यन्तम् उद्योगार्थं कृताः सर्वे प्रयत्नाः व्यर्थाः अभवन्। तेन अतीवदुःखितः सः प्रकोष्ठं प्रति गन्तुम् अनिच्छन् ग्रामतः बहुदूरे स्थितम् एकं घोरारण्यं गतवान्। कस्यचित् वृक्षस्य अधः उपविश्य तत्रैव निद्राधीनः जातः च।

मध्यरात्रसमये पार्श्वे जातेन महाशब्देन श्रीनाथस्य निद्राभङ्गः जातः। तस्य पुरतः एकः वृद्धः पिशाचः स्थितः आसीत्।

“एतस्यां भयङ्कररात्रौ मादृशाः क्रूरपिशाचाः यत्र सञ्चरन्ति तत्र एषः आगत्य निश्चिन्तभावेन निद्रां करोति किल ! एतस्य धैर्यं श्लाघनीयम् ! रे ! मानव ! उत्तिष्ठतु। एतत् मम स्थानम्।अन्यत्र गन्तुम् अहं न इच्छामि” इति उक्तवान् पिशाचः।

श्रीनाथः पिशाचं दृष्ट्वा भीतिंनैव प्राप्तवान्। सः “भवतः अपेक्षया भयङ्करतराणां मानवानां मध्ये स्थातुम् अशक्तः अहम् अत्र आगतवान् अस्मि। अस्तु, भवतः स्थाने भवान् एव तिष्ठतु। अहं वृक्षान्तरं गच्छामि। मत्कारणतः भवतः किमर्थं कष्टम्?" इति वदन् उत्थितवान्।

वृद्धपिशाचः तं दृष्ट्वा “किश्चित् तिष्ठतुभोः। एवंरीत्या मानवानाम् निन्दनं करोति किल? भवतः किं कष्टम् आपतितम्?” इति पृष्टवान्।

श्रीनाथः स्वीयं समस्तवृत्तान्तं कथयित्वा “केनाऽपि प्रयत्नेन जीवनमार्गः न लब्धः। मादृशेषु कस्यापि विश्वासः नास्ति” इति उक्तवान्।

तस्य वचनं श्रुत्वा पिशाचः उच्चैः हसित्वा “एवं वा? अस्तु, अहं भवतः क्लेशान् परिहरामि” इति उक्त्वा वृक्षस्य कोटरतः अतिप्राचीनम् एकं ताम्राङ्गुलीयकम् आनीय “स्वीकरोतु भोः। एतत् भवतः अङ्गुल्यां धृत्वा यस्य कस्यापि समीपं गत्वा यत्किमपि पृच्छतु। सः झटिति अङ्गीकरोति। किन्तु एकं विषयं

सम्यक् स्मरतु यत् केवलं त्रिवारम् एव एतस्य महत्त्वं तिष्ठति। अनन्तरं नश्यति” इति उक्त्वा अङ्गुलीयकं दत्त्वा अदृश्यः अभवत्।

श्रीनाथः अङ्गुलीयकम् अङ्गुल्यां धृत्वा ग्रामं प्रति प्रस्थितवान्। ग्रामं प्राप्य एकस्य धनिकवणिजः समीपं गत्वा “आर्य, भवतः आपणे कृपया मह्यम् एकम् उद्योगं ददातु” इति पृष्टवान्।

पूर्व सः वणिक् “कोऽपि उद्योगः नास्ति, गच्छतु” इति श्रीनाथम् उक्तवान् आसीत्। इदानीम् अङ्गुलीयकमाहात्म्येन “निश्चयेन ददामि भोः ! इदानीम् एव कार्यारम्भं करोतु” इति उक्तवान्।

श्रीनाथः तत्र वणिजः निर्देशानुसारेण कार्यं कृत्वा सायङ्काले प्रमीलायाःगृहं गत्वा तस्याः विमातरम् “अहम् उद्योगं लब्धवान्। इदानीं प्रमीलां मह्यं दत्त्वा विवाहं करोतु” इति पृष्टवान्।

“महान् प्रमोदः भोः ! सप्ताहावधौ एव विवाहं कारयामि” इति उक्तवती प्रमीलायाः विमाता। सप्ताहावधौ श्रीनाथप्रमीलयोः विवाहः जातः च।

दशद्वादशदिनानि अतीतानि। एकदा प्रमीला श्रीनाथं “एतत् तु महत् आश्चर्यम् ! एकस्मिन् दिने मम विमातुः मनः कथं परिवर्तितम्? कथं तावत् शीघ्रं भवान् उद्योगं प्राप्तवान्?” इति पृष्टवती।

श्रीनाथः प्रवृत्तं सर्वं निवेद्य “एतत् सर्वं वृद्धपिशाचेन दत्तस्य प्राचीनस्य अङ्गुलीयकस्य महत्त्वम्” इति उक्तवान्।

प्राचीनस्य ताम्राङ्गुलीयकस्य नामश्रवणसमनन्तरम् एव प्रमीला “हा ! हन्त !” इति आक्रन्दनं कृतवती। “अद्य प्रातः पेटिकायाः स्वच्छीकरणसमये तत् प्राचीनम् अङ्गुलीयकं दृष्टवती। तत् मलिनम् अङ्गुलीयकं निष्प्रयोजकम् इति मत्वा बहिः क्षिप्तवती च” इति उक्तवती सा।

“एतावदेव खलु? किमर्थं सम्भ्रमः?” इति श्रीनाथः शान्तभावेन पृष्टवान्।

तस्य वचनं श्रुत्वा प्रमीला क्रोधेन “तादृश

महिमयुक्तम् अङ्गुलीयकं प्राप्य अपि भवान् निष्प्रयोजकं वरद्वयं प्रार्थितवान्। मम विमातुः सकाशात् तत् गृहम् एव वरदक्षिणारूपेण याचनीयम् आसीत्। तस्य वणिजः समीपं गत्वा तस्य वाणिज्यलाभे अर्धभागम् एव प्राप्तुं शक्नोति स्म। इदानीं प्रथमं तत् अङ्गुलीयकम् अन्वेष्टव्यम्” इति वदन्ती उत्थितवती।

श्रीनाथः तां स्थगतन् “त्वरा मास्तु भोः ! अस्माकं यावत् भाग्यम् अस्ति तावत् एव सिद्ध्यति। अन्यः कोऽपि तत् भाग्यं न्यूनं वा अधिकं वा कर्तुं न शक्नोति। अन्यथा भवत्याः एतादृशी बुद्धिः कथं जाता यत् तत् अङ्गुलीयकं क्षिप्तवती” इति उक्तवान्।

एतत् किमपि अशृण्वती इव प्रमीला दीपं प्रज्वाल्य गृहस्य पृष्ठभागं गत्वा अङ्गुलीयकम् अन्विश्य आनीतवती। सा तत् अङ्गुलीयकं स्वीयाङ्गुल्यां धृत्वा “भूस्वामिनः समीपं गत्वा अर्धभूमिं याचितुं भवतः प्रायः दाक्षिण्यं स्यात्। अतः अहम् एव गत्वा पृच्छामि। मम अपि तस्य परिचयः अस्ति। एतत् अङ्गीकरोति खलु?” इति पृष्टवती।

“अस्तु, पृच्छतु” इति उक्त्वा श्रीनाथः उच्चैः हसन्" इदानीं तत् अङ्गुलीयकं पुनः अवकरे क्षिपतु। अङ्गुलीयकं धृत्वा मम अनुमतिं पृष्टवती। अहम् अङ्गीकृतवान्। तेन अङ्गुलीयकस्य महिमत्रयं नष्टम्” इति उक्तवान्।

अङ्गुलीयकस्य महत्त्वं सर्वथा नष्टम् इति ज्ञात्वाप्रमीला अतीव दुःखिता। तदा श्रीनाथः तां सान्त्वयन् “अतृप्तिः एव दुःखस्य कारणम्। विंशतिदिनेभ्यः पूर्वं भवती केवलं विवाहम् अपेक्षितवती। इदानीं ततोऽपि अधिकस्य इच्छया दुःखिता अस्ति। अतः एव वदन्ति आशाः अनन्ताः इति" इति उक्तवान्।

पत्युः वचनस्य यथार्थतां ज्ञात्वा प्रमीला “सत्यम्। मदीयस्वभावस्य स्मरणेन मम एव लज्जा भवति" इति उक्त्वा दुःखं त्यक्तवती।

उत्कोचग्राही

विदिशा नाम नगरी। तत्र राज्ञःआस्थाने कर्कटशास्त्री नाम ज्यौतिषिकः। सः राज्ञः समीपे वदति स्म– “अहं देव्याः उपासकः। देव्याः अनुग्रहेण विवादादिषु अन्तर्भूतं सत्यं ज्ञातुं समर्थः अस्मि”। अतः न्यायव्यवहारः भवति चेत् कर्कटशास्त्रिणम् एव न्यायाधीशत्वेन राजा नियोजयति स्म। न्यायव्यवहारे मनुष्याणाम् अपेक्षया देव्याः निर्णयः एव श्रेष्ठः इति राज्ञः अन्येषां च विश्वासः। किन्तु कर्कटशास्त्री देव्याः नाम्नि उत्कोचं गृहीत्वा अन्यथा निर्णयं वदति स्म।

‘अनुग्रहः अपि असत्यम् एव’ इति किंवदन्ती प्रसृता। यथार्थ ज्ञातुं मन्त्रिणम् राजा पृष्टवान्। मन्त्री एकम् उपायं सूचितवान्। राजा कर्कटशास्त्रिणम् आहूय उक्तवान्– ‘शास्त्रिन्! अस्माकम् आस्थाने नियुक्तः श्रीपतिः, सहोद्योगिनः विषये उत्कोचस्य अपवादम् आरोप्य न्यायनिर्णयं निरीक्षमाणः अस्ति। कारणान्तरेण तस्य नाम न प्रकाशयामि। श्रीपतेः आरोपविषये भवान् एव प्रमाणम्। न्यायनिर्णयानन्तरं तस्य नाम प्रकाशयामि’।

तद्दिने रात्रौ कर्कटशास्त्रिणः गृहं गत्वा श्रीपतिः प्रार्थितवान्– “आर्य! अहं मम सहोद्योगिनः विषये उत्कोचस्य अपवादम् आरोपितवान्। तद् आरोपणं यदि असत्यं भवति तदा राजा माम् एव दण्डयति। अतः अस्मिन् व्यवहारे भवान् मम साहाय्यं करोतु”। एवं प्रार्थनां कृत्वा सहस्रं रूप्यकाणि अपि श्रीपतिः दत्तवान्। अनन्तरदिने कर्कटशास्त्री सभायां एवम् उक्तवान्– ‘महाराज ! श्रीपतिः यत् आरोपणं कृतवान् तत् सत्यम् एव"।

राजा कर्कटशास्त्रिणः बन्धनार्थम् आज्ञापितवान्। ‘किमर्थं मम बन्धनम्’? इति शास्त्री पृष्टवान्। ‘उत्कोचस्य आरोपं भवतः विषये एव श्रीपतिः कृतवान्’ इति राजा उक्तवान्॥

उदारमनस्कता

रायपुरग्रामस्य पार्श्वे काचित् नदीप्रवहति। तस्यां नद्यां स्नानं पुण्यप्रदम् इति जनानां विश्वासः। द्वादशवर्षेषु एकवारं प्रचलतः कुम्भमेलनामकस्य उत्सवस्य दिने लक्षशः जनाः एतं ग्रामम् आगच्छन्ति। दशदिनं यावत् प्रचलतः एतस्य उत्सवस्य सन्दर्भे ग्रामीणानां परमसन्तोषः। सर्वेषां गृहेषु तदा बान्धवानां कोलाहलः।

दशरथः रायपुरवासी कश्चन कृषिकः। तस्य पुत्री सुमतिः। उत्सवसन्दर्भे एव सुमत्याः जन्मदिनोत्सवः अपि आगतः। तद्दिने दशरथस्य पत्नी पतिम् उक्तवती– “अन्धकारप्रसारतः पूर्वम् एव गृहम् आगच्छतु। आगमनसमये सौचिकापणतः सीवनार्थं दत्तं पुत्र्याः वस्त्रम् अपि आनयतु। तदेव वस्त्रं धृत्वा सा मन्दिरं गन्तुम् इच्छति। ग्रामे तु जनानां महान् कोलाहलः। विलम्बं न करोतु” इति।

दशरथः यदा सौचिकापणं गतवान् तदावस्त्रं न सिद्धम् आसीत्। दशरथं किञ्चित्कालम् उपवेश्य तदा एवसज्जीकृत्य दत्तवान् सौचिकः। तत्स्वीकृत्य

दशरथः यदा गृहं प्रति प्रस्थितः तदा अन्धकारः प्रसरन् आसीत्। यावता वेगेन गतं चेत् अपि गृहप्राप्तौ विलम्बः जातः एव।

दशरथः गृहं यावत् प्राप्तवान् तावता कश्चन विंशतिवर्षीय युवकःगृहस्य पृष्ठभागस्य द्वारतः विना शब्दं चोरः इव भीत्या परितः पश्यन् पलायमानः आसीत्। तं दशरथः इतः पूर्वं कदापि न दृष्टवान् आसीत्।

भीतिपूर्णं तदीयं व्यवहारं विवर्णं मुखं च दृष्टवतः दशरथस्य मनसि संशयः उत्पन्नः। एषः कश्चन चोरः एव स्यात् इति निश्चितवान् सः।

अतः धावन् गत्वा तस्य बाहुं दृढं गृह्णन्– “कः भवान्? गृहतः किं चोरितवान्? सत्यं

वदतु। अन्यथा प्राणैः विमुक्तः भवेत्” इति कठोरं गर्जितवान्।

अकस्मात् प्रवृत्तया एतया घटनया सः युवकः दिग्भ्रान्तः जातः। किमपि स्पष्टं वक्तुं न शक्तवान् सः। दशरथः तस्य पृष्ठभागे मुष्ट्या प्रहरन् पुनः गर्जितवान्– “रे चोर ! सत्यं वदतु। भवता चोरितानि वस्तूनि कुत्र?” इति।

दशरथस्य उच्चध्वनिं श्रुत्वा तस्य पत्नी पुत्री च बहिः आगतवत्यौ। पार्श्वगृहस्थाः अपि तत्र सम्मिलिताः।

“युवकः दृढकायः एषः श्रमेण कार्यं कर्तुम् अनिच्छन् चौर्ये प्रवृत्तः अस्ति। पादप्रहारेण सम्यक् पूजनीयः एषः। एतं सत्कारं सः जन्मनि कदापि न विस्मरेत्। किमपि दयादाक्षिण्यं मास्तु?” इति उक्तवान्कश्चित्।

“प्रथमं किं चोरितवान् इत्येतत् द्रष्टव्यम्” इति उक्तवान् अन्यः। दशरथः तस्य वस्त्रेषु परिशोधनं कृतवान्। तदा कोषे कानिचन रूप्यकाणि लब्धानि। अन्यत् किमपि न लब्धम्।

सः युवकः नमस्कृत्य दीनभावनया उक्तवान्– “भोः, अहं चोरः न। कृपया मां त्यजन्तु” इति।

“एषु दिनेषु बालापहारकाः सन्ति इति श्रूयते। उत्सवसमयः इति कृत्वा बालान् अपहर्तुम् आगतवान् स्यात् एषः” इति उक्तवती काचित् स्त्री।

समूहतः द्वौ अग्रे आगत्य उक्तवन्तौ– “एषः किमर्थम् आगतवान् इति एतस्य

मुखतः एव आनाययामः” इति।

तदा युवकः उक्तवान्– “भोः, तिष्ठन्तु तावत्। एतस्य गृहस्य देवप्रकोष्ठे स्थितं रक्तवर्णीयं स्यूतं प्रथमम् आनयन्तु अत्र” इति।

सुमतिः झटिति अन्तः गत्वा रक्तवर्णीयं स्यूतं बहिः आनीतवती। तस्य स्यूतस्य अन्तः केवलं रजतनाणकानि आसन्। एषः स्यूतः अत्र कथम् आगतः इति न ज्ञातवान् दशरथः।

तदा युवकः आत्मनि धैर्यं पूरयन् उक्तवान्– “भोः, एतस्मिन् स्यूते कानिचन रजतनाणकानि सन्ति। एतं स्यूतम् अहम् एव गृहस्य अन्तः स्थापितवान्” इति।

सर्वे तं युवकम् आश्चर्येण पश्यन्तः आसन्। दशरथः धनस्यूतस्य स्थापनार्थं किं कारणम् इति अनुरोधपूर्वकं पृष्टवान्। तदा’ युवकः एवम् उक्तवान्–

द्वादशवर्षेभ्यः पूर्वम् एषः युवकः यदा बालः आसीत् तदा सः ज्वरपीडितः अभवत्। बालं परीक्ष्य वैद्यः उक्तवान् यत् नगरं नीत्वा विशेषचिकित्साव्यवस्था करणीया इति। बालस्य पितुः हस्ते तावत् धनं नास्ति। चिकित्साव्यवस्था न कृता चेत् बालः मरणं प्राप्नुयात्।

पितुः कश्चन बाल्यस्नेहितः पार्श्वग्रामे आसीत्। ‘सः निश्चयेन साहाय्यं कुर्यात्’ इति चिन्तयन् पिता तस्य समीपं गतवान्। सः स्नेहितः कुम्भमेलोत्सवार्थम् रायपुरं गतवान् इति तस्य गृहे उक्तवन्तः। स्नेहितस्य अन्वेषणं कुर्वन् पिता रायपुरम् आगवान्।

सायङ्कालपर्यन्तम् अन्वेषणे कृते अपि स्नेहितः न मिलितवान्।

अनन्योपायः पिता ग्रामं प्रतिगन्तुम् इच्छन् पिपासानिवारणार्थम् एकस्य गृहस्य द्वारम् अङ्गुल्या ताडितवान्। गृहिणी द्वारम् उद्घाट्य पानार्थं जलं दत्त्वा पुनः द्वारपिधानं कृतवती।

एवं पिपासां निवार्य यावत् मार्गं प्रविष्टवान् तावता तेन कान्त्या प्रकाशमानं किञ्चन वस्तु दृष्टम्। तच्च वज्रखचितम् अङ्गुलीयकम् आसीत्। ‘पुनः अपि द्वारशब्दं कृत्वा यममानाय एतत् अङ्गुलीयकं ददामि’ इति एकवारं चिन्तितवान् पिता। किन्तु अपरक्षणे पुत्रस्य तीव्रम् अस्वास्थ्यं स्मरन् अङ्गुलीयकं कोषे स्थापयित्वा गृहं गतवान्।

अङ्गुलीयकस्य’ विक्रयणेन प्राप्तेन धनेनपुत्रं नगरं नीत्वा विशेषचिकित्साव्यवस्थां कारितवान् पिता। अङ्गुलीयकप्राप्त्या पुत्रः प्राणापायतः मुक्तः अभवत्। पुत्रः आरोग्यशाली जातः।

युवकःएतत्सर्वं दशरथाय निवेद्य उक्तवान्– “अनन्तरकाले मम पिता भवतां ऋणस्य प्रत्यर्पणार्थं बहुधा प्रयत्नं कृतवान्। किन्तु तेन तत् न शक्तम्। गतमासे सः तीव्रम् अस्वस्थः अभवत्। मरणतः पूर्वं सः प्रवृत्तं सर्वं निवेद्य उक्तवान् यत् मम उत्तरक्रियार्थं विशेषव्ययं न करोतु। गृहे इदानीं शतं रूप्यकाणि सञ्चितानि सन्ति। इतोऽपि शतं रूप्यकाणि सङ्गृह्य भवते ददातु इति। वस्तुस्थितिं वदामि चेत् भवान् मम पितरं चोरं मन्येत, अथवा अङ्गुलीयकं मदीयं न आसीत् इति वदन् धनं तिरस्कुर्यात् इति सन्देहेन अहं चोरः इव भवतः गृहं प्रविश्य देवप्रकोष्ठे धनस्यूतं स्थापयित्वा आगतवान्। पितुः अन्तिमेच्छायाः पूरणम् एव मम लक्ष्यम् आसीत्” इति।

नमस्कारपूर्वकं सर्वं निवेदयतः युवकस्य प्रामाणिकतां श्रुत्वा सर्वे आश्चर्यचकिताः अभवन्।

“ज्येष्ठाः एतदर्थम् एव वदन्ति यत् सहसा विदधीत न क्रियाम् इति। वस्तुस्थितिं ज्ञात्वा चौर्यस्य आरोपणं करणीयम्, न तु अविचार्य” इति वदन्तः दशरथं निन्दन्तः जनाः ततः गतवन्तः।

युवकः ततः प्रस्थितवान्। दशरथः पुत्र्याः

हस्ततः धनस्यूतं स्वीकृत्य ताम् उक्तवान्– “अद्य भवत्याः जन्मदिनं खलु? समये एतत् धनं प्राप्तम्। एतेन धनेन एक सुवर्णहारं कारयिष्यामि” इति।

तदा तस्य पत्नी उक्तवती– “सुवर्णहारः मास्तु। अल्पवयस्कायाः एतस्याः शरीरे सुवर्णहारस्थापनम् अपायकारि एव। एतेन धनेन मह्यम् सुन्दरं सुवर्णवलयद्वयं कारयतु” इति।

सुमतिः पितुः हस्ततः धनस्यूतं स्वीकुर्वती– “इदानीं मम किं वयः?” इति पितरं पृष्टवती।

“किमर्थम् इदानीं वयोजिज्ञासा? अद्य भवत्याः नवमवर्षं पूर्णं भवति। भवती दशमे वर्षे पादार्पणं करोति” इति उक्तवान् दशरथः।

“एषः युवकः यत् धनं दत्तवान् तत् द्वादश वर्षपूर्वकालीनम्। एतस्य गृहस्य क्रयणानन्तरं मम जन्म जातम्। एतेन सिध्यति यत् तत् अङ्गुलीयकम् एतं गृहं विक्रीतवतः रामचन्द्रस्य इति। वृद्धस्य तस्य सेवाम् इदानीं तदीयाः पुत्राः सम्यक् न कुर्वन्ति। रामचन्द्रः तु इदानीम् अस्वस्थः। सः कष्टपरिस्थितौ अस्ति। वस्तुतः एतद्धनं तदीयम् एव, इदानीम् महते उपकाराय भवेत् अपि। अतः एतत्क्षणे एव तस्मै एतं स्यूतं दत्त्वा आगमिष्यामि” इति उक्त्वा सुमतिः ततः गन्तुम् उद्युक्ता।

दशरथः तस्य पत्नी च आत्मनः पुत्र्याः दयागुणं दृष्ट्वा नितरां सन्तुष्टौ। माता आनन्दाश्रूणि मुञ्चन्ती पुत्रीम् प्रीत्या आलिङ्ग्य– “एतद् धनं रामचन्द्राय श्वः दातुम् अर्हति भवती। इदानीं देवमन्दिरं गत्वा आगच्छाम” इति उक्तवती।

“अद्य देवदर्शनं न कृतं चेत् न काऽपि हानिः। वृद्धाय रामचन्द्राय एतत् धनं दत्तं चेत् द्विगुणितं पुण्यं सम्पादितं भवेत्” इति उक्त्वा सुमतिः रामचन्द्रस्य गृहं प्रति धावितवती।

अल्पवयस्कायाः अपि पुत्र्याः उदारमनस्कतां दृष्ट्वा मातापितरौ अतीव सन्तुष्टौ।

]