[[लघुकथासङ्ग्रहः-१५ Source: EB]]
[
अपूर्वः स्वप्नः
तुर्कीदेशे पूर्वं कदाचित् बाबरनामकः कश्चन निर्धनः आसीत्। सः सङ्कोचशीलः। अतः स्वयं गत्वा सः केनापि सह सम्भाषणं न करोति, किन्तु तस्य मनसि धनिकानाम् आकांक्षाः सर्वाः आसन्। तासां पूरणं कथम् इति सः न जानाति।
कदाचित् बाबरः कस्यचित् आपणस्य पुरतः उपविष्टः आसीत्। तदा तस्य मनसि इच्छा उत्पन्ना यत् स्नानशाला गन्तव्या, तत्र कीदृशं सुखं लभ्यते इति ज्ञातव्यं च इति।
सः साक्षात् स्नानशालां गतवान्। धृतानि वस्त्राणि निष्कासितवान्। तत्र अन्यः अपि कश्चित् आसीत्। केचन सेवकाः पानीयदानादिषु तदीयसेवासु मग्नाः आसन्।
निर्धनः बाबरः परिशीलितवान् यत् सः पुरुषः स्वस्य प्रतिरूपम् इव अस्ति। मुखम्, आकारः, औन्नत्यं, स्थौल्यं, वर्णः इत्यादयः सर्वे समानाः ! ‘तदीयं स्थानं मया आक्रमणीयम्’ इति बाबरः निश्चितवान्। यदा सर्वे सेवकाः ततः निर्गताः तत्सन्दर्भे बाबरः तस्य समीपं गतवान्। सः पुरुषः स्नानवस्त्रं धृतवान् आसीत्। बाबरः तम् आकृष्य जलाधारे मज्जितवान्। स्वयं तदीयं स्नानवस्त्रं धृत्वा तदीये स्थाने उपविष्टवान् च। तत्समये स्नानशालायाः सेवकाः. प्रत्यागतवन्तः। ते अत्यादरपूर्वकं निर्धनं बाबरं स्नापितवन्तः। अमूल्येन वस्त्रेण आच्छाद्य तं बहिः आनीतवन्तः। तत्र सेवकाः अमूल्यानि सुन्दराणि च वस्त्राणि गृहीत्वा स्थितवन्तः आसन्। तं बाबरं स्वकीयं स्वामिनं मन्यमानाः ते तानि वस्त्राणि तस्मै धारितवन्तः। अनन्तरं दीनारैः पूर्णम् एकं ग्रन्थिम् आनीय दत्तवन्तः च।
‘इदानीम् एतत् किं करणीयम्?’ इति
क्षणकालम् आलोचितवान् बाबरः। अनन्तरं प्रत्युत्पन्नमत्या धनिकव्यवहारं स्मरन् सः एकैकस्मै सेवकाय एकैकं दीनारं दत्तवान्। सर्वैः परिजनैः परिवृतः सः ततः बहिः आगतवान्।
** तत्र तस्य निमित्तम् अश्वः सिद्धः आसीत्। सेवकाः सूचितवन्तः यत् अश्वम् आरोढुम् अर्हति भवान् इति। बाबरः अश्वारोहणं सम्यक् न जानाति। भगवन्तं स्मरन् अश्वस्य उपरि उपविष्टवान्। अश्वः परिचिते मार्गे अग्रे अगच्छत्।**
** एकस्य महाप्रासादस्य पुरतः अश्वः स्थितवान्। सेवकाः धावन्तः आगत्य प्रासादस्य मुखद्वारम् उद्घाटितवन्तः। हस्तसाहाय्येन^(—) तम् अधः अवतारितवन्तः च।**
** बाबरः प्रासादस्य अन्तः गत्वा आश्चर्येण चतसृषु दिक्षु पश्यति। तदा त आगतः सेवकः पृष्टवान्— “श्रीमन्! भवान् स्वप्रकोष्ठं गच्छति, उत यजमान्याः प्रकोष्ठम्?” इति।**
** “अहं मम प्रकोष्ठम् एव गच्छामि” इति उत्तरितवान् बाबरः।**
** किञ्चित्कालानन्तरं तदीयं प्रकोष्ठम् आगतः सेवकः पृष्टवान्—“श्रीमन् ! भवान् अत्र स्वप्रकोष्ठे भोजनं करोति, उत यजमान्याः प्रकोष्ठे?” इति।**
** “अत्रैव भोजनम् आनयतु” इति आदिष्टवान् बाबरः। भोजनसमाप्तेः अनन्तरं तत्र आगतः सेवकः पृष्टवान्— “श्रीमन् !**
प्रातः आरभ्य भवान् यजमान्याः प्रकोष्ठं न गतवान्। किम् अद्य तत्र न गच्छति?” इति।
** “तथा न, इदानीम् एव तत्र गच्छामि” इति उक्तवान् बाबरः।**
** सेवकः विनयेन तं प्रणम्य ततः निर्गतवान्।**
** कस्यां दिशि गन्तव्यम् इति बाबरः न जानाति। सः भीतः। किन्तु किमपि कर्तुं न शक्यते किल? सः बहूनां द्वाराणाम् उद्घाटनानन्तरम् अन्तःपुरगमनमार्गं ज्ञातवान्। यदा द्वारम् उद्घाटितं तदा यजमानी दृष्टिगोचरा जाता। सा अतीव। सुन्दरी। सौकर्यार्थं वयं तस्याः नाम ‘बेगं पाशा’ इति भावयाम।**
** पतिम् आगतं दृष्ट्वा बेगं पाशा आसनात् उत्थाय स्वागतवचनानि उक्तवती। तस्य समीपम् आगतवती च। बाबरः इदानीं जडः इव सञ्जातः। तस्य पादयोः कम्पनम् उत्पन्नम्। बेगं पाशा तस्य हस्तं गृहीत्वा पर्यङ्के तम् उपवेशितवती। स्वयं पार्श्वे उपविश्य वार्तालापम् आरब्धवती च।**
** बेगं पाशा उक्तवती—“मम एकं कष्टं निवारयतु कृपया। परह्यः मम सखी नजमा आगतवती आसीत्। सा वार्तालापसन्दर्भे भवतः नाम पृष्टवती। शतशः प्रयत्नेन अपि अहं भवतः नाम न स्मृतवती। कृपया नामकथनेन माम् अनुगृह्णातु” इति।**
** इदानीं बाबरस्य पुरतः कठिना समस्या उपस्थिता। सः समस्यातः आत्मानं रक्षन् तां पृष्टवान्— “एतावन्ति वर्षाणि आवाभ्यां दाम्पत्यजीवनं यापितम्। तथापि मम नाम न**
स्मरति वा भवती?” इति।
** किन्तु बेगं पाशा अनुरोधपूर्वकम् उक्तवती— ‘भवता इदानीं स्वनाम वक्तव्यम् एव” इति।**
** बाबरः किम् उत्तरं वक्तव्यम् इति न जानाति। मनसि यत् नाम स्फुरति तत् वदति। अन्ते ‘एषः असत्यं वदन् अस्ति’ इति ज्ञातवती बेगं पाशा। अतः अनन्योपायः बाबरः बेगं पाशायाः पुरतः वस्तुस्थितिं निवेदितवान्। “मां क्षाम्यतु कृपया” इति प्रार्थितवान् च।**
** “अहं क्षमां दातुं शक्नुयाम्। किन्तु चक्रवर्ती कथं वा एतत् सहेत? मम पतिः चक्रवर्तिनः धर्मोपदेशकः। सः प्रतिदिनं महाराजं धर्मतत्त्वं बोधयति। महाराजतः यस्मिन् कस्मिन् अपि समये आगन्तुम् आह्वानम् आगच्छेत्। तदा भवान् किं करोति?” इति पृष्टवती बेगं पाशा।**
** तस्याः वचनं यावत् न समाप्तं तावता एव राजभटाः आगत्य निवेदितवन्तः ‘महाराजः आगन्तुं सूचितवान्’ इति। भीतः बाबरः बेगं पाशां प्रार्थितवान्— “इदानीं भवत्या एव अहं रक्षणीयः” इति।**
** तदा बेगं पाशा उक्तवती— “चक्रवर्तिनः पुरतः आसनद्वयं भवति। तथैव एकः रत्नहारः अपरः सुवर्णहारः च भवति। भवान् रत्नहारं स्वयं स्वीकृत्य स्वर्णहारं हस्तेन उन्नीय महाराजं वदतु— ‘अये मित्र !’ इति। अनन्तरं धर्मचर्चायाः आरम्भः भवतु” इति।**
** बाबरः राजभवनं प्राप्तवान्। महाराजस्य पुरतः स्थितं रत्नहारं स्वकण्ठे धृतवान्। सुवर्णहारं हस्तेन उन्नीय महाराजम् उक्तवान्— “अये, मित्र!” इति।**
** एतदनन्तरं भयकारणतः बाबरः निद्रातः जागरणं प्राप्तवान्। सः दृष्टवान् यत् आत्मना कस्यचित् आपणस्य पुरतः उपविश्य एतावत्पर्यन्तं स्वप्नः दृष्टः इति। ‘धनिकस्थितिप्राप्त्यपेक्षया इदानीन्तना स्थितिः एव वरम्’ इति आलोचितवान् सः। तद्दिनतः सः दारिद्र्ये अपि सुखं सन्तोषं च द्रष्टुं शक्तः अभवत्।**
अत्याशा क्लेशाय
** तुरगपुरीग्रामस्य उत्तरस्यां दिशि काचित् तिन्त्रिणीवाटिका अस्ति। तस्याः अनन्तरं लघुशिखरस्य उपरि प्राचीनः कश्चन दुर्गाम्बादेवालयः अस्ति।**
** कुतश्चित् आगतः कश्चन बालपिशाचः तिन्त्रिणीवाटिकां प्रविश्य तत्रैव वासम् आरब्धवान्। सायङ्कालानन्तरं। तिन्त्रिणीवाटिकाम् अतिक्रम्य दुर्गाम्बामन्दिरं प्रति गमनागमनं कुर्वतः जनान् सः पिशाचः आश्चर्येण पश्यति।**
** ‘अहम् अपि उन्नते स्थले तिन्त्रिणी वृक्षस्य उपरि अस्मि। एतावदेव उन्नतं पर्वतशिखरस्थं दुर्गाम्बादेवालयं गत्वा स्वकष्टानि निवेदयन्ति मानवाः। अन्धकारे तावद्दूरं गमनापेक्षया तिन्त्रिणीवृक्षस्य उपरि निवसतः मम पुरतः ते यदि कष्टं निवेदयेयुः तर्हि अहं किं तत् निवारयितुं न शक्नुयाम्?’ इति आलोचयत् सः बालः पिशाचः।**
** एकदा कश्चन धनिकः दुर्गाम्बायाः दर्शनं कृत्वा मन्दान्धकारे ग्राम प्रतिगच्छन् आसीत्। यदा सः तिन्त्रिणीवनं प्रविष्टवान् तदा पिशाचः तस्य पुरतः प्रत्यक्षीभूय अवदत्— “भवतः परिस्थितिं दृष्टवतः मम अतीव खेदः। तावद्दूरतः आगत्य कष्टेन पर्वतम् आरुह्य दुर्गाम्बायाः दर्शनं करोति खलु? किं सा कष्टम् अपसारितवती? मत्पुरतः भवान् स्वकीयानि कष्टानि निवेदयतु। क्षणमात्रेण तानि परिहरिष्यामि” इति।**
** पिशाचदर्शनेन दिग्भ्रान्तः अपि धनिकः क्षणकालानन्तरम् आत्मनि धैर्यं प्रपूर्य— “मम कष्टं किमिति निवेदयामि? मम यथेष्टम् ऐश्वर्यम् अस्ति। किन्तु रात्रौ निद्रां कर्तुम् एव न शक्नोमि। किं करणीयम् इत्येव**
न ज्ञायते” इति सखेदम् अवदत्।
** तदा सः बालः पिशाचः उत्साहेन अवदत्— “एवं वा ? भवतः निद्राहीनतायाः कारणं मया ज्ञातम्। अद्य रात्रौ भवतः कष्टम् अपगतं भविष्यति। एतस्य प्रतिफलरूपेण दुर्गाम्बायाः मन्दिरम् इव मह्यम् अपि अत्र तिन्त्रिणीवने एकं मन्दिरं सज्जीकरोतु” इति।**
** “एतावदेव खलु ? मम कष्टम् अपगतं भवतु। मन्दिरनिर्माणं तु अल्पस्य श्रमस्य कार्यम्” इति उक्त्वा धनिकः ततः गतवान्।**
** किञ्चित्कालानन्तरं मध्यमवर्गीयः कृषकः तिन्त्रिणीवनं प्रविष्टवान्। तस्य पुरतः स्थित्वा प्रश्नम् अकरोत् पिशाचः— “प्रतिदिनम् अपि भवान् नियतरूपेण मन्दिरं गच्छन् अस्ति। तथापि दुर्गाम्बा भवतः इष्टं न पूरितवती। एतत् सत्यं खलु?” इति।**
** “दैवाधीनं खलु जगत् सर्वम् !” इति उक्तवान् सः कृषकः।**
** “वृथा किमर्थं वस्तुस्थितेः अपलापः? भवतः मनसि किम् अस्ति इति अहं जानामि। अद्यैव भवतः इष्टं सिद्धम् इति भावयतु। मन्निमित्तं धनिकः मन्दिरनिर्माणं करिष्यामि इति आश्वासनं दत्तवान् अस्ति। एवं निर्मीयमाणे मन्दिरे भवान् प्रतिदिनं दीपं ज्वालयितुम् अर्हति वा?” इति अपृच्छत् सः बालः पिशाचः।**
** “मम इष्टं यदि सिध्येत् तर्हि न केवलं मन्दिरे, मम गृहे अपि भवन्नाम स्मरन् दीपं ज्वालयिष्यामि। मम पुत्री प्राप्तवयस्का अस्ति। वरपक्षीयाः यावत् धनं पृच्छन्ति तावत् दातुम् अहम् अशक्तः अस्मि। अतः सा अद्यावधि अविवाहिता एव अस्ति। न जाने, एतत् कष्टं कदा अपगच्छेत् इति” इति खेदेन उक्तवान् कृषकः।**
** “तत्सर्वं वक्तव्यं नास्ति। अहं सर्वं स्वयं जानामि। अद्य भवतः कष्टं निवृत्तं भविष्यति” इति अवदत् पिशाचः। कृषकस्य निर्गमनानन्तरं निर्धना वृद्धा मन्दगत्या तिन्त्रिणीवनं प्रविष्टवती। तस्य वृक्षस्य समीपम् आगतवती च।**
** तस्याः पुरतः स्थित्वा पिशाचः अवदत्— “भवत्याः कष्टम् अहं निवारयिष्यामि।**
प्रतिफलरूपेण अत्र निर्मीयमाणं मन्दिरं प्रति भवत्या जनाः आनेतव्याः, रथयात्रा कारणीया च” इति।
** तदा निर्धना अश्रूणि स्रावयन्ती— “मम पतिः मद्यपः। किमपि कार्यं न करोति। मया सम्पादितम् अपि बलात् वशीकृत्य मद्यं पिबति। एतत् कष्टं निवृत्तं चेत् न केवलं रथयात्रायाः व्यवस्थां, रथयात्रादिने स्वयं नृत्यं करिष्यामि” इति उक्तवती।**
** “इतःपरम् एतादृशं कष्टं न भविष्यति। गृहं गत्वा पश्यतु” इति असूचयत् पिशाचः।**
** रात्रौ स्वप्ने पिशाचेन मन्दिरनिर्माणं, लक्षशः जनानाम् आगमनं, नित्यपूजा, रथोत्सवः नृत्यसेवा इत्यादयः दृष्टाः।**
** अनन्तरदिने सूर्यास्तानन्तरं धनिकः यथापूर्वं तिन्त्रिणीवनं प्रविष्टवान्। तम् अपृच्छत् पिशाचः— “किं भोः? रात्रौ सम्यक् निद्रा कृता खलु? मन्निमित्तं निर्मीयमाणस्य मन्दिरस्य आरम्भः कस्मिन् मुहूर्ते?” इति।**
** तदा धनिकः कोपेन गर्जितवान्— “भोः दुष्टबुद्धे! भवदर्थं मन्दिरस्य न, शवस्थानस्य निर्माणं करिष्यामि। निद्रायाः अभावस्य कारणं धनम् एव इति भावयन् भवान् मम सम्पत्तिम् अङ्गारमयीं कृतवान्। प्रथमं मम सम्पत्तिं यथापूर्वं करोतु। अन्यथा मन्त्रवादिद्वारा भवन्तं पातालं प्रति प्रेषयिष्यामि” इति।**
** मन्त्रवादिनः नामश्रवणेन एव भीतः पिशाचः अवदत्— “तादृशं किमपि मा करोतु कृपया। गृहं गत्वा पश्यतु। सर्वं यथापूर्वं दृश्यते” इति।**
** “अस्तु तावत्” इति उक्त्वा ततः निर्गतवान् धनिकः। अनन्तरं तत्र आगतं कृषकम् अपृच्छत् पिशाचः– “भवतः इष्टं सिद्धं खलु? दीपज्वालनसमये मम नाम्नः स्मरणं कृतवान् वा?” इति।**
** “भवदर्थं दीपः ज्वालनीयः? अहं पुत्र्याः विवाहं निर्वर्तयितुं कष्टम् अनुभवामि इति यत् उक्तवान् तत् श्रुत्वा भवान् मम पुत्रीं पुरुषरूपेण परिवर्तितवान्। अकाले उत्पन्नं श्मश्र्वादिकं दृष्ट्वा लज्जिता सा रुदती कोणे उपविष्टा अस्ति। तां यथापूर्वं सुन्दरीं करोतु।**
अन्यथा मन्त्रवादिद्वारा होमं कारयित्वा तत्र भवन्तम् आहुतिरूपेण समर्पयिष्यामि” इति कोपेन उक्तवान् कृषकः।
पुनः अपि भीतः दिग्भ्रान्तः च पिशाचः दैन्येन अवदत्— “भोः, तथा न करोतु। गृहं गत्वा पश्यतु। भवतः पुत्री पुनरपि सुन्दरी जाता अस्ति” इति।
तस्य कृषकस्य निर्गमनानन्तरं सा निर्धना स्त्री आक्रोशनं कुर्वती पिशाचसमीपम् आगतवती। तदा पिशाचः अपृच्छत्—“किमर्थम् आक्रोशनम्? रथोत्सवदिने क्रियमाणस्य नाट्यस्य अभ्यासः तु एषः न खलु?” इति।
एतत् श्रुत्वा सा निर्धना कोपेन—“भवता यत् कृतं तदर्थं रथयात्रा न, अपि तु भवतः निखननं कारणीयम्। मम पतिः मम सम्पादनम् अपि स्वीकरोति इति यत् उक्तं तदर्थं भवान् तं हस्तपादादिचालने असमर्थं कृतवान्। किं मम सौभाग्यम् अपहर्तुम् इच्छति?” इति रुदती उक्तवती।
“मातः ! तथा न करोतु। भवत्याः पतिः यथापूर्वम् रागालापनं कुर्वन् गृहे स्थितः अस्ति। गत्वा पश्यतु” इति अवदत् पिशाचः। पिशाचं पुनः पुनः निन्दन्ती ततः निर्गतवती सा निर्धना वृद्धा।
‘इतः परम् अत्र निवासेन अपायः एव भवेत्’ इति आलोच्य ततः निर्गतवान् सः पिशाचः। ततः अरण्यं गत्वा विशालं वटवृक्षम् आश्रित्य स्थित्वा आलोचितवान् सः—“तेषां हितार्थं मया यत् कृतं तत् किमर्थं विपरीतं परिणामम् अजनयत्?” इति।
तदा तस्मिन् एव वृक्षे चिरकालात् स्थितः पिशाचः एतस्य बालपिशाचस्य खेदस्य कारणं पृष्ट्वा ज्ञात्वा च अवदत्— “मित्र ! अत्र भवतः एव दोषः। मानवाः देवान् एव पूजयन्ति, न तु पिशाचादीन्। मन्दिराणि अपि देवानाम् एव, न तु पिशाचानाम्। अन्यच्च पिशाचाः वयं सत्कार्यं कर्तुं किं, चिन्तयितुम् अपि न शक्नुमः। अतः ग्रामवासविचारं परित्यज्य अत्रैव सुखेन निवसतु” इति।
अविवेकिता
कस्मिंश्चित् ग्रामे सोमनाथः नाम वृद्धः निवसति स्म। सः तृणानि विक्रीय धनं सम्पाद्य तेन जीवति स्म। एकदा वृद्धः सोमनाथः पर्वतसमीपं गतवान्। पत्न्या दत्तं पृथुकानां ग्रन्थिं वृक्षस्य शाखायां स्थापयित्वा तृणकर्तने प्रवृत्तः।
किञ्चित्कालानन्तरं सः श्रमनिवारणार्थं वृक्षस्य छायायाम् उपविष्टवान्। अत्रान्तरे तत्र कश्चन वानरसमूहः आगतः। ते वानराः वृक्षशाखायां स्थापितं तं पृथुकग्रन्थिं स्वीकृतवन्तः। ग्रन्थिस्थान् पृथुकान् इतस्ततः विकिरन्तः खादितवन्तः।
वृद्धः सोमनाथः एतत्सर्वं पश्यन् अपि मौनं स्थितवान्। वानराः किञ्चित्कालं तस्य पुरतः आगत्य ‘किस्, पिस्’ इति ध्वनिम् उत्पादितवन्तः। अनन्तरं तं मूर्तिंमन्यमानाः उन्नीतवन्तः। समीपस्थस्य मन्दिरस्य सोपानमार्गे उपवेशितवन्तः च।
एतंदनन्तरं ते वानराः ततः निर्गत्य अल्पे एव काले प्रत्यागतवन्तः। तेषां मुष्टौ नाणकानि आसन्। तानि नाणकानि सोमनाथस्य पुरतः राशीकृत्य ते ततः दूरं गतवन्तः।
एतावत्पर्यन्तं सोमनाथः नेत्रे निमील्य विना कम्पनं स्थितवान् आसीत्। किञ्चित् चिन्तनानन्तरं सः एवं निर्णीतवान्— ‘मार्गे गन्तारः जनाः मन्दिरस्य पुरतः नाणकानि क्षिप्त्वा गच्छन्ति खलु? तानि नाणकानि एते वानराः मानवाः इव सङ्गृहीतवन्तः। इदानीं मम पुरतः स्थापितवन्तः’ इति।
वानराणां निर्गमनानन्तरं तेषां चेष्टाः स्मरन् सोमनाथः मनसि एव हसितवान्। दैवयोगात् अद्य तस्य भाग्यं फलितम्। सोमनाथः सर्वाणि नाणकानि स्वीकृत्य गृहं प्रति प्रस्थितवान्। मार्गे सः विपणिं गत्वा नूतनानि वस्त्राणि क्रीतवान्। गृहम् आगत्य
अवशिष्टानि नाणकानि पत्न्याः हस्ते समर्प्य मिष्टखाद्यं निर्मातुं सूचितवान्।
नूतनवस्त्राणि धृत्वा सोमनाथः तस्य पत्नी शीला च भोजनार्थम् उपविष्टवन्तौ। तदा कमला नाम वृद्धा प्रतिवेशिनी तत्र आगतवती। आश्चर्येण पृष्टवती च— “अये भगिनि ! भवत्याः गृहे अद्य कः विशेषः? नूतनानि वस्त्राणि धृतानि। मिष्टखाद्यानि कृतानि दृश्यन्ते ! का वार्ता?” इति।
शीलयाउक्तं सर्वं श्रुत्वा कमला त्वरया स्वगृहं गतवती। सोमनाथेन प्राप्तं वानरसाहाय्यं पतिं निवेद्य सूचितवती च— ‘भवान् अपि श्वः पर्वतसमीपं गच्छतु। सोमनाथः इव भवान् अपि वानरेभ्यः धनं प्राप्नोतु” इति।
कमलायाः पतिः शेखरः एतत् अङ्गीकृतवान्। अनन्तरदिने वृद्धः शेखरः पृथुकबन्धं स्वीकृत्य पर्वतसमीपं गतवान्। वृक्षशाखायां बन्धं लम्बयित्वा मूर्तिवत् उपविष्टवान् च।
किञ्चित्कालानन्तरं वानाराणां दलं तत्र आगतम्। ते वानराः बन्धे स्थितान् पृथुकान् सम्यक् खादितवन्तः। वृद्धं शेखरं मूर्तिं मन्यमानाः उन्नीय प्रस्थितवन्तः च।
वानराणाम् एतां चेष्टां दृष्टवतः शेखरस्य मुखात् अप्रयत्नेन हासः आगतः। सः उच्चैः हसितवान्। नेत्रे उद्घाट्य वानरान् दृष्टवान् च। एतत् दृष्ट्वा वानराः कुपिताः। ते तं शेखरं तत्रैव पातितवन्तः। तस्य शिरसि ताडयितुम् आरब्धवन्तः। तस्य केशान् आकृष्टवन्तः। नखैः तस्य शरीरे व्रणान् उत्पादितवन्तः। अनन्तरं कीचकुर्वन्तः कूर्दन्तः च ततः निर्गतवन्तः।
वृद्धस्य शेखरस्य शरीरात् रक्तम् आगतम्। सः रोदनं कुर्वन् महता कष्टेन गृहं प्राप्तवान्। पतिः नूतनानि वस्त्राणि आनयति इति भावयन्ती कमला प्राचीनानि वस्त्राणि अग्नौ स्थापितवती आसीत्। नूतनानि वस्त्राणि धृत्वा ग्रामे सर्वत्र सगर्वम् अटनीयम् इति तस्याः इच्छा। किन्तु पत्युः एतां दुरवस्थां दृष्टवत्याः तस्याः स्वप्नमन्दिरं भग्नम्। सा दुःखेन तत्रैव पतितवती।
भारवहनम्
श्रीपादपुराग्रहारे परमेश्वरशास्त्री नाम कश्चन महापण्डितः निवसति स्म। तस्य समीपे अनेके धर्मशास्त्रग्रन्थाः आसन्। जाति-मत-कुलादि-भेदकारणतः लोके प्रचलतः कलहान्, युद्धं, मारणं, रक्तपातं च दृष्ट्वा सः अतीव खेदम् अनुभवति। अतः सः इतरमतानां सम्बन्धिनः ग्रन्थान् अपि आमूलाग्रं सूक्ष्मतया परिशीलितवान्।
एवं परिशीलनेन तेन एकम् अपूर्वं तत्त्वं ज्ञातं यत् किमपि मतं हिंसां न बोधयति इति। सर्वेषु मतेषु सर्वसमानता लोककल्याणप्राप्तिः च सम्यक् प्रतिपादिते आस्ताम्। एतेन परमेश्वरशास्त्री निश्चितवान् यत् सर्वाणि मतानि श्रेष्ठानि एव इति।
‘एषः विषयः जनानां पुरतः उपन्यासादिभिः उपस्थापनीयः। जनानां मनस्सु ये सन्देहाः उत्पद्यन्ते ते तत्तन्मतस्य ग्रन्थानाम् उदाहरणैः एव निवारणीयाः’ इति परमेश्वरशास्त्री निश्चितवान्।
एतदनुगुणं परमेश्वरशास्त्री कार्यम् आरब्धवान्।एकस्यां पेटिकायां सर्वमतसम्बन्धिनः प्रमुखग्रन्थान् अपि स्थापितवान्। तस्य वहनार्थं वीरेशनामकं कर्मकरं नियुज्य, तेन सह देशसञ्चारार्थम् उद्युक्तः जातः।
आरम्भदशायां परमेश्वरशास्त्रिणः उपन्यासस्य विषये जनाः विशेषतः अवधानं न दत्तवन्तः। किन्तु तत्तन्मतस्य ग्रन्थं स्थले एव प्रदर्श्य ग्रन्थस्थम् उदाहरणवाक्यम् अपि प्रदर्श्य सर्वेषाम् अपि मतानां सन्देहान् निवारयति इति यदा ज्ञातं तदा समाजे तस्य प्रभावः अवर्धत। अतः सर्वदिग्भ्यः अपि जनाः तम् आहूतवन्तः।
बहुत्र तेन सूचितेन परिहारेण जनाः अतीव
सन्तुष्टाः। प्रतिफलरूपेण तैः धनरूपेण वस्तुरूपेण च अनेकानि उपायनानि दत्तानि। एवं क्रमशः परमेश्वरशास्त्रिणः गौरवं धनं च अवर्धत।
** कश्चित् भूस्वामी तु कदाचित् लक्षरूप्यकात्मकेन उपायनदानेन परमेश्वरशास्त्रिणं विशेषतः सत्कृतवान्।**
** परमेश्वरशास्त्रिणः ख्यातिः यथा देशे तथैव विदेशेषु अपि प्रसृता। सर्वे तस्य पाण्डित्यस्य प्रशंसां कुर्वन्ति। ऐश्वर्यं चापि वर्धते। किन्तु परमेश्वरशास्त्रिणः पुस्तकानां पेटिकां वहन् वीरेशः तु दिने दिने क्षीणः भवति। तस्य मुखं तु सदा कान्तिहीनं दृश्यते।**
** वीरेशः कीदृशेन रोगेण पीड्यमानः अस्ति अजानन् परमेश्वरशास्त्री तं चिकित्सालयं नीतवान्। वैद्यः वीरेशं सम्यक् परीक्ष्य एतस्य शारीरकः रोगः कोऽपि नास्ति इति सूचितवान्।**
** तत् श्रुत्वा परमेश्वरशास्त्री वीरेशम् उक्तवान्— “भवान् दिने दिने कृशः भवन् अस्ति। शारीरकरोगः तु कोऽपि नास्ति इति वैद्यः वदति। एवं तर्हि भवतः मनसि का व्यथा अस्ति? निस्सङ्कोचं वदतु तावत्” इति।**
** वीरेशः ‘तादृशी व्यथा काऽपि नास्ति’ इति उक्तवान्। किन्तु परमेश्वरशास्त्रिणा यदा अनुरोधपूर्वकं पुनः पुनः पृष्टं तदा सः उक्तवान्— “श्रीमन् ! भवतः ग्रन्थान् सर्वान् अहं वहामि। किन्तु कीर्तिः धनं च भवतः। भारं वहतः मम विशेषलाभः कोऽपि नास्ति। एषा एव व्यथा मम” इति।**
** एतादृशी व्यथा वीरेशस्य मनसि स्यात् इति परमेश्वरशास्त्रिणा न तर्कितम् अपि आसीत्। सः आश्चर्यम् अनुभवन् वीरेशं विवेकं बोधयितुम् इच्छन् पृष्टवान्— “वीरेश ! पुस्तकपेटिकां भवान् प्रतिदिनम् आनीय शकटे स्थापयति। पुनः शकटतः वेदिकापर्यन्तं नयति च। एवं च विचार्यमाणे, भवान् प्रतिदिनं घण्टाद्वयं केवलं पेटिकाभारं वहति, न ततोऽपि अधिकम्। सत्यं खलु?” इति।**
** “एतत् तु सत्यम् एव। किन्तु मया येषां ग्रन्थानां भारः उह्यते तेषाम् आधारेण एव खलु भवान् कीर्तिं धनं च सम्पादयति?” इति पृष्टवान् वीरेशः।**
** “पुस्तकानां कारणतः धनप्राप्तिः इति तु सत्यम् एव। तेषां पुस्तकानां भारं भवान् घण्टाद्वयं यावत् वहति। भारम् अपनेतुम् अपि भवतः अवकाशः अस्ति। किन्तु मम परिस्थितिं पश्यतु। पुस्तकस्थानां विषयाणां भारम् अहोरात्रं मम मस्तिष्केण वहामि खलु? निद्रासमये अपि स च भारः मम उपरि भवति एव। एवं तर्हि मम परिस्थितिः कीदृशी स्यात्?” इति।**
** यदा कदापि कस्य पुस्तकस्य कस्मिन् पृष्टे किम् अस्ति इति जानन् परमेश्वरशास्त्री झटिति सर्वम् उद्घाट्य पश्यति वदति च इति वीरेशः जानाति एव। अतः सः पश्चात्तापेन उक्तवान्— “श्रीमन् ! मया मम दोषः ज्ञातः। मेधाविनः कर्मकरस्य च मध्ये महान् भेदः अस्ति। अविचिन्त्य यत् उक्तवान् तदर्थं मां क्षाम्यतु” इति।**
** परमेश्वरशास्त्री तद्दिने एव वीरेशस्य वेतनं वर्धितवान्। एतावदेव न, सर्वासु अपि सभासु वीरेशेन क्रियमाणं साहाय्यं प्रशंसापूर्वकं वदति स्म च।**
** वीरेशस्य मनोव्याधिः सर्वथा अपगतः। तदारभ्य सः शिरसा भारवहनसन्दर्भे मनसि एव भगवन्तं प्रार्थयते— “एतेषां पुस्तकानां बाह्यभारवहनकार्यं यजमानस्य कदापि मा भवतु” इति।**
बोधनतत्त्वम्
** सुधाकरः राजास्थाने उत्तमे उद्योगे अस्ति। तस्य बन्धुप्रेम अधिकम्। बान्धवाः तदा तदा न दृष्टाः चेत् सः अनिर्वचनीयां मानसिकपीडाम् अनुभवति।**
** एकदा सः विरामसमये नगरे एव स्थितं मातामहस्य गृहं गतवान्। मातामहस्य पुत्रः विशेषतः विद्याभ्यासं कृत्वा अपि उद्योगं कमपि अनिच्छन् गृहे स्थित्वा कृषिकार्ये निरतः आसीत्।**
** सुधाकरः विनयशीलः मितभाषी च। ज्येष्ठान् सदा विनयेन पश्यति। आत्मनः विषये कदापि सः किमपि न कथयति। यावच्छक्यं परोपकारं कुर्वन् तृप्त्या जीवति सः।**
** मातामहः सुधाकरं दृष्ट्वा सन्तोषं प्रकटयन् तं स्वसमीपम् आहूय उक्तवान्— “राजास्थाने उच्चोद्योगे तिष्ठन् अपि भवान् प्रीत्या आगतवान्। किन्तु गोपालं पश्यतु, सः ग्रामे कमपि न इच्छति। केनापि न मिलति। सर्वत्र अपि कमपि दोषं पश्यन् प्रदर्शयन् च तिष्ठति। भवान् वा तं हितम् उपदिशतु” इति।**
** तद्दिने सायडङ्काले सुधाकरः मातामहस्य पुत्रं गोपालं स्वसमीपम् आहूय वार्तालापं कुर्वन् व्यवहारविषये सूक्ष्मतया सूचितवान्।**
** तस्मिन् ग्रामे कृषिकार्ये निरतेषु गोपालः एकः एव विद्यावान्। सः कृषिकार्यस्य तन्त्रम् अपि सम्यक् जानाति। अतः एव जनाः तं विशेषादरेण पश्यन्ति प्रशंसन्ति च।**
** गोपालः कस्यापि साहाय्यं न करोति। किन्तु सर्वे गोपालस्य साहाय्यार्थं तु आगच्छन्ति स्म एव। अन्येषां कष्टपरिस्थितौ तेषां मौढ्यं दृष्ट्वा गोपालः उपहसति। किन्तु आत्मनः कष्टस्थितौ सर्वे सहानुभूतिं**
प्रदर्शयेयुः उपकुर्युः च इति इच्छति। अन्ये सन्तोषं प्राप्नुवन्ति चेत् एषः असूयया असमाधानं प्राप्नोति। आत्मना सन्तोषः प्राप्तः चेत् सर्वे सन्तोषं प्रकटयेयुः इति इच्छति। अन्येषां लोपदोषादिकं निर्दाक्षिण्यं कथयन् गोपालः आत्मना कृतेषु कार्येषु अन्यैः लोपः दृष्टः चेत् क्रुद्धः भवति।
** एतत् सर्वं परिशील्य सुधाकरः गोपालम् उक्तवान्— “गोपाल ! सर्वस्य कारणम् आत्मा एव। आत्मनि औदार्यं सहना, सद्गुणाः च वर्धनीयाः। तदा एव भवान् इतरेषु अपि गणान् श्रेष्ठत्वं च द्रष्टुं शक्नोति। भवन्तम् अपि तदा एव सर्वे गौरवेण पश्यन्ति” इति।**
** तदा गोपालः असमाधानेन सुधाकरं पृष्टवान्—“एवं च भवतः कथनस्य किं तात्पर्यम्?” इति।**
** “गोपाल ! भवति अहङ्कारः, स्वार्थभावना, अल्पत्वम्, असूया, कोपः, लोभः इत्यादयः दुर्गुणाः सन्ति। तान् सर्वथा परित्यजतु। तदा एव भवान् समग्रे लोके सदंशान् पश्यति, लोकश्च भवन्तम् आदरेण पश्यति” इति उक्तवान् सुधाकरः।**
** एतत् श्रुतवतः गोपालस्य कोपः इतोऽपि प्रवृद्धः। “एतत् वचनं केनापि अन्येन उक्तं यदि स्यात् तर्हि तस्य सर्वे दन्ताः भग्नाः अभविष्यन्। भवान् तु अतिथिः इत्यतः मौनं सर्वं सहे। अहं कदापि अन्यस्य उपदेशं न इच्छामि” इति उक्तवान् गोपालः।**
** एतेन सुधाकरः बहुधा खिन्नः। ‘अस्थाने**
प्रवेशः यः कृतः तस्य फलम् एतत्’ इति आलोच्य सः मौनम् आश्रितवान्।
** अनन्तरदिने तं ग्रामं महानन्दः नाम योगी आगतवान्। सः ग्रामं ग्रामं गत्वा वेदान्तम् उपदिशति स्म। रात्रौ देवालयस्य प्राङ्गणे तस्य उपन्यासस्य व्यवस्था कृता।**
** सुधाकरः सामान्यतः एतादृशेषु न आसक्तः। अतः सः एतदर्थम् अहं न आगच्छामि’ इति उक्तवान्। तदा गोपालः तम् उक्तवान्— अद्य तु उपन्यासमालायाः प्रथमं दिनम्। मद्गृहसदस्यैः सर्वैः अपि गन्तव्यम् एव। यतः ग्रामज्येष्ठानां कुटुम्बम् अस्माकम्। अस्मदर्थं सभायाम् अग्रिमासन्दाः आरक्षिताः भवन्ति” इति।**
** अनिच्छन् अपि सुधाकरः योगिनः उपन्यासं श्रोतुं सिद्धः जातः।**
** जनानां सम्मेलनानन्तरं योगिनः उपन्यासः आरब्धः। सः सद्व्यवहारविषये वदन् सुधाकरेण गोपालाय यत् उक्तं तदेव उक्तवान्।**
** एतत् श्रुतवतः सुधाकरस्य मनसि आतङ्कः उत्पन्नः— ‘क्रुद्धः गोपालः ह्यः मां यथा उक्तवान् तथैव पूज्यं योगिनम् अपि कठोरं वदेत्’ इति।**
** योगिनः उपन्यासः सर्वैः श्रद्धया भक्त्या च श्रुतः। सर्वे यथा जानीयुः तथा सरलया शैल्या मनोरञ्जकैः उदाहरणैः बोधितवान् योगी। वस्तुतः उपन्यासः सुधाकराय अपि अरोचत। तथापि— ‘उपन्यासः उत्तमः आसीत् इति वदामि चेत् गोपालः कुपितः भवेत्’ इति**
आलोच्य सः मौनं स्थितवान्।
** गृहं प्रत्यागतः गोपालः योगिनः उपन्यासं विशेषतःप्रशंसन् सुधाकरम् उक्तवान्— “अद्य इव प्रतिदिनम् अपि वयं सर्वे योगिनः उपन्यासं श्रोतुं गच्छेम। उपन्याससमाप्तिपर्यन्तं भवान् मम गृहे एव तिष्ठतु” इति।**
** एतत् श्रुतवतः सुधाकरस्य महदाश्चर्यम्। ‘मया यदा नीतिः बोधिता तदा नितरां क्रुद्धः एषः गोपालः ताम् एव नीतिं योगिना बोध्यमानं विशेषतः इच्छति ! एतेन सिध्यति यत् मयि अविद्यमानः कोऽपि विशेषः योगिनि अस्ति। सः कः इति मया ज्ञातव्यम्’ इति आलोच्य सुधाकरः अनन्तरदिने योगिनम् एकान्ते दृष्ट्वा स्वकीयं सन्देहं निवेदितवान्।**
** तत् श्रुत्वा योगी महानन्दः उक्तवान्— ‘वत्स, सुधाकर ! कोऽपि मानवः आत्मनः दोषं न अङ्गीकरोति, आत्मनः दोषाः ज्ञातव्याः इति न इच्छति अपि। एवं स्थिते गोपालं तदीयदोषं ज्ञापयितुं भवान् यत् प्रवृत्तः तत्रैव दोषः अस्ति। एवं तर्हि मम वचनं तस्मै कथम् अरोचत इति भवतः सन्देहः स्यात्। अहं तु समस्तलोकोपकारकं परमार्थं बोधयामि। कमपि व्यक्तिविशेषम् उद्दिश्य न वदामि अपि। यदा सभायाम् उपन्यासं करोमि तदा सर्वे मम निरूपणविषये अवधानवन्तः भवन्ति। माम् उद्दिश्य उक्तम् इति कोऽपि न भावयति। गोपालस्य अपि स्थितिः एषा एव। अहं सर्वान् उद्दिश्य वदन् अस्मि इति भावयन् सः स्वसम्बद्धतां जानन् अपि शान्तरूपेण स्थितवान्। किन्तु यदा मया उक्तायाः नीतेः विमर्शःमनसि प्रचलति तदा अन्तरङ्गं सूचयति— भवते अपि एषा नीतिः अन्वेति इति। अत एव गोपालः अग्रे अपि उत्साहं प्रदर्शितवान्। वस्तुतः बोधनरीतिः एव एषा। व्यक्तिशः साक्षात् कथनापेक्षया समूहे परम्परया कथनम् उचितम्” इति।**
** इदानीं सुधाकरेण बोधनतत्त्वं सम्यक् ज्ञातम्। सः योगिनं महानन्दं साष्टाङ्गं नमस्कृत्य तृप्तेन मनसा ततः आगतवान्।**
चतुरा वृद्धा
** देवपुरे सीतारामः नाम कश्चन पण्डितः आसीत्। सः स्वसमीपम् आगतान् शिष्यान् पाठयन् तैः दत्तया गुरुदक्षिणया तृप्त्या जीवति। पञ्चशतं रूप्यकाणि तेन सञ्चितानि आसन् अपि।**
** एकदा काश्यां प्रचलिष्यमाणायां विद्वत्सभायां भागग्रहणार्थं सीतारामेण आह्वानं प्राप्तम्। सः काशीं गन्तुं सिद्धः जातः। किन्तु धनं कुत्र स्थापनीयम् इति समस्या। गृहे स्थापनं पत्नी न अङ्गीकरोति। “धनं नाम अपायकरं तत्। अतः धनस्य रक्षणं सर्वथा न शक्यते” इति वदति सा।**
** ‘एवं तर्हि धनं कस्य अधीने स्थापनीयम्?’ इति आलोचयन् सीतारामः आपणिकस्य नागपतेः समीपंगतवान्। पृष्टवान् च— “भवान् मम साहाय्यं कर्तुम् अर्हति वा? कस्य समीपे स्थापितं चेत् धनं सुरक्षितं तिष्ठेत् ?” इति।**
** “श्रीमन् ! धनविषये सर्वे प्रमाद्यन्ति एव। कुबेरः अपि अत्र अपवादाय न भवेत्। यतः तत् तथा लोभं जनयति” इति उक्तवान् नागपतिः।**
** तयोः वार्तालापसमये काचित् वृद्धा आगत्य घृतं क्रीतवती। कर्मकरः घृतं दत्त्वा तया दत्तं धनं स्वीकृत्य तां प्रेषितवान्।**
** तदा तया दत्तं धनं गणयन् नागपतिः— “भोः दुराचारिन् ! तस्याः सकाशात् एकम् आणकम् अधिकं स्वीकृतवान् खल? न्याय्यस्य लाभस्य अपेक्षया अधिकम् एकां वराटिका अपि न स्वीकरणीया इति न जानाति वा भवान्? एतद्विषये कियद्वारं मया बोधितम् इति स्मरतु। तथापि भवान् एवम् आचरति खलु? पुनः यदा सा आगमिष्यति तदा एंकम् आणकं प्रत्यर्पयतु। इतः परम् एवम् आचरति चेत् भवन्तम् उद्योगात् निष्कासयिष्यामि” इति तर्जितवान्।**
** एतां घटनां प्रत्यक्षं दृष्टवान् सीतारामः नागपतेः प्रामाणिकतायां परमविश्वासं प्राप्तवान्। गृहं प्रतिगतः सः धनेन सह नागपतेः गृहं गतवान्। नागपतिम् उक्तवान् च— “भोः, एतत् मया सञ्चितं धनम्। यावत् अहं काशीतः प्रत्यागमिष्यामि तावत् एतस्य रक्षणभारः भवतः” इति।**
** “हा हन्त ! किम् एतत् ! अन्यस्य धनम् अहम् अङ्गुल्या अपि न स्पृशामि। अन्यत्र कुत्रापि भवता स्थानं न प्राप्तं चेत् मम गृहे भवान् एव भूमौ गर्ते स्थापयित्वा गर्तं मृत्तिकया प्रपूर्य गच्छत्। प्रत्यागमनानन्तरं ततः स्वयं नयतु च” इति उक्तवान् नागपतिः।**
** ‘अहो सौजन्यं निर्लोलपता च नागपतेः !’ इति आत्मनि एव उद्गारं प्रकटयन् सीतारामः एकत्र गर्तं कृत्वा धनपात्रं गर्ते स्थापयित्वा गर्तं मृत्तिकया प्रपूर्य, तत्स्थलं सम्यक् निरीक्ष्य नागपतिं कृतज्ञतावचनानि उक्त्वा ततः गतवान्।**
** अनन्तरं सीतारामः निश्चिन्ततया काशीं गत्वा विद्वत्सभायां भागं निरुह्य ग्रामं प्रत्यागतवान्। तद्दिने एव नागपतेः गृहं गत्वा उक्तवान्— “मम धनम् अहं नेष्यामि” इति।**
** “अवश्यं नेतुम् अर्हति भवान्। यत्र तत् स्थापितं तत् स्थानं सम्यक् स्मरति खलुभवान्?” इति पृष्टवान् नागपतिः।**
** यदा सीतारामः यत्र धनं स्थापितम् आसीत् तत् स्थलं खनितवान् तदा तत्र धनं न आसीत्। सीतारामः एतं विषयं नागपतिं निवेदितवान्। “भवतः धनस्य विषये अहं किं वदामि? भवता एव तत् स्थापितम्। अहं तु न दृष्टवान् एव” इति उक्तवान् नागपतिः।**
** ‘अहो ! वञ्चितः अहम्’ इति खेदम् अनुभवन् म्लानवदनः सीतारामः मन्दं स्वगृहं प्रति प्रस्थितवान्।**
** मार्गे मिलिता सावित्री नाम वृद्धा सीतारामं पृष्टवती— “भोः, सीताराम ! काशीतः कदा प्रत्यागतवान्? सर्वं कुशलं खलु? मुखे किमर्थं म्लानता? का चिन्ता भवतः?” इति।**
** सीतारामः प्रवृत्तं समग्रं निवेदितवान्। तदा वृद्धा सावित्री क्षणकालम् आलोच्य— “शठं प्रति शाठ्यम् एव प्रयोक्तव्यम्। अहं**
नागपतितः सर्वं धनं दापयिष्यामि” इति उक्त्वा एकम् उपायं सूचितवती। तदनुगुणं कर्तुं सीतारामः सिद्धः जातः।
** किञ्चित्कालानन्तरं सावित्री कानिचन आभरणानि वस्त्रेण बद्ध्वा नागपतेः गृहं गतवती। नागपतिम् उक्तवती च— “भोः, मम पुत्रः विद्याभ्यासार्थं दशभ्यः वर्षेभ्यः पूर्वं काशीं गतवान्। अद्यावधि न प्रत्यागतः। अहं तु वृद्धा खलु? मरणं प्रतीक्षमाणा दिनानि गणयन्ती अस्मि। काशीं गत्वा पुत्रस्य अन्वेषणं करणीयम् इति मम विचारः। मम समीपे तु कष्टेन आर्जितानि द्विसहस्ररूप्यकमूल्यात्मकानि आभरणानि सन्ति। आत्मना सह यदि तानि नयेयं तर्हि तानि चोरैः वशीक्रियेरन्। भवान् तु धर्मात्मा, भवतः गृहे एव मद्धनं स्थापितम् अस्ति इति काशीगमनतः पूर्वं माम् उक्तवान् आसीत् सीतारामः। परद्रव्यं लोष्ठवत् पश्यति इति भवतः कीर्तिः मया अपि श्रुता एव। एतानि आभरणानि भवान् स्वसमीपे स्थापयति वा? काश्यां यदि मम मरणं भवेत्, तदनन्तरं वर्षत्रयाभ्यन्तरे मम पुत्रः यदि अत्र आगच्छेत् तर्हि भवान् एतानि तस्मै ददातु। अन्यथा….।”**
** तस्याः वचनं तत्रैव स्थगयन् नागपतिः उक्तवान्— “शान्तं पापम्। अमङ्गलं मा वदतु। भवती पुत्रम् अन्विष्य पुत्रेण सहैव प्रत्यागमिष्यति इति मम विश्वासः अस्ति। मम गृहे भवती यत्र इच्छति तत्र तानि आभरणानि स्थापयितुम् अर्हति” इति।**
‘एतया स्थाप्यमानानि आभरणानि अवश्यं मदधीनानि भविष्यन्ति’ इति आलोचयन् नागपतिः अतीव सन्तुष्टः।
** अत्रान्तरे सीतारामः तत्र आगत्य उक्तवान्— क्षाम्यतु नागपतिमहोदय ! अस्थाने मया धनपात्रम् अन्विष्टम्। इदानीं वास्तविकं स्थानं स्मृतवान्। तत्र खननं कृत्वा धनं नेष्यामि अहम्” इति।**
** नागपतिः क्षणकालं स्तब्धः। ‘सीतारामस्य धनं मया न प्रत्यर्पितम् इति यदि एषा सावित्री जानीयात् तर्हि एतानि आभरणानि मम गृहे न स्थापयेत्’ इति आलोचितवान् सः।**
** वाचा स्खलन् सः उक्तवान्— “सत्यं सीताराममहोदय ! भवतः गमनानन्तरं ममापि स्थलविषये सन्देहः आगतः। अतः भवता यत्र धनं स्थापितम् आसीत् तत् स्थलं स्मरन् अहम् अपि खननं कृतवान्। तत्र मया भवतः धनं प्राप्तम्। अन्तः तत् स्थापितवान् अस्मि। आनयामि” इति।**
** अनन्तरम् अन्तः गत्वा पञ्च शतं रूप्यकाणि आनीय सीतारामाय दत्तवान्।**
** तदा सावित्री तत्क्षणे एव सीतारामं पश्यन्ती इव अभिनयन्ती उक्तवती—“सीताराम ! कदा आगतवान्? काश्यां मम पुत्रः भवता दृष्टः वा? तस्य अन्वेषणार्थम् इदानीं मया स्वयं प्रस्थितम् अस्ति” इति।**
** “मातः ! किमर्थं गमनम्? सः एव द्वित्रेषु दिनेषु अत्र आगमिष्यति। मां देवपुरीयं ज्ञात्वा सः अतीव सन्तुष्टः। भवत्याः कुशलवार्तां सः बहुधा पृष्टवान्” इति उक्तवान् सीतारामः।**
** “हा हन्त! देवो दयालुः। एवं तर्हि इदानीं मया काशीं प्रति गन्तव्यं नास्ति। यदि विश्वनाथस्य दर्शनभाग्यं मम स्यात् तर्हि पुत्रेण सह एव गच्छेयम्” इति वदन्ती नागपतिं दृष्ट्वा— “न्यासरूपेण आभरणस्थापनं तु नास्ति श्रीमन्” इति उक्त्वा सीतारामेण सह प्रस्थितवती सावित्री।**
** एतत् दृष्टवतः नागपतेः मुखम्लानतां किमिति वर्णयेम?**
चतुरः देवः
** भण्डारपुरनामके ग्रामे गोविन्दः नाम महाचोरः निवसति स्म। चौर्यं तस्य परम्परागता वृत्तिः।**
** गोविन्दस्य ज्येष्ठभगिनी सुलोचना। सुलोचनायाः एकः पुत्रः आसीत्। तस्य नाम देवः इति। सुलोचना कदाचित् पुत्रम् आहूय उक्तवती— “मातुलसमीपं गत्वा चोरविद्यां सम्यक् ज्ञात्वा आगच्छतु” इति।**
** देवः तु जन्मना एव चोरः। प्रसविकायाः कण्ठे स्थितस्य सुवर्णहारस्य मणिं जन्मसमये स्वहस्तेन गोपितवान् आसीत् देवः। देवस्य एतादृशं सामर्थ्यं जानन् गोविन्दः सन्तोषेण तं चोरविद्यां बोधितवान्।**
** देवः चौर्ये तावत् प्रावीण्यं सम्पादितवान् यत् गोविन्दः यथा न जानीयात् तथा गोविन्दगृहे एव लघुचौर्यं करोति स्म सः। गोविन्दः चौर्यार्थं गमनमये तदा तदा देवम् अपि आत्मना सह नयति।**
** एकदा गोविन्दः देवः च चौर्यार्थं समीपस्यं ग्रामं गतवन्तौ। तस्मिन् ग्रामे स्थितः न्यायाधीशः धनिकः इति गोविन्देन श्रुतम् आसीत्। अतः तत्र चौर्यं करणीयम् इति तयोः विचारः। यावत् तौ तं ग्रामं प्राप्तवन्तौ तावता अन्धकारः व्याप्तः आसीत्।**
** न्यायाधीशः प्रतिदिनम् अपि विलम्बेन गृहं प्रत्यागच्छति इति एषः विषयः गोविन्देन पूर्वम् एव ज्ञातः आसीत्। अतः न्यायाधीशस्य प्रत्यागमनात् पूर्वम् एव चौर्यं समाप्य प्रतिगन्तव्यम् इति तस्य विचारः।**
** तौ न्यायाधीशस्य गृहस्य समीपम् आगतवन्तौ। तदा देवः गोविन्दम् उक्तवान्— “मम तु इदानीं महती बुभुक्षा। अतः पांकशालां गत्वा खाद्यस्य अन्वेषणं करोमि अहम्” इति।**
“अस्तु। अहं गृहस्य अट्टम् आरुह्य धनस्य आभरणानां च अन्वेषणं करोमि। मम कार्यं पूर्वं समाप्तं चेत् बहिः वृक्षस्य अधः तिष्ठामि। भवतः कार्यं पूर्वं समाप्तं चेदपि भवता एवम् एव करणीयम्। ततः मिलित्वा उभौ अपि गृहं गच्छाव” इति उक्तवान् गोविन्दः।
अनन्तरं सः गृहस्य पृष्ठभागं गत्वा ततः अट्टम् आरूढवान्। देवः पुरोभागतः एव प्रवेष्टुम् उद्युक्तः जातः। द्वारं यदा लघु नोदितं तदा स्वयम् उद्घाटितम् अभवत्। एषः अन्तः गत्वा द्वारम् अर्गलेन कीलितवान्।
मार्जारः इव विना शब्दं पाकशालापर्यन्तं गत्वा अन्तः दृष्टिं प्रसारितवान् देवः। गृहे कुत्रापि कोऽपि शब्दः न श्रूयते। पाकशालायां न्यायाधीशस्य पत्नी आञ्चलं प्रसार्य तदुपरि सुप्ता आसीत्। पार्श्वे एव देवमण्डपः आसीत्। देवपीठस्य पुरतः नैवेद्यार्थं भक्ष्याणि सुन्दरतया स्थापितानि आसन्। तेषां गन्धम् आघ्रातवतः देवस्य बुभुक्षा द्विगुणिता जाता।
तद्दिने एकादशी तिथिः। न्यायाधीशः तस्य पत्नी च उपवासम् आचरितवन्तौ आस्ताम्। रात्रेः उपाहारार्थं मुद्गनिर्मितं दोसाखाद्यं पायसं च सज्जीकृतम् आसीत्। नारिकेलनिर्मितम् उपसेचनम् अपि आसीत्। द्वादशीपारणपर्यन्तं निराहारं स्थातुं वृद्धयोः तयोः शक्तिः नास्ति। अतः पुरोहितस्य उपदेशानुसारं तौ एवंक्रमेण उपवासम् आचरतः। उभयोः निमित्तम् अष्ट दोसाखाद्यं निर्मितवती आसीत् न्यायाधीशस्य पत्नी। पत्युः निरीक्षायां स्थिता सा उपवासायासवशात् लघुनिद्रां प्राप्तवती आसीत्।
देवः देवमण्डपस्य पुरतः एव उपविश्य दोसाखाद्यं उपसेचनेन सह खादितवान्। पायसम् अपि सम्यक् पीतवान्। सर्वाणि अतीव रुचिकराणि आसन्। इतोऽप्यधिकं स्युः चेदपि देवः खादेत्, किन्तु न सन्ति !
देवस्य बुभुक्षा पूर्णतः निवृत्ता। येन आगतं तेन मार्गेण गन्तुम् उद्युक्तः देवः। किन्तु अत्रान्तरे द्वारताडनशब्दः, ‘द्वारम् उद्घाटयतु भोः’ इति कण्ठध्वनिः च श्रुतः।
** एतं शब्दं श्रुत्वा गृहिणी झटिति उत्थाय “एषा अहम् आगता ऽऽ” इति वदन्ती द्वारम् उद्घाटयितुंगतवती।**
** “आगतः गृहस्य यजमानः एव स्यात्। सः पाकशालाम् आगच्छति एव। ततः पूर्वं मया कुत्रापि निलीय स्थातव्यम्’ इति आलोच्य देवः पाकशालायां स्थितायाः निश्रेण्याः द्वारा अट्टम् आरुह्य पात्राणां मध्ये उपविष्टवान्**
** यथा देवेन चिन्तितं तथैव सः न्यायाधीशः पत्न्या सह साक्षात् पाकशालाम् एव आगतवान्।**
** “शीघ्रं हस्तौ पादौ च प्रक्षाल्य आगच्छामि। उपाहारः सिद्धः खलु? महती बुभुक्षा मम” इति वदन् स्नानगृहस्य समीपं गतवान् सः।**
** “उपाहारः तदा एव सिद्धः। भवतः आगमनम् एव प्रतीक्षमाणा आसम् अहम्” इति वदन्ती गृहिणी देवमण्डपस्य पुरतः दृष्टवती।**
** तत्र भक्ष्याणि कुत्र सन्ति? सा सम्भ्रान्तस्वरेण उक्तवती— “अये ! किम् एतत्? मया सज्जीकृतानि दोसाभक्ष्याणि पायसं च कुत्र गतानि? पात्राणि रिक्तानिदृश्यन्ते खलु?” इति।**
** तदा न्यायाधीशः तत्र आगत्य कोपेन— “मम आगमनपर्यन्तं सोढुम् अशक्ता भवती एव खादितवती स्यात्। तृतीयः कः अस्ति अत्र?” इति उक्तवान्। बुभुक्षितः को वा रिक्तानि पात्राणि दृष्ट्वा झटिति कोपं न अनुभवेत्?**
** “शान्तं पापम्। भवतः आहारसेवनतः पूर्वं मया कदापि आहारः स्वीकृतः वा? किमर्थम् एवं वदति? देवसाक्षितया वदामि— मया किमपि न खादितम्” इति खेदेन उक्तवती गृहिणी।**
** “भवतीं विना अन्यः कः खादेत्? को वा आगच्छति अत्र?” इति पुनः कोपेन उक्तवान् न्यायाधीशः।**
** “अहं तु किञ्चित्कालं निद्रावशं गता आसम्। तदा देवः एव खादितवान् स्यात्। अद्य आदिनम् उपवासः एव खलु तस्यापि?” इति उक्तवती गृहिणी।**
** “हूँ, देवः खाद्यं खादति वा? अपराधं कृत्वा**
असत्यम् अपि वदति। दण्डनं सत्यं वाचयति, तिष्ठतु” इति वदन् न्यायाधीशः ततः गत्वा एकं दण्डम् आनीतवान्।
एतत्सर्वं पश्यन् देवः न्यायाधीशविषये नितरां कुपितः। सः कोपावेशेन पति-पत्न्योः मध्ये अवप्लुत्य न्यायाधीशम् उक्तवान्– ‘अहम् अस्मि देवः। एषा माता सत्यम् एव वदन्ती अस्ति। भवतोः उपाहारः मया एव सेवितः। वृथा किमर्थम् एतां निरपराधिनीं दण्डयति?” इति।
देवं दृष्ट्वा न्यायाधीशः क्षणकालं स्तब्धः। किं प्रवर्तते इति तेन न ज्ञातम्।
अत्रान्तरे गृहात् बहिः— “देवऽऽ, देवऽऽ”, इति क्षीणःआह्वानध्वनिः श्रुतः।
“एषोऽहम् आगतः” इति वदन् देवः, पति-पत्न्योः पुरतः एव सधैर्यं बहिः निर्गतवान्।
गोविन्दः तु गृहस्य अट्टे बहुधा अन्वेषणानन्तरम् अपि किमपि अप्राप्य निराशया बहिः आगत्य देवस्य प्रतीक्षायाम् आसीत्। तदा तेन पाकशालातः सम्भाषणध्वनिः श्रुतः। भागिनेयः गृहसदस्यैः बद्धः स्यात् इति आलोच्य सः तथा आहूतवान् आसीत्। ‘एषोऽहम् आगतः’ इति देवस्य वचनं श्रुत्वा सः आश्चर्यचकितः।
सधैर्यं बहिः आगतेन देवेन सह गोविन्दः गृहं प्रस्थितवान्। मार्गे प्रवृत्तं सर्वं श्रुत्वा गोविन्दः– “महत् धैर्यं भवतः! चौर्यं कृत्वा निवेद्य अपि आगतवान् भवान्। साधु, साधु !” इति देवं वदन् सन्तोषेण तस्य स्कन्धे हस्तं स्थापितवान्।
देवस्य निर्गमनस्य अनन्तरं गृहिणी प्रवृत्तं ज्ञात्वा पतिम् उक्तवती— “हा हन्त ! किमर्थम् एवं स्तम्भः इव तिष्ठति? सः चोरः एव, न तु देवः। गृह्णातु तम्” इति।
तदा न्यायाधीशः झटिति बहिः आगतवान्। किन्तु अत्रान्तरे चोरौ सुदूरं गतवन्तौ आस्ताम्।
अनन्तरं न्यायाधीशस्य पत्नी उपाहारार्थं त्वरया पृथुकान् सज्जीकृतवती।
चोरग्रहणम्
रत्नगिरिराजस्य कोषागारतः कदाचित् सहस्रं सुवर्णनाणकानि अपहृतानि अभवन्। ‘भवता चोरः ग्रहीतव्यः’ इति युक्तिवर्माणम् आदिष्टवान् राजा। तत्समये राज्ञा एषः अपि नियमः सूचितः यत् अनन्तरदिने सूर्यास्ततः पूर्वं चोरः ग्रहीतव्यः, अन्यथा स्वयम् आत्मार्पणार्थं सिद्धेन भवितव्यम् इति।
एतत् अङ्गीकुर्वन् युक्तिवर्मा उक्तवान्— “महाराज ! यदि श्वः सूर्यास्ततः पूर्वं चोरं ग्रहीतुम् अशक्तः सन् अहम् आत्मार्पणं कुर्यां तर्हि वास्तविकः चोरः भवता मन्त्रिस्थाने नियोजनीयः। एवं नियोक्ष्यामि इति सभायाम् उद्घोषणीयम् अपि। मया अपि ग्रहीतुम् अशक्यः चोरः वस्तुतः महामेधावी भवेत् एव” इति।
राजा एतत् अङ्गीकृतवान्। अनन्तरदिने सूर्यास्तः अपि आसन्नः। तदा राजसभां प्रविश्य राजानम् उक्तवान् युक्तिवर्मा— “महाराज ! चोरं ग्रहीतुम् अहं न शक्तवान्। अहम् आत्माहुत्यर्थं सिद्धः अस्मि। यथा मया प्रार्थितं तदनुगुणं चोरं मन्त्रिस्थाने नियोजयतु, येन मम आत्मा तृप्तः भवेत्’ इति।
राजा तथैव प्रकटीकृतवान्।
“एवं तर्हि मां मन्त्रिस्थाने नियोजयितुम् अर्हति महाराजः” इति वदन् कोषाधिकारी सन्तोषेण उत्थितवान्।
राजा झटिति कोषाधिकारिणं कारागारे स्थापयितुं भटान् आदिष्टवान्। युक्तिवर्मणः चातुर्यस्य प्रशंसां कुर्वन् तं मन्त्रिस्थाने नियोजितवान् अपि।
दानस्वीकारः
विलासपुरे वैभवः नाम वणिक् आसीत्। सः वाणिज्येन यथेष्टम् ऐश्वर्यं सम्पादितवान् आसीत्। कदाचित् सः घोरेण व्याधिना पीडितः अभवत्। वैद्यस्य औषधोपचारः व्यर्थः जातः। रोगः दिने दिने वर्धमानः दृश्यते।
एकदा वैभवः वैद्यम् उक्तवान्— “श्रीमन् ! धनसम्पादनार्थं मया कृतानि पापानि एव माम् इदानीं व्याधिरूपेण बाधन्ते इति अहं भावयामि। अतः एव भवता दत्तानि औषधनि निष्प्रयोजकानि जातानि। मरणानन्तरं मम नरकप्राप्तिः निश्चिता इति चिन्ता एव मां सदा बाधते” इति।
इदानीं वैद्यः ज्ञातवान् यत् वैभवः मानसिकरोगेण पीडितः अस्ति, अतः एव सर्वाणि औषधानि निष्प्रयोजकानि जातानि इति।
सः वैभवे धैर्यं पूरयन् उक्तवान्– “भवान् चिन्तां न करोतु। भवतः पापानि यथा पूर्णतः क्षालितानि भवेयुः तथा किमपि पुण्यकार्यं भवतः द्वारा कारयिष्यामि। तदा औषधानि अपि सत्परिणामं जनयन्ति " इति।
विलासपुरे राजेन्द्रः नाम कश्चन निर्धनः कृषिकः आसीत्। सः पत्नीपुत्राणां पोषणार्थं श्रद्धया कृषिक्षेत्रे कार्यं करोति। किन्तु तस्य दैवं विपरीतम् इत्यतः प्रतिवर्षं सः शस्यसङ्ग्रहणकाले हानिम् अनुभवति। एकस्मिन् वर्षे वृष्टिकारणतः हानिः, अपरस्मिन् वर्षे अग्नेः कारणतः धान्यराशिः दग्धः। अन्यस्मिन् वर्षे चौर्येण महती हानिः। अतः सः ऋणेन जीवनं कथञ्चित् यापयन् अस्ति।
वैद्यः एतत् सर्वं पर्यालोच्य मनसि निर्णीतवान् यत् वैभवस्य हस्ततः राजेन्द्राय
किमपि दापनीयम् इति। अतः सः राजेन्द्रं वैभवस्य समीपं नीत्वा उक्तवान्— “अपात्रे दत्तं व्यर्थम् एव। एषः तु सज्जनः सङ्कटे अस्ति अपि। एतस्मै दानेन भवान् महत् पुण्यं सम्पादयिष्यति” इति।
** वैभवः राजेन्द्रस्य आर्थिक परिस्थितिम् आद्यन्तं श्रुतवान्। अनन्तरं धनधान्यादिकं च तस्मै दत्तवान्। एतेन वैभवस्य पापशङ्का अपगता। वैद्येन दत्तानि औषधानि इदानीं प्रयोजनकारीणि अभवन्। सप्ताहाभ्यन्तरे वैभवः पूर्णतः स्वस्थः जातः।**
** एषा वार्ता वैभवद्वारा वैद्यद्वारा च समग्रे ग्रामे प्रसृता अभवत्। ग्रामीणाः परस्परं वक्तुम् आरब्धवन्तः— “वयम् अपि तदा तदा यथाशक्ति दानं कुर्मः एव। किन्तु एतादृशः अपूर्वः परिणामः कदापि न दृष्टः। राजेन्द्रे प्रायः किमपि वैशिष्ट्यम् अस्ति। अतः एव वैभवः शीघ्रतया स्वस्थः जातः” इति।**
** राजेन्द्रः अपि जनेषु श्रूयमाणाम् एतां वार्तां श्रुतवान्। एतस्य उपयोगः स्वीकरणीयः इति चिन्तयित्वा सः स्वयं स्वविषये सर्वत्र वक्तुम् आरब्धवान्। ‘स्वविषये अपि कदाचित् अपूर्वा घटना सम्भवेत्’ ‘इति चिन्तयन्तः जनाः राजेन्द्राय किमपि दातुम् आरब्धवन्तः। काकतालीयन्यायेन केचन एवं करणेन लाभम् अपि प्राप्तवन्तः। अतः ‘राजेन्द्रे कापि अपूर्वा शक्तिः अस्ति’ इति वार्ता ग्रामे प्रसृता।**
** इदानीं राजेन्द्रः परिश्रमं विना एव सुखेन जीवति। सः पार्श्वग्रामादिकम् अपि कदाचित् गच्छति। आत्मनः अपूर्वं शक्तिं ख्यापयन्**
दानं प्राप्नोति।
“आर्य ! तृष्णावशंगतः भवान् इदानीं भिक्षुकः संवृत्तः। इदानीम् अस्मासु काऽपि न्यूनता नास्ति। अतः वयं यथापूर्वं कृषिकार्येण एव जीवननिर्वहणं करवाम” इति उक्तवती राजेन्द्रस्य पत्नी कान्ता।
“यदा वयं परिश्रमेण जीवन्तः आस्म तदा प्रतिदिनम् अपि अश्रुविमोचनम् आसीत् खलु? इदानीम् एषः मार्गः दैवेन एव प्रदर्शितः। अत्र एव अस्माकं सुखम् अस्ति’’ इति उक्तवान् राजेन्द्रः।
पत्युः वचनम् अनङ्गीकुर्वती कान्ता उक्तवती— “वयं यदा कष्टपरिस्थितौ आस्म तदा वैभवः अस्मभ्यं दानं कृतवान्। तेन सः स्वस्थः जातः। इदानीं तु अस्माकं तादृशी परिस्थितिः नास्ति। सर्वाणि आनुकूल्यानि सन्ति एव। अतः इदानीम् अस्मभ्यं यः दानं करोति सः पुण्यफलं न प्राप्स्यति। एषा वस्तुस्थितिः ग्रामस्थैः यदा ज्ञायते तदा ते दानं स्थगयन्ति। तदा अस्माकं का वा गतिः? भवान् तु महान् अलसः सञ्जातः। यस्मिन् आलस्यपिशाचः प्रविष्टः तस्य सर्वनाशः एव भविष्यति” इति।
राजेन्द्रः तस्याः वचनं सर्वथा निर्लक्षितवान्। यथापूर्वं दानं स्वीकुर्वन् आलस्येन जीवनं यापयति सः।
एवं स्थिते कदाचित् सः राजेन्द्रः स्वयं व्याधिग्रस्तः जातः। ग्रामे एषः सम्प्रदायः जातः आसीत् यत् यः रोगपीडितः भवति सः राजेन्द्राय किमपि ददाति। अनन्तरम् औषधं
सेवते च। द्वन्द्वे पतितः राजेन्द्रः वैद्यं स्वगृहम् आनाय्य स्वव्यथां निवेद्य पृष्टवान्– “वैद्यमहोदय ! इदानीम् अहं कस्मै दानं दद्याम्?” इति।
किम् उत्तरं वक्तव्यम् इति चिन्तयन् आसीत् वैद्यः। तदा राजेन्द्रस्य पत्नी कान्ता वैद्यम् अन्तः आहूय एकान्ते उक्तवती– “पूर्वम् एषः श्रमशीलः आसीत्। श्रमे सुखं पश्यति स्म अपि। किन्तु भवत्कारणतः सः दानार्थं हस्तं प्रसारितवान्। क्रमशः याचकः जातः अपि। मया बहुधा उक्तम्। तथापि सः याचनेन एव जीवनं यापयितुम् इच्छति। आलस्यकारणतः एव एषः इदानीम् अस्वस्थः जातः। अतः औषधोपचारेण सह मनसः अपि चिकित्सां करोतु कृपया” इति।
वैद्यः आत्मना कृतस्य कार्यस्य दुष्परिणामं स्मरन् राजेन्द्रसमीपं गत्वा उक्तवान्— “भोः ! दानरूपेण दातुं भवतः समीपे किम् अस्ति? दानमात्रेण पुण्यं न लभ्यते अपि। पूर्वं वैभवः भवते यत् दानं दत्तवान् तेन भवतः आपत् परिहृता। तेन सः पुण्यं सम्पादितवान् स्वस्थः जातः च। निरन्तरदानस्वीकारेण भवतः समीपे स्थितानि पुण्यानि समाप्तानि। अतः भवान् इदानीम् अस्वस्थः जातः। अहम् इदानीं भवतः रोगं निवारयिष्यामि। किन्तु इतःपरं भवता अनावश्यकं दानं न स्वीकरणीयम्। धनदात्रे विनिमातुं पुण्यस्य अभावात् भवतः समीपे पापसञ्चयः भवति। तत्कारणतः प्राप्यमाणः रोगः तु प्राणान्तिकः भवेत्” इति। वैद्येन उक्तं श्रुतवतः राजेन्द्रस्य शरीरे कम्पनम् उत्पन्नम्। सः तद्दिने एव निश्चितवान् यत् इतःपरम् अनावश्यकं दानं न स्वीकरणीयं यथापूर्वं परिश्रमश्च करणीयः इति।
वैद्यस्य औषधोपचारेण राजेन्द्रः अल्पे एव काले स्वस्थः जातः। अनन्तरं सः दानस्वीकारं निराकुर्वन् परिश्रमेण जीवनम् आरब्धवान्। दैवसहयोगतः अग्रे धनसम्पन्नः जातःअपि।
धनस्य प्राधान्यम्
विमलानन्दः नाम संन्यासी कदाचित् तीर्थयात्रां कुर्वन् स्वशिष्यैः सह रङ्गपुरनामकं ग्रामम् आगतवान्। तस्मिन् ग्रामे परमेशनामकः महाधनिकः आसीत्। अतः सः एव संन्यासिनः तच्छिष्याणां च वसतिभोजनादीनां व्यवस्थां स्वयं कृतवान्।
केषाञ्चित् दिनानाम् अनन्तरं विमलानन्दः ततः प्रस्थितवान्। तदा सः तत्र उपस्थितान् आशिषा अनुगृह्य स्वपार्श्वे विनयेन स्थितवन्तं परमेशं पृष्टवान्– “भोः, भवान् तु आगर्भधनी। एवं स्थिते कया कामनया भवान् मम सेवां श्रद्धया कृतवान् इति ज्ञातुं शक्नोमि वा?” इति।
तदा परमेशः– “स्वामिपादाः, मनुष्यजीवने धनम् एव प्रधानं न खलु। भवादृशानां सेवातः अपि श्रेष्ठं कार्यं किम् अन्यत् स्यात्? भवतां सेवा एव परमं फलम्” इति उक्तवान्।
विमलानन्दः तस्य उत्तरेण सन्तुष्टः सन् तम् आशिषा अनुगृह्य अग्रे गन्तुम् उद्युक्तः अभवत्।
तदा राजारामः नाम कृषकः अग्रे आगत्य– “स्वामिपादाः ! मम कश्चन सन्देहः। मानवजीवने धनं प्रधानं न इति सर्वे वदन्ति। एवं कथनम् उचितं भवेत् वा?” इति पृष्टवान्।
तदा विमलानन्दः पृष्टवान्– “सत्यस्य कथने कः सङ्कोचः? सत्यकथनं को वा निषेद्धुम् अर्हति? अस्तु तावत्, भवतः मनसि एषः सन्देहः कथम् उत्पन्नः? " इति।
तदा राजारामः– “स्वामिपादाः ! मम कुटुम्बं विशालम्। प्रतिदिनम् अपि सूर्योदयतः रात्रिपर्यन्तं कार्यं कुर्वन् अपि अहं पत्नीपुत्रादीनां पोषणे महत् कष्टम्
अनुभवामि। एतस्मिन् ग्रामे मादृशाः एव बहवः निवसन्ति। एवं स्थिते मनुष्यजीवने धनम् अप्रधानम् इति कथनस्य कः अर्थः? प्रायः परमेशसदृशानां धनिकानां दृष्ट्या धनम् अप्रधानं भवेत्, न तु सर्वेषां दृष्ट्या” इति सधैर्यम् उक्तवान्।
राजारामस्य कथनं श्रुत्वा तत्रस्थाः सर्वे हसितवन्तः। राजारामः शिरः अवनमय्य स्थितवान्।
तदा विमलानन्दः सगम्भीरम् उक्तवान्— “राजारामः सत्यम् एव उक्तवान्। अत्र हासयोग्यं किमपि नास्ति। जीवने धनं साधनं, न तु लक्ष्यम् इति तु सत्यम् एव। किन्तु येषां जीवने साधनम् एव न भवति तेषां दृष्ट्या तस्य सम्पादनम् एव तात्कालिकं लक्ष्यं भवति। तादृशानाम् आवश्यकतापूरणार्थं धनिकाः कार्यं कुर्युः। दरिद्राणाम् उन्नत्यर्थं ते योजनां कुर्युः। मादृशानां सेवार्थं तैः अपारधनव्ययः यत् क्रियते तेन कः लाभः? आत्मनि कश्चन धन्यताभावः जायते। इतरैः कर्तुम् असाध्यं कार्यं मया कृतम् इति भावयन्ति ते” इति। जनाः सर्वे एतत् अङ्गीकुर्वन्तः शिरः चालितवन्तः।
विमलानन्दः परमेशस्य स्कन्धे हस्तं स्थापयन् पुनः उक्तवान्– “परमेश! मादृशानां सेवातः अपि श्रेष्ठं कार्यं किं स्यात् इति पृष्टवान् खलु भवान्? तादृशं कार्यं किम् इति प्रदर्शितवान् राजारामः। कदाचित् आगच्छताम् अस्मादृशानां सेवार्थं विशेषव्ययः करणीयः नास्ति। ग्रामीणानां निर्धनानां सेवा एव परमश्रेष्ठा। एतया एव भवतः कीर्तिः गौरवं च। एतया एव भवतः धनिकत्वस्य सार्थकता। मम सञ्चारकाले इतः पूर्वं बहवः बहून् प्रश्नान् पृष्टवन्तः। किन्तु राजारामेण यत् पृष्टं तत् तु अपूर्वम् आसीत्” इति उक्त्वा शिष्यैः सह अग्रे गतवान्।
अनन्तरं परमेशः ग्रामीणानाम् उन्नत्यर्थं स्वधनस्य व्ययं कुर्वन्, तत्रैव स्वजीवनस्य सार्थकतां पश्यन् सुखेन जीवितवान्।
धीरानन्दः
प्राचीने काले दण्डकारण्ये योगानन्दः नाम क्षत्रिययुवकः कश्चन श्रेष्ठः सिद्धयोगी सिद्धयोगी आसीत्। गोदावरीतीरे तेन आश्रमः स्थापितः आसीत्। जातिभेदं विना सः सर्वान् अपि प्रीत्या योगविद्यां पाठयति स्म।
योगानन्दस्य नियमः आसीत् यत् सः छात्रत्वम् इच्छन्तम् एकं वर्षं यावत् कठोरं परीक्षते। यः तस्यां परीक्षायाम् उत्तीर्णः भवति सः एव योगम् अभ्यस्तुम् अर्हति। अनुत्तीर्णेन गृहं प्रतिगन्तव्यं भवति स्म।
योगानन्दः तदा तदा शिष्यैः सह समीपस्थानि अरण्यानि गच्छति। तदा शिष्याः तत्र नूतनान् बहून् अंशान् जानन्ति। योगानन्दः तत्तत्स्थलस्य वैशिष्ट्यं बोधयति। अनेकविधानां राक्षसानां स्वाधीनीकरणम् अपि बोधयति सः।
कदाचित धीरसिंहः धीरसिंहः नाम कश्चन क्षत्रिययुवकः योगानन्दस्य शिष्यत्वम् इच्छन् आश्रमम् आगतवान्। सः वयसा अल्पः स्यात् नाम, किन्तु तस्य युद्धकलानैपुण्यं तु असदृशम् एव। सः भयं नाम्ना अपि न जानाति। अन्यच्छात्राः इव धीरसिंहः अपि एकवर्षात्मकपरीक्षां सम्मुखीकृतवान्। तस्य अवधेः अन्तिमदिनानि प्रचलन्ति आसन्।
कदाचित् योगानन्दः शिष्यैः सह आश्रमात् प्रस्थितः किञ्चन सरोवरं प्रति गतवान्। सरोवरस्य तीरे लघु पर्णशाला अपि निर्मिता। पर्णशालायां लघुप्रकोष्ठाः अपि निर्मिताः। एवं तात्कालिकवसत्यर्थं योग्या पर्णशाला सिद्धा जाता।
पर्णशालातः अनतिदूरे एकः सुविशालः वटवृक्षः आसीत्। स च वृक्षः त्रियोजनविस्तीर्णः आसीत्।
सरोवरप्राप्त्यनन्तरं प्रथमरात्रौ एव
योगानन्दः शिष्यान् सर्वान् सूचितवान्— “एषः वटवृक्षः अतीव पुरातनः। त्रेतायुगीयाः पिशाचाः अपि अत्र निवसन्ति। एतस्य विषये विस्तरेण पुनः कदाचित् बोधयिष्यामि। किन्तु सर्वैः एका जागरूकता आश्रयणीया यत् केनापि रात्रौ वृक्षस्य समीपं न गन्तव्यम्। एषः मम आदेशः” इति।
रात्रौ भोजनस्य अनन्तरं सर्वे शयनं कृतवन्तः। धीरसिंहः अपि शयनं कृतवान्। किन्तु मध्यरात्रसमये तस्य निद्रा भग्ना। अनन्तरं महता प्रयत्नेन अपि सः निद्रां न प्राप्तवान्। अतः सः मन्दम् उत्थाय बहिः आगतवान्, वटवृक्षस्य समीपं गतवान् च।
धीरसिंहः स्वभावतः धीरः आसीत् एव। अतः अन्धकारात्, पिशाचस्थितितः वा सः न भीतः। वृक्षे के के पिशाचाः निवसन्ति इति द्रष्टव्यं यदि शक्यं तैः सह वार्तालापः अपि करणीयः इति तस्य विचारः।
वृक्षे तत्र तत्र दीर्घाः जटाः आसन्। तासां मध्ये सः अग्रे गतवान्। तदा तेन दृष्टं यत् काचित् कृष्णवर्णीया आकृतिः जटां गृहीत्वा अवतरन्ती अस्ति ! अन्यः कश्चित् यदि एतत् पश्येत् तर्हि तस्य हृदयस्तम्भनं भवेत्। किन्तु धीरसिंहः तु किञ्चिदपि न भीतः। आत्मीयस्य मित्रस्य आगमनम् इव सः पिशाचागमनं पश्यन् स्थितवान्।
पिशाचः भूमौ अतिष्ठत्। धीरसिंहः गम्भीरेण ध्वनिना पृष्टवान्– “कः भवान्? इति।
“मम नाम अनुकम्पनः इति। श्रीरामस्य पत्नी सीतादेवी अरण्ये निवसति इति वार्ताम् अहम् एव सर्वप्रथमं रावणं श्रावितवान्” इति सा आकृतिः अवदत्।
धीरसिंहः किञ्चिदपि विचलितः न जातः। सः अनुकम्पनम् उक्तवान्– “एवं तर्हि भवान् त्रेतायुगतः अत्रैव निवसति !” इति। “अहम् अधिकतया नरके निवसामि। मध्ये कदाचित् अनुमतिं प्राप्य एतं विशालं वटवृक्षं प्रति आगच्छामि” इति वदन् मन्दया गत्या सः पिशाचः धीरसिंहस्य दिशि आगच्छत्।
पिशाचः अनुकम्पनः मन्दया गत्या अग्रे सरन् अस्ति इति धीरसिंहः लक्षितवन् एव।
तथापि सः निर्भयेन स्वस्थले एव तिष्ठन् पिशाचम् पृष्टवान्– “भवान् नरकतः आगतः? नरके भवतः मित्र-बान्धवाः कथं सन्ति? सर्वे कुशलिनः किम्?” इति।
“कुशलम् ! नरकवासिनां सङ्कटं किमिति वदामि, एकैकः अपि तत्र अवर्णनीयां यातनाम् अनुभवति। अहो कष्टम् !” इति अवदत् पिशाचः।
तदा धीरसिंहः पृष्टवान्— “अत्यधिकां यातनाम् अपि कः धैर्येण सहते?” इति।
“रावणः। सः एकः एव तादृशः, यस्य च धैर्यं नितरां प्रशंसनीयम् अस्ति” इति अवदत् अनुकम्पनः।
धीरसिंहः कुतूहलेन पृष्टवान्— “रावणाय विहितः दण्डः कीदृशः?” इति।
“तप्तं तैलभाण्डं तेन उष्णीकरणीयं भवति” इति उक्तवान् अनुकम्पनः।
“एवं वा ! एतत् तु दारुणं दण्डनम्। तर्हि एतदपि सूचयतु कः नरकदण्डनं सोढुं सर्वथा न शक्नोति?” इति पृष्टवान् धीरसिंहः।
“नरकयातनां सोढुं सर्वथा अशक्तः नाम कुम्भकर्णः एव। वेदनां सोढुम् अशक्तः सः अहोरात्रम् आक्रोशनं करोति। अन्येषां निद्राभङ्गं जनयति च” इति उत्तरं दत्तवान् अनुकम्पनः।
धीरसिंहः पृष्टवान्– “कुम्भकर्णाय किं दण्डनं विहितम्? घोरतरं वा तत्?” इति। “अथ किम्? अग्निज्वालानां मध्ये स्थातव्यं तेन” इति सूचितवान् अनुकम्पनः। “एवं वा ! तर्हि आक्रोशनं विना किम् अन्यत् कुर्यात् सः?” इति अनुकम्पपूर्वकम् उक्तवान् धीरसिंहः।
“कदाचित् अग्निज्वालायां तम् अधोमुखम् अपि स्थापयन्ति यमकिङ्कराः” इति पुनः उक्तवान् अनुकम्पनः।
“अहो दुर्गतिः कुम्भकर्णस्य ! सः कुम्भकर्णः कथम् आक्रोशनं करोति इति प्रदर्शयितुं शक्नोति वा भवान्?” इति पृष्टवान् धीरसिंहः।
“अवश्यं प्रदर्शयामि” इति उक्त्वा पिशाचः भयङ्करम् आक्रोशनं कृतवान्। तत् श्रोतुम् अशक्तः धीरसिंहः कर्णयोः अङ्गुलिं स्थापितवान्।
“एतावदेव वा ! भवतः आक्रोशनं अज-मेषादीनां क्रन्दनं च समानम्।कुम्भकर्णः इव आक्रोशनं कर्तुं भवान् न शक्नोति प्रायः” इति धीरसिंहः अनुकम्पनम् उक्तवान्।
“तर्हि इदानीं शृणोतु तावत्” इति वदन् अनुकम्पनः पूर्वापेक्षया अपि द्विगुणितेन बलेन आक्रोशनं कृतवान्। इदानीं धीरसिंहः हस्तद्वयेन कर्णद्वयं पिहितवान् चेदपि किञ्चिदिव शिरोभ्रमणम् अनुभूतवान् इव।
“एतावदेव वा? एषः स्वरः तु अश्वस्य हेषारवम् अनुकरोति स्म। कुम्भकर्णः इतोऽपि उच्चैः आक्रोशनं कृतवान् स्यात् एव। किन्तु भवान् तस्य ध्वनेः अनुकरणं कर्तुम् असमर्थः” इति उक्तवान् धीरसिंहः।
“किमर्थं न शक्येत? इदानीं पश्यतु तावत्” इति वदन् अनुकम्पनः दीर्घं श्वासं स्वीकृत्य सम्पूर्णेन बलेन आक्रोशनं कृतवान्।
धीरसिंहेन समग्रेण हस्तद्वयेन कर्णयोः पिधानं कृतं चेदपि प्रयोजनं न जातम्। ध्वनेः आघातेन सः तत्रैव मूर्च्छितः जातः।
एतम् एव सदवकाशं मन्यमानःअनुकम्पनः धीरसिंहं
गलितुम् अग्रे आगतवान्। अत्रान्तरे पिशाचस्य आक्रोशनेन गुरुः योगानन्दः जागरितः सन् उत्थाय आश्रमात् निर्गत्य वेगेन वटवृक्षसमीपम् आगतवान्। अपायपरिस्थितिं ज्ञात्वा कमण्डलुजलं किञ्चित् स्वीकृत्य अनुकम्पनस्य उपरि क्षिप्तवान्। एतस्य प्रभावतः भीतः अनुकम्पनः धावन् पाताललोकं प्रविष्टवान्।
एतदनन्तरं योगानन्दः धीरसिंहस्य मुखात्प्रवृत्तं समग्रं श्रुत्वा योगानन्दः उक्तवान्— “वत्स ! भवान् मम आदेशं किमर्थं न पालितवान्? तथापि भवतः साहसप्रवृत्त्या अहं सन्तुष्टः अस्मि। अद्य आरभ्य भवन्तं ‘धीरानन्दः’ इति नाम्ना आह्वयामि। भवतः शिष्यत्वम् अनुमतं मया इति।
तद्दिनतः एव धीरानन्दः योगविद्यायाः अभ्यासम् आरब्धवान्।
इन्द्रजालप्रभावः
चित्रकूटनामकं देशं चित्रसेनः नाम राजा पालयन् आसीत्। विविधेमनोरञ्जक-कार्यक्रमेषु तद्देशीयायाः महाराज्ञ्याः विशेषासक्तिः। तत्रापि इन्द्रजालविषये अपरिमिता अभिरुचिः तस्याः। राज्ञ्याः अनुरोधानुसारं कदाचित् राजा घोषितवान् यत् यः अत्युत्कृष्टम् ऐन्द्रजालिकं प्रदर्शनम् उपस्थापयति तस्मै लक्षमितानि सुवर्णनाणकानि दीयन्ते, सः सत्क्रियते च इति।
एतां घोषणां श्रुत्वा बहवः प्रसिद्धा ऐन्द्रजालिकाः राजधानीम् आगतवन्तः। इन्द्रजालप्रदर्शनार्थं राजा कञ्चन विशालं मण्डपं व्यवस्थापितवान्।
स्पर्धालवः सर्वे ऐन्द्रजालिकाः स्वप्रतिभानुगुणं विभिन्नान् चमत्कारान् प्रदर्शितवन्तः। कश्चित् वायौ सञ्चारं कृतवान्। अपरः कश्चित् कञ्चित् पुरुषंवानरं कृत्वा तद्द्वारा वाक्यानि वाचितवान्। अन्यः कश्चित् सभायां भूकम्पम् उत्पादितवान्।
कार्यक्रमस्य समाप्तेः अनन्तरं महाराजस्य पुरतः समस्या आगता यत् कः श्रेष्ठः इति केन मानेन निर्णेतव्यम् इति। अतः सः सभामण्डपम् आगत्य प्रेक्षकान् उद्दिश्य उक्तवान्– “ऐन्द्रजालिकेषु कः श्रेष्ठः इति यः सम्यक् निर्णेष्यति तस्मै दशसहस्रं सुवर्णनाणकानि दीयन्ते” इति।
एतत् श्रुतवतां प्रेक्षकाणां मध्ये कोलाहलः उत्पन्नः। एकैकः अपि अग्रे आगत्य कस्यचित् ऐन्द्रजालिकस्य नाम वदति। प्रेक्षकाणां निग्रहणम् एव क्लेशकरं जातम्।
तदा जालानन्दः नाम ऐन्द्रजालिकः स्वकीयायाः इन्द्रजालविद्यायाः प्रभावेण प्रेक्षकेषु शान्तिं कल्पयित्वा महाराजं पश्यन्
उक्तवान्— “प्रभो ! इन्द्रजालविद्यायाः श्रेष्ठत्वं निर्णेतुं सामान्याः प्रेक्षकाः न प्रभवन्ति। वस्तुतः भवान् निर्णेतुम् अर्हति स्म। किन्तु इदानीं भवतः एव विकल्पाः। अतः इदानीं शिष्टः एकः एव उपायः” इति।
“कः सः उपायः ? कथयतु तावत्” इति कुतूहलपूर्वकम् उक्तवान् राजा चित्रसेनः।
“इन्द्रजालविद्यायाः महत्त्वं निर्णेतुं वयम् ऐन्द्रजालिकाः एव समर्थाः। वयं तु सर्वथा निष्पक्षपातिनः। अतः अस्मभ्यं यः रोचते तस्य नाम चिटिकायां लिखामः वयम्। यस्य नाम अधिकैः लिखितं भवति सः एव श्रेष्ठः इति निर्णयः” इति उपायं सूचितवान्जालानन्दः।
एषा सूचना चित्रसेनेन अनुमता। अल्पे एव काले इष्टतमस्य ऐन्द्रजालिकस्य नाम चिटिकायां लिखित्वा चिटिकां महाराजाय दत्तवन्तः ऐन्द्रजालिकाः। राजा ताः चिटिकाः उद्घाट्य पठितवान्। सर्वासु चिटिकासु जालानन्दस्य एव नाम आसीत्।
एतत् ज्ञात्वा कश्चन ऐन्द्रजालिकः अग्रे आगत्य उक्तवान्—“महाराज ! अत्र कापि वञ्चना अस्ति। जालानन्दापेक्षया अधिकसमर्थः अन्यः अस्ति इति मम अभिप्रायः” इति।
तदा चित्रसेनः पृष्टवान्—“तर्हि तस्य नाम कुतः भवता न लिखितम्? किमर्थं वा जालानन्दस्य नाम लिखितम्?” इति।
ऐन्द्रजालिकः उक्तवान्—“महाप्रभो ! अतः एव खलु वदामि– कापि वञ्चना प्रवृत्ता इति? सः सर्वेषाम् उपरि इन्द्रजालप्रभावं स्थापितवान्। न्यायोचितनिर्णयस्य प्राप्त्यर्थम् इन्द्रजालविद्यायाः प्रयोगः सर्वथा निषिद्धः खलु?” इति।
अन्ये ऐन्द्रजालिकाः अपि एतम् एव वादं समर्थितवन्तः। तदा जालानन्दः महाराजम् उक्तवान्— “प्रभो ! न्यायनिर्णयसन्दर्भे इन्द्रजालविद्यायाः उपयोगः न स्वीकरणीयः इत्यंशम् अहम् अपि अङ्गीकरोमि। सर्वान् सम्मोहयन् ऐन्द्रजालिकः इतरान् ऐन्द्रजालिकान् अपि सम्मोहयितुं शक्नोति चेत् तत् तस्य श्रेष्ठत्वं द्योतयति खलु? तदर्थं मया एषः मार्गः आश्रितः। एतावता
न्यायनिर्णयः न सम्पन्नः। स च इदानीं भवदधीनः” इति।
** तदा राजा मन्दहासपूर्वकं घोषितवान्— “ऐन्द्रजालिकानाम् उपरि अपि इन्द्रजालप्रभावं स्थापयन् जालानन्दः सर्वश्रेष्ठः ऐन्द्रजालिकः” इति।**
राज्ञः एतं निर्णयं सर्वे ऐन्द्रजालिकाः अङ्गीकृतवन्तः।
** चित्रसेनः जालानन्दाय सहस्रं सुवर्णनाणकानि यच्छन् पृष्टवान्– “भवतः एतत् इन्द्रजालप्रदर्शनम् अपूर्वम् एव। किन्तु भवतः अपेक्षया अपि श्रेष्ठम् ऐन्द्रजालिकं जानाति वा भवान्? " इति।**
** “अवश्यं जानामि। मम पत्नी ममापेक्षया श्रेष्ठा। तस्याः सौन्दर्येण सम्मोहितः अहं तस्याः चरणदासः सञ्जातः अस्मि। तया वशीकृतः अहम् इन्द्रजालविद्याम् अभ्यस्तवान्” इति विवरणं दत्तवान् जालानन्दः।**
** एतेन उत्तरेण चित्रसेनः न तृप्तः। सः पुनःउक्तवान्— “भवतः इन्द्रजालं तु तात्कालिकः भ्रमः। भवतः पत्न्याः सौन्दर्यं तु न भ्रमः। तयोः महदन्तरं दृश्यते खलु?” इति।**
** तदा जालानन्दः उक्तवान्— “इन्द्रजालभ्रमः काश्चन घण्टाः यावत् तिष्ठति चेत् सौन्दर्यभ्रमः कानिचन वर्षाणि यावत् तिष्ठति चेत्सौन्दर्यभ्रमः कानिचन वर्षाणि यावत् स्थास्यति। महाराज! अतः सौन्दर्यभ्रमः अपि अशाश्वतः**
एव। वस्तुतः तु एतत् जगत् एव महतः ऐन्द्रजालिकस्य भगवतः लीला” इति।
** इदानीं राजा पुनः तस्मै लक्षं सुवर्णनाणकानि दत्त्वा उक्तवान्– “अहम् अपि मम पत्न्याः सौन्दर्यभ्रमेण सम्मोहितः सन् प्रजाहितकार्यं विस्मृत्य भोग-विलासेषु मग्नः आसम्। भवतः वचनैः मम भ्रमः अपगतः। अतः एतत् उपायनं दत्तवान्’ इति।**
** जालानन्दः सन्तुष्टः सन् ततः निर्गतवान्। इन्द्रजालद्वारा महाराजं जनकल्याणकार्येषु प्रवर्तितवन्तं तं जनाः श्लाघितवन्तः।**
जीवरक्षकम् असत्यम्
कदाचित् सुधर्मराजसमीपं कञ्चन युवकं बद्ध्वा आनीतवन्तः भटाः। भटानां कथनम् आसीत् यत् विदेशीयः एषः यात्रिकाणां धनम् अपहरन् एकं मारितवान् अपि इति।
राजा विचारणं कृत्वा तस्य मरणदण्डनं विहितवान्।
तस्य हस्तौ बद्ध्वा भटाः तं ततः नीतवन्तः। तदा सः किमपि उक्तवान्। किन्तु तेन प्रयुक्ता भाषा राज्ञा न ज्ञाता। तस्य कथनं ज्ञात्वा आगच्छतु इति मन्त्रिणम् आदिष्टवान् राजा।
“सः भवतः उत्तमं व्यवहारं श्लाघमानः अस्ति” इति उक्तवान् मन्त्री।
“एवं तर्हि तस्य मरणदण्डनं मास्तु। एकवर्षात्मकेन कारागारवासेन तं दण्डयन्तु” इति ‘मन्दहासपूर्वकम् उक्तवान् राजा।
तदा सभासत्सु एकः उत्थाय– “प्रभो ! सः भवतः निन्दनं कुर्वन् अस्ति, न तु श्लाघनम्। यतः अहं तस्य भाषां सम्यक् जानामि” इति उक्तवान्।
तदा राजा क्षणकालं मौनं स्थित्वा उक्तवान्— “भवता सत्यम् उक्तम्, उत मन्त्रिणा इति अहं न जानामि। मन्त्रिणा असत्यम् उक्तम् इत्येव भावयेम, तथापि तत् असत्यं जीवरक्षकम् अभवत्। भवता उक्तं सत्यं स्यात् चेदपि तत् जीवहानिकारकम् अस्ति। जीवनाशकस्य सत्यस्य अपेक्षया जीवरक्षकम् असत्यम् एव वरम्” इति।
सभासदः एतदङ्गीकारपूर्वकं हर्षध्वनिं प्रकटितवन्तः।
ज्योतिषफलम्
यमुनानगरस्य राजा हरिकान्तः। तस्य देशस्य शत्रुभयं तु न आसीत्। अन्यच्च तस्य मन्त्री शासने अतीव दक्षः स्वामिभक्तः च। अतः महाराजः सर्वदा निश्चिन्तः।
बहूनि वर्षाणि यावत् राजा भुञ्जन्, पिबन्, सुखेन उपविशन्, नृत्यविनोदादिषु तत्परः सन् च कालं यापितवान्। अतः सः स्थूलः तुन्दिलः च जातः। उदरं तु उदभाण्डम् इव दृश्यते स्म। महाराजस्य परिस्थितिः एवं जाता यत् उत्थातुम् उपवेष्टुं च सः कष्टम् अनुभवति।
आत्मनः परिस्थितिं दृष्ट्वा महाराजः भीतः। चलनम् अपि यदा अशक्यं जातं तदा सः हताशः। सुन्दरम् अङ्गसौष्ठवयुतम्। आरोग्यवन्तं पुरुषं दृष्ट्वा महाराजः चिन्तयति– ‘एते कीदृशाः भाग्यशालिनः ! मम शरीरम् अपि यदि एवम् एव भवेत् तर्हि कियत् समीचीनं स्यात् !’ इति।
राजा मन्त्रिणः सूचितवान् स्थूलतानिवारणार्थं यत् कोऽपि उपायः चिन्तनीयः इति। मन्त्रिणः वैद्यानां साहाय्यं प्रार्थितवन्तः। वैद्याः विविधानि औषधानि दत्तवन्तः। राजा तानि सेवितनवान्। औषधानि निरर्थकानि जातानि। इदानीम् अपि अन्नपानादिषु तस्य नियन्त्रणं न आसीत्। अतः वैद्याः असहायकतां प्रकटयन्तः औषधदानं स्थगितवन्तः।
औषधसेवनेन अपि स्थूलता न अपगता इत्यतः महाराजस्य चिन्ता प्रवृद्धा। ‘आरोग्यपूर्णंशरीरं द्रष्टव्यम् एव’ इति निश्चित्य सः मन्त्रिणम् उक्तवान्– “यः कोऽपि मम स्थूलतां निवारयितुं यदि `शक्नुयात् तर्हि तस्मै अर्धं राज्यं दातुम् अहं सिद्धः। एतां वार्तां भवान् सडिण्डिमघोषं
प्रसारयतु” इति।
** समग्रे देशे एषा वार्ता प्रसारिता। तत्समये मन्त्रिणः अन्यम् अपि अंश योजितवन्तः। ते आलोचितवन्तः यत् राज्यलोभेन यः कोऽपि आगत्य महाराजं पीडयेत् इति। अतः ते एतं नियमं योजितवन्तः यत् यः महाराजस्य स्थूलतां निवारयिष्यति तस्मै अर्धं राज्यं दीयते, यः चिकित्सायां प्रवृत्तः सन् असफलः भविष्यति सः शूलम् आरोपयिष्यते इति। कोऽपि मरणं न इच्छति खलु? अतः महाराजस्य चिकित्सार्थं कोऽपि उत्साहं न प्रकटितवान्।**
** एषः उपायः अपि यदा न फलितः तदा महाराजस्य चिन्ता इतोऽपि प्रवृद्धा। एवं स्थिते एकदा योगानन्दनामकः संन्यासिवेषधारी राजभवनम् आगत्य उक्तवान्– “अहं स्वचिकित्सया महाराजस्य स्थूलतां निवारयिष्यामि” इति।**
** तदा महामन्त्री उक्तवान्– “महाशय ! भवान् महाराजाय यत् औषधं दातुम् इच्छति तत् अस्माकं पुरतः एव सज्जीकरणीयम्। महाराजस्य क्षेमदृष्ट्या एषः नियमः स्थापितः” इति।**
** तदा योगानन्दः उक्तवान्– “एतावता एव शक्याः सर्वे औषधोपचाराः कृताः इति अहं भावयामि। अतः औषधोपचारस्य आरम्भतः पूर्वम् अहं महाराजस्य जन्मकुण्डलीं द्रष्टुम् इच्छामि” इति।**
** मन्त्रिणः महाराजस्य जन्मकुण्डलीं योगानन्दाय दत्तवन्तः। योगानन्दः जन्मकुण्डलीं दीर्घकालं यावत् परिशीलयन् अन्ते उक्तवान्– “महाराजाय कस्यापि औषधस्य दानेन अन्यचिकित्सया वा किमपि प्रयोजनं नास्ति। अद्यतः त्रिंशत्तमे दिने महाराजस्य मरणं निश्चितम्। सः त्रिंशत् दिनानि केवलं जीवति” इति।**
** मन्त्रिणः आश्चर्यं प्रकटयन्तः प्रतिवादम् उपस्थापितवन्तः– ‘महाराजस्य जन्मकुण्डली इतःपूर्वं बहुभिः प्रसिद्धैः ज्योतिषिकैः दृष्टा एव। एकः अपि एतम् अंशं न सूचितवान्। ग्रहनक्षत्रादीनां परिचयः एव नास्ति भवतः” इति।**
** “मान्याः ! अन्यैः न उक्तं चेदपि भवितव्यं**
भविष्यति एव खलु? मम वचने भवतां विश्वासः यदि न स्यात् तर्हि मां त्रिंशत् दिनानि यावत् कारागारे स्थापयितुम् अर्हन्ति भवन्तः” इति उक्तवान् योगानन्दः।
मन्त्रिणः योगानन्दस्य वचनम् अङ्गीकृतवन्तः, तं कारागारे स्थापितवन्तः च। कारागारे योगानन्दस्य भोजन-शयनाद्यर्थं योग्या व्यवस्था कृता आसीत्। योगानन्दस्य वचनेषु महाराजस्य हरिकान्तस्य पूर्णः विश्वासः उत्पन्नः। ‘योगानन्दस्य स्वविद्यायां पूर्णः विश्वासः यदि न स्यात् तर्हि सः स्वयं कारागारवासं न अङ्गीकृतवान् स्यात्’ इति महाराजस्य विचारः।
इदानीं महाराजस्य अन्या एव चिन्ता। इतः परं त्रिंशत् दिनानि एव मम जीवनम् इति अहोरात्रं चिन्तयति सः। एषा चिन्ता आधिरूपेण परिवृत्ता अभवत्। भोजने रुचिः न दृश्यते तेन। निद्रा न आलिङ्गति तम्। मनोरञ्जककार्यक्रमेषु आसक्तिः लुप्ता।
आधिः दिने दिने वर्धते। मन्त्रिणः तम् पुनः पुनः उक्तवन्तः– “योगानन्दस्य वचनम् असत्यम्। तदीयं वचनं न फलति” इति। राजा एतत् सर्वं मौनं शृणोति तावदेव।
अष्टाविंशतिः दिनानि अतीतानि। राजा इदानीं पूर्णतः शय्याम् आश्रितवान्। सः बान्धवैः मन्त्रिभिः सह वा वार्तालापम् अपि स्थगितवान्।
त्रिंशत्तमं दिनम् अपि आगतम्। राजा अस्थिचर्ममात्रः जातः। किन्तु तदीयाः प्राणाः
तु न निर्गताः ।
एकत्रिंशत्तमे दिने महाराजः कस्यचित् मन्त्रशक्त्या प्रेरितः इव व्याधितः निर्मुक्तः अभवत्। सः शय्यातः उत्थाय मन्त्रिणः ‘समीपं वेगेन गत्वा गर्जितवान्– “कुत्र सः वराकः योगानन्दः? तं कारागारतः आनीय शूलम् आरोपयन्तु” इति।
महामन्त्री योगानन्दं कारागारतः आनीय महाराजस्य पुरतः उपस्थापितवान्। योगानन्दं दृष्ट्वा महाराजः कोपेन पृष्टवान्– “अये मिथ्यावादिन् ! भवान् असत्यपूर्णं भविष्यं वदन् मां सम्यक् हिंसितवान्। भवान् एव वदतु भवतः अपराधार्थं कः दण्डः उचितः?” इति।
योगानन्दः मन्दहासं प्रकटयन् उक्तवान्–“दण्डः ! अहं चिन्तितवान् आसं यत् भवान् पुरस्कारं दास्यति इति” इति।
“मम मरणं भविष्यति इति उक्त्वा मिथ्याभयम् उत्पादितवते भवते किं, पुरस्कारः दातव्यः?” इति कोपेन एव प्रतिप्रश्नं कृतवान् राजा।
“महाराज ! भवता एतत् न विस्मर्तव्यं यत् अहं चिकित्सकत्वेन भवतः समीपम् आगतवान्, न तु ज्योतिषिकत्वेन। मया या चिकित्सा कृता सा तु पूर्णतः सफला एव। भवान् एव आत्मनः कृशताम् एकवारं परिशीलयतु। भवतः तुन्दिलत्वम् अपगतम्। भवान् न केवलं चलितुम्, अपि तु धावितुम् अपि ‘शक्नोति। एतत् सर्वं किं ज्योतिषविद्यया सिध्यति, उत चिकित्साक्रमेण?” इति योगानन्दः सधैर्यम् उक्तवान्।
राजा हरिकान्तः इदानीं विवेकं प्राप्तवान्। सः झटिति उत्थाय दर्पणस्य पुरतः गत्वा स्थितवान्। सः इदानीं पूर्णतः स्वस्थः कान्तिमान् च आसीत्। तदीयः मानसिकः आधिः औषधस्य कार्यं कृतवान् आसीत्। राजा मन्त्रिणः आदिष्टवान्– “अस्माकं राज्यस्य दक्षिणदिशि पूर्वदिशि च स्थितः अर्धभागः योगानन्दस्य वशे अर्पणीयः” इति।
कुक्कुटपाकः
नागेशस्य पत्नी विमला। नागेशः प्रतिदिनं प्रातः एव गृहात् प्रस्थाय कृषिक्षेत्रे कार्यं कृत्वा सायं गृहं प्रत्यागमिष्यति। विमला गृहे तिष्ठन्ती गृहकार्याणि करोति, कुक्कुटपालनम् अपि करोति।
विमलायाः कुक्कुटप्रीतिं जानन्तः ग्रामीणाः स्वकीयान् कुक्कुटशावकान् आनीय विमलायाः आधीन्ये स्थापयन्ति। यदा ते कुक्कुटाः प्रौढाः भवन्ति तदा तेषु द्वित्रान् विमलायै एव दत्त्वा शिष्टान् स्वगृहं नयन्ति स्म। एवं प्राप्ताः २५-३० कुक्कुटाः विमलायाः गृहे आसन्।
नागेशस्य तु कुक्कुटमांससेवने विशेषासक्तिः। एकं कुक्कुटं मारयित्वा मारयित्वा तदीयेन मांसेन पाकं करोतु इति पत्नीं तदा तदा साग्रहं वदति नागेशः। “तत् तु सर्वथा नशक्यते” इति स्पष्टं निराकरोति स्म विमला।
बहुवारम् उक्त्वा श्रान्तः नागेशः एकदा पत्नीम् उक्तवान्– “भोः, ह्यःएकं महापुरुषं दृष्टवान्। ‘अस्माकं क्षेत्रे फलसमृद्धिः कुतः नास्ति?’ इति तं पृष्टवान् च। तदा सः उत्तरं दत्तवान् यत् अस्माकं ग्रामस्य सीमायां सालवृक्षः अस्ति खलु? तत्र केदारेश्वरी निवसति इति। प्रतिदिनं कुक्कुटमांसेन पार्क सज्जीकृत्य वृक्षस्य कोटरे स्थापयित्वा साक्षात् प्रत्यागन्तव्यम् इति सः सूचयति। एवम् एकमासं यावत् समर्पितं चेत् सन्तुष्टा केदारेश्वरी फलसमृद्ध्या अनुग्रहीष्यति इति सः उक्तवान्” इति।
पत्युः वचनं श्रुत्वा विमला– “स्यात् नाम,फलसमृद्ध्यर्थं दैवानुग्रहः अत्यावश्यकः” इति आलोच्य पत्युः वचनं पालयितुं सिद्धा जाता।
अनन्तरदिने विमला भक्त्या देवं ध्यात्वा
नेत्रे निमील्य महता खेदेन एकं कुक्कुटं मारितवती। तदीयेन मांसेन पाकं कृत्वा अन्नेन सह संयोज्य ग्रन्थिरूपेण बद्ध्वा ग्रामसीमायां स्थितस्य सालवृक्षस्य कोटरे स्थापितवती, पृष्ठतः अपश्यन्ती साक्षात् गृहम् आगतवती च।
** विमलायाः प्रतिगमनानन्तरं वृक्षस्य उपरि स्थितः नागेशः अधः आगत्य कोटरस्थं कुक्कुटमांसोपेतं भोजनं ससन्तोषं स्वीकृतवान्।**
** एवम् एव एकः मासः अतीतः। विमला गृहे स्थितस्य अन्तिमकुक्कुटस्य मांसेन पाकं कृतवती। एतावता अपि केदारेश्वर्याः अनुग्रहः न दृष्टः आसीत्।**
** मांसभोजनं स्वीकृत्य सालवृक्षसमीपं**
गच्छन्ती सा क्षेत्रं परिशीलितवती। तस्याः मनसि तदा कश्चन सन्देहः उत्पन्नः। सा मांसभोजनं यथापूर्वं कोटरे स्थापयित्वा किञ्चिद्दूरं मौनं गत्वा अन्यस्य वृक्षस्य पृष्ठतः निलीय सालवृक्षं पश्यन्ती स्थितवती।
** नागेशः प्रतिदिनम् इव वृक्षात् अवतीर्य मांसभोजनार्थम् उद्युक्तः जातः। एतत् दृष्टवती विमला कोपेन ज्वलन्ती वेगेन सालवृक्षसमीपम् आगतवती। पतिं मुष्ट्या प्रहरन्ती अवाच्यैः शब्दैः निन्दितवती। “एतादृशेन वञ्चकेन सह इतःपरं जीवन सर्वथा न शक्यते। अद्य आरभ्य एषः मम पतिः न " इति वदन्ती गृहं प्रतिगतवती।**
** सा मातृगृहं गन्तुं निश्चितवती। स्वकीयानि सर्वाणि वस्तूनि ग्रन्थिरूपेण**
बद्ध्वा एकस्मिन् महाकण्डोले स्थापितवती। प्रतिवेशिनीः निवेदयितुं ततः गतवती च।
पत्नीम् अनुसरन् नागेशः अपि गृहम् आगतवान्। यदा पत्नी प्रतिवेशिनीनां गृहं प्रति प्रस्थिता तदा एषः मन्दं गृहं प्रविष्टवान्। पत्न्याः आशयः तेन ज्ञातः। अतः महाकण्डोले स्वयम् उपविश्य आत्मनः उपरि वस्तूनां ग्रन्थिं स्थापितवान्।
विमलायाः हठात् निर्गमनं श्रुत्वा आश्चर्यं प्रकटयन्त्यः प्रतिवेशिन्यः तां प्रेषयितुं तस्याः गृहम् आगत्य महाकण्डोलं विमलायाः शिरसि स्थापितवत्यः। तत्समये ताः उक्तवत्यः– “कियान् भारः एतस्य ! तावद्दूरं कथं वक्ष्यति?” इति।
“भारवहनं न क्लेशाय। प्रतिदिनं तदेव कार्यं खलु मम” इति वदन्ती विमला कण्डोलं वहन्ती मातृगृहं प्रस्थितवती।
मातृगृहं गता विमला कण्डोलं गृहस्य स्वागतप्रकोष्ठे पातयित्वा रुदती अन्तः गतवती। “अम्बऽऽ” इति आक्रन्दनं कुर्वती पत्या कृतां वचनां निवेदितवती। तत्समये नागेशः कण्डोलात् बहिः आगच्छन्– “माम् अपि एषा आत्मना सह आनीतवती” इति हसन् उक्तवान्।
“अहो ! स्वगृहे स्थितान् कुक्कुटान् समाप्य इदानीं मम गृहस्य कुक्कुटान् खादितुम् उपायेन अत्र आगतवन्तौ वा? पतिः यदा पृच्छति तदा कदाचित् वा कुक्कुटमांसेन पाकः कृतः चेत् एवं न अभविष्यत्। अतिव्यामोहः न उचितः। अस्तु तावत्, अद्य अहम् कुक्कुटमांसेन पाकं करिष्यामि। भोजनं कृत्वा इतः गच्छताम्” इति उक्तवती विमलायाः माता।
एवं नागेशः विमला च पुनः स्वगृहं प्रस्थितवन्तौ। मार्गे नागेशः उक्तवान्–‘आगमनसमये भवती माम् उन्नीतवती। इदनीं भवती कण्डोले उपविशतु” इति।
“तथा किमपि मास्तु। मया दोषः कृतः। फलम् अनुभुक्तं च” इति क्षीणेन स्वरेण उक्तवती विमला।
कृपणस्य दानम्
धनगुप्तस्य कृषिक्षेत्रं यथेष्टम् आसीत्। ग्रामस्य मध्ये तदीयः आपणः अपि आसीत्। ‘परमकृपणः’ इति तस्य अपख्यातिः अपि आसीत्। एकदा सः शस्यसङ्ग्रहणकाले पत्नीम् आपणे विक्रयणकार्ये नियोज्य कृषिक्षेत्रं गतवान्।
धान्यानि एकत्र राशीकृतानि। राशीकरणानन्तरं दरिद्रेभ्यः दानरूपेण किञ्चित् धान्यं दातव्यम् इति तत्रत्यः सम्प्रदायः। धनगुप्तस्य कृपणतां जानन्तः जनाः तस्य समीपं न आगतवन्तः एव। समीपे स्थिताः कृषिकाः दानं कुर्वन्तः कटाक्षेण धनगुप्तम् एव पश्यन्ति !
एतत् दृष्टवतः धनगुप्तस्य मनसि असूया उत्पन्ना। अतः सः आत्मनः दानशीलतां प्रदर्शयितुम् इच्छन् धान्ये निस्सत्त्वानि धान्यानि योजयित्वा समीपस्थान् बालकान् आहूय तेषां हस्ते दत्तवान्।
कृपणस्य धनगुप्तस्य दानक्रियां दृष्ट्वा सर्वे कृषिकाः आश्चर्यचकिताः। ते तान् बालकान् समीपम् आहूय तेषां हस्ते स्थितानि धान्यानि परिशीलितवन्तः।
तत्र निस्सत्त्वानि धान्यानि एव अधिकानि। ‘अग्रे किं करणीयम्’ इति उपदिश्य ते तान् बालान् प्रेषितवन्तः।
धनगुप्तः धान्यगोणीभिः सह गृहम् आगतवान्। तदा तस्य पत्नी समीपस्थं धान्यराशिं प्रदर्शयन्ती उक्तवती– “मया अद्य अर्धेन मूल्येन धान्यानि क्रीतानि। केनचित् धार्मिकेण दानरूपेण दत्तानि इति वदन्तः बालकाः अल्पेन मूल्येन एतानि विक्रीतवन्तः” इति।
तानि धान्यानि दृष्ट्वा एव धनगुप्तः ज्ञातवान् यत् तानि आत्मना एव दानरूपेण दत्तानि इति। निरुपयुक्तानि धान्यानि धनं दत्त्वा क्रीतवत्याः पत्न्याः मन्दबुद्धितां दृष्ट्वा सः अतीव खिन्नः।
कुब्जस्य निश्रेणी
मलयगिरिराज्यं महेन्द्रपालः नाम राजा पालयति स्म। एकदा यदा सः राजसभायाम् आसीत् तदा कश्चन श्मश्रुलः कुब्जः वृद्धः एकां निश्रेणीं स्कन्धे आरोप्य राजसभां प्रविष्टवान्। महाराजं नमस्कृत्य “मां रक्षतु महाप्रभो !” इति विनयेन प्रार्थितवान् सः।
“किं कष्टम् आपतितम् इति प्रथमं निवेदयतु। रक्षणभारम् अहं निर्वक्ष्यामि” इति उक्तवान् महेन्द्रपालः।
तदा कुब्जः वृद्धः उक्तवान्–“प्रभो ! महता परिश्रमेण अहम् एतां विशिष्टशक्तिशालिनीं निश्रेणींसम्पादितवान् अस्मि। एताम् अपहृत्य एतद्द्वारा यथेष्टं धनं सम्पादनीयम् इति आलोचयन् चोरः गजराजः माम् अनुसरन् अस्ति। तस्मात् चोरतः मां रक्षतु महाप्रभो !” इति।
महेन्द्रपालः दुर्गस्य अन्तः एव वृद्धस्य वसत्यर्थं व्यवस्थां कृतवान्। तदीयगृहस्य रक्षणार्थं द्वौ भटौ अपि नियोजितवान्।
चोरः गजराजः एतां वार्तां श्रुतवान्। वेषान्तरेण दुर्गस्य अन्तः प्रविष्टवान् च। वृद्धस्य वसतिं प्रवेष्टुम् अपि प्रयत्नं कृतवान्। प्रवेशप्रयत्नः तु सफलः, किन्तु निश्रेणीं चोरयितुं सः न ‘शक्तवान्। अतः सुलभलभ्यानि अमूल्यवस्तूनि चोरयित्वा सः ततः पलायतिवान्। चौर्यस्य अनन्तरं भटाः गजराजस्य आगमनं ज्ञातवन्तः। किन्तु तं बद्धुंते न शक्तवन्तः।
राजा महेन्द्रपालः एतां वार्तां ज्ञातवान्। ‘सेवकेषु विश्वासेन प्रयोजनं नास्ति’ इति आलोचयन् सः चोरग्रहणार्थं स्वयं प्रस्थितवान्। चोरम् अन्विष्य गच्छन् सः एकं पर्वतप्रदेशं प्राप्तवान्।
वस्तुतः गजराजः तत्रैव आसीत्। सः महाराजस्य आगमनं ज्ञात्वा गोपालकः इव अभिनयन् महाराजसमीपम् आगत्य उक्तवान्– “महाराज ! तत्र दृश्यमानायां गुहायां रत्नानि राशिरूपेण पतितानि सन्ति। पशुपालकः अहं तावता ऐश्वर्येण किं करोमि? भवान् तु महाराजः। तत् ऐश्वर्यं भवतः उपयोगाय भवेत्, पश्यतु” इति।
एतत् श्रुत्वा राजा आश्चर्यं प्रकटयन् अश्वात् अवतीर्य गुहां प्रविष्टवान्। तदा गजराजः झटिति महाशिलया गुहाद्वारं पिधाय राज्ञः अश्वम् आरुह्य राजदुर्गम् उद्दिश्य गतवान्।
दुर्गं प्रविश्य महाराजस्य अनुजम् अनङ्गपालं दृष्ट्वा– “प्रभो ! महाराजः मया अरण्ये दृष्टः। सः ऐहिकभोगविषये वैराग्यं प्राप्य संन्यासं स्वीकृतवान्। सः मद्द्वारा वार्तां प्रेषितवान् यत् इतःपरं राज्यभारः भवता एव द्रष्टव्यः इति। एतं विषयं प्रमाणीकर्तुं सः स्वकीयम् अश्वम् आरुह्य गन्तुम् अपि मां सूचितवान्” इति उक्तवान्।
महेन्द्रपालस्य अश्वस्य दर्शनेन अनङ्गपालः गजराजस्य वचने विश्वासं प्राप्तवान्। आत्मना प्राप्यमाणं राजपदवीं स्मरन् सः सन्तोषेण स्वकण्ठे स्थितं वज्रहारं गजराजस्य कण्ठे स्थापितवान्।
गजराजः तं हारं हस्तेन स्वीकृत्य पश्यन् उक्तवान्– “प्रभो ! शुभवार्ताम् आनीतवते मह्यम् एषः वज्रहारः यत् दत्तः तत् उचितम् एव। एतेन सहैव अपूर्वशक्तिशालिनी निश्रेणी अपि दत्ता चेत् अहं परमसन्तुष्टः भवेयम्” इति।
विशिष्टायाः निश्रेण्याः प्रार्थनां श्रुतवतः अनङ्पांलस्य मनसि सन्देहः उत्पन्नः। सः गजराजस्य बन्धनार्थं भटान् आहूतवान्। अपायप्राप्तिं ज्ञात्वा चोरः गजराजः ततः पलायितवान्।
सः साक्षात् पर्वतप्रदेशस्य गुहायाः समीपं गत्वा आच्छादकरूपां शिलाम् अपसार्य महेन्द्रपालम् उक्तवान्– “भवन्तौ सहोदरौ रामलक्ष्मणसदृशौ इति वार्ता जनानां मुखतः मया श्रुता आसीत्। तस्य परीक्षणार्थम् एव अहं भवन्तं बन्धने संस्थाप्य भवतः अनुजस्य
समीपं गतवान्। भवान् संन्यासी जातः इति मया यदा उक्तं तदा तेन मह्यम् एषः कण्ठहारः दत्तः। पश्यतु, भवतः सहोदरस्य प्रीतिम्” इति। अनङ्गपालेन दत्तं कण्ठहारं प्रदर्शितवान् च।
महेन्द्रपालः इदानीम् अतीव कुपितः। सः तत्क्षणे एव दुर्गं प्रति गतवान्। यदा सः अन्तःपुरं प्रति गन्तुम् उद्युक्तः तदा सः कुब्जः वृद्धः महाराजसमीपम् आगत्य उक्तवान्–“प्रभो ! कोपावेशसन्दर्भे किमपि कार्यं न करणीयम्। भवान् मम वसतिम् आगच्छति चेत् एकं विचित्रं प्रदर्शयामि” इति।
विचित्रदर्शनकुतूहलेन महाराजः कुब्जस्य वसतिं गतवान्। तत्र वृद्धस्य सूचनानुसारं तां विचित्राम् निश्रेणीम् आरुह्य अट्टप्रदेशं प्राप्तवान्।
तत्र राजा एकं विचित्रं दृश्यं दृष्टवान्। तदीयः पिता मरणशय्यायाम् अस्ति। सः महेन्द्रपालं स्वसमीपम् आहूय दशवर्षीयं बालम् अनङ्गपालं प्रदर्शयन् वदति– “पुत्र ! भवतः अनुजं प्रीत्या, विना लोपं च पालयतु। तेन कोऽपि दोषः आचरितः चेदपि क्षाम्यतु” इति।
महेन्द्रपालः अनङ्गपालं प्रीत्या आलिङ्ग्य पितरम् उक्तवान्– “तात !भवान् निश्चिन्तः भवतु। अनुजम् अहं प्राणसमानं पश्यामि” इति।
एतत् दृश्यं दृष्ट्वा महेन्द्रपालः अधः आगतवान्। कुब्जं वृद्धम् उक्तवान् च– “मया कोपवशात् करिष्यमाणात् अपायात् भवत्कारणतः अनुजः रक्षितः। पित्रे दत्तं वचनं पालितम् अभवत्। भवद्विषये सन्तुष्टः अस्मि। किम् इच्छति भवान् ? पृच्छतु” इति।
“प्रभो ! गजराजात् मां रक्षतु इति एतावदेव मम प्रार्थना। अन्या कापि अपेक्षा नास्ति मम। एतस्याः निश्रेण्याः साहाय्येन कस्यापि शत्रुभयं यथा न स्यात् तथा कृत्वा उत्तमा कीर्तिः सम्पादनीया इत्येव मम इच्छा” इति उक्तवान् सः कुब्जः वृद्धः।
राजा क्षणकालम् आलोच्य कुब्जं वृद्धम् उक्तवान्– “शत्रवः यथा न भवेयुः तथा करणीयम् इति खलु भवतः इच्छा? एवं तर्हि शत्रुविषये सदा चिन्तनं व्यर्थं कार्यम्। भवान्
एतत्क्षणे एव दुर्गं परित्यज्य गच्छतु। तेन भवतः समस्या परिहृता भविष्यति” इति।
कुब्जः वृद्धः ‘मां इतः न प्रेषयतु’ इति बहुधा प्रार्थितवान्। तथापि महाराजः तं दुर्गात् बहिः प्रेषितवान् एव।
कुब्जः वृद्धः महाराजं मनसा निन्दन् निश्रेणीं स्कन्धे आरोप्य ततः गतवान्। किञ्चिद्दूरं गमनानन्तरं चोरः गजराजः तस्य सम्मुखम् आगत्य निश्रेणीं बलात् स्वायत्तीकृत्य अरण्यं प्रति धावितवान्। कुब्जः वृद्धः चोरस्य मार्गम् एव अनुसृतवान्।
अरण्यं प्रविष्टः गजराजः निश्रेण्याः माहत्म्यं परीक्षितुम् इष्टवान्। अतः कस्मिंश्चित् वृक्षे निश्रेणीम् आलम्ब्य उपरि गतवान्। तत्र द्वौ राजभटौ उपस्थाय गजराजं दृढं गृह्णन्तौ– “अद्यपर्यन्तं भवान् असङ्ख्यान् अपराधान् कृतवान्। तस्य दण्डनरूपेण महाराजः भवतः शूलारोपणम् आज्ञापितवान् अस्ति” इति वदन्तौ तस्य कण्ठे रज्जुं बद्ध्वा वृक्षे तम् उत्तोलितवन्तौ।
यथा यथा रज्जुबन्धः दृढः जातः तथा तथा चोरस्य भीतिः अपि अधिका जाता। तत्समये एव कुब्जः वृद्धः तत्र आगतवान्। गजराजस्य कण्ठे बद्धां रज्जुं प्रयत्नेन निष्कास्य तम् अधः शायितवान्।
अल्पे एव काले चोरः सचेतनः जातः। ‘कः मम प्राणान् रक्षितवान्’ इति ज्ञातुं सः परितः दृष्टिं प्रसारितवान्। पार्श्वे एव कुब्जः वृद्धः स्थितः आसीत्।
चोरः कुब्जस्य पादयोः प्रणम्य– “श्रीमन् ! मां क्षाम्यतु। भवान् समये आगत्य मम प्राणान् रक्षितवान्। अहं नितरां कृतज्ञः अस्मि” इति सगद्गदम् उक्त्वा सज्जनव्यवहारस्य व्रतं स्वीकृत्य ततः निर्गतवान्।
चोरस्य गजराजस्य ग्रहणार्थं महाराजः निश्रेण्याः उपयोगं यत् स्वीकृतवान् तत् दृष्ट्वा वृद्धः अतीव सन्तुष्टः। सः तां विशिष्टां निश्रेणीं महाराजाय एव दत्तवान्। राजा ‘शाश्वताश्रयदानेन तम् अनुगृहीतवान्।
कूर्मशुक्तिः
पूर्वं चीनादेशे सूचौनगरे वेन्षीयः निवसति स्म। तस्य बुद्धिमत्ता अपूर्वा आसीत्। क्रीडासु, चित्रकलायां, नृत्ये, सङ्गीते, वाद्यवादने च सः महानिपुणः। सः यत् क्षेत्रं प्रविशति तत्र सफलः भवति।
तस्य बाल्ये कश्चन ज्योतिषिकः तदीयां जन्मकुण्डलीं दृष्ट्वा उक्तवान् आसीत् यत् एषः भाविनि काले धनिकः भविष्यति इति। किन्तु यदा सः प्रौढः जातः तदा अपि धनिकत्वस्य लक्षणम् अपि न दृष्टं तस्मिन्। विद्यमानं धनं स्वेच्छया व्ययीकुर्वन् सन्तोषेण दिनानि यापयति वेन्षीयः।
अल्पे एव काले पित्रार्जिता सम्पत्तिः समाप्ता। तस्य समवयस्काः तु विविधोद्योगे नियुक्ताः, वाणिज्यादिषु प्रवृत्ताः वा यथेष्टं धनं सम्पादितवन्तः आसन्। एतत् दृष्ट्वा वेन्षीयः अपि धनसम्पादनेच्छया वाणिज्यम्आरब्धवान्। किन्तु दुर्दैववशात् तेन तत्र महती हानिः अनुभूता।
एकदा चत्वारिंशत् वणिजः वाणिज्यार्थं महानौकया समुद्रमार्गेण गच्छन्ति इति वार्तां वेन्षीयः श्रुतवान्। ‘माम् अपि नयन्तु’ इति तान् वणिजः प्रार्थितवान् च। वेन्षीयस्य सम्भाषणं सरसं भवति इत्यतः ते प्रयाणे उत्साहवर्धनार्थम् एषः भवतु इति आलोच्य तस्मै आगमनार्थम् अनुमतिं दत्तवन्तः।
एतत्सन्दर्भे विविधाः देशाः द्रष्टव्याः इति वेन्षीयस्य आशयः। किन्तु वणिक्प्रमुखः चाङ्ग् उक्तवान् यत् भवान् अपि किञ्चित् वस्तु स्वीकृत्य वाणिज्यं करोतु इति। एतन्निमित्तं धनम् आवश्यकं खलु? अतः चाङ्ग् सर्वान् प्रार्थितवान्– एतस्मै किञ्चित् किञ्चित् धनं यच्छन्तु इति। बहवः धनदानं निराकृतवन्तः। वेन्षीयेण केवलं
रजतनाणकद्वयं प्राप्तम्। तदा वणिक्प्रमुखः चाङ्ग् उक्तवान्– “वाणिज्यार्थम् एतत् सर्वथा अपर्याप्तम्। अतः एतेन फलानि स्वीकरोतु। प्रयाणसमये खादितुं शक्यते” इति।
तदा नौकास्थानके कश्चित् नारङ्गफलानां विक्रयणं कुर्वन् आसीत्। वेनुषीयः स्वसमीपे यावत् धनम् अस्ति तावत् दत्त्वा नारङ्गफलकण्डोलान् क्रीतवान्। एतस्य एतादृशं व्यवहारं दृष्ट्वा सर्वे वणिजः हसितवन्तः।
केषाञ्चित् दिनानाम् अनन्तरं नौका कञ्चन देशं प्राप्तवती। नौकास्थाने स्थितवती च। ते सर्वे वणिजः एतं देशंजानन्ति स्म। तैः आनीतानि वस्तूनि अत्र दशगुणितेन मूल्येन विक्रीतानि भवन्ति स्म। तथैव एतद्देशस्थानि वस्तूनि चीनादेशे अधिकमूल्येन विक्रीयन्ते स्म। अतः एव चीनावणिजः एतद्देशे वाणिज्यं कर्तुं विशेषतः उत्साहिनः।
सर्वे वणिजः स्ववस्तुभिः सह नगरं प्रविष्टवन्तः। तदा वेन्षीयः नारङ्गफलानि स्मृतवान्।
सर्वे वणिजः तानि फलानि दृष्ट्वा हसितवन्तः इत्यतः वेन्षीयः प्रयाणसमये तानि अन्तः स्थापितवान् आसीत्। इदानीं सः कण्डोलैः सह नौकायाः उपरितनं भागं गतवान्। कण्डोलान् उद्घाट्य एकैकशः फलानि बहिः स्थापितवान्। एकस्य नारङ्गस्य त्वचं निष्कास्य सन्तोषेण फलदलानि खादितुम् आरब्धवान् च।
तद्देशीयैः इतःपूर्वम् एतादृशं फलं न दृष्टम् आसीत्। अतः ते रक्तवर्णेन प्रकाशमानानि तानि फलानि दृष्ट्वा आकृष्टाः अभवन्। नौकास्थानस्थाः ते क्षणकालं फलम् आसक्त्या पश्यन्तः आसन्। एकः धैर्येण अग्रे आगत्य एकं रजतनाणकं वेन्षीयस्य हस्ते स्थापयित्वा ‘एकं फलं ददातु’ इति अभिनयेन प्रार्थितवान्। वेन्षीयः एतां प्रतिक्रियां न निरीक्षितवान् आसीत्। सः आश्चर्यम् अनुभवन् एकं फलं दत्तवान्। सः क्रेता सन्तोषेण तस्य फलस्य रसम् आस्वादितवान्।
पुनः दश नाणकानि दत्त्वा दश फलानि क्रीत्वा ततः निर्गतवान्।
अनन्तरं नारङ्गफलं क्रेतुं जनाः अहमहमिकया आगतवन्तः। वेन्षीयः मूल्यं; ‘वर्धितवान्। तथापि ते तावता मूल्येन फलानि क्रीत्वा गतवन्तः। अल्पे एव काले अर्धात् अधिकः भागः विक्रीतः अभवत्। वेन्षीयेन विशेषलाभः अपि प्राप्तः।
स्ववाणिज्यं समाप्य प्रत्यागताः वणिजः नारङ्गविक्रयणं वेन्षीयस्य श्रुत्वा आश्चर्यचकिताः। ते सूचितवन्तः– “भोः, भवान् अदृष्टशाली। इदानीं यत् धनं प्राप्तं तेन एतद्देशीयानि वस्तूनि क्रीत्वा चीनादेशे विक्रीय विशेषलाभं सम्पादयतु” इति। किन्तु वेन्षीयः विशेषलाभम् अनिच्छन् यावत् प्राप्तं तावता एव तृप्तः अभवत्।
वणिजः आत्मना आनीतानि वस्तूनि पूर्णतः विक्रीय तद्देशीयानि वस्तूनि यावच्छक्यं क्रीतवन्तः। पञ्चदशानां दिनानाम् अनन्तरं प्रतिप्रयाणम् आरब्धम्। प्रयाणसन्दर्भे महान् झञ्झावातः आगतः। नौका नृत्यति इव। अनियन्त्रिता सा कस्यचित् द्वीपस्य तीरं प्राप्तवती। झञ्झावातः यदा न्यूनीभवति तदा इतः प्रस्थानं भवतु इति सर्वे निर्णीतवन्तः।
तत्समये वेन्षीयः कुतूहलेन तं द्वीपं द्रष्टुम् उद्युक्तः जातः। तदा वणिजः– “निर्जने अस्मिन् द्वीपे द्रष्टव्यं किं स्यात् भोः?” इति वदन्तः निरुत्साहं जनितवन्तः चेदपि वेन्षीयः अग्रे
गतवान्। किञ्चिद्दूरं कश्चन लघुपर्वतसदृशः मृद्राशिः दृष्टः। कुतूहलेन सः लतानां साहाय्येन उपरि गतवान्। परितः दृष्टिं प्रसार्य पादमूले यदा दृष्टं तदा विचित्रं वस्तु किञ्चन दृष्टिगोचरं जातम्।
वेन्षीयः अवनम्य तत् वस्तु परीक्षितवान्। तच्च कूर्मस्य शुक्तिः आसीत्। किन्तु सा शुक्तिः मञ्चः इव विशालः आसीत्।
“अहो आश्चर्यम् ! एतावान् विशालः कूर्मः अपि जगति भवति वा ?” इति आलोचयन् वेन्षीयः क्षणकालम् आश्चर्येण स्थितवान्। अनन्तरं सः “एतादृशी कूर्मशुक्तिः केनापि न दृष्टा स्यात्। यदि अहम् एतद्विषये वदेयं तर्हि
कोऽपि तत्र न विश्वसेत्। अतः एतां मया सह नेष्यामि। द्विधा विदार्य पादादिकं योजयिष्यामि चेत् उत्तमं मञ्चद्वयं सेत्स्यति एव” इति आलोच्य शुक्त्याः कोणं वस्त्रेण बद्ध्वा आकर्षन् नौकासमीपं गतवान्।
वणिजः सर्वे तादृशीं शुक्तिं दृष्ट्वा आश्चर्यचकिताः। केचन उक्तवन्तः– एतस्याः नयनं व्यर्थम् एव इति। तदा वेन्षीयः उक्तवान्– “भवन्तः यथा विदेशीयानि वस्तूनि क्रीतवन्तः तथा मम एतत्। धनव्ययः तु कोऽपि न कृतः। अतः मया सह नयनेन न काऽपि हानिः” इति।
यदा वायोः वेगः स्थगितः तदा प्रयाणम् अनुवृत्तम्। यदा नौका चीनातीरं प्राप्तवती तदा मध्यगाः आगत्य ‘एतैः एतैः वणिजैः एतस्य एतस्य वणिजः गृहं प्रति आगन्तव्यम्’ इति आह्वानं दत्तवन्तः। एतदनुगुणं वेन्षीयः इतरे केचन वणिजः च इराणीवणिजः गृहं गतवन्तः। तस्य वणिजः नाम अबूब् हसन्। सः अतिथिनिमित्तं भोजनकूटं व्यवस्थापितवान् आसीत्।
एतादृशे भोजनकूटे सम्प्रदायः आसीत् यत् येन वणिजा अमूल्यं वस्तु आनीयते तस्मै अग्रासनं दीयते, यश्च अल्पमूल्यकं वस्तु आनीतवान् भवति तस्मै अन्तिमम् आसनम् इति।
एतस्य व्यवस्थार्थम् अबूब् तैः तैः आनीतानां वस्तूनां पट्टिकां परिशीलयन् आगतवान्। वेन्षीयस्य समीपे तु काऽपि पट्टिका न आसीत् एव। अतः सः पङ्क्तेः अन्ते उपवेशितः। भोजनं समाप्तम्।
अनन्तरदिने सः वणिक् नौकया एतैः आनीतानि वस्तूनि द्रष्टुम् आगतवान्। नौकां यदा आरूढवान् तदा सः प्रथमं कूर्मशक्तिं दृष्टवान्। सः गमनं स्थगयन् पृष्टवान्–“एषा अमूल्या शुक्तिः केन आनीता? एतस्याः यजमानः कः?” इति। वणिजः वेन्षीयस्य नाम सूचितवन्तः।
इराणीवणिजः मुखे असमाधानं कोपः च उद्भूतः। “बहोः कालतः भवन्तः मां जानन्ति। तथापि एतादृशस्य श्रेष्ठस्य वणिजः सामर्थ्यं गोपयन्तः तं पङ्क्तेः अन्ते
लोकज्ञानम्
सुमेरुपुरे विश्वपतिः नाम कश्चन प्रसिद्धः वैद्यः आसीत्। अनन्त-नीलकण्ठ-नामकौ युवकौ वैद्यकीयविद्यायाः अभ्यासार्थं शिष्यत्वेन विश्वपतेः गृहे तिष्ठतः।
अनन्तस्य अपूर्वा ग्रहणशक्तिः स्मरणशक्तिःच आसीत्। तेन चरक-सुश्रुतादीनां ग्रन्थेषु उक्ताः महाविषयकाः श्लोकाः लीलया उच्यन्ते स्म। तस्य एतादृशीं स्मरणशक्तिं दृष्ट्वा आश्चर्यं ‘एषः सन्तोषं च अनुभवन् विश्वपतिः–‘एषः मदपेक्षया अपि श्रेष्ठः वैद्यः भविष्यति। एतस्य पाठनेन मम गुरुत्वं सार्थकं जातम्’ इति भावयति।
नीलकण्ठे तादृशी विशेषशक्तिः कापि नास्ति। सः विद्याग्रहणे तीक्ष्णमतिः न चेदपि न मन्दबुद्धिः। सः सर्वदा गुरुम् एव अनुसरन् गुरोःपरीक्षापद्धतिं विशेषावधानेनपरिशीलयति। ‘एषः वैद्यकीयसम्बन्धिनः कांश्चन विषयान् जानाति चेत् अलम्। तेन कथञ्चित् जीवनं यापयितुम् अर्हति’ इति आलोच्य विश्वपतिः नीलकण्ठविषये अनवधानं प्रकटयति। शास्त्राणां गहनानि तत्त्वानि अजानन्अपि नीलकण्ठः स्वचिकित्साक्रमं श्रद्धया परिशीलयन् अस्ति इति अंशं विश्वपतिः न जानाति।
कालान्तरे अनन्तस्य नीलकण्ठस्य च विद्याभ्यासः समाप्तः। विश्वपतेः अनुमतिं प्राप्य तौ स्वजन्मस्थलं स्वर्णपुरं गत्वा तत्र भिन्ने स्थले चिकित्सालयम् आरब्धवन्तौ।
केषाञ्चित् वर्षाणाम् अनन्तरं सुदीर्घव्याधिना पीड्यमानः कश्चन धनिकः स्वर्णपुरतः प्रसिद्धवैद्यस्य विश्वपतेः समीपम् आगतवान्। विश्वपतिः तं सम्यक् परीक्ष्य रोगस्य कारणं विविच्य औषधोपचारं संसूच्य
तस्य जन्मस्थलादिविषये पृष्टवान्।
“स्वर्णपुरं मम जन्मस्थलम्’ इति यदा तेन धनिकेन उक्तं तदा विश्वपतिः स्वशिष्यौ अनन्त-नीलकण्ठौ स्मृतवान्। “तयोः वृत्तिजीवनं कथं प्रचलति?” इति धनिकं पृष्टवान् विश्वपतिः।
तदा धनिकः उक्तवान्– “नीलकण्ठः स्वर्णपुरे विशेषप्रसिद्धिं प्राप्तवान् अस्ति। सः एव माम् अत्र भवत्समीपं प्रेषितवान् अपि। अनन्तः तु प्रसिद्धिं प्राप्तुम् एव न शक्तवान्। ‘वैद्यवृत्तिं परित्यज्य परम्पराप्राप्तया कृषिवृत्त्या जीवननिर्वहणं करणीयम्’ इति सः चिन्तयन् अस्ति” इति।
एतत् श्रुतवतः विश्वपतेः महदाश्चर्यम् ! अनन्तः महावैद्यः भविष्यति इति विश्वपतेः निरीक्षा आसीत्। तस्य एतादृशी गतिः किमर्थम् इति तेन न ज्ञातम्। ‘व्याधिकारणतः अन्येन कारणेन वा तस्य स्मृतिशक्तिः अपगता स्यात् वा? अथवा प्रत्यक्षदर्शनेन सर्वं सुस्पष्टं भवेत्’ इति आलोच्य विश्वपतिः अनन्तरदिने एव स्वर्णपुरं प्रति प्रस्थितवान्।
यदा विश्वपतिः अनन्तस्य गृहं प्राप्तवान् तदा अनन्तः केनचित् रोगिणा सह वार्तालापं कुर्वन् आसीत्। विश्वपतिः अन्तः अगत्वा प्रचलत् सम्भाषणं श्रुतवान्।
अनन्तः रोगिणं वदति– “भवतः रोगः न तथा भीकरः। किञ्चित् पीनसः दृश्यते। एतदर्थं भीतिः किमर्थम्? हरिद्राचूर्णं श्रीगन्धेन योजयित्वा सम्यक् मर्दयित्वा मुखे कण्ठे च लेपयतु। श्रीगन्धधूमस्य आघ्राणम् अपि लाभाय। एतावत् करोतु। अन्यत् औषधं किमपि मास्तु” इति।
तदा रोगी कोपेन– “एतं विषयं ज्ञातं किं भवतः समीपम् आगन्तव्यम् आसीत् वा? एतत् तु सर्वे जानन्ति। मम माता एव एतादृशम् औषधोपचारम् अकरिष्यत्” इति उक्त्वा ततः उत्थाय गतवान्।
रोगिणः निर्गमनानन्तरं विश्वपतिः अन्तः गतवान्। गुरुं दृष्ट्वा अनन्तः झटिति उत्थाय पादाभिवन्दनं कृतवान्। विश्वपतिः तं प्रीत्या आलिङ्ग्य योगक्षेमं पृष्टवान्। तत्सन्दर्भेः अनन्तः खेदेन उक्तवान्– “गुरुवर्य ! औषधोपचारविषये मम ज्ञाने, कथने,
आचरणे वा कोऽपि लोपः नास्ति इत्यत्र तु मम दृढः विश्वासः। तथापि चिकित्सां प्राप्तुंजनाः मत्समीपं विशेषतः न आगच्छन्ति। तत् किमर्थम् इति अहं न जानामि। प्रायः एतद्विषये दैवं मम विरुद्धं स्यात्” इति।
विश्वपतिः मन्दहासपूर्वकम् पृष्टवान्– “एवं वा? नीलकण्ठः कथम् अस्ति?” इति।
“तस्य वृत्तिः तु सम्यक् एव प्रचलति” इति उक्तवान् अनन्तः।
“सः अपि द्रष्टव्यः मया। मया सह भवान् अपि आगच्छति वा?” इति पृष्टवान् विश्वपतिः।
अनन्तस्य अङ्गीकारानन्तरं तौ नीलकण्ठस्य गृहं गतवन्तौ। तत्र बहवः रोगिणः चिकित्सार्थं प्रतीक्षमाणाः आसन्। नीलकण्ठः केनचित् रोगिणा सह वार्तालापं कुर्वन् आसीत्। रोगिणः स्वरश्रवणेन एव विश्वपतिः ज्ञातवान् यत् यः अनन्तस्य गृहे दृष्टः स एव अत्र आगतः अस्ति इति। अतः सः अन्तः अगच्छन् नीलकण्ठस्य चिकित्साक्रमं परिशीलयन् तत्रैव स्थितवान्।
नीलकण्ठः तु— “भोः, केवलः पीनसः अपि कदाचित् बहूनां रोगाणां कारणं भवितुम् अर्हति। अतः अल्पस्य अपि पीनसस्य उपेक्षा न उचिता। भवान् समये मत्समीपम् आगतवान् इत्यतः चिन्तायाः प्रसक्तिः एव नास्ति। जलदोषनिवारकं दिव्यौषधं मम समीपे अस्ति। तेन कण्ठं मुखं च लेपयामि।
श्वः प्रातःकालाभ्यन्तरे रोगः अदृश्यः भविष्यति” इति वदन् समीपस्थात् पात्रात् औषधं स्वीकृत्य रोगणः ललाटे कण्ठे च औषधलेपनं कृतवान्।
तदा विश्वपतिः अनन्तं मन्दस्वरेण उक्तवान्— “दृष्टवान् खलु अनन्त ! दिव्यौषधनाम्ना अनन्तः हरिद्राश्रीगन्ध-मिश्रणम् एव लेपयन् अस्ति” इति।
“पश्यतु गुरुवर्य ! दिव्यौषधभ्रान्तिजननं केवलं न, पीनसं सः ‘महारोगः’ इति अपि कथयति। वस्तुतः तु पीनसः न महारोगः। तस्य निश्चितः औषधोपचारः कोऽपि नास्ति इति शास्त्रेषु लिखितम् अस्ति। एतत् जानन् अपि सः किमपि किमपि वदति। एतादृशः
मार्गः मह्यं तु सर्वथा न रोचते” इति उक्तवान् अनन्तः।
तदा विश्वपतिः मन्दहासपूर्वकम् उक्तवान्– “तस्य तथा कथने आचरणे वा अनौचित्यं किमपि मया न दृष्टम्” इति।
अनन्तः आश्चर्येण गुरोः मुखं पश्यन् स्थितवान्। विश्वपतिः अनन्तस्य स्कन्धे हस्तं स्थापयन्— “अनन्त ! केचन अल्पम् अनारोग्यं दृष्ट्वा अपि भीताः सन्तः औषधोपचारार्थं वैद्यसमीपं धावन्ति। विशेषरोगः नास्ति इति उक्ते, ते असमाधानेन ततः निर्गच्छन्ति। अतः केनापि उपायेन स्वचिकित्साविषये वैद्येन विश्वासः उत्पादनीयः भवति। वस्तुतः एतस्य रोगिणः तु रोगविषये भ्रान्तिः अस्ति। सः यथा समाहितः स्यात् तथा वार्तालापं कृत्वा चिकित्सा करणीया खलु? विश्वासाभावे दिव्यौषधम् अपि निष्प्रयोजकं भवति। विश्वासे सति, कदाचित् सामान्यं जलम् अपि रोगनिवारणसमर्थं भवति। एतत्सर्वं भवता ज्ञातम् एव। अतः सर्वप्रथमम् आगतस्यरोगिणः मनोभूमिका ज्ञातव्या। एतदर्थं लोकज्ञानम् आवश्यकम्। विशेषतः शास्त्रज्ञानम् प्राप्य अपि भवान्लोकज्ञानाभावकारणतः नीलकण्ठः इवप्रसिद्धः न जातः। एषा हि वस्तुस्थितिः” इति उक्तवान्।
विश्वपतिना उक्तं श्रुत्वा अनन्तः आत्मनः लोपं सम्यक् ज्ञातवान्।
अनन्तरं विश्वपतिः अनन्तः च अन्तः गत्वा नीलकण्ठेन सह बहुधा वार्तालापं कृतवन्तौ। विश्वपतिः शिष्ययोः गृहे एकैकंदिनं स्थित्वा आतिथ्यं स्वीकृत्य स्वगृहं गतवान्।
अनन्तः अपि रोगिणां मनोवृत्तिं ज्ञातुं प्रयत्नं कुर्वन् लोकज्ञानं प्राप्य क्रमशः प्रसिद्धः जातः। एषा वार्ता विश्वपतिना अपि जनानां मुखात् श्रुता। ‘इतः परम् अनन्तः अपि नीलकण्ठः इव प्रसिद्धः भूत्वा कीर्तिं प्राप्स्यति’ इति आलोच्य विश्वपतिः तृप्तिम् अनुभूतवान्।
]