[[लघुकथासङ्ग्रहः-१४ Source: EB]]
[
मातुः रहस्यम्
श्रीधरः नाम युवकः सुकन्या परिणीतवान्। तदीयः मातुलः सोमशेखरः अनारोग्यकारणतः विवाहदिने उपस्थातुं न शक्तवान्। मातुलस्य देहस्थितिः कथम् अस्ति इति ज्ञात्वा आगन्तव्यम् इति आलोच्य श्रीधरः कदाचित् गृहात् प्रस्थितवान्।
श्रीधरं स्वागतीकृत्य कुशलवार्तालापानन्तरं सोमशेखरः श्रीधरं पृष्टवान्—“दैवानुग्रहेण अहं क्रमशः स्वास्थ्यं प्राप्नुवन् अस्मि। भवतः कौटुम्बिकजीवनं कथम् अस्ति ? विवाहः सद्यः जातः इत्यतः भवतः तु सन्तोषः स्यात् एव। तत् प्रधानं न। भवतः पत्नी गृहकार्येषु भवतः मातुः साहाय्यं करोति वा? तयोः मध्ये सामञ्जस्यम् अस्ति वा?” इति।
‘‘साहाय्यं किं, गृहकार्याणि सर्वाणि मम पत्नी एव करोति। स्वयं विचिन्त्य एव समग्रं निर्वहति" इति उत्तरं दत्तवान् श्रीधरः।
‘‘भवतः पितुः मरणानन्तरं तया जीवने बहुधा कष्टं सोढम्। तथापि सा धैर्येण स्थितवती। इदानीं तया सन्तोषमयानि दिनानि दृष्टानि इति तु महते सन्तोषाय" इति उक्तवान् सोमशेखरः।
किमपि वक्तुम् उद्युक्तः श्रीधरः सङ्कोचवशात् वक्तुम् अशक्तः सत् ‘हुँ’ इति ध्वनिं प्रकट्य मौनं स्थितवान्।
तदा सोमशेखरः उक्तवान्- “किमपि वक्तुम् उद्युक्तः इव भासते! कः विशेषः ? मां वक्तुम् अपि सङ्कोचः वा? पत्नी अनुकूला खलु अस्ति ? सर्वं निस्सङ्कोचं वदतु” इति।
“पत्नी तु सुतराम् अनुकूला एव। किन्तु तस्याः आगमनानन्तरं मातरि विशेषतः परिवर्तनं दृश्यते। सा इदानीं सदा चिन्ताकुला अन्यमनस्का च दृश्यते। न जाने, किं कारणम् इति” इति उक्तवान श्रीधरः।
** “कारणं किम् इति न पृष्टवान् वा भवान्?” इति पृष्टवान् सोमशेखरः।**
** ‘मम प्रश्नतः पूर्वम् एव मम पत्नी यदा जलार्थं नदीं गतवती आसीत् तदा माम् आहूय सा हृदि स्थितं भावं मम पुरतः प्रकटीकृतवती। तदारभ्य अहं चिन्तायां निलीनः अस्मि" इति उक्तवान् श्रीधरः।**
** सोमशेखरः क्षणकालम् आलोच्य उक्तवान्– ‘मात्रा यद्यत् उक्तं तत्सर्वं प्रत्यक्षरं स्मरति खलु ? तत् समग्रतया निवेदयतु" इति।**
** “तद्दिने प्रातः दशवादनसमये सा गृहस्य पृष्ठभागे स्थित्वा माम् आहूय पृष्टवती– ‘भवतः पत्नी गृहे अस्ति, उत जलार्थं नदीं गतवती?’ इति। ‘इदमिदानीं घटं नीत्वा गतवती खलु सा? भवत्या न दृष्टा वा ?’ इति पृष्टवान् अहम्। ‘एवं तर्हि उपविशतु’ इति मां तत्रैव उपवेशितवती सा।**
** “पत्न्याः सौन्दर्यं प्रत्यक्षं न प्रशंसनीयं भवता” इति सूचितवती माता।**
** “किमर्थम्?” इति तां पृष्टवान् अहम्।**
** “तथा कृतं चेत् सा अचिरात् एव सौन्दर्योन्मत्ता भवेत्। क्रमशः भवन्तं लघुतया पश्येत् अपि” इति सूचितवती मम माता।**
** अहं तु मौनं स्थितवान्। तदा माता पुनः माम् उक्तवती— “पत्नी परमप्रिया एव भवेत् नाम, तथापि सर्वे विषयाः तस्याः पुरतः न वक्तव्याः” इति सचितवती माता।**
** “उक्तं चेतु का हानिः ?” इति मातरं पृष्टवान् अहम्।**
** ‘‘पात्रापात्रताम् अदृष्ट्वा सा सर्वेषां पुरतः गृहसम्बन्धि रहस्यम् उक्त्वा आकुलताम् उत्पादयेत्” इति सूचितवती माता।**
** अहं पुनरपि मौनम् आश्रितवान्। तदा माता पुनः उक्तवती– “सा अनुनयपूर्वकम् एव वदति चेदपि तया उक्तं सर्वं झटिति न अङ्गीकरणीयम्” इति।**
** “कः तत्र क्लेशः ?” इति पृष्टवन्तं माम् उक्तवती माता– “परिणामः अनर्थकरः एव भवेत्। भवतः जन्मदात्रीं माम् एव सा गृहात् निष्कासयेत् अपि” इति।**
** पुनः मौनम् आश्रितवन्तं मां सा उक्तवती–“कदापि धनपेटिकायाः**
कुञ्चिकां तस्याः हस्ते मा ददातु वत्स !” इति।
“किमर्थम् ? कः अनर्थः सम्भवेत् तेन ?” इति पृष्टवान् अहम्।
“तथा दत्तं चेत् रूप्यकाणि एकैकशः तस्याः मातृगृहं गच्छन्ति मूर्ख !” इति मां बोदितवती सा।
अन्ते अहम् कुतूहलेन पृष्टवान् एव– “एवं सर्वं सम्भवेत् इति कथं भवती ज्ञातवती ?” इति।
“साधु ! युक्तः प्रश्नः पृष्टः भवता। माता किम् उत्तरं दत्तवती ?” इति हसन् पृष्टवान् सोमशेखरः।
“एतादृशं प्रश्नं मातरं प्रष्टुम् अर्हति वा भवान् ? भवतः बुद्धिः नास्ति इति उक्त्वा माता गृहस्य अन्तः गतवती” इति सूचितवान् श्रीधरः।
सोमशेखरः क्षणकालं हसित्वा गाम्भीर्येणमौनम् आश्रित्य स्थितवान्।
श्रीधरः सोमशेखरम् आश्चर्येण पश्यन् पृष्टवान्– “मातुल ! किमर्थं मौनम् आश्रितवान् भवान् ?” इति।
“किं मया वक्तव्यम् इति भवतः अभिप्रायः?” इति पृष्टवान् सोमशेखरः।
“माता तत्सर्वं कथं ज्ञातवती इति मम इतोऽपि सन्देहः एव। तया तु कारणं न उक्तम्। भवान् जानाति चेत् वदतु तावत्” इति सूचितवान् श्रीधरः।
‘कारणम् अहं जानामि। किन्तु तस्य ज्ञानेन भवतः किं प्रयोजनम् ?” इति पृष्टवान् सोमशेखरः।
“तस्य ज्ञानेन मातुः चिन्तायाः कारणं मया ज्ञातं भवति। तदा अहं तस्याः चिन्ताम् अन्यमनस्कतां च दूरीकर्तुं शक्नोमि” इति उक्तवान् श्रीधरः।
“एवं तर्हि शृणोतु। सा मम भगिनी इत्यतः तस्याः रहस्यम् अहं जानामि एव। यद्यत् सम्भवेत् इति तर्कितं तत्सर्वं तया स्वविवाहानन्तरं कृतम् एव आसीत्” इति उक्त्वा उदरोपपीडं हसितवान् सोमशेखरः।
महान् लाभः
भूस्वामिनः वीरभद्रस्य समीपम् आगत्य कश्चन व्याधजातीयः कानिचन मूलानि, पर्णानि च समर्प्य एतानि औषधोपयोगीनि इति उक्तवान्।
“मम एतेन किं प्रयोजनम् ?” इति पृष्टवान् भूस्वामी।
“श्रीमन्! एतानि अपूर्वाणि मूलानि अन्यत्र कुत्रापि न लभ्यन्ते। एतैः निर्मितस्य कषायस्य सेवनेन शरीरं वज्रसदृशं भवति। रोगभीतिः सर्वथा अपगच्छति” इति उक्तवान् सः व्याधः।
एतेन सन्तुष्टः भूस्वामी स्वसाहाय्यकम् आहूय व्याधाय शतं रजतनाणकानि दातुं सूचितवान्।
तदा सः साहाय्यकः उक्तवान्– “श्रीमन्! पारितोषिकदानात् पूर्वं राजवैद्याय एतेषां मूलानां प्रदर्शनं वरम् इति मम अभिप्रायः” इति।
तदनुगुणं भूस्वामी राजवैद्यं स्वसमीपम् आनाय्य मूलानां परीक्षां कर्तुं सूचितवान्। मूलानां परीक्षां कृत्वा वैद्यः उक्तवान्– “एतैः मूलैः न भवतः, अपि तु व्याधस्य महान् लाभः” इति।
“किमिति ? व्याधस्य कथं महान् लाभः ?” इति आश्चर्येण पृष्टवान् भूस्वामी।
तदा वैद्यः हसन् पृष्टवान्– “अरण्ये सर्वत्र लभ्यमानानि मूलानि आनीय दत्तानि एतेन। प्रतिफलरूपेण शतं रजतनाणकानि प्राप्नुवन् अस्ति। एवं तर्हि एतैः मूलैः विशेषलाभः भवतः, उत व्याधस्य ?” इति।
वैद्यः यदा एवं वदन् आसीत् तदा स्वकीयां वञ्चनां प्रकटितां जानन् व्याधः मौनं ततः पलायितवान्।
भूस्वामी वैद्यं साभिमानं दृष्ट्वा मन्दहासं प्रकटितवान्।
निधिः
** पूर्वम् अरण्यस्य पार्श्वे काचित् वृद्धा निवसति स्म। तस्याः जगदीशः नाम दशवर्षीयः बालकः आसीत्। सः प्रतिदिनम् अरण्यं गत्वा फलानि औषधिमूलानि इत्यादीनि आनयति। माता समीपस्थेषु ग्रामेषु तेषां विक्रयणं कृत्वा धनम् आनयति। एवं तयोः जीवनयात्रा प्रचलति।**
** मातुः कष्टं दृष्ट्वा जगदीशः अतीव खेदम् अनुभवति। अरण्ये निधिः भवति इति तेन श्रुतम् आसीत्। तादृशं निधिं प्राप्य मातुः कष्टं निवारणीयम् इति सः सदा चिन्तयति।**
** एकदा सायङ्काले सः अरण्ये अटन् प्रतिदिनम् इव “अये वृक्षराज! भवतः किं वयः ? अये पक्षिराज! भवतः किं नाम ?” इति पृच्छन् अग्रे गतवान्।**
** एकत्र सः विचित्रेण वेषेण अलङ्कृतं, विविधैः पुष्पैः चापि अलङ्कृत कञ्चन वामनं दृष्टवान्। सः गायन् वृक्षस्य अधः उपविष्टवान् आसीत्।**
** जगदीशः तस्य समीपं गत्वा स्वकीयं कष्टं निवेद्य मातुः परिस्थितिम् अपि निवेद्य पृष्टवान–“अत्र कुत्रापि निधिः स्यात् वा ? यतः अहं मात्रे निधिं दातुम् इच्छामि” इति।**
** तदा सः वामनः उच्चैः हसन्– “भवतः मात्रा एतावता निधिः प्राप्तः एव” इति उक्त्वा वृक्षाणां मध्ये निलीनः जातः।**
** गृहं प्रत्यागतः जगदीशः प्रवृत्तं निवेद्य मातरं पृष्टवान्– “निधिप्राप्तिविषयं भवती अद्यावधि मां किमर्थं न निवेदितवती ?” इति।**
** तदा माता हसन्ती– “सः मम निधिः भवान् एव भोः” इति वदन्ती तं महत्या प्रीत्या आलिङ्गितवती।**
निष्फलः वरः
** कस्मिंश्चित् ग्रामे वरदा-श्यामलानाम्न्यौउभे स्त्रियौ आस्ताम्।वरदा धनिककुलोत्पन्ना। अपरिमितम् ऐश्वर्यम् आसीत् तस्याः। किन्तु सा अतीव कृपणा। हृदयं च सर्वथा दयाशून्यम्।**
** श्यामला निर्धनकुले स्थिता। किन्तु तस्याः गुणाः उत्तमाः। हृदयं तु कुसुमकोमलम्। तयोः गृहं परस्परं सम्बद्धम् आसीत्।**
** एकदा कश्चन भिक्षुकः वरदायाः गृहस्य पुरतः स्थित्वा– “भवति, भिक्षां देहि” इति प्रार्थितवान्। उत्तरं किमपि न आगतम्। अतः सः हस्तेन द्वारशब्दं कृतवान्।**
** तदा द्वारम् उद्घाट्य बहिः आगता वरदा भिक्षुकं दृष्ट्वा कोपेन– “भिक्षायाचनं कुर्वन् अपि भवान् द्वारं ताडयति खलु ? कियत् धार्ष्ट्यं भवतः ? निर्गच्छतु इतः” इति गर्जनं कृत्वा अन्तः गत्वा असमाधानेन सशब्दंद्वारपिधानं कृतवती।**
** भिक्षुकः ततः निर्धनायाः श्यामलायाः गृहं गतवान्, द्वारशब्दं कृतवान् च। द्वारम् उद्घाट्य बहिः आगता श्यामला भिक्षुकं दृष्टवती। आत्मनः निमित्तम् एव पर्याप्तमात्रेण आहारे असत्यपि सा अन्तः गत्वा एकां रोटिकाम् आनीय भिक्षुकाय दत्त्वा– “एतत् खादतु, पानार्थं तक्रं ददामि। सर्वत्र अन्धकारः खलु ? रात्रौ अत्रैव वसतु नाम” इति करुणया उक्तवती।**
** भिक्षुकः रोटिकां खादित्वा तक्रं पीतवान्। “अम्ब! मया गन्तव्यम् इदानीम्। भवत्याः जीवनं क्लेशं विना प्रचलति उत महता क्लेशेन ?” इति पृष्टवान् च।**
** “जीवने ऐश्वर्यम् अस्तु वा मा वा, तृप्तिः खलु प्रधाना? मम तु जीवनं तृप्त्या प्रचलति” इति उक्तवती श्यामला।**
** “उदारता कदापि निष्फला न भवति। प्रातः आरब्धं कार्यं सायंपर्यन्तम् अनुवर्तिष्यते। अहम् आगच्छामि अम्ब!” इति वदन् सः भिक्षुकः ततः निर्गतवान्।**
** तेन तथा किमर्थम् उक्तम् इति श्यामलया न ज्ञातम्। सा तदीयं वचनं विस्मृतवती अपि।**
** अनन्तरदिने सा शय्यातः उत्थाय स्वसमीपे वस्त्रं कियत् अस्ति इति द्रष्टुम् इष्टवती। सा प्रतिदिनं वस्त्राणि वयति। तच्च विक्रीय प्राप्तेन धनेन जीवनं यापयति च।**
** सा पेटिकातः वस्त्रं बहिः आनीय वितस्तिपरिमाणेन ‘एकं, द्वे’ इति वदन्ती मापनम् आरब्धवती। किन्तु आश्चर्यं नाम यावत् आकृष्टं चेदपि वस्त्रं द्रौपद्याः शाटिकाइव अक्षय्यरूपेण वर्धते एव!**
** “प्रातः आरब्धं कार्यं सायम्पर्यन्तम् अनुवर्तिष्यते” इति पूर्वदिने भिक्षुकेण यत् उक्तं तत् स्मृतवती श्यामला। सा आश्चर्यम् अनुभवन्ती भिक्षुकं देवं मन्यमाना भक्त्या मनसा नमस्कृतवती।**
** सूर्यास्तपर्यन्तम् अपि सा निरन्तरं वस्त्रमापनं कृतवती। एवं मापनं कृत्वा स्थापितस्य महान् राशिः एव दृश्यते गृहे।**
** एषा वार्ता ग्रामे अल्पे काले एव प्रसृता। जनाः अहमहमिकया तस्याः गृहम् आगत्य यथाशक्ति वस्त्रं क्रीत्वा गतवन्तः।**
** एवं विक्रीतं चेदपि तस्याः गृहे यथेष्टं वस्त्रम् अवशिष्टम् अभवत्। तत् विक्रीतं चेत् तया आजीवनं कदापि कष्टम् अनुभोक्तव्यं न भवेत्।**
** एवं श्यामलाम् आशिषा अनुगृहीतवतः भिक्षुकस्य वार्ता सर्वत्र प्रसृता। श्यामलया प्राप्तं सौभाग्यं दृष्ट्वा वरदा असूयाम् अनुभवति। सः भिक्षुकः मम गृहम् एव प्रथमम् आगतः आसीत्। असमाधानेन द्वारपिधानं कुर्वत्या मया प्रमादः कृतः। अहो दौर्भाग्यम्!’ इति विलपितवती वरदा।**
** एवम् एव त्रीणि दिनानि अतीतानि। चतुर्थे दिने केनचित् क्रियमाणः द्वारताडनशब्दः वरदया श्रुतः। सा त्वरया आगत्य द्वारम् उद्घाट्य दृष्टवती। आश्चर्यं नाम स एव भिक्षुकः तत्र उपस्थितः अस्ति!**
** ‘‘आगच्छतु तात! आगच्छतु। तद्दिने भवतः आतिथ्यं कर्तुं न शक्तवती अहम्। किं करोमि, सहस्रशः कार्याणि मम। कार्यव्यग्रा अहम् असमाधानं प्रकटितवती स्याम्। तर्णकः कश्चन गोष्ठतः पलायितः आसीत्। तद्विषये चिन्तयन्ती अहम् भवद्विषये अनादरं प्रकटितवती स्याम्….“इत्येवंरूपेण भिक्षुकस्य विषयेमहान्तम् आदरं प्रदर्शितवती वरदा।**
** ‘एषः यथा श्यामलां वरेण अनुगृहीतवान् तथैव आतिथ्येन तुष्टः माम् अपि अनुगृह्णीयात्’ इति मनसा इच्छति वरदा।**
** भिक्षुकम् आदरेण अन्तः नीत्वा उत्तमे आसने उपवेश्य उत्कृष्टं भोजनं परिवेषितवती सा। पायस-मधुरभक्ष्यादिकम् अपि परिवेषितवती। भोजनानन्तरं हस्तप्रक्षालनार्थं कवोष्णं जलं दत्त्वा मार्जनार्थं वस्त्रम् अपि दत्तवती।**
** भोजनं समाप्य उपविष्टं भिक्षुकम् उक्तवती सा– “भोः, महती श्रान्तिः स्यात् भवतः। इदानीं रात्रौ अन्यत्र कुत्रापि मा गच्छतु। मृदलं तल्पं मञ्चस्य उपरि स्थापयिष्यामि। अत्रैव शयनं करोतु” इति।**
** किन्तु भिक्षुकः तत्र शयनं निराकुर्वन् गन्तुम् उद्युक्तः सन्— “मातः! प्रातः आरब्धं कार्यं सायंपर्यन्तम् अनुवर्तिष्यते” इति उक्त्वा ततः निर्गतवान्।**
इदानीं वरदायाः आनन्दस्य सीमा एवनास्ति! तया तस्यां रात्रौ नेत्रनिमीलनं न कृतम्। ‘प्रातः किं कृतं चेत् कीदृशः लाभः लभ्येत ?’ इति चिन्तयन्ती सा अस्वस्थमनस्का आसीत्।
** ‘दधिमथनं कृतं चेत् नवनीतं यथेष्टं लभ्येत। ततः लाभः अपि महान् अस्ति एव। किन्तु सायंपर्यन्तं मथनं नाम महते क्लेशाय। अतः नवनीतस्य विषये चिन्तनम् एव मास्तु। तर्हि किम् अन्यत् करणीयम् ?’ इति आलोचयन्ती स्थितवती सा।**
** अन्ते एकः समीचीनः उपायः स्फुरितः। ‘मम पेटिकायां कानिचन सुवर्णनाणकानि सन्ति। प्रातः सर्वप्रथमं तानि गणयिष्यामि। तदा सायंपर्यन्तं लक्षशः सुवर्णनाणकानि लप्स्यन्ते। अनन्तरं मादृशी भाग्यशालिनी**
अन्या कापि न भविष्यति’ इति निश्चितवतीसा।
एतया आलोचनया आनन्दपरवशा सा सर्वथा निद्राम् एव न प्राप्तवती। सूर्योदयः कदा भवेत् इति प्रतीक्षमाणा पूर्वदिशः वातायनम् उद्घाट्य तस्याम् एव दिशि शिरः स्थापयित्वा शयनं कृतवती। उषःकाले कुक्कुटः रवम् अकरोत्।
वरदा झटिति उत्थाय मञ्चात् अवतीर्य पेटिकासमीपं गन्तुम् यावत् एकं पदं स्थापितवती तावता काचित् मधुमक्षिका वेगेन सशब्दम् आगत्य तां कण्ठे अदशत्। कुपिता वरदा मधुमक्षिकायाः मारणार्थम् उद्युक्ता। किन्तु सा मधुमक्षिका कुत्रापि अदृश्यतां गता। अत्रान्तरे अन्या मधुमक्षिका आगता, वरदां दष्टवती च।
भिक्षुकस्य आशीर्वचनानुसारं प्रातः आरब्धं मधुमक्षिकादर्शनं सायंपर्यन्तम् अविच्छिन्नतया अनुवृत्तम् अभवत्।
वरदा तु महता कोपेन मधुमक्षिकाः ताडयितुं प्रयतते। किन्तु कुपिताः। मधुमक्षिकाः सहस्रशः तत्र आगताः। तासां पीडनतः आत्मानं रक्षन्ती वरदा सर्वथा श्रान्ता। शरीरे सर्वत्र वेदना अनुभूयते तया।
वरदा यावता कष्टेन रात्रिं यापितवती ततोऽप्यधिकेन कष्टेन कथञ्चित दिनं यापितवती।
वरदया वरानुग्रहः प्राप्तः इति विषयः ग्रामे सर्वत्र प्रसृतः आसीत्। अतः तया कीदृशः लाभः प्राप्तः स्यात् इति द्रष्टुम् इच्छन्तः ग्रामीणाः सर्वे तस्याः गृहम् आगतवन्तः। तस्याः दुरवस्थां दृष्ट्वा सर्वे हसितवन्तः।
सायङ्काले मधुमक्षिकाणाम् आगमनं स्थगितं जातम्। ग्रामीणाः अपि क्रमशः स्वगृहं गतवन्तः।
लज्जावशात् ग्रामे कुत्रापि मुखं प्रदर्शयितुम् अनिच्छन्ती वरदा तद्दिने एव ग्रामं परित्यक्तवती। मधुमक्षिकादंशनेन जातां वेदनाम् औषधद्वारा न्यूनीकृत्य सुदूरे स्थले निवासं कृतवती सा।
नूतनः सेनापतिः
** पूर्वं चन्द्रपुरं चन्द्रसेनः नाम राजा पालयन् आसीत्। चन्द्रपुरस्य पार्श्वे एव चक्रपुरराज्यअस्ति। चक्रपुरं तु चित्रकेतुः नाम राजा पालयति स्म। अनयोः राज्ययोः मध्ये शाश्वतिकः विरोधः आसीत्। तदा तदा तयोः युद्धं प्रवर्तते स्म अपि।**
** एकंदा चित्रकेतुः पूर्वसूचनां विना हठात् चन्द्रपुरराज्यस्य उपरि आक्रमणं कृतवान्। नितरां कुपितः चन्द्रसेनः रोषावेशेन युद्धम् आरब्धवान्। द्वयोः पक्षयोः मध्ये घोरं युद्धं प्रवृत्तम्। अन्ते चित्रकेतोः एव पराजयः जातः। चक्रपुरं चन्द्रसेनस्य अधीनं जातम्।**
** एतस्मिन् घोरे युद्धे चन्द्रपुरस्य सेनापतिः मृतः जातः। उपसेनापतिः शक्तिवर्मा तीव्रं व्रणितः। वैद्याः तस्य प्राणान् रक्षितवन्तः। किन्तु एकः पादः कर्तनीयः एव अभवत्।**
** अतः इदानीं चन्द्रपुरे नूतनसेनापतेःआवश्यकता उत्पन्ना। कः नियोजनीयः इति विषये राजा मन्त्री च शक्तिवर्मणः अभिप्रायं पृष्टवन्तः।**
** तदा शक्तिवर्मा उक्तवान्– “महाराज! अस्माकं सैन्ये ये दलनायकाः सन्ति तेषु बहवः शूरः धीराः समर्थाः विवेकिनः च। अतः काचित् स्पर्धात्मिका परीक्षा आयोजनीया। तस्यां यस्य जयः सः सेनापतिस्थाने नियोजनीयः” इति।**
** एवं परीक्षाव्यवस्थां कर्तुं राजा मन्त्रिणं शक्तिवर्माणं च नियुक्तवान्। तौ दलनायकानां कृते स्पर्धाम् आयोजितवन्तः। तस्यां स्पर्धायां द्वौ सर्वासु परीक्षासु उत्तीर्णो जातौ।**
** तयोः एकस्य नाम जयः। अपरस्य नाम विजयः। अनयोः कतरः स्वीकरणीयः इति विषये पुनः चर्चा प्रवृत्ता। अन्ते मन्त्री**
एकम् उपायं सूचयित्वा ततः निर्गतवान्।
** अनन्तरदिने जयः मन्त्रिणं द्रष्टुं गतवान्। मन्त्री जयं परीक्षादृष्ट्या पश्यन् उक्तवान्– “भवान् सेनापतिस्थाने नियोजनीयः इति राजाज्ञा अस्ति। भवता स्वकार्यकौशलेन पूर्वतनः सेनापतिः अतिशेतव्यः। ज्ञातं खलु विजय!” इति।**
** मन्त्रिणः वचनं श्रुत्वा भीत्या उक्तवान् जयः– “श्रीमन्! अहं जयः, न तु विजयः” इति।**
** “कथम् एतत् ? विजयं प्रेषयिष्यामि इति शक्तिवर्मणा उक्तम् आसीत् खलु ?” इति उक्तवान् मन्त्री।**
** “कुत्रापि कोऽपि लोपः जातः। अहम् इदानीम् एव गत्वा शक्तिवर्माणम् अत्र आनेष्यामि” इति उक्त्वा त्वरया ततः गतवान् जयः।**
** किञ्चित्कालानन्तरं विजयः मन्त्रिणः समीपम् आगतवान्। तदा मन्त्री तम् उक्तवान्– “महाराजस्य आज्ञा यत्एतत्क्षणे भवान् सेनापतिपदे नियोजितः अस्ति इति। भवता पूर्वतनः सेनापतिः अतिशेतव्यः। ज्ञातं खलु जय?” इति।**
** मन्त्रिणः वचनं श्रुत्वा आश्चर्यं प्रकटयन् विजयः- “मन्त्रिवर्य! कोऽपि प्रमादः जातः। भवान् सेनापतित्वेन नियुक्तः इति उक्त्वा भवद्दर्शनार्थं शक्तिवर्मा मां प्रेषितवान्। भवान् एतं विषयं जानाति इत्यपि सः उक्तवान्। मम जयस्य च नाम्नि अक्षरमात्रः भेदः अस्ति। अतः भवता विजयः इति स्थाने जयः इति श्रुतं स्यात्। सन्देहः एतत्क्षणे एव निवृत्तः भवतु नाम” इति उक्त्वा रक्षकभटम् आहूय– “भोः, शक्तिवर्मणः समीपं गत्वा ‘नूतनः सेनापतिः विजयः आह्वयन् अस्ति’ इति उक्त्वा एतत्क्षणे तम् अत्र आनयतु” इति आज्ञापितवान्।**
** एतत् श्रुत्वा तृप्तिं प्रकटयन्– “विजय! अत्र प्रमादः कोऽपि न जातः। भवान् एतत्क्षणे एव सेनापतिस्थाने नियुक्तः अस्ति” इति हसन् उक्तवान् मन्त्री।**
पिशाचक्रीडा
** कदाचित् रामभद्रपुरस्य साप्ताहिकंवाणिज्यं समाप्य प्रस्थितौ चारुदत्तः सीता च सायङ्कालसमये कस्याश्चित् नद्याः तीरं प्राप्तवन्तौ। वस्तुतः प्रस्थाने विलम्बः जातः आसीत्। आकाशे पश्चिमदिक्तः मेघाः आगच्छन्तः सन्ति। नद्याः प्रवाहस्य वेगः अपि महान् दृश्यते। सकुशलं गृहप्राप्तिः कथम् इति तयोः समस्या।**
** आकाशे कृष्णाः मेघाः सान्द्रतया दृश्यन्ते। स्वग्रामस्य प्राप्त्यर्थम् इतोऽपि क्रोशद्वयं गन्तव्यम् अस्ति ताभ्याम्। महत्याः वृष्टेः सम्भावना स्फुटं दृश्यते । इदानीं किं करणीयम् इति तौ चिन्तयतः।**
** समीपे एव ताभ्याम् एकं पुरातनं गृहं दृष्टम्। गृहे जनवसतिः न दृश्यते स्म। चारुदत्तः समीपं गत्वा वातायनद्वारा अन्तः दृष्टिं प्रसारितवान्। गृहं रिक्तम् इति तेनज्ञातम्। एतावता वृष्टिबिन्दूनां पतनम्आरब्धम्। अतः तौ गृहस्य अन्तः गतवन्तौ।**
** गृहे निश्शब्दता आसीत्। जीर्णावस्था स्फुटं दृश्यते स्म। चारुदत्तः, सीता च स्वकीयानि वस्तूनि एकत्र स्थापितवन्तौ। सीता विपणितः क्रीतां सम्मार्जनीं स्वीकृत्य गृहस्य एकं प्रकोष्ठं स्वच्छीकृतवती। अनन्तरं तौ स्ववस्तूनि तस्मिन् प्रकोष्ठे कोणे स्थापितवन्तौ। विश्रान्त्यर्थम् उभौ अपि पादौ प्रसारितवन्तौ।**
** बहिः धाराकारेण वृष्टिः दृश्यते। मध्ये मध्ये मेघगर्जनं विद्युत्स्फुरणं चापि दृश्यते। भवनं जीर्णावस्थायाम् अस्तीत्यतः छदितः जलबिन्दवः एकैकशः ‘टप्’ इति प्रकोष्ठे अपि पतन्ति।**
** चारुदत्तः उत्थाय वातायनद्वारा बहिःदृष्टिंप्रसार्य उक्तवान्– “बहिः**
घनान्धकारः। वृष्टिः स्थगिता चेदपि अस्मिन् अन्धकारे मार्गान्वेषणं कष्टकरम् एव” इति।
एकघण्टायाः अनन्तरं वृष्टिः स्थगिता। चतसृभ्यः दिग्भ्यः इदानीं मण्डूकानां टर॒टर॒ध्वनिः श्रूयते। दूरात् शृगालानां रवः श्रूयते। अतः निर्जने गृहे स्थितयोः तयोः दम्पत्योः मनसि काचित् भीतिः।
तस्मिन् एव समये अकस्मात् तयोः नेत्रयोः पुरतः विचित्रः प्रकाशः उद्गतः। उभौ अपि भीत्या नेत्रनिमीलनं कृतवन्तौ। क्षणकालस्य अनन्तरं यदा नेत्रम् उद्घाटितं तदा तयोः पुरतः त्रयः पिशाचाः दृष्टाः। पिशाचदर्शनेन दम्पती कम्पितौ जातौ। इदानीं किं करणीयम् इति तौ न जानीतः। शोचनीया परिस्थितिः तयोः। उपस्थितायाः परिस्थितेःसम्मुखीकरणं विना का अन्या गतिः इदानीम् ?
तदा तेषु अन्यतमः पिशाचः अवदत्– “भीतिः मास्तु। वयं हानिकारकाः सर्वथा न। समययापनार्थं भवद्भ्यां सह काञ्चित् क्रीडां क्रीडितुम् इच्छामः, तावदेव” इति।
पिशाचस्य क्रीडाप्रस्तावं श्रुत्वा द्विगुणितां भीतिम् अनुभूतवन्तौ तौ दम्पती। तदा समग्रः प्रकोष्ठः उज्ज्वलया कान्त्या प्रकाशमानः जातः।
सः पिशाचः पुनः अवदत्– “अये मित्र! सावधानतया शृणोतु। वयं त्रयः इदानीं भवतः पत्नी इव आत्मानं परिवर्तयामः। तदा अस्मासु चतुर्षु भवतः पत्नी का इति भवता विचिन्त्य वक्तव्यम्। एतस्याः क्रीडातः भवतोः कस्यापि प्राणहानिः न भवति। समययापनार्थम् एषा क्रीडा” इति।
तस्मिन् एव समये सा अपूर्वा कान्तिः लुप्ता, सर्वत्र अन्धकारः व्याप्तः अभवत्। क्षणद्वयस्य अनन्तरं पुनः कान्तिः आगता। इदानीं चारुदत्तस्य पुरतः चतस्रः स्त्रियः स्थिताः सन्ति। चतसृणाम् अपि समाना आकृतिः !
चारुदत्तः किञ्चित् अग्रे गत्वा दृष्टवान्। तासु स्वपत्नी का इति ज्ञातुं तेन सर्वथा न शक्तम्। सः नेत्रे विशालीकृत्य पश्यन् स्थितवान्।
तदा अकस्मात् तासां नृत्यम् आरब्धम्।
चारुदत्तस्य तु आश्चर्यम्– एतासु अन्यतमा मम पत्नी नृत्यं कथं ज्ञातवती इति। सर्वं पिशाचानां चमत्कारः इति सः चिन्तितवान्।
** किञ्चित्कालानन्तरं तासां नृत्यं स्थगितम्। पिशाचाः निजरूपेण स्थितवन्तः। “हा हन्त!” इति उद्गारं प्रकटयन्ती सीता पत्युः पार्श्वे आगत्य स्थितवती।**
** चारुदत्तः तां शङ्कापूर्णया दृष्ट्या पश्यन् अस्ति। तदा एकः पिशाचः उच्चैः हसन् अवदत्– “भोः, भीतिः मास्तु, शङ्का अपि मास्तु। सा भवतः पत्नी एव, न अन्या” इति।**
** सः एव पिशाचः सीताम् उद्दिश्य अवदत्– “शृणोतु भगिनि, इदानीं वयं भवत्याः पत्युः रूपं धृत्वा तिष्ठामः। यदा वयं चत्वारः अपि भवत्याः पुरतः भवामः तदा पत्युः अभिज्ञानं प्राप्तव्यं भवत्या। ज्ञातं वा ?” इति।**
** किम् उत्तरं वक्तव्यम् इति सीता यावत् चिन्तयन्ती आसीत् तावता तत्र अन्धकारः व्याप्तः। क्षणकालानन्तरं पुनः कान्तिःउत्पन्ना। इदानीं सीतायाः पुरतः चत्वारः समानाकारकाः पुरुषाः स्थिताः सन्ति।**
** सीता तान् सर्वान् परीक्षादृष्ट्या दृष्टवती। तावता तस्याः मनसि कश्चन उपायः स्फुरितः। सा आत्मनि धैर्यं पूरयन्ती तान् उद्दिश्य उक्तवती– “शृण्वन्तु, सद्यः एव मम पतिः मह्यम् आभरणं कारितवान्। तच्च आभरणं कीदृशम्? तत् अङ्गुलीयकम् उत नासाभरणम्, अथवा ताटङ्कः, उतनूपुरः ? तत् किम् इति हस्तस्य उपरि लिखित्वा प्रदर्शनीयम्। तदा अहं ‘मम पतिः कः?’ इति वदामि” इति।**
** “भवती बुद्धिमती अस्ति। हस्तस्य उपरि लेखितुं सूचयति। प्रायः भवत्याः पत्युः हस्ते जन्मजातं कालकं किमपि स्यात्। तत् दृष्ट्वा पत्युः अभिज्ञानं प्राप्तव्यम् इति भवत्याः चिन्तनं खलु ? सत्यं वदतु” इति उक्तवान् कश्चन पिशाचः।**
** “किमर्थं शङ्का ? चत्वारः अपि हस्तं स्वयं पश्यन्तु नाम ?” इति सीता धैर्येण उक्तवती।**
** “एवं तर्हि भवत्याः चिन्तनम्– आभरणस्य नाम पतिः केवलं जानाति इति खलु ? अस्तु तावत्, अहं पिशाचरूपेण तिष्ठामि। अवशिष्टेषु त्रिषु पतिम्**
अभिजानातु तावत्” इति वदन् सः पिशाचःपिशाचरूपेण अतिष्ठत्।
** सः एव पिशाचः अन्येषां लेखनार्थं लेखन्याः मस्याः च व्यवस्थाम् अकरोत्। ते त्रयः अपि स्वहस्ते आभरणस्य नाम लिखितवन्तः।**
** सर्वप्रथमं कश्चन पिशाचः स्वहस्तम् अग्रे प्रासारयत्। तत्र लिखितम् आसीत्– ‘नासाभरणम्’ इति। द्वितीयस्य हस्ते अपि ‘नासाभरणम्’ इत्येव लिखितम् आसीत्। तृतीयस्य हस्ते अपि तदेव–‘नासाभरणम्’ इति।**
** तदा पिशाचः उच्चैः हसन् अवदत्– “समाप्ता खलु परीक्षा ? इदानीं वदतु तावत्– ‘कः भवत्याः पतिः इति” इति।**
** सीता मन्दहासपूर्वकम् उक्तवती– “भवन्तः सत्स्वभावयुताः पिशाचाः। अतः एव आवाम् अपीडयन्तौ मनोविनोदार्थं चेष्टां प्रदर्शयन्ति। भवन्तः स्वमायया मम पत्युः मनः वशीकृत्य तद्द्वारा ‘नासाभरणम्’ इतिलेखितवन्तः, सत्यम्। भवतां स्वभावःश्लाघ्यः एव। किन्तु भवद्भिः एकः अंशः न लक्षितः” इति।**
** “सः अंशः कः ?” इति झटिति कश्चन पिशाचः अपृच्छत्।**
** “मम पत्युः जन्मजातः स्वभावः यत् सः लेखनात् पूर्वं सर्वत्र अपि उपरिभागे ‘ॐ’ इति लिखति एव। भवन्तः यद्यपि वशीकरणार्थं प्रयत्नं कृतवन्तः, किन्तु ओङ्कारविषये स च प्रयत्नः विफलः। यस्य हस्ते ओङ्कारः भवति स एव मम पतिः” इति वदन्ती सीता पतिं प्रदर्शितवती।**
** “सत्यं खलु? ओङ्कारविषये अस्माकं वशीकरणशक्तिः सर्वथा विफला अभवत्” इति वदन्तः ते पिशाचाः अदृश्यतां गतवन्तः।**
** सीतायाः बुद्धिमत्ताकारणतः पिशाचपीडा परिहृता अभवत्। अतः चारुदत्तः पत्नीं बहुधा प्रशंसितवान्। तस्यां रात्रौ तौ तस्मिन् एव गृहे स्थित्वा सूर्योदयानन्तरं स्वग्रामं गतवन्तौ।**
पितृभक्तिः
पूर्वं कदाचित् चीनादेशे टोङ्ग्नामकः युवकः वसति स्म। यदा सः शिशुः आसीत् तदा एव तदीया माता दिवङ्गता। यदा सः अष्टादशवर्षीयः जातः तदा तदीयः पिता अपि दिवङ्गतः।
टोङ्गस्य पिता स्वजीवने किमपि न सञ्चितवान् आसीत्। अतः पितुः मरणकाले गृहे एकः दीनारः अपि न आसीत्।
टोङ्ग् पितुः उत्तरक्रियां शास्त्रोक्तरीत्या कर्तुम् इच्छति। पितुः शवस्थानस्य उपरि सुन्दरं शिलास्मारकं स्थापनीयम् इत्यपि तस्य इच्छा। किन्तु धनं विना एतत् सर्वं कथं वा कर्तुं शक्येत? धनसम्पादनार्थं तु एकः एव मार्गः दृश्यते यत् दासरूपेण आत्मनः विक्रयणं करणीयम् इति।
टोङ्ग् एकस्मिन् दृढपत्रे आत्मनः दासवृत्तिस्वीकारेच्छाम्, आत्मनः मूल्यं च लिखित्वा विपणौ कस्याश्चित् शिलायाः उपरि उपविष्टवान्।
दासं क्रेतुम् इच्छन्तः तस्य समीपम् आगच्छन्ति। तत्र लिखितं पठित्वा मौनं ततः निर्गच्छन्ति च।
टोङ्ग् अल्पेन मूल्येन आत्मनः विक्रयणं न इच्छति स्म। पितुः उत्तरक्रियार्थं स्मारकनिर्माणार्थं च यावत् आवश्यकं तावत् मूल्यं सः आत्मनः विक्रयणात् इच्छति। एतत्कारणतः आजीवनं दास्यम् अनुभोक्तव्यम् इत्यपि सः जानाति। तथापि सः एतत्सर्वं सोढुं सिद्धः सञ्जातः।
बहुकालः अतीतः चेदपि तं कोऽपि न क्रीतवान्। मया सूचितेन मूल्येन प्रायः मां कोऽपि न क्रीणीयात् एव इति आलोचयन् आसीत् सः।
तदा कश्चन अधिकारिवेषधारी तत्र
आगतवान्। टोङ्गस्य वक्षःस्थले स्थिते फलके लिखितं सः पठितवान्। स्वेन सह आगतस्य सेवकस्य द्वारा धनं दापितवान्। क्रयपत्रम् अपि तत्क्षणे एव सिद्धम्।
टोङ्गस्य इच्छा पूरिता। सः पितुः उत्तरक्रियां शास्त्रोक्तक्रमेणकृतवान्। श्रेष्ठस्य शिल्पिनः द्वारा पितुः शवस्थानस्य उपरि सुन्दरं शिलामण्डपं निर्मापितवान्। अनन्तरम् आत्मानं क्रीतवतः नूतनजमानस्य गृहे कार्यम् आरब्धवान्। सः यजमानः एतस्य वसतिनिमित्तम् एकं कुटीरं दत्तवान्।
दिनानि अतीतानि। टोङ्ग् तु सन्तोषं सुखं च विना नित्यकार्ये व्यापृतः भवति। तथापि पितुः वार्षिकश्राद्धं तु महत्या श्रद्धया करोति।
एकदा शस्यसङ्ग्रहणकाले टोङ्ग् तीव्रेण ज्वरेण पीडितः अभवत्। उत्थातुम् अपि अशक्तः सः शयने निराशया रुदन् सुप्तः अस्ति।
ज्वरः दिने दिने वर्धते। एकस्मिन् दिने ज्वरतापवशात् सः अचेतनः अपि जातः। यदा सचेतनः जातः तदा सः कस्यचित् हितस्पर्शम् अनुभूतवान्। ज्वरेण तप्यमानः सः मन्दं नेत्रम् उद्घाट्य दृष्टवान्। तदा सः स्वपार्श्वे स्थिताम् करेण ललाटं मृदु स्पृशन्तीम् अलौकिकसुन्दरीं दृष्टवान्। ‘भवती का?’ इति प्रष्टुम् अपि टोङ्गस्य सामर्थ्यम् उत्साहः वा न आसीत्।
तदा सा एव मन्दहासपूर्वकम् उक्तवती– “भवतः रोगः अपसारणीयः भवान् परिणेतव्यः च इति उद्देशेन अहम् अत्र आगतवती” इति।
सा किमपि कार्यम् आज्ञापयन्ती अस्ति इति भावयन् टोङ्ग् भयेन झटिति उत्थितवान्। निश्शक्तिः तस्य अपगता आसीत्। नूतना स्फूर्तिः शरीरे दृश्यते स्म। तस्याः वचनस्य भावः अपि तेन इदानीं ज्ञातः। ‘पत्न्याः पोषणे मम सामर्थ्यं नास्ति’ इति सः वक्तुम् उद्युक्तः। तस्य मनोभावं ज्ञातवती इव सा सुन्दरी उक्तवती– “जीवननिर्वहणविषये चिन्ता मास्तु। तं भारम् अहं निर्वक्ष्यामि” इति।
तेन लज्जितः टोङ्ग् स्वकीयानि छिन्नानि
मलिनानि च वस्त्राणि दृष्टवान्। तस्याः अपि वेषभूषादयः एवम् एव आसन्। तस्याः शरीरे एकम् अपि आभरणं न आसीत्।
** अनन्तरं तौ पूजामन्दिरं गत्वा जानुद्वयं भूमौ स्थापयन्तौ पितृदेवताः नमस्कृत्य पतिपत्न्यौ जातौ।**
** सा कस्मिन् वंशे जाता, किं कुलं कुतः आगता इत्यादिकं किमपि न जानाति टोङ्ग्। आत्मनः नाम ‘ची’ इति एतावदेव उक्तवती आसीत् सा। अधिकं किमपि वक्तुं सा न इष्टवती। एतावता एव टोङ्ग् अपि तृप्तः जातः।**
** तस्याः आगमनकारणतः तस्य कुटीरस्य परिसरः एव परिवृत्तः आसीत्। विद्यमानानि अल्पानि अपि पात्राणि सुन्दरतया सुव्यवस्थितं स्थापितानि। गृहस्य शोभा प्रवृद्धा आसीत्। टोङ्ग् प्रातः तृप्त्या भोजनं कृत्वा कार्यार्थं गृहात् निर्गच्छति। मध्याह्ने कार्यात् प्रतिनिवर्तनसमये पाकः सिद्धः भवतिस्म।**
** तस्य पत्नी ची गृहे वेमसाहाय्येन सुन्दरैः वैविध्यमयैः चित्रैः अलङ्कृतानि वस्त्राणि वयति स्म।**
** तस्याः हस्तकौशलं तु आश्चर्यजनकम् आसीत्। तस्याः सीवननैपुण्यं समीपस्थैः ज्ञातम्। वस्त्रवणिजः तया निर्मितानि वस्त्राणि योग्येन मूल्येन प्रतिदिनं क्रीत्वा गच्छन्ति स्म।**
** ‘जीवननिर्वहणभारम् अहं निर्वहामि’ इति सा यत् उक्तवती तत् तया अक्षरशः पालितम् अपि। पेटिकायां प्रतिदिनम् अपि रजतनाणकानां सङ्ख्या वर्धते।**
** एकदा सा टोङ्गं स्वसमीपम् आहूय पेटिकायां स्थितानि रजतनाणकानि प्रदर्शयन्ती तस्य हस्ते एकं पत्रम् अपि स्थापितवती। दास्यविमोचनपत्रं तत्। यजमानाय यावत् दातव्यम् आसीत् तत् समग्रतया दत्तम् इति तत् पत्रं सूचयति स्म। टोङ्गस्य नेत्राभ्याम् आनन्दाश्रूणि आगतानि।**
** “अहं भवतः निमित्तं इतः दक्षिणे कृषिक्षेत्रं स्वीकृतवती अस्मि। इतः परं भवता अन्यस्य सेवा करणीया नास्ति। भवान् स्वतन्त्रतया जीवनं यापयितुम् अर्हति” इति।**
** टोङ्ग् आनन्दाश्रूणि स्रावयन् तस्याः**
पादयोः पतनार्थम् उद्युक्तः। ची तं तस्मात् प्रयत्नात् निवारयन्ती प्रीत्या आलिङ्गितवती।
तद्दिनतः तस्य सौभाग्यं फलितम् इत्येव वक्तव्यम्। सः यत् करोति तत् लाभदायकम् एव। तदधीने ये कार्यं कुर्वन्ति ते तं भक्त्या गौरवेण प्रीत्या च पश्यन्ति। सः इदानीं सुखसागरे निमग्नः।
गच्छता कालेन ची गर्भवती जाता। युक्ते समये सा एकं सुन्दरं पुत्रं प्रसूतवती। बालकं द्रष्टुम् आगताः वदन्ति स्म– “एषः बालकः साधारणः न। एषः कस्याश्चित् देवतायाः अनुग्रहेण जातः अस्ति। एषः शतं वर्षाणि जीवन् जीवने अपूर्वं किमपि साधयिष्यति” इति।
तस्मिन् वर्षे हेमन्तऋतौ कदाचित् टोङ्ग् ची च एकस्यां रात्रौ पुत्रस्य भाविजीवनविषये सुदीर्घं चर्चितवन्तौ। टोङ्ग् प्रेमपूर्णया दृष्ट्या ची मुखं पश्यति। अद्य तस्याः सौन्दर्ये अपूर्वता दृश्यते स्म।
उषःकाले सा झटिति उत्थाय टोङ्गस्य हस्तं गृहीत्वा तं प्रेङ्खायाः समीपं नीतवती। काऽपि असामान्या घटना सम्भवति इति भावना उत्पन्ना टोङ्गस्य मनसि। सः जानु भूमौ स्थापयन् ची पुरतः उपविष्टवान्, क्षणकालं नेत्रे निमीलितवान् च।
यदा नेत्रे उद्घाटिते तदा अपूर्वसौन्दर्यशालिनी अन्या एव काचित् आकृतिः तस्य पुरतः आसीत्। तस्याः शरीरतः कान्तिरेखाः निस्सरन्ति स्म।
“टोङ्ग्! आवयोः वियोगस्य क्षणः सन्निहितः। वस्तुतः अहं मानवस्त्री न। भवदर्थम् अहं मानवरूपं धृतवती आसम्। भवतः पितृभक्त्या तुष्टः स्वर्गाधिपतिः मां भवत्समीपं प्रेषितवान्। तेन सूचितः अवधिः समाप्तः। अहम् इदानीं स्वर्गं प्रति गच्छामि। आवयोः प्रेम्णः प्रतीकरूपेण एषः शिशुः भवतः समीपे स्थास्यति” इति वदन्ती सा सुन्दरी मन्दं मन्दम् उपरि गच्छन्ती अदृश्या अभवत्।
प्रामाणिकता
** कस्यचित् राज्ञः मन्त्री दिवङ्गतः। तदा मन्त्रिकुमारः मन्त्रिपदव्यां नियुक्तः अभवत्। यदा मन्त्रिकुमारः मन्त्रिपदव्यां नियुक्तः तद्दिने एव राज्ञः पुरतः काचित् समस्या आगता। राज्यस्य करसङ्ग्रहणाधिकारी धनेन सह पलाय्य विदेशे कुत्रापि आश्रयं प्राप्तवान् आसीत्।**
** राजा नूतनं मन्त्रिणम् उक्तवान्– “एतत्सन्दर्भे उद्योगदानतः पूर्वम् अभ्यर्थिनः गुणाः परीक्षणीयाः। एतत् भवता शक्यते वा ? भवतः पिता चेत् नूतनम् उपायम् असूचयिष्यत्” इति।**
** “प्रभो! भवान् डिण्डिमघोषपूर्वकम् अभ्यर्थिनः सङ्गृह्णातु। तथा आगतेषु प्रामाणिकः कः इति अहं सूचयिष्यामि” इति उक्तवान् मन्त्री।**
** अधिकारस्थानं प्राप्तुं दश अभ्यर्थिनः आगताः। मन्त्री तान् सूचितवान् यत् भवद्भिः अन्धकारमयं प्रकोष्टम् अतिक्रम्य महाराजसमीपम् आगन्तव्यम् इति। ते तथैव आगतवन्तः।**
** तदा मन्त्री तान् उक्तवान्– “दशवारं मां प्रदक्षिणीकुर्वन्तु। तथा किमर्थम् इति अनन्तरं वदिष्यामि” इति।**
** एकः एव तथा कृतवान्। अन्ये तथा करणं निराकृत्य एकत्र स्थितवन्तः। मन्त्री प्रदक्षिणीकृतवन्तं तं प्रदर्श्य महाराजम् उक्तवान्– “प्रभो! एषः प्रामाणिकः। एतं करसङ्ग्रहणाधिकारिस्थाने नियोक्तुम् अर्हति भवान्” इति।**
** राजा आश्चर्येण मन्त्रिणं दृष्टवान्। तदा मन्त्री उक्तवान्–“एतेषाम् आगमनमार्गे अन्धकारमये प्रकोष्ठे स्थलद्वये मया रजतनाणकानां राशिः स्थापितः आसीत्। एते नव जनाः अपि ततः कानिचन नाणकानि कोषे स्थापितवन्तः। वेगेन प्रदक्षिणीकरणसमये नाणकशब्दः श्रूयते। अतः ते तथाकर्तुं निराकृतवन्तः” इति।**
** परीक्षणेन ज्ञातं यत् मन्त्रिणः वचनं सत्यम् इति। राजा तं प्रामाणिकं करसङ्ग्रहणे नियुक्तवान्।**
परिवर्तनम्
** कस्मिंश्चित् अरण्यसमीपस्थे ग्रामेकश्चन व्याधः निवसति स्म। सः अरण्ये सञ्चरन् निर्दयतया प्राणिनः मारयति स्म, तेनैव जीवनं यापयति स्म च। अतः जनाः तं ‘निर्दयी व्याधः’ इत्येव आह्वयन्ति स्म।**
एकदा सः व्याधः बहुधा अटनानन्तरम् अपि एकम् अपि पशुं न प्राप्तवान्। अन्ते महता प्रयत्नेन सः एकं हरिणशिशुं दृष्ट्वा बाणं प्रयुक्तवान्। हरिणशिशुः भूमौ पतितः। तं स्कन्धे आरोप्य सः गृहं प्रति प्रस्थितवान्।
** मार्गे कश्चन संन्यासी सम्मुखम् आगतः। सः व्याधं दृष्ट्वा– “भोः, अत्र आगच्छतु’ इति आहूतवान्।**
** निर्दयी व्याधः मुनेः समीपं गत्वा विनयेन नमस्कृत्य–“उपस्थितोऽस्मि श्रीमन्!” इति उक्तवान्।**
** “व्रणितः सः हरिणशिशुः वेदनयापीड्यमानः अस्ति। तं जागरूकतया अधःअवतारयतु तावत्” इति सूचितवान् मुनिः। व्याधः तथैव कृतवान्। तदा मुनिः कमण्डलुजलेन सेचनं कृतवान्।**
** तदा हरिणः व्याधं आशापूर्णया दृष्ट्या पश्यन् मानवभाषया अवदत्– “अये! मां कृपया मुञ्चतु। मम मातापितरौ माम् अपश्यन्तौ एतावता दयनीयाम् अवस्थाम् आप्तवन्तौ स्याताम्। पुत्रवात्सल्यं भवान् अपि जीवने अनुभूतवान् स्यात् एव। पुत्रम् अपश्यन् भवान् किं निरातङ्कं स्थातं “शक्नोति ?” इति।**
** तदा सः व्याधः स्वकीयान् पुत्रान् स्मृतवान्। ‘प्रतिदिनम् अहं निर्दयं प्राणिहिंसां यत् करोमि तत् मम पुत्राणां निमित्तम् एव। पुत्रवात्सल्यात् अहं यथा अनिर्वचनीयम् आनन्दम् अनुभवामि तथैव सर्वे प्राणिनः अपि**
पुत्रकारणात् आनन्दम् अनुभवन्ति एव’ इति आलोच्य व्याधः हरिणशिशोः बन्धनम् अपनीतवान्। सस्यरसैः हरिणस्य व्रणान् लेपयित्वा स्वेच्छया गन्तुम् अवकाशं कल्पितवान्। अनन्तरं सः स्वगृहं गतवान् अपि। तद्दिने तस्य गृहे सर्वे उपवासम् आचरितवन्तः।
अनन्तरदिने व्याधः पुनः अपि अरण्यं गत्वा एकंहरिणं मारयित्वा स्कन्धे आरोप्य गृहं प्रति प्रस्थितवान्। एतद्दिने अपि मार्गे दृष्टः संन्यासी हरिणम् अवतारयितुं सूचयन् हरिणं कमण्डलुजलेन सिक्तवान्।
तदा सः हरिणः मानवभाषया व्याधम् अवदत्– “भोः आसन्नप्रसवायाः इतस्ततः चलितुम् अशक्तायाः मम पत्न्याः निमित्तम् अहम् आहारम् आनेतुम् उद्युक्तः आसम्। तत्समये भवान् मम उपरि बाणं प्रयुक्तवान्। किम् एतत् न्याय्यम् ? किम् एतत् धर्मसम्मतम् ? अहं वक्तुं न शक्नुयां, तथापि भवतः इव ममापि सुखदुःखादयः सन्ति एव। आत्मसमानतया मां पश्यतु भोः” इति।
पत्नी यदा प्रसववेदनाम् अनुभवति स्म तदा आत्मना अनुभूतं मनः क्लेशं स्मृतवान् व्याधः। अतः सः मौनेन हरिणस्य गमनार्थम् अवकाशं कल्पितवान्। यदा सः गृहं गतवान् तदा बुभुक्षया तप्यमानानां पत्नीपुत्रादीनां म्लांनानि मुखानि दृष्टवान्।
एतत् दृष्टवतः व्याधस्य हृदये सङ्कटम् उत्पन्नम्। सः झटिति अरण्यं गत्वा मुनिं दृष्ट्वा नमस्कृत्य– “स्वामिन्!
भवत्कारणतः मयि दयादाक्षिण्यादयः जागरिताः। किन्तु इदानीम् आहाराभावतः मम पत्नीपुत्रादयः मूर्च्छावस्थां गताः सन्ति। एतत् घोरं दृश्यम् अहं द्रष्टुं न शक्नोमि। एतस्य सर्वस्य कारणं भवान् एव। अतः भवतः पुरतः एव आत्महत्यया प्राणाः त्यक्तव्याः इति अहम् अत्र आगतवान्” इति उक्तवान्।
एतत् श्रुत्वा संन्यासी मन्दहासपूर्वकम् उक्तवान्– “मम उद्देशः तु प्राणिहिंसातः भवतः निवारणम् आसीत्। भवान् बुभुक्षया सकुटुम्बं मरणं प्राप्नोतु इति मम इच्छा सर्वथा न आसीत्। विशाले अस्मिन् प्रपञ्चे जीवनार्थं किं मृगया एकः एव उपायः? अन्ये जीवनोपायाः किं न सन्ति ?” इति।
“उपायाः बहवः स्युः। किन्तु ते मम सामर्थ्यानुगुणं भवेयुः खलु?” इति सविनयम् उक्तवान् व्याधः।
तदा संन्यासी समीपे चरन्तीः तिस्रः गाः प्रदर्श्य– “एताः तिस्रः गाः भवान् नयतु। ताः प्रीत्या सम्यक् पोषयतु च। ताभ्यः यत् क्षीरं प्राप्यते तत् विक्रीय सुखेन जीवतु च” इति सूचितवान्।
मुनेः वचनात् सन्तुष्टः व्याधः गोभिः सह स्वगृहं गतवान्। गोभिः सह अरण्यात् प्रत्यागच्छन्तं व्याधं दृष्ट्वा ग्रामीणाः सर्वे आश्चर्यचकिताः अभवन्।
व्याधः तान् प्रवृत्तं समग्रं निवेद्य– “अद्य आरभ्य मया प्राणिहिंसा सर्वथा परित्यक्ता अस्ति। सात्त्विकं जीवनं मम लक्ष्यम्” इति उक्तवान्।
एतत् श्रुत्वा सर्वे ग्रामीणाः अतीव सन्तुष्टाः। सहकारबुद्ध्या ते गोशाला-निर्माणार्थं व्याधाय वेणु-काष्ठादिकं दत्तवन्तः। अन्ये केचन पश्वाहारं दत्तवन्तः।
एवं ‘निर्दयी व्याधः’ इति ख्यातः व्याधः मृगयावृत्तिं सर्वथा परित्यज्य गोपालकः अभवत्। सः गोपालनं सम्यक् कुर्वन् क्षीरविक्रयणात् प्राप्तेन धनेन पत्नीपुत्रादीन् सम्यक् परिपालयन् सुखेन जीवितवान्।
पुष्पविकासः
** नन्दीशः मध्यमवर्गीयः गृहस्थः। बाल्यतः अपि उत्तमानां पुस्तकानां पठने तस्य विशेषासक्तिः। पठनसमये सः बाह्यं प्रपञ्चं सर्वथा विस्मरति।**
** एकदा नन्दीशः कस्यचित् पुस्तकस्य पठने निमग्नः आसीत्। तदा तस्य पत्नी ऊर्मिला तम् आहूय उक्तवती– “एतं बालं किञ्चित् उन्नयतु भोः। अहं मम पाककार्यं समापयामि” इति।**
** नन्दीशस्य पुत्रः केशवः त्रिवर्षीयः बालः। ऊर्मिला बालं केशवं नन्दीशस्य पार्श्वे उपवेश्य अन्तः गतवती। नन्दीशः पुत्रस्य पुरतः काश्चन पाञ्चालिकाः स्थापितवान्। पुनः अपि पुस्तकपठने निमग्नः जातः च।**
** तत्समये आह्लादकरे तत्परिसरे परिवर्तनम् आरब्धम्। आकाशे नीलाः मेघाः सम्मिलिताः। शीतलः वायुः वाति स्म।**
अकस्मात् विद्युतः प्रस्फुरिताः। मेघगर्जनम् अपि आरब्धम्।
** क्रीडनरतः बालः केशवः मेघगर्जनं श्रुत्वा भीतः। उच्चैः रोदनम् आरब्धवान् च। पुत्रस्य रोदनं श्रुत्वा ऊर्मिला पाकशालातः बहिः आगत्य पुत्रम् उन्नीतवती। प्रीत्या आलिङ्ग्य लालनवचनानि उक्तवती। तथापि केशवस्य रोदनं यथापूर्वम् अनुवर्तते।**
** पुत्रस्य रोदनं स्थगयितुम् अशक्ता ऊर्मिला पतिम् असमाधानेन उक्तवती– “एतत् मेघगर्जनं किमर्थम् उत्पद्यते इति न जानामि, यत् एतत् श्रुत्वा बालः भीतः भवति। भवान् तु सदा पुस्तकपठनरतः। किं किञ्चित्कालं पठनस्य विरामं दातुं न शक्नोति ? एतं बालं गृहस्य पृष्ठतः किञ्चित् नयतु। तेन सः रोदनं विस्मरति। तावता अहं मम पाककार्यं समापयामि” इति।**
नन्दीशः अनिवार्यतया पुस्तकं पार्श्वे स्थापितवान्। पुत्रं केशवम् उन्नीय गृहस्य पृष्ठतः गतवान् च। तत्र गमनसमनन्तरम् एव केशबःरोदनं स्थगयित्वा सन्तोषेण– “तात! पुष्पम्! पुष्पम्!” इति वदन् करताडनं कृतवान्।
केशवेन सूचितायां दिशि नन्दीशः दृष्टिं प्रसारितवान्। तत्र सुन्दराणि कानिचन पुष्पाणि तदा एव विकसितानि आसन्। तानि दृष्ट्वा एव केशवः सन्तोषं प्राप्तवान् आसीत्।
वस्तुतः अपि अपूर्वं दृश्यं तत्। एतादृशे समये अपि सुन्दरः पुष्पविकासः!
नन्दीशः पत्नीम् उच्चैः आहूतवान्– ‘अये! शीघ्रम् अत्र आगच्छतु। अत्र पश्यतु"इति।
ऊर्मिला तत्र आगत्य पृष्टवती– “किं तत्अपूर्वं दृष्टं भवता?” इति।
नन्दीशः पत्न्यैः सद्योविकसितानि तानि सुन्दराणि पुष्पाणि प्रदर्शयन् उक्तवान्–
“एतादृशानि पुष्पाणि इतः पूर्वम् अत्र मया ने दृष्टानि। सुन्दराणि पुष्पाणि! कथम् एतानि। अत्र आगतानि ?” इति।
ऊर्मिला पुष्पाणि दृष्ट्वा– “एतानि वा? मेघगर्जनकारणतः एतानि विकसितानि” इति उक्त्वा पुनः अन्तः गतवती।
नन्दीशः एकवारं पुत्रस्य हसन्मुखं पश्यति। पुनश्च विकसितानि तानि पुष्पाणि पश्यति। उभयम् अपि पश्यन् आश्चर्यम् अनुभवति।
एषा प्रकृतिः विलक्षणा एव। झञ्झावातैः विद्युत्स्फुरणैः, मेघगर्जनैः, तीक्ष्णैः अशनिपातैः च कदाचित् सर्वान् भाययति, पीडयति च। पुनः कदाचित् तै एव साधनैः सुन्दराणि पुष्पाणि विकासयति!
पुत्रे भीतिम् उत्पादितवत् मेघगर्जनंनिन्दामि, उत सुन्दरं पुष्पं विकासितवत् तत् प्रशंसामि इति न जानाति नन्दीशः। सः तानि पुष्पाणि दृष्ट्वा केशवः इव स्वयम् अपि अतीव सन्तुष्टः आसीत्।
सद्गुणी पावोस्पान्
** चीनादेशे कस्मिंश्चित् ग्रामे पावोस्पान्नामकः कश्चन तरुणः विद्वान् आसीत्। सः परीक्षाम् उत्तर्तुम् इच्छन् राजधानीं प्रति प्रस्थितवान्।**
** मार्गे सः राजधानीं गच्छन्तम् अन्यं पण्डितं दृष्टवान्। सः पण्डितः उरोवेदनया पीड्यमानः कथञ्चित् गच्छन् आसीत्। पावो साहाय्यं कर्तुम् उद्युक्तः जातः। किन्तु तदीयाः प्रयत्नाः विफलाः। कासुचित् एव घण्टासु सः प्राणान् त्यक्तवान्। मृतस्य नाम-कुल-गोत्रादिकं जन्मस्थलं वा पावो न जानाति। मृतस्य स्यूते दश रजतनाणकानि कानिचन कागदानि च आसन्।**
** पावो तैः कागदैः शवम् आच्छादितवान्। एकेन रजतनाणकेन उत्तरक्रियार्थम् अपेक्षितानि वस्तूनि क्रीतवान्। अनन्तरं शवपेटिकायां शवं शाययित्वा शवस्य शिरसः अधः नव रजतनाणकानि स्थापयित्वा शवपेटिकां निखातवान्।**
** अनन्तरं राजधानीं गत्वा परीक्षायाम् उपस्थाय उत्तमान् अङ्कान् प्राप्य उत्तीर्णः अभवत्। अल्पे एव काले तदीयं नाम सर्वत्र प्रसृतम्।**
** एकदा काचित् विचित्रा घटना प्रवृत्ता। कश्चन अपरिचितः अश्वः राजधानीस्थस्य पावोस्पानस्य समीपम् आगच्छत्। बहुधा निवारितः अपि सः अन्यत्र न अगच्छत्। अन्यः समीपम् आगच्छति चेत् महान्तं कोपं प्रदर्शयति अपि। अनन्यगतिकः पावो तम् अश्वं स्वसमीपे एव स्थापितवान्।**
** कदाचित् पावो तम् अश्वम् आरुह्य ग्रामं प्रति प्रस्थितवान्। मार्गे सः कथमपि मार्गभ्रष्टः अभवत्। एवम् एव किञ्चिद्दरं गमनानन्तरं एकं भवनं दृष्टवान् पावो। ‘अत्र**
कुलीनः कोऽपि वसति इति भाति। अतः अद्य रात्रौ अत्र वसत्यर्थम् अवकाशः लभ्येत’ इति आलोच्य पावो द्वारसमीपं गत्वा स्वनाम चिटिकायां विलिख्य तां चिटिकां सेवकस्य हस्ते यच्छन् उक्तवान्– “अत्रत्यं यजमानं “अत्रत्यं यजमानं द्रष्टुम् इच्छामि। कृपया निवेदयत्” इति।
सः सेवकः पावोस्पानेन आरूढम् अश्वं परीक्षादृष्ट्या पश्यन् अन्तः गत्वा यजमानम् उक्तवान्– “श्रीमन्! केनचित् आगन्तुकेन एषा चिटिका दत्ता। अदृश्यतां गतस्य अस्माकम् अश्वस्य चोरः एषः एव” इति।
गृहस्य यजमानः चिटिकायां लिखितं नाम–‘पावोस्पान्’ इति पठितवान्। “एषः महापण्डितः। आदरेण एतम् अन्तः आनयतु” इति सेवकम् आदिष्टवान् च।
अन्तः आगतं पावोस्पानं सत्कृत्य यजमानः वार्तालापमध्ये पृष्टवान्– “गतवर्षे अदृश्यतां गतः मम अश्वः भवता कथं प्राप्तः ?” इति।
“एषः स्वयं मम गृहम् आगच्छत्” इति वदन् पावो अश्वः केन प्रकारेण प्राप्तः इति, राजधानीं प्रति गमनसमये उरोवेदनया पीडितः अपरिचितः पण्डितः कथं मृतः इति च विस्तरेण निवेदितवान्।
तदा सः यजमानः गद्गदस्वरेण उक्तवान्–“सः मम पुत्रः एव स्यात् प्रायः इति।
अनन्तरदिने एव पावोस्पानेन सह गत्वा सः गृहस्य यजमानः शवपेटिका भूमितः बहिः आनीतवान्। शवपेटिकायाः उद्घाटनेन ज्ञातं यत् सः पण्डितः एतस्य यजमानस्य पुत्रः एव इति। सः अश्वः स्वयजमानस्य गन्धम् आघ्राय शवपेटिकास्थानं ज्ञात्वा पावोस्पान्पर्यन्तं गत्वा तम् आनीतवान् आसीत्।
अपरिचितस्य अपि विषये पावोस्पानेन प्रदर्शितं सद्भावं दृष्ट्वा सः यजमानः अतीव सन्तुष्टः। सः साक्षात् राजधानीं गत्वा पावोस्पानस्य सद्गुणान् महाराज निवेदितवान्। सन्तुष्टः महाराजः पावोस्पानं न्यायाधीशस्थाने नियुक्तवान्।
समयस्फूर्तिः
एकदा राजा रविवर्मा मृगयार्थम् अरण्यं गतवान्। शूराः भटाः विदूषकश्च तम् अनुसृतवन्तः।
प्रातःकालतः मध्याह्नपर्यन्तम् अटनेन अपि तैः कोऽपि क्रूरमृगः न दृष्टः। अन्ते लतासस्यादीनां कोमलतृणानि खादन् बालः हरिणः तेषां दृष्टिगोचरः जातः।
राजा त्वरया तं बालं हरिणम् उद्दिश्य बाणप्रयोगं कृतवान्। पर्णादीनां कम्पनकारणतः स च बाणः हरिणे न लग्नः। हरिणस्य कण्ठस्य पार्श्वे एव अग्रे गतः। हरिणः झटिति पलायनम् अकरोत्।
एतत् दृष्ट्वा विदूषकः उद्गारं प्रकटितवान्– “अहो! अपूर्वं कौशलम्” इति।
तदा राजा कोपेन– “एतादृशम् अभिनन्दनं विनोदार्थम् उक्तं चेदपि अहम् अपमानकरं भावयामि इति जानाति खलु ?” इति पृष्टवान्।
तदा विदूषकः हसन् उक्तवान्– “भवतः उपहासः मया न कृतः। वस्तुतः मम प्रतिक्रिया भवतः बाणप्रयोगविषये न आसीत् एव।हरिणविषयिकां करुणाम् अहं श्लाघितवान्। इतरे यावत् जानीयुः ततः पूर्वम् एव कौशलेन भवान् तं हरिणं जागरितवान् खलु ? तत् तु अपूर्वं कौशलम्” इति।
एतत् श्रुत्वा प्रसन्नः राजा कण्ठे स्थितं रत्नहारं निष्कास्य विदूषकाय दत्तवान्।
सम्मार्जकः
उत्कलदेशं पूर्वं पुरुषोत्तमदेवः नाम राजा पालयन् आसीत्। सः जगन्नाथस्य परमभक्तः। ‘अहं’ देवस्य प्रतिनिधिरूपेण राज्यपालनं कुर्वन् अस्मि’ इति सः भावयति स्म।
पुरीनगरस्थे जगन्नाथदेवालये प्रतिवर्षम् आषाढमासे महान् रथोत्सवः प्रचलति। सुप्रसिद्धे अस्मिन् रथोत्सवे असङ्ख्याः जनाः सम्मिलिताः भवन्ति। रथयात्रायां त्रयः रथाः आकृष्यन्ते। तेषां पुरतः स्थितं प्रदेशं राजा पुरुषोत्तमदेवः स्वयं सम्मार्जन्या स्वच्छीकरोति।
एकदा पुरुषोत्तमदेवः दक्षिणदिग्विजयार्थं गतः काञ्चीराजस्य पुत्रीं पद्मावतीं दृष्टवान्। तस्याः अपूर्वं सौन्दर्यं जगद्विख्यातम् आसीत्। तया आकृष्टः पुरुषोत्तमदेवः तां परिणेतुम् `इच्छन् दूतद्वारा तस्याः पितरं एताम् इच्छां निवेदितवान्। काञ्चीराजः एतंविवाहप्रस्तावम् अङ्गीकृतवान्।
अनन्तरं पुरुषोत्तमदेवः काञ्चीराजम् उत्कलदेशं प्रति आगन्तव्यम् इति आहूय जगन्नाथस्य रथोत्सवः अवश्यं द्रष्टव्यः इति निवेदितवान्।
रथोत्सवदिने पुरुषोत्तमदेवः काञ्चीराजेन सह जगन्नाथदेवालयस्य समीपम् आगतवान्। देवालयात् उद्यानपर्यन्तं जनानां महान् सम्मर्दः आसीत्। जगन्नाथस्य बलभद्रस्य सुभद्रस्य च विग्रहाः त्रिषु रथेषु स्थापिताः आसन्।
काञ्चीराजेन सह वार्तालापे मग्नः पुरुषोत्तमदेवः उत्थाय सम्मार्जनीं स्वीकृत्य रथानां पुरतः स्वच्छीकरणम् आरब्धवान्। जनाः हर्षोद्गारं प्रकटितवन्तः।
पुरुषोत्तमदेवस्य सम्मार्जनव्यवहारं दृष्टवतः काञ्चीराजस्य मनसि जुगुत्सा उत्पन्ना। सः उत्सवसमाप्तिपर्यन्तम् अपि
मौनेन स्थितवान्।
अनन्तरं स्वदेशं गतः सः दूतद्वारा वार्तां प्रेषितवान्– “सम्मार्जनं कुर्वते मम पुत्री न दीयते” इति।
एतेन तीव्रं कुपितः पुरुषोत्तमदेवः काञ्चीराज्यस्य उपरि आक्रमणं कृतवान्। एतस्मिन् युद्धे काञ्चीराजस्य पराजयः अभवत्। पुरुषोत्तमदेवेन पद्मावती बन्दीरूपेण गृहीता।
इदानीं पद्मावतीविषयकम् आकर्षणं किमपि नास्ति पुरुषोत्तमदेवे। तां परिणेतुम् अपि न इच्छति सः। एकदा सः मन्त्रिणम् आहूय आज्ञां कृतवान्– “एतस्याः पिता मां ‘सम्मार्जक’ इति निन्दितवान्। अतः एतां कस्मैचित् सम्मार्जकाय एव ददातु” इति।
“यथाज्ञापयति महाराजः” इति उक्तवान् मन्त्री।
किन्तु करुणामयः मन्त्री महाराजेन यथा सूचितं तथा न कृतवान्। सः पद्मावतीं स्वगृहं नीतवान्। सः तस्य पत्नी च तां पत्रीम इव पालितवन्तौ। किन्तु एतत् रहस्यरूपेण आसीत्।
केषाञ्चित् मासानाम् अनन्तरं पुनः रथोत्सवः आगतः। राजा सम्प्रदायानुगुणं सम्मार्जनीं स्वीकृत्य रथस्य पुरतः स्वच्छतार्थम् उद्युक्तः जातः।
तदा मन्त्री पद्मावत्या सह तत्र आगत्य– “प्रभो! भवतः आज्ञायाः परिपालने मया कश्चन विलम्बः कृतः। एतदर्थम् अहं क्षन्तव्यः। एषा सम्मार्जकाय दातव्या इति भवता आज्ञा कृता आसीत्। एतस्याः अनुरूपः सम्मार्जकः भवान् एव इति मम विचारः। अतः कृपया एतां परिणयतु’ इति उक्तवान्।
एतावता पुरुषोत्तमदेवस्य कोपः शान्तः जातः आसीत्। सः मन्त्रिणः युक्ति श्लाघमानः सन्तोषेण पद्मावतीं परिणीतवान्।
पुरुषोत्तमदेवस्य कुले उत्पन्नाः अद्यापि रथोत्सवदिने सम्मार्जन्या रथस्य पुरतः स्वच्छतां कुर्वन्ति।
सौदामिनी
(गतसञ्चिकातः अनुवृत्ता)
** सौदामिनी एवं कथां निरूप्य पितरम् उक्तवती–“तात! कनकप्रभया कौण्डिन्यदेशस्य युवराजः परिणेतव्यः, उत राजशेखरः, उत गन्धर्वः ? त्रिषु कः परिणेतव्यः इति तु समस्या। पितुः इच्छा अन्या, मातुः इच्छा अन्या, कनकप्रभायाः इच्छा अन्या। एवं स्थिते कः परिणीतः चेत धर्मः पालितः भवेत् ? एषा कथायां प्रस्तुता समस्या।**
** मात्रा पित्रा वा सूचितं वरं यदि सा परिणयेत् तर्हि आत्मवञ्चना कृता भवेत्। यतः तस्याः इच्छा तु गन्धर्वे लग्ना अस्ति। एवं स्थिते विवाहे किं मानम् अनुसरणीयम्? किं कनकप्रभायाः इच्छा यथा तथा आचरणीयम्, उत धर्माधर्मं विचार्य तदनुगुणम् व्यवहरणीयम्? विवाहः तु धार्मिकः। अतःधर्ममार्गाविरोधेन विवाहः निर्णेतव्यः।**
** मां परिणेतुं यः आगमिष्यति तम् एतां कथां वदतु। सः यत् उत्तरं वक्ष्यति तां मह्यं निवेदयतु। तत् उत्तरं समीचीनं वा न वा इति अहं निर्णेष्यामि” इति।**
** तदा अनङ्गवर्मा उत्साहेन उक्तवान्– “कथानायिका कनकप्रभा गन्धर्वम् एव परिणेष्यति। सत्यं खलु ?” इति।**
** सौदामिनी मन्दहासं प्रकटयन्ती निराकरणपूर्वकं शिरः चालितवती।**
** “अन्यं कं परिणयेत् सा?” इति पृष्टवान् अनङ्गवर्मा।**
** तदा सौदामिनी उक्तवती– “युक्तम् उत्तरम् इदानीम् अहं न वदामि। भवतः भावी जामाता वदिष्यति। किन्तु तात! त्रिषु अन्यतमस्य नाम सूचितं चेत् न पर्याप्तम्।**
किमर्थं स एव परिणेतव्यः इत्यस्य कारणम् अपि सयुक्तिकं सूचनीयम्” इति।
अनन्तरं केचन मासाः अतीताः। सौदामिन्या उक्तां कथां श्रुत्वा कोऽपि राजकुमारः युक्तम् उत्तरं वक्तुं न शक्तवान्। पुत्र्याःविवाहविषये राज्ञः अनङ्गवर्मणः चिन्ता पुनः अधिका जाता।
** एवं स्थिते एकदा अनङ्गवर्मणः दूरबन्धुः जयन्तदेशस्य राजा विचित्रसेनः स्वपुत्रेण चन्द्रहासेन सह एकं पत्रम् अनङ्गवर्मणे प्रेषितवान्।**
** तस्मिन् पत्रे एवं लिखितम् आसीत्–“प्रियबन्धो! अनङ्ग! उदन्तपुर्याः अस्माकं च मध्ये बहोः कालतः विरोधः आसीत्। युद्धे पराजिताः वयं उदन्तपुर्याः माण्डलिकाः जाताः इति विषयः भवता ज्ञातः एव। उदन्तपुर्याः इदानीन्तनः राजा विकर्णः ‘पूर्विकाणाम् अपेक्षया अधिककुत्सितबुद्धिः। मां पूर्णतः सिंहासनभ्रष्ठं कृत्वा मदीयं राज्यं स्वराज्ये योजनीयम् इति तस्य विचारः। अहं तु वृद्धः जातः। अचिरात् एव मम पुत्रः चन्द्रहासः सिंहासने उपवेशनीयः इत्यस्ति मम विचारः। चन्द्रहासः तु विकर्णस्य कुतन्त्रैः दुराचारेण च अतीव खिन्नः। सैन्यं सज्जीकृत्य उदन्तपुर्याः उपरि आक्रमणं करणीयम् इति सः चिन्तयन् अस्ति। अतः गिरिजनान् व्याधजातीयान् भिल्लजातीयान् च उत्साहिनः एकत्रीकृत्य युद्धशिक्षणं यच्छन् अस्ति। इदानीं युद्धार्थं युक्तः कालः। एतस्मिन् सन्दर्भे भवत्तः**
सौन्यसाहाय्यं धनसाहाय्यं च निरीक्ष्यते। एतदुभयं सेत्स्यति एव इति आशया चन्द्रहासः भवत्समीपम् आगतवान् अस्ति” इति।
** एतत्पत्रं पठित्वा अनङ्गवर्मा चन्द्रहासम् उक्तवान्– “वत्स! भवता इष्टं सैन्यसाहाय्य धनसाहाय्यं च अहं सन्तोषेण दास्यामि। तत्र न कोऽपि क्लेषः। मम तु चिन्ता यत् विशालस्य राज्यस्य विपुलायाः सम्पत्तेः च स्वामी अपि अहम् अपरिहार्यया समस्यया ग्रस्तः अस्मि। जाले पतितस्य हरिणस्य इव स्थितिः अस्ति मम” इति।**
** “तादृशी का सा समस्या ? माम् अपि निवेदयतु किञ्चित्” इति उक्तवान् चन्द्रहासः।**
** “निवेदने न कापि आपत्तिः मम। किन्तु समस्यायाः परिहारं भवत्तः न निरीक्षे। एवम् एव शृणोतु” इति उक्त्वा सौदामिन्या उक्तां कथां श्रावितवान्।**
** पुनः उक्तवान् च– “सौदामिन्याः विवाहेच्छया आगताः सर्वे कथायां प्रस्तुतेषु त्रयाणां नामसु एकं नाम वदन्ति। सौदामिनी यथा अङ्गीकुर्यात् तथा सयुक्तिकं विवरणं तु कोऽपि न ददाति। तस्याः विवाहः युक्ते काले भवेत् वा न वा इत्येव मम सन्देहः। अतः एव अहं निद्राम् अपि न प्राप्नोमि। चिन्तायाः परिहारः कथम् इति मार्गम् अपि न जानामि” इति।**
** “राजकुमारी तृप्ता यथा भवेत् तथा उत्तरं वक्तुम् अहं शक्नोमि इति भाति। तथा करोमि वा? आक्षेपः कोऽपि नास्ति खल भवतः ?” इति पृष्टवान् चन्द्रहासः।**
** तत् श्रुत्वा अनङ्गवार्मा सन्तोषेण– “एतदपेक्षया सन्तोषकरं किम् अन्यत् स्यात्? मम पुत्री तृप्ता भवति चेत् पर्याप्तम्। विचिन्त्य उत्तरं वदतु। कथां पुनः श्रावयामि वा?” इति पृष्टवान्।**
** “तस्य आवश्यकता नास्ति” इति उक्त्वा चन्द्रहासः क्षणकालम् आलोच्य उक्तवान्– “पुत्र्याः विषये पिता स्वाच्छन्द्येन व्यवहर्तुं न अर्हति। अतः पुत्रीं कनकप्रभां पणत्वेन निश्चेतुं चक्रसेनस्य अधिकारः सर्वथा नास्ति। अतः कनकप्रभया कौण्डिन्यदेशस्य**
राजकुमारः परिणेतव्यः नास्ति। चित्रसेनेन यत् वाग्दानं कृतं तत् न न्याय्यम्।
** वरुणदत्तः कनकप्रभायाः सौन्दर्येण आकृष्टः सन् क्षणिकेन व्यामोहेन तां परिणेतु सिद्धः जातः। कनकप्रभा अपि यौवनसहजेन आकर्षणेन वशीकृता गन्धर्वस्य बाह्यसौन्दर्यं दृष्ट्वा तेन कृतां प्रशंसां श्रुत्वा च विवाहार्थं सिद्धा जाता। एषः तु युक्तायुक्तताम् अविचार्य कृतः निर्णयः इति तु स्पष्टम् एव। एवम् उभयोः अपि मनःशुद्धिः न आसीत्। अतः तयोः विवाहः मम दृष्ट्या धर्मसम्मतः सर्वथा न।**
** ‘कनकप्रभायाः भावी पतिः राजशेखरः एव’ इति निश्चित्य इन्दुमतीदेवी तं भावं सूच्यैः वचनैः प्रकटितवती। कनकप्रभायाः आशयं ज्ञातुम् एव– ‘अमूल्यम् एतत् रत्नं भवते दद्याम्’ इति राजशेखरम् उक्तवती। इन्दुमतीदेव्या वरचयने विवेकः आश्रितः। एषः सम्बन्धः एव सर्वोत्तमः धर्मोपेतः च। अतः कनकप्रभा राजशेखरम् एव परिणयेत्। तेनैव औचित्यम्। तेन एव धर्ममार्गपरिपालनं सिध्यति च” इति।**
** अनङ्गवर्मा एतेन उत्तरेण सन्तुष्टः सन् तत् उत्तरं सौदामिनीं प्रति प्रेषितवान्। किञ्चित्कालानन्तरं सौदामिन्याः आत्मीया सखी शुकेन मालया च सह आगत्य चन्द्रहासम् उक्तवती–“युवराजं चन्द्रहासं शिरसा प्रणमामि इति उक्त्वा राजकुमारी एवं सन्देशं प्रापयितुं माम् आदिश्य शुकद्वारा एतां पुष्पमालां प्रेषितवती अस्ति” इति।**
** शुकः पुष्पमालां चन्द्रहासस्य कण्ठे अस्थापयत्। एतत् दृष्टवतः अनङ्गवर्मणः चिन्ताभारः अपगतः अभवत्।**
** अनन्तरं शुभे मुहूर्ते चन्द्रहास-सौदामिन्योः विवाहः सवैभवं सम्पन्नः।**
** अनन्तरं चन्द्रहासः श्वशुरस्य सैन्येन सह गत्वा उदन्तपुर्याः उपरि आक्रमणं कृत्वा विकर्ण पराजितवान्। चन्दनदेशस्य जयन्तदेशस्य उदन्तपुर्याः च राजा सन् चिरकालं सुखेन जीवनं यापितवान्।**
सेनापतिनियुक्तिः
महातलदेशं सिंहकेतुः नाम राजा पालयन् आसीत्। तस्य सेनापतिः वीरवर्मा युद्धतन्त्रेषु, धैर्ये, साहसे च अप्रतिमः आसीत्।
वर्षेषु गच्छत्सु वीरवर्मा वृद्धः जातः। तस्य देहशक्तिः अपि क्षीणा जाता। ‘इतः परं मया सेनापतिपदवीतः निवृत्तिं प्राप्य विश्रान्तजीवनं यापनीयम्’ इति आलोचितवान् सः।
एतद्विषये पुनः पुनः विमृश्य निश्चयं दृढीकृत्य महाराजस्य सिंहकेतोः समीपं गतवान् वीरवर्मा।
तत्समये मन्त्री अपि राजसमीपे एव आसीत्। ‘युक्ते समये आगतवान् अहम्’ इति आलोचितवान् वीरवर्मा।
सः आत्मनः अभिप्रायं यदा निवेदितवान् तदा राजा असम्मतिपूर्वकम् उक्तवान्– “सद्यः सेनापतिपदवीतः भवतः निवृत्तिम् अहं न इच्छामि। वृद्धस्य निवृत्तिः उचिता एव इति विषयं तु अङ्गीकरोमि। अतः भवान् एवं करोतु-भवतः पुत्रौ भवता सह गत्वा अनेकेषु युद्धेषु शौर्यपराक्रमादिकं प्रदर्शितवन्तौ एव।अतः तयोः अन्यतरं सेनापतित्वेन सज्जीकरोतु। अनन्तरं भवतः निवृत्तिविषये चिन्तयिष्यामः” इति।
एतत् श्रुत्वा क्षणकालस्य मौनानन्तरं वीरवर्मा महाराजम् उक्तवान्– “महाराज! मम पुत्रौ शूरसिंहः, जयसिंहः च सेनापतिस्थानम् अलङ्कर्तुम् अर्हौ इति तु सत्यम् एव। मम दृष्ट्या तयोः सामर्थ्यं समानम् अस्ति। तयोः कः समर्थः इति निर्णेतुं मम योग्यता नास्ति इति अहं भावयामि। यतः अहं तयोः पिता अस्मि। अतः भवान् एव निष्पक्षपातं निर्णयं करोतु” इति।
‘सेनापतेः विचारः युक्तः एव’ इति
आलोचितवान् राजा।
अतः सेनापतेःनिर्गमनानन्तरं मन्त्रिणा सह समालोच्य योग्यम् उपायं चिन्तितवान् सः।
** अनन्तरदिने राजा सिंहकेतुः राजसभायां सेनापतेः वीरवर्मणः विश्रान्तिप्रस्तावम् उपस्थाप्य– “वीरवर्मणः पुत्रयोः शूरसिंहजयसिंहयोः अन्यतरः सेनापतिस्थानम् अलङ्करोतु इति अस्माकम् अभिप्रायः। अतः एतदर्थं योग्यः कः इति इदानीं निश्चेतव्यम् अस्ति” इति उक्त्वा परितः एकवारं दृष्टिं प्रसारितवान्।**
** जनाः अङ्गीकारपूर्वकं करताडनशब्दं कृतवन्तः।**
** तदा सिंहकेतुः शूरसिंहं जयसिंहं च स्वसमीपम् आहूय– “राजपदवी इव सेनापतिपदवी वंशपरम्पराप्राप्ता न इति भवन्तौ जानीतः एव। भवन्तौ शौर्येण, साहसेन, युद्धनैपुण्येन च पितुः समानौ इति अंशम् अहं जानामि एव। सेनापतिस्थानम् एकम् एव खलु ? अतः भवतोः अन्यतरः तत् स्थानं प्राप्तुम् अर्हति। सः कः इति निर्णयार्थं काचित् परीक्षा आयोजिता अस्ति। तद्द्वारा लोकज्ञानाधिक्यस्य निर्णयः क्रियते। भवन्तौ सिद्धौ वा ?” इति पृष्टवान् राजा।**
** तदा शूरसिंहः जयसिंहः च शिरश्चालनपूर्वकम् आत्मनः अङ्गीकारंसूचितवन्तौ।**
** सिंहकेतुः पुनः उक्तवान्– “तत्रदृश्यमानेषु प्रकोष्ठेषु कानिचन वस्तूनि**
सन्ति। तेषु आत्मनः इष्टं किम् इति वक्तव्यम्। प्रथमे प्रकोष्ठे धनराशिः अस्ति। द्वितीये प्रकोष्ठे आयुधराशिः अस्ति। तृतीये च प्रकोष्ठे आहारसामग्र्यःसन्ति।तानि परिशील्य तेषु किम् इष्टतमम् इति सूच्यताम्” इति।
अनन्तरं कश्चन भटः आगत्य शूरसिंहं तेषां प्रकोष्ठानां समीपं नीत्वा त्यक्त्वा आगतवान्।
शूरसिंहः त्रिषु प्रकोष्ठेषु स्थितानि वस्तूनि परिशील्य राजसमीपम् आगत्यं उक्तवान्– “महाराज! मह्यं तुद्वितीये प्रकोष्ठे स्थिताः युद्धसामग्र्यः अरोचन्त” इति।
राजा मन्त्री च परस्परं मुखं पश्यन्तौ मन्दहासं प्रकटितवन्तौ। अनन्तरं जयसिंहः शूरसिंहः इव भटेन सह गत्वा प्रकोष्ठस्थानि वस्तूनि परिशील्य आगत्य– “महाराज! मह्यं तु प्रथमप्रकोष्ठे स्थितः धनराशिः एव अरोचत” इति उक्तवान्।
तदा राजा पृष्टवान्– “एवं वा? केन कारणेन भवान् धनराशिम् एव इष्टवान् ?” इति।
“महाराज! लोके धनम् एव श्रेष्ठम्। तेन धनेन अन्ययोः प्रकोष्ठयोः स्थिताः युद्धसामग्रीः, आहारपदार्थान् च प्राप्तुं शक्नुमः। एतावदेव न, सैन्यसङ्ग्रहणं कृत्वा राज्यम् अपि सम्पादयितुं शक्नुमः। सर्वेषु अपि कार्येषु धनम् अनिवार्यम् एव। अतः अहं धनराशिम् एव विशेषतः इष्टवान्” इति गम्भीरेण ध्वनिना उत्तरं दत्तवान् जयसिंहः।
तदा सभासदः सर्वे करताडनपूर्वकम् आत्मनः सन्तोषं प्रकटितवन्तौ।
राजा सिंहकेतुः स्वकण्ठे स्थितं मुक्ताहारं निष्कास्य जयसिंहस्य कण्ठे स्थापयन्– “जयसिंहस्य व्यवहारज्ञानं प्रशंसनीयम् अस्ति। अतः एतम् एव सेनापतिस्थाने नियुक्तवान् अस्मि” इति हसन् उक्तवान्।
पुनः अपि सभायां सन्तोषोत्थितः करताडनशब्दः प्रतिध्वनितः अभवत्।
शिरच्छेदः
कश्चन राजा कदाचित् केनचित् व्याधिना पीडितः अभवत्। वैद्यानां सर्वे प्रयत्नाः विफलाः। चिकित्सायां प्रचलन्त्याम् अपि रोगः दिने दिने वर्धते।
अन्ते राजा प्रकटितवान्– “यः मम रोगं निवारयितुं शक्नोति तस्मै अहम् अर्धं राज्यं दास्यामि। चिकित्साम् आरभ्य अष्टसु दिनेषु यः मम रोगं निवारयितुं न शक्नोति तस्य शिरच्छेदः भविष्यति” इति।
राज्यप्राप्त्याशया आगताः बहवः वैद्याः अष्टसु दिनेषु रोगं दूरीकर्तुम् अशक्ताः सन्तः प्राणैः वियुक्ताः जाताः।
‘एवं सर्वेषां वैद्यानां नाशः भवति चेत् देशे चिकित्सायाः का गतिः ?’ इति आलोचितवान् कश्चित् ज्येष्ठः वैद्यः।
सः तद्दिने एव महाराजसमीपम् आगत्य उक्तवान्– “महाराज! भवतः चिकित्सार्थम् अहं सिद्धः। भवतः नियमः अपि अङ्गीकृतः मया। भवता अपि मम एकः नियमः अङ्गीकरणीयः” इति।
“कः सः नियमः ?” इति पृष्ठवान् राजा।
“मया भवदीयं रोगं दूरीकर्तुं न शक्तं चेत् भवान् मम शिरच्छेदं कारयति खलु ? अहं भवतः रोगं दूरीकर्तुं शक्तवान् चेत् स्वकीयं शिरः दातुं सिद्धः वा भवान् ? " इति पृष्ठवान् सः वैद्यः।
“रोगः अपगतः चेत् मम शिरः किमर्थं दातव्यम्?” इति असमाधानेन पृष्टवान् राजा।
“रोगः न अपगतः चेत् मम शिरच्छेदः भवेत् खलु ? अतः रोगः अपगतः चेत् भवतः शिरसः च्छेदः! उभयत्र अपि समानः तर्कः” इति उक्तवान् वैद्यः।
वैद्यस्य कथनस्य आन्तर्यं ज्ञातं महाराजेन। अतः सः शिरच्छेदननियमं परित्यक्तवान्।
एकवर्षं यावत् चिकित्सां कृत्वा महाराजस्य रोगम् अपसारितवान् वैद्यः।
सिंहशिशुः
बहुभ्यः वर्षेभ्यः पूर्वं कस्मिंश्चित् रजपूतग्रामे नानाजिः नाम कश्चन क्षत्रियः बालकः निवसति स्म। तदीये अल्पे एव वयसि तदीयः पिता दिवंगतः आसीत्। अतः सः पितृव्याणाम् अधीनः जातः।
** पितृव्याः तं क्षत्रियोचिताः सर्वाः विद्याः पाठितवन्तः। बाल्ये एव सः धनुष्प्रयोगम्, अश्वारोहणम्, अस्त्रशस्त्रसञ्चालनम् इत्यादिकं सम्यक अभ्यस्तवान्।**
** अन्येन केनापि निग्रहीतुम् अशक्तं कञ्चन अश्वं निगृह्य स्वायत्तीकृतवान् नानाजिः। तदीयस्य अश्वस्य वैशिष्ट्यम् आसीत् यत् नानाजिं विना अन्यः कश्चित् अपि तम् आरोढुं न शक्नोति स्म।**
** एकदा कश्चन वणिक् कांश्चन खड्गान् स्वीकृत्य राजभवनं प्रति आगतवान्। नानाजिः तस्य समीपे उपविश्य खड्गस्य दैघ्य, धारायाः तीक्ष्णतां च परीक्षितुम् आरब्धवान्। ये खड्गाः तस्मै न अरोचन्त तान् सः पार्श्वे स्थापयति।**
** खड्गवणिक् एतत्सर्वं कुतूहलेन पश्यन् ‘एषः बालकः खड्गपरीक्षणे निपुणः’ इति आलोच्य एकम् उत्तमं खड्गं नानाजिहस्ते स्थापितवान्।**
** तं खड्गं दृष्ट्वतः नानाजेः नेत्रे आनन्देन विकसिते। सः उत्साहपूर्णेन स्वरेण उक्तवान्– “एषः खड्गः मह्यम् अपेक्षितः। एषः मम हस्ते यदि स्यात् तर्हि मां भाययितं कोऽपि न शक्नुयात्” इति।**
** सः तं खड्गं स्वीकृत्य पितृव्याणां समीपं गतवान्। ‘एतं खड्गं मह्यं दापयन्तु भोः’ इति तान् निवेदितवान्।**
** तदा एकः पितृव्यः उक्तवान्– “एषः खड्गः आकारेण महान्। एतस्य चालनं दूरे**
तिष्ठतु, एतं सम्यक् उन्नेतुम् अपि न शक्नोतिभवान्” इति।
तदा नानाजिः उक्तवान्– “अहम् इदानीं प्रवृद्धः अस्मि। मम समीपे विद्यमानः खड्ग अल्पः जातः” इति।
** “वत्स! खड्गस्यआकारेण किं प्रयोजनम् ? तं यः धरति तस्य शौर्यपराक्रमादयः एव महत्त्वम् अर्हन्ति। यदि खड्गस्य दैर्घ्यं न्यूनं भवेत् तर्हि एकं पदम् अग्रे गत्वा युद्धं करणीयं भवेत्” इति अपरः पितृव्यः सूचितवान्।**
** नानाजिः एतैः वचनैः अतीव निराशः जातः। सः मौनं प्रत्यागत्य वणिजे तं खड्गं प्रत्यर्पितवान्।**
** कानिचन दिनानि अतीतानि। कदाचित्केचन लुण्ठाकाः अकस्मात् ग्रामस्य उपरि आक्रमणं कृतवन्तः। ग्रामस्य गोसमूहम् आत्मना सह नीतवन्तः च। ग्रामनियमस्य अनुसारं तदा ग्रामीणाः उच्चैः डिण्डिमं वादितवन्तः।**
** राजभवने उपविष्टः नानाजिः डिण्डिमवादनं श्रुतवान्। सः मार्गे गच्छतः जनान् पृष्टवान्– “एवं किमर्थं डिण्डिमवादनं क्रियते ?” इति। तदा जनाः उक्तवन्तः यत् लुण्ठाकैः गावः नीताः इति।**
** एतत् श्रुतवतः नानाजेः मनसि चिन्तनम् आरब्धम्– ‘एतम् अत्याचारं पश्यन् अपि अहं मौनं तिष्ठेयं वा ? मम भीरुतां निष्क्रियतां च दृष्ट्वा माता किं न उपहसेत् ?’**
** नानाजिः झटिति अश्वम् आरूढवान्।**
खड्गं चालयन् लुण्ठाकानाम् अनुसरणं कृतवान्। अरण्यातिक्रमणतः पूर्वम् एव तेन लुण्ठाकाः दृष्टाः। लुण्ठाकानां नायकः अल्पवयस्कं नानाजिं दृष्ट्वा उच्चैः हसितवान् उक्तवान् च– “अरे बालक! मुखे श्मश्रु अपि न उद्भूतम्। एतादृशः भवान् अस्मान् भाययित्वा गाः कथं वा नयेत् ?” इति।
‘उत्तरदानेन समस्या परिहृता न भविष्यति’ इति नानाजिः जानाति एव। अतः सः स्वकीयम् अश्वं वेगेन लुण्ठाकनायकसमीपं नीतवान्। झटिति तस्य उपरि बलात् खड्गप्रयोगं कृतवान् च।
लुण्ठाकनायकः अपायं निमेषमात्रेण ज्ञात्वा शिरसः अवनमनं कृतवान्। अतः तदीयाः प्राणाः रक्षिताः अभवन्। किन्तु तदीया नासिका खड्गेन छेदिता अभवत्।
एतेन आक्रमणेन लुण्ठाकनायकः नितरां क्रुद्धः। सः उच्चैः गर्जितवान्– “किं पश्यन्ति ? एतं बालकं मारयन्तु।” इति।
अत्रान्तरे लुण्ठाकैः बलात् नीयमानाः गावः ग्रामं प्रति धावितवन्तः। नानाजिःचिन्तितवान्– ‘गावः तु एतेषां हस्तात् मोचिताः। एतान् सर्वान् सम्मुखीकर्तुं मम सामर्थ्यं नास्ति’ इति। अपरक्षणे सः अश्वं प्रतिनिवृत्य ग्रामाभिमुखं धावितवान्।
लुण्ठाकाः नानाजिम् अनुसृतवन्तः। ।
ग्रामम् आगतं नानाजिं उक्तवन्तः तदीयाः पितृव्याः–किन्त नानाजेःअश्वः तावता वेगेन अधावत् यत् ग्रामसीमाप्राप्तिपर्यन्तम् अपि लुण्ठाकाः तं ग्रहीतुं न शक्तवन्तः “वत्स! एन् एतस्मिव वयसि भवान् एवं साहसकार्यं प्रदर्शयति। न जानीमो वयं यत् भवान् प्रौढावस्थायां किं किं साधयेत् इति। असमसाहसी भवान्” इति।
तदा नानाजिः झटिति उक्तवान्– “अहम् अल्पवयस्कः स्यां नाम, किन्तु मम शक्तिः न न्यूना। सिंहसमानानां कुले जातः सिंहशशुः अहम्। सञ्चारार्थम् अश्वः हस्ते कश्चन खड्गः च यदि भवेत् तर्हि असाध्यं किं वा स्यात् ? सर्वं साधयितुं शक्यते” इति।
स्थलाभावः
पार्वतीपुरे देवप्रियः नाम कश्चन कृषिकः आसीत्। सः विवेकी व्यवहारकुशलः च आसीत्। समस्यायाः परिहारसूचने सः अतीव समर्थः। अतः तेन सह समालोच्य एव ग्रामीणाः विशेषकार्यस्य आरम्भं कुर्वन्ति स्म। समीपस्थेभ्यःग्रामेभ्यः अपि जनाः समस्यापरिहारोपायं प्राप्तुं तस्य समीपम् आगच्छन्ति स्म। तेन सूचितः परिहारोपायः सर्वदा सफलः भवति स्म।
** एकदा तद्ग्रामीणः निर्धनः कृषिकः श्रीपादः देवप्रियस्य समीपम् आगत्य उक्तवान्– “भोः! एषु दिनेषु मम गृहे सर्वथा स्थलसङ्कोचः। अवकाशः अल्पः जनाः तु बहवः। विशालं गृहं निर्मातुं मम सामर्थ्यं नास्ति। किं करणीयम् इति न जानामि। गृहे सर्वत्र वस्तूनि। अतिथीनां निमित्तं किं गृहसदस्यानां निवासार्थम् एव तत् गृहम् अपर्याप्तम्” इति।**
** देवप्रियः क्षणकालम् आलोच्य पृष्टवान्– “श्रीपाद! भवान् कुक्कुटान्, अजान्, गावः च पालयति खलु?” इति।**
** “आम्, जीवननिर्वहणार्थं बहवः उपायाः आश्रयणीयाः भवन्ति खलु ?” इति निराशया उक्तवान् श्रीपादः।**
** “पश्यतु भोः! स्थलसङ्कोचस्य निवारणार्थम् एकः उपायः अस्ति। आरम्भे क्लेशः भवेत्। तथापि परिणामस्तु अपूर्वः। अद्य आरभ्य भवान् एकाम् अजां तत्पुत्रान् सर्वान् च गृहस्य अन्तः एव बध्नातु। चतुर्णां दिनानाम् अनन्तरम् आगत्य परिणामं निवेदयतु” इति सूचितवान् देवप्रियः।**
** श्रीपादः सन्तोषेण गृहं गतवान्। देवप्रियस्य सूचनानुसारम् अजां तत्पुत्रान् च गृहस्य अन्तः बद्धवान्। गृहसदस्याः कोपेन विरोधम् उक्तवन्तः। ‘चतुर्णां दिनानाम् अनन्तरम् एतस्य सत्परिणामं भवन्तः एव**
पश्यन्ति’ इति समाधानम् उक्तवान्श्रीपादः।
** एतस्य परिणामतः गृहे स्थलाभावः प्रवृद्धः। चत्वारि दिनानि युगानि इव यापितानि। गृहसदस्याः पुनः अपि विरोधम् उक्तवन्तः। श्रीपादः याजमान्यदर्पेण कोपेन च तान् तूष्णीकान् कृतवान्।**
** चतुर्णां दिनानाम् अनन्तरं श्रीपादः निराशाभावेन देवप्रियस्य गृहं गतवान्।**
** श्रीपादं दृष्ट्वा देवप्रियः उक्तवान्– “भोः, किमर्थम् एतावती चिन्ता ? आरम्भे महान् क्लेषः इति मया पूर्वम् एव उक्तं खलु ? अद्य भवान् अन्यान् कांश्चन अजान् अपि गृहस्य अन्तः बध्नातु। दिनद्वयानन्तरं मां पश्यतु च” इति।**
** दिनद्वयानन्तरं श्रीपादः दूरतः एव हस्तौउन्नीय नमस्कारं कुर्वन् देवप्रियम् उक्तवान्–“महोदय! इदानीं गृहे पदं स्थापयितुम् अपि स्थलं नास्ति। असह्या मानसिकी पीडा एषा। भवता सूचितम् इत्यतः सर्वं मौनं सोढवन्तः वयम्” इति।**
** “एवं वा?” इति पृष्ट्वा मन्दहासं प्रकटयन् देवप्रियः उक्तवान्– “अद्य तर्हि एवं करोतु। द्वितीयवारम् अन्तः आनीतान् अजान् बहिः प्रेषयतु। दिनद्वयानन्तरं परिणामं सूचयतु’ इति।**
** दिनद्वयानन्तरम् आगतस्य श्रीपादस्य मुखे सन्तोषस्य अस्पष्टा छाया आसीत्। तं दृष्ट्वां देवप्रियः पृष्टवान्–“किं भोः ! गृहे स्थलाभावः इदानीं न तथा अनुभूयते, सत्यं खलु ?” इति।**
** “सत्यम्। इदानीं गृहे पादस्थापनार्थं वा**
कश्चन अवकाशः दृश्यते” इति उत्तरितवान्श्रीपादः।
** “तर्हि अद्य भवान् सर्वान् अजान् गृहतः निष्कासयतु। चतुर्णां दिनानाम् अनन्तरम् आगत्य फलं निवेदयतु” इति सूचितवान् देवप्रियः।**
** चतुर्णां दिनानाम् अनन्तरम् आगतस्य श्रीपादस्य मुखे सन्तोषस्य तृप्तेः च छाया स्फुटं दृश्यते स्म।**
** “इदानीं भवतः गृहे प्रायः स्थलाभावः न अनुभूयते। सत्यं खलु ?” इति मन्दहासपूर्वकं पृष्टवान् देवप्रियः।**
** ‘आम् आम्। पूर्वं तु स्थलाभावः सर्वदा मनसि खेदं जनयति स्म। इदानीं तु न तथा। मम गृहे इदानीं कोऽपि स्थलाभावसमस्यां न अनुभवति। विद्यमानेन अवकाशेन एव सर्वे सन्तुष्टाः” इति उक्त्वा श्रद्धया नमस्कृत्य प्रतिगतवान् श्रीपादः।**
** गुरुराजः देवप्रियस्य गृहे सेवकरूपेण निवसति। सः आरम्भतः अपि श्रीपादस्यसम्भाषणं श्रुतवान् आसीत्। ‘श्रीपादस्य वचनानि श्रुत्वा सः मनसि एव हसति स्म।**
** श्रीपादस्य निर्गमनानन्तरम् उच्चैः हसन् गुरुराजः देवप्रियम् उक्तवान्– “श्रीमन्! एषः श्रीपादः सर्वथा मतिहीनः इति अहं भावयामि। पूर्वं तदीयं गृहं यथा आसीत् तथैव अस्ति इदानीम् अपि। तथापि सः पूर्वम् इव इदानीम् अपि स्थलाभावं न अनुभवति। किम् एतत् विचित्रम् !” इति।**
** तदा देवप्रियः उक्तवान्– “अत्र वैचित्र्यं किमपि नास्ति। श्रीपादस्य लोकानुभवः कोऽपि नास्ति इति तु सत्यम् एव। ‘तत् नास्ति’ ‘एतत् नास्ति’ इति जनाः चिन्तयन्ति खलु। तत्र कारणं वस्तूनाम् अभावः न, अपि तु तेषां मनोभावः। एतत् ज्ञापयितुम् इच्छन् अहं गृहे अजान् बद्धुं सूचितवान्। तत्कारणतः सः वास्तविकस्य स्थलाभावस्य परिचयं प्राप्तवान्। विद्यमाने एव तृप्तिः अनुभोक्तव्या इति विवेकः तस्मिन् उदितः च” इति।**
स्वाभाविकता
** कस्मिंश्चित् नाटके दुर्वाससः पात्रं निर्वोढुंसमर्थस्य नटस्य आवश्यकता कदाचित् आपतिता। एतां वार्तां ज्ञात्वा पञ्च नटाः नाटकसङ्घस्य कार्यालयम् आगतवन्तः। नाटकसङ्घस्य कश्चित् कार्यकर्ता तान् उक्तवान्– “अस्माकं स्वामी बहिर्गतः अस्ति। दश-पञ्चदशनिमेषेषु सः प्रत्यागच्छेत्। कृपया उपविशन्तु” इति।**
** नाटकसङ्घस्य यजमानः आदिनारायणः एकघण्टानन्तरं प्रत्यागतवान्। आसने उपविश्य तान् कांश्चन प्रश्नान् पृष्टवान्। अन्ते असमाधानेन उक्तवान् सः– “अभिनये सर्वथा अनभिज्ञाः भवन्तः। एवं स्थिते अपि किमर्थम् अत्र आगताः ? किम् एतां धर्मशालां मन्यन्ते ?” इति।**
** एतत् श्रुत्वा चत्वारः नटाः लज्जाम् अनुभूय शिरः अवनमय्य स्थितवन्तः। किन्तु चतुर्थः श्रीहरिः कोपं प्राप्य उच्चस्वरेण उक्तवान्– “किं भोः, दश-पञ्चदशनिमेषान् यावत् प्रतीक्षां कुर्वन्तु इति सूचितम्। एकघण्टां यावत् प्रतीक्षा करणीया आपतिता। महता व्ययेन महता कष्टेन च वयम् अत्र ‘आगताः। शिष्टाचारार्थं वा भवता किञ्चित् विनयः न प्रदर्शितः। कीदृशी मूर्खता!” इति।**
** तदा सः नाटकसङ्घस्य यजमानः आदिनारायणः हसन् उक्तवान्– “दूर्वासाः शीघ्रकोपी आसीत्। यः स्वभावेन शीघ्रकोपी, तादृशः अन्वेष्टव्यः इति उद्देशेन मया एवम् आचरितम्। श्रीहरे, भवान् दुर्वाससः पात्रस्य निर्वहणार्थं स्वीकृतः मया” इति।**
उदारः ‘श्यामशास्त्री
** सूरणपुरे कनकराजः नाम कृषिकः आसीत्। तस्य एका एव पुत्री। तस्याः नाम कनकलता इति। रत्नराजः नाम कृषिकः गगनपुरे निवसति स्म। तस्य चन्द्रकान्तः नाम एकः एव पुत्रः आसीत्।**
** कनकराजः रत्नराजस्य पुत्रस्य विषये श्रुतवान्। एषः मम पुत्र्याः वरः भवितुम् अर्हति इति आलोचितवान् कनकराजः।**
** किन्तुरत्नराजः वरदक्षिणारूपेण विंशतिसहस्रं रूप्यकाणि पृष्टवान्। तदा कनकराजः अपि– ‘एवं तर्हि मम पुत्र्यै विंशतितलामितानि सुवर्णाभरणानि दातव्यानि’ इति नियमं सूचितवान्। रत्नराजः सूचितवान् यत् एतत् तु मम सामर्थ्यबाह्यम् इति। तदा कनकराजः अपि वरदक्षिणां दातुं निराकृतवान्। एवं सम्बन्धवार्तालापः छिन्नः। कनकराजः निराशया ग्रामं प्रत्यागतवान्।**
** पार्श्वस्थे ग्रामे श्यामशास्त्री निवसति। सः उदारः, समस्यापरिहारे सिद्धहस्तः च। तं श्यामशास्त्रिणम् उभौ अपि सम्यक् जानीतः। तौ पृथक् पृथक् गत्वा तं स्वसमस्यां निवेदितवन्तौ।**
** एकदा श्यामशास्त्री कनकराजस्य गृहम् आगत्य उक्तवान्– “कनकराज! मम वचने विश्वस्य भवान् रत्नराजस्य अपेक्षानुगुणं वरदक्षिणां ददातु भोः” इति।**
** “श्रीमन्! किं वदति भवान्? विंशतिसहस्रं रूप्यकाणि कुतः आनयेयम्? एतद्विषये मम असामर्थ्यम् इतः पूर्वम् एव भवते निवेदितवान् आसम्” इति उक्तवान् कनकराजः।**
** “भवतः स्थितिम् अहं जानामि एव। कुतश्चित् ऋणम् आनीय तस्मै धनं ददातु” इति सूचितवान् श्यामशास्त्री।**
** “किन्तु ऋणप्रत्यर्पणं कथं भवेत्? तत्रापि विंशतिसहस्रं रूप्यकाणि!” इति उद्गारं प्रकटितवान् कनकराजः।**
** “तत्र न तथा कष्टम्। रत्नराजः भवतः पुत्र्यैः विंशतितुलामितानि सुवर्णाभरणानि ददाति खलु? विवाहानन्तरं तानि विक्रीय ऋणं प्रत्यर्पयतु। विवाहः तु निर्विघ्नं प्रचलतु नाम” इति उपायं सूचितवान् श्यामशास्त्री।**
** एतां सूचनां कनकराजः अङ्गीकृतवान्। तदनन्तरं श्यामशास्त्री रत्नराजस्य गृहं गत्वा उक्तवान्–“भोः! कनकराजेन पुत्र्याः कृते यानि आभरणानि प्रार्थितानि तानि दातुम् अङ्गीकरोतु” इति।**
** रत्नराजः आश्चर्येण पृष्टवान्– “श्रीमन्! भवान् सम्यक् जानाति एव यत् विंशतितलापरिमितानि आभरणानि कारयितुं मम सामर्थ्यं नास्ति इति। तथापि एवं मां सूचयति खलु ?” इति।**
** “भवतः परिस्थितिं ज्ञात्वा एव खलु वदामि? ऋणं कुतश्चित् आनीय आभरणानि कारयतु” इति सूचितवान् श्यामशास्त्री।**
** “ऋणं कदाचित् वा प्रत्यर्पणीयम् एव। तत् कथम्?” इति सन्देहं प्रकटितवान् रत्नराजः।**
** “तत् तु सुलभम् एव। कनकराजः वरदक्षिणारूपेण यत् धनं ददाति तत् दत्त्वा ऋणं प्रत्यर्पयतु। परिहृता खलु समस्या ?’ इति उक्तवान् श्यामशास्त्री।**
** एतदनन्तरं कनकमाला-चन्द्रकान्तयोः विवाहः निर्विघ्नं प्रवृत्तः। अनन्तरम् एकदा श्यामशास्त्री कनकराज-रत्नराजयोः पुरतः आत्मना कृतम् उपायं विस्तरेण उक्तवान्। तदा जामातृविषये तदा जामातृविषये स्नुषाविषये च आत्मना यादृशः व्यवहारः प्रदर्शितः तद्विषये लज्जाम् अनुभूतवन्तौ कनकराजः रत्नराजः च।**
** रत्नराजः कनकराजतः वरदक्षिणारूपेण स्वीकृतं धनं प्रत्यर्पितवान्। ‘नववधूः आभरणैः वञ्चिता न भवेत्’ इति श्यामशास्त्रिणः विचारः। अतः आभरणानां निमित्तं यावान् व्ययः जातः तावत् धनं स्वयं दत्तवान् श्यामशास्त्री।**
उदारता
** जगन्नाथः कश्चन प्रसिद्धः धनिकः। सः स्वकीयेन सेवकेन शिवरामेण सह प्रतिवर्षं पार्श्वस्थे ग्रामे प्रचलन्तं देव्याः रथोत्सवं द्रष्टुं गच्छति। देव्याः उत्सवं प्रति आगच्छतां जनानां कृते प्राथमिकं सौलभ्यम् अपि न आसीत् तस्मिन् ग्रामे। भक्ताः प्रतिवर्षं यत् कष्टम् अनुभवन्ति तत् पश्यति शिवरामः। एतत् दृष्टवतः तस्य मनः नितरां खिन्नं भवति।**
** कदाचित् यजमानेन सह देव्याः उत्सवार्थं गतः शिवरामः उत्सवस्य व्यवस्थापकं दृष्ट्वा– “श्रीमन्! मया किञ्चित् धनं सङ्गृहीतम् अस्ति। तत् धनं देव्यै समर्पयितुम् इच्छामि। तेन धनेन उत्सवसन्दर्भे प्रपाशालां व्यवस्थापयन्तु भवन्तः इति मम प्रार्थना। इतोऽपि उत्तमं कार्यं किमपि भवतां मनसि अस्ति चेत् तदर्थं वा एतत् धनम् उपयोक्तुं शक्यते। अहं यथामति काञ्चित् सूचनां दत्तवान्। धनस्य सदुपयोगविषये अन्तिमनिर्णयः भवताम् एव” इति उक्त्वा धनग्रन्थिं व्यवस्थापकस्य हस्ते स्थापितवान्।**
** शिवरामेण यत् सत्कार्यं कृतं तद्विषये सर्वत्र वार्ता प्रसृता। धनिकः जगन्नाथः अपि तां वार्तां श्रुतवान्।**
** सः तद्दिने एव सर्वान्ग्रामप्रमुखान् एकत्रीकृत्य घोषितवान्यत् देव्याः उत्सवार्थम् आगच्छतां यात्रिकाणां निमित्तंमया काचित् धर्मशाला अचिरात् एव निर्मीयते इति।**
** क्षणमात्रेण सा वार्ता ग्रामे प्रसृता। सर्वे जनाः धनिकस्य उदारतायाः प्रशंसां कृतवन्तः।**
** एतदनन्तरम् अल्पे एव काले शिवरामः अस्वस्थः जातः, तेनैव हेतुना दिवं गतः चापि।**
अनन्तरवर्षे धनिकः यथापूर्वं पार्श्वस्थे ग्रामे प्रचलन्तम् उत्सवं प्रति गतवान्। तत्र तदग्रामीणाः धनिकसमीपम् आगत्य– ‘भवतः सेवकः शिवरामः पुण्यात्मा एव। तेन यत् दानं दत्तं तेन सहस्रशः यात्रिकाः पिपासां निवारयितुं शक्तवन्तः। जनाः जलं पीत्वा शिवरामस्य नाम स्मृत्वा तस्य सद्गतिं प्रार्थयन्तः गच्छन्ति” इति वदन्तः बहुधा शिवरामस्य प्रशंसां कृतवन्तः।
** एतत् श्रुत्वा ईर्ष्यया पीड्यमानः धनिकः कोपेन उक्तवान्–“शिवरामः तु पिपासानिवारणार्थं काञ्चित् व्यवस्थां कृतवान्। तावता एव तस्य प्रशंसां कुर्वन्ति खलु भवन्तः ?” इति।**
** ‘‘आं श्रीमन्! तेन धनं न दत्तं चेत् प्रपायाः व्यवस्था सर्वथा न अभविष्यत्। उत्सवस्य व्यवस्थापकः एव अत्र प्रमाणम्” इति उक्तवन्तः जनाः।**
** तदा जगन्नाथः असमाधानेन उक्तवान्– “एतत् तु मया अपि ज्ञायते एव। मया अत्र मम काचित् विशाला धर्मशाला सद्यः एव निर्मीयते। प्रसङ्गवशात् पृच्छामि– मरणानन्तरं भवन्तः मम विषये किं वदेयुः ?’ इति।**
** अत्रान्तरे जनसमूहात् अग्रे आगतः कश्चन वृद्धः उक्तवान्–“महानुभाव ! मृतः जनः अल्पम् उपकारं कृतवान् स्यात् चेत् अपि जनाः तस्य स्मरणं कुर्वन्ति एव। किन्तु ये महतः कार्यस्य उद्घोषणं केवलं कृत्वा कार्यप्रवृत्ताः न भवन्ति तान् जनाः न स्मरन्ति। अत्र दानशूरः कश्चित् धर्मशालां निर्मास्यति इति वर्षात् पूर्वम् एव श्रुतम्। दिनानि तु अतीतानि। धर्मशालायाः कार्यम् इतोऽपि न आरब्धम्। न जाने, ततं वचनं कदा कार्यान्वितं भवेत् इति” इति।**
** वृद्धेन यत् कटुसत्यं प्रत्यक्षम् उक्तं तत् सम्यक् अवगतं धनिकेन। सः तस्मिन् एव वर्षे सकलसौकर्योपेतां विशालां धर्मशालां निर्मापितवान्। उक्तं वचनं पालयन् जनानां प्रशंसायाः पात्रं जातः च।**
उद्योगप्रयत्नः
** धनगुप्तः श्रीपुरस्य सुप्रसिद्धः सुवर्णकारः। तस्य आपणे श्रीधरः नाम युवकः कार्यं करोति स्म। श्रीधरः वाणिज्यसम्बन्धीनि सर्वाणि कार्याणि महता कौशलेन करोति। गणनालेखनकार्यम् अपि निर्वहति। श्रीधरस्य कारणतः धनगुप्तः बहुधा लाभं प्राप्तुं शक्तवान्। किन्तु धनगुप्तः विशेषलाभप्राप्तेः प्रतिक्रियारूपेण श्रीधराय न पुरस्कारादिकं ददाति, न वा तस्य वेतनं वर्धयति।**
** प्राप्यमाणेन वेतनेन श्रीधरस्य दैनन्दिनजीवनस्य निर्वहणं तु भवति स्म एव। किन्तु पत्नीपुत्रादीनां लघ्वीः अपेक्षाः अपि सः पूरयितुं न शक्नोति। गृहार्थं नूतनं किमपि वस्तु आनेतव्यं चेत् कष्टाय भवति स्म। यजमानः वेतनं वर्धयेत् इति श्रीधरः प्रतिमासम् अपि चिन्तयति। किन्तु सदा तद्विषये निराशा एव। बहवः मासाः यदा अतीताः तदा सः निश्चितवान् यत् अन्यत्र कुत्रापि सुवर्णकारस्य आपणे उद्योगं प्राप्तुं प्रयत्नः करणीयः इति।**
** श्रीपुरस्य समीपे एव कमलापुरं नाम लघुनगरम् अस्ति। श्रीधरः तत्र गतवान्। रत्नवणिजा अनन्तगुप्तेन मिलितवान् च। अनन्तगुप्तः श्रीधरं वाणिज्यसम्बन्धे कांश्चन प्रश्नान् पृष्टवान्। श्रीधरस्य उत्तरैः सः अतीव सन्तुष्टः। श्रीधराय उद्योगं दातुं सः सिद्धः जातः अपि। तथापि श्रीधरविषये इतोऽपि अधिकं विवरणं प्राप्तुं सः निश्चित्य धनगुप्तस्य समीपं गतवान्।**
** अनन्तगुप्तः श्रीधरस्य कार्यस्य विषये धनगुप्तं बहुधा पृष्टवान्। तदा धनगुप्तः श्रीधरस्य प्रामाणिकतां बुद्धिमत्तां च निवेद्य उक्तवान्– “वस्तुस्थितिः तु एषा यत् अहं**
श्रीधरकारणतः एव वाणिज्ये एवं प्रगतिं साधितवान्” इति।
** एतदनन्तरं अनन्तगुप्तः श्रीधरम् आहूय उक्तवान्- “भवान् उद्योगार्थम् आगन्तुम् अर्हति” इति।**
** किन्तु आश्चर्यस्य विषयः यत् धनगुप्तेन यावत् वेतनं दीयते ततोऽपि न्यूनं वेतनं निश्चितवान् आसीत् अनन्तगुप्तः। अतः श्रीधरः तत्र गमनं निराकृतवान्।**
** एतदनन्तरं श्रीधरः कामाक्षीपुरस्य रत्नवणिजः चन्द्रगुप्तस्य समीपे उद्योगार्थं प्रयत्नं कृतवान्। चन्द्रगुप्तः अपि वाणिज्यविषये श्रीधरं बहून् प्रश्नान् पृष्टवान्। श्रीधरस्य उत्तरैः सन्तुष्टः सः दिनद्वयानन्तरम् आगन्तुं सूचितवान्।**
** श्रीधरस्य निर्गमनानन्तरं चन्द्रगुप्तः धनगुप्तस्य समीपम् आगत्य श्रीधरस्य व्यवहारः कथम् इति पृष्टवान्। धनगुप्तः अनन्तगुप्ताय यत् उक्तं तदेव उक्त्वा अन्ते सूचितवान्- “कालान्तरे एषः श्रीधरः स्वबुद्धिमत्तया रत्नवाणिज्यं स्वयम् आरभते एव” इति।**
** दिनद्वयानन्तरम् आगतं श्रीधरं सूचितवान् चन्द्रगुप्तः - “भवान् कार्यार्थम् आगच्छतु” इति। धनगुप्तेन यावत् वेतनं दीयते ततोऽपि किञ्चित् एव अधिकं वेतनं निश्चितम् आसीत् चन्द्रगुप्तेन। कामाक्षीपुरं श्रीधरस्य ग्रामात् सुदूरे अस्ति। अतः प्रयाणार्थं धनव्ययःसमयव्ययः च भवति। अतः श्रीधरः तत्र गमनम् अपि निराकृतवान्।**
** तेषु एव दिनेषु श्रीधरः धर्मपुरस्य रत्नवणिजः विकासगुप्तस्य समीपम् अपि गतवान्। श्रीधरस्य व्यवहारेण उत्तरैः च’ विकासदत्तः अपि अतीव सन्तुष्टः। अनन्तरं सः विकासगुप्तः धनगुप्तस्य समीपम् आगत्य श्रीधरविषये पृष्टवान्।**
** तदा धनगुप्तः हसन् उक्तवान्- “श्रीधरः अलसः निष्प्रयोजकः च। विस्मरणशीलःचापि। तत्कारणतः मया वाणिज्ये कदाचित् हानिः अपि अनुभूता। भवान् आत्मीयः इत्यतः मया वस्तुस्थितिः उक्ता” इति।**
** “भवान् वस्तुस्थितिकथनेन माम् अत्यन्तम् उपकृतवान्” इति उक्त्वा**
विकासगुप्तः ततः निर्गतवान्।
** एतत् सम्भाषणं यदा प्रवृत्तं तदा श्रीधरः अन्तः प्रकोष्ठे एव आसीत्। सः वार्तालापं समग्रतया श्रुतवान् खिन्नः च।**
** सः बहिः आगत्य धनगुप्तं खेदेन उक्तवान्– “श्रीमन्! भवान् एवं किमर्थं कृतवान्? एतावत्पर्यन्तं भवान् सदा मम प्रशंसां करोति स्म। इदानीं तु मम विषये दुरभिप्रायं जनयन् उत्तमोद्योगस्य प्राप्तितः मां वञ्चितं कृतवान्” इति।**
** तदा धनगुप्तः श्रीधरस्य स्कन्धे हस्तं संस्थाप्य— “इतः पूर्वं भवान् स्थलद्वये उद्योगार्थं प्रयत्नं कृतवान् खलु ? उभयत्रापि अत्र यावत् दीयते ततोऽपि अधिकं वेतनं न निश्चितम्। अन्येषां द्वारा मया एताः वार्ताः सङ्गृहीताः। विकासगुप्तः किञ्चित् अधिकम् एव वेतनं दातुं सिद्धः आसीत् इति तु सत्यम् एव” इति उक्तवान्।**
** “तर्हि किमर्थं भवान् मयि अविद्यमानान् लोपान् आरोप्य उद्योगतः मां वञ्चितं कृतवान्?” इति पृष्टवान् श्रीधरः।**
** तदा धनगुप्तः उक्तवान्—“श्रीधर ! मत्समीपे उद्योगे स्थितः भवान् यथा मम हितं चिन्तितवान् तथैव अहम् अपि भवतः हितम् एव चिन्तयन् आसम्। भवान् तु गृहस्थः। गृहे पत्नीपुत्रादयः सन्ति। अतः मया अधिकं वेतनं दत्तं चेदपि भवान् सञ्चयं किमपि कर्तुम् अशक्तः अभविष्यत्। भवतः पुत्री प्राप्तवयस्का खलु ? सद्यः एव तस्याः विवाहः करणीयः। तन्निमित्तम् अहं भवतः नाम्नि किञ्चित् धनं वित्तकोषे स्थापितवान् अस्मि। एतत् अतिरिच्य विकासगुप्तः यावत् दद्यात् तावत् वेतनम् एतस्मात् मासतः एव भवते दास्यामि। एतेन सन्तुष्टः खलु भवान्” इति।**
** एतावत्पर्यन्तं धनगुप्तविषये अन्यथाचिन्तनं यत् कृतम् आसीत् तद्विषये पश्चात्तापम् अनुभूतवान् श्रीधरः। तद्दिनतः सः पूर्वापेक्षया अधिकं श्रद्धया सहयोगं दत्तवान्।**
ऊहाकुशलः
देवगिरिनामके ग्रामे रामदेवीनाम कश्चन कृषकः आसीत्। तस्य द्वौ पुत्रौ। ज्येष्ठस्य नाम देवराजः। अपरस्य नाम जयदेवः।
** देवराजः यदा प्राप्तवयस्कः जातःतदा कृषिकार्येषु आसक्तिं प्रदर्शयन् पितुः साहाय्यम् आरब्धवान्।**
** द्वितीयः जयदेवः तु विद्याभिलाषया गृहं परित्यज्य योग्यं गुरुम् अन्विष्यन देशसञ्चारम् आरब्धवान्।**
** एवं प्रस्थितः जयदेवः योग्याहाराभावात् निद्रा-विश्रान्त्यादीनाम् अभावात् च कष्टेन प्रयाणं कुर्वन् एकं ग्रामं प्राप्तवान्। ततः अग्रे गन्तुम् अशक्तः सः हरिशर्मनामकस्य गृहस्य पुरतः मूर्च्छया पतितवान्।**
** परमदयालुः हरिशर्मा तम् उन्नीय अन्तः नीत्वा योग्येन उपचारेण तं सचेतनं कृत्वा पानार्थं जलं दत्तवान्। स्नानं भोजनं चकारयित्वा तदीयम् इतिवृत्तं पृष्टवान्। जयदेवः सर्वं निवेदितवान्।**
** तीव्रया विद्याभिलाषया एषः गृहादिकं परित्यज्य महता क्लेशेन एवम् आगतः इति ज्ञात्वा हरिशर्मा नितरां सन्तुष्टः। जयदेवस्य विषये करुणा ममता च उत्पन्ना।**
** हरिशर्मा कश्चन महापण्डितः। सः आत्मनः परिचयम् उक्त्वा जयदेवं वर्षत्रयं यावत् गृहे एव स्थापितवान्। तस्य अशनवसनादिकम् अपि निर्वहन् योग्यं विद्याभ्यासम् अपि कारितवान्।**
** जयदेवः तीक्ष्णमतिः। गुरुः एकवारं बोधयति चेत् पर्याप्तम्, एषः सम्यक् गृह्णाति, स्मरति च। अतः वर्षत्रयाभ्यन्तरे गुरुः यावत् जानाति तावत् पूर्णतया ज्ञातवान् जयदेवः।**
** वर्षत्रयानन्तरं हरिशर्मा जयदेवं- “वत्स!**
अन्यः कश्चन गुरुः अस्ति। ततः अधीतं चेदेव भवतः विद्यायाः पूर्तिः। सः गुरुः कश्चन व्याधराजः। सः अरण्ये निवसति। सः भवन्तं मृगयां चोरविद्यां च पाठयति” इति उक्त्वा व्याधराजसमीपं गन्तुं मार्गम् गन्तुं मार्गम् अपि सूचितवान्।
** जयदेवः हरिशर्मणा सूचितेन मार्गेण गत्वा व्याधराजं दृष्टवान्।**
** हरिशर्मणा प्रेषितम् इति ज्ञात्वैव सन्तुष्टः सः व्याधराजः जयदेवम् एकं वर्षं यावत् स्वसमीपे स्थापितवान्।**
** तस्मिन् अवधौ चौर्यकलां, चोरग्रहणं, मृगयाप्रकारं, मृगान्वेषणक्रमं च सम्यक् बोधितवान् सः।**
** एवं सर्वाः अपि विद्याः सम्पाद्य जयदेवः गृहाभिमुखं प्रस्थितवान्। एवं गमनसमये तस्य पिपासा जाता।**
** सः समीपस्थं ग्रामं गत्वा कस्यचित् गृहस्य पुरतः स्थित्वा जलं प्रार्थितवान्। गृहस्वामी एतम् अन्तः आहूय उपवेश्य जलादिकं दत्त्वा जयदेवस्य इतिवृत्तं पृष्ट्वा ज्ञातवान्।**
** जयदेवस्य विद्यासमाप्तिं ज्ञात्वा सः पृष्टवान्— “वत्स! भवतः विद्यायाः कौशलस्य परीक्षार्थम् अहम् एकं प्रश्नं पृच्छामि वा?” इति।**
** “अस्तु” इति अङ्गीकृतवान् जयदेवः।**
** “भवतः आगमनात् पूर्वम् अत्र के आगतवन्तः ? के वा गृहस्य पुरतः गतवन्तः ? एतदुभयं ज्ञातुं शक्नोति वा?” इति पृष्टवान् सः गृहस्थः।**
** जयदेवः उत्थाय बहिः गत्वा किञ्चित्कालानन्तरं प्रत्यागत्य— “मम आगमनात् पूर्वं भवतः गृहं प्रति चत्वारः सैनिकाः राजभटाः वा आगत्य पुनः अग्रे गतवन्तः। तेषाम् आगमनतः पूर्वम् अन्यः कश्चित् भवतः गृहस्य पुरतः गतवान्। तस्य शिरसि अङ्गारगोणी आसीत्। तेन प्रायः किमपि चोरितं स्यादिति भाति” इति गृहस्य यजमानम् उक्तवान्।**
** एतत् श्रुत्वा गृहस्य यजमानः आश्चर्यचकितः। “भवता उक्तं सत्यम् एव। मम गृहं प्रति चत्वारः राजभटाः आगताः**
आसन्। अद्य देवालयस्य पुरतः कुत्रचित् महाराज्ञ्याः एकम् आभरणं पतितम्। यावत् पतनं ज्ञात्वा अन्वेषणम् आरब्धं ततः पूर्वम् एव केनचित् चोरितम् आसीत् तत्। अतः राजभटाः प्रतिगृहं गत्वा अन्वेषणं कृतवन्तः। तदङ्गतया एव मम गृहे अपि अन्वेषणं कृतवन्तः। किन्तु तैः आभरणं कुत्रापि न प्राप्तम्। चोरः कश्चित् मम गृहस्य पुरतः एव गतवान् इति भवान् यत् वदति तत् तु आश्चर्यकरम् एव। सः चोरः कुत्र अस्ति इति जानातु। तत् भवता ज्ञातं चेत् भवतः सौभाग्यं फलितम् इत्येव। महाराजः विशेषपुरस्कारेण भवन्तं सम्मानयिष्यति। अधीतायाः विद्यायाः प्रथमोपयोगः अत्रैव भवतु नाम” इति उक्तवान् सः गृहस्वामी।
** ‘पुनः आगमिष्यामि’ इति गृहस्वामिनम् उक्त्वा जयदेवः चोरस्य गमनचिह्नम् अनुसरन् एकं गृहं प्राप्तवान्।**
** तच्च स्वर्णकारस्य गृहम्। जयदेवः अन्तः गत्वा स्वर्णकारं दृष्ट्वा सुवर्णस्य मूल्यादिकं पृष्ट्वा, तेन निर्मीयमाणस्य नूतनाभरणस्य विषये किञ्चित् वार्तालापं कृत्वा ततः प्रत्यागतवान्।**
** पूर्वं सत्कृतवतः गृहस्थस्य समीपं गत्वा तम् उक्तवान्— “अहं चोरं सूचयिष्यामि। राजभटान् आनाययतु” इति। सः गृहस्थः राजभटानाम् आनयनार्थं व्यवस्थां कृत्वा जयदेवं कुतूहलेन पृष्टवान्— “भोः, एतत्एतावच्छीघ्रं कथं ज्ञातुं शक्तवान् भवान् ?” इति।**
** “अत्र सर्वत्र अनुमानम् उपकारकं भवति। सैनिकाः भटाः वा’ यदा चलन्ति तदा तेषां पदानि सर्वदा समानान्तरेण स्थापितानि भवन्ति। अन्यच्च ते पदद्वयम् अपि दृढं भूमौ स्थापयन्ति। अतः भवतः गृहस्य पुरतः स्थितानि पदचिह्नानि दृष्ट्वा आगताः सैनिकाः भटाः वा इति, ते चत्वारः आसन् इति च ज्ञातवान्। पदचिह्नबलात् एवं तेषां निर्गमनम् अपि तर्कितं मया” इति उक्तवान् जयदेवः।**
** ‘एवं तर्हि चोरस्य रहस्यं कथम् भेदितवान् भवान् ?” इति पृष्टवान् सः गृहस्वामी।**
** “चोरः प्रायः मार्गस्य मध्ये न सञ्चरति। सः सर्वदा अपि भीतः सन् मन्दं पदं स्थापयन् मार्गस्य पार्श्वे एव गच्छति। पदचिह्नानि दृष्ट्वा अहं चोरस्य गमनं ज्ञातवान्। चोरस्य शिरसि अङ्गारगोणी आसीत्। तत्र तत्र अङ्गारचूर्णानि पतितानि दृश्यन्ते। चोरः तदा तदा दृष्टिं परिवृत्य ‘कोऽपि माम् अनुसरति वा?’ इति परीक्षते। एतत्सूचकानि अर्धपरिवृतानि पादचिह्नानि मया दृष्टानि। अन्यच्च चोरस्य पादचिह्नानि भटानां पादचिह्नानि इव स्फुटानि न आसन्। अतः भटानां गमनतः पूर्वं चोरः गतवान् इति, भटाः तस्यैव चोरस्य अन्वेषणे सन्ति इति च तर्कितवान्” इति उक्तवान् जयदेवः।**
** एवं तयोः वार्तालापसमये राजभटाः तत्र आगतवन्तः। जयदेवः तैः सह स्वर्णकारस्य गृहं गतवान्। यद्यपि तत् गृहम् अपि राजभटैः संशोधितम् एव आसीत्, किन्तु ते पेटिकादिषु आभरणस्य अन्वेषणं कृतवन्तः आसन्। एतं विषयं जयदेवः जानाति। जयदेवः तर्कितवान् यत् चोरः चौर्यात् प्राप्तं वस्तु प्रायशः कुत्रापि भित्तिविच्छेदिकासु शिलफलकादीनाम् अधः वा स्थापयति इति। अतः सः तादृशानि स्थलानि स्थलानि अन्विष्य राज्ञ्याः रत्नहारं प्राप्तवान्। इदानीं स्वर्णकारः स्वकीयम् अपराधम् अङ्गीकृतवान्।**
** सः विवरणम् एवं दत्तवान्— “देवालयं गतः अहं देवालयसमीपे पतितं महाराज्ञ्याः आभरणं दृष्टवान्। तत् जागरूकतया उन्नीय कोषे स्थापयित्वा अङ्गारापणतः अङ्गारगोणीं क्रीत्वा तस्याः अन्तः आभरणं स्थापयित्वा गृहम् आनीतवान्” इति।**
** राज्ञ्याः आभरणम् अविलम्बेन यत् प्राप्तं तेन सन्तुष्टः राजा जयदेवाय उत्तमानि पारितोषिकाणि दत्तवान्।**
** गृहस्थस्य मुखात् जयदेवस्य चिन्तनरीतिं तर्कसामर्थ्यं च श्रुत्वा इतोऽपि सन्तुष्टः राजा राजसभायां जयदेवस्य प्रशंसां कृत्वा पुनरपि सत्कृत्य तं स्वकीये आस्थाने उत्तमे स्थाने नियोजितवान्।**
वास्तविकं प्रेम
** अमरावतीनगरे आदिशेषः नाम सुवर्णवणिक् आसीत्। तस्य गङ्गा, यमुना, सरस्वती इति तिस्रः पुत्र्यः। यदा ताः प्राप्तवयस्काः जाताः तदा तासां मातृवियोगः सम्पन्नः।**
** इदानीम् आदिशेषः वार्धक्ये अस्ति। पत्नीवियोगदुःखम् अनारोग्यं च तम् अहर्निशं पीडयतः। एतासां तिसृृणां विवाहम् अपि युगपत् एव कारयित्वा विद्यमानम् ऐश्वर्यम् एतासु विभज्य निश्चिन्तजीवनं यापनीयम् इति आदिशेषस्य इच्छा।**
** एकदा सा पुत्रीः स्वसमीपम् आहूय पृष्टवान्— “अहं तु वार्धक्ये अस्मि। वाणिज्यनिर्वहणस्य सामर्थ्यम् अपि नास्ति मम। द्वित्राणां वर्षाणाम् अनन्तरं मम प्राणच्युतिः भवेत् इति वैद्यः अभिप्रायं प्रकटयति। अतः भवतीनां तिसृृणाम् अपि विवाहं समाप्य अन्तिमा अपेक्षा काशीयात्रा अपि समापनीया। शिष्टम् आयुः भवतीषु कस्याश्चित् गृहे यापनीयम् इति ममआशयः। भवत्यः एतद्विषये किम् अभिप्रयन्ति ?” इति।**
** ज्येष्ठा पुत्री गङ्गा क्षणकालम् आलोच्य उक्तवती— “तात! भवतः विचारः युक्तः एव। किन्तु विवाहानन्तरं स्त्री पत्यधीना भवति खलु ? अतः पत्या यथा उच्यते तथा व्यवहरणीयं भविष्यति। भवतः अस्मद्गृहे वासं मम भावी पतिः अङ्गीकुर्यात् वा न वा इति अहम् इदानीं कथं वदेयम्?” इति।**
** ‘एतत् तु युक्तम् एव’ इति आलोच्य आदिशेषः द्वितीयां पुत्रीं पृष्टवान्—“भवती किं चिन्तयति एतद्विषये?” इति।**
** तदा यमुना ‘अग्रजया यत् उक्त तत् युक्तम् एव। भाविनः पत्युः व्यवहारः चिन्तनं च कथं भवेत् इति इदानीम् एव कथं ज्ञातुं शक्यते? एवं तु भवितुम् अर्हति….” इति**
वदन्ती वाक्यम् अर्धे स्थगितवती।
“किं कर्तुं शक्यते इति वदतु तावत्” इतिउक्तवान् आदिशेषः।
** “मां नगरस्थः युवकः एव यथा परिणयेत् तथा करोतु। तदा अहम् अन्यस्मिन् गृहे निवत्स्यामि चेदपि समीपे एव भविष्यामि खलु ? तदा तदा आगत्य भवन्तं दृष्ट्वा गमिष्यामि " इति उक्तवती यमुना।**
“एतत् तु महते सन्तोषाय” इति उक्त्वा आदिशेषः तृतीयां पुत्रीं सरस्वतीम् उक्तवान्— “पुत्रि ! भवती स्वाभिप्रायं वदतु तावत्” इति।
** एतावत्पर्यन्तं शिरः अवनमय्य सा अग्रजयोः वचनं शृण्वती आसीत्। इदानी सा अश्रुपूर्णनेत्रा गद्गदस्वरेण उक्तवती— “मम विवाहार्थं का त्वरा ? इदानीम् एव अस्वस्थस्य भवतः एकाकिनः काशीयात्राम् अहं न अङ्गीकरोमि। अहम् अपि भवता सह आगमिष्यामि। भवान् यावत् जीवति तावत् भवतः साहाय्यकत्वेन तिष्ठन्ती सेवां करोमि।**
** अनन्तरं विधेः इच्छा यथा अस्ति तथा भवतु नाम” इति।**
** पुत्र्याः प्रेमाभिमानादिकं दृष्टवतः आदिशेषस्य नेत्राभ्याम् अपि अश्रूणि आगतानि।**
** सः वस्त्रेण अश्रूणि मार्जयित्वा— “मूर्खे ! सरस्वति ! किमर्थम् अश्रुस्रावणम् ? भवत्याः प्रेमादरादिकं दृष्टवतः मम जीविते आशा उद्दीपिता अभवत्” इति उक्त्वा तस्याः शिरः प्रीत्या आमृष्टवान्।**
** अनन्तरम् आदिशेषः गङ्गायाः यमुनायाः च विवाहं निर्वर्त्य सम्पत्तिं द्विधा विभज्य ताभ्यां दत्तवान्। कनिष्ठया सरस्वत्या सह काशीं प्रति प्रस्थितवान्।**
** षण्णां मासानाम् अनन्तरं काशीयात्रां समाप्य प्रत्यागतः आदिशेषः योग्यं वरम् अन्विष्य सरस्वत्याः विवाहं निर्वर्तितवान्। जामातरं स्वगृहे एव स्थापयन् सुवर्णवाणिज्यं तदधीनं कृत्वा कानिचन वर्षाणि यावत् सुखेन जीवितवान्।**
विदूषकपदवी
कोसलदेशस्य राजा शैलेन्द्रवर्मा। कदाचित् सः आस्थानविदूषकस्य शकटस्य विषये कुपितः अभवत्। कोपेन सः शकटं सम्यक् तर्जितवान्। “इतःपरं मह्यं भवतः मुखं न प्रदर्शयतु” इति उक्त्वा तम् आस्थानतः बहिः प्रेषितवान् च।
** तद्दिने एव विदर्भदेशस्य विदूषकः दामोदरः शैलेन्द्रवर्माणं द्रष्टुम् आगतवान्। तस्य व्यवहारेण महाराजः सन्तुष्टः। अतः राजाचिन्तितवान् यत् दामोदरः एव आस्थानविदूषकत्वेन नियोजनीयः इति।**
** शैलेन्द्रवर्मा मन्त्रिणं मङ्गलेशम् आहूय स्वकीयम् आशयं निवेदितवान्।**
** तदा मन्त्री मङ्गलेशः उक्तवान्— “प्रभो ! विदूषकः शकटः कदाचित् भवन्तं कोपयति। पुनः कदाचित् चमत्कृतिपूर्णैः वचनैः सन्तोषयति च। एवम् इतः पूर्वम् अपि बहुवारं प्रवृत्तम्। अतः शकटस्य निष्कासनम् उचितं न इति मम अभिप्रायः” इति।**
** शैलेन्द्रवर्मा मन्त्रिणः वचनं मौनं श्रुतवान्। कामपि प्रतिक्रियां न प्रदर्शितवान्।**
** मन्त्री मङ्गलेशः शकटं दृष्ट्वा महाराजस्य चिन्तनं निवेदितवान्।**
** अनन्तरदिने मन्त्री राजा च कस्मिंश्चित् विषये चर्चां कुर्वन्तौ आस्ताम्। तदा शकटः कृष्णवर्णीयेन वस्त्रेण स्वकीयम् मुखम् आच्छाद्य महाराजस्य समीपम् आगतवान्। महाराजः तस्य परिचयं प्राप्य—“शकट ! कः अयं वेषः भवतः ?” इति पृष्टवान्।**
** तदा शकटः उक्तवान्— “महाप्रभो ! ह्यः भवान् माम् उक्तवान् यत् मुखं न प्रदर्शयतु इति। सम्भाषणं न करणीयम् इति तु न। आस्थानविदूषकपदव्याम् अन्यः नियोजनीयः इति महाराजः चिन्तयन् अस्ति इति अहं**
श्रुतवान्। इदानीम् अहं निष्कासितः चेत्निराधारःभविष्यामि। अतः आस्थानविदूषकपदवीतःअहं न निष्कासनीयः इति संविनयं प्रार्थयामि” इति।
** शकटस्य स्वरूपं दृष्ट्वा आगच्छन्तं हासं बलात् निरुध्य महाराजः उक्तवान्— “विदर्भदेशात् आगतः विदूषकः दामोदरः अस्माकम् आस्थानविदूषकपदवीम् अलङ्कर्तुम् अर्हः इति भावना आगता अस्ति मम मनसि। किन्तु स्वस्थानरक्षणार्थं भवते एकस्य अवकाशस्य दाने मम तु आक्षेपः नास्ति” इति।**
** “अनुगृहीतः अस्मि। एतदर्थं मया किं करणीयम् इति महाप्रभुः मां सूचयतु” इति विनयेन प्रार्थितवान् शकटः।**
** ‘तर्हि शृणोतु, श्वः भवता राजसभायां दामोदरस्य समीचीना प्रशंसा करणीया। किन्तु आत्मनि हीनभावः अपि न आरोपणीयः। एवं कर्तुं भवान् शक्नोति चेत् भवतः विदूषकपदवी रक्षिता भविष्यति” इतिउक्तवान् शैलेन्द्रवर्मा।**
** अनन्तरदिने राजसभायां विदर्भदेशस्य विदूषकस्य दामोदरस्य स्तुतिं कुर्वन् उक्तवान्— “दामोदरस्य पाण्डित्यम् असदृशम्। राजा मत्सदृशम् अन्यम् उत्तमं कमपि आस्थानविदूषकस्थाने नियोजयितुम् यदि इच्छेत् तर्हि तदर्थं योग्यः दामोदरः एकः एव। किन्तु तथा नियोजनं तु देशप्रेम्णः प्रश्नः” इति।**
** ‘शकटस्य स्थाने अन्यस्य नियोजनस्य का आवश्यकता’ इति सभ्याः न ज्ञातवन्तः। राजा आलोचितवान्— ‘शकटः बुद्धिमत्तया उक्तवान्। दामोदरं श्रेष्ठं वदन् तं स्वसदृशं सूचयन् आत्मनः श्रेष्ठत्वम् अपि निरूपितवान्। देशप्रेम्णः प्रस्तावं कुर्वन् अहम् अन्यं नियोजयितुं यथा न शक्नुयाम् तथा कृतवान्’ इति।**
** अनन्तरं सः तं शकटं पारितोषिकदानेन सत्कृतवान्। दामोदरम् अपि उपायनैः सन्तोष्य प्रेषितवान्।**
विक्रयणकौशलम्
** अभिरामः कश्चन चित्रकारः। धनाभावकारणतः सः कदाचित् स्वकीयम् एकम् उत्तमं चित्रं विक्रयणार्थं स्थापितवान्। तत् चित्रम् अल्पमूल्येन क्रेतुम् अपि कोऽपि उत्साहं न प्रकटितवान्।**
** एषा वार्ता दूरस्थे प्रान्ते स्थितेन विठ्ठलेन अपि ज्ञाता। सः अभिरामस्य आत्मीयः स्नेहितः। अतः सः अभिरामस्य गृहम् आगत्य विक्रयणार्थं स्थापितं तत् चित्रं स्वगृहं नीतवान्। सर्वे यथा पश्येयुः तथा गृहे भित्तौ उत्तोलितवान् च।**
** अनन्तरं सः गृहम् आगतान् उक्तवान्— “विदेशीयात् चित्रकारतः पञ्चाशत्सुवर्णनाणकैः एतत् क्रीतम्” इति। कोऽपि तत् चित्रं क्रेतुम् इच्छति चेत् एषः असमाधानेन वदति– “एतत् विक्रयणार्थं न स्थापितम्” इति।**
** एतस्य चित्रस्य वार्ता पार्श्वग्रामस्थेन भूस्वामिना अपि श्रुता। सः विठ्ठलस्य गृहम् आगत्य आग्रहेण द्विशतं सुवर्णनाणकानि विठ्ठलस्य हस्ते समर्प्य चित्रं नीतवान्।**
** विठ्ठलः अभिरामस्य गृहम् आगत्य तत् धनम् अर्पितवान्। तदा अभिरामः आश्चर्येण पृष्टवान्— “किम् एतत् धनम् ?” इति।**
** “भवतः चित्रस्य मूल्यम् एतत्” इति उक्तवान् विठ्ठलः।**
** “एतावता मूल्येन तत् चित्रं विक्रीतं वा ?” इति परमाश्चर्येण पृष्टवान् अभिरामः।**
** विठ्ठलः हसन् प्रवृत्तं निवेद्य उक्तवान्— “चित्रलेखनार्थं यथा प्रतिभा कौशलं च आवश्यकं तथैव तस्य विक्रयणार्थम् अपि कौशलम् आवश्यकम्” इति।**
विमर्शनम्
** कुमारगिरिराजस्य आस्थाने रामशर्मा नाम कविः आसीत्। रामशर्मा प्रतिभावान् किन्तु विमर्शकानां विषये तस्य सर्वथा अनादरः।**
** ‘काव्यरसिकाः काव्यं पठित्वा तृप्ताः भवन्ति चेत् अलम्। विमर्शनं व्याख्यालेखनम् इत्यादिकं सर्वथा व्यर्थम्’ इति सदा वदति स्म सः।**
** किन्तु राजा कवीन् विमर्शकान् चापि समानेन आदरेण पश्यति। एतत् दृष्ट्वा रामशर्मा असहनां प्रकटयति। कदाचित् प्राप्ते अवकाशे, रामशर्मा राजसभायां स्वकीयं विचारं सुस्पष्टं निरूपितवान् अपि।**
** एकदा राजा रामशर्माणं स्वसमीपम् आहूय उक्तवान्— “कविवर्य ! भवता सद्यः एव किञ्चन काव्यं लिखितं खलु ? तद्विषये गोविन्दपुरस्य भूस्वामी भुजगपतिः किं वदति इति श्रोतव्यम् इति मम इच्छा। अतः तं दृष्ट्वा तदीयम् अभिप्रायं ज्ञात्वा आगच्छति वा भवान् ?” इति।**
** राज्ञः सूचनानुसारं रामशर्मा गोविन्दपुरं गतवान। तत्र भुजगपतिं दृष्ट्वा स्वकाव्यविषये तदीयम् अभिप्रायं पृष्टवान्।**
** भुजगपतिः रामशर्मणः वचनं श्रुत्वा क्षणकालम् आलोच्य उक्तवान्— “कविवर्य ! अहं भवतः काव्यम् एकवारं पठितवान्। काव्यं तु प्रौढम् अस्ति। अतः बहुत्र मया तात्पर्यं न गृहीतम्। तस्य काव्यस्य व्याख्या कापि यदि अभविष्यत् तर्हि वरं स्यात् इति मम अभिप्रायः” इति।**
** रामशर्मा राजधानीं प्रत्यागत्य भुजगपतेः अभिप्रायं महाराजं निवेदितवान्।**
** तदा तराजा उक्तवान्— “एवं तर्हि भवान् देवपुरीम् अपि गत्वा आगच्छतु। तत्र**
वल्लभशर्मा नाम कविः अस्ति। तं दृष्ट्वा भवदीयस्य नूतनकाव्यस्य विषये तदीयम् अभिप्रायं ज्ञात्वा आगच्छतु” इति।
** रामशर्मा वल्लभशर्मणः समीपं गतवान्। आगमनकारणं निवेदितवान् च।**
** तदा वल्लभशर्मा विनयेन निवेदितवान्— “कविवर ! भवदीयं काव्यं श्रेष्ठम् इत्यत्र विमतिः एव नास्ति। रसपोषणविषये तत्र भवता महती प्रतिभा प्रदर्शिता। पात्रचित्रणे भावपोषणे च अपूर्वता दृश्यते। किन्तु तत्र केचन दोषाः अपि सन्ति। उक्तं खलु कालिदासेन– ‘एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः’ इति। अतः स च विषयः गौणः” इति।**
** देवपुरीतःआगतः रामशर्मा वल्लभशर्मणः अभिप्रायं महाराजं निवेदितवान्।**
** तदा महाराजः पुनः रामशर्माणं सूचितवान्— “भवान् एतस्य नगरस्य प्रसिद्धविदुषः शेषाचलशास्त्रिणः अभिप्रायम् अपि सङ्गृह्य आगच्छतु” इति।**
** रामशर्मा शेषाचलशास्त्रिणं दृष्टवान्। रामशर्मणः वचनं श्रुत्वा शेषाचलशास्त्री उक्तवान्— “कविवर्य ! अन्यथा मा चिन्तयतु। स्पष्टवचनार्थं क्षन्तव्यः अहम्। भवतः परिश्रमः इतोऽपि अपर्याप्तः” इति। अनन्तरं काव्ये कुत्र कुत्र पेलवता दृश्यते इति सोदाहरणं प्रदर्शितवान् अपि।**
** गृहम् आगतः रामशर्मा चिन्तनमग्नः जातः– ‘व्याख्यायाः अभावतः भुजगपतिसदृशाः सामान्याः मम काव्यम् अवगन्तुं न शक्नुवन्ति इति ज्ञातम्। वल्लभशर्मणः मेलनेन काव्यस्थाः भाषादोषाः ज्ञाताः। शेषाचलशास्त्रिणः दर्शनेन काव्यरचनायां योग्यं मार्गदर्शनं प्राप्तम्। एवं तर्हि विमर्शनेन महत् प्रयोजनम् अस्ति।**
** रामशर्मणा विमर्शनस्य महत्त्वं सम्यक् अवगतम् इति ज्ञात्वा राजा अतीव सन्तुष्टः। तद्दिनतः रामशर्मा विमर्शकानां विषये अनादरं परित्यक्तवान्।**
वृद्धिप्राप्तिः
** श्रीरङ्गपुरे लक्ष्मणः नाम आपणिकः आसीत्। तस्मिन् ग्रामे अत्यधिकं वाणिज्यम् एतस्य एव आपणे प्रचलति। अतः लक्ष्मणः अचिरात् एव महाधनिकेषु अन्यतमः जातः। किन्तु सः इतरे धनिकः इव धनं कुसीदवाणिज्ये न नियुक्तवान्। एतत् दृष्टवतां बहूनाम् आश्चर्यम्।**
** प्रतिवर्ष लाभरूपेण यावत् प्राप्यते तावत् धनं सः कस्याञ्चित् पेटिकायां सुरक्षितरूपेण स्थापयति। एषः विषयः ग्रामस्थैः सर्वैः ज्ञायते एव।**
** लक्ष्मणस्य गृहस्य पार्श्वे रजनीशः नाम कसीदवणिक् निवसति स्म। सः लक्ष्मणस्य व्यवहारं सुसूक्ष्मं परिशीलयन् आसीत्।**
** एकदा सः लक्ष्मणस्य समीपम् आगत्य पृष्टवान्— “भोः, भवान् वाणिज्ये दक्षः इति तु लोकविदितः विषयः। लाभरूपेण प्राप्तं धनम् एकत्र स्थापयति चेत् किं वा प्रयोजनम् ? यथा वयं कुर्मः तथा तत् धनं कुसीदवाणिज्ये नियोजयतु। तेन भवदीयं मूलधनं तु सुरक्षितं तिष्ठति, वृद्धिः अपि प्राप्यते। इदानीं तु धनं तथैव तिष्ठति। तेन वृद्धिलाभः न भवति खलु” इति।**
** तदा लक्ष्मणः हासपूर्वकम् उक्तवान्— “यथा भवान् चिन्तयति तथा अविवेकी न अहम्। धनं यदा पेटिकायां स्थापयामि तदा तेन सह तस्य कुसीदवाणिज्ये नियोजनेन यावती वृद्धिः प्राप्येत तावत् धनम् अपि अधिकतया स्थापयामि। एवं च मम हानिः कृतः ?” इति।**
]