लघुकथासङ्ग्रहः-१९

[[लघुकथासङ्ग्रहः-१९ Source: EB]]

[

चतुरा वनजा

वनजा सदापि इस्त्रीयुक्तानि वस्त्राणि धरैति। धृतं वस्त्रं सदापि सम्यक् यथा तिष्ठेत् तथा जागरूकतया तिष्ठति सा।

वनजा स्वयम् इस्त्रीकरणं जानाति। सा स्नानगृहात्तप्ताङ्गारम्आनीयविशालतलयुते कलशे स्थापयति। अनन्तरं स्ववस्त्रम् उत्पीठिकायाः उपरि प्रसार्य तप्ताङ्गारयुक्तं तं कलशं लघुवस्त्रेण दृढं गृहीत्वा स्वस्य वस्त्रस्य उपरि चालयति। अतः एव वस्त्राणि इस्त्रीयुक्तानि भवन्ति।

वनजायाः वस्त्राणि दृष्ट्वा सर्वे प्रशंसां कुर्वन्ति। किन्तु वनजायाः मात्रे वनजायाः व्यवहारः सर्वथा न रोचते। सा कोपेन वदति—“एषा कदा वा कार्ये आसक्तिंप्रदर्शयति ? सदापि क्रीडने अटने च मग्नाभवति।प्रतिदिनं श्रद्धया वस्त्रम् इस्त्रीयुक्तंकरोति, सत्यम्। किन्तु तेन किं प्रयोजनम् ?अन्येषां वस्त्रस्य इस्त्रीकरणं सर्वथा न इच्छति सा” इति।

एतत्सर्वं दृष्ट्वा वनजायाः पितामही कदाचित् पौत्रीं स्वसमीपम् आहूय ‘एवं करणम् उचितं न’ इति बोधितवती।

तदा वनजा उक्तवती—“भवत्या एतद्विषये किमपि उपदेष्टव्यं नास्ति। अहं यावत् साहाय्यं करोमि चेदपि मातुः तृप्तिः नास्ति। सदा मम निन्दने एव तस्याः आसक्तिः। अल्पवयस्का अहं समवयस्कैः सह क्रीडामि चेत् सा कोपं प्रदर्शयति। मम सर्वेषु व्यवहारेषु सा दोषं पश्यति। अतः सा मह्यं न रोचते। अहं तस्याः साहाय्यं न करोमि” इति।

पौत्र्याः वचनानि श्रुत्वा पितामही हसन्तीपुनः उक्तवती—“मातुः विषये कोपः अस्ति चेत् अस्तु नाम। अन्येषां साहाय्यं कर्तुं शक्यतेखलु ? तदपि किमर्थं न क्रियते?इति।

तदा वनजा उक्तवती —“भवती वस्तुस्थितिं किञ्चिदपि न जानाति इत्यतः

एवं वदति। पिता सदापिमाता किं वदति इति स्मरति वा भवती ? ‘वनजा अल्पवयस्का,तद्द्वारा कोऽपि कार्यं न कारयतु’ इति वदति सः। यदि अहं कार्ये साहाय्यं कुर्यां तर्हि सः ‘एषा सुकुमारी न’ इति मन्येत। अत एव अहं तस्य साहाय्यं न करोमि। अग्रजः तु मां प्रीत्या न पश्यति।‘कार्यम् अजानती मूर्खा’ इति मां निन्दति सः। अतः अहं तस्य साहाय्यं न करोमि। अन्या गृहसदस्या मम अनुजा। सा मत्तः नितराम् अल्पवयस्का। तथापि सा मम वचनानि न पालयति। मया सा लालनीया इति तस्याः इच्छा। या मम वचनं न पालयति तस्याः साहाय्यं मया किमर्थं वा करणीयम्? भवती एव वदतु” इति।

तदा हसन्ती पितामही उक्तवती —“एतावता किं सिद्धम् ? भवती कस्यापि साहाय्यं कर्तुं न इच्छति इत्येव खलु ?” इति।

“तथा सर्वथा नास्ति। साहाय्यदाने मम इच्छा अस्ति एव। पश्यतु, अहं भवत्याः वस्त्राणि इस्त्रीयुक्तानि कर्तुम् इच्छामि। किन्तु भवती शुचिनिष्ठाकारणतः तत् न इच्छति। अतः अहं भवत्याः साहाय्यम् अपि कर्तुं न शक्नोमि। एवम् अस्ति मम परिस्थितिः” इति उक्तवती वनजा

“अहो, बुद्धिमत्ता भवत्याः ! चतुरा खलु भवती” इति वदन्ती पितामही वनजाम् उन्नीय प्रीत्या चुम्बितवती।

तावता तत्र आगता वनजायाः माता उक्तवती —“अये चण्डि ! अद्य रजकःसोमदेवः ग्रामे नास्ति इति श्रूयते। मया हरिद्राकुङ्कुमकार्यक्रमार्थं भूस्वामिनः गृहं गन्तव्यम्। मम कौशेयशाटिका इस्त्रीरहिता अस्ति। भवती एव तां किञ्चित् इस्त्रीयुक्तां कृत्वा ददातु रे। भवती तु तां कलां जानाति एव” इति।

“मया न शक्यते” इति कोपेन उक्तवती वनजा। तदा कुपिता माता पुत्रीं निन्दितुम् उद्युक्ता।एतत् श्रुत्वा पितामही स्वषाम् उक्तवती — “एवं निन्दनेन किं प्रयाजनम् ? बालानां द्वारा कार्यं कारणीयं चेत् मृदुभिः वचनैः प्रीत्या वक्तव्यम्। पदे पदे निन्दनेन ते अनुक्तग्राहिणःभवन्ति” इति।

“भवत्याः लालनेन एव सा एवं दौष्ट्यम्

आचरति। अस्तु, अहं तु मृदुव्यवहारं न जानामि। भवती एव तद्द्वारा मम शाटिकाम् इस्त्रीयुक्तां कारयतु तावत्” इति उक्तवती वनजायाः माता।

“तद्द्वारा अवश्यं कारयामि। सा मम वचनं कदापि न निराकरोति” इति उक्तवती पितामही।

“अल्पे एव काले ज्ञायते खलु सर्वम् अपि” इति वदन्ती वनजायाः माता कार्यार्थं पाकशालां गतवती।

तस्याः निर्गमनस्य अनन्तरं पितामही पौत्रीम् उक्तवती — “वत्से! भवती मातुः शाटिकाम् इस्त्रीयुक्तां करोति चेत् कौशेयनिचोलं प्राप्स्यति” इति।

“कौशेयनिचोलः ! अम्बा कदाऽपि मह्यं तादृशं न सीवयति” इति उक्तवती वनजा।

“अये, किमर्थं तथा वदति ? उपायेन सर्वं साधयितुं शक्यते” इति वदन्ती पितामही वनजां समीपम् आहूय कर्णे कमपि उपायं सूचितवती।

एतस्य उपायस्य कार्यान्वयनविषये चिन्तयन्त्यौ आस्तां पौत्री पितामही च। तावता प्रतिवेशिनी आगत्य वनजायाः मातरं पृष्टवती —“कौशेयशाटिकायाः क्रयणार्थम् आपणं गच्छन्ती अस्मि। भवती अपि आगच्छति वा मया सह ?” इति।

एतत् श्रुत्वा वनजायाः माता आश्चर्येण पृष्टवती —“सद्यः एव भवती एकां कौशेयशाटिकां क्रीतवती आसीत् खलु ?” पुनः किमर्थं क्रयणम् ?” इति।

** तदा दीर्घं निःश्वसन्ती सा प्रतिवेशिनी उक्तवती — “किं वदामि? सर्वं मम दुरदृष्टस्य फलम्। एषु दिनेषु बालाः नितरां बुद्धिमन्तः जाताः सन्ति। मम पुत्री बहोः कालतः वदन्ती आसीत् —कौशेयनिचोलः आवश्यकः इति। अहं निराकुर्वती आसम्। गतसप्ताहे सा माम् उक्तवती यत् भवत्याः शाटिकाम् अहम् एव इस्त्रीयुक्तां करोमि इति। अहम् एतत् अङ्गीकृत्य कौशेयशाटिकां दत्तवती। सा इस्त्रीकरणसमये बुद्ध्या मम शाटिकां कुत्रचित् दग्धां कृतवती” इति।**

** “एतेन तस्याः कः लाभः ?“इति आश्चर्येण पृष्टवती वनजायाः माता।**

** “मया अपि आरम्भे तत् न ज्ञातम् आसीत्।तां शाटिकां सौचिकाय दत्त्वा तद्द्वारा मया तस्यै निचोलद्वयं कारितम्। तं निचोलं सख्यै प्रदर्शयन्ती मम पुत्री स्वेन कृतं समग्रं सखीं निवेदितवती। तत् मया कथमपि श्रुतम्। निचोलप्राप्त्यर्थम् एव सा मम शाटिकां दग्धां कृतवती इति ज्ञातम्” इति उक्तवतीप्रतिवेशिनी।**

** एतत् श्रुत्वा आश्चर्यम् अनुभवन्ती वनजायाः माता—“अस्तु तावत्। सायम् आवां विपणिं गच्छाव” इति उक्त्वा प्रतिवेशिनीं प्रेषितवती।**

** एतावता तत्र आगता वनजा मातरम् उक्तवती— “अम्ब! शाटिकां ददातु। सम्यक् इस्त्रीयुक्तां कृत्वा दास्यामि” इति।**

** तदा तस्याः माता कोपेन पुत्रीं पश्यन्ती उक्तवती— “अरे! भवत्याः मनसि किम् अस्ति इति मया ज्ञातम्। भवत्या मम शाटिका न स्प्रष्टव्या। कदाचित् भवती इस्त्रीसमये मम शाटिकां दग्धां कुर्यात् चेदपि अहं भवत्यै कौशेयनिचोलं तु न सीवयेयम् एव” इति।**

** ‘पितामह्या सूचितः उपायः एतया कथं ज्ञातः ?’ इति अजानती वनजा आश्चर्यम् अनुभूतवती। तस्याः मातुः प्रतिवेशिन्याः च मध्ये कीदृशः वार्तालापः प्रवृत्तः इति न जानाति स्म खलु सा ?**

दृष्टशक्तिपीडा

कस्मिंश्चित् ग्रामे अरविन्दो नाम अग्रजः, मुकुन्दो नाम अनुजः च आस्ताम्। तौ श्रीरामपुरे भूमिं क्रीत्वा नूतनं गृहं निर्मितवन्तौ। तयोः गृहं परस्परं संलग्नम् अस्ति। दक्षिणतः मुकुन्दस्य गृहं, वामतश्च अरविन्दस्य गृहम्। गृहप्रवेशकार्यक्रमार्थं तौ वेङ्कटावधानिनम् आहूतवन्तौ आस्ताम्।

वेङ्कटावधानी गृहद्वयम् अपि परीक्ष्य उक्तवान्—“वास्तुशास्त्रानुगुणम् एव अस्ति गृहद्वयम् अपि। तथापि वामतः स्थितं गृहं मुकुन्दः, दक्षिणतः च स्थितम् अरविन्दः स्वीकरोति चेत् वरम्” इति।

“एवं न कृतं चेत् किं भवेत् ?” इतिपृष्टवन्तौ अरविन्दः मुकुन्दः च।

“भवतोःजन्मनक्षत्रस्य आधारेण ग्रहाणां बलाबलं परीक्ष्य उक्तं मया। परस्परं गृहपरिवर्तनं न कृतं चेत् दुष्टा शक्तिः काचित् भवन्तौ बाधते। कस्यापि प्राणहानिः तु न भविष्यति” इति उक्तवान् वेङ्कटावधानी।

“एतावदेव खलु ? दुष्टशक्तौ आवयोः विश्वासः सर्वथा नास्ति। स्वशक्तौ आवयोः विश्वासः अस्ति। स्वशक्तिबलेन तां दुष्टशक्तिपीडां निवारयिष्यावः। एवं खलु मुकुन्द ?” इति उक्तवान् अरविन्दः।

‘आम् आम्” इति वदन् अङ्गीकारपूर्वकं शिरः चालितवान् मुकुन्दः।

सहोदरयोः वचनं श्रुत्वा कुपितः वेङ्कटावधानी—“मम वचनं पालयितुं भवतोःइच्छा नास्ति। एवं तर्हि किमर्थम् आहूतः अहम् ? यत्र मम वचनस्य आदरः नास्ति तत्र वैदिकविधिं निर्वर्तयितुं मम इच्छा नास्ति। अहं गच्छामि। यत् ललाटे लिखितं तत् अनुभवताम्” इति उक्त्वा ततः निर्गतवान्।

अनन्तरम् अरविन्दः मुकुन्दः च वस्तूनि व्यवस्थितं स्थापयितुम् उद्युक्तौ जातौ। कानिचन वस्तूनि स्वगृहस्य अट्टे अपि स्थापितवन्तौ। अरविन्दः स्वगृहस्य अट्टे.तैलपात्रद्वयं दश व्रीहिगोणीः, अन्यानि कानिचन वस्तूनि च स्थापितवान्।

मुकुन्दः अपि स्वगृहस्य अट्टे पञ्च माषगोणीः, अवलेहपात्रद्वयं च स्थापितवान्।

रात्रौ भोजनं समाप्य सर्वे सुप्तवन्तः। शयनानन्तरं किमपि स्मृत्वा उत्थाय तत् आनेतुम् अरविन्दः अट्टम् आरूढवान्। आश्चर्यं नाम अट्टे तैलपात्रद्वयं, व्रीहिगोण्यः च नं आसन्। अपि तु माषगोण्यः अवलेहपात्रद्वयं च आसन्। ‘एतानि अनुजस्य वस्तूनि’ इति जानन् अरविन्दः अनुजस्य गृहं गतवान्।

तत्समये मुकुन्दः अपि दिग्भ्रान्त्या अग्रजं द्रष्टुम् आगच्छन् आसीत्। अरविन्दः तं पृष्टवान्—“भवतः गृहस्य अट्टे मदीयानि वस्तूनि सन्ति वा?” इति।

“आम्। तत् दृष्ट्वा एव अहं भवन्तं द्रष्टुं प्रस्थितः। एवं कथम् अभवत् इत्येव न ज्ञायते। मदीयानि वस्तूनि भवतः गृहस्य अट्टे स्युः वा?” इति पृष्टवान् मुकुन्दः।

“आम्। भवदीयानि वस्तूनि मम गृहस्य अट्टे दृश्यन्ते” इति उक्तवान् अरविन्दः।

‘दुष्टशक्तेः कार्यम् एव एतत्’ इति भावयन्तौ तौ स्वस्ववस्तूनि स्वगृहे पुनः स्थापितवन्तौ। अनन्तरं शयनं कृतवन्तौ चापि।

रात्रौ अरविन्देन अनेके दुःस्वप्नाः दृष्टाः। ‘अहो, दुःस्वप्नाः !’ इति वदन् प्रातः अरविन्दः अनुजं द्रष्टुं गतवान्।

तत्समये मुकुन्दः गृहस्य पुरतः उपविश्य किमपि चिन्तयन् आसीत्। तदीये नेत्रे एव सूचयतः स्म यत् तेन रात्रौ निद्रा न प्राप्ता इति।

तं दृष्ट्वा अरविन्दः पृष्टवान्— “किं भोः, एवम् उपविष्टः अस्ति भवान्? मम आगमनम् अपि न ज्ञातं भवता। रात्रौ निद्रा एव न प्राप्ता वा?” इति।

मुकुन्दः अग्रजं पश्यन् उक्तवान्—“भवता अपि रात्रौ निद्रा न प्राप्ता इति भाति। किमर्थम् एवम्?” इति।

अरविन्दः आत्मना दृष्टानां दुःस्वप्नानां विषयम् उक्तवान्। तदा मुकुन्दः उक्तवान् —“आवाम् अस्मदीयानि वस्तूनि स्वगृहं नीतवन्तौ खलु ? अनन्तरं शयनं कृतं मया। नेत्रनिमीलनं कृतं चेत् दुःस्वप्नदर्शनम् ! अतः निद्रा एव न कृता मया” इति।

“दुष्टशक्तीनां विषये भवतः विश्वासः अस्ति वा ?” इति अनुजं मुकुन्दं पृष्टवान् अरविन्दः।

“तादृशः विश्वासः आवयोः नास्ति इति वेङ्कटावधानिनम् उक्तवन्तौ खलु आवाम्” इति उक्तवान् मुकुन्दः।

“एवं खलु ? मया तत् विस्मृतम् आसीत्” इति वदन् स्वगृहं गतवान्ं अरविन्दः।

तस्मिन् दिने सायङ्काले एकत्र उपविश्य तौ सहोदरौ अग्रे किं करणीयम् इत्यस्मिन् विषये चर्चां कृतवन्तौ। ‘धैर्येण स्थातव्यम्, अद्य अट्टे एव शयनं करणीयं च’ इति निश्चितवन्तौ तौ।

एतदनुगुणं तौ रात्रौ स्वगृहस्य अट्टे शयनं कृतवन्तौ।

प्रातः अरविन्देन दृष्टं यत् सर्वाणि वस्तूनि स्वस्थाने एव सन्ति। एतेन सन्तुष्टः सः उच्चैः पत्नीम् आहूतवान् — “अये !” इति।

तावता तत्र आगता अनुजस्य पत्नी — “किमिदं देवरवर्य ! मम गृहस्य अट्टे कथम् आगतः भवान् ? कदा अत्र आगतः ?” इति आश्चर्येण पृष्टवती।

एतेन भीतः अरविन्दः जागरितः सन् परितः दृष्टिं प्रसारितवान्। स्वस्य अन्यत्र

शयनम्, अनुजपत्न्याः दर्शनं च स्वप्ने जातम् इति जानन् सः समाधानेन निःश्वसितवान्। तावता तत्र आगता तस्य पत्नी आक्षेपस्वरेण उक्तवती — “किमपि आवश्यकं चेत् अधः आगत्य वक्तव्यम्। अट्टे एव स्थित्वा किमिदम् आह्वानम्?” इति।

‘अहो दुःस्वप्नः!’ इति वदन् अरविन्दः अधः आगत्य मुखादिकं प्रक्षाल्य अनुजस्य गृहं गतवान्। अनुजं पृष्टवान् च— “भवतादुःस्वप्नः दृष्टः वा ?” इति।

“न एकः, अपि तु अनेके दुःस्वप्नाः दृष्टाः।दुःस्वप्नकारणतः मम हृदयम् इदानीम् अपि कम्पते। एवं चेत् अचिरात् एव अहम् अस्वस्थः भवेयम्” इति उक्तवान् चिन्ताक्रान्तः मुकुन्दः।

“दुष्टशक्तौ विश्वासः अस्ति वा भवतः ?” इति मुकुन्दं पुनः पृष्टवान् अरविन्दः।

“नं जाने, किं वक्तव्यम् इति। वेङ्कटावधानिनं भवान्ं उक्तवान् — दुष्टशक्तौ अहं न विश्वसिमि इति। अहम् अपि तदा सहमतिं प्रदर्शितवान् आसम्"इति उक्तवान् मुकुन्दः।

क्षणकालम् आलोच्यअरविन्दः उक्तवान् — “दुष्टशक्तिः वास्तविकतया अस्ति वा न वा इति अहं तु स्पष्टं न जानामि। किन्तु आवयोः मनसि कश्चन संशयपिशाचः तु प्रविष्टः अस्ति। अतः दुःस्वप्नाः। अतः वेङ्कटावधानिना यथा सूचितं तथा परस्परं गृहपरिवर्तनं कृत्वा तस्य क्षमां प्रार्थयाव। तद्द्वारा गृहप्रवेशकार्यं यथाविधि निर्वर्तयाव च " इति।

“वस्तुतः अहम् अपि तथैव चिन्तयन्, अस्मि। गृहपरिवर्तनम् एव करवाव” इति उक्तवान् मुकुन्दः।

सहोदरयोः क्षमायाचनया सन्तुष्टः वेङ्कटावधानी गृहप्रवेशविधिं निर्वर्तितवान्। परस्परगृहुपरिवर्तनानन्तरं ताभ्यां सहोदराभ्यां काऽपि पीडा न अनुभूता, दुःस्वप्नः न दृष्टः वा।

न्यायनिर्णयः

गोवर्धनगिरिनामकं राज्यं नरेन्द्रभूपालःनाम राजा पालयन् आसीत्। सः तीक्ष्णमतिः दयालुः च। न्यायदानविषये नरेन्द्रभूपालस्य विशेषसामर्थ्यम् आसीत्। सः विविधैः उपायैः वास्तविकम् अपराधिनं जानाति,तं कठोरं दण्डयति च। निरपराधिनः कदापि दण्डिताः यथा न भवेयुः तथा विशेषजागरूकतां वहति राजा। प्रतिदिनं प्रातः निश्चिते समये यः कोऽपि आगत्य राजानं साक्षात् स्वसमस्यां निवेदयितुम् अर्हति स्म। एताः समस्याः राजा आसक्त्या शृणोति। स्वस्य बुद्धिमत्तायाः आधारेण अल्पे एव काले ताः समस्याःपरिहरति सः।

कदाचित् प्रातःकाले रुक्मिणी नाम काचित् स्त्री राजानं द्रष्टुम् आगतवती। तत्समये राजा मन्त्रिणा सह समालोचनं कुर्वन् आसीत्। आगतां महिलां दृष्ट्वा राजापृष्टवान् —“भद्रे ! का भवती? का समस्या भवत्याः ?” इति।

“प्रभो, मम नाम रुक्मिणी इति। मम पतिः रामचन्द्रः प्रतिदिनं नदीमार्गेण नगरं गत्वा वाणिज्यं समाप्य रात्रौ प्रत्यागमिष्यति। किन्तु ह्यः प्रातः गृहात् निर्गतः मम पतिः नदीतरणसमये नद्यां पतितः इति श्रुतम्” इति रुदती उक्तवती रुक्मिणी।

“खेदावहः विषयः एषः। किन्तु अत्र अपरिहार्या समस्या का अस्ति ?” इति पृष्टवान् राजा।

“आर्यपुत्रः नद्यां पतितः इति श्रुतं, किन्तु वस्तुस्थितिः अन्या एव इति ज्ञातम्। सीतारामः अस्माकं प्रतिवेशी। सः अपि प्रतिदिनं नदीमार्गेण नगरं गत्वा वाणिज्यं करोति। कदाचित् मम पतिः सः च एकया एव नौकया गच्छतः। पुनः कदाचित् भिन्नया

नौकया। ह्यः तु मम पतिः एकया नौकया गच्छन् आसीत्। सीतारामः अन्यया नौकया गतवान्। एवं दूरात् गच्छन् सः नाविकेन दण्डकेन नद्यां पात्यमानं मम पतिं दृष्टवान्। सः आगत्य मां सर्वं निवेदितवान्।वार्ताश्रवणसमनन्तरम् एव न्यायप्राप्त्यर्थम् अहम् अत्र आगता” इति निवेदितवती रुक्मिणी।

राजा झटिति तरणचतुरान् जनान् आहूय आज्ञापितवान् यत् एतस्याः पत्युः रामचन्द्रस्य शवस्य अन्वेषणं करणीयम् इति। अनन्तरम् अन्यं भटं सीतारामस्य आनयनार्थं प्रेषितवान्।

सीतारामः झटिति आगतवान्। राजानं नमस्कृत्य विनयेन प्रवृत्तं समग्रं निवेदितवान् —“महाराज ! दण्डकः रामचन्द्रं बलात् पातयन् आसीत्। एतत् मया स्वयं दृष्टम्। सः रामचन्द्रस्य हस्तात् धनं बलात् स्वीकृत्य तं नद्यां पातितवान्। अहं दूरे आसं चेदपि तौ उभौ अपि सम्यक् एव अभिज्ञातुं शक्तवान्” इति।

तदा राजा रुक्मिणीं पृष्टवान् —“पत्या नीते स्यूते कति रूप्यकाणि कानि कानि च वस्तूनि आसन् इति भवती जानाति वा ?” इति।

“आं महाराज ! सर्वं सम्यक् जानामि। चत्वारिंशत् रूप्यकाणि,मम नूपुरद्वयं च आसन्। नूपरद्वयम् आधिरूपेण स्थापयित्वा ऋणं प्राप्तुं मम पतिः नगरं गच्छन् आसीत्। एतत् कथमपि जानन् दण्डकः मम पतिं नद्यां

पातितवान् इति भाति” इति उक्तवती रुक्मिणी।

एतावता द्वौ भटौ आगत्य राजानं निवेदितवन्तौ यत् रामचन्द्रस्य शवः प्राप्तः अस्ति इति। राजा मन्त्री च शवस्य दर्शनार्थं प्रस्थितवन्तौ। गमनसमये राजाभटंसूचितवान् आसीत् यत् दण्डकः अविलम्बेन अत्र आनेतव्यः इति। यावत् राजा शवं परिशील्य प्रत्यागतवान् ततः पूर्वं भटेन दण्डकः तत्र आनीतः आसीत्।

राजा दण्डकं पृष्टवान् —“भवतः उपरि आरोपः अस्ति यत् भवान् रामचन्द्रनामकं वणिजं स्वनौकातः पातितवान् इति” इति।

तदा दण्डकः झटिति उत्तरं दत्तवान् —“महाराज ! एषः मिथ्यापवादः। रामचन्द्रःमम नौकायाम् उपविश्य गच्छन् जलेन क्रीडन् आसीत्। तत्समये अकस्मात् सः नद्यां पतितः। धनस्यूतेन सह सः प्रवाहेण नीतः " इति।

“एवं तर्हि तस्य रक्षणार्थं प्रयासः न कृतः वा भवता?” इति पृष्टवान् राजा।

“कुतो न ? मया तत्क्षणे एव प्रयत्नः कृतः। जले पतितस्य तस्य केशान् गृहीत्वा अहम् आकृष्टवान्। किन्तु तस्य केशाः आर्द्राः आसन्। अतः मम प्रयत्नः विफलः जातः"इति आत्मानं समर्थितवान् दण्डकः।

एतत् श्रुत्वा नितरां कुपितः महाराजः क्रोधेन गर्जितवान् —“अये मिथ्यावादिन् ! भवान् एव तं मारितवान् इत्यत्र मम समीपे प्रमाणम् अस्ति। मिथ्यां मा वदतु। अपराधम्

अङ्गीकरोतु। अन्यथा भवान् कठोरैः दण्डैः दण्डितः भवेत्” इति।

तदा भीत्या कम्पमानः दण्डकः—“आं महाराज, मम विवेकः नष्टः आसीत्। अतः धनस्य आशया अहं रामचन्द्रं नद्यां पातितवान्” इति अपराधम् अङ्गीकृतवान्।

राजा दण्डकम् आजीवनकारागारवासेन कठिनश्रमेण च दण्डितवान्। रुक्मिणी प्रतिमासं राज्ञः धनागारतः जीवननिर्वहणार्थं धनं यथा प्राप्नुयात् तथा व्यवस्थाम् अपि कृतवान्।

मन्त्री राजानं पृष्टवान् —“प्रभो ! दण्डकः एव अपराधी इति कथं ज्ञातं भवता ?” इति।

तदा राजा हसन् उक्तवान् —“दण्डकः उक्तवान् यत् रामचन्द्रः धनस्यूतेन सह नद्यां पतितः इति। ‘धनस्यूतेन सह’ इति श्रवणात् एव मया चिन्तितं यत् एषः मिथ्यावादी इति। वस्तुतः तु घटनानिवेदनसमये धनस्यूतस्य प्रसक्तिः एव न आसीत्। रामचन्द्रस्य शवस्य दर्शनात तु मम सन्देहः दृढः जातः” इति।

‘तत् कथम्?” इति पृष्टवान् मन्त्री।

“शवः तु भवता अपि दृष्टः एव। शवस्य चित्रं मम मनसि इतोऽपि स्पष्टम् अस्ति। दण्डकः उक्तवान् यत् नौकातः पतन्तं रामचन्द्रं दृष्ट्वा मया केशग्रहणपूर्वकं रक्षणार्थं प्रयत्नः कृतः इति। एतेन एव अहं निश्चितवान् यत् दण्डकः एव अपराधी इति” इति उक्तवान् राजा।

मन्त्री पुनः पृष्टवान् —“केन आधारेण भवता एवं निर्णीतम् ?” इति।

राजा पुनः मन्दहासपूर्वकं पृष्टवान् —“दण्डकस्य वचनं श्रुतं खलु भवता अपि ? ‘नद्यां पततः रामचन्द्रस्य केशान् गृहीत्वा अहम् आकृष्टवान्’इति खलु तेन उक्तम् ?” वस्तुतः तु रामचन्द्रस्य शिरसि एकः अपि केशः नास्ति। स तु जन्मना खल्वाटः। एतत् दृष्ट्वा अहं दृढं निश्चितवान् यत् दण्डकः मिथ्यावादी एव” इति उक्तवान् राजा।

राज्ञः सूक्ष्मचिन्तनं बुद्धिमत्तां च मनसि एव `श्लाघमानः मन्त्री तृप्त्या शिरः चालितवान्।

शुकवचनम्

कस्मिंश्चित् ग्रामे पूर्वं काचित् वृद्धा आसीत्। तस्याः अल्पा सम्पत्तिः अपि आसीत्। एका पौत्री अस्ति वृद्धायाः। गृहे ते द्वे एव निवसतः। पौत्री सम्यक् वर्धनीया इति वृद्धायाः इच्छा। अतः कठोरैः नियमैः तां पालयति स्म सा। तया बालिकया समवयस्कैः सह न क्रीडनीयम्। अन्ये बालाः अपि एतद्गृहं न आगच्छेयुः।

पौत्री गृहं कारागारं भावयति स्म। वृद्धां शुकं च विना गृहे अन्यः नास्ति एव। क्रीडाङ्गणे क्रीडतः कूर्दतः सन्तोषेण अटतः समवयस्कान् दृष्ट्वा एषा बालिका असूयाम् अनुभवति। वृद्धायै कुप्यति च। ‘एषा वराकी वृद्धा यदि न भवेत् तर्हि वरम् अभविष्यत्’ इति वदति सा। किन्तु वृद्धायाः पुरतः तु मौनं तिष्ठति स्म।

गृहे स्थितः शुकः प्रतिदिनम्अपि बालिकायाः वचनं शृणोति। श्रुतस्य यथोच्चारणे शुकस्य महान् उत्साहः। अतः शुकः कदाचित् वृद्धायाः उपस्थितौ एव स्वेन श्रुतं वाक्यम् उच्चारितवान् —“एषा वराकी वृद्धा यदि न भवेत् तर्हि वरम् अभविष्यत्” इति।

एतत् वाक्यं श्रुत्वा वृद्धा आश्चर्यचकिता। ‘एतेन शुकेन एतादृशं वाक्यं कथम् अभ्यस्तम् ? बालिकायाः मुखात् श्रुतं स्यात् इति वक्तुं न शक्यते। यतः बालिका सदापि मौनेन विनयेन च व्यवहरति। अतः सा एतादृशं वाक्यम् उक्तवती न स्यात्। दुष्टः शुकः एव कथमपि स्वयम् अभ्यस्तवान् स्यात्’ इति चिन्तितवती वृद्धा।

अनन्तरदिने समीपगृहस्था काचित् वृद्धा एतस्याः गृहम् आगतवती। द्वे वृद्धे वार्तालापं कुर्वत्यौ आस्ताम्।

तदा शुकः अभ्यासबलात् अवदत् —“एषा वराकी वृद्धा यदि न भवेत् तर्हि वरम् अभविष्यत्” इति।

एतत् वाक्यं श्रुत्वा सा प्रतिवेशिनी वृद्धा खिन्ना कुपिता च। अपमानभारेण सा मौनम् उत्थाय ततः निर्गतवती।

शुकस्य मुखात् एतदृशानि असमीचीनानि वाक्यानि यथा न आगच्छेयुःतथा करणीयम् इति आलोचितवती वृद्धा।

अतः सा समीपनिवासिनः पण्डितस्य गृहं गत्वा उक्तवती—“श्रीमन् ! अस्मद्गृहीयेण शुकेन असमीचीनानि वाक्यानि अभ्यस्तानि। सः शुकः अतिथीनांपुरतःअपि तादृशानि एव वाक्यानि उच्चारयति। अतः तस्य मुखतः सर्वदा अपि उत्तमानि वाक्यानि यथा आगच्छेयुः तथा कर्तुं मार्गम् उपदिशति वा?” इति।

“तदर्थं कः क्लेशः ? मद्गृहीयः शुकः उत्तमानि वाक्यानि एव जानाति। त्रिचतुराणि दिनानि भवद्गृहीयेण शुकेन सह मद्गृहीयं शुकं पञ्जरे स्थापयतु। तदा सहजतया सः उत्तमानि वाक्यानि अभ्यस्यति। सहवासकारणतः दुष्टाः उत्तमाः भवन्ति। अतः भवती चिन्तां मा करोतु” इति सूचितवान् पण्डितः।

वृद्धा एतत् अङ्गीकृतवती। अनन्तरं पण्डितेन दत्तं शुकं स्वीकृत्य गृहं गतवती। पञ्जरे शुकद्वयम् अपि स्थापयित्वा तृप्त्या निःश्वसितवती सा।

नूतनं शुकं दृष्ट्वा सन्तुष्टः अभवत् वृद्धागृहीय शुकः। सः सन्तोषेण पक्षौ चालयन् अवदत् —“एषा वराकी वृद्धा यदि न भवेत् तर्हि वरम् अभविष्यत्” इति।

नूतनः शुकः अपि पक्षौ चालयन् अवदत् —“तथास्तु” इति।

एतत् वाक्यद्वयं श्रुतवत्याः वृद्धायाः कोपः द्विगुणितः जातः। सा कोपेन कम्पमाना पञ्जरद्वारम् उद्घाट्य तौ शुकौ बहिः प्रेषयन्ती —“मृतौ भवतां भवन्तौ"इति शापेन अनुगृहीतवती।

अतिविनयः

सरसप्रदेशस्य राजा सर्वोत्तमः। कदाचित् तस्य मनसि सन्देहः आगतः यत् मम आस्थाने एव कोऽपि शत्रुः अस्ति इति। यतः राजास्थाने चिन्तिताः बहवः विषयाः शत्रुराजेन जीवेश्वरेण ज्ञायन्ते स्म। एतत् तु नितराम् अपायकरं खलु ? जीवेश्वरस्य सामर्थ्यं तावत् अधिकं नास्ति। तथापि छिद्रान्वेषी सः शत्रुराजः कदाचित् अवकाशं प्राप्य आक्रमणं न कुर्यात् इति वक्तुं न शक्यते खलु ?

आस्थाने स्थितेषु उद्योगिषु शत्रुदेशीयः गूढचरः कः स्यात् इति बहुधा अन्विष्टवान् राजा। किन्तु तस्य प्रयत्नः सफलः न जातः। सर्वे अपि उद्योगिनः राजानं देशं च विशेषगौरवेण पश्यन्ति स्म। शत्रुदेशीयस्य गूढचरस्य अन्वेषणार्थं राजा स्वयं गूढचरान् अपि नियोजितवान्। तथापि कस्यापि व्यवहारे देशद्रोहिता न दृष्टा।

सर्वोत्तमस्य आस्थाने चन्द्रहासः नाम कश्चन विदूषकः आसीत्। सः तीक्ष्णमतिः उपायचतुरः च। राजा तं स्वसमीपम् आहूय स्वस्य सन्देहं, सन्देहनिवारणार्थं कृतं प्रयत्नं च विस्तरेण निवेद्य उक्तवान् —“चन्द्रहास ! केनापि उपायेन सः कपटः उद्योगी अन्वेष्टव्यः भवता। एतस्मिन् कार्ये भवान् एव समर्थः, नान्यः इति मम मतिः” इति।

तदा चन्द्रहासः—“प्रभो, यथा भवता चिन्त्यते तथा आस्थाने देशद्रोही यदि स्यात् तर्हि तं क्षणमात्रेण अभिज्ञास्यामि अहम्” इति उक्त्वा सर्वान् उद्योगिनः अत्र मेलयतु इति राजानं सूचितवान्। राजा तथैव कृतवान्।

यदा सर्वे सम्मिलिताः तदा चन्द्रहासः तान् उद्दिश्य उक्तवान् — “देशस्य परिपालकस्य प्रतिदिनं कीदृश्यः समस्याः भवन्ति इति

भवन्तः जानन्ति एव।बह्वीनां समस्यानां निवारणे सः व्यग्रः भवति। अतः सः विरलतया एव अल्पकालिकं विरामं प्राप्नोति। तं परितः विद्यमानाः उद्योगिनः यदि विश्वासार्हाः राजनिष्ठाः च स्युः तर्हि सः प्राप्तम् अल्पं विरामं निश्चिन्ततया यापयेत्। अन्यथा सदा व्यग्रता अनिवार्या। अस्माकं राज्ञः सौभाग्यं यत् प्रामाणिकाः समर्थाः, विश्वासार्हाः भवन्तः तस्य आस्थाने उद्योगिनः सन्ति इति। इदानीं भवद्भिः स्वविश्वासार्हता ‘प्रदर्शनीया। अतः भवत्सु एकैकः अपि अग्रे आगत्य राजानं पादयोः नमस्कृत्य दशवारं प्रदक्षिणनमस्कारान् कुर्यात्” इति।

एतत् श्रुत्वा उभौ राजोद्योगिनौ झटिति अग्रे आगत्य चन्द्रहासेन यथा उक्तं तथा कृत्वा पार्श्वे स्थितवन्तौ।

सर्वोत्तमराजःएतत्सर्वंगाम्भीर्येणगाम्भीर्येणकुतूहलेन च पश्यन् आसीत्।

चन्द्रहासः अन्यान् राजोद्योगिनः तीक्ष्णया दृष्ट्या पश्यन् कोपेन पृष्टवान् —“मया उक्तं न श्रुतं वा ? किमर्थं मौनं स्थितवन्तः सन्ति भवन्तः ?” इति।

तदा अपि ते सर्वे शिरः अवनमय्य मौनं स्थितवन्तः आसन्।चन्द्रहासः कठोरेण स्वरेण पनरपि तथैव उक्तवान्। तदा अपि ते सर्वे मौनं स्थितवन्तः आसन्।

अन्ते चन्द्रहासः महता क्रोधेन—“कीदृशम् औद्धत्यं भवताम् ? मया यथा उक्तं तथा न क्रियते चेत् कशाताडनेन दण्ड्यन्ते भवन्तः” इति उक्त्वा भटान् कशाम् आनेतुम् आज्ञापितवान्।

तदा चत्वारः उद्योगिनः मन्दं पदं स्थापयित्वा अग्रे गत्वा राजानं पादयोः नमस्कृत्य प्रदक्षिणं कर्तुम् उद्युक्ताः जाताः।

तदा चन्द्रहासः—“अलं प्रदक्षिणेन” इति तान् उक्त्वा राजानं पश्यन्—“प्रभो प्रथमं यौ भवन्तं नमस्कृत्य प्रदक्षिणं कृतवन्तौ तौ एव शत्रुपक्षीयौ देशद्रोहिणी"इति उक्त्वा कशाम् आनीतवन्तं भटं प्रतिप्रेषितवान्।

राजा आश्चर्येण —“एतौ देशद्रोहिणौ इत्यत्र किं प्रमाणम् ? केन आधारेण भवता

एवं निर्णीतम् ?” इति पृष्टवान्।

“प्रभो, ये कपटराजभक्तिं प्रदर्शयन्ति ते स्वस्य कपटतायाः गोपनार्थं सर्वदा प्रयत्नं कुर्वन्तः भवन्ति। राजभक्तेः प्रदर्शनार्थम् अल्पः अवकाशः प्राप्तः चेदपि ते तस्य सदुपयोगार्थम् उद्युक्ताः भवन्ति। अतः ते अयुक्ते समये स्थले च राजभक्तिं प्रदर्शयन्ति” इति उक्तवान् चन्द्रहासः।

“एवं तर्हि अन्येषां व्यवहारस्य विषये किं वदति भवान्?” इति पृष्टवान् राजा।

“ते वस्तुतः अपि राजभक्ताः। राजभक्तिः सर्वेषां पुरतः अल्पे अवकाशे प्राप्ते अपि प्रदर्शनीया इति ते कदापि न चिन्तयन्ति। अन्यच्च राजभक्तिप्रदर्शनस्य अपि किञ्चन औचित्यं भवति एव। दशवारं प्रदक्षिणनमस्काराः करणीयाः इति मया उक्तम्। स्वाभिमानी कोऽपि एतादृशं कार्यं कर्तुं नार्हति। प्रदक्षिणं देवस्य क्रियते, न तु जीवतः कस्यचित् पुरुषस्य। राजभक्तिः प्रदर्शनीया इति उद्देशेनअनुचितम् अपमानकरं वा कार्यं कोऽपि राजभक्तः न करोति। कपटाः तु स्वकापट्यगोपनार्थम् अतिविनयं प्रदर्शयन्तः अनौचित्यं न गणयन्ति। ‘अतिविनयः धूर्तलक्षणम्’ इति प्राचीनानाम् उक्तिं जानाति एव भवान्” इति उक्तवान् चन्द्रहासः।

विदूषकस्य वचने युक्तता दृश्यते इति चिन्तयन् राजा गूढचरनायकम् आहूय —“एतौ सम्यक् परीक्ष्य एतयोः मुखात् सत्यं वाचयतु” इति आदिष्टवान्।

गूढचरनायकः तौ अन्यं प्रकोष्ठ नीतवान्। “सत्यं न उक्तं चेतु भवतोः मरणदण्डनं भवेत्। सत्यज्ञानार्थं वयं चित्रहिंसाप्रयोगम् अपि करिष्यामः एव” इति वदन् सम्यक् तर्जयन् तयोः भीतिं जनितवान्। तदा भीतौ तौ स्वस्य जीवोत्तमगृढचरत्वम् अङ्गीकृतवन्तौ।

अनन्तरं राजा सर्वोत्तमः तौ गूढचरौ देशात् बहिष्कृतवान्। चन्द्रहासस्य बुद्धिमत्तां प्रशंसन् अमूल्येन उपायनेन तं सत्कृतवान् च।

अत्याशा

अङगनापुरे पूर्व भूपालः नाम कृषिकः आसीत्। तस्य एकमात्रपुत्रः गजपतिः। गजपतिः कृषिविषये सदापि अनासक्तः भवति स्म। एतेन भूपालः नितरां व्यथितः भवति।

स्वस्य अन्तिमकालः यदा सन्निहितः तदा भूपालः स्वपुत्रं गजपतिं,तदीयं मातुलं नागराजं च स्वसमीपम् आहूय एकं रहस्यविषयम् उक्तवान्। रहस्यं च एवम्—गजपतिः पितुः ऐश्वर्यं भोक्तं केवलम् अर्हति, न तु विक्रेतुम्। एवं मृत्युपत्रं सज्जीकृतम् अस्ति इति।

एतदनन्तरम् अचिरात् एव भूपालः दिवं गतः। अनन्तरं वर्षद्वयं यावत् क्षेत्रे उत्तमं फलं न प्रबृद्धम्। तदनन्तरवर्षे वायोः वृष्ट्याः च आधिक्यम् आसीत्। वायोराधिक्यात् क्षेत्रे हानिः जाता चेत् वृष्टिकारणतः गोसम्पत्तिः प्रवाहेण नीता। बीजार्थं रक्षितं धान्यं नष्टम् अभवत्। अग्रे कृषिः कथम् इति अजानन् गजपतिः मातुलस्य नागराजस्य गृहं गत्वा स्वकीयं कष्टं निवेदितवान्। किञ्चित् ऋणं प्रार्थितवान् च।

तदा नागराजः—“भोः,एतस्मिन् काले कृषितः किमपि प्रयोजनं न सिध्यति। काले वृष्टिः न भवति। व्ययानुगुणम् आयः अपि न प्राप्यते। अतः कृषेः अपेक्षया अपि वाणिज्यम् एव वरम् इति अहं भावयामि। वाणिज्यतः तु लक्षशः रूप्यकाणि सम्पादयितुं शक्यानि” इति सूचितवान्।

“तत् तु समीचीनम् एव। किन्तु वाणिज्यार्थं मूलधनम् आवश्यकं भवति खलु ? तस्य प्राप्तिः कथम्?” इति पृष्टवान् गजपतिः।

“किमर्थं तावती चिन्ता? किम्धनवन्तः केवलं वाणिज्यस्य आरम्भं कुर्वन्ति ? न खलु ? बहवः स्वस्य धनस्य अभावे अपि ऋणं

स्वीकृत्य वाणिज्यस्य आरम्भं कुर्वन्ति” इति उक्तवान् नागराजः।

“ॠणस्वीकरणं तु सुलभम्। किन्तु प्रत्यर्पणं कथम्? मम तु वाणिज्ये न विशेषानुभवः। स्वकीयं धनं चेत् तावती चिन्ता न भवेत्। ऋणरूपेण स्वीकृत्य हानिः अनुभूता चेत् कष्टम् एव खलु ?” इति आतङ्कं प्रकटितवान् गजपतिः।

“ऋणप्रत्यर्पणं न कृतं चेत् किं भवेत् ?”इति हसन् पृष्टवान् नागराजः।

“ऋणं न प्रत्यर्पितं चेत् ऋणदातारः मौनं तिष्ठेयुः वा?” इति पृष्टवान् गजपतिः।

“किं कर्तुं शक्नुयुः ते? भवतः भूम्याः आधारेण तैः?ऋणं दीयते। भूमेः विक्रयणस्य अधिकारः भवतः नास्ति खलु? अतः ते ऋणदातारः भूमिंस्वायत्तीकर्तुं न अर्हन्ति"उक्तवान् नागराजः।

नागराजेन यः वञ्चनामार्गः सूचितः सः गजपतये अपि अरोचत।

अनन्तरं मासाभ्यन्तरे गजपतिः स्वग्रामस्य धनिकतः अन्येभ्यः धनिकेभ्यः च लक्षं रूप्यकाणि ऋणरूपेण स्वीकृत्य वाणिज्यम् आरब्धवान्। गजपतिः ग्रामे कृषिकेभ्यः धान्यं स्वीकृत्य शकटेन नगरं नीत्वा तत्र तत् विक्रीणीते। नगरतः ग्रामोपयोगीनि तिन्त्रिणीतैलादीनि आनीय ग्रामे विक्रीणीते। वाणिज्ये तस्य विशेषानुभुवः नास्ति चेदपि दैवानुग्रहात् तेन वाणिज्यात् विशेषलाभः प्राप्तः एव। ऋणसम्बन्धिवृद्धेः दानस्य अनन्तरम् अपि तस्य हस्ते दशसहस्रं रूप्यकाणि अवशिष्टानि।

इदानीं गजपतेः मनसि दुर्भावना उत्पन्ना। ‘वाणिज्यतः प्रतिवर्षं दशसहस्रं रूप्यकाणि प्राप्यन्ते चेदपि ऋणं समग्रं प्रत्यर्पयितुं दश वर्षाणि आवश्यकानि भवन्ति। अनन्तरम् अपि प्रतिवर्ष दशसहस्रं रूप्यकाणि लाभरूपेण प्राप्तानि चेत् दशसु वर्षेषु लक्षं रूप्यकाणि सञ्चितानि भवेयुः। एवं च लक्षाधिपतित्वं प्राप्तव्यं चेत् विंशतिं वर्षाणि प्रतीक्षणीयम्। एतदपेक्षया ऋणदातॄन् वञ्चयामि चेत् शीघ्रम् एव लक्षाधिपतिः भवेयम्। वाणिज्ये हानिः अभवत् इति ऋणदातॄन् वदामि।ऋणदातारः मत्तः भूमिं

स्वीकर्तुं तु न अर्हन्ति। यतः भूमेः विक्रयणाधिकारः मम नास्ति’ इति आलोचितवान् गजपतिः।

अतः सः दशसहस्रं रूप्यकाणि मातुलस्य नागराजस्य हस्ते दत्तवान्। वाणिज्ये महती हानिः अनुभूता इति ग्रामीणान् ऋणदातॄन् च उक्तवान्। एतत् श्रुत्वा ऋणदातारःझटिति गजपतेः भूमेः स्वायत्तीकरणार्थं प्रयत्नं कृतवन्तः। तदा तैः ज्ञातं यत् भूमेः विक्रयणाधिकारः गजपतेः नास्ति इति। अतः अनन्यगतिकाः ते भूस्वामिनं रामनारायणं प्रवृत्तं सर्वं निवेदितवन्तः।

भूस्वामी रामनारायणः विवादपरिहारे नितरां निपुणः। यदा ऋणदातारः गजपतेः वञ्चनां श्रावितवन्तः तदा भूस्वामी स्वसेवकानां द्वारा गजपतेः वाणिज्यविषये विषयान् सङ्गृहीतवान्। एतेन सः ज्ञातवान् यत् गजपतिः वाणिज्ये लाभं सम्पादितवान् अस्ति इति।

अनन्तरं सः गजपतिम् ऋणदातॄन् च स्वसमीपम् आहूय सर्वेषां सम्मुखं गजपतिं पृष्टवान् —“भवान् एतेभ्यः ऋणं स्वीकृतवान् इत्येतत् सत्यं वा?” इति।

“आं श्रीमन्! ऋणसम्बन्धि व्यवहारपत्रं तेषां समीपे अस्ति एव” इति उक्तवान् गजपतिः।

“भवता वाणिज्ये हानिः अनुभूता वा ?"। इति पृष्टवान् भूस्वामी।

“आम्। अनुभवराहित्यात् महती हानिः अनुभूता श्रीमन्” इति कृत्रिमं खेदं प्रकटयन् उक्तवान् गजपतिः।

“पित्रार्जिता सम्पत्तिः अस्ति इति किलधैर्येण भवान् ऋणं स्वीकृतवान्?” इति पृष्टवान् भूस्वामी।

“आं श्रीमन्” इति उक्तवान् गजपतिः।

“तर्हि पित्रार्जितां सम्पत्तिं विक्रीय ऋणं प्रत्यर्पयतु तावत्” इति सूचितवान् भूस्वामी।

तदा गजपतिः—“श्रीमन्! मम पिता स्वस्य मृत्युपत्रे लिखितवान् अस्ति यत् अहं पित्रार्जितां भूमिं विक्रेतुं न अर्हामि इति। तस्याः अनुभोगार्थं केवलं मम अधिकारः अस्ति, न तु विक्रयणार्थम्अतः भूमिं विक्रेतुं न अर्हामि अहम्” इति वदन् पितुः मृत्युपत्रं

प्रदर्शितवान्।

भूस्वामी रामनारायणः तत् पत्रं दृष्ट्वा प्रत्यर्प्य —“भवतः वचनं सत्यम् एव। पित्रार्जितसम्पत्तेः विक्रयणं कर्तुं भवान् न अर्हति इति तत्र स्पष्टम् उल्लिखितम् अस्ति। किन्तु तां सम्पत्तिं भवान् भाटकार्थं तु दातुम् अर्हति एव। अतः एतां भूमिं भाटकार्थं शतं वर्षाणि यावत् ऋणदातृभ्यः ददातु। भवदनन्तरीयाः तां भूमिं तेभ्यः प्रतिप्राप्स्यन्ति” इति निर्णयं श्रावितवान् भूस्वामी।

तदा दिग्भ्रान्तः गजपतिः—“किम् एतत् श्रीमन्! मम भूमिः दशलक्षाधिकं मूल्यम् अर्हति। तादृशीं भूमिम् ऋणदातृभ्यः शतं वर्षाणि उपभोक्तुं कथं दद्याम् ? किम् एवम् आदेशः न्याय्यः? कृपया पुनः परिशीलयतु” इति दैन्येन प्रार्थितवान्।

तदा भूस्वामी कोपेन पृष्टवान्—“एवं तर्हि लक्षं रूप्यकाणि ऋणदातृभ्यः अयच्छन् भवान् तान् यत् वञ्चयति तत् किं न्याय्यम्? ‘भूमिविक्रयणस्य अधिकारः मम नास्ति इत्यतः मम भूमिं कोऽपि वशीकर्तुं न अर्हति’ इति भावयन् भवान् एवं योजनां कृतवान् अस्ति। सत्यं खलु? एषा योजना स्वमत्या कृता, उत अन्येन सूचिता? अन्येन सूचिता चेत् सः कः?” इति।

गजपतिः गद्गदस्वरेण —“मम मातुलेन एषा योजना सूचिता” इति वदन् प्रवृत्तं समग्रं निवेदितवान्।

तदा भूस्वामी नागराजम् आनाय्य उक्तवान् —“भोः, ज्येष्ठः भवान् भागिनेयं कुटिलोपायं बोधयन् तं वञ्चनार्थं प्रेरयन् अस्ति खलु? गजपतये ये ऋणं दत्तवन्तः तेभ्यः धनं भवता एव दातव्यम्। एषः भवतोः प्रथमः अपराधः इत्यतः दण्डात् मुक्तिः दत्ता” इति।

गजपतिः मातुलस्य हस्ते यत् घनं दत्तवान् आसीत् तेन, अन्येन च धनेन ॠणं समग्रं प्रत्यर्पितम्। किन्तु ततः आरभ्यतौ ‘वञ्चकौ’ इत्येव प्रसिद्धौ जातौ।

अदृश्यकारकं मूलम्

कस्मिंश्चित् ग्रामे पूर्वं कश्चन दुष्टः धनिकः निवसति स्म। महाकृपणः सः। गृहं प्रति याचकानाम् आगमनं दूरात् एव निवारयति स्म सः।

कदाचित् तस्मिन् प्रदेशे भीकरः क्षामः आगतः। एतादृशः क्षामः इतः पूर्वं केनापि न दृष्टः आसीत्। आहाराभावतः निर्धनाः बहुधाः पीडिताः आसन्। धनिकस्य गृहे धान्यसङ्ग्रहः प्रभूतम् अस्ति इति जनाः जानन्ति स्म। अतः ते धनिकसमीपं गत्वा साहाय्यं प्रार्थितवन्तः। किन्तु धनिकः तेषां प्रार्थनां निर्दयं तिरस्कृतवान्।

एतस्मिन् सन्दर्भे कश्चन युवकः अग्रे आगत्य जनान् उक्तवान् यत् अहं धनिकतः धान्यं दापयामि इति। अनन्तरं सः धनिकस्य गृहस्य समीपे स्थिते उद्याने कस्यचित् महावृक्षस्य अधः, निर्निमेषं उपरितनं भागं पश्यन् स्थितवान्।

आकण्ठं भोजनं कृत्वा धनिकः वातायनस्य पार्श्वे स्थित्वा बहिः पश्यन् आसीत्। सः एतं तरुणं दृष्टवान्। तरुणस्य व्यवहारे सन्देहं प्राप्य उच्चस्वरेण पृष्टवान् सः—“अये, कः तत्र? मम उद्याने किं कार्यं भवतः?” इति।

सः तरुणः तु धनिकस्य वचनम् अशृण्वन् इव स्थितवान्। धनिकस्य कोपः प्रवृद्धः। सः गृहात् बहिः आगत्य तं तरुणं पुनः पृष्टवान्—“अये, बधिरः वा भवान् ? अहं पृच्छन् अस्मि— कः भवान्? किमर्थं भवान् अत्र स्थितः अस्ति?” इति।

“विशेषः कोऽपि नास्ति। एकं नीडम् अन्विष्यन् अस्मि। ह्यः अहम् अत्र उपविष्टम् अग्निपक्षिणं दूरात् दृष्टवान्। यदि तस्य नीडःअत्र स्यात् तर्हि भाग्यं फलितम् इत्येव वक्तव्यम्। यतः तस्मिन् नीडे अमूल्यं मूलं

किञ्चन भवति। अहो, तत्र पश्यतु! अग्निपक्षिणः नीडः दृश्यते तत्र!” इति आश्चर्येण उक्तवान् सः तरुणः।

“अमूल्यं मूलम्? कथं भवति तत्? किं प्रयोजनं तेन?” इति कुतूहलेन पृष्टवान् धनिकः।

“तत् मूलं सहस्रवर्षेषु एकवारं पुष्पितं भवति। अनन्तरसहस्रवर्षेषु तत्र फलं दृश्यते। तस्य मूलस्य अल्पे खण्डे अपि अपूर्वा शक्तिः भवति। तस्य मूलस्य भागं शिरसि यः स्थापयति सः अदृश्यतां गच्छति। तं कोऽपि द्रष्टुं न अर्हति। अतः तत् मूलम् अस्ति चेत् अदृश्यतां प्राप्य, यत् इच्छामः तत् कर्तुं शक्नुमः” इति उक्तवान् तरुणः।

तदा धनिकः तं तर्जयन् उक्तवान्—“अये वराक! इतः निर्गच्छतु तावत्” इति।

सः तरुणः परितः पश्यन् धनिकं पृष्टवान्—“अत्र तु कोऽपि न दृश्यते! कं तर्जयन् अस्ति भवान्?” इति।

धनिकः तु द्विगुणितेन कोपेन उक्तवान्—“कम् अन्यं वदामि, ऋते भवतः? एतत् उद्यानं मम। अत्र प्राप्यमाणम् तत् अदृश्यकारकं मूलं ममैव” इति।

“एवं वा? तत् अपूर्वं मूलम् अन्वेष्टुं समर्थः अहं तत् नाशयितुम् अपि शक्नोमि” इति वदन् सः युवकः वेगेन वृक्षम् आरोढुम् उद्युक्तः।

धनिकः उद्वेगेन उक्तवान्—“अये, तिष्ठतु तावत्। भवते पञ्चाशत् रजतनाणकानि दास्यामि। कृपया इतः गच्छतु” इति।

“एतादृशम् अपूर्वं मूलम् अल्पेन मूल्येन विक्रेतुं कथं शक्येत? अन्यच्च धनस्य आवश्यकता नास्ति मम। यदि भवान् पञ्चाशद्गोणीमितानि धान्यानि दद्यात् तर्हि अहम् इतः गच्छेयम्” इति उक्तवान् तरुणः।

अनन्योपायः धनिकः एतत् अङ्गीकृतवान्। पञ्चाशद्गोणीमितानि धान्यानि स्वीकृत्य ततः निर्गतवान् तरुणः। ग्रामे सर्वेभ्यः तानि धान्यानि विभज्य दत्तवान् सः।

धनिकः सेवकानां द्वारा वृक्षे स्थितं नीडम् अधः आनायितवान्। नीडं स्वीकृत्य पत्न्याः समीपं गत्वा गर्वेण पृष्टवान्—“अद्य मया किं कृतम् इति जानाति वा भवती?” इति।

“अहं कथं जानीयाम्? कस्यचित् सम्पत्तिं वशीकृतवान् स्यात् भवान्” इति उक्तवती धनिकपत्नी।

“मया कृतं कार्यं भवत्या कथं ज्ञायेत? अपूर्वं मूलं वशीकृतं मया। एतस्य साहाय्येन प्रभूतं धनं सम्पादयिष्यामि अहम्” इति उक्तवान् धनिकः।

नीडम् आश्चर्येण पश्यन्ती पृष्टवती धनिकस्य पत्नी—“एतत् एव वा भवता प्राप्तम् अमूल्यं वस्तु?” इति। नीडे अप्रयोजकानि मूलानि, तृणानि, शलाकाः च दृष्टानि तया।

“भवती किं जानाति? एतेषु एव तत् अपूर्वं मूलं निहितम् अस्ति। तस्य अन्वेषणं प्रयत्नेन करणीयम्"इति उक्तवान् धनिकः।

अनन्तरम् नीडस्थम् एकं लघुमूलं शिरसि स्थापयित्वा पत्नीं पृष्टवान्—“भवती मां

पश्यति वा?” इति। “भवन्तं सम्यक् पश्यामि अहम्"इति उक्तवती धनिकपत्नी। धनिकः नीडस्थम् अपरं मूलं शिरसि स्थापयित्वा—“भवती मां पश्यति वा?” इति पृष्टवान्। ‘आम्, आम्’ इति औदासीन्येन उक्तवती धनिकपत्नी एवम् एव बहुकालं यावत् प्रवृत्तम्।

अन्ते धनिकस्य पीडनेन खिन्ना धनिकपत्नी असमाधानेन उक्तवती—“इदानीं भवान् न दृश्यते। निर्गच्छतु इतः"इति।

एतत् श्रुत्वा धनिकः चिन्तितवान् यत् अदृश्यकारकं मूलं मया प्राप्तम् इति। स्वस्य भाग्यं बहुमन्यमानः धनिकः तत् मूलं शिरसि केशानां मध्ये गोपयित्वा ततः नगरं प्रति प्रस्थितवान्।

एकत्र कश्चित् सद्योनिर्मितानां खाद्यानां विक्रयणं कुर्वन् आसीत्। धनिकः तस्य समीपं गत्वा खाद्यद्वयं मौनं खादितवान्। अनन्तरं धनम् अदत्त्वा ततः गतवान्। आपणिकः चिन्तितवान् यत् परिचितः एषः धनिकः श्वः धनं दद्यात् इति।

‘अहम् अदृश्यरूपेण गत्वा खादितवान् इत्यतः सः आपणिकः मां न दृष्टवान्। अतः एव सः धनं न पृष्टवान्’इति चिन्तितवान् धनिकः। तस्य धैर्यं प्रवृद्धम्।

तस्मिन् एव मार्गे कश्चन अपरः वणिक् आपणं पिधातुम् इच्छन् वाणिज्येन प्राप्तं धनं गणयन् आसीत्। धनं दृष्टवतः धनिकस्य मनसि तृष्णा उत्पन्ना। सः झटिति अग्रे गत्वा आपणिकस्य हस्ते स्थितानि नाणकानि बलात् स्वीकृतवान्। ‘अदृश्यरूपेण स्थितं मां कोऽपि द्रष्टुं न शक्नोति’ इति धनिकस्य विश्वासः।

आपणिकः चौर्यं कुर्वतः धनिकस्य हस्तं दृढं गृहीत्वा—“चोरः! चोरः! गृह्णन्तु” इति उच्चैः आक्रोशनं कृतवान्। एतत् श्रुत्वा प्रतिवेशिनः आपणिकाः आगत्य धनिकं सम्यक् ताडितवन्तः। एतेन नितरां श्रान्तः व्रणितः च वणिक् महता कष्टेन गृहं प्राप्तवान्।

अनक्षरज्ञः

बहुभ्यः वर्षेभ्यः पूर्वं कश्चन निर्धनः कृषिकः आसीत्। तस्य समीपे एका वृद्धा धेनुः आसीत्। सा धेनुः एव तस्य सम्पत्तिः। सा धेनुः ग्रामे इतस्ततः सञ्चारं कृत्वा स्वस्य उदरं पूरयति स्म।

कदाचित् तया धेन्वा कृषिक्षेत्रे स्थितानि हरितस्यानि दृष्टानि। हरितवर्णेन आकृष्टा सा वृतेः दौर्बल्यम् अन्विष्य वृतिम् अतिक्रम्य क्षेत्रं प्रविश्य सन्तोषेण सस्यानि अखादत्।

तच्च क्षेत्रं भूस्वामिनः। भूस्वामिनः सेवकः सस्यखादनमग्नां धेनुं दृष्टवान्। दण्डम् उन्नीय धावन् आगत्य सः धेनुं सम्यक्ताडितवान्। एतत् ताडनम् आसहमाना सा धेनुः भूमौ पतिता, तत्रैव प्राणान् अत्यजत् च।

जीवनाधारभूतायाः धेन्वाः मरणं दृष्ट्वा कृषिकः तत्पत्नी च नितरां दुःखितौ। कृषिकः भूस्वामिनः गृहं गत्वा दैन्येन प्रार्थितवान्—

“भवतः सेवकः मम धेनुं मारितवान् यत् तदर्थं परिहार धनं दातव्यम्” इति।

“मया धनं दातव्यं वा? दीयते, तिष्ठतु” इति वदन् भूस्वामी सेवकम् आहूय ‘एतं दशभिः कशाताडनैः दण्डयतु’ इति आज्ञापितवान्। सेवकः तथैव कृतवान्। कृषिकःरुदन् गृहं प्रत्यागतवान्।

भूस्वामिगृहे प्रवृत्तं समग्रं श्रुत्वा कृषिकस्य पत्नी उक्तवती—“भूस्वामिना अन्याय्यं कृतं चेत् महाराजः खलु निवेदनीयः? राजा धर्मात्मा इति श्रूयते। अतः तं निवेदयतु। सः योग्यं निर्णयेत्” इति।

राजदर्शनसमये किं प्रवृत्तं, कः व्यवहारः इति लिखित्वा नेतव्यम् आसीत्। किन्तु कृषिकः न अक्षरज्ञः। तत्पत्नी अपि तथैव। अतः तौ एकम् उपायं चिन्तितवन्तौ। कृषिकः एकं काष्ठफलकम् आनीय तस्य उपरि

कृष्णाङ्गारेण स्वकुटीरं, भूस्वामिनः क्षेत्रं, तत्पार्श्वे भूस्वामिनः गृहं, शिथिलां वृतिं, सेवकस्य ताडनेन यत्र धेनुः मृता तत् स्थलम् इत्यादिकं चित्रयित्वा सेवककृतं दण्डताडनं, दश कशाताडनं च रेखाभिः सूचितवान्। सर्वे विषयाः चित्रिताः मया इति तृप्तिम् अनुभूतवान् सः।

काष्ठफलकेन सह कृषिकः राजधानीं प्रति प्रस्थितवान्। अरण्यमार्गे आखेटकः कश्चन तं पृष्टवान्—“कुत्र गच्छन् अस्ति भवान्?” इति।

“महाराजसमीपे मम कश्चन व्यवहारः अस्ति। तं व्यवहारम् एतस्मिन् काष्ठफलके निरूपितवान् अस्मि” इति वदन् काष्ठफलकं प्रदर्शितवान् कृषिकः।

“व्यवहारस्य विषयः कः?” इति कुतूहलेन पृष्टवान् आखेटकः।

“किं वदामि ममदौर्भाग्यम्! अनर्घ्यसम्पत्तिभूता एकमात्रधेनुः भूस्वामिना मारिता” इति दीर्घं निःश्वसितवान् कृषिकः।

अनन्तरं आखेटकेन सह उपविश्य चित्रे लिखितानां चित्राणां तात्पर्यं विस्तरेण निवेदितवान् सः।

एतत्सर्वं श्रुत्वा आखेटकः—“साधु! भवता चित्ररूपेण स्वाभिप्रायः सम्यक् निरूपितः। एतत् चित्रफलकं महाराजाय दर्शयतु। महाराजः निश्चयेन न्यायनिर्णयं करिष्यति” इति उक्त्वा ततः निर्गतवान्। सः आखेटकः एव महाराजः इति न ज्ञातवान् कृषिकः।

कृषिकःराजधानीं प्राप्तवान्। निवेदनमात्रेण अन्तः गन्तुम् अनुमतिः प्राप्ता तेन। कृषिकः अन्तः गतवान्।

विशाले आस्थानभवने राजा सिंहासने उपविष्टः आसीत्। तम् उभयतः द्वादश मन्त्रिणः गाम्भीर्येण उपविष्टवन्तः आसन्। राजा इदानीं राजोचितवेषेण अस्ति इत्यतः अरण्ये दृष्टः एषः एव इति न अभिज्ञातं कृषिकेण।

आस्थानमण्डपं प्रविश्य सर्वान् नमस्कृतवान् कृषिकः। “किमर्थम् आगतवान्?” इति पृष्टवान् कश्चन मन्त्री।

कृषिकः स्वेन आनीतं काष्ठफलकं प्रदर्शयन्—“अत्र मया सर्वं विवृतम् अस्ति। एतत् परिशील्य न्यायदानेन अहम् अनुग्रहणीयः"इति विनयेन निवेदितवान्।

सः मन्त्री फलकस्थानां चित्राणां तात्पर्यम् अजानन्—“कीदृशं निरूपणम् एतत्? किमपि न ज्ञायते"इति वदन् अन्यस्मै मन्त्रिणे तत् फलकं दत्तवान्। अन्ये मन्त्रिणः अपि तत् फलकं परिशीलितवन्तः। “सर्वम् अस्पष्टम्”, “मूर्खस्य चेष्टा एषा”, “मत्यनुगुणं कृत्यम्” इति एकैकः अपि एकैकम् अभिप्रायं प्रकटितवान्।

अन्ते राजा तत् फलकं स्वीकृत्य तत्र स्थितस्य एकैकस्यापि विवरणं क्रमशः पृष्टवान्—“एतत् भवतः कुटीरं वा?” इति।

“आं श्रीमन्!” इति उक्तवान् कृषिकः। “अत्रैव खलु वृतिः पतिता?” इति पृष्टवान् राजा।

“आं तत्रैव” इति उत्तरं दत्तवान् कृषिकः।

“एतत् चित्रं भवतः धेनुं सङ्केतयति खलु?” “एतत् भूस्वामिनः गृहं खलु?” “एषः भूस्वामिनः सेवकः स्यात् खलु?““एषा रेखा सेवककृतं दण्डताडनं सङ्केतयति खलु?” “कशाताडनानि दशभिः रेखाभिः सूचितानि वा?” इति एवं बहून् प्रश्नान् पृष्टवान् राजा। सर्वेषाम् अपि प्रश्नानाम् उत्तरम्—“आम्” इति दत्तवान् कृषिकः।

“सेवकस्य ताडनेन धेनुः मृता। भवता परिहारार्थं भूस्वामी प्रार्थितः। भूस्वामी कशाताडनैः अनुगृहीतवान्। एतत्सर्वं काष्टफलके सङ्केतरूपेण लिखित्वा अत्र आगतवान् भवान्। एवं ननु?“इति पृष्टवान् राजा।

“आं, श्रीमन्। भवता सम्यक् एव ज्ञातम्। एते मन्त्रिणः तु किमपि ज्ञातुं न शक्नुवन्ति। सर्वथा मूर्खाः एते। श्रीमन्! मया न्यायः यथा प्राप्येततथा अनुगृह्णातु कृपया” इति उक्तवान् कृषिकः।

एतत् श्रुत्वा मन्त्रिणः हसितवन्तः।

“भोः,भवान् ग्रामं गच्छतु। अन्याय्यस्य समीकरणार्थं योग्यां व्यवस्थां करिष्यामि अहम्’ इति उक्तवान् राजा।

कृषिकः राजानं कृतज्ञतापूर्वकं नमस्कृत्य स्वग्रामं प्रतिगतवान्। तेनैव सह राजाज्ञा अपि गता।

भूस्वामी कृषिकस्य कुटीरम् आगत्य स्वस्य कृत्यस्य निमित्तं क्षमां प्रार्थितवान्। अनन्तरम् उत्तमं गृहं निर्माय कृषिकाय अर्पितवान्। उत्तमजातीयाः सप्त धेनवः अपि तेन दत्ताः। विशाला कृषिभूमिः अपि दत्ता।

एवं, सेवकेन कृतं धेनुमारणं समर्थयन् भूस्वामी कृषिकं कशया यत् ताडितवान् तस्य फलं स्वयम् अनुभूतवान्।

एतस्य प्रकरणस्य समाप्तेः अनन्तरम् अपि कृषिकस्य मनसि काचित् समस्या जागर्ति स्म एव—“बुद्धिमान् राजा किमर्थं वा स्वस्य आस्थाने मूर्खान् मन्त्रिणः पोषयन् अस्ति” इति।

अन्धं शासनम्

करीम् नगरस्य समीपे पूर्वं षकूरः नाम कश्चन निर्धनः निवसति स्म। कस्य काचित् इच्छा आसीत् यत् महाराजस्य आस्थाने अल्पः उद्योगः प्राप्तव्यः इति। अतः सः राजधानीं गतवान्। किन्तु महता प्रयत्नेन अपि सः उद्योगं प्राप्तुं न शक्तवान्। तेन बहूनि आवेदनपत्राणि प्रेषितानि। किन्तु तानि सर्वाणि व्यर्थानि अभवन्।

अन्ते षकूरः एकम् उपायं चिन्तितवान्। सः लोहकारद्वारा एकां मुद्रां कारितवान्। अनन्तरं प्रधानन्यायास्थानस्य पुरतः उपविष्टवान्। न्यायालय प्रति ये आवेदनपत्राणि नयन्ति तान् एषः वदति—‘एतां मुद्राम् अङ्कयित्वा आवेदनपत्रम् अन्तः नेतव्यम्, मुद्राङ्कनार्थम् एकम् आणकं दातव्यं च’ इति। जनाः तु षकूरद्वारा मुद्राम् अङ्कयित्वा आवेदनपत्रम् अन्तः नयन्तिस्म। न्यायालये स्थिताः अधिकारिणः भावयन्ति स्मं यत् महाराजेन एषा व्यवस्था कृता स्यात् इति। अतः ते विना वचनं तया मुद्रया युक्तं जनानाम् आवेदनपत्रं स्वीकुर्वन्ति स्म। कदाऽपि कोऽपि अधिकारी न चिन्तितवान् यत् एषा मुद्रा केन अङ्क्यते, किमर्थं वा अङ्क्यते इति।

एवम् अचिरात् एव षकूरः प्रभूतं धनं सम्पादितवान्। कदाचित् तस्य मनसि भीतिः उत्पन्ना यत् यदि मया क्रियमाणं महाराजः जानीयात् तर्हि मम शिरच्छेदः स्यात् इति। अतः सः अपरम् उपायं चिन्तितवान्।

अनन्तरदिनतः मुद्राङ्कनार्थं सः आणकद्वयं स्वीकर्तुम् आरब्धवान्। एवं प्राप्ते धने अर्धं भागं स्वयं स्थापयन् अवशिष्टं भागम् अन्यस्मिन् स्यूते सङ्गृह्णाति स्म सः।

एवं दश वर्षाणि अतीतानि। कदाचित्

उदरवेदनाकारणतः षकूरः न्यायालयस्य पुरतः स्थितं स्वस्य मुद्राङ्कनस्थानं गन्तुं न `शक्तवान्। अतः तस्मिन् दिने आगतेषु आवेदनपत्रेषु मुद्रा न दृश्यते स्म। “एतेषाम् उपरि मुद्रा नास्ति। अतः एतेषां पञ्जीकरणम् अशक्यम्” इति उक्तवन्तः लिपिकाराः। मुद्रायाः अङ्कयिता तत्र नास्ति इति उक्तवन्तः जनाः। तथापि लिपिकाराः आवेदनपत्राणां पञ्जीकरणं न कृतवन्तः। ज्येष्ठैः अधिकारिभिः एषा वार्ता ज्ञाता। ‘का सा मुद्रा? केन अङ्क्यते?’ इति विचारणा आरब्धा।

परिशीलनात् ज्ञातं यत् मुद्रायाम् —‘अन्धं शासनम्, अनुमन्यते सर्वम्,षकूरमुद्रा’इति अक्षराणि दृश्यन्ते स्म। एषा सर्वकारीया मुद्रा न इति ज्ञातम् अधिकारिभिः।

अधिकारिणः एतां वार्तां वार्तां राजानं निवेदितवन्तः। ‘षकूरम् अविलम्बेन आनयन्तु’ इति आज्ञापितवान् राजा। भटाः षकूरम् आनीय राज्ञः पुरतः उपस्थापितवन्तः।

‘एवं कदाचित् प्रवर्तेत एव’ इति जानाति स्म षकूरः। अतः सः राज्ञः समीपं गमनसमये पृथक् स्थापितं धनस्यूतं स्वीकृत्य एव गतवान् आसीत्।

राजा षकूरं दृष्ट्वा कोपेन पृष्टवान्—“अये, कः भवान् ? मुद्राङ्ककः भवान् एव वा ? मुद्राङ्कनाधिकारः केन दत्तः भवते? कदा आरभ्य एवं कुर्वन् अस्ति?” इति।

षकूरः पूर्वं प्रवृत्तं समग्रं विस्तरेण निवेद्य —“प्रभो, प्रतिमुद्रं मया कश्चन भागः पृथक् स्थापितः आसीत्। तेन रूपेण ३० सहस्रं रूप्यकाणि सङ्ग्रहीतानि। एतानि स्वीकरोतु” इति उक्तवान्।

षकूरस्य परिस्थितिं चातुर्यं च सम्यक् अवगत्य राजा सन्तुष्टः सन् तं तस्मिन् एव उद्योगे नियोजितवान्। किन्तु मुद्रायां स्थितम् ‘अन्धम्’ इति शब्दम् अपसारितवान्। एषा षकूरमुद्रा अनन्तरं दीर्घकालं यावत् व्यवहारे आसीत्।

अन्यथाभावः

सवितृपुरनामके ग्रामे कृष्णकान्तः नाम कश्चन हरिकथाकारः आसीत्। हरिकथासन्दर्भे श्रीहरिः, गणपतिः, चन्द्रनाथः इति त्रयः स्ववाद्यैः तस्य साहाय्यं कुर्वन्ति स्म। कृष्णकान्तस्य हरिकथा समीपस्थेषु सर्वेषु ग्रामेषु प्रसिद्धा आसीत्।

कृष्णकान्तः एकस्याः हरिकथायाः निमित्तं सार्धैकशतं रूप्यकाणि स्वीकरोति। कदाचित् सन्तुष्टाः भक्ताः अधिकं धनं यच्छन्ति कृष्णकान्ताय। हरिकथायाः अन्ते नीराजनं भवति खलु ? तत्समये अपि भक्ताः नाणकानि समर्पयन्ति। एवम् अन्यान्यैः प्रकारैः धनं प्राप्यते चेदपि कृष्णकान्तः श्रीहरिप्रभृतिभ्यः अल्पम् एव वेतनं ददाति।

कदाचित् कृष्णकान्तः कार्यनिमित्तं गृहात् निर्गतवान्। एतादृशे समये श्रीहरिप्रभृतयः तदीयं गृहम् आगतवन्तः। तत्पत्नीम् अचलाम्बाम् उक्तवन्तः च—“अम्ब! कृष्णकान्तवर्यस्य हरिकथायाः प्रशंसां जनाः यत् कुर्वन्ति तस्य कारणं कृष्णकान्तवर्यः केवलं न। वयं यत् सहकुर्मः तदपि तत्र कारणम्। किन्तु हरिकथातः यत् धनं प्राप्यते तस्य अधिकं भागं स्वयं स्थापयन् अत्यल्पं भागम् अस्मभ्यं यच्छति” इति।

तेषां वचनं श्रुत्वा अचलाम्बा सहानुभूतिपूर्वकम् उक्तवती—“भवतां कष्टम् अवगन्तुं शक्नोमि अहम्। किन्तु अप्रियं किमपि तं वदामः चेत् सः क्रुद्धः भवति। अतः किं वा कर्तुं शक्यते ?” इति।

“अम्ब! वयम् अपि एतत् जानीमः एव। बहुभ्यः वर्षेभ्यः अस्माभिः साहाय्यं दीयमानम् अस्ति। इदानीं वयम् एतां वृत्तिं परित्यज्य अन्येन शारीरकश्रमेण जीवननिर्वहणं कर्तुं न अर्हामः। अतः अस्माकं वेतनं किञ्चित् वा

वर्धनीयम् एव” इति उक्तवन्तः ते त्रयः।

तदा अचलाम्बा क्षणकालम् आलोच्य उक्तवती—“अस्तु तावत्। योग्ये समये भवतां निवेदनं श्रावयिष्यामि। भवन्तः निश्चिन्ताः भवन्तु” इति।

तस्मिन् दिने सायं यदा कृष्णकान्तः प्रत्यागतः तदा अचलाम्बा पार्श्ववाद्यवादकानां निवेदनं श्रावयित्वा उक्तवती —“हरिकथातः यावत् प्राप्यते तत्र तेभ्यः न्याय्यस्य भागस्य दानम् उचितं स्यात् खलु?” इति।

एतादृशं वचनं श्रुत्वा कृष्णकान्तः नितरां क्रुद्धः। सः क्रोधेन एव पत्नीम् उक्तवान्—“किम् उचितं, किम् अनुचितं, किं करणीयं, किं न करणीयम् इति अहं सम्यक् जानामि। भवती मध्ये मा प्रविशतु” इति।

कानिचन दिनानि अतीतानि। कृष्णकान्तः योग्यं वरम् अन्विष्य स्वपुत्र्याः विवाहं सवैभवं निर्वर्तितवान्। एतदनन्तरम् पुनः अल्पे एव काले उत्तमां भूमिम् अपि क्रीतवान्। एवं स्वयं तु यथेष्टं व्ययं करोति। किन्तु पार्श्ववाद्यवादकेभ्यः श्रीहरि-गणपति-चन्द्रनाथेभ्यःवेतनं किञ्चिदपि अधिकं न ददाति। एतत् अन्याय्यं सोढुम् अशक्नुवन्तः श्रीहरिप्रभृतयः हरिकथानिमित्तं साहाय्यं निराकृतवन्तः।

साहाय्यनिराकरणस्य कारणं ज्ञातुम् इच्छन् कृष्णकान्तः सर्वप्रथमं कृष्णकान्तस्य गृहं गतवान्। तत्समये श्रीहरिः गृहे न आसीत्।

श्रीहरेः पत्नी कृष्णकान्तम् अन्तः उपवेश्य—“एषु दिनेषु भवान् अत्र न आगतः एव। मम पतिः तु हरिकथावाद्यवादने मग्नः सन् कुटुम्बचिन्ताम् एव परित्यक्तवान् अस्ति। अस्माकं पुत्री प्राप्तवयस्का अस्ति। विना विलम्बं तस्याः विवाहः निर्वर्तनीयः” इति वदन्ती स्वपरिवारस्य कष्टकरीं परिस्थितिं विस्तरेण निवेदितवती।

तत्सर्वं श्रुत्वा कृष्णकान्तः ततः गणपतेः गृहं प्राप्तवान्। गणपतेः पत्नी अस्वस्था सती शय्याम् आश्रितवती आसीत्। गणपतेः पुत्रः पञ्चदशवर्षीयः कृष्णकान्तम् आक्षेपस्वरेण

उक्तवान्— “मम पितुः अनवधानतः मम माता एवं चिरकालतः शय्याम् आश्रितवती अस्ति। योग्या चिकित्सा व्यवस्थापनीया। किन्तु तदर्थं धनं नास्ति। अस्माकम् अनुरोधस्य कारणतः अद्य पिता ऋणप्राप्त्यर्थं पार्श्वस्थं ग्रामं गतवान् अस्ति"इति।

कृष्णकान्तः कानिचन सान्त्वनवचनानि उक्त्वा ततः चन्द्रनाथस्य गृहं गतवान्। चन्द्रनाथः गृहस्य पुरतः जीर्णे कटे विषण्णवदनः सन् उपविष्टवान् आसीत्। कृष्णकान्तं दृष्ट्वा सः कोपेन उक्तवान्—“आर्थिकदुर्दशायाः कारणतः मम गृहे एतादृशी परिस्थितिः। दैनन्दिनभोजनार्थम् अपि कष्टम् अनुभवन्तः स्मः वयम्। मम पत्नीपुत्रादयः प्रतिदिनम् अपि अश्रुभिः हस्तं क्षालयन्तः सन्ति। इतः परम् अहं भवता सह ग्रामं ग्रामं गन्तुं न शक्नोमि। अहं दुर्बलः वृद्धः च। भवता सह अटनार्थं मम शरीरसामर्थ्यं नास्ति” इति।

“एवं वा?” इति वदन् कृष्णकान्तः हसितवान्। ततः स्वगृहं गतवान् च। अनन्तरदिने सः श्रीहरिं,गणपति,चन्द्रनाथं च स्वगृहम् आनायितवान्। ग्रामप्रमुखाः अपि तत्र उपस्थिताः आसन्। अनन्तरं तान् त्रीन् अपि उक्तवान् कृष्णकान्त—“भवन्तः मद्विषये भवताम् अभिप्रायं निस्सङ्कोचं प्रकटयन्तु” इति।

श्रीहरिप्रभृतयः कृष्णकान्तं परमकृपणं वदन्तः कठोरैः वचनैः निन्दितवन्तः।

एतदनन्तरं कृष्णकान्तः गृहस्य अन्तः

गत्वा त्रीन् धनस्यूतान् स्वीकृत्य बहिः आगतवान्। तेषां त्रयाणां पुरतः स्थापयित्वा उक्तवान्—“भवन्तः माम्अन्यथा भावितवन्तः। वस्तुतः अहं न्यूनं वेतनं दत्तवान् इति तु सत्यम् एव। किन्तु तत्र कारणम् अस्ति। धनविषये मम यादृशी नियन्त्रणशक्तिः अस्ति तादृशी शक्तिः भवतां नास्ति। एतत् जानन् अहं वेतनस्य अर्धं भागं केवलं दत्तवान्। मया पूर्णं धनं दत्तं चेदपि भवन्तः तत् कथमपि व्ययीकृतवन्तः स्युः। अतः एव प्रतिमासम् अर्धं भागं दत्त्वा अवशिष्टम् इदानींयच्छन् अस्मि” इति।

“भवता यत् उक्तं तत् सत्यम् एव। यावत् प्राप्तं तावतः व्ययः अस्माकं स्वभावः” इति उक्तवान् श्रीहरिः।

कृष्णकान्तः धनस्य स्यूतं तेभ्यः समर्प्य उक्तवान्—“अहम् इदानीम् एकैकस्मै अपि दशसहस्रं रूप्यकाणि दत्तवान् अस्मि। वयं सर्वे वृद्धाः सञ्जाताः स्मः। अतः अद्य आरभ्य अस्माकं विश्रान्तिजीवनं भवतु। मया इदानीं यत् धनं दत्तं तेन भवतां गृहस्य समस्याः परिहृताः भवेयुः। तथापि इतः परं कदाचित् यदि किमपि साहाय्यम् अपेक्षितं स्यात् तर्हि निस्सङ्कोचं मम समीपम् आगच्छन्तु। अहं यथाशक्ति साहाय्यं करिष्यामि” इति।

कृष्णकान्तस्य वचनं श्रुत्वा आनन्दाश्रूणि स्रावयन्तः श्रीहरिः,गणपतिः,चन्द्रनाथश्च कृष्णकान्तं साष्टाङ्गं नमस्कृतवन्तः। क्षमां प्रार्थयन्तः ते उक्तवन्तः—“श्रीमन् ! अविचार्य अस्माभिः यत् व्यवहृतं तदर्थं क्षन्तव्याः वयम्"इति।

तावता तत्र उपस्थितः कश्चन वृद्धः उत्थाय उक्तवान्—“पूर्वं वेतनदाने कृपणता प्रदर्शिता कृष्णकान्तेन। किन्तु इदानीं श्रीहरिप्रभृतिभिः वार्धक्ये अमृतोपमं फलं प्राप्तम्। नितरां श्लाघनीयः कृष्णकान्तः” इति।

एतत् श्रुत्वा “आम्,आम्” इति वदन्तः तत्र उपस्थिताः सर्वे सन्तोषेण शिरः चालितवन्तः।

अपराधान्वेषणम्

मलयवतीनगरे सर्वविधैः आनुकूल्यैः युक्ता काचित् धर्मशाला आसीत्। सा सुविशाला अपि आसीत्। अतः राजधानीम् आगतैः जनैः सा सदाऽपि पूर्णा भवति स्म।

कदाचित् वीरभद्रः नाम धनिकः कस्यचित् कार्यस्य निमित्तं राजधानीम् आगतः तस्यां धर्मशालायां वसतिं कृतवान्। एतस्मिन् सन्दर्भे तदीयम् एकं सुवर्णकङ्कणं केनापि चोरितम्। धनिकः पार्श्वप्रकोष्ठनिवासिनः पृष्ट्वा, तेषु केनापि तत् न प्राप्तम् इति ज्ञात्वा अन्ते धर्मशालास्वामिनं चौर्यविषयं निवेदितवान्।

शिवस्वामी नाम सेवकः प्रकोष्ठवासिनां परिचर्यार्थं नियुक्तः आसीत्। धर्मशालास्वामी शिवस्वामिनं स्वसमीपम् आहूय—“भवता कङ्कणं कुत्रापि दृष्टं वा? परिचर्यार्थं भवान् अत्रैव अटन् भवति खलु? अतः भवन्तं पृच्छामि"इति उक्तवान्।

एतत् श्रुत्वा शिवस्वामी आश्चर्यं प्रकटयन्—“मया कङ्कणं कुत्रापि न दृष्टम्। तद्विषये अहं किमपि न जानामि” इति उक्तवान्।

शिवस्वामिनः वस्त्रेषु प्रकोष्ठे गृहे च अन्वेषणं कृतम्। किन्तु किमपि न लब्धम्। ‘वीरभद्रः यस्मिन् प्रकोष्ठे निवसति तस्य प्रकोष्ठस्य अवेक्षकः शिवस्वामी एव आसीत्। तत्र अन्यः कोऽपि आगन्तुं नार्हति। चौर्यं शिवस्वामिना एव कृतं स्यात्। अहं न जानामि इति वदन् सः चौर्यं गोपयन् अस्ति, तावदेव’ इति विचिन्त्य शिवस्वामिनं राजभटाधीनं कृतवान् धर्मशालास्वामी। राजभटाः तं बद्ध्वा विचारणार्थं राजसमीपं नीतवन्तः।

भटानां मुखतः प्रवृत्तं समग्रं ज्ञातवान् राजा शिवस्वामिनं पश्यन् उक्तवान्—“अये !

जनरहिते सन्दर्भे सुवर्णस्य कङ्कणस्य दर्शनात् लोभं प्राप्य भवान् चौर्यं कृतवान् स्यात्। तत् कङ्कणम् अन्यत्र कुत्रापि रहसि स्थापितवान् अपिस्यात्। भवते दशनिमेषात्मकः अवधिः दीयते। तदभ्यन्तरे भवता अपराधः अङ्गीकरणीयः। तथा कृतं चेत् भवान् क्षमायाः पात्रं भवष्यिति। भवन्तं दण्डनात् मोचयिष्यामि” इति।

किन्तु शिवस्वामिनः तु पूर्ववत् एव उत्तरम्—“अहं किमपि न जानामि” इति।

राज्ञः आस्थाने वाक्चतुरः विदूषकः कश्चित् आसीत्। सः यथा जनरञ्जने समर्थः तथैव वाक्चातुर्यबलात् शठस्य मुखात् सत्यस्य निस्सारणे अपि समर्थः एव। अतः राजा एतत्सन्दर्भे विदूषकः एव शरणम् इति भावयन् विदूषकं साकूतं दृष्टवान्।

विदूषकःआसनात् उत्थाय शिवस्वामिनः समीपे स्थित्वा पृष्टवान्—“धनिकः वीरभद्रः धर्मशालां कदा आगतवान्?” इति।

“त्रिभ्यः दिनेभ्यः पूर्वम्” इति उत्तरं दत्तवान् शिवस्वामी।

“तेन धृतं सुवर्णकङ्कणं कीदृशम् आसीत्?“इति पृष्टवान् विदूषकः।

“अहं न जानामि” इति उक्तवान् शिवस्वामी।

“भवतः ऋते अन्यः कोऽपि तं प्रकोष्ठं न प्रविशति। एतत् सत्यं खलु?“इति पृष्टवान् विदूषकः।

“आम्” इति उत्तरं दत्तवान् शिवस्वामी। “धनिकः वीरभद्रः सुवर्णकङ्कणं सर्वदा धरति स्म, उत भोजन-स्नान-निद्रादिसमये पार्श्वे स्थापयति स्म?” इति पृष्टवान् विदूषकः।

“तत् सुवर्णकङ्कणं कीदृशम् इत्येव न जानामि खलु अहम्” इति उक्तवान् शिवस्वामी।

अनन्तरम् अपि विदूषकः बहुविधान् प्रश्नान् पृष्टवान्। किन्तु तेन किमपि प्रयोजनं न सिद्धम्।

अन्ते विदूषकः महाराजम् उक्तवान्—“प्रभो! एषः कर्मकरः चोरः न। यतः यः अपराधं करोति तस्य हृदये कोणे कुत्रापि अधैर्यं तिष्ठति एव। किन्तु एतस्य व्यवहारे

तादृशं न दृष्टम्। एषः निर्दोषी इत्यत्र नास्ति संशयः” इति।

विदूषकस्य वचनं श्रुत्वा राजा मन्दहासपूर्वकम् उक्तवान्—“यदि एषः नटनाचतुरः भवेत् तर्हि दोषं सर्वथा गोपयन् समर्थतया अभिनेतुम् अर्हति खलु?” इति।

“आं प्रभो,मुखे कटु स्थापयित्वा यः मधुरखादनम् अभिनयति सः नटाग्रेसरः एव भवेत्। तादृशः सहस्रं दोषान् कृतवान् स्यात् चेदपि सम्माननार्हः एव। ‘एषः शिवस्वामी वास्तविकतया चौर्यं कृत्वा निर्दोषित्वम् अभिनयन् अस्ति’ इत्येतत् प्रमाणितं भवति चेत् एषः सम्माननम् अर्हति, न तु दण्डनम्। तथा चेत् सुवर्णकङ्कणदानेन एषः सत्करणीयः। आस्थाननटमण्डल्याः नायकस्थाने एषः नियोजनीयः च” इति उक्तवान् विदूषकः।

राजा अङ्गीकारपूर्वकं शिरः चालितवान्। तदा शिवस्वामी राजानं विनयेन नमस्कुर्वन्—“दोषी सन यः निर्दोषित्वं समर्थतया अभिनयति तस्य सम्माननं क्रियते वा? तस्य दण्डनं न क्रियते वा? तर्हि अहम् अस्मि तादृशः। यद्यहं निश्चिनोमि तर्हि यं कमपि भावं गोपयितुं शक्नोमि। गोपितं भावं ज्ञातुं ब्रह्मा अपि न शक्नोति” इति वदन् चौर्यम् अङ्गीकृत्य कङ्कणं यत्र स्थापितं तंत् स्थलम् अपि सूचितवान्।

तदा विदूषकः करताडनपूर्वकं महाराजम् उक्तवान्—“प्रभो! सत्यं निर्गतं पश्यतु, मुखात्। मधुलिप्तः खड्गः इव एषः। एतादृशाः लोके तिष्ठन्ति चेत् सदापि अपायः भवेत् एव। आजीवनकारागारवासरूपेण दण्डनेन एषः सत्करणीयः” इति।

“किम् इदम्? मनसि एकं वचसि अन्यत् ? ….” इति क्रोधेन किमपि वक्तुम् उद्युक्तः शिवस्वामी। किन्तु तदभ्यन्तरे राजभटाः आगत्य तं कारागारं प्रति आकृष्य नीतवन्तः।

विदूषकस्य चातुर्यं दृष्ट्वा महान्तं सन्तोषम् अनुभवन् राजा तं विशेषतः सत्कृतवान्।

आत्मज्ञानम्

कश्चन कृषिकः सस्यसमृद्धं स्वस्य क्षेत्रं रक्षन् आसीत्। कश्चन संन्यासी तेन मार्गेण आगत अनन्तरं सः कृषिकः संन्यासी च विश्रान्त्यर्थं वृक्षस्य अधः उपविष्टवन्तौ।

संन्यासी कृषिकं उक्तवान्—“एतत् क्षेत्रं भवतः एव खलु? फलसमृद्धिः सम्यक् स्यात् खलु?वृष्टिः समये भवेत् इति भाति” इति।

तदा कृषिकः उक्तवान्—“श्रीमन्! फलं यदा हस्तगतं भविष्यति तदा एव ज्ञायते—फलसमृद्धिः अस्ति उत न इति। यतः वृष्टिः कदा कीदृशी भवेत् इति न ज्ञायते खलु केनापि? तदस्तु, कं प्रदेशम् उद्दिश्य भवतः प्रयाणम्?“इति।

संन्यासी दूरात् दृश्यमानं पर्वतं पश्यन् सनिःश्वासम् उक्तवान्—“तस्मिन् पर्वते कश्चन सिद्धपुरुषः अस्ति इति श्रूयते। ततः आत्मज्ञानं प्राप्तुं तत्र गच्छन् अस्मि। इतः पूर्व मया त्रयः गुरवः सेविताः। किन्तु कस्माच्चित् अपि आत्मज्ञानं न प्राप्तम्। इदानीम् अपि न जाने, आत्मज्ञानं प्राप्येत वा न वा इति” इति।

तदा कृषिकःहसन्—“श्रीमन्! चत्वारिंशद्वर्षेभ्यः कृषिकार्यं कुर्वन् अस्मि। जन्मनः आरभ्य वृष्टिं पश्यन् अस्मि। एवं सुदीर्घः स्वानुभवः अस्ति चेदपि, कदा कीदृशी वृष्टिः स्यात्, कीदृशं फलं प्राप्येत इति निश्चयेन वक्तुं न शक्नोमि। भवान् तु अन्येन प्राप्तस्य अनुभवस्य आधारेण आत्मज्ञानं प्राप्तुं प्रयतमानः अस्ति। अतः भवता साफल्यं कदा प्राप्येत इति मया तु न ज्ञायते” इति उक्तवान्।

एतत् वचं श्रुतवति संन्यासिनि ज्ञानम् उदितम्। ‘आत्मज्ञानं स्वप्रयत्नेन एव प्राप्तव्यम्’ इति निश्चित्य सः कृषिकं कृतज्ञतावचनानि उक्त्वा अन्यस्यां दिशि निर्गतवान्।

उषादेवी

जगत्सृष्टेः आरम्भे जलमध्यंतः भूमिः उपरि आगता। भूमौ जीवप्रपञ्चः उद्भूतः। किन्तु सूर्यस्य अभावतः लोके सर्वत्र तापस्य अभावः।

प्राणिनः सर्वे अन्धकारे एवं जीवनं यापयन्ति स्म। अन्धकारः क्रूरजन्तूनां साहाय्यकं भवति स्म। अतः जनाः तैः जन्तुभिः नितरां पीडिताः भवन्ति स्म। प्रकाशस्य अभावतः जनाः कार्यं न कुर्वन्ति स्म। शरीरश्रमस्य अभावतः विविधैः रोगैः पीडिताः भवन्ति स्म। एवं मानवानां जीवनं सर्वथा कष्टकरम् आसीत् तदा।

एवम् एव कालः गतः। कदाचित् कश्चन,ज्ञानी जनान् मेलयित्वा उक्तवान्—“जगत् सृष्टवान् ब्रह्मा सूर्यम् अपि सृष्टवान् इति अहं भावयामि। दिगन्ते प्रकाशः दृश्यते यत् तदत्र प्रमाणम्। यदि वयं तं सूर्यभगवन्तं प्रार्थयेम तर्हि सः प्रकाशदानेन अस्मान् अनुगृहणीयात् एव। तदां प्रकाशः,तापः च लभ्यते। क्रूरमृगाणां पीडा न्यूना भविष्यति। अस्मासु अपि नवोत्साहः उत्पद्यते। आरोग्यं चापि वर्धते। किन्तु सूर्यसमीपं गत्वा अस्माकं निवेदनं कः श्रावयेत् ?” इति।

ज्ञानिनः विचारः सर्वेभ्यः अरोचत। एतादृशेन कार्येण हितं सेत्स्यति इति ते ज्ञातवन्तः। किन्तु तावद्दरं गन्तुं कस्यापि धैर्यं नास्ति।

तदा षष्टिवर्षीयः वृद्धः उत्थाय उक्तवान्—“मित्राणि, अहं तु अन्तिमे वयसि अस्मि। मम स्थित्या कस्यापि किमपि विशेषप्रयोजनं न भवति। अतः अहं भगवतः सूर्यस्य समीपं गत्वा कार्यं साधयित्वा प्रत्यागमिष्यामि। मम पादयोः इतोऽपि शक्तिः अस्ति एव” इति।

तदा कश्चन युवकः उत्थाय उक्तवान्—“तात ! वृद्धाः एतत् कार्यं साधयितुं न अर्हन्ति। प्रयाणं कदा समाप्येत इति कोऽपि न जानाति। तरुणस्य मम तु शरीरसामर्थ्यम् अधिकम्। प्रयाणे आगतानि कष्टानि सोढुम् अपि समर्थः अहम्। अतः अहम् एव गमिष्यामि"इति।

तावता कश्चन बालः उत्थाय उक्तवान्—“एतस्य कार्यस्य साधनार्थं बहूनि वर्षाणि आवश्यकानि। अहम् इदानीं दशवर्षीयः। यदि भवन्तः मां प्रेषयेयुः तर्हि वार्ध्यक्यसमये वा अहं सूर्यं द्रष्टुं शक्नुयाम्। एतादृशं दीर्घं प्रयाणं कर्तुं भवत्सु कस्यापि वयोर्हता अस्ति"इति।

तदा जनानां मध्यतः विंशतिवर्षीया तरुणी उत्थाय उक्तवती—“अत्र शृण्वन्तु सर्वे। एतत्कार्यम् एकेन आयुर्मानेन समाप्येत इति मम तु न भाति। अतः अहम् एव प्रस्थानं करोमि। मया भगवान् भास्करः द्रष्टुं न शक्यः। किन्तु अहं गर्भवती अस्मि। मार्गे मम पुत्रः उत्पत्स्यते। तम् एतस्मिन् कार्ये नियोजयिष्यामि। अतः कृपया अनुमतिदानेन अहम् अनुग्रहीतव्या” इति।

एवम् उक्तवत्याः नाम उषादेवी इति। तस्याः विचारः सर्वैः अङ्गीकृतः।

प्रयाणार्थम् उद्युक्ता सा जनान् उक्तवती— “अहं यस्यां दिशि गच्छन्ती अस्मि ताम् एव दिशं पश्यन्तः तिष्ठन्तु भवन्तः। यदा कार्यं सेत्स्यति तदा अहं महान्तम् अग्निंज्वालयिष्यामि।पुत्रद्वारा कारयिष्यामि वा।

तस्य अग्नेः ज्वालया भवद्भिः ज्ञातव्यं यत् भगवतः सूर्यस्य अनुग्रहः जातः इति” इति।

`सा ततः प्रस्थितवती। ततः प्रस्थाय अष्टमे मासे एकं पुत्रं प्रसूतवती सा। पुत्रेण सह अग्रे गता सा। एवं प्रमाणम् अनुवृत्तम्। यदा बालः चलितुं समर्थः जातः तदा सः अपि मात्रा सह पदानि स्थापितवान्।

एवं सप्ततिः वर्षाणि अतीतानि। उषादेवी इदानीं वृद्धा। सा पुत्रम् उक्तवती—“वत्स ! इतोऽपि अग्रे अहं पदानि स्थापयितुं न शक्नोमि। अग्रिमं प्रयाणं भवता एकाकिना करणीयम्। यदा सूर्यस्य अनुग्रहः भविष्यति तदा महता परिमाणेन अग्निं ज्वालयतु। तेन अस्माकं जनाः सन्तुष्टाः भविष्यन्ति। लोकहितकरस्य कार्यस्य साधनेन भवान् अपि पुण्यं प्राप्स्यति” इति।

उषादेव्याः गमनानन्तरं शतं वर्षाणि अतीतानि। जनाः तु प्रतिदिनम् अपि तया यस्यां दिशि गतं, तां दिशं कातरतया पश्यन्ति।

कदाचित ते तस्यां दिशि अरुणां कान्तिं दृष्टवन्तः। जनाः अत्यानन्देन नृत्यं कुर्वन्तः उद्घोषितवन्तः—“तत्र पश्यन्तु ! उषादेवी कार्यं साधितवती एव !” इति !

ततः अल्पे एव काले भगवान् भास्करः अपि उदितः। जनैः प्रकाशः,औष्ण्यं च प्राप्तम्। सूर्यस्य अनुग्रहतः जनाः आरोग्यम् अपि प्राप्तवन्तः।

उषादेवी यस्यां दिशि गतवती सा एव पूर्वा दिक्। जनाः इदानीम् अपि तां दिशं पश्यन्ति। उषःकालस्य प्रतीक्षां कुर्वन्ति ते। उषःकालः आसन्नः चेत् उत्थाय दैनन्दिनकार्याणाम् आरम्भं कुर्वन्ति।

उषादेवी लोकहितार्थम् आत्मनः जीवनं समर्पितवती। एवं जीवनं समर्पयन्ती सा बोधयति यत् सर्वैः लोकहितकार्यार्थम् स्वयम् उद्युक्तैः भवितव्यम्, तादृशं कार्यं कदाचित् एकेन आयुर्मानेन सिद्धं न भवेत्,तथापि प्रयत्नः तु न परित्यक्तव्यः इति।

औदार्यम्

द्विसहस्रात् वर्षेभ्यः पूर्वं चीनादेशे सो-पू-तावूनामकः कश्चन वृद्ध आसीत्। सः प्रख्यातः पण्डितः आसीत्। किन्तु सः सर्वथा निर्धनः। यदि राजा, कश्चित् धनिकः वा तदीयं पण्डित्यं दृष्ट्वा सत्कृतवान् स्यात् तर्हि तस्य दारिद्र्यम् अपगच्छेत्। किन्तु तादृशं भाग्य न प्राप्तम् एतेन।

दूरस्थस्य चूराज्यस्य राजा पण्डितान् विशेषादरेण पश्यति स्म। स्वयं सः अपि पण्डितः आसीत्। ‘तस्य राज्ञः समीपं गत्वा पाण्डित्यं प्रदर्श्य सम्माननं प्राप्नोतु’ इति बहवः तावूम् उक्तवन्तः। हितचिन्तकानां वचनं तिरस्कर्तुम् अनिच्छन् तावू चूराज्यं गन्तुं निश्चितवान्। स्वसमीपे विद्यमानं अल्पं धनं,वस्त्राणि च स्वीकृत्य पादाभ्यां सः चूराज्यं प्रति प्रस्थितवान्।

चूराज्यं सुदूरे अस्ति। शतशः योजनानि यावत् गन्तव्यम्। तत्रापि पर्वतमार्गः तु नितरां दुस्तरः। तथापि ताबू अग्रे गतवान्। एवं गमनसमये ग्रीष्मऋतुः सम्प्राप्तः।

‘कुत्रापि कानिचन दिनानि यावत् विश्रान्तिं स्वीकृत्य प्रयाणम् अनुवर्तनीयम्’ इति आलोच्य तावू मार्गे प्राप्तस्य कस्यचित् गृहं गतवान्। तस्य गृहस्य स्वामिनः नाम याङ्ग्- चियावू - आयः इति।

आयः तावूम् आदरेण स्वागतीकृत्य सत्कृतवान्। अतिथिरूपेण आगतः तावू पण्डितः इति ज्ञातवतः आयस्य महान् सन्तोषः जातः आसीत्। आयस्य समीपे स्थितानां प्राचीनग्रन्थानाम् अवलोकनेन एव तावू ज्ञातवान् यत् एषः आयः न सामान्यः, अपि तु मम अपेक्षया अपि श्रेष्ठः पण्डितः इति।

“चूदेशस्य राजा पण्डितान् आदरेण सत्करोति इति मया श्रुतम्। भवान् अपि मया सह आगत्य तं पश्यतु तावत्” इति आयं

सूचितवान् तावू।

आयः एतत् अङ्गीकृत्य ग्रीष्मकालोचितं वस्त्रं, किञ्चित् धनं च स्वीकृत्य प्रस्थितवान्। उभौ अपि सहैव प्रयाणं कृतवन्तौ। किन्तु दौर्भाग्यवशात् मार्गे झञ्झावातः आगतः। एतौ लियाङ्ग्पर्वतश्रेण्यां झञ्झावातेन पीडितौ जातौ। झञ्झावातः तावान् तीव्रः आसीत् यत् एकं पदम् अपि तत्र स्थापयितुं न शक्यते। वृद्धस्य तावूवर्यस्य तु नितरां शोचनीया स्थितिः। सः आयं कम्पमानस्वरेण उक्तवान्—“भोः,मम अन्तिमक्षणः सन्निहितः इति भाति। अहं चूदेशं द्रष्टुं न शक्नोमि। मम ग्रीष्मकालोचितं वस्त्रं भवान् धरति चेत् अग्रे गन्तुं शक्नुयात्। चूराजं द्रष्टुं चापि शक्नुयात्। अतः मम वस्त्रं भवान् धरतु” इति।

किन्तु आयः एतत् सर्वथा निराकृतवान्। “जीवनं मरणं चापि आवयोः सहैव भवतु। भवन्तम् अत्र त्यक्त्वा अहं चूदेशं गन्तुं न इच्छामि। भवतः वस्त्रं स्वीकुर्वन् अहं भवतः मरणस्य कारणं भवितुं न इच्छामि” इति उक्तवान् आयः।

“भोः,भवान् इतोऽपि तारुण्ये अस्ति। अहं तु श्मशानमार्गे अस्मि। अतः चूराजस्य सम्माननप्राप्त्या अपि मम तु विशेषलाभः कोऽपि नास्ति। अन्यच्च भवान् मम अपेक्षया अपि पाण्डित्येन श्रेष्ठः। अतः भवान् मम वस्त्राणि स्वीकृत्य प्राणान् रक्षन् चूराजं पश्यतु"इति अनुरोधपूर्वकम् उक्तवान् तावू। तथापि आयः न अङ्गीकृतवान्।

अनन्तरं हिमपाततः रक्षणार्थं तौ गुहां प्रविष्टवन्तौ। “कुत्रापि अल्पानि काष्ठानि प्राप्तानि चेत् तानि ज्वालयित्वा शैत्यनिवारणं कर्तुं शक्येत " इति उक्तवान् तावू। आयः काष्ठानाम् अन्वेषणार्थं ततः बहिः गतवान्। किन्तु यावत् सः प्रत्यागतवान् ततः पूर्वं तावू स्वस्य वस्त्राणि गुहायां स्थापयित्वा गुहायाः बहिः स्थिते हिमकूपे आत्मानं पातितवान् आसीत्। आयः प्रत्यागत्य गुहायां वस्त्राणि दृष्टवान्। दिग्भ्रान्तः सः बहिः आगतवान्। तावता हिमकूपे तावृशवः प्लवमानः तेन दृष्टः।

परोपकारार्थं प्राणत्यागं कृतवतः तावूवर्यस्य औदार्य पुनः पुनः स्मरन् अश्रूणि स्रावितवान् आयः।

अनन्तरं सः तावूशवम् उन्नीय गुहायाः अन्तः स्थापयित्वा, तावूवस्त्राणि धृत्वा सकुशलं चूदेशं प्राप्तवान्।

चूराजः आयस्य पाण्डित्यं दृष्ट्वा नितरां सन्तुष्टः अभवत्। तम् आस्थानकविस्थाने नियोजितवान् सः। प्रभूतं धनं, वस्तूनि, वाहनंचापि दत्तवान्।

किन्तु एतादृशम् अपूर्वं सम्माननं प्राप्य अपि

आयः अश्रूणि श्रावयति। आश्चर्यचकितः राजा आयं दुःखस्य कारणं पृष्टवान्।

तदा आयः — “प्रभो! भवान् मम पाण्डित्येन तुष्टः सन् एवं मां सम्मानयन् अस्ति। किन्तु तावूवर्यस्य औदार्य स्मरामि चेत् अहम् आत्मानं तृणसमं भावयामि " इति वदन् तावूवृत्तान्तम् आद्यन्तं श्रावितवान्।

एतत् श्रुत्वा चूराजः आश्चर्यं खेदं चापि अनुभवन् आयेन सह तां गुहां गतवान्। नमस्कारपूर्वकं गौरवं प्रदर्श्य शवस्य अन्त्यसंस्कारं विधिवत् निर्वर्तितवान् सः। तत्रैव कश्चन शवस्तूपः अपि निर्मितः।

आयः प्रतिवर्षं तां गुहां गत्वा अश्रुतर्पणं समर्प्य आगच्छति स्म। एतदनन्तरकाले तावूशवस्तूपः चीनादेशे कवि-पण्डितानां यात्रास्थलं सञ्जातम्।

कर्णेजपे विश्वासः

भीमसेनः राजारामः च आत्मीयौ सुहृदौ। किन्तु कदाचित् केनापि कारणेन तयोः मतिभेदः उत्पन्नः। अतः इदानीं परस्परं द्विषतः तौ।

कदाचित् ग्रामसीमायां स्थिते शिवमन्दिरे तयोः मेलनं जातम्। तदा भीमसेनः राजारामम् उक्तवान्—“मित्र ! वयं मानवाः, बुद्धियुक्ताः च। सर्वेषां वचनेषु सर्वदा विश्वासः सर्वथा अनुचितः। पूर्वापरम् आलोच्य विश्वासः करणीयः। वस्तुस्थितिः का इति प्रयत्नेन ज्ञातव्यम्” इति।

तदा राजारामः उक्तवान्—“किं वदन् अस्ति भवान् ? भवतः वचनस्य आशयः मया सम्यक् न गृहीतः। एतस्य कथनस्य पृष्ठभूमिका का ?” इति।

“मम आशयः कथं वा ज्ञायेत ? ये भवतः अहितम् इच्छन्ति तादृशानां वचनं सम्यक् अवगच्छति भवान्” इति उक्तवान् भीमसेनः।

“अये, अलं द्राविडप्राणायामेन। यत् वक्तव्यं तत् सुस्पष्टं कथयतु तावत्” इति उक्तवान् राजारामः।

“मया श्रुतं यत् भवान् राजेन्द्रस्य कर्णेजापं श्रुत्वा मह्यं क्रुध्यन् अस्ति इति। ‘भीमसेनं यमसदनं प्रेषयिष्यामि’ इति भवता राजेन्द्रस्य पुरतः उक्तम् इत्यपि श्रुतम्। कर्णेजपस्य वचने विश्वासः किम् उचितः ? भवान् एव चिन्तयतु” इति उक्तवान् भीमसेनः।

तदा राजारामः हसन् पृष्टवान् —“मया एवम् उक्तम् इति भवान् कथं ज्ञातवान् ?” इति।

“भूपेन्द्रः मां सर्वम् उक्तवान् अस्ति” इति उक्तवान् भीमसेनः।

“कर्णेजापः न श्रोतव्यः इति खलु भवान् मां वदन् अस्ति। एवं वदता भवता किं कृतम् ? कर्णेजपे विश्वासः कृतः। एवं न वा ?” इति पृच्छन् उच्चैः हसितवान् राजारामः।

इदानीं भीमसेनः स्वस्य अविवेकितां ज्ञातवान्। सः अपि उच्चैः हसितवान्।

कलहप्रिया राधा

रामकिशोरः नाम कश्चन कृषिकः पूर्वं कस्मिंश्चित् ग्रामे निवसति स्म। तस्य पत्न्याः नाम राधा इति। राधा कलहप्रिया।

कदाचित् बन्धुगृहस्य विवाहं समाप्य रामकिशोरः राधा च स्वग्रामं प्रत्यागच्छन्तौ आस्ताम्। यदा तौ ग्रामसमीपम् आगतौ तदा अन्धकारः मन्दं प्रसरन् आसीत्। ग्रामसीमायां ताभ्यां कश्चन आम्रवृक्षः दृष्टः। आम्रवृक्षे कानिचन फलानि पक्वानि आसन्, पुनः कानिचन अपक्वानि।

“पश्यतु,आम्रवृक्षे कति पक्वानि फलानि दृश्यन्ते इति ! वृक्षम् आरुह्य कानिचन फलानि आनयतु भोः। एतस्मिन् वर्षे मया आम्रफलानि न खादितानि एव"इति पतिम् उक्तवती राधा।

“अन्धकारः प्रसरन् अस्ति। त्वरया गत्वा गृहं प्राप्नुयाम तावत्। श्वः रुचिकराणि बहूनि आम्रफलानि आनीय दास्यामि भवत्यै” इति उक्तवान् रामकिशोरः।

“इदानीम् एव आवश्यकानि मम। इदानीम् आनीय दातुम् अशक्तः भवान् श्वः आनयेत् इत्यत्र कः विश्वासः ?” इति पतिम् उक्तवती राधा।

असहायः रामकिशोरः वृक्षस्य समीपं गतवान्। तावता वृक्षात् कश्चित् अधः कूर्दितवान्। सः रामकिशोरस्य उपरि पतितः। एतेन रामकिशोरः अपि अधः पतितः। तस्य पादे तीव्रः व्रणः जातः। सः वेदनया क्रन्दनम् आरब्धवान्।

“अये मूर्ख, सर्वथा अन्धः वा भवान् ? पशुः इव मम पत्युः उपरि पतितवान् खलु ? किं मम पतिं मारयितुम् इच्छति वा भवान् ?” इति क्रोधेन पृष्टवती राधा।

सः अपरिचितः मन्दम् उत्थाय रामकिशोरम् अपि उत्थापितवान्। अनन्तरं राधाम् उक्तवान् सः —“मातः ! स्खलनात्

अहम् अधः पतितः। क्षन्तव्यः अहम्"इति।

कलहप्रिया राधा उच्चस्वरेण उक्तवती— “अये,भवतः असत्यवचने विश्वसितुम् अहं न मूर्खा। सर्वं ग्रामप्रमुखस्य पुरतः निवेदयतु। योग्यं दण्डनं प्राप्नोतु च” इति।

रामकिशोरस्य उपरि पतितस्य पुरुषस्य नाम गोपालः इति। ग्रामं गता राधा ग्रामप्रमुखं दृष्ट्वा गोपालस्य उपरि अपराधम् आरोपितवती।

ग्रामप्रमुखः गोपालम्आहूतवान्। एतद्विषये तस्य कथनम् अपि श्रुतवान्। एतस्मात् सः ज्ञातवान् यत् गोपालेन बुद्ध्या न कृतम्, अपि तु अकस्मात् प्रवृत्तम् इति। अतः सः राधां सूचितवान् यत् एतम् एतस्मिन् सन्दर्भे क्षाम्यतु इति।

तदा राधा कोपेन उक्तवती—“एषः वृक्षस्य शाखायां निलीय स्थितवान् आसीत्। मम पतिम् आगतं दृष्ट्वा बुद्ध्या तस्य उपरि पतितः एषः। भवान् वदति यत् एषः मया क्षन्तव्यः इति। अहो,न्यायनिर्णयक्रमः भवतः ! भवान् न्यायनिर्णयं कर्तुं न शक्नोति `चेत् वदतु। अहम् अन्यत्र गत्वा न्यायं प्राप्स्यामि” इति।

राधा कलहप्रिया अविवेकिनी इति ज्ञातं ग्रामप्रमुखेण। अतः सः राधाम् उक्तवान्— “भवती योग्यं न्यायम् इच्छति खलु ? तर्हि भवती वृक्षम् आरुह्य तिष्ठतु। गोपालः वृक्षस्य अधः आगमिष्यति। तदा भवती तस्य उपरि पततु। तदा प्रतीकारः सेत्स्यति"इति।

“वृक्षात् मया पतनीयम् ? यदि अहं गोपालस्य उपरि न पतेयं तर्हि मम मरणं स्यात्” इति उक्तवती राधा।

“गोपालस्य अपि एतादृशी एव स्थितिः आसीत् खलु ? तथापि भवती तस्य वचनेन विश्वसितवती। कोऽपि बुद्ध्या वृक्षात् न पतति इति इदानीं वा ज्ञातं वा भवत्या ?” इति पृष्टवान् ग्रामप्रमुखः।

एतत् श्रुत्वा स्वव्यवहारविषये लज्जाम् अनुभवन्ती राधा शिरः अवनमय्य ततः निर्गतवती।

कार्यसिद्धिः

रामपुरनामके ग्रामे कृष्णचन्द्रः रामभद्रः च निवसतः। तौ सम्भूय एक कृषिक्षेत्रं क्रीतवन्तौ। क्षेत्रस्य क्रयणे उभयोः अपि समभागः आसीत्, सत्यं, किन्तु तत्र कृषिकरणे तु सः समभागः न आसीत्। यतः कृष्णचन्द्रः कृषि सर्वथा न जानाति। ‘दैवेन दीयते’इति चिन्तयन् सः सदा देवस्य ध्यानं करोति।

रामभद्रः तथा न। सः कृषिकार्यं सम्यक् जानाति। अतः सः सदाऽपि क्षेत्रे कार्यं कुर्वन् भवति। भूमेः सज्जीकरणं,सस्यानाम् आरोपणं,जलसेचनं,गोभरयोजनं,कुतृणानाम् अपसारणम् इत्यादिषु तस्य समयः व्ययितः भवति।

तस्मिन् वर्षे क्षेत्रे उत्तमा फलसमृद्धिः प्राप्ता। शाक-फल-पुष्पादयः ततः प्राप्ताः। तेषां विक्रयणेन भूरि धनम् अपि प्राप्तम्। तस्य विभागविषये तु समस्या उत्पन्ना। समभागं तु उभौ अपि न इच्छतः।

रामभद्रः वदति—“अहम् अहोरात्रं क्षेत्रे परिश्रमेण कार्यं कृतवान्। अत एव एतादृशी फलसमृद्धिः प्राप्ता अस्ति। अतः अधिकः भागः मह्यम् आवश्यकः” इति।

कृष्णचन्द्रः वदति—“अहं निश्चलमतिः सन् अहोरात्रं भगवतः ध्यानं कृतवान्। दैवानुग्रहात् एव फलसमृद्धौ आधिक्यं दृष्टम्। अतः मया अधिकं प्राप्तव्यम्” इति।

एवं किञ्चित्कालं यावत् तयोः वादः प्रवृत्तः। अन्ते तौ ग्रामाधिकारिणः समीपं गत्वा स्वस्वपक्षं समर्थयन्तौ न्याय्यं विभागं प्रार्थितवन्तौ।

तयोः कथनं श्रुत्वा ग्रामाधिकारी उक्तवान्—“अहं भवन्तौ एकं लघुकार्यं सूचयामि। प्रातःकालाभ्यन्तरे तत् कार्यं समाप्य आगन्तव्यम्। अनन्तरम् अहं न्याय्यं मार्गं सूचयिष्यामि” इति।

अनन्तरं ग्रामाधिकारी एकैकस्मै अपि गोणीमितं व्रीहिं दत्त्वा—“व्रीहिं कुट्टयित्वा तण्डुलं सज्जीकृत्य आगन्तव्यम्” इति सूचितवान्।

व्रीहिगोणीं स्वीकृत्य तौ स्वगृहं गतवन्तौ।

भगवद्भक्तः कृष्णचन्द्रः व्रीहिगोणीं प्रकोष्ठे कोणे स्थापयित्वा भगवन्तं ध्यायन् प्रार्थितवान् यत् भगवन् ! व्रीहितः तण्डुलं निर्माय ददातु इति। एवं ध्यायन् एव सः निद्रावशः अभवत्।

रामभद्रः तु प्रातःकालपर्यन्तम् अपि व्रीहिं कुट्टयन् तण्डुलं तुषं च पृथक्कृतवान्।

मध्यरात्रसमये ग्रामाधिकारी तयोः गृहयोः समीपं गतवान्। कृष्णचन्द्रस्य गृहे व्रीहिकुट्टनस्य कोऽपि शब्दः न श्रूयते स्म। रामभद्रस्य गृहे तु व्रीहिकुट्टनस्य शोधनस्य च शब्दः श्रूयते स्म।

अनन्तरदिने रामभद्रः कृष्णचन्द्रः च गोण्या सह ग्रामाधिकारिणः समीपम् आगतवन्तौ। उभौ अपि गोणीम् उद्घाट्य प्रदर्शितवन्तौ। रामभद्रेण आनीतायां गोण्यां तण्डुलः तुषः च पृथक्कृत्य बद्धः आसीत्। कृष्णचन्द्रस्य गोण्यां तु व्रीहिः तथैव आसीत्। कृष्णचन्द्रः लज्जया शिरः अवनमय्य स्थितवान्।

“ज्ञातं खलु कृष्णचन्द्र,परिश्रमेण केवलं कार्यं सिध्यति इति। भवान् केवलं भगवन्तं प्रार्थितवान्। दैवेन दातव्यम् इति ये वदन्ति ते कापुरुषाः। स्वशक्त्या कार्यं कृतं चेत् एव दैवानुग्रहः अपि सिध्यति,न तु केवलया प्रार्थनया। यदि भवान् रामभद्रेण सह परिश्रमेण कार्यं कृतवान् स्यात् तर्हि इतोऽपि अधिकः लाभः अलभिष्यत। यदा भवता अपि परिश्रमः क्रियते तदा समभागः प्राप्यते। इदानीं कृष्णचन्द्रः यावत् ददाति तावत् विना विरोधं स्वीकरणीयं भवता” इति उक्तवान् ग्रामाधिकारी।

एतदनन्तरं कृष्णचन्द्रः अपि रामभद्रेण सह कार्यं कर्तुम् आरब्धवान्। अतः तयोः मध्ये पुनः कदापि विवादः न उत्पन्नः।

कीर्तिकामनारहितः

शारदपुरस्य राजा नितरां चतुरः। सः कदाचित् राज्ये वार्तां प्रसरितवान्—‘ये कीर्तिविषये नितराम् उदासीनाः तादृशान् सत्कर्तुम् इच्छति महाराजः। अतः ये कीर्ति सर्वथा न इच्छन्ति ते अमुकदिने राजास्थाने उपस्थिताः भवेयुः,इति।

राज्ञा निर्दिष्टं दिनम् आगतम्। बहवः राजसभायाम् उपस्थिताः आसन्।

राजा तान् पश्यन् हसन् उक्तवान्—“भवन्तः आत्मानं सम्माननार्हान् भावयन्तः खलु आगतवन्तः ? ये सम्माननम् इच्छन्ति ते कीर्तिविमुखाः कथं वा भवितुम् अर्हन्ति ? अतः भवन्तः मिथ्यावादिनः। भवन्तः इतः गन्तुम् अर्हन्ति"इति।

तदा प्रदीपः नाम कश्चन युवकः उक्तवान्—“प्रभो ! अन्येषां विषये अहं किमपि न जानामि। किन्तु अहं वस्तुतः अपि सम्माननं प्राप्तुम् अर्हः। मयि कीर्तिकामनालेशः अपि नास्ति” इति।

“एवं तर्हि सम्माननं प्राप्तुं किमर्थम् आगतः ? एवम् आगमनम् एव द्योतयति खलु भवतः कीर्तिकामनाम् ?” इति पृष्टवान् राजा।

तदा प्रदीपः उक्तवान्—“प्रभो ! अस्माकं ग्रामस्य प्रगत्यर्थं बहुधा कार्यं कृतं मया। तदर्थं मद्ग्रामीणाः मम सम्माननार्थं बहुधा प्रयत्नं कृतवन्तः। किन्तु अहं कीर्ति सर्वथा न इच्छामि। कीर्तितः जुगुप्सा मम। अतः ‘सम्माननेच्छारहितः’इति कीर्तिः एतावता प्राप्ता अस्ति मया। यदि भवता क्रियमाणं सम्माननम् अपि अहं न प्राप्नुयां तर्हि मम कीर्तिः भवतः कीर्तिम् अपि अतिरिच्य सर्वत्र प्रसरिष्यति” इति।

राजा प्रदीपस्य वाक्चातुर्येण नितरां सन्तुष्टः। अनन्तरं सः तं विशेषतः सत्कृतवान्। तत्र उपस्थिताः सर्वे सन्तोषेण करताडनं कृतवन्तः।

कृत्रिमं फलम्

कल्याणपुरे कनकदासः नाम कश्चन सामान्यः गृहस्थः निवसति स्म। तस्य द्वौ पुत्रौ एका पुत्री च सन्ति। ज्येष्ठः पुत्रः मोहनदासः। कनिष्ठः पुत्रः रामदासः। पुत्र्याः नाम उषा इति।

यदा पुत्राः प्राप्तवयस्काः जाताः तदा तेषां विवाहं निर्वर्तितवान् कनकदासः। सपत्नीकौ पुत्रौ पित्रा सहैव निवसतः। पुत्र्याः पतिगृहम् अपि तस्मिन् एव ग्रामे अस्ति।

पितुः मरणं यदा जातं तदा पुत्रौ सम्पत्तिं द्विधा विभज्य पृथग्गृहे वासम् आरब्धवन्तौ। कनकदासस्य पत्नी सुगुणा पर्यायक्रमेण पुत्रयोः गृहे कानिचन दिनानि तिष्ठति।

प्रारम्भिकदिनेषु उभे अपि स्नुषे श्वश्रूम् आदरेण एव दृष्टवत्यौ। किन्तु क्रमशः तयोः व्यवहारे अनादरः दृष्टः। यतः सुगुणायाः समीपे धनम् आभरणानि वा न आसन्। धनव्ययः भवेत् इति आशङ्कया पुत्रौ,यदा सुगुणा अस्वस्था भवति तदा योग्यां चिकित्साम् अपि न कारयतः। मृदुस्वभावा सुगुणा तर्जनपूर्वकं स्नुषे पुत्रौ वा निग्रहीतुम् अपि न शक्नोति। दिनेषु गतेषु,पुत्रौ एवं चिन्तनम् आरब्धवन्तौ यत् मातुः पालनपोषणम् अपि भाराय एव इति।

पुत्रौ तु मातरि प्रीतिमन्तौ एव। तथापि पत्नीवचनम् अनुसरन्तौ तौ तथा व्यवहरतः। अतः पुत्रयोः गृहे दिनानि यापयितुम् एव कष्टम् अनुभवति सुगुणा। रात्रौ सम्यक् निद्राम् अपि न प्राप्नोति।

इतः परम् अपि पुत्रयोः गृहे स्थातुम् अनिच्छन्ती सुगुणा पुत्र्याः उषायाः गृहं गतवती। पुत्री अपि कानिचन दिनानि मातरं प्रीत्या एव दृष्टवती। अन्ते सा वक्तुम् आरब्धवती—‘सम्पत्तिस्वीकर्तारौ तु पुत्रौ।

मातुः पालनपोषणभारः तु पुत्र्याः उपरि’इति।

अग्रे कः मार्गः इति न जानाति सुगुणा। अतः सा साक्षात् ग्रामप्रमुखस्य समीपं गत्वा पुत्राणां व्यवहारं विस्तरेण निवेदितवती। ग्रामे एतस्य ग्रामप्रमुखस्य विशेषादरः आसीत्। तस्य वचनं तिरस्कर्तुं कस्यापि धैर्यं न आसीत्।

सुगुणायाः मुखतः सर्वं श्रुत्वा ग्रामप्रमुखः निश्चितवान् यत् एतस्याः पुत्रौ पुत्री च अनादरं यत् प्रदर्शयन्ति तत्र कारणम् एतस्याः हस्ते धनस्य अभावः एव इति। सः सुगुणाम् उक्तवान्—“भगिनि,भवती चिन्तां मा करोतु। भवत्याः पतिः स्वमरणसमये मम वशे कानिचन आभरणानि दत्तवान् आसीत्।किन्तु एवं दानस्य किं कारणम् इति तेन न उक्तम्। अहं भवत्याः पुत्राभ्यां पुत्र्या च सह वार्तालापं कृत्वा सर्वं समीकरिष्यामि। भवती निश्चिन्ता भवतु” इति।

एतदनन्तरं सः सुगुणायाः पुत्रौ पुत्रीं च आनाय्य उक्तवान्—“मातुः पालनं पुत्राणां कर्तव्यम्। किन्तु भवद्भिः एतत् क्रियमाणं नास्ति। भवद्भिः तस्याः योगक्षेमं न दृष्टं चेदपि तस्याः सुखजीवनार्थम् अन्या एव व्यवस्था अस्ति इति जानन्तु” इति।

तदा सुगुणायाः पुत्रौ पुत्री च आश्चर्येण पृष्टवन्तः—“श्रीमन् ! भवता किम् उच्यते ? भवतः वचनस्य आशयः अस्माभिः न ज्ञातः” इति।

“कनकदासः स्वमरणसमये एकाम्

आभरणपेटिकांमम अधीनां कुर्वन् उक्तवान् आसीत्—‘एतत् मम पुत्राभ्यां पुत्र्यै च विभज्य दातव्यम्। यदि तेषु कोऽपि स्वमातुः पालने अनादरं प्रदर्शयेत् तर्हि तस्मै भागः दातव्यः नास्ति’ इति। भवतां व्यवहारस्य दर्शनेन मम भाति यत् आभरणानि विक्रीय सुगुणायाः पालनव्यवस्थार्थं व्ययीकरोमि इति। एतद्विषये किं वदन्ति भवन्तः ?“इति पृष्टवान् ग्रामप्रमुखः।

अश्रुतपूर्वाम् एतां वार्तां श्रुत्वा पुत्रौ पुत्री चग्रामप्रमुखम् आश्चर्येण पश्यतः। ग्रामाधिकारी अन्तः गत्वा एकां पेटिकाम् उन्नीय बहिः आगतवान्,पेटिकाम् उद्घाटितवान् च। पेटिकायां प्रकाशमानानि आभरणानि आसन्। तेषां मूल्यंपञ्चाशत्सहस्रतः न्यूनं न स्यात् इति चिन्तितं तत्रस्थैः।

एतदनन्तरं सुगुणायाः पुत्राः उक्तवन्तः— “श्रीमन् ! गतं तु गतम् एव। मातुः विषये अनादरः प्रकटितः यत् तदर्थं वयं खिन्नाः स्मः। इतः परम् एवं यथा न भवेत् तथा जागरूकाः भवामः” इति।

पुत्रौ पुत्री चापि मातरं साग्रहं निवेदितवन्तः—“भवत्या मम गृहे एवस्थातव्यम्” इति।

सुगुणा पर्यायक्रमेण एकैकं मासं यावत् एकैकत्र स्थातुम् अङ्गीकृतवती। इदानी तां पुत्राः महता आदरण पश्यन्ति। तस्याः लघुः इच्छा अपि क्षणमात्रेण पूर्यते तैः।

एवम् एव कालः गतः। सुगुणा सुखेन

जीवनं यापयन्ती अन्ते कदाचित् दिवं गतवती। पुत्राः मातुः अन्त्यसस्कारं महता आदरेण वैभवेन च कृतवन्तः।

एतदनन्तरं कदाचित् तौ पुत्रौ पुत्री च ग्रामप्रमुखस्य गृहं गतवन्तः। “मातुः आभरणानि विभज्य स्वीकर्तुम् इच्छामः वयम्"इति उक्तवन्तः च। ग्रामप्रमुखः एतत् अङ्गीकृतवान्।

विभागार्थम् एकैकस्य अपि आभरणस्य मूल्यं निश्चेतव्यं खलु ? अतः ते शरणनामकं स्वर्णकारं तत्र आनायितवन्तः।

शरणः तानि आभरणानि परीक्ष्य आश्चर्यं प्रकटयन् उक्तवान्—“एतानि सुवर्णेन निर्मितानि सर्वथा न। एतानि तु कृतकानि” इति।

तदा पुत्रयोः पुत्र्याः च मुखात् युगपत् वचनम् आगतम्—“महती वञ्चना एषा ! कृतकानि आभरणानि सन्ति अत्र"इति।

तदा ग्रामप्रमुखः हसन् उक्तवान्— “वञ्चना का अत्र ? यथा भावः तथा फलम्। आभरणलोभेन भवद्भिः मातुः विषये कृत्रिमा प्रीतिः,कृत्रिमः आदरः च प्रदर्शितः। अतः कृत्रिमानि आभरणानि एव प्राप्तानि। कर्तव्यविस्मरणस्य,लोभात् प्रदर्शितस्य कृत्रिमव्यवहारस्य च फलम् एतत्"इति।

एतत् श्रुत्वा ते आत्मनः व्यवहारं स्मरन्तः लज्जया शिरः अवनमय्य स्थितवन्तः।

तदा ग्रामप्रमुखः पुनः उक्तवान्— “भवद्भिः श्रुतं खलु-यथा बीजं तथाङ्कुरः इति ? भवतां क्रिया यादृशी आसीत् तादृशं फलं प्राप्तम्। ‘अत्युत्कटैः पुण्यपापैः इहैव फलम् अश्नुते’ इति प्राचीनाः वदन्ति। मातुः विषये कृत्रिमप्रीतेः प्रदर्शनं सर्वथा अनुचितम्। अतः भवद्भिः एतादृशं फलं प्राप्तम्” इति।

वस्तुतः तु स्वमरणसमये कनकदासेन ग्रामप्रमुखस्य वशे किमपि आभरणं न स्थापितम् आसीत्। कनकदासस्य पुत्रेषु परिवर्तनम् आनेतुं ग्रामप्रमुखः एव एतादृशीं भूमिकां रचितवान् आसीत्।

गणनाचातुर्यम्

रजतपुरे पूर्वं कनकदासः नाम कश्चन कुसीदवणिक् आसीत्। नरसिंहः नाम कश्चन युवकः तस्य कार्यालये लिपिकारः सन् समग्रं गणनाव्यवहारं निर्वहति स्म। नरसिंहे कनकदासस्य पूर्णः विश्वासः आसीत्।

सौभाग्यवशात् नरसिंहेन भूस्वामिनः कार्यालये उत्तमवेतनोपेतः उद्योगः प्राप्तः। अतः सः कनकदासस्य उद्योगं परित्यज्य भूस्वामिनः उद्योगम् आश्रितवान्। उत्तमः उद्योगी नरसिंहः गतः इत्यतः कनकदासस्य कष्टम् आरब्धम्। यतः तादृशस्य प्राप्तिः न सुलभा खलु ?

बहूनां दिनानां प्रयत्नस्य अनन्तरम् अपि कनकदासेन उत्तमः लिपिकारः न प्राप्तः। इदानीं तेन एकत्र कुसीदवाणिज्यं करणीयम्,अपरत्र गणना अपि लेखनीया। अतः बहुधा कष्टम् अनुभवति सः।

स्वस्य कष्टं नरसिंहं निवेदितवान् कनकदासः। “अहं मम परिचितौ समर्थौ द्वौ प्रेषयिष्यामि। परीक्ष्य तयोः अन्यतरं स्वीकरोतु भवान्” इति सूचितवान् नरसिंहः। तदनुगुणं रामचन्द्र-गोविन्दनामकौ युवकौ कनकदासस्य समीपं प्रेषितवान्।

तौ उक्तवान् भूस्वामी—“भवतोः हस्ते मया लिखितं गणनापुस्तकम् एकैकं स्थापयामि। तत् गणनापुस्तकं जागरूकतया दृष्ट्वा कोऽपि दोषः दृष्टः चेत् अहं सूचनीयः” इति।

रामचन्द्रः गोविन्दः च एतत् अङ्गीकृत्य कनकदासेन दत्तं गणनापुस्तकं स्वीकृत्य गृहं गतवन्तौ।

अनन्तरदिने सायङ्काले तौ प्रत्यागत्य कनकदासाय गणनापुस्तकं प्रत्यर्पितवन्तौ।

कनकदासः मन्दहासपूर्वकं रामचन्द्रं

पृष्टवान्—“मया लिखितायां गणनायां कोऽपि दोषः दृष्टः वा भवता?” इति।

तदा रामचन्द्रः उक्तवान्—“सामान्यतः गणना सम्यक् एव अस्ति। वृद्धिस्वीकारविषये भवता चतुर्षु स्थलेषु न्यूनं स्वीकृतम्। पञ्चसु स्थलेषु अधिकं विहितम्” इति।

कनकदासः प्रतिक्रियारूपेण मन्दहासं प्रदर्श्य गोविन्दं पृष्टवान्—“मित्रवर्य ! मया दत्ते पुस्तके कोऽपि दोषः लक्षितः व भवता ?” इति।

“सर्वत्र सम्यक् एव अस्ति। केवलं त्रिषु सन्दर्भेषु दोषः कृतः दृष्टः मया” इति विनयेन उक्तवान् गोविन्दः।

“त्रिषु स्थलेषु दोषः इति? कीदृशः दोषः सः?“इति पृष्टवान् कनकदासः।

“त्वरावशात् दोषः जातः स्यात्। वृद्धिसङ्ग्रहसन्दर्भे त्रिषु स्थलेषु न्यूना वृद्धिः स्वीकृता” इति उक्तवान् गोविन्दः।

तदा कनकदासः मन्दहासपूर्वकं रामचन्द्रम् उक्तवान्—“भोः, माम् अन्यथा मा चिन्तयतु। भवान् अन्यत्र उद्योगार्थं प्रयत्नं करोतु। अन्यत्र कुत्रापि उद्योगः न लब्धः चेत् पुनः मां पश्यतु। अहं नरसिंहं सर्वं निवेदयिष्यामि” इति।

रामचन्द्रस्य निर्गमनस्य अनन्तरं कनकदासः गोविन्दं पृष्टवान्—“भवता यत् उक्तं तत् सत्यम्। त्रिषु सन्दर्भेषु मया वृद्धिस्वीकारविषये दोषः कृतः। तथैव चतुर्षु स्थलेषु वृद्धिविधानविषये अपि आधिक्यं कृतं

खलु ? एषः अंशः न लक्षितः वा भवता?” इति।

“श्रीमन् ! एषः अंशः मया लक्षितः एव। ये अस्मत्तः ऋणं स्वीकुर्वन्ति ते प्रत्यर्पणसन्दर्भे वृद्धिंसम्यक् गणयित्वा एव अत्र आगच्छन्ति। दोषः दृष्टः चेत् अस्मान् सूचयिष्यन्ति च। ‘भवता पृष्टं चेत् वदेयम्’ इति चिन्तयित्वा आरम्भे न उक्तवान्, तावदेव” इति उक्तवान् गोविन्दः।

“ते ॠणस्वीकर्तारः गणनायां जातं दोषं न ज्ञातवन्तः चेत्…?” इति पृष्टवान् कनकदासः।

तदा गोविन्दः हसन् उक्तवान्— “ऋणस्वीकर्तारः प्रत्यर्पणसमये कदाऽपि अजागरूकाः न भवन्ति। स्वीकरणसमये कश्चित् जागरूकतां न प्रदर्शयेत् नाम, किन्तु दानसमये सर्वेऽपि नितरां जागरूकाः भवन्ति एव। अथवा, गणनाम् ते न जानन्ति इत्येव भावयेम। तदा गणनादोषकारणतः यावत् अधिकं विहितम् आसीत् तावत् प्रत्यर्पितं चेत्अस्माकं विश्वासार्हता वर्धते। एतत् अस्माकंव्यवहारस्य पोषकम् एव खलु ? अतः अहं वृद्धिविधाने आधिक्यं जानन् अपि न प्रदर्शितवान्” इति।

“एवं तर्हि न्यूना वृद्धिः स्वीकृता इति किमर्थं प्रदर्शितवान्?” इति पृष्टवान् कनकदासः।

“दिनानि गतानि चेत् तावत् धनं प्रतिप्राप्तुं न शक्येत एव। अतः एव प्रथमं तम् अंशं भवते प्रदर्शितवान्” इति उक्तवान् गोविन्दः।

एतत् उत्तरं श्रुत्वा सन्तुष्टः कनकदासः— “साधु गोविन्द ! भवतः व्यवहारेण अहं सन्तुष्टः अस्मि। भवान् गणनाचातुर्येण नरसिंहतुल्यः एव अस्ति। श्वः आरभ्य भवान् अत्र कार्यार्थम् आगच्छतु” इति उक्तवान्।

अनन्तरं कनकदासः नरसिंहं गोविन्दस्य गणनाचातुर्य निवेद्य—“गोविन्दं मत्समीपं प्रेषयन् भवान् माम् उपकृतवान्” इति कृतज्ञतापूर्वकम् उक्तवान्।

चतुरः मन्त्री

अरबदेशे पूर्वं कश्चन राजा आसीत्। सः राजकार्येषु अनासक्तः सन् सदापि भोगरतः

भवति स्म। अतः राज्यस्य स्थितिः शोचनीयतां गता आसीत्।

राज्ञः मन्त्रिणः केचन सन्ति। किन्तु तेषु केचन राजा इव अलसाः भोगासक्ताः च। अन्ये केचन चिन्तयन्ति स्म यत् देशस्य शोचनीया स्थितिः निवेदिता चेत् राज्ञः अदक्षता प्रदर्शिता भवति,तेन राजा क्रुद्धः भवेत् इति।

अन्ते कश्चन मन्त्री निश्चितवान् यत् केनापि उपायेन राजानं वस्तुस्थितिं निवेदयामि एव इति। एकदा सः महाराजेन सह उद्याने विहारार्थं प्रस्थितः। ततः प्रत्यागमनसमये अन्धकारः प्रसृतः आसीत्। तदा समीपतः कुतश्चित् उलूकध्वनिः श्रुतः। मन्त्री गमनं स्थगयित्वा उलूकरवम् आसक्त्या शृण्वन् स्थितवान्।

राजा आश्चर्येण पृष्टवान्—“मन्त्रिवर्य, किं शृण्वन् अस्ति भवान् ?“इति।

“महाराज ! उलूकौ सम्भाषणं कुरुतः। तत् शृण्वन् अस्मि” इति उक्तवान् मन्त्री।

“किं भवान् -उलूकवचनम् अवगन्तुं शक्नोति ?“इति पुनः पृष्टवान् राजा।

“आं श्रीमन् !” इति उक्त्वा पुनः किञ्चित्कालं श्रुत्वा मन्त्री उक्तवान्— “प्रभो, इतोऽपि अग्रे श्रोतुं न इच्छामि, न शक्नोमि च। अग्रे गच्छाव तावत्” इति।

“किं तावत् अप्रियं घोरतरं वा तत् सम्भाषणम् ?“इति पृष्टवान् राजा।

“प्रभो, तौ तु मूर्खों पक्षिणौ। तयोः सम्भाषणविषये मां किमपि मा पृच्छतु

कृपया " इति खेदेन उक्तवान् मन्त्री।

“किम् उक्तं तादृशं ताभ्यां पक्षिभ्याम् ?

माम् अपि किञ्चित् वदतु तावत्” इति उक्तवान् राजा।

“श्रीमन् ! तयोः सम्भाषणम् अहम् एव श्रोतुं न शक्नोमि। भवान् कथं वा श्रोतुं शक्नुयात् ?“इति पृष्टवान् मन्त्री।

“तावत् अप्रियं वा तत् ? तर्हि तौ कठोरं दण्डयिष्यामि। ताभ्यां कीदृशं सम्भाषणं कृतम् इति वदतु प्रथमम्"इति सानुरोधम् उक्तवान् राजा।

“तर्हि शृणोतु तावत्। एतयोः उलूकयोः अन्यतरः वध्वाः पिता,अपरः वरस्य पिता। तयोः मध्ये विवाहविषये वार्तालापः प्रचलति। वरस्य पिता उलूकः वधूपितरम् उलूकं वदति यत् वरदक्षिणारूपेण उध्वस्ताः ५० ग्रामाः दातव्याः इति। तदा वधूपिता उलूकः उक्तवान्—‘पञ्चाशत् ग्रामाः किं पञ्चशतं ग्रामान् एव दातुं शक्नोमि’ इति। ‘कथं तत् ‘शक्यते?’ इति पृष्टं वरपित्रा उलूकेन। तदा वधूपित्रा उलूकेन उक्तं यत् अस्माकं राज्ञः शासने उध्वस्तानां ग्रामाणाम् अभावः नास्ति एव इति” इति उक्तवान् मन्त्री।

एतत् श्रुत्वा राजा मौनं स्थितवान्। मन्त्री राज्यस्य दुःस्थितेः ज्ञापनार्थम् एव एतां कथा कल्पितवान् इति ज्ञातवान् राजा।

किञ्चित्कालानन्तरं मन्त्री महाराजं पृष्टवान्—“प्रभो, एतौ उद्धतौ उलकौ केन दण्डेन दण्डनीयौ ?“इति।

“तौ उलूकौ वास्तविकं विषयम् उक्तवन्तौ। अतः तयोः दण्डनं किमर्थम् ? अद्यैव भवन्तं प्रधानमन्त्रिरूपेण नियोजितवान् अस्मि। तेन वरपित्रा उलूकेन वरदक्षिणारूपेण एकोऽपि उध्वस्तग्रामः यथा न प्राप्येत तथा करणीयं भवता” इति उक्तवान् राजा।

एतस्याः घटनायाः कारणतः महाराजे महत् परिवर्तनं सञ्जातम्। सहः भोगासक्ति पूर्णतः परित्यज्य शासनकार्ये मनः कृतवान्। क्रमशः कृषिक्षेत्रे वाणिज्ये च प्रगतिः अभवत्। राज्ञि जातं परिवर्तनं दृष्ट्वा प्रजाः सर्वाः सन्तुष्टाः।

चोरग्रहणम्

भारतीपुरनामकस्य राज्यस्य राजा चित्रसेनः। तस्मिन् राज्ये रविरामः नाम कश्चन चोरः निवसति स्म। तेन राजधान्यां बहुषु गृहेषु चौर्यं कृतम् आसीत्। तथापि सः रक्षकभटानां दृष्टितः आत्मानं रक्षन् जीवति स्म।

कदाचित् रविरामः भित्तिभेदनं कृत्वा राजोद्योगिनः कस्यचित् गृहं प्रविष्टवान्। रविरामस्य तदनुयायिनां च दर्शनात् भीतः सः राजोद्योगी प्राणरक्षणार्थम् अमूल्यानि सर्वाणि वस्तूनि अर्पितवान्। रविरामः महता सन्तोषेण ततः निर्गतवान्।

ततः सप्ताहाभ्यन्तरे रविरामः भित्तिभेदनपूर्वकम् अन्यस्य वणिजः गृहं प्रविष्टवान्। छुरिकां प्रदर्शयन् वणिजं भायितवान्। ‘एतस्य वणिजः गृहे अधिकं धनम्,अमूल्यानि आभरणानि च प्राप्येरन्’ इति आलोचितवान् आसीत् रविरामः। किन्तु अत्र स्थितिः अन्या एव। वणिजः धनपेटिका रिक्ता दृश्यते ! ‘अद्य मम प्रयत्नः लाभकरः न जातः’ इति निराशाम् अनुभवन् सः यानि वस्तूनि प्राप्तानि तानि ग्रन्थिरूपेण बद्धवा ततः निर्गतवान्।

एतदनन्तरं रविरामः कृषिकस्य कस्यचित् गृहे चौर्यं कृतवान्। तत्र तेन अमूल्यानि आभरणानि प्राप्तानि।

पुनः अल्पेषु एव दिनेषु सः अर्चकस्य गृहं चौर्यार्थं प्रविष्टवान्। तत्र अमूल्यानि वस्तूनि तु न आसन्। किन्तु रविरामः यानि वस्तूनि प्राप्तानि तानि न त्यक्तवान्। तानि स्वीकृत्य अनुचरैः सह ततः निर्गतवान्।

रविरामः कदाचित् एवं चोरितानि वस्तूनि परिशीलितवान्। एतेन सः ज्ञातवान् यत् राजोद्योगिनः गृहे यत् चौर्यं कृतं ततः प्राप्तानि वस्तूनि एव अधिकमूल्यकानि इति।

येषां गृहेषु रविरामेण चौर्यं कृतं तेषां

गृहाणां स्वामिनः चौर्यविषयं राजानं निवेदितवन्तः आसन्। किन्तु सः राजोद्योगी केवलं चौर्यविषयं राजानं न निवेदितवान् आसीत्। राजोद्योगिना किमर्थं तथा कृतम् इति न ज्ञातं रविरामेण।

मासद्वयस्य अनन्तरं रविरामः पुनरपि तस्य राजोद्योगिनः गृहे चौर्यं कृतवान्। पूर्वं यावन्ति अमूल्यवस्तूनि प्राप्तानि आसन् ततोऽपि अधिकानि वस्तूनि प्राप्तानि रविरामेण। सः वणिजः,कृषिकस्य,अर्चकस्य च गृहे अपि द्वितीयवारं चौर्यं कृतवान्। किन्तु तेषु गृहेषु विशेषतः किमपि न लब्धं तेन। रविरामः तर्कितवान् यत् एते त्रयः पूर्वं जातस्य चौर्यस्य आघातेन पीडिताः इतोऽपि स्वस्थाः न जाताः इति।

एतस्मिन् सन्दर्भे अपि वणिक्, कृषिकः, अर्चकश्च चौर्यं राजानं निवेदितवन्तः आसन्। राजोद्योगी तु यथापूर्वं मौनं स्थितवान् आसीत्। ‘एवं तर्हि राजोद्योगिनः व्यवहारे अप्रामाणिकता काऽपि दृश्यते’ इति निश्चितवान् रविरामः।

कदाचित् रविरामः कस्यचित् धनिकस्यगृहे चौर्यार्थं गतवान्। तत्र अजागरूकतावशात् सः धनिकस्य सेवकैः बद्धः अभवत्। तस्य सहचराः तु कथमपि ततः पलायितवन्तः।

सेवकैः बद्धः चोरः कुख्यातः रविरामः एव इति ज्ञात्वा धनिकः सेवकान् उक्तवान्— “राजभटैः अपि यत् कर्तुं न शक्तं तादृशं कार्यं कृतं भवद्भिः। साधु ! एतम् अद्यैव राजभटाधीनं कुर्वन्तु। ते एतं राजसमीपं नेष्यन्ति। राजा एव अपराधानुगुणं दण्डनं विधास्यति"इति।

धनिकस्य सेवकाः रविरामं राजभटाधीनं कृतवन्तः। राजभटाः तं चोरं राज्ञः समीपं नीतवन्तः।

राजा प्रवृत्तं सर्वं ज्ञात्वा रविरामम् उक्तवान्—“भोः,महाबुद्धिमान् अपि चोरः कदाचित् वा गृह्यते एवं इत्यत्र भवान् एव प्रमाणम्। प्रामाणिकतया चौर्यं यथावत् अङ्गीकृत्य चोरितानि वस्तूनि सर्वाणि अर्पयति चेत् दण्डविधानसन्दर्भे कृपा

प्रदर्श्येत। अन्यथा आजीवनं चित्रहिंसा अनुभोक्तव्या भवेत् भवता” इति।

तदा रविरामः उक्तवान्—“कथञ्चित् अहं बद्धः अस्मि। इतः परम् असत्यकथनेन किं प्रयोजनम् ? चौर्येण मया यद्यत् प्राप्तं तत्सर्वं भवते समर्पयिष्यामि” इति।

अनन्तरं रविरामः चोरितानि वस्तूनि कुत्र स्थापितानि इति सूचितवान्। तदनुगुणं राजभटाः तानि वस्तूनि आनीतवन्तः। चोरः गृहीतः इति,चोरेण नीतानि वस्तूनि प्राप्तानि इति च वणिजा,कृषिकेण,अर्चकेण च ज्ञातम्। अतः ते झटिति आगत्य राजानं निवेदितवन्तः यत् अस्मदीयानि वस्तूनि अस्मभ्यं दापयतु कृपया इति।

राजा चोरम् आदिष्टवान्—“किं वस्तु कस्य इति निर्णीय विभागं करोतु” इति। चोरःरविरामः कृषिकस्य, वणिजः, अर्चकस्य, राजोद्योगिनः च वस्तूनि पृथक्–पृथक् संस्थाप्य राजोद्योगिनः वस्तूनि प्रदर्शयन् राजानं निवेदितवान्—“महाराज ! एतानि वस्तूनि राजमार्गे दक्षिणान्ते निवसतः राजोद्योगिनः गृहात् चोरितानि मया” इति।

एतत् वचनं श्रुत्वा राजा आश्चर्यचकितः। सः आश्चर्येण उक्तवान्—“एतानि अमूल्यानि वस्तूनि राजोद्योगिनः गृहे ! कथं सम्भवेत् एतत् ? सामन्तराजस्य गृहे भवितुम् अर्हाणि एतानि। किन्तु भवान् वदति यत् राजोद्योगिनः गृहात् चोरितानि एतानि इति। अन्यच्च चौर्यविषये तेन राजोद्योगिना कदापि न निवेदितम्। कथं भवतः वचने विश्वसिमि

अहम् ?” इति।

तदा रविरामः मन्दहासपूर्वकम् उक्तवान्—“महाराज ! ममापि सन्देहः आसीत्—स्वगृहे जातस्य चौर्यस्य विषयम् एषः न्यायस्थानं किमर्थं न निवेदितवान् इति। अनन्तरं ज्ञातं यत् सः अद्वितीयः वञ्चकः इति। जनेभ्यः उत्कोचं स्वीकुर्वन् सः प्रभूतं धनं सङ्गृहीतवान्। ममापेक्षया श्रेष्ठः चोरः सः। स्वस्य अव्यवहारः प्रकटितः भवेत् इति आलोचयन् सः कमपि चौर्यं न निवेदितवान्"इति।

“मम आस्थाने उत्कोचग्राही! अहो आश्चर्यम् !“इति वदन् राजा भटद्वारा तं राजोद्योगिनं स्वसमीपम् आनायितवान्।

राज्ञा क्रोधेन यदा पृष्टं तदा सः राजोद्योगी स्वस्य अपराधम् अङ्गीकृतवान्। राजा तत्क्षणे एव तं कठोरकारागरवासेन दण्डितवान्।

अनन्तरं रविरामं पश्यन् पृष्टवान्— “भवत्कारणतः उत्कोचग्राही दण्डितः अभवत्। देशस्य कण्टकम् एकम् अपगतम्। अस्तु, भवन्तं केन दण्डेन दण्डयामि ?“इति।

“महाराज !,चौर्यं मम वृत्तिः आसीत्। अतः चौर्यं कृतम्। किन्तु अप्रामाणिकता कदापि न प्रदर्शिता। अन्यच्च अद्वितीयः उत्कोचग्राही मया प्रदर्शितः। अतः पुरस्कारेण अहम् अनुग्रहणीयः भवता। किन्तु भवान् दण्डनं चिन्तयन् अस्ति। एतत् तु अनुचितम्” इति उक्तवान् रविरामः।

एतत् श्रुत्वा मन्दहासपूर्वकम् उक्तवान् राजा—“सत्यं, पुरस्कारार्हः भवान्। अतः दण्डनात् मुक्तिः अनुगृहीता मया। इतः परं चौर्यं परित्यज्य सन्मार्गेण प्रवर्तनीयं भवता। भवतः अनुचराः अपि चौर्यवृत्तिं परित्यज्य परिश्रमेण कार्यं कृत्वा जीवनं यापयेयुः। पुनः कदाचित् चौर्यं कृतं चेत् भवन्तं शूलम् आरोपयिष्यामि"इति।

दण्डनात् मुक्तिं प्राप्य सन्मार्गे प्रवर्तनं सङ्कल्प्य सन्तोषेण ततः निर्गतः चोरः रविरामः।

तृप्ति

कारणम्

हरदत्तः नाम कश्चन पण्डितः पूर्वं गुरुकुलं चालयन् आसीत्। कदाचित् त्रयः युवकाः एकस्मिन् एव दिने गुरुकुलं प्रविष्टवन्तः। तेषां प्राथमिकः विद्याभ्यासः अपि समाप्तः। अनन्तरं गुरुः तान् आहूय उक्तवान्— “भवतां प्राथमिकः पाठः समाप्तः। इतः परम् भवताम् इच्छायाः अनुगुणम् एकैकस्य पाठः अपि पृथक् भविष्यति। अतः कुत्र इच्छा इति वदन्तु तावत्” इति।

तदा नन्दनः नाम प्रथमः उक्तवान्— “श्रीमन्,राजास्थाने उन्नतः उद्योगः प्राप्तव्यः इति मम आशा। एतदनुगुणां विद्याम् अध्येतुम् इच्छामि अहम्” इति।

द्वितीयः भूपतिः उक्तवान्—“वैद्यः सन् महतीं कीर्तिं प्राप्नुयाम् इति मम इच्छा। अतः अहं वैद्यकीयशास्त्रं पठितुम् इच्छामि” इति।

तृतीयः माधवः उक्तवान्—“मम विशिष्टा आशा काऽपि नास्ति। भवान् यत् पाठयति तत् पठितुं सिद्धः अहम्” इति।

“सर्वविधान् पाठान् अपि शृण्वन् भवतु। कुत्रापि विशेषासक्तिः उत्पन्ना चेत् मां वदतु” इति माधवम् उक्त्वा गुरुः हरदत्तः नन्दनम् अर्थशास्त्रं गणितं,भूपतिं वैद्यकीयं च पाठितवान्।

एवम् एव केचन मासाः अतीताः। कदाचित् हरदत्तः पत्न्या सह वार्तालापं कुर्वन् उक्तवान्—“एषु दिनेषु त्रयः मम गुरुकुलं प्रविष्टवन्तः किल। तेषु अन्यतमः नन्दनः तीक्ष्णमतिः। भूपतिः अपि श्रद्धया प्रयत्नेन च विद्याभ्यासं करोति। किन्तु तृतीयस्य माधवस्य एव विषये मम चिन्ता। सः सदापि गुरुकुले न भवति इत्यपि श्रूयते। कुत्रापि अटन् भवति। एतस्य कारणतः गुरुकुलस्य अपकीर्तिः तु न भवेत् खलु ?“इति।

तावता हरदत्तस्य प्रधानशष्येषु अन्यतमःतत्र आगत्य उक्तवान्—“गुरुवर्य ! माधवस्य विषये सर्वं ज्ञात्वा आगतवान् अस्मि। सः सदापि पार्श्वस्थे अरण्ये स्थितैः गोपालकैः सह भवति। श्वः एतत् भवान् स्वयं द्रष्टुम् अर्हति” इति।

अनन्तरदिने हरदत्तः माधवस्य अन्वेषणं कुर्वन् अरण्यं गतवान्। एवं गमनसमये तेन कुत

श्चित् मधुरः वेणुनादः श्रुतः। हरदत्तः अग्रे गत्वा दृष्टवान्। तत्र एकत्र माधवः, तं परितः गोपालबालाः च उपविष्टाः दृष्टाः। वृक्षस्य अधः उपविष्टः माधवः वेणुंवादयन् आसीत्। सुमधुरम् आसीत् तस्य वेणुगानम्।

एतेन दृश्येन गानमाधुर्येण च वशीकृतः हरदत्तः गानसमाप्तिपर्यन्तं तत्रैव स्थितवान्।

गानस्य समाप्तेः अनन्तरं माधवस्य समीपं गत्वा—“माधव ! वेणुवादने एतावत् प्रावीण्यम् अस्ति इति इतः पूर्वं मां किमर्थं न उक्तवान् भवान् ? कदा एतत् अभ्यस्तम् ? कथम् एतावत् प्रावीण्यं प्राप्तम्?” इति पृष्टवान् हरदत्तः।

तदा माधवः गुरुं नमस्कृत्य उक्तवान्— “श्रीमन् ! क्षन्तव्यः अहम्। एषु दिनेषु एतेभ्यः गोपालकेभ्यः एतत् वेणवादनम् अभ्यस्तम्। मम वेणवादने किमस्ति प्रावीण्यम् ? प्राथमिकं ज्ञानम् एतत्” इति।

हरदत्तः माधवस्य स्कन्धे हस्तं स्थापयन्—“भोः, भवतः एषा सहजविद्या। परिश्रमेण एतस्यां पाण्डित्यं प्राप्य कीर्तिमान भवतु” इति आशिषा अनुगृहीतवान्।

दिनानि वर्षाणि च गतानि। विद्याभ्यासं समाप्य नन्दनः राजास्थाने उच्चोद्योगं प्राप्तवान्। भूपतिः अपि विद्याभ्यासस्य अनन्तरं राजधान्याम् एकं चिकित्सालयम् आरब्धवान्। अचिरात् एव तो कीर्तिमन्तौ जातौ।

माधवः तु वेणुवादनम्य एव अभ्यासं कुर्वन देशविदेशेषु वेणुवादनकौशलेन जनान् तोषयन् सञ्चरति स्म।

केषाञ्चित् वर्षाणाम् अनन्तरं हरदत्तः निश्चितवान् यत् मम शिष्याणां जीवनं कथम् अस्ति इति द्रष्टव्यम् इति। अतः सः प्रथमं

भूपतेः गृहं गतवान्।

कुशलप्रश्नानाम् अनन्तरं भूपतिः स्वस्य चिकित्सालयं प्रदर्शयन् उक्तवान्— “श्रीमन् ! प्रयत्नेन मया वैद्यशास्त्रम् अधीतं, चिकित्सालयः आरब्धः च। आरम्भे मया किञ्चिदिव कीर्तिः प्राप्ता। किन्तु इदानीम् अहं वैद्यवृत्त्या लाभम् एव न पश्यामि” इति।

हरदत्तः तं कानिचन सान्त्वनवचनानि उक्त्वा तेन सह नन्दनस्य गृहं गतवान्। नन्दनः गुरुं महता आदरेण स्वागतीकृतवान्।

नन्दनः बहिस्तात् सुखेन अस्ति इत्येव दृश्यते स्म। तथापि सूक्ष्मतया अवलोकनेन हरदत्तः तर्कितवान् यत् नन्दनं काचित् चिन्ता बाधते इति।

वार्तालापसन्दर्भे नन्दनः विशेषवार्तां

काञ्चित् श्रावितवान्—“श्वः राजसभायां माधवस्य वेणवादनं भविष्यति"इति।

अनन्तरदिने ते त्रयः अपि राजसभां गतवन्तः। वेदिकायाम् उपविष्टः माधवः सभासदः एकवारं दृष्ट्वा गानम् आरब्धवान्। गायन् सः इहप्रपञ्चम् एव विस्मृतवान्। सभासदः अपि सङ्गीतरसास्वादने लीनाः जाताः। गानसमाप्तेः अनन्तरं सर्वे उच्चैः हर्षोद्गारं कृतवन्तः।

राजा स्वयं सिंहासनात् अवतीर्य—“अपूर्वं गानामृतम् आस्वादितं मया। भवता गीतेषु जीवः पूरितः आसीत्। अदृष्टपूर्वं पाण्डित्यं भवतः। भवान् अस्माकम् आस्थानस्य वेणुगानविद्वान् सन् सभायाः शोभां वर्धयेत् इति अस्माकम् अपेक्षा अस्ति” इति माधवं

वदन् सुवर्णनाणकानां दानेन सत्कृतवान्।

माधवः राजानं विनयेन नमस्कृत्य— “प्रभो,देशसञ्चारिणः मम पदव्या कि प्रयोजनम् ? भवतः कलाप्रीतिः अपूर्वा। मम सञ्चारः कुत्र कुत्र भविष्यति इति भवन्तं सूचयन् भविष्यामि। यदा भवान् सूचयिष्यति तदा अत्र आगमिष्यामि च। अतः पदवीस्वीकारविषये अनुरोधं मा करोतु कृपया” इति उक्त्वा राज्ञा दत्तं धनम् अन्नदानव्यवस्थार्थं समर्पितवान्।

तस्मिन् दिने रात्रिसमये त्रयः शिष्याः गुरुः च सम्मिलिताः। वार्तालापमध्ये नन्दनः हरदत्तं पृष्टवान्—“गुरुवर्य ! मया यत् चिन्तितम् आसीत् तत् साधितम्। तथापि जीवने तृप्तिः नास्ति, किमर्थम् ?” इति।

“भवान् विद्याभ्यासे निपुणः आसीत् इति तु सत्यम् एव। भवतः विद्याभ्यासस्य लक्ष्यं ज्ञानार्जनं न आसीत्, अपि तु पदवीसम्पादनम् आसीत्। काचित् पदवी प्राप्ता चेत्, इतोऽपि अग्रिमं स्थानं प्राप्तव्यम् इति इच्छा भवति एव। एवं पदवीप्राप्त्या तृष्णा वर्धते। अतः भवतः जीवने तृप्तिः नास्ति"इति नन्दनम् उक्तवान् हरदत्तः।

अनन्तरं भूपतिं पश्यन्—“भवान् धनसम्पादनं लक्ष्यत्वेन भावयन् प्रयत्नेन विद्याभ्यासं कृतवान्। धनम् अपि सदापि तृष्णां जनयति,न तु तृप्तिम्। एवं भवद्भ्यां द्वाभ्याम् अपि मृगमरीचिकायाः अनुसरणं कृतम्। अतः एव जीवने तृप्तिः नास्ति” इति उक्त्वा माधवं पश्यन् पुनः उक्तवान्— “माधवः तु एवं न कृतवान्। अधिकारः धनं वा अशाश्वतम् इति सः जानाति स्म। अतः सः यस्याम् आसक्तिः,ताम् एव विद्याम् अधीत्य परिणतः जातः। इदानीम् अपि सः अधिकारविषये धनविषये च अनासक्तः। सर्वत्र तस्य कीर्तिः प्रसृता अस्ति” इति।

अधिकारस्थानस्य धनस्य च आशया विद्याभ्यासं कृत्वा तृप्तिप्राप्त्यर्थं स्थितः अवकाशः स्वयं दूरीकृतः यत् तदर्थं नन्दनः भूपतिः च खेदम् अनुभूतवन्तौ।

त्रयः प्रश्नाः

अनुपमदेशं पूर्वं विक्रमसेनः नाम राजा पालयन् आसीत्। तस्य द्वे पत्न्यौ। ज्येष्ठपत्न्याः नाम वासन्ती इति। कनिष्ठपत्न्याश्च नाम माधवी इति। यद्यपि ते सपत्न्यौ तथापि ते द्वे अपि सहोदयौ इव प्रीत्या निवसतः। राजा तयोः उभयोः कृते अपि पृथक पृथक् भवनम् उपकल्पितवान् आसीत्।

वासन्ती माधवी च सौन्दर्यवत्यौ विद्यावत्यौ चापि। माधवी वासन्त्याः अपि चतुरमतिः। सा स्वविनोदस्वभावेन अधिकां जनप्रियतांसम्पादितवती आसीत्।

विक्रमसेनः यथा शासने दक्षः तथैव कविताप्रियः अपि। सः तदा तदा सभायां समस्याः उपस्थापयति।योग्यस्य उत्तरस्य प्राप्त्या सन्तोषम् अनुभवति च। एतादृशेषु विषयेषु माधव्याः अपि आसक्तिः आसीत्। अतः राजा प्रतिदिनं गजसभायां प्रवृत्ताः घटनाः माधवीं निवेदयन् तां सन्तोषयति स्म।

कदाचित् राजा तद्दिने राजसभायां यत् प्रवृत्तं तत् माधवीं निवेदितवान्। तदा माधवी राजानम् उक्तवती—“भवान सदापि चतुरोक्तिभिः सन्तोषं प्राप्नोति खलु ? अतः अहम् अपि त्रीन प्रश्नान् प्रष्टुम् इच्छामि। एते प्रश्नाः भवतः परीक्षार्थम् इति न। मनोविनोदार्थम् एतान् पृच्छामि. यदि भवतः अनुमतिःस्यात्” इति।

“अस्तु,पृच्छतु तावत्” इति उत्साहेन उक्तवान् राजा।

“मम प्रथमः प्रश्नः— पतिः केन प्रकारेण सौन्दर्यवर्णनं करोति चेत् पत्नी नितरां तृष्यति ? इति। विद्यावती, अनरागवती विवेकिनी च पत्नी पत्या कृतं निन्दनं कदा

अपमानकरं भावयति ? — इति त द्वितीयः प्रश्नः। स्त्री कदापि किं न सहते ? — इति तृतीयः प्रश्नः” इत्येवं त्रीन् प्रश्नान् पृष्टवती माधवी।

राजा विक्रमसेनः पत्न्या पृष्टान् प्रश्नान् पुनः पुनः स्मरन् उत्तरस्य अन्वेषणं कृतवान्। उत्तररूपेण विविधाः विकल्पाः तु मनसि आगताः। किन्तु किञ्चिच्चिन्तनेन ज्ञायते स्म यत् ते सर्वे अर्थहीनाः इति। साररहितम् उत्तरम् उक्तं चेत् पत्न्याः निराकरणं श्रोतव्यं भवेत्। राजा एतत् न इच्छति। क्षणकालं यावत् चिन्तयित्वा पत्नीम् उक्तवान् राजा— “बुद्धिमती भवती कठिनान् एव प्रश्नान् उपस्थापितवती” इति।

“भवतः यावत् बुद्धिमत्ता तावत् नास्ति मम। भवता एतेषां प्रश्नानाम् उत्तराणि इदानीम् एव वक्तव्यानि इति नास्ति। स्वयं चिन्तयित्वा, सभ्यान् पृष्ट्वा वा जानात” इति हसन्ती उक्तवती माधवी।

‘सभ्यान् पृष्ट्वा उत्तरं ज्ञात्वा वदतु’ इत्यस्य कः अर्थः ? ‘भवान् एतेषाम् उत्तरं न जानाति’ इत्येव खलु ? माधव्याः एतादृशं वचनं श्रुत्वा राजा किञ्चिदिव खिन्नः। “अस्तु, पश्याम तावत्” इति उक्त्वा ततः निर्गतवान् सः।

पत्युः निर्गमनं पश्यन्ती मनसि एव हसन्ती मौनं स्थितवती माधवी। विक्रमसेनः ततः साक्षात् वासन्त्याः अन्तःपुरं गतवान्।

पत्युः मुखे दृश्यमानं गाम्भीर्यं दृष्ट्वा पृष्टवती वासन्ती—“प्रभो ! मुखे म्लानता किमर्थम् ? राजकार्ये अपरिहार्या समस्या कापि आगता वा ?” इति।

“राजकार्ये समस्या न। भवत्याः भगिनी स्वप्रश्नैः मां चिन्तनकूपे पतितवती” इति उक्तवान् राजा।

तदा समाधानेन निःश्वसती वासन्ती पृष्टवती—“माधव्या प्रश्नाः पृष्टाः वा ? के ते प्रश्नाः ? किं तावद्गभीराः ते ?” इति।

विक्रमसेनः माधव्या पृष्टान् त्रीन् प्रश्नान् अपि वासन्तीम् उक्तवान्।

तदा वासन्ती पृष्टवती—“अहम् एतेषाम् उत्तराणि वदामि वा ?” इति।

“भवती एतेषां योग्यम् उत्तरं जानाति ? तत् कथम् ?” इति आश्चर्येण पृष्टवान् राजा।

“स्त्रियः हृदयं स्त्री एवं ज्ञातुम् अर्हति। तेषां प्रश्नानाम् उत्तराणि अहं भवन्तं वदामि। तानि माधवीं श्रावयन् भवान् वदतु यत् एतानि मया एव विचिन्त्य उक्तानि इति” इति उक्त्वा वासन्ती त्रयाणाम् अपि प्रश्नानां योग्यानि उत्तराणि उक्तवती।

अनन्तरदिने सायङ्काले विक्रमसेनः माधव्याः अन्तःपुरं गत्वा उक्तवान्—“ह्यः त्रीन् प्रश्नान् पृष्टवती आसीत् खलु भवती? तेषाम् उत्तराणि वदामि वा ?” इति।

“तेषाम् उत्तराणि स्वबुद्ध्या एव ज्ञातवान् वा भवान् ?” इति उद्गच्छन्तं हासं निगृहणती पृष्टवती माधवी।

“अथ किम् ? चिन्तनेन सर्वं ज्ञातम्” इति गाम्भीर्येण उक्तवान् राजा।

“उत्तरं श्रावयतु तावत्” इति उक्तवती माधवी।

“भवत्याः प्रथमस्य प्रश्नस्य उत्तरम् एवम्—भवती रम्भा, भवती ऊर्वशी इति कथनस्य अपेक्षया अपि,भवती अमुकसन्दर्याः अपेक्षया अपि श्रेष्ठा इति अन्यया तोलयित्वा पतिः पत्त्याः प्रशंसां करोति चेतु पत्नी नितरां तयति” इति उक्तवान् विक्रमसेनः।

“उचितम् उत्तरम्। द्वितीयस्य उत्तरं किम् ?” इति पृष्टवती माधवी।

“पत्युः निरन्तरं निन्दनं सहमाना अपिपत्नी,सपत्नीनां स्नुषादीनां वा पुरतः पत्या अल्पं तर्जनं कृतं चेदपि तत् अपमानकरं भावयति। एतत् द्वितीयस्य प्रश्नस्य उत्तरम्” इति उक्तवान् विक्रमसेनः।

“अस्तु तावत्। तृतीयस्य उत्तरं श्रावयतु” इति उक्तवती माधवी।

“सहनशीला अपि पत्नी स्वस्य पुरतः पत्या क्रियमाणम् अन्यस्याः स्त्रियः श्लाघनं कदापि न सहते। एतत् तृतीयस्य प्रश्नस्य उत्तरम्” इति विजयगर्वेण उक्तवान् विक्रमसेनः।

“त्रीणि अपि उत्तराणि युक्तानि एव। चतुरमतिः मम अग्रजा सम्यक एव

चिन्तितवती” इति हसन्ती उक्तवती माधवी।

तदा राजा आश्चर्येण स्तब्धः सन्— “अग्रजायाः चातुर्यं किम् अत्र ?” इति पृष्टवान्।

तदा माधवी उक्तवती—“प्रभो,सत्यस्य गोपनेन किम् ? ह्यः भवान् म्लानवदनः सन् इतः निर्गतवान्। इतः साक्षात् वासन्त्याः अन्तःपुरं खलु गतवान् भवान् ? म्लानतायाः कारणं तया पृष्टं स्यात् एव। भवता कारणम् उक्तम्। तदा तया योग्यम् उत्तरं श्रावितम्। एषा खलु वस्तुस्थितिः ?” इति।

इतः परं गोपनेन किमपि प्रयोजनं नास्ति इति आलोच्य विक्रमसेनः पृष्टवान्— “भवत्या उक्तं सत्यम् एव। किन्तु भवत्या एतत्सर्वं कथं तर्कितम?“इति।

“ह्यः भवान् मां किम् उक्तवान् ? ‘बुद्धिमती भवती कठिनान् एव प्रश्नान् पृष्टवती’ इति वदन् मम बुद्धिमत्तायाःउपहासं कृतवान्। उत्तरकथने यत् असामर्थ्यम् आसीत् ततः एषः उपहासः मुखात् निर्गतः इति अहं ज्ञातवती। अतः अद्य भवता उक्तानि उत्तराणि भवदीयानि न इति सहजतया ज्ञातं मया। एतादृशं योग्यम् उत्तरं वक्तुं सामर्थ्यं कस्य अस्ति,ऋते अग्रजायाः” इति मन्दहासपूर्वकम् उक्तवती माधवी।

“चतुरा भवती। यः किञ्चित्कालं यावत् मनसि कालुष्यम् आसीत् इति तु सत्यम् एव। इदानीं तु भवत्याः बुद्धिमत्तां पूर्णेन मनसा अभिनन्दामि” इति वदन् राजा विक्रमसेनः स्वकण्ठे स्थितं रत्नहारं माधव्याः कण्ठे स्थापितवान्।

“विजयमालाम् एतां प्राप्तुम् अर्हा न अहम्,अपि तु मम अग्रजा वासन्ती"इति उक्तवती माधवी।

“ताम् अपि पुरस्करोमि एव अहम्। भवतीं तां च पत्नीरूपेण प्राप्तवान् यत् तेन अहं नितरां धन्यः जातः"इति तृप्त्या उक्तवान् विक्रमसेनः।

]